अध्यायः 323

भीष्मेण युधिष्ठिरंप्रति जनकयाज्ञवल्क्यसंवादानुवादः ॥ 1 ॥

याज्ञवल्क्य उवाच ।
अव्यक्तस्थं परं यत्तत्पृष्टस्तेऽहं नराधिप ।
परं गुह्यमिमं प्रश्नं शृणुष्वावहितो नृप ॥
यथार्षेणेह विधिना चरताऽवमतेन ह ।
मयाऽऽदित्यादवाप्तानि यजूंषि मिथिलाधिप ॥
महता तपसा देवस्तपिष्णुः सेवितो मया ।
प्रीतेन चाहं विभुना सूर्येणोक्तस्तदाऽनघ ॥
वरं वृणीष्व विप्रर्षे यदिष्टं ते सुदुर्लभम् ।
तं ते दास्यामि प्रीतात्मा मत्प्रसादो हि दुर्लभः ॥
ततः प्रणम्य शिरसा मयोक्तस्तपतांवरः ।
यजूंषि नोपयुक्तानि क्षिप्रमिच्छामि वेदितुम् ॥
ततो मां भगवानाह वितरिष्यामि ते द्विज ।
सरस्वतीह वाग्भूता शरीरं ते प्रवेक्ष्यति ॥
ततो मामाह भगवानास्यं स्वं विवृतं कुरु ।
विवृतं च ततो मेऽऽस्यं प्रविष्टा च सरस्वती ॥
ततो विदह्यमानोऽहं प्रविष्टोऽम्भस्तदाऽनघ ।
अविज्ञानादमर्षाच्च भास्करस्य महात्मनः ॥
ततो विदह्यमानं मामुवाच भगवान्रविः ।
मुहूर्तं सह्यतां दाहस्ततः शीतीभविष्यति ॥
शीतीभूतं च मां दृष्ट्वा भगवानाह भास्करः ।
प्रतिभास्यति ते वेदः सखिलः सोत्तरो द्विज ॥
कृत्स्नं शतपथं चैव प्रणेष्यसि द्विजर्षभ ।
तस्यान्ते चाषुनर्भावे बुद्धिस्तव भविष्यति ॥
प्राप्स्यसे च यदिष्टं तत्साङ्ख्ययोगेप्सितं पदम् ।
एतावदुक्त्वा भगवानस्तमेवाभ्यवर्तत ॥
ततोऽनुव्याहृतं श्रुत्वा गते देवे विभावसौ ।
गृहमागत्य संहृष्टोऽचिन्तयं वै सरस्वतीम् ॥
ततः प्रवृत्ताऽतिशुभा स्वरव्यञ्जनभूषिता ।
ओंकारमादितः कृत्वा मम देवी सरस्वती ॥
ततोऽहमर्ध्यं विधिवत्सरस्वत्यै न्यवेदयम् ।
परं यत्नमवाप्यैव निषण्णस्तत्परायणः ॥
ततः शतपथं कृत्स्नं सरहस्यं ससंग्रहम् ।
चक्रे सपरिशेषं च हर्षेण परमेण ह ॥
कृत्वा चाध्ययनं तेषां शिष्याणां शतमुत्तमम् ।
विप्रियार्थं सशिष्यस्य मातुलस्य महात्मनः ॥
ततः सशिष्येण मया सूर्येणेव गभस्तिभिः ।
व्यस्तो यज्ञो महाराज पितुस्तव महात्मनः ॥
मिषतो देवलस्यापि ततोऽर्धं हृतवान्वसु ।
स्ववेददक्षिणायार्थे विमर्दे मातुलेन ह ॥
सुमन्तुनाऽथ पैलेन तथा जैमिनिना च वै ।
पित्रा ते मुनिभिश्चैव ततोऽहमनुमानितः ॥
दश पञ्च च प्राप्तानि यजूंष्यर्कान्मयाऽनघ ।
तथैव रोमहर्षेण पुराणमवधारितम् ॥
बीजमेतत्पुरस्कृत्य देवीं चैव सरस्वतीम् ।
सूर्यस्य चानुभावेन प्रवृत्तोऽहं नराधिप ॥
कर्तुं शतपथं चेदमपूर्वं च कृतं मया ।
यथाभिलपितं मार्गं तथा तच्चोपपादितम् ॥
शिष्याणामखिलं कृत्स्नमनुज्ञातं ससंग्रहम् ।
सर्वे च शिष्याः शुचयो गताः परमहर्षिताः ॥
शाखाः पञ्चदशेमास्तु विद्या भास्करदर्शिता ।
प्रतिष्ठाप्य यथाकामं वेद्यं तदनुचितयम् ॥
किमत्र ब्रह्मण्यमृतं किंच वेद्यमनुत्तमम् ।
चिन्तयंस्तत्र चागत्य गन्धर्वो मामपृच्छत ॥
विश्वावसुस्ततो राजन्वेदान्तज्ञानकोविदः ।
चतुर्विशांस्ततोऽपृच्छत्प्रश्नान्वेदस्य पार्थिव ॥
पञ्चविंशतिमं प्रश्नं पप्रच्छान्वीक्षिकीं तदा । `तथैव पुरुषव्याघ्र मित्रं वरुणमेव च ॥'
ज्ञानं ज्ञेयं तथा ज्ञोऽज्ञः कस्तपा अतपास्तथा ।
सूर्यातिसूर्य इति च विद्याविद्ये तथैव च ॥
वेद्यावेद्यं तथा राजन्नचलं चलमेव च ।
अव्ययं चाक्षरं क्षेम्यमेतत्प्रश्नमनुत्तमम् ॥
अथोक्तश्च महाराज राजा गन्धर्वसत्तमः ।
पृष्टवानानुपूर्व्येण प्रश्नमर्थवदुत्तमम् ॥
मुहूर्तमुष्यतां तावद्यावदेनं विचिन्तये ।
बाढमित्येव कृत्वा स तूर्ष्णीं गन्धर्व आस्थितः ॥
ततोऽनुचिन्तयमहं भूयो देवीं सरस्वतीम् ।
मनसा स च मे प्रश्नो दध्नो धृतमिवोद्धृतः ॥
तत्रोपनिषदं चैव परिशेषं च पार्थिव ।
मथ्नामि मनसा तात दृष्ट्वा चान्वीक्षिकीं पराम् ॥
चतुर्थी राजशार्दूल विद्यैषा सांपरायिकी ।
उदीरिता मया तुभ्यं पञ्चविंशाऽधितिष्ठता ॥
अथोक्तस्तु मया राजन्राजा विश्वावसुस्तदा ।
श्रूयतां यद्भवानस्मान्प्रश्नं संपृष्टवानिह ॥
विश्वाविश्वेति यदिदं गन्धर्वेन्द्रानुपृच्छसि ।
विश्वाव्यक्तं परं विद्याद्भूतभव्यभयंकरम् ॥
त्रिगुणं गुणकर्तृत्वाद्विश्वान्यो निष्कलस्तथा ।
विश्वाविश्वेति मिथुनमेवमेवानुदृश्यते ॥
अव्यक्तं प्रकृतिः प्राहुः पुरुषेति च निर्गुणम् ।
तथैव मित्रं पुरुषं वरुणं प्रकृतिं तथा ॥
ज्ञानं तु प्रकृतिं प्राहुर्ज्ञेयं पुरुषमेव च ।
अज्ञमव्यक्तमित्युक्तं ज्ञस्तु निष्कल उच्यते ॥
कस्तपा अतपाः प्रोक्तः कोसौ पुरुष उच्यते ।
तपास्तु प्रकृतिं प्राहुरतपा निष्कलः स्मृतः ॥
`सूर्यमव्यक्तमित्युक्तमतिसूर्यस्तु निष्कलः । अविद्या प्रोक्तमव्यक्तं विद्या पुरुष उच्यते ॥'
तथैवावेद्यमव्यक्तं वेद्यः पुरुष उच्यते ।
चलाचलमिति प्रोक्तं त्वया तदपि मे शृणु ॥
चलां तु प्रकृतिं प्राहुः कारणं क्षेपसर्गयोः ।
अक्षेपसर्गयोः कर्ता निश्चलः पुरुषः स्मृतः ॥
अज्ञावुभौ ध्रुवौ चैव अक्षयौ चाप्युभावपि ॥
अजौ नित्यावुभौ प्राहुरध्यात्मगतिनिश्चयाः । अक्षयत्वात्प्रजनने अजमत्राहुरव्ययम् ।
अक्षयं पुरुषं प्राहुः क्षयो ह्यस्य न विद्यते ॥
गुणक्षयत्वात्प्रकृतिः कर्तृत्वादक्षयं बुधाः ।
एषा तेऽन्वीक्षिकी विद्या चतुर्थी सांपरायिकी ॥
विद्योपेतं धनं कृत्वा कर्मणा नित्यकर्मणि ।
एकान्तदर्शना वेदाः सर्वे विश्वावसो स्मृताः ॥
जायन्ते च म्रियन्ते च यस्मिन्नेते यतश्च्युताः ।
वेदार्थं ये न जानीते वेद्यं गन्धर्वसत्तम ॥
साङ्गोपाङ्गानपि यदि पञ्च वेदानधीयते ।
वेदवेद्यं न जानीते वेदभारवहो हि सः ॥
यो घृतार्थी खराक्षीरं मथेद्गन्धर्वसत्तम ।
विष्ठां तत्रानुपश्येत न मण़्डं न च वै घृतम् ॥
तथा वेद्यमवेद्यं च वेदविद्यो न विन्दति ।
स केवलं मूढमतिर्वेदभारवहः स्मृतः ॥
द्रष्टव्यौ नित्यमेवैतौ तत्परेणान्तरात्मना ।
यथाऽस्य जन्मनिधने न भवेतां पुनः पुनः ॥
अजस्रं जन्मनिधनं चिन्तयित्वा त्रयीमिमाम् ।
परित्यज्य क्षयमिह अक्षयं धर्ममास्थितः ॥
यदाऽनुपश्यतेऽत्यन्तमहन्यहनि काश्यप ।
तदा स केवलीभूतः षङ्विंशमनुपश्यति ॥
अन्यश्च शाश्वतो व्यक्तस्तथाऽन्यः पञ्चविंशकः ।
तत्स्थं समनुपश्यन्ति तमेकमिति साधवः ॥
तेनैतं नाभिनन्दन्ति पञ्चविंसकमच्युतम् ।
जन्ममृत्युभयाद्योगाः साख्याश्च परमैषिणः ॥
विश्वावसुरुवाच ।
पञ्चविंशं यदेतत्ते प्रोक्तं ब्राह्मणसत्तम ।
तदहं न तथा वेद्मि तद्भवान्वक्तुमर्हति ॥
जैगीषव्यस्यासितस्य देवलस्य मया श्रुतम् ।
पराशरस्य विप्रर्षेर्वार्षगण्यस्य धीमतः ॥
भिक्षोः पञ्चशिखस्यास्य कपिलस्य शुकस्य च ।
गौतमस्याष्टिंषेणस्य गर्गस्य च महात्मनः ॥
नारदस्यासुरेश्चैव पुलस्त्यस्य च धीमतः ।
सनत्कुमारस्य ततः शुक्रस्य च महात्मनः ॥
कश्यपस्य पितुश्चैव पूर्वमेव मया श्रुतम् ।
तदनन्तरं च रुद्रस्य विश्वरूपस्य धीमतः ॥
दैवतेभ्यः पितृभ्यश्च दैतेयेभ्यस्ततस्ततः ।
प्राप्तमेतन्मया कृत्स्नं वेद्यं नित्यं वदन्त्युत ॥
तस्मात्तद्वै भवद्बुद्ध्या श्रोतुमिच्छामि ब्राह्मण ।
भवान्प्रबर्हः शास्त्राणां प्रगल्भश्चातिबुद्धिमान् ॥
न तवाविदितं किंचिद्भवाञ्श्रुतिनिधिः स्मृतः ।
कथ्यसे देवलोके च पितृलोके च ब्राह्मण ॥
ब्रह्मलोकगताश्चैव कथयन्ति महर्षयः ।
पतिश्च तपतां शश्वदादित्यस्तव भाषिता ॥
साङ्ख्यज्ञानं त्वया ब्रह्मन्नवाप्तं कृत्स्नमेव च ।
तथैव योगशास्त्रं च याज्ञवल्क्य विशेषतः ॥
निःसंदिग्धं प्रबुद्धस्त्वं बुध्यमानश्चराचरम् ।
श्रोतुमिच्छामि तज्ज्ञानं घृतं मण्डमयं यथा ॥
याज्ञवल्क्य उवाच ।
कृत्स्नधारिणमेव त्वां मन्ये गन्धर्वसत्तम ।
जिज्ञासमे च मां राजंस्तन्निबोध यथाश्रुतम् ॥
बुध्यमानो हि प्रकृतिं बुध्यते पञ्चविंशकः ।
न तु बुध्यति गन्धर्वप्रकृतिः पञ्चविंशकम् ॥
अनेन प्रतिबोधेन प्रधानं प्रवदन्ति तत् ।
साङ्ख्ययोगार्थतत्त्वज्ञा यथ्नाश्रुतिनिदर्शनात् ॥
पश्यंस्तथैव चापश्यन्पश्यत्यन्यः सदाऽनघ ।
षङ्विंशं पञ्चविंशं च चतुर्विशं च पश्यति ॥
न तु पश्यति पश्यंस्तु यश्चैनमनुपश्यति ।
पञ्चविंशोऽभिमन्येत नान्योऽस्ति परतो मम ॥
न चतुर्विशको ग्राह्यो मनुजैर्ज्ञानदर्शिभिः ।
मत्स्यो वोदकमन्वेति प्रवर्तेत प्रवर्तनात् ॥
यथैव बुध्यते मत्स्यस्तथैषोऽप्यनुबुध्यते ।
स स्नेहात्सहवासाच्च साभिमानाच्च नित्यशः ॥
स निमज्जति कालस्य यदैकत्वं न बुध्यते ।
उन्मज्जति हि कालस्य समत्वेनाभिसंवृतः ॥
यदा तु मन्यतेऽन्योऽहमन्य एष इति द्वजिः ।
तदा स केवलीभूतः षङ्विंशमनुपश्यति ॥
अन्यश्च राजन्परमस्तथाऽन्यः पञ्चविंशकः ।
तत्स्थत्वादनुपश्यन्ति एक एवेति साधवः ॥
तेनैतन्नाभिनन्दन्ति पञ्चविंशकमच्युतम् । जन्ममृत्युभयाद्भीता योगाः साङ्ख्याश्च काश्यप ।
षङ्विंशमनुपश्यन्तः शुचयस्तत्परायणाः ॥
यदा स केवलीभूतः षङ्विंशमनुपश्यति ।
तदा स सर्वविद्विद्वान्न पुनर्जन्म विन्दति ॥
एवमप्रतिबुद्धश्च बुध्यमानश्च तेऽनघ ।
बुद्धिश्चोक्ता यथातत्त्वं मया श्रुतिनिदर्शनात् ॥
पश्यापश्यं यो न पश्येत्क्षेम्यं तत्वं च काश्यप ।
केवलाकेवलं चान्यत्पञ्चविंशं परं च यत् ॥
विश्वावसुरुवाच ।
तथ्यं शुभं चैतदुक्तं त्वया विभो । सम्यक्क्षेम्यं दैवताद्यं यथावत् ।
स्वस्त्यक्षयं भवतश्चास्तु नित्यं बुद्ध्या सदा बुद्धियुक्तं नमस्ये ॥
याज्ञवल्क्य उवाच ।
एवमुक्त्वा संप्रयातो दिवं स विभ्राजन्वै श्रीमता दर्शनेन ।
दृष्टश्च तुष्ट्या परयाऽभिनन्द्य प्रदक्षिणं मम कृत्वा महात्मा ॥
ब्रह्मादीनां खेचराणां क्षितौ च ये चाधस्तात्संवसन्ते नरेन्द्र ।
तत्रैव तद्दर्शनं दर्शयन्वै सम्यक्क्षेम्यं ये पथं संश्रिता वै ॥
साङ्ख्याः सर्वे साङ्ख्यधर्मे रताश्च तद्वद्योगा योगधर्मे रताश्च ।
ये चाप्यन्ये मोक्षकामा मनुष्या स्तेषामेतद्दर्शनं ज्ञानदृष्टम् ॥
ज्ञानान्मोक्षो जायते राजसिंह नास्त्यज्ञानादेवमाहुर्नरेन्द्र ।
तस्माज्ज्ञानं तत्त्वतोऽन्तेषितव्यं येनात्मानं मोक्षयेज्जन्ममृत्योः ॥
प्राप्य ज्ञानं ब्राह्मणात्क्षत्रियाद्वा वैश्याच्छ्रद्रादपि नीचादभीक्ष्णम् ।
श्रद्धातव्यं श्रद्दधानेन नित्यं न श्रद्धिनं जन्ममृत्यू विशेताम् ॥
सर्वे वर्णा ब्राह्मणा ब्रह्मजाश्च सर्वे नित्यं व्याहरन्ते च ब्रह्म ।
` येनात्मानं मोक्षयेज्जन्ममृत्यो स्तत्त्वं शास्त्रं ब्रह्मबुद्ध्या ब्रवीमि ।' तत्त्वं शास्त्रं ब्रह्मबुद्ध्या ब्रवीमि सर्वं विश्वं ब्रह्म चैतत्समस्तम् ॥
ब्रह्मास्यतो ब्राह्मणाः संप्रसूता बाहुभ्यां वै क्षत्रियाः संप्रसूताः ।
नाभ्यां वैश्याः पादतश्चापि शूद्राः सर्वे वर्णा नान्यथा वेदितव्याः ॥
अज्ञानतः कर्मयोनिं भजन्ते तांतां राजंस्ते यथा यान्त्यभावम् ।
तथा वर्णा ज्ञानहीनाः पतन्ते घोरादज्ञानात्प्राकृतं योनिजालम् ॥
तस्माज्ज्ञानं सर्वतो मार्गितव्यं सर्वत्रस्थं चैतदुक्तं मया ते ।
तत्स्थो ब्रह्मा तस्थिवांश्चापरो य स्तस्मै नित्यं मोक्षमाहुर्नरेन्द्र ॥
यत्ते पृष्टं तन्मया चोपदिष्टं याथातथ्यं तद्विशोको भजस्व ।
राजन्गच्छस्वैतदर्थस्य पारं सम्यक्प्रोक्तं स्वस्ति ते त्वस्तु नित्यम् ॥
भीष्म उवाच ।
स एवमनुशिष्टस्तु याज्ञवल्क्येन धीमता ।
प्रीतिमानभवद्राजा मिथिलाधिपतिस्तदा ॥
गते मुनिवरे तस्मिन्कृते चापि प्रदक्षिणम् ।
दैवरातिर्नरपतिरासीनस्तत्र मोक्षवित् ॥
गोकोटिं स्पर्शयामास हिरण्यस्य तथैव च ।
रत्नाञ्जलिमथैकैकं ब्राह्मणेभ्यो ददौ तदा ॥
वेदहराज्यं च तदा प्रतिष्ठाप्य सुतस्य वै ।
यतिधर्ममुपास्यंश्चाप्यवसन्मिथिलाधिपः ॥
साङ्ख्यज्ञानमधीयानो योगशास्त्रं च कृत्स्नशः ।
धर्माधर्मं च राजेन्द्र प्राकृतं परिगर्हयन् ॥
अनन्त इति कृत्वा स नित्यं केवलमेव च ।
धर्माधर्मौ पुण्यपापे सत्यासत्ये तथैव च ॥
जन्ममृत्यू च राजेन्द्र प्राकृतं तदचिन्तयत् ।
ब्रह्माव्यक्तस्य कर्मेदमिति नित्यं नराधिप ॥
पश्यन्ति योगाः साङ्ख्याश्च स्वशास्त्रकृतलक्षणाः ।
इष्टानिष्टविमुक्तं हि तस्थौ ब्रह्म परात्परम् ॥
नित्यं तदाहुर्विद्वांसः शुचि तस्माच्छुचिर्भव ।
दीयते यच्च लभते दत्तं यच्चानुमन्यते ॥
`अव्यक्तेनेति तच्चिन्त्यमन्यथा मा विचन्तय ।' ददाति च नरश्रेष्ठ प्रतिगृह्णाति यच्च ह ।
ददात्यव्यक्त इत्येतत्प्रतिगृह्णाति यच्च वै ॥
आत्मा ह्येवात्मनो ह्येकः कोऽन्यस्तस्मात्परो भवेत् ।
एवं मन्यस्व सततमन्यथा मा विचिन्तय ॥
यस्याव्यक्तं न विदितं सगुणं निर्गुणं पुनः ।
तेन तीर्थानि यज्ञाश्च सेवितव्या विपश्चिता ॥
न स्वाध्यायैस्तपोभिर्वा यज्ञैर्वा कुरुनन्दन ।
लभतेऽव्यक्तिकं स्थानं ज्ञात्वाऽव्यक्तं महीयते ॥
तथैव महतः स्थानमाहंकारिकमेव च ।
अहंकारात्परं चापि स्थानानि समवाप्नुयात् ॥
ये त्वव्यक्तात्परं नित्यं जानते शास्त्रतत्पराः ।
जन्ममृत्युविमुक्तं च विमुक्तं सदसच्च यत् ॥
एतन्मयाऽऽप्तं जनकात्पुरस्ता त्तेनापि चाप्तं नृप याज्ञवल्क्यात् ।
ज्ञातं विशिष्टं न तथा हि यज्ञा ज्ञानेन दुर्गं तरते न यज्ञैः ॥
दुर्गं जन्म निधनं चापि राज न्न भौतिकं ज्ञानविदो वदन्ति ।
यज्ञैस्तपोभिर्नियमैर्व्रतैश्च दिवं समासाद्य पतन्ति भूमौ ॥
तस्मादुपासस्व परं महच्छुचि शिवं विमोक्षं विमलं पवित्रम् ।
क्षेत्रं ज्ञात्वा पार्थिव ज्ञानयज्ञ मुपास्य वै तत्त्वमृषिर्भविष्यसि ॥
युदुपनिषदमुपाकरोत्तथाऽसौ जनकनृपस्य पुरा हि याज्ञवल्क्यः ।
यदुपगणितशाश्वताव्ययं त च्छुभममृतत्वमशोकमर्च्छति ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि त्रयोविंशत्यधिकत्रिशततमोऽध्यायः ॥ 323 ॥

12-323-2 चरतावनतेन हेति झ. ध. पाठः ॥ 12-323-3 देवः सविता तोषितो मयेति ध. पाठः ॥ 12-323-7 मेऽऽस्यं ममास्यम् । संधिरार्षः ॥ 12-323-8 मातुलस्य महात्मन इति ट. ड. ध. पाठः ॥ 12-323-9 प्रतिष्ठास्यति ते वेद इति झ. ध. पाठः । शीतीभविष्यतित्वद्देह इति शेषः ॥ 12-323-10 परशाखीयं स्वशाखायामपेक्षावशात् पठ्यते तत्खिलमित्युच्यते । सोत्तरः सोपनिषत्कः ॥ 12-323-11 अपुनर्भावे मोक्षे ॥ 12-323-16 चक्रे कर्मकर्तरि प्रयोगःष । स्वयमेवाविरभूदित्यर्थः ॥ 12-323-17 मातुलस्य वैशंपायनस्य ॥ 12-323-19 ततोर्ध्यं कृतवानहमिति ट. ड. थ. पाठः । देवलस्य मातुलपक्षीयस्य मिषतः पश्यतः पुरस्तात् । अर्थे अर्थनिमित्तं मातुलादिभिः सह विमर्दे सति समं विभज्य ग्राह्यमिति निर्बन्धे सति देवलसंमत्याहं दक्षिणाया अर्धं हृतवान् स्वीकृतवानित्यर्थः । दक्षिणायार्थे इति संधिरार्षः ॥ 12-323-23 कर्तुं प्रकटीकर्तुम् ॥ 12-323-26 ब्रह्मण्यं ब्राह्मणजातेहिंतम् ॥ 12-323-28 विश्वाविश्वं तथाश्वाश्वं मित्रं वरुणमेव चेति झ. पाठः ॥ 12-323-29 सूर्यातिसूर्यमिति चेति ट. थ. पाठः ॥ 12-323-37 विश्वमव्यक्तमित्युक्तमविश्वो निष्कलस्तथेति ट. ड. थ. पाठः ॥ 12-323-38 अश्वश्चाश्वा च मिथुनमिति झ. पाठः ॥ 12-323-40 अज्ञश्च ज्ञश्च पुरुषस्तस्मान्निष्कल इति ध. पाठः ॥ 12-323-48 विद्यापेतं धनं कृत्वेति ट. थ. पाठः । विद्योपेतं मनः कृत्वेति ड. पाठः । विद्यामेतां धनं कृत्वेति ध. पाठः ॥ 12-323-56 तस्माद्द्वावनुपश्येतिति ध. पाठः । तस्य द्वावनुपश्येतामिति झ. पाठः ॥ 12-323-69 कुत्स्नहारिणमेव त्वामिति ट. ड. थ. पाठः ॥ 12-323-70 अबुध्यमानः प्रकृतिमिति ड. पाठः ॥ 12-323-96 त्पर्शयामास ददौ ॥