अध्यायः 052

अग्नौ सर्पपतनम् ॥ 1 ॥

सौतिरुवाच ।
ततः कर्म प्रववृते सर्पसत्रविधानतः ।
पर्यक्रामंश्च विदिवत्स्वे स्वे कर्मणि याजकाः ॥
प्रावृत्य कृष्णवासांसि धूम्रसंरक्तलोचनाः ।
जुहुवुर्मन्त्रवच्चैव समिद्धं जातवेदसम् ॥
कम्पयन्तश्च सर्वेषामुरगाणां मनांसि च ।
सर्पानाजुहुवुस्तत्र सर्वानग्निमुखे तदा ॥
ततः सर्पाः समापेतुः प्रदीप्ते हव्यवाहने ।
विचेष्टमानाः कृपणमाह्वयन्तः परस्परम् ॥
विस्फुरन्तः श्वसन्तश्च वेष्टयन्तः परस्परम् ।
पुच्छैः शिरोभिश्च भृशं चित्रभानुं प्रपेदिरे ॥
श्वेताः कृष्णाश्च नीलाश्च स्थविराः शिशवस्तथा ।
नदन्तो विविधान्नादान्पेतुर्दीप्ते विभावसौ ॥
क्रोशयोजनमात्रा हि गोकर्णस्य प्रमाणतः ।
पतन्त्यजस्रं वेगेन वह्नावग्निमतां वर ॥
एवं शतसहस्राणि प्रयुतान्यर्बुदानि च ।
अवशानि विनष्टानि पन्नगानां तु तत्र वै ॥
तुरगा इव तत्रान्ये हस्तिहस्ता इवापरे ।
मत्ता इव च मातङ्गा महाकाया महाबलाः ॥
उच्चावचाश्च बहवो नानावर्णा विषोल्बणाः । घोराश्च परिघप्रख्या दन्दशूका महाबलाः ।
प्रपेतुरग्नावुरगा मातृवाग्दण्डपीडिताः ॥ ॥

इति श्रीमन्माहाभारते आदिपर्वणि आस्तीकपर्वणि द्विपञ्चाशत्तमोऽध्यायः ॥ 52 ॥

1-52-1 पर्यक्रामन् पराक्रान्तवन्तः ॥ 1-52-2 मन्त्रवन्मन्त्रयुक्तं यथा स्यात्तथा ॥ 1-52-3 आजुहुवुः आहूतवन्तः ॥ 1-52-5 चित्रभानुमग्निम् ॥ 1-52-7 प्रमाणतः प्रमाणं प्राप्य ॥ द्विपञ्चाशत्तमोऽध्यायः ॥ 52 ॥