अध्यायः 174

अथ दानधर्मपर्व ॥ 1 ॥

बृहस्पतिना युधिष्ठिरंप्रति पश्चात्तापादेर्ब्राह्मणेभ्योऽन्नदानस्य च पापपरिहारोपायत्वकथनम् ॥ 1 ॥

युधिष्ठिर उवाच ।

अधर्मस्य गतिर्ब्रह्मन्कथिता मे त्वयाऽनघ ।
धर्मस्य तु गतिं श्रोतुमिच्छामि वदतांवर ॥
कृत्वा कर्माणि पापानि कथं यान्ति शुभां गतिम् ।
कर्मणा च कृतेनेह केन यान्ति शुभां गतिम् ॥
बृहस्पतिरुवाच ।
कृत्वा पापानि कर्माणि अधर्मवशमागतः ।
मनसा विपरीतेन निरयं प्रतिपद्यते ॥
मोहादधर्मं यः कृत्वा पुनः समनुतप्यते ।
मनःसमाधिसंयुक्तो न स सेवेत दुष्कृतम् ॥
[यथायथा मनस्तस्य दुष्कृतं कर्म गर्हते ।
तथातथा शरीरं तु तेनाधर्मेण मुच्यते ॥
यदि व्याहरते राजन्विप्राणां धर्मवादिनाम् । ततोऽधर्मकृतात्क्षिप्रमपवादात्प्रमुच्यते ॥]
यथायथा नरः सम्यगध्रममनुभाषते । समाहितेन मनसा विमुच्येत तथातथा ।
भुजङ्ग इव निर्मोकात्पूर्वभुक्ताज्जरान्वितात् ॥
दत्त्वा विप्रस्य दानानि विविधानि समाहितः ।
मनःसमाधिसंयुक्तः सुगतिं प्रतिपद्यते ॥
प्रदानानि तु वक्ष्यामि यानि दत्त्वा युधिष्ठिर ।
नरः कृत्वाऽप्यकार्याणि ततो धर्मेण युज्यते ॥
सर्वेषामेव दानानामन्नं श्रेष्ठमुदाहृतम् ।
पूर्वमन्नं प्रदातव्यमृजुना धर्ममिच्छता ॥
प्राणा ह्यन्नं मनुष्याणां तस्माज्जन्तुश्च जायते ।
अन्ने प्रतिष्ठितो लोकस्तस्मादन्नं प्रशस्यते ॥
अन्नमेव प्रशंसन्ति देवर्षिपितृमानवाः ।
अन्नस्य हि प्रदानेन स्वर्गमाप्नोति मानवः ॥
न्यायलब्धं प्रदातव्यं द्विजातिभ्योऽन्नमुत्तमम् ।
स्वाध्यायसमुपेतेभ्यः प्रहृष्टेनान्तरात्मना ॥
यस्य ह्यन्नमुपाश्नन्ति ब्राह्मणानां शतं दश ।
हृष्टेन मनसा दत्तं न स तिर्यग्गतिर्भवेत् ॥
ब्राह्मणानां सहस्राणि दश भोज्य नरर्षभ ।
नरोऽधर्मात्प्रमुच्येत योगेष्वभिरतः सदा ॥
भैक्ष्येणान्नं समाहृत्य दद्यादन्नं द्विजेषु वै ।
सुवर्णदानात्पापानि नश्यन्ति सुबहून्यपि ॥
दत्त्वा वृत्तिकरीं भूमिं पातकेनापि मुच्यते ।
पारायणैश्च वेदानां मुच्यते पातकैर्द्विजः ॥
गायत्र्याश्चैव लक्षेण गोसहस्रस्य तर्पणात् ।
वेदार्थं ज्ञापयित्वा तु शुद्धान्विप्रान्यथार्थतः ॥
सर्वत्यागादिभिश्चैव मुच्यते पातकैर्द्विजः ।
सर्वातिथ्यं परं ह्येषां तस्माद्दानं परं स्मृतम् ॥
अहिंसन्ब्राह्मणस्वानि न्यायेन परिपाल्य च ।
क्षत्रियस्तरसा प्राप्तमन्नं यो वै प्रयच्छति ॥
द्विजेभ्यो वेदवृद्धेभ्यः प्रयतः सुसमाहितः ।
तेनापोहति धर्मात्मन्दुष्कृतं कर्म पाण्डव ॥
षड्भागपरिशुद्धं च कृषेर्भागमुपार्जितम् ।
वैश्योऽददद्द्विजातिभ्यः पापेभ्यः परिमुच्यते ॥
अवाप्य प्राणसंदेहं कार्कश्येन समार्जितम् ।
अन्नं दत्त्वा द्विजातिभ्यः शूद्रः पापात्प्रमुच्यते ॥
औरसेन बलेनान्नमर्जयित्वाऽविहिंसकः ।
यः प्रयच्छति विप्रेभ्यो न स दुर्गाणि पश्यति ॥
न्यायेनैवाप्तमन्नं तु नरो हर्षसमन्वितः ।
द्विजेभ्यो वेदवृद्धेभ्यो दत्त्वा पापात्प्रमुच्यते ॥
अन्नमूर्जस्करं लोके दत्त्वोर्जस्वी भवेन्नरः ।
सतां पन्थानमावृत्य सर्वपापैः प्रमुच्यते ॥
`शूद्रान्नं नैव भोक्तव्यं विप्रैर्धर्मपरायणैः ।
आपद्येव स्वदासानां भोक्तव्यं स्वयमुद्यतैः ॥
दानवद्भिः कृतः पन्था येन यान्ति मनीषिणः ।
ते हि प्राणस्य दातारस्तेभ्यो धर्मः सनातनः ॥
सर्वावस्थं मनुष्येण न्यायेनान्नमुपार्जितम् ।
कार्यं पात्रागतं नित्यमन्नं हि परमा गतिः ॥
अन्नस्य हि प्रदानेन नरो रौद्रं न सेवते ।
तस्मादन्नं प्रदातव्यमन्यायपरिवर्जितम् ॥
यतेद्ब्राह्मणपूर्वं हि भोक्तुमन्नं गृही सदा ।
अवन्ध्यं दिवसं कुर्यादन्नपानीयदानतः ॥
भोजयित्वा दशशतं नरो वेदविदां नृप ।
न्यायविद्धर्मविदुषामितिहासविदां तथा ॥
न याति नरकं घोरं संसारांश्च न सेवते ।
सर्वकामसमायुक्तः प्रेत्य चाप्यश्नुते सुखम् ॥
एवं सुखसमायुक्तो रमते विगतज्वरः ।
रूपवान्कीर्तिमांश्चैव धनवांश्चोपपद्यते ॥
एतत्ते सर्वमाख्यातमन्नदानफलं महूत् ।
मूलमेतत्तु धर्माणां प्रदानानां च भारत ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चतुःसप्तत्यधिकशततमोऽध्यायः ॥ 117 ॥

7-174-12 प्रदानेन रन्तिदेवो दिवं गतः इति झ.पाठः ॥

श्रीः