1

प्रथमे नयप्रवेशे

प्रमाणप्रवेशे प्रत्यक्षपरिच्छेदः ।


सिद्धि1प्रदं प्रकटिताखिलवस्तुतत्त्वमानन्दमन्दिरमशेषगुणैकपात्रम् ।

श्रीमज्जिनेन्द्रम2कलङ्कमनन्त3वीर्यमानम्य लक्षणपदं प्रवरं प्रवक्ष्ये ॥ १ ॥

यज्ज्ञानोदधिमध्यमुन्नतमिदं विश्वं प्रपञ्चाञ्चि4तम्,

प्राप्याभाति विचित्ररत्ननिचयप्रख्यं प्रभाभासुरम् ।

श्रीचिन्तामणिसुप्र5भेन्दुसदृशः शास्त्रप्रबन्धश्चिरम्,

जीयात्सोऽत्र कु6तर्कदर्पदलनो भव्याब्जतेजोनिधिः ॥ २ ॥

माणिक्यनन्दिप7दमप्रतिमप्रबोधम्, व्याख्याय बोधनिधिरेष पुनः प्रबन्धः ।

प्रारभ्यते सकलसिद्धिविधौ8 समर्थे, मूले प्रकाशितजगत्त्रयवस्तुसार्थे ॥ ३ ॥

2
बोधः कोप्यसमः समस्तविषयः प्राप्याऽकलङ्कं प9दम्,

जातस्तेन समस्तवस्तुविषयं व्याख्यायते तत्पद10म् ।

किन्न श्रीगणभृत् जिनेन्द्रपदतः प्राप्तप्रभावः स्वयम्,

व्याख्यात्यप्रतिमं वचो जिनपतेः सर्वात्मभा11षात्मकम् ॥ ४ ॥

येषां12 न्यायमहोद13धौ प्रतरणे वाञ्छास्ति सद्धीमताम्,

नौतुल्यं निखिलार्थसाधनमिदं प्रारभ्यते तान् प्रति ।

14ये तु स्वान्ततमस्तरङ्गतरलावर्तभ्रमभ्रामिताः,

ते दोषेक्षणतत्पराः पदमपि प्राप्तुं न तत्र क्षमाः ॥ ५ ॥

श्रीमन्न्या15यमहार्णवस्य 16निखिलप्रमेयरत्नसन्दर्भगर्भस्यावगाहनमव्युत्पन्नप्रज्ञैः कर्त्तुमशक्य
मिति सङ्क्षेपतस्तद्व्युत्पादनाय तदवगाहने पोतप्रख्यप्रकरणमिदमाचा17र्यः प्राह । तत्र शास्त्र
स्यादौ शास्त्रकारो निर्विघ्नेन शास्त्रपरिस18माप्त्यादिकं फलमभिलषन्निष्टदेवताविशेषं नमस्करोति–


धर्मतीर्थकरेभ्योऽस्तु स्याद्वादिभ्यो नमोनमः ।

19ऋषभादिमहावीरान्तेभ्यः स्वात्मोषलब्धये ॥ १ ॥

20


3

कारिकार्थ–


धर्मः सद्वेद्यशुभायुर्नामगोत्रलक्षणं पुण्य21म्, उत्तमक्षमादिस्वरूपो वा22, तत्साध्यः कर्त्तृशु
भफलदः पुद्गलपरिणामो वा23, जीवादिवस्तुनो यथावस्थित24स्वभावो वा । न पुनः
परपरिकल्पित आत्मविशेष25गुणः, द्रव्यगुणकर्मलक्षणो वा26, प्रकृतिपरिणाम
विशेषो वा27, अचेतन28स्वभावो वा, तस्याऽग्रे यथास्थानं निराकरिष्यमाण
त्वात् । स एव तीर्थं संसारार्णवोत्तरणहेतुत्वात्, तस्य वा तीर्थम् आगमस्तदवगाहनहेतु
त्वात्, तत् कृतवन्तोऽनुष्ठितवन्तः उपदिष्टवन्तश्च ये29 ऋषभादिमहावीरान्ता भगवन्त
स्तेभ्यो नमोनमः अस्तु इत्याभीक्ष्ण्यप्रयोगेणात्यर्थं नमस्क्रियायां व्यापृतमात्मानं दर्श
यति । पुनरपि किंविशिष्टेभ्यः ? स्याद्वादिभ्यः, 30स्याच्छब्दोऽनेकान्तार्थः, स्यात्
4 स्व31पररूपादिना सदसदाद्यनेकान्तात्मकं वस्तु वदन्तीत्येवंशीलास्तेभ्यः । किमर्थं तेभ्यो नमोन
मोस्तु ? इत्याह–स्वात्मोषलब्धये स्वस्य नमस्कर्त्तु आत्मा नास्तिकतापरिहारादिविशिष्टं
स्वरूपम्, तस्य उपलब्धये सकलजनप्रतीतये । अथवा, स्वस्य नमस्कर्त्तुरात्मनोऽनन्तज्ञानादि
स्वरूपस्य उपलब्धये सिद्धये सिद्धिः स्वात्मोषलब्धिः स॰ सिद्ध भ॰ श्लो॰ १ इत्यभिधानात् ।


ननु चैकस्यापीष्टदेवताविशेषस्य नमस्कारकरणान्नास्तिकतापरिहारादिप्रयोजनप्रसिद्धेरशेषस्य
तत्करणप्रयासो निष्प्रयोजन इति चेत्; तन्न, अशेषेष्टदेवताविशेषसंस्तवनस्य अशेषविघ्नविनाशेन
अशेषप्रमाण-प्रमेय-नय-निक्षेपनिरूपणपरिसमाप्तिप्रयोजनेन सप्रयोजनत्वात् । न खलु निखि32लं
प्रमाणादिप्ररूपणं निखिलविघ्नविनाशव्यतिरेकेण सिद्धिमध्यास्ते, निखिलविघ्नविनाशोऽप्यखिलेष्ट
देवतासंस्तव33नव्यतिरेकेण । अथवा सर्वेषामप्यविशेषतो विघ्नविनाशनिमित्तत्वख्यापनार्थं तत्क
रणम्, उक्तविशेषणविशिष्टेष्टदेवताविशेषस्य इयत्ताख्यापनार्थ वा । अस्तु नामैतत्; तथापि–अन
न्तगुणोदधिस्वरूपाणां भगवतामनन्तगुणसद्भावे किमित्येतद्गुणद्वयद्वारेण संस्तवनम् ? इत्य34
प्यचोद्यम्; शास्त्रकृतस्तद्गुणार्थित्वात्, यो य35द्गुणार्थी स तद्गुणोपेतं पुरुषविशेषं नमस्कुर्वा
णो दृष्टः यथा कश्चिद्धनुर्वेदपरिज्ञानार्थी तत्परिज्ञानगुणोपेतम्, धर्मतीर्थकरत्व-स्याद्वादित्वगुणार्थी
चायं शास्त्रकार इति ।


ननु क्षणिक-नित्यत्वादि-यथावस्थितवस्तुस्वभाववादित्वात् सुगतेश्वरकपिलब्रह्मणामेव धर्म
तीर्थकरत्वम्, अतस्त एव शास्त्रस्यादौ वन्द्या तत्प्रणीतमेव च प्रमाणादिलक्षणं तत्र36 व्युत्पादना
र्हम् इत्याशङ्क्य स्वप्रमाणादिलक्षणवर्त्मनि37 कण्टकशुद्ध्यर्थं निराकुर्वन्नाह–


सन्तानेषु निरन्वयक्षणिकचित्तानामसत्स्वेव चेत्,

तत्त्वाहेतुफलात्मनां स्वपरसङ्कल्पेन बुद्धः स्वयम् ।

सत्त्वार्थं व्यवतिष्ठते करुणया मिथ्याविकल्पात्मकः,

स्यान्नित्त्यत्ववदेव तत्र समये नार्थक्रिया वस्तुनः ॥ २ ॥

38


कारिकार्थ


निरन्वयक्षणिकचित्तानाम् अन्योन्यविलक्षणक्षणिकज्ञानाना सन्तानेषु सन्त
तिषु, कथंभूतेषु ? असत्स्वेव अविद्यमानेष्वेव, असत्त्वं च
तेषां प्रमाणतोविचार्यमाणानामनुपपद्यमानत्त्वात्सिद्धम्, तदनुपपद्यमा
नत्वं चानन्तरमेव समर्थयिष्यते । ननु माभूवंस्तत्सन्ताना तच्चित्तानि तु
5 कार्यकारणभावप्रबन्धेन प्रवर्त्तमानानि भविष्यन्ति इत्यत्राह–तत्त्वाहेतुफलात्मनां तत्त्वेन
परमार्थेन अहेतुफलभूतः अकार्यकारणभूतः आत्मा स्वरूपं येषां तेषां तथाभूतानां तच्चित्तानां
सन्तानेषु असत्स्वेव सत्सु, चेत् यदि वुद्धः स्वयम् आत्मना व्यवतिष्ठते–स्थितिं
लभते, केन ? स्वपरसङ्कल्पेन स्वपरयोः स39ङ्कल्पः असतोः सन्तौ इत्यवसायः तेन, किमर्थं
व्यवतिष्ठत इत्याह–सत्त्वार्थं दुःखाद् दुःखहेतोर्वा विनेयजनोद्धरणार्थम्, कया ? करुणया
तदुक्तम्–


नि40र्वाणेऽपि परे प्राप्ते कृपार्द्रीकृतचेत41साम् ।

तिष्ठ42न्त्येव43 पराधीना येषां44 तु महती कृपा45 इति ।

स इत्थंभूतो बुद्धः असति वस्तुनि सत्त्वाध्यवसायवान् नैव धर्मतीर्थकरो यथावस्थित
वस्तुस्वभाववादित्वाभावाद् ईश्वरकपिलब्रह्मवत्, किन्तु मिथ्याविकल्पात्मक एव मिथ्या
असत्यो यो विकल्पः संवृत्य46परनामा तदात्मक एव, किंवत् ? नि47त्यत्ववत्–यथा नित्यत्व
मीश्वर-कपिल-ब्रह्म48णाम् तत्प्रणीततत्त्वस्य च 49यत् परैः प्रति50ज्ञातं तत् मिथ्याविकल्पात्मकमेव,
न पुनः परमार्थतोऽस्ति तथा 51बुद्धोऽपि इति । नन्वस्य 52सर्वस्याऽभ्युपगमान्न दोष इति प्रतिभासा
द्वैत53वादी, तं प्रति तत्र इत्याद्याह । तत्र54 तस्मिन् प्रतिभासाद्वैतवाद्यभ्युपगते, कस्मिन् ?
समये संगतः सकलविज्ञानव्यक्तितादात्म्येन स्थितः अयः प्रतिभासस्तस्मिन् समये नार्थ
क्रिया
अनुभवः अन्त्या तावदियमर्थक्रिया यदुत स्वविषयविज्ञानोत्पादनं ना55
इत्यभिधानात् । सा न, कस्य ? वस्तुनः अद्वयपदार्थस्य । वस्तु56तः इति च क्वचित्
6 पाठः । तत्रापि वस्तुतः परमार्थतो न57, संवृत्या तु स्यात् । यथा च नित्य-क्षणिकैकान्ते
ऽद्वैते चार्थक्रिया नोपपद्यते त58थाग्रे प्रतिपादयिष्यते । अतो बुद्धादिव59त् प्रतिभासाद्वैतमपि
मिथ्याविकल्पात्मकमेव ।


योप्याह60–प्रमाणादिलक्षणपरीक्षार्थं शास्त्रमिदमारभ्यते, नचासत्प्रमाणा61देः परीक्षा घटते,
तदसत्त्वं च सर्वप्रत्ययानां निरालम्बनतया स्वप्नप्रत्ययतुल्यत्वात्इति, तन्मतमपाकर्त्तुमाह–
तत्र इत्यादि । तत्र तस्मिन् परोप62गते समये समः सदृशो जाग्रत्स्वप्नदशासाधारणोऽयो
बोधः 63कन्ध्वादित्वादकारस्य पररूपत्वम् तस्मिन्, किम् ? इत्याह–नार्थक्रिया इति ।
अर्थग्रहणमुपलक्षणं तेन अनर्थस्यापि ग्रहणम् । तत्र64 अर्थः क्षणिकनिरंशज्ञानमात्रम् तस्य तेन
अर्थ्यमानत्वात्, त65तोऽन्यःअनर्थः विपर्ययात्, तयोः क्रिया हानोपादानलक्षणा सा न स्यात्;
नह्यर्थस्योपादानमनर्थस्य च परिहारः सर्वज्ञानानां समत्वे युक्त इत्यग्रे प्रतिपादयिष्यते । कथं
सा न स्यात् ? इत्याह–वस्तुतःवस्तुनः परमार्थेन । वस्तुनः इति च पाठे साधनदूपणलक्षणाद्
वस्तुन सकाशादित्यर्थः । एतेन 66भ्रान्तिमात्रमपि67निरस्तं न्यायस्य समत्वात् ।


सन्तानवादे बौद्धाना पूर्वपक्ष–


ननु च असत्स्वेव चित्तसन्तानेषु इत्ययुक्तमुक्तम् तेषां सत्त्वसंभवात्; तथाहि–
परमार्थसन्तः कार्यकारणभावप्रबन्धेन प्रवर्त्तमानाः पूर्वोत्तरचित्तक्ष68णाः
प्रतिक्षणविशरारवोऽपरामृष्टभेदाः सन्तान69शब्दवाच्याः । न च प्रतिक्ष
णविशरारुत्वे चित्तक्षणानां कर्मफलसम्बन्धाश्रयस्यैकस्यात्मनोऽसत्त्वात् कृत
7 नाश-अकृताभ्यागमदोषोपनिपातः70; सन्तानापेक्षया तत्सम्बन्धसंभवात् । एकसन्ततिपतितानां हि
चित्तक्षणानां प्रतिक्षणं क्षणिकत्वेऽपि कर्मफलसम्बन्धस्योपपत्तेर्न तद्दोषोपनिपातप्रसङ्गः । नापि
71न्तानिभ्य सन्तानो भिन्नो भिन्नोऽभिन्नो वेत्याद्यनल्पविकल्पापातः; त72स्य वस्तुविषयत्वात्
सन्तानस्य चाऽवस्तुत्वात् । व्यवहारा73र्थं हि विभिन्नेष्वपि क्षणेष्वभे74दपरामर्शरूपा संवृतिः
सन्ता75नः, सोऽवस्तुत्वाद्भेदाभेदविकल्पैः अवक्तव्य एव, यदवस्तु तद्भेदा76भेदादिविकल्पैरवक्तव्य
मेव यथा गगनेन्दीवरम्, अवस्तु च विभिन्नक्षणेष्वभेदकल्पना77रूपतया सन्तान इति ।


78न्वेवमप्यन्योन्यविलक्षणचित्तक्षणेषु प्रत्यभिज्ञातुरेकस्यात्मनोऽनभ्युपगमात् प्रत्यभिज्ञाना
द्यनुपपत्तिः; इत्यप्यसमीचीनम्; 79सादृश्यादेव तदुपपत्तेः प्रदीपवत्, यथैव हि प्रतिक्षणविना
8 शिष्वपि प्रदीपज्वालादिपु सादृश्यात् स एवायं प्रदीपः इति प्रत्यभिज्ञानमाविर्भवति एवमत्रापि ।


नि80त्यैकरूपत्वे चात्मन क्रमयौगपद्याभ्यामर्थक्रियाकारित्वानुपपत्तितोऽसत्त्वात् कथं प्रत्य
भिज्ञानादिहेतुत्वम् ? यत्र क्रमयौगपद्याभ्यामर्थक्रियाकारित्वानुपपत्ति तदसत् यथा वन्ध्या
स्तनन्धय, अस्ति च नित्यैकरूपतयाभिमते आत्मनि तथा8182दनुपपत्तिः । न चास्य क्रमयौगपद्या
भ्यामर्थक्रियाकारित्वानुपपत्तिरसिद्धा, तथाहि–क्रमेणास्यार्थक्रियाकारित्वे कि83 येनैव स्वभावे
नैकं कार्य करोति तेनैवापरम्, स्वभावान्तरेण वा ? यदि तेनैव, तर्हि द्वितीयादिक्षणसाध्य
कार्यस्य प्रथमक्षण एवोत्पादप्रसङ्गः, तदुत्पादकस्वरूपस्य प्रागपि भावात् । प्रयोगः–यदा84 यदु
त्पादहेतुरस्ति तत्तदोत्पत्तिमत्प्रसिद्धम् यथा तत्कालाभिमतं कार्यम्, अस्ति च द्वितीयादिक्षण
साध्यकार्यस्य प्रक्षमक्षण एवोत्पादको नित्यैकरूपतयाभिमतस्यात्मनः स्वभाव इति । अथ
स्वभावान्तरेणासौ तत्करोति; तर्हि पूर्वस्वभावस्य प्रच्युतत्वात् सिद्धमस्य क्षणिकत्त्व स्वभावप्र
च्युतिलक्षणत्वात्तस्य । यौगपद्येनाप्यस्य कार्यकारित्वे युगपदेवाखिलकार्योत्पादकस्वभावतया
प्रथमक्षण एवाखिलकार्योत्पादनात् क्षणान्तरे तदुत्पाद्यकार्याऽभावतोऽन85र्थक्रियाकारित्वेन अश्व
विषाणवदसत्त्वानुषङ्ग ।


किञ्च, क्रमभाविसुखादिपर्यायव्यापकत्वमात्मनो भवताभ्युपगम्यते, तच्च किमेकेन स्वभा
वेनास्येष्यते86, अनेकेन वा ? यद्येकेन, तदा तेषा87मेकरूपतापत्ति, यदेकस्वभावेन व्याप्यते
तदेकरूपमेव यथैकपर्यायस्वरूपम्, एकस्वभावेन व्याप्यन्ते चा88त्मना सुखादयोऽनेकपर्याया
इति । अथानेकेन, तदा सोप्यनेकसोप्यनकस्वभावोऽपरेणानेकस्वभावेन व्यापनीय इत्यनवस्था । अथै
कादृशेन स्वभावेन तेन 89ते व्याप्यन्ते अत्रापि अनेकस्वभावेन सजातीयेन इत्युक्तं स्यात्, तत्र
च सैवानवस्था । नचापरं प्रकारान्तरमस्ति, अत कथं क्रमभुवां सुखादीनामन्वितं रूपं सिद्
ध्येत येनात्मसिद्धि स्यादिति ?


9

सन्तानवादे जैनानामुत्तरपक्ष–


अत्र प्रतिविधीयते । यत्तावदुक्त90म्–कार्यकारणभाव इत्यादि, तदसमीक्षिताभिधानम्; क्षणि
कैकान्ते कार्यकारणभावस्यैवासंभवात् । तत्र हि कि कार्यम्, किञ्च
कारणम् ? य91दभूत्त्वा भवति तत्कार्यमिति चेत्; नन्वभवने भवने च
कस्य कर्तृत्वम् तस्यैव, अन्यस्य वा ? न तावत्तस्यैव, सर्वथाप्य
सतः कर्तृत्वधर्माधारत्वानुपपत्तेः । यत् सर्वथाप्यसत् न तत् कर्तृत्वधर्माधारः, यथा वन्ध्यास्त
नन्धयः, सर्वथाप्यस92च्च पर93मते कार्यमिति । भवनं हि स्वरूपस्वीकरणम्, तच्च सर्वथाप्यसतो
वन्ध्यास्तनन्धयस्येवाऽतिदुर्घटम् । नाप्यन्यस्य; अस्यैव कार्यत्वप्रसङ्गात्, यदेव ह्यभवने भवने
च कर्तृ तदेव कार्यम्, तस्यापि सर्वथाप्यसत्त्वे न कार्यत्वम् उक्तानुमानविरोधात् ।


कारणत्वमपि कार्यमात्रोत्पादकत्वम्, नियतकार्योत्पादकत्वं वा ? प्रथमपक्षे सर्वं सर्वस्य
कारणं स्यात्, ततः कार्यार्थी न कश्चिन्नियतोपादानं कुर्यात् । द्वितीयपक्षोप्यनुपपन्नः; ख94पु
ष्पप्रख्येण कार्येण कारणस्वरूपस्य विशेषयितुमशक्यत्वात् । यद् वास्तवं रूपं तद्विद्यमानेनैव
विशेषणेन विशेष्यते यथा स्वसंवेद95नं स्वसंविद्रूपतया, वास्तवं च कारणत्वंणस्वरूपमिति ।
असता कार्येण इदमस्य जनकम् इति कारणस्य विशेष्यत्वे चा96ऽसत्त्वप्रसङ्गः । यत् सर्वथाप्य
सता विशेष्यते तदसत् यथा असन् घटःइत्यभावेन विशेष्यमाणो घटः, असता सर्वथा
कार्येण विशेष्यते च परम97ते कारणमिति । विकल्पाधिरूढेन कार्येण कारणस्य विशेष्यत्व
मित्यप्येतेन प्रत्याख्यातम्; न खलु विकल्पाधिरूढं कार्यमसद्रूपतां परित्यजति । विकल्पाधि
रूढेन विशेष्यत्वे च न वास्तवरूपं कारणत्वं सिद्ध्येत् । यत्98 विकल्पाधिरूढविशेषणसापेक्षं
रूपं न तद्वास्तवम् यथा माणवकेऽग्नित्वम्, विकल्पाधिरूढरूढ़कार्यलक्षणविशेषणसापेक्षञ्च99
कारणे कार100णत्वं रूपमिति । सर्वथाऽसति च कार्ये व्याप्रियमाणानां कारणानां निरालम्बना
प्रवृत्तिरिष्टा स्यात्, एवञ्च विवक्षितकार्योत्पत्तिवत् आकाशकुशेशयाद्युत्पत्तावपि तत्प्रवृत्तिप्रस
ङ्गात् न किञ्चिदन्त्यन्तमसत् स्यात् । तत्र तेषामप्रवृत्तौ वा विवक्षितकार्येप्यप्रवृत्तिः सर्वथाऽ
सत्त्वाऽविशेषात् । यत् सर्वथाप्य101सत् न तत्र कारणानां प्रवृत्तिः यथा खपुष्पादौ, सर्वथाऽ
सच्च102 भवन्मते कार्यमिति । यदि च, किमप्यनालम्ब्य कारणानां प्रवृत्तिः स्यात्तदा विवक्षित
कारणस्य विवक्षितकार्यवत् कार्यान्तरेऽपि प्रवृत्तिप्रसङ्गात् कारणान्तरकल्पनानर्थक्यं स्यात् ।


10

अस्तु वा अविचारितरमणीयस्वभावं भवन्मते किञ्चित् का103र्यत्वं कारणत्वञ्च; तथापि विनष्टा104
त्कारणात् कार्यमुत्पद्येत, अविनष्टात्, विनश्यदवस्थाद्वा ? न तावद्विनष्टात्; स्वरूपेणासतः
सकलशक्तिविकलस्य त105त्प्रति कारण106त्वानुपपत्तेः । यत् स्वरूपेणासत् न ततः किञ्चित् प्रभवति
यथा वन्ध्यास्तनन्धयात् पुत्रः, स्वरूपेणासच्च परमते कारणमिति । विनष्टम् कार्यं करोति
इति किमपि महाद्भुतम् ! न हि मृताच्छिखिनः केकायितसम्भवः । कथं वाऽ107तो जायमानं
कार्य सहेतुकं स्यात् ? अथाविनष्टात्तत तदुत्पद्यते; तर्हि दत्तो जलाञ्जलिः क्षणक्षयाय भावा
नामनेकक्षणस्थायित्वप्रसिद्धेः, ते हि प्रथममुत्पद्य कार्यकरणाय व्याप्रियन्ते तदनन्तरं कार्य
माविर्भावयन्तीति । अथोत्प108त्तिसमय एवैते कार्यमाविर्भावयन्ति, तन्न; सकलसन्तानोच्छेदप्रसक्तेः
तदुत्पाद्यकार्यस्यापि तदैव स्वकार्योत्पादकत्वप्रसङ्गात् ।


अथ विनश्यदवस्थात् कारणात् कार्यमुत्पद्यते; न; एकान्तवादिनो विनश्यदवस्थाया एवा
नुपपत्तेः । एकदैकस्य हि वस्तुनः केनचिद्रूपेण विनाशः केनचिच्चावस्थानं विनश्यदवस्थोच्यते,
सा च अनेकान्तस्वभावत्वाद् एकान्ते कथं घ109टेत ? किञ्च, असौ विनश्यदवस्था सती, असती
वा ? यदि सती; तदा तयापि क्षणिक110स्वभावया भवितव्यम् इति कोऽस्या111स्त112द्वतो विशेषः ?
अथ असती; कथं तया क्रोडीकृतस्य जनकत्वम् ? यदसद्रूपेण क्रोडीकृतं न तत् कस्यचिज्जनकम्
यथा गगनाम्भोजम्, असद्रूप113या विनश्यदवस्थया क्रोडीकृतं च भवन्मते कारणत्वेनाभिमतं
वस्त्विति ।


किञ्च, अयं कार्यकारणभावसम्बन्धः काल्पनिकः, वास्तवो वा ? काल्पनिकत्वे कर्मफल
सम्बन्धोऽपि तादृश एव स्यात्, लौकायतिकत्वप्रसङ्गश्च पूर्वभवान्त्यचित्तक्षणस्य ऐहिकाद्यचित्त
क्षणेन सह वास्तवसम्बन्धाभावात् । अथ वास्तवः; तन्न; एकान्तभिन्नानां क्षणिकार्थानां
वास्तव114तत्सम्बन्धानुपपत्तेः । अथ कार्यस्य भवनं कारणस्य भवनम् इत्येतावानेव अत्र
कार्यकारणभावः; ननु यत् कार्यस्य भवनं तत् कार्यनिष्ठमेव, यच्च कारणस्य भवनं तत्
तन्निष्ठमेव इति 115नानयोः कश्चित् सम्बन्धः, अन्यथा घटस्य भवनं पटस्य भवनम् इत्ययमपि
कार्यकारणभावः स्यात्, ततश्च नियतकार्यार्थिना यत्किञ्चित् कारणमुपादीयेत्116 । अथ
11 यत्स्वरूपमात्रे व्यावर्तमाने यस्य व्यावृत्तिः स तस्मिन् स117ति भवति असति च न भवति
इत्यन्वयव्यतिरेक118तः तत्कार्यम्; तन्न; क्षणक्षयैकान्ते अन्वयव्यतिरेकाऽसि119द्धेः, कारणाभावे
एव कार्यस्य सदा संभवात् । स्वकाले सति समर्थे कारणे अनन्तरं कार्यमुत्पद्यते नासति
इत्यन्वयव्यतिरेकसंभवः अ120किञ्चित्करेप्यविशिष्टः, यथैव हि कार्यं विवक्षितक्षणेन समनन्त
रभाविना121 विना नाविर्भवति एवं पूर्वोत्तरसमानसमयैर्नानाविधैः क्षणान्तरैरपि । नियतका
ले हि122 भवता भावेन अवश्यं कुतश्चित् पूर्वकालभाविना कुतश्चिदुत्तरकालभाविना केनचित्स
मानसमयभाविना भवितव्यम् । न च ते पूर्वोत्तरसमानसमयवर्तिनः सन्तानान्तरक्षणाः तस्य
कारणम् अकिञ्चित्करत्वात्, एवं विवक्षितोपि क्षणोऽकिञ्चित्करत्वात् पूर्वकालवर्त्यपि न तस्य
कारणं स्यात् ।


किञ्च, उपादान–सहकारिभावेन कारणं कार्यमाविर्भावयते, न च क्षणिकैकान्ते तद्भा123वो
घटते । तत्र हि उपादानत्वं पूर्वकालभावित्वम्, स्वसदृशसमानदेशकार्यारम्भकत्वं वा ?
प्रथमपक्षोऽयुक्तः; सन्तानान्तरक्षणैः व्यभिचारात् । द्वितीयपक्षोऽप्यनुपपन्नः; सौगतैः
देश-सादृश्ययोरनभ्युपगमात्, अभ्युपगमे वा अत्यन्तविलक्षणक्षणिक124वादविरोधः । नीलादि
ज्ञानस्य125 पीतादिज्ञानं प्रति अयोगिचित्तस्य योगिचित्तं प्रति उपादानत्वाभावः स्यात् अत्यन्त
वैसादृश्यात् । तदेवं क्षणिकैकान्ते126 उपादानकारणस्याऽव्यवस्थितेः सहकारिकार127णस्याप्य
प्यव्यवस्थितिः स्यात् 128तन्मूलत्वात्तस्याः । अ129तः कथञ्चिदन्वयिन्येवाऽर्थे कार्यकारणभावः
उपादानत्वञ्चोपपन्नम्, तत्रैव अन्वयव्यतिरेकयोः तन्निबन्धनयोः पूर्वाकारपरित्यागाऽजहद्वृत्तो130
12 त्तराकारोपादानस्य च उपादान131लक्षणस्य संभवात् । अतः पूर्वोत्तरचित्तविशेषाणां कार्यकारण
भावमिच्छता एकप्रमातृसमन्वयोऽभ्युपगन्तव्यः ।


कार्यकारणभाववत् तदधि132गमोप्येकप्रमातृव्यतिरेकेण अनुपपन्नः । प्रत्य133क्षानुपलम्भपञ्च134
कसाधनो हि कार्यकारणभावो बौद्धैरिष्टः, प्रथमं हि कार्यकारणयोरनुपलम्भः शुद्धभूतलोप
लम्भलक्षणः, तदुत्तरकालं वह्ने उपलम्भ तदनन्तरञ्च धूमस्य, तदुत्तरकालं वह्नेरनुप
लम्भे धूमस्या135प्यनुपलम्भ, तदित्थमनुपलम्भत्रयेण उपलम्भद्वयेन च वह्नि136धूमयोः तद्भावो137
गृह्यते । उपलम्भत्रयेण अनुपलम्भद्वयेन वा, प्रथमतो हि वह्निधूमयोरुपलम्भः, तदुत्तरकालं
वह्नेरनुपलम्भः तदनन्तरञ्च धूमस्य, पुनर्वह्नेरुपलम्भे धूमस्याप्युपलम्भ इति, तान्येतानि प्रत्यक्षानु
पलम्भपञ्चकेन पञ्चवस्तूनि एकसंवित्परामर्शविषयताम् एकप्रमात्रैवानीयन्ते । ता138वत्कालव्याप्य
शेषसंवेदनानवच्छिन्नान्वयिस्वसंवेदनावभास एव च एकप्रमा139त्रवभासः । न हि क्रमेण प्रति
क्षणमुत्पद्यापगच्छतां परस्परविषयवार्तानभिज्ञानानाम् भिज्ञानाम् एवंविधपरामर्शात्मको
व्यापारो घटते । विकल्पस्यापि निर्विकल्पकविषय एव व्यापारादसौ140 न युक्तः; य एव हि
नीलाद्यर्थो निर्विकल्पकेन गृहीतः तत्रैव तदनुसारी विकल्पः प्रवर्तते नाधिकविषये, अगृहीत
ग्राहित्वेन प्रमाणान्तरत्वप्रसङ्गात् ।


अस्तु वा अस्य141 तद्व्या142पार; तथाप्यसौ क्षणिकः, अक्षणिको वा ? अक्षणिकत्वे नाममात्रभेदः
स्यात् आत्मा विकल्प इति च । क्षणिकत्वेऽपि निर्विकल्पान्न विशेषः, तथाचैकस्य कार्यकारण
ताप्रतिपत्तिर्न स्यात् प्रतिक्षणं भेदात्, यस्य हि कारणप्रत्यक्षता न तस्य कार्यप्रत्यक्षता ।
अस्तु वैकस्य उभयप्रत्यक्षता; तथापि यस्य कारणप्रत्यक्षतायां कार्यप्रत्यक्षता सोऽन्यः, यस्य
च कारणानुपलम्भे कार्यानुपलम्भः सोऽन्यः
इति विभिन्नप्रमातृप्रत्यक्षानुपलम्भवत् एकप्रमातृ
प्रत्यक्षानुपलम्भयोरप्यत्यन्तभेदात् कथं त143तस्तदवगमः स्यात् ? तथाहि–यौ परस्परतोऽत्यन्त
विभिन्नौ प्रत्यक्षानुप144लम्भौ न तौ कस्यचित् कार्यकारणभावमवगच्छतः यथा देवदत्त-यज्ञदत्त
प्रत्यक्षानुपलम्भौ, परस्परतोऽत्यन्तविभिन्नौ145 च भ146वद्भिरभ्युपगम्येते कार्यकारण147क्षणयो प्रत्यक्षा
13 नुपलम्भौ इति । त148न्नैकप्रमात्रनभ्युपगमे कार्यकारणभावः तत्प्रतिपत्तिर्वा घटते, तत्कथं तेषां149
तद्भाव150प्रबन्धेन151 प्रवृत्तिः स्यात् ?


किञ्च, क्षणिकत्वे सिद्धे तेषां कार्यकारणभावप्रबन्धेन प्रवृत्तिर्युक्ता, न152 तु तत्सिद्धं त153त्प्रसाध
कप्रमाणाऽभावात्, तदभावश्च अक्षणिकत्वसिद्धौ प्रसाधयिष्यते । किञ्च, अर्थानां क्षणिकत्व
मिच्छतापि प्रमातुरेकत्वमवश्य154मभ्युपगन्तव्यम्, तदभावे पूर्वोत्तरक्षणविवेकलक्षणक्षणिकत्वस्य
प्रतिपत्त्यनुपपत्तेः । पूर्वाकारदर्शनं ह्यन्यस्य ज्ञानस्य संवृत्तम् उत्तराकारदर्शनं चान्यस्य,
अतश्चोत्तरज्ञानं स्वविषयपरिच्छेदमात्रोपक्षीणशक्ति155कं न पूर्वज्ञानगृहीतविषयाकारात् विलक्षणोऽ
यम्
इति परामृष्टुं क्षमं सर्वथा तद्विषयवार्तानभिज्ञत्वात् । यत् सर्वथा यद्विषयवार्तानभिज्ञं
न तत् तद्विषया156त् स्वविषयस्य वैलक्षण्यपरामर्शे समर्थम् यथा 157चैत्रज्ञानं मित्रज्ञानविषयात्,
सर्वथा पूर्वज्ञानविषयानभिज्ञञ्च उत्तरज्ञानमिति । न खलु चैत्रेण अन्याकारेऽर्थे दृष्टे तदनन्तरं
मित्रस्य अन्याकारार्थदर्शने सति विलक्षणोऽयम् इति प्रत्यवमर्शो दृष्टः ।


158यच्चान्यदुक्तम्–पूर्वोत्तरक्षणाः प्रतिक्षणविशरारवः इत्यादि; तदप्यसुन्दरम्; पूर्वोत्तर
क्षणयोः वर्तमानक्षणकालेऽसत्त्वेन अस्य159 160ताभ्यामसम्बद्धस्य 161सन्तानत्वानुपपत्ते, सतामेव हि
अन्योन्यसम्बन्धाद्धानां लोके सन्ततिः प्रसिद्धा पक्षिवत् । अथ वर्तमानक्षणोऽतीतानागतक्षणापेक्षः
सन्तानः स्यात्; नन्वनयोः162 विनष्टानुत्पन्नत्वेन व्योमोत्पलप्रख्ययोः कापेक्षा नाम ? अन्यथा
शशशृङ्ग-वन्ध्यास्तनन्धयापेक्षयापि वर्तमानक्षणस्य एकसन्तानता स्यात् । 163अत्रैवार्थे प्रयोग
द्वयम्164–बौद्धाभिमतो वर्तमानज्ञानक्षणः 165तदुत्पाद्योत्पादकाभिमतज्ञानक्षणान्तरेण एकसन्ता166
निको न भवति, सत्त्वात्, अनभिमतज्ञानक्षणवत् । तथा, विवादापन्नानामतीताऽनागतवर्त
मानज्ञानक्षणानां नैकः सन्तानः सदसद्रूपत्वात्, वन्ध्या-तत्पुत्रक्षणवत् ।


यदप्युक्तम्167अपरामृष्टभेदाः इति; तदप्ययुक्तम्; 168यतोऽभेदपरामर्शस्तेषां 169ज्ञानान्तरात्,
स्वतो वा ? यदि ज्ञानान्तरात्; किमस्मदादिसम्बन्धिनः, योगिसम्बन्धिनो वा ? तत्राद्यपक्षोऽनु
पपन्नः; अस्मदादेरतीतादिक्षणगोचरस्य ज्ञानस्याऽसंभवात् स्वहेतुक्षणमात्रविषयतया तस्य
सौगतैरभ्युपगमात् । द्वितीयपक्षोप्यसम्भाव्यः; योगिज्ञानस्य विधूतकल्पनाजालतयाऽभेदपराम170
14 र्शाऽहेतुत्वात् । अथ स्वत एव; तन्न; अतीताऽनागतक्षणयोरसत्त्वेन अभेदपरामर्शहेतुत्वानुपपत्तेः ।
यदसत् न तदभेदपराम171र्शहेतु यथा वन्ध्यास्तनन्धयः, असन्तौ च अतीताऽनागतौ ज्ञानक्षणाविति ।
वर्तमानज्ञानक्षणस्यापि अतीताऽनागतज्ञानक्षणाभ्यां सह नाऽभेदपरामर्शहेतुत्वं तत्कालेऽसत्त्वात् ।
यद्यत्काले असत् न तस्य तेन सह एकसन्तानहेतुरभेदपरामर्शः यथा172 रावण-शङ्ग्रचक्रवर्त्त्यादिना,
अतीतानागतक्षणकाले असंश्च वर्तमानक्षण इति । ततः प्रतिक्षणविशरारुक्षणानामुक्तप्रकारेण
कार्यकारणभावस्य अभेदपराम173र्शस्य चानुपपत्तेः कथं यथोक्तलक्षणः सन्तानो व्यवतिष्ठेत ?


अस्तु वा; तथाप्य174सौ स175न् स्यात्, असन् वा ? यदि सन्; तदाऽसौ अनित्यः, नित्यो
वा ? प्रथमपक्षे सन्तानिभ्योऽस्याऽविशेषात् कथं कर्मफलसम्बन्धव्यवस्थाहेतुत्वं यतः कृत
नाशाकृताभ्यागमदोपोपनिपातो न स्यात् ? द्वितीयप176क्षे तु ना177न्नि विवादो नार्थे, आत्मन एव
सन्तानः इति नामान्तरकरणात् । अथ अस178न्; कथं तद्व्य179वस्थाहेतुः ? यदसत् न तत् कस्य
चिद् व्यवस्थाहेतुः यथा खरविषाणम्, असंश्च भवन्मते सन्तान इति ।


यदप्युक्तम्180भेदाभेदादिविकल्पैरवक्तव्य एव सन्तानोऽवस्तुत्वात् इत्यादि; तदप्य
युक्तम्; अ181वस्तुनो वस्तुव्यवस्थाहेतुत्वाऽसंभवात् । तथाहि–सन्तान कर्मफलसम्बन्धादिव्य182
स्थाहेतुर्न भवति अवस्तुत्वात् आकाशकुशेशयवत् । तद्व्यवस्थाहेतुत्वे183 वा अवस्तुत्वविरोधः । यद्
वस्तुव्यवस्थाहेतु न तदवस्तु यथा प्रत्यक्षादि, कर्मादिवस्तुव्यवस्थाहेतुश्च भवद्भिः परिकल्पि184तः
सन्तान इति । वस्तुत्वे चास्य185 सन्तानिभ्यो भेद, अभेदो वा स्यात् ? अभेदे प्रतिक्षणं तेनापि
15 तद्व186त् विनष्टव्यं ततोऽभिन्नत्वात् तत्स्वरूपवत्, सन्तानिव187द्वा सन्तानस्य भेदप्रसङ्गश्च तत188 एव
तद्वत् । भेदे नित्यः, अनित्यो वा स्यात् ? नित्यत्वे स एव नाममात्रभेदः, सत्त्वादेर्नश्वरत्वे
साध्या189ध्येऽनैकान्तिकत्वञ्च । अनित्यत्वे तु सन्तानिवद् भेदात् कथं क190र्मादिप्रतिनियम
निबन्धनत्वम् ? कथं वा रूपा191दिस्कन्धपञ्चकव्यवस्था सन्तानलक्षणस्य षष्ठस्कन्धस्य प्रसङ्गात् ?


किञ्च, अस्य त192द्विकल्पैरवक्तव्य193त्वमसत्त्वात्, वक्तुरशक्तेः, अज्ञानाद्वा ? तत्राद्यवि
कल्पोऽयुक्तः; सन्तानस्याऽसत्त्वे कर्मादिव्यवस्थाहेतुत्वाभावप्रतिपादनात् । अस्तु वाऽसत्त्वम्;
तथापि असद्रूपस्य194 सद्रूपाद् भेदोपपत्तेः भेदेन वक्तुं शक्तेश्च कथमसौ 195तद्रूपोऽप्यवक्तव्यः स्यात् ?
असद्रूपोह्यर्थ सद्रूपतया वक्तुमशक्यो न पुनरसद्रूपतयापि । द्वितीयविकल्पोऽप्यसाम्प्रतः;
सुगतस्याऽचिन्त्यशक्तिसद्भावाभ्युपगमात् । तृतीयविकल्पोऽप्यनुपपन्नः; तस्याऽसर्वज्ञत्वप्रस
ङ्गात् । 196यच्चोक्तम्–संवृतिः सन्तानः इति; तदतीवाऽसङ्ग197तम्; 198संवृतेर्मृषारूपतया दृष्टाऽदृष्ट
प्रयोजनप्रसाधकत्वानुपपत्तेः । किञ्च, 199संवृतिः कल्पनोच्यते; सा च असति मुख्ये न प्रवर्तते ।


अन्य200त्र प्रसिद्धस्य धर्मस्यान्यत्राध्यारोपः कल्पना इत्यभिधानात् ।
न च मुख्यरूपतयान्वितं रूपं भव201तां क्वापि प्रसिद्धं यत् पूर्वोत्तरक्षणेषु कार्यकारणभावप्रबन्धेन
प्रवर्त्तमानेषु कल्प्येत । अतः संवृतिरूपसन्तानाऽन्यथाऽनुपपत्त्याप्येकप्रमातृसद्भावोऽवसीयते ।


16

प्रत्यभि202ज्ञानान्यथानुपपत्तेश्च; नहि यमहमद्राक्षमेतर्हि तमेव स्पृशामि इति एकानुस
न्धातृव्यतिरेकेणैवंविधमनुसन्धानं संभवति, प्रतिक्षणमाविर्भवतामपरापरज्ञानानां परस्परस्वरू
पाऽनभिज्ञतया अन्योन्य203 प्रत्यवमर्शाऽसामर्थ्यात् । यत् परस्परस्वरूपानभि204ज्ञं न तद् अन्यो
न्यप्रत्यवमर्शसमर्थम् यथा देवदत्त-यज्ञदत्तविज्ञानम्, परस्पर205स्वरूपानभिज्ञं च उक्तप्रका206रं
रूपस्पर्शादिज्ञानमिति । अथ एकमेवोभयप्रतिसन्धानात्मकमेतज्ज्ञानमिष्यते; कथमेवं क्षणि
कवादः तदात्मनो ज्ञानस्याऽनेकक्षणस्थायित्वात् ? कथं वा नैरात्म्य207वाद त208स्यैवाऽऽत्मत्वोपपत्ते ?
एकस्य ग्रहण-स्मरणानुसन्धातु सिद्धत्वात् । न खलु ज्ञानादर्थान्तरमात्मानं प्रतिजानीम, पूर्वो
त्तरचिद्विवर्त्तवर्तिनोऽनुस्यूतचैतन्यस्य आत्मत्वप्रतिज्ञानात् । न हि प्रमाता नाम अननुभूतपूर्वं
17 किञ्चिद्वस्तु; किं तर्हि ? प्रतिनि209यतार्थावभासिज्ञानेषु अहमहमिकया प्र210तिप्राणि भासमानमन्वितं
चिद्रूपम्, तदनभ्युपगमे प्रतिस211न्धानवार्त्तोच्छेदः स्यात् । न212 हि अन्येनानुभूते घटे अन्यस्य
एवायं घटः
इति प्रतिसन्धानं प्रतीतम्, अन्यथा प्रथमदर्शनेऽपि तत् स्यात् । अथ द्वितीय
दर्शने सत्येव तद् भवति, न213न्वेकस्यावस्थातुः214 तद् द्वितीयदर्शनम्, अनेकस्य वा ? यद्येकस्य;
अस्मन्मतसिद्धिः । अनेकपक्षे तु एकावस्थातृरहितत्वात् देवदत्तदर्शनानन्तरं यज्ञदत्तदर्शन इव
प्रतिसन्धानानुपपत्तिः, नहि देवदत्तानुभूतमर्थं यज्ञदत्त इत्थं प्रतिसन्धत्ते यमहमद्राक्षं देवदत्तः
तमेवाहं यज्ञदत्तः स्पृशामि
इति, एतत्तु स्यात् तेन दृष्टं स्पृशामि इति । क्षणिकचित्तपक्षे
तद215पि वा न स्यात्; पूर्वोत्तरचित्तक्षणयोर्विभिन्नकालत्व216तोऽन्योऽन्यार्थदर्शनाऽभावात्, अ
भिन्नकालयोरेव हि देवदत्त-यज्ञदत्तयोः अ217न्योन्यार्थदर्शने सति तेन दृष्टं स्पृशामि इति प्रति
सन्धानं प्रतीतम् ।


यदपि सादृश्यात् प्रदीपवत् प्रतिसन्धानम् इत्युक्तम्218, तदप्ययुक्तम्219; दृष्टान्त-दार्ष्टान्तिकयो
र्वैषम्यात्, प्रदीपादौ हि प्रमातुरवस्थाने सति विषयभेदेऽपि सादृश्यात् प्रतिसन्धानं युक्तम्, नात्र,
प्रमातृ-प्रमेययोरत्यन्तभेदात् । न हि अन्येन दृष्टेऽन्यस्य सादृश्यात् मया दृष्टोऽयम् 220इति
प्रतिसन्धानं दृष्टम्, सोऽयम् इत्यादिज्ञानं हि स्मृतिमपेक्षते, स्मृतिः संस्कारम्, सोऽप्यनुभ
वमित्यनुभवादिज्ञानमुक्ताफलानामनुस्यूतैकप्रमातृसूत्रानुप्रवेशे सत्येव अनुभवात् स्मृतिः
इत्याद्युपपद्यते, नान्यथा । प्रदीपवत् 221प्रमातुर्मुहुर्मुहुर्निरन्वयनिवृत्तौ पूर्वोत्तरदर्शिनो भिन्नसन्ता
18 नवदन्यत्वात् । न च पूर्वबुद्धिविशेषात् तच्छ222क्त्यनुविधानेन उत्तरं बुद्ध्यन्तरमुत्पद्यते, अतः
संस्कारादेः संभव इत्यभिधातव्यम्; पूर्वबुद्धिविशेषस्यानुभवरूपत्वात् तत्प्रभवबुद्ध्यन्तरस्यापि
अनुभवरूपस्यैवोत्पत्तिप्रसङ्गात् ।


प्रमातुरन्वितत्वाऽभावे च आ223म्रफलादिरूपोपलम्भे तद्रूपाविनाभाविषु गन्धरसादिषु विभि
न्नप्रमातृवत् स्मरणपूर्वकस्यैवाभिलापादेरनुपपत्तेस्तदुपभोगाय प्रवृ224त्तिरतिदुर्घटा स्यात् । इष्टा225नि
ष्टयोः प्राप्तिपरिहारेच्छा हि अनुभवस्मरणाधारैकप्रमातृनिष्ठा तदनन्तरं नियमेनोत्पद्यमानत्वात्,
या तु नैकप्रमातृनिष्ठा नासौ तदनन्तरं नियमेनोत्पद्यते यथा देवदत्तानुभूते यज्ञदत्तस्येच्छा,
अनुभवाद्यनन्तरं नियमेनोत्पद्यते च तत्प्राप्तिपरिहारायेच्छेति । न खलु विभिन्नकर्तृकत्वे
देवदत्तेनानुभूते इष्टेऽनिष्टे वाऽर्थे तत्प्राप्तिपरिहाराय यज्ञदत्तस्येच्छा प्रादुर्भवन्ती प्रतीयते, अतो
विभिन्नकर्तृकत्वाद् व्यावर्तमानेय226म् एकक227र्तृकत्वेनैव व्याप्यते, ततो य एवानुभवति स्मरति च
स एवेच्छति
इत्येकप्रमातृसिद्धिः । अथ एक228प्रमात्रभावेऽपि वासनावशादेवेच्छा प्रभवतीत्युच्यते;
ननु सा वासना वस्तु, अवस्तु वा स्यात् ? वस्तुत्वे नाममात्रभेदः वासना, आत्मा इति च ।
अवस्तुत्वे गगनाम्भोरुहवत् तद्धेतुत्वानुपपत्तिः । क्ष229णिकैकान्ते च वास्यवासकभावाऽसंभवः,
स्थितस्य स्थितेन तद्दर्शनात् वस्त्रधूपादिवत् ।


19

यदप्यभिहित230म्–नित्यैकरूपत्वे चात्मनः क्रमयौगपद्याभ्यामर्थक्रियाकारित्वानुपपत्तिः इत्यादि;
तदप्यसम्यक्; नित्यैकरूपत्वस्यात्मनोऽनभ्युपगमात्, तस्य परिणामिनित्यताप्रतिज्ञा231नात् । तत्र
च क्रमयौगपद्याभ्यामर्थक्रियाकारित्वं यथा संभवति तथाऽक्षणिकत्वसिद्धिप्रघट्टके प्रतिपादयिष्यते ।


यदप्युक्त232म्–सुखादीनां क्रमभुवामात्मा व्याप233को भवन् किमेकेन स्वभावेन भवति अनेकेन
वा
इत्यादि; तदप्यसङ्गतम्; अनेकस्वभावेनैव तेन तेषां234 व्याष्यत्वात् । नचैव235मनवस्था अर्थान्त
रभूतानां तेषामर्थान्तरभूतैः स्वभावैर्व्याप्त्यनभ्युपगमात्, तद्रूपतया परिणामो हि तद्व्याप्तिः चित्र
ज्ञा236ने नीलाद्याकारव्याप्तिवत् । नहि तद्रूपतया परिणतेरन्या237 तत्र तदाकारव्याप्तिरस्ति, तज्ज्ञा238
नात् तदाकाराणामर्थान्तरत्वानभ्युपगमात्, अभ्युपगमे वा तद्दोषोपनिपातप्रसक्तिः । अथ चित्र239
ज्ञानस्य नीलाद्याकारात्मकतया तद्व्यापिनः स्वयं संवेदनान्न 240तत्प्रसक्तिः; तर्हि आत्मनोऽपि सह
क्रमेण च सुखाद्यनेकाकारव्यापिनः स्वयं संवेदनात् कथं तद्दोषोपनिपातः स्यात् ? नहि दृष्टेऽ
नुपपत्तिर्नाम । 241तदपह्नवे च बन्धमोक्षयोरभावः स्यात् तयोरेकाधिकरणत्वात्; तथाहि–विवा
दापन्नौ बन्धमोक्षौ एकाधिकरणौ तत्त्वात्242 लोकप्रसिद्धबन्धमोक्षवत् । सर्वथा भेदे हि बद्ध-मुक्त
पर्याययोः अन्यो बद्धः अन्यश्च मुच्यते इति बद्धस्यैव मोक्षार्था प्रवृत्तिर्न स्यात् । सन्ता
20 नापेक्षया बद्धस्यैव मोक्षः; इत्यप्यनल्पतमोविलसितम्; सन्तानस्यैवोक्तप्रकारेण असंभवात् ।
तथा243 निहित-मन्त्रिता-ऽधीतस्मृतिः दत्तग्रहादिश्च एकात्माऽपह्नवे दुर्घट इति ।


तदेवं कण्टकशुद्धि विधाय स्वमते प्रमाणादिलक्षणप्ररूपणार्थं शास्त्रमिदमुपक्रमते । न244नु
सम्बन्धा-ऽभिधेय-शक्यानुष्ठानेष्टप्रयोजनवन्ति शास्त्राणि प्रेक्षावद्भिराद्रियन्ते नेतराणि । अतः
शास्त्रमिदमारभ्यमाणमभिधेय-तत्सम्बन्धवत्, तद्रहितं वा स्यात् ? यदि तद्रहितम्; तत्प्रारम्भ
प्रयासो निष्फलः स्यात्, उन्मत्तवाक्यवत् प्रेक्षावतामनादरणीयत्वात् । तद्वच्चेदस्तु, तथापि
तदभिधेयं निष्प्रयोजनम्, प्रयोजनवद्वा245 स्यात् ? निष्प्रयोजनं चेत्; तर्हि तत्प्रारम्भप्रयासो व्यर्थः
काकदन्तपरीक्षावत् तत्र प्रामाणिकानामादराऽसंभवात् । अथ प्रयोजनवत्; तत् किमभिमत
प्रयोजनवत्, अनभिमतप्रयोजनवद्वा ? अनभिमतप्रयोजनवत्त्वे मातृविवाहोपदेशवत् नितरा
मनादरणीयत्वम् । अभिमतप्रयोजनवत्त्वेऽपि तत्प्रयोजनस्याऽशक्यानुष्ठानत्वे सर्वज्वरहरतक्ष246
चूडारत्नालंकारोपदेशवत् कथं कस्यचित्तत्रोपादेयता स्यात् ? इत्यारेकापनोदार्थमक्षुण्णसकल
शास्त्रार्थसंग्रहसमर्थमादिश्लोकमाह–


प्रत्य247क्षं विशदं ज्ञानं मुख्यसंव्यवहारतः ।

परोक्षं शेषविज्ञानं प्र248माणे इति संग्रहः ॥ ३ ॥ इति

21

विवृतिः–सन्निकर्षादेरज्ञानस्य प्रामाण्यमनुपपन्नम् अर्थान्तरवत् । न249 वै ज्ञानम्
इत्येव प्रमाणम्, संशयविपर्यासकारणस्य अकिञ्चित्करस्य च ज्ञानस्य भावाऽविरो
धात् । नहि तत्त्वज्ञानम् इत्येव यथार्थनिर्णयसाधनमित्यपरः, तेनापि तत्त्वनिर्णयं
प्रति साधकतमस्य ज्ञानस्यैव प्रामाण्यं समर्थ्येत, वस्तुबलायाततदर्थान्तरस्यापि पर
म्परया तत्कारणतोपपत्तेः । तन्न अज्ञानस्य प्रमाणता अन्यत्रोपचारात् । ज्ञानस्यैव
विशदनिर्भासिनः प्रत्यक्षत्वम्, इतरस्य परोक्षता ।


शास्त्रस्य सम्बन्धाभिधेयादिसमर्थनम्–


त्रिधा250 हि शास्त्राणां प्रवृत्तिः–उद्देशः, लक्षणम्, परीक्षा चेति । तत्र नाममात्रेणार्थानामभि
धानम् उद्देशः । उद्दिष्टस्य स्वरूपव्यवस्थापको धर्मः लक्षण251म् । उद्दि
ष्टस्य लक्षितस्य च यथावल्लक्षणमुपपद्यते न वा इति प्रमाणतोऽर्थाव
धारणं परीक्षा । विभा252गश्च उद्देश एवान्तर्भवति, सामान्यसंज्ञया हि
कीर्तनम् उद्देशः, प्रकारभेदसंज्ञया253 कीर्तनं विभागः इति । तत्र प्रत्यक्षेतरप्रमाणभेदाः श्रुतभेदाश्च
नयनिक्षेपाः लक्षण-सङ्ख्या-विषय-फलसम्पत्समन्विताः शास्त्रस्यास्याभिधेया इत्युद्देशतः सकल
शास्त्रार्थस्याभिधेयस्यनेन प्रतिपादनाद् अभिधेयरहितत्वाशङ्काव्युदासः । तेन च सहास्य
वाच्यवाचकभावलक्षणः सम्बन्धः इति सम्बन्धरहितत्वारेकानिरासः । शक्यानुष्ठानेष्टप्रयोजनं
तु साक्षात् त254ल्लक्षणव्युत्पत्तिरेव, परम्परया तु अभ्युदयनिःश्रेयसावाप्तिः । परव्युत्पादनार्था हि
शास्त्रकृतः प्रवृत्तिः । नचाभिधेयादिरहितं शास्त्रं कुर्वता परो व्युत्पादितो भवति, तथाविध
स्यास्य255 परप्रता256रकत्वप्रसङ्गात् । स च व्युत्पाद्यत्वेनाभिप्रेतः परस्त्रिधा भिद्य257ते–सङ्क्षेपरुचिः,
22 विस्तररुचि, मध्यमरुचिश्चेति । स च त्रिविधोऽपि परः प्रत्येकं चतुर्धा भिद्यते–व्युत्प258न्नः,
अव्युत्पन्न, सन्दिग्ध, विपर्यस्तश्च । तत्र व्युत्पन्नो विपर्यस्तश्च न प्रतिपाद्यः, व्युत्पित्साविरहात् ।
अव्युत्पन्नस्तु स्वभावतो व्युत्पित्सारहितोऽपि लोभभयादिना व्युत्पित्सायामुत्पादितायां व्युत्पाद्यो
भवत्येव, यथा पितुः पुत्रः । स259न्दिग्धोऽपि यदा स्वगतसंशयख्यापनपूर्वकम् अनयोः कः सत्य
इति पूर्वापरपक्षयो गुणदोपनिरूपणद्वारेण मां बोधयतु भवान्
इति तत्त्वज्ञानार्थमाचार्यमुप
सर्पति तदैव व्युत्पित्सासंभवात् प्रतिपाद्य, नान्यदा ।


प्रासङ्गिकी प्रमाणसिद्धि–


ननु प्रसिद्धे प्रमाणे अभिधेयादिमत्ता शास्त्रस्य260 स्यात्, न च त261त् प्रसिद्धम्; तस्य262 हि
प्रसिद्धिः प्रमाणान्तरात्, तदन्तरेण वा ? यदि प्रमाणान्तरात्; तदान
वस्था, कुतः ? प्रमाणान्तरस्यापि प्रमाणान्तरात् प्रसिद्धिप्रसङ्गात् ।
प्रमाणान्तरमन्तरेण तत्सिद्धौ च सर्वं सर्वस्येष्टं सिद्ध्येत्, तथा च
सकलशून्यतासि263द्धेरपि प्रसङ्गात् कथमस्या264ऽभिधेयादिमत्ता265 सिद्ध्येदिति ? तदसमीक्षिताभि
धानम्; सकलशून्यतामभ्युपगच्छताऽपि प्रमाणाभावस्य कर्त्तुमशक्यत्वा266त् । तथाहि–सकल
23 शून्यवादिनोऽपि अस्ति प्रमाणम्, इष्टानिष्टयोः साधनदूषणाऽन्यथानुपपत्तेः । नचैवमनवस्था,
इष्टसिद्धेः अनिष्टप्रतिषेधस्य च प्रतिप्राणि प्रसिद्धत्वेन अशेषवादिनां निर्विवादतः प्रमाणान्तरा
पेक्षानुपपत्तेः । निराकरिष्यते च सकलशून्यता बाह्यार्थसिद्ध्यवसरे विस्तरतः इत्यलमतिप्रसङ्गेन ।


कारिकाव्याख्यानम्–


ननु सिद्धेऽपि प्रमाणसद्भावे तत्स्वरूपविशेषनिश्चयासिद्धिः, ज्ञानाऽज्ञानरूपतया तत्र वा
दिनां विप्रतिपत्तेरित्याह–ज्ञानम् इति । यत् तदिष्टाऽनिष्टसाधनदूषणा
न्यथानुपपत्तितः प्रसाधितं प्रमाणं तज्ज्ञानम् प्रमाण267त्वात्, यत् पुनर्ज्ञानं न
भवति न तत् प्रमाणम् यथा घटादिः, प्रमाणञ्चेदं विवादापन्नम्, तस्मा
ज्ज्ञानम्, इति268 प्रमाणसामान्यलक्षणम् । तच्चैतल्लक्षणलक्षितं प्रमाणं प्रत्यक्ष-परोक्षप्रकारेण द्विधा269
भिद्यते इत्येतत् प्रमाणे इत्यनेन दर्शयति । तत्राद्यप्रकारस्वरूपं प्रत्यक्षं विशदम्
24 इत्यनेन प्ररूपयति । वक्ष्यमाणलक्षण-वैशद्येन यदुपलक्षितं ज्ञानं तदेव प्रत्यक्ष270म् । प्रयोगः–
25 विशदस्वभावमेव ज्ञानं प्रत्यक्षम् प्रमाणान्तरत्वान्यथानुपपत्तेः । नचायमसिद्धो हेतुः; तद271न्तरत्वे
नास्य वक्ष्यमाणत्वात् । तच्चैवंविधं प्रत्यक्षं द्वेधा प्रतिपत्तव्यम् । कथम् ? इत्याह–मुख्यसं
व्यवहारतः
इति । इन्द्रियाद्यनपेक्षं प्रतिबन्धकापायोपेतात्ममात्रनिबन्धनं स्वविषये निःशे
षतो विशदम् अवधि-मनःपर्यय-केवलाख्यं ज्ञानं मुख्य272त प्रत्यक्षम् ।


इन्द्रिय273निमित्तं तु स्वविषये देशतो विशदं चक्षुरादिज्ञानं संव्यव274हारतः प्रत्यक्षम् । कथं पु
26 नरन275क्षाश्रितज्ञानस्य प्रत्यक्षव्यपदेशः ? इति चेत्; प्र276वृत्तिनिमित्तसद्भावात् । अक्षाश्रितत्त्वं हि
प्रत्यक्षशब्दस्य व्युत्पत्तिनिमित्तं गतिक्रियेव गोशब्दस्य । प्रवृ277त्तिनिमित्तं तु एकार्थसमवायिना
अक्षाश्रित278त्वेनोपलक्षितमर्थसाक्षात्कारित्वम्, गतिक्रियोपलक्षितगोत्ववद् गोशब्दस्य । अन्यद्धि
शब्दस्य व्युत्पत्तिनिमित्तम् अन्यद्वाच्यम्, अन्यथा गच्छन्त्येव गौः गौः इत्युच्येत नान्या
व्युत्पत्तिनिमित्ताभावात्, जात्यन्तरञ्च गतिक्रियापरिण279तं व्युत्पत्तिनिमित्तसद्भावाद् गोश280ब्द
वाच्यं स्यात् । यदि वा, व्युत्पत्तिनिमित्तमप्यत्र विद्यत एव; तथा हि–अक्षशब्दोयमिन्द्रियव281त्
आत्मन्यपि प्रवर्तते, 282क्ष्णोति व्याप्नोति जानाति इति अक्ष आत्मा इति व्युत्पत्तेः । तमेव
क्षीणोपशान्तावरणं क्षीणावरणं वा प्रति नियतस्य ज्ञानस्य प्रत्यक्षशब्दातिशयता 283सुघटैव ।


तच्चेदं द्विविधमपि प्रत्यक्षं किंविशिष्टम् ? इत्याह–विज्ञानम् इति । 284विविधं स्वपरस
म्बन्धि 285ज्ञानं भासनं यस्य यस्मिन् वा तद्विज्ञानम्, अनेन 286स्वस्यैव परस्यैव287 वा ज्ञानं ग्राहकम्
27 इत्येकान्तो निरस्तः । अथवा विशिष्टं बाधवर्जितं तद् यस्य यस्मिन् वेति ग्राह्यम् । अनेनापि
भ्रान्तमेव स्वप288ररूपयोः सकलं ज्ञानम्289त्येकान्तः प्रत्याख्यातः । यदि वा290, पि वि
नाना द्रव्यपर्यायसामान्यविशेषरूपार्थ रूपा अर्था विषयतया तद् ? यस्य यस्मिन् वा
इति प्रतिपत्तव्यम्, अनेनापि द्रव्यमा291त्रस्य, पर्यायमा292त्रस्य, सामान्यविशेषयोरन्यतरमात्रस्य293,
294न्योन्यविभिन्नोभयरूपस्य वा ज्ञानं ग्राहकम्
इत्येकान्तः प्रतिव्यूढः । विगतं वा स्वरूपे पर
रूपे वा अपेक्ष्यं तद् यस्य तत्तथोक्तमिति । अनेनापि यत्रैव जनयेदेनां तत्रैवास्य प्रमाणता
इत्येकान्तः प्रतिक्षिप्तः । तत्तदेकान्तानां च प्रपञ्चतः प्रतिक्षेपोऽग्रे विधास्यत
इत्यलमतिप्रसङ्गेन ।


इदानीं द्वितीयं प्रमाणप्रकारं परोक्षं शेषम् इत्यनेन प्ररूपयति । यत् तद्विशद
स्व295रूपाज्ज्ञानात् शेषमविशदस्वभावं ज्ञानं तत् परोक्ष296म् । किविशिष्टं तत् ? इत्याह–विज्ञा
नम्
इति । अस्य297 च व्याख्यानं 298पूर्वमिव अत्रापि दृष्टव्यम् । तथा च प्रमाणविशेषलक्षणस्य
द्विप्रकारस्यैव प्रसिद्धेः द्वे एव प्रमाणे प्रसिद्धे, सकलतद्व्यक्तिभेदानामत्रैवान्तर्भावादिति दर्शयन्नाह
प्रमाणे इति संग्रहः इति द्वे एव प्रमाणे इत्येवं संग्रहः सकलशास्त्रार्थस्येति ।


विवृतिव्याख्यानम्–


तत्र प्रमाणस्य यज्ज्ञानमिति सामान्यलक्षणं कृतं तत् सन्निकर्षादेः इत्यादिना
समर्थयते । सन्निकर्षः इन्द्रियार्थसम्बन्धः299, स आदिर्यस्य कार
कसाकल्येन्द्रियवृत्त्यादेः । कथंभूतस्य ? अज्ञानस्य अचेतनस्य
प्रामाण्यमनुपपन्नम् । कस्येव ? अर्थान्तरवत्, अर्थः सन्नि
28 कर्षादिः, तस्मादन्यः प्रमेयो घटादिः तदन्तरम् तस्येव तद्वत् । ननु प्रमाणत्वञ्च स्यात्
अज्ञानत्वञ्च विरोधाऽभावात्, अतः सन्दिग्धविपक्षव्यावृत्तिकत्वादनैकान्तिकत्वम्; इत्यनुप
पन्नम्; अज्ञानविरोधिना ज्ञानत्वेन प्रमाणत्वस्य व्याप्तत्वात् त300त्र त301द्विरोधसि302द्धेः । प्रकर्षेण हि
संशयादिव्यवच्छेदलक्षणेन मीयते अव्यवधानेन परिच्छिद्यते येनार्थः तत् प्रमाणम्, तत्कथमज्ञा
नरूप303सन्निकर्षादिस्वभावं घटेत ? न खलु सन्निकर्षादिना किञ्चिन्मीयते, ज्ञानकल्पनानर्थक्य
प्रसङ्गात् । अतो ज्ञानमेव प्रमाणम् इति उपपत्तिचक्षुषाऽभ्युपगन्तव्यम् ।


सन्निकर्षवादे यौगस्य पूर्वपक्ष–


स्यान्मतिरेषा ते–ज्ञानमेव प्रमाणम् इत्यवधारणमनुपपन्नम्, अज्ञानरूपस्यापि सन्निक
र्षादेः प्रमाजनकत्वेन प्रमाणत्वोपपत्तेः; तथा हि–प्रमाजनकं प्रमाणम्
इति सू304त्रं व्याचक्षाणेन भाष्य305कारेण उपलब्धिसाधना
नि प्रमाणानि न्यायभा॰ पृ॰ १८
इत्युक्तम् । तत्र व्याख्या
तॄणां मतभेदः–केचि306त् सन्निकर्षः अर्थोपलब्धौ साधकतमत्वात् प्रमाणम्
इति प्रतिपन्नाः, अन्ये307 तु कारकसाकल्यम् । तत्राद्यमतं तावत् समर्थ्यते । तत्र हि सन्निकर्ष
एव अर्थोपलब्धौ साधकतमत्वात् प्रमाणम् । साधकतमत्वं हि प्रमाणत्वेन व्याप्तं न पुनर्ज्ञान
त्वमज्ञानत्वं308 वा, संशयादिवत् प्रमेयार्थवच्च । 309तच्च अर्थोपलब्धौ सन्निकर्षस्यास्त्येव । नह्यस
न्निकृष्टेऽर्थे ज्ञानमुत्पत्तुमर्हति310 सर्वस्य सर्वत्रार्थे तदुत्पत्तिप्रसङ्गात् । 311तत्सद्भावावेदकञ्च प्रमाणं
312व्यवहितार्थानुपलब्धिरेव । यदि ह्यसन्निकृष्टमप्यर्थ चक्षुरादीन्द्रियं गृह्णीयात्, तर्हि व्यवहितमपि
किन्न गृह्णीयाद् अविशेषात् ?


किञ्च, इन्द्रियं कारकम्, 313कारकञ्चासन्निकृष्टं न फलप्रादुर्भावाय प्रभवति; तथा हि–इन्द्रियं
नाऽसन्निकृष्टेऽर्थे फलमुत्पादयति कारकत्वात् वास्यादिवत् । स्पर्शनादीन्द्रिये च प्राप्यकारित्वं
सुस्पष्टम्, तत्साधर्म्यादिन्द्रियान्तरेष्वपि तत् कल्प्यताम् अविशेषात् । स चैवं प्रसिद्धस्वरूपः स
29 न्निकर्षः प314ट्प्रकारो भवति–संयोगः, संयुक्तसमवायः, संयुक्तसमवेतसमवायः, समवायः, सम
वेतसमवायः, सम्बद्धविशेषणीभावश्चेति । तत्र चक्षुषो द्रव्येण संयोगः, त315त्समवेतैर्गुणकर्मसा
मान्यैः संयुक्तसमवायः, गुणकर्मसमवेतैः सामा316न्यैः संयुक्तसमवेतसमवायः, श्रोत्रस्य शब्देन
समवायः, शब्दत्वेन समवेतसमवाय,317 घटाद्य318भावेन समवायेन च सम्बद्धविशेषणीभाव इति ।
प्रत्यक्षञ्चा319त्पद्यमानं चतुस्त्रिद्विसन्निक320र्षादुत्पद्यते, तत्र बाह्ये रूपादौ चतुःसन्निकर्षादेव प्रत्यक्षमु
त्पद्यते–आत्मा हि मनसा युज्यते, मन इन्द्रियेण, इन्द्रियमर्थेनति । सुखादौ तु त्रयसन्निकर्षादेव
तत्र चक्षुरादिव्यापाराभावात् । आत्मनि तु योगिनां द्वयोरेवात्ममनसोः सन्निकर्षादिति ।


सन्निकर्षस्य प्रतिविधानम्–


अत्र प्रतिविधीयते । यत्तावदुक्त321म्–सन्निकर्ष एव साधकतमत्वात् प्रमाणम् इत्यादि;
तदसमीक्षिताभिधानम्; तस्यार्थप्रमितौ साधकतमत्वाऽसंभवात् । यद्
भा322वे हि प्रमितेर्भाववत्ता यदभावे चाऽभाववत्ता तत्तत्र साधकतमम् ।
भावाभावयोस्तद्वत्ता साधकतमत्व323म् इत्यभिधानात् ।
न चैतत् सन्निकर्षे सम्भवति, तस्मिन् सत्यपि क्वचित् प्रमित्यनुप324पत्तेः, 325आकाशादिना हि
घटवत् चक्षुषः संयोगो विद्यते, न चासौ तत्र प्रमितिमुत्पादयति । न चाकाशघटयोश्चक्षुषा
संयोगाविशेषेऽपि प्रमितेर्विशेषो युक्तः; 326तस्याः 327तद्धेतुकत्वाभावानुषङ्गात् । यदविशेषेऽपि यद्
30 विशिष्यते न तत् तद्धेतुकम् यथा परमाणोरविशेषेऽपि विशिष्यमाणौ घटपटौ, सन्निकर्षाविशेषे
ऽपि विशिष्यते च प्रमितिरिति । तस्माद् यद् यत्रोत्पन्नमव्यवधानेन फलमुत्पादयति तदेव तत्र
साधकतमम् यथा अपवरकान्तर्वर्तिपदार्थप्रकाशे प्रदीप, अव्यवधानेन प्रमितिमुत्पादयति च
उत्पन्नं स्वविषये विज्ञानम्, तस्मात्तदेव तत्र साधकतमम् । तस्मा328च्च प्रमाणम्, न पुन सन्निकर्षो
विप329र्ययात् ।


किञ्च, सन्निकर्षमात्रमत्र प्रमाणम्, तद्विशेषो वा ? न तावत् सन्निकर्षमात्रम्; संशयादा
वप्यस्याऽविशेषतः प्रामाण्यप्रसङ्गात् । विशिष्टश्चेत्, किमिदं तस्य वैशि330ष्ट्यं नाम-विशिष्टकार
णादात्मलाभः, विशिष्टप्रमोत्पादकत्वं वा ? प्रथमपक्षे घटादिवदाकाशेऽप्यस्य331 प्रामाण्यप्रसङ्गः,
विशिष्टकारणादात्मलाभस्योभयत्राविशेषात् । तदविशेषे चासौ332 कथं घटाद्यर्थ एव वैशिष्ट्यं प्रामा
ण्यं वा स्वीकुर्यान्नाकाशे ? द्वितीयपक्षोऽप्यनुपपन्नः; विशिष्टप्रमोत्पादकत्वस्य सन्निकर्षे प्रमिति प्रति
साधकतमत्वाभावतोऽसिद्धे, त333दभावश्चानन्तरमेव प्रतिपादितः । सिद्धौ वा कथमाकाशादिपरि
हारेण घटादावेवास्य त334त् स्यात् ? उभयत्राप्यविशेषेणासौ प्रमामुत्पादयेत् नैकत्रापि वा ।


ननु आकाशादावेवासौ प्रमां नोत्पादयति योग्यता335या अभावात्, न घटादौ वि336पर्ययात् ।
ननु केयं योग्यता नाम–शक्तिः337, प्रतिपत्तुः प्रतिबन्धापायो वा । शक्तिश्चेत्; किमतीन्द्रिया, सह
कारिसन्निधिलक्षणा वा ? तत्राद्यपक्षोऽयुक्त; अ338पसिद्धान्तप्रसङ्गात् । द्वितीयपक्षे तु कारकसाक
ल्यपक्षभाव्यशेषदोषानुषङ्गः, सहकारिसान्निध्यस्य कारकसाकल्यस्वरूपानतिक्रमात् । सहकारि
कारणञ्च विषयगतातिशयविशेषः, करणपाटवम्, धर्मविशेषः, अधर्मप्रक्षयः, द्रव्यम्, गुणः,
कर्म वा स्यात् । यदि विषयगतातिशयविशेष; कि339 रूपादिसमवायः, दृश्यता वा ? न तावद्रू
पादिसमवायः; अस्य प्रमोत्पत्ति प्रत्यकारणत्वात् । कथमन्यथा गुणकर्मसामान्येषु तद्रहितेषु
प्रमोत्पत्तिः स्यात् ? कथं वा परमाणौ त340दुत्पत्तिर्न स्यात् तत्र 341तत्समवायसंभवात् ? मह
त्यनेकद्रव्य342त्वाद्रूपविशेषाच्च रूपोपलब्धिः वैशे॰ सू॰ ४ । १ । ६
इत्यभ्युपगमेऽपि नेत्रमला
31 ञ्जनादौ प्रमोत्पत्तिप्रसङ्गः तदविशेषात् । अथ दृश्यता; सा आकाशादावस्त्येव, कथमन्यथा
अस्येश्वरप्रत्यक्षता ? करणानाञ्च पाटवम् काचकामलाद्यनुपहतत्वम्, आलोकादिसहकृतत्वं
वा ? द्वयमपि आकाशादौ संभवत्येव । धर्मविशेषोऽपि आकाशादिना चक्षुषः संयोगे सहकार्य
स्त्येव । न खलु तस्य343 तेन344 विरोधः; येन तत्सद्भावे धर्मविशेषस्यानु345त्पत्तिः प्रध्वंसो वा स्यात्,
विरोधे वा न घटाद्युपलम्भः कदाचिदपि स्यात् तदुत्पत्तौ धर्मविशेषस्य सहकारिणो विरोध्या
काशादिसंयोगसद्भावतोऽसंभवात् । अधर्मप्रक्षयस्तु प्रतिबन्धकापाय एव, तस्य च ज्ञानहेतुत्वे
सर्वं सुस्थम् तस्यैव प्रमां प्रति नियामकत्वोपपत्तेः । द्रव्यमपि नित्यव्यापिस्वरूपम्, तद्विपरीतं
वा सन्निकर्षस्य सहकारि स्यात् ? नित्यव्यापिस्वरूपञ्चेत्; तत् नयननभःसन्निकर्षेप्यस्त्येव,
अन्यथा कथं दिक्का346लाकाशात्मनां नित्यव्यापिद्रव्यस्वरूपता ? अनित्याऽव्यापिस्वरूपञ्चेत्;
तत् मनः, नयनम्, आलोको वा स्यात् ? त्रितयमपि आकाशादि347नेन्द्रियसन्निकर्षे संभवत्येव
घटादिवत् । गुणोऽपि प्रमेयगतः, प्रमातृगतः, उभयगतो वा तत्सहकारी स्यात् ? प्रमेयगतश्चेत्;
किन्नाकाशस्य प्रत्यक्षता गुणसद्भावाविशेषात् ? निर्गुणत्वे अस्य द्रव्यत्वानुपपत्तिः348, गुण349वत्त्वलक्ष
णत्वाद् द्रव्यस्य । अरूपित्वात्त350स्याऽप्रत्यक्षत्वे सामान्यादेरप्यप्रत्यक्षत्वप्रसङ्ग इत्युक्तम् । प्रमातृ
गतोपि अदृष्टः, अ351न्यो वा गुणो गगनेन्द्रियसन्निकर्षसमयेऽस्त्येव । उभयगतपक्षेपि उभयपक्षोप
क्षिप्तदोषानुषङ्गः । कर्मापि अर्थगतम्, इन्द्रियगतं वा तत्सहकारि स्यात् ? न तावदर्थगतम्;
प्रमोत्पत्तौ तस्यानङ्गत्वात्, कथमन्यथा स्थिरार्थानामुपलब्धिः ? इन्द्रियगतं तु तत् तत्रास्त्येव,
आकाशेन्द्रियसन्निकर्षे352 नयनोन्मीलनादिकर्मणः सद्भावात् । तस्मात् प्रति353पत्तुः प्रतिबन्धापायरूपैव
योग्यता उररीकर्त्तव्या, तत्रैवोक्ताशेषदोषाणामसंभवात् । यस्य यत्र यथाविधो हि प्रतिबन्धापायः,
तस्य तत्र तथाविधाऽर्थपरिच्छित्तिरुत्पद्यते । प्रतिबन्धापायश्च मोक्षविचारावसरे प्रसाधयिष्यते ।
न चैवं योग्यताया एवार्थपरिच्छित्तौ साधकतमत्वतः प्रमाणत्वात् ज्ञानं प्रमाणम् इति प्रतिज्ञा
विरुद्ध्यते; 354अस्याः स्वार्थग्रहणशक्तिस्वभावायाः स्वार्थावभासिज्ञानलक्षणप्रमाणसामग्रीत्वत
355दुत्पत्तावेव साधकतमत्वोपपत्तेः ।


चक्षुषश्च अप्राप्यकारित्वेन356 प्रसाधयिष्यमाणत्वान्न घटदिना संयोगः, तदभावान्न रूपादिना
32 संयुक्तसमवायादिः । संयुक्तसमवा357याच्च चक्षुषो रूप358वत् शब्दरसादौ, दिवा359कररूपवत् तत्कर्म
ण्य360पि च ज्ञानमुत्पद्येत अविशेषात् । संयुक्तसमवेतसमवायाच्च रूपत्ववद् रसत्वादौ, समवा
यात् शब्दवत् नभोमहत्त्वादौ, समवेतसमवायात् शब्दत्ववत् महापरिमाणत्वा361दौ । योग्यता362भ्यु
पगमे सैव नियामिकाऽस्तु अलं सन्निकर्षष363ट्कोद्घोषणेन । सम्बद्धविशेषणीभावस्तु संयोगा
दिसम्बन्धाऽसंभवादेव प्रत्युक्तः । न हि स364म्बन्धान्तरेणाऽसम्बद्धे वस्तुनि स365 घटते सह्य
विन्ध्यवत् ।


एतेन असन्निकृष्टस्य ग्रहणे सर्वस्य सर्वत्रार्थे ज्ञानोत्पत्तिः स्यात् इति प्रत्युक्तम्; योग्य
स्यैव ग्रहणात् । कथमन्यथा सन्निकृष्टे सर्वत्राप्यर्थे ज्ञानं नोत्पद्येत366 ? ततो यस्मिन् सत्यपि यन्नो
त्पद्यते न तत् तद्धेतुकम् यथा विद्यमानेऽपि यवबीजेऽनुत्पद्यमानो गोधूमाङ्कुरः, विद्यमानेऽपि
सन्निकर्षे नोत्पद्यते चार्थपरिच्छित्तिरिति ।


यदपि सन्निकर्षसद्भावे प्रमाणं व्यवहितार्थानुपलब्धिरेव इत्युक्तम्367, तदप्ययुक्तम्; अ
सिद्धत्वात्तरयाः, काचाभ्र368पटलस्फटिकस्वच्छोदकादिव्यवहितानामप्यर्थानामुपलब्धेः । य369दपि
कारकत्वात् इत्यादि तत्प्राप्यकारित्वे साधनमुक्तम्370; तदपि चक्षुषोऽप्राप्यकारित्वप्रसाधन
प्रस्तावे प्रतिविधास्यते । अत प्रत्यक्षञ्चोत्पद्यमानं चतुः-त्रि-द्विसन्निक371र्षादुत्पद्यते इत्यादि, वन्ध्या
372सुतसौभाग्यत्वादिव्यावर्णनप्रख्यं प्रतिभासते सन्निकर्षस्याऽसंभवे । संभवे वा असाधकतमत्वे
373तस्तथा प्रत्य374क्षस्यानुपपत्ते ।


कथञ्च सन्निकर्षप्रामाण्याभ्युपगमे 375सर्वज्ञवार्त्तापि स्यात् ? तद्विज्ञानं हि मानसमिन्द्रिय
जं वा चतुस्त्रिद्विसन्निकर्षाद् वर्त्तमानेष्वेवार्थेषु स्यात् नातीतानागतेपु, तेषामसत्त्वे 376तत्र 377तद्धेतो
सन्निकर्षस्य378 सत्त्वविरोधात् । यदसन् न तत्र ज्ञानहेतुः सन्निकर्षोस्ति यथा खरविषाणादौ, न
सन्ति च अतीतानागता वर्त्तमानार्थज्ञानोत्पत्तिसमये भावा इति । अथ यदा ते भविष्यन्ति
तदा तत्सन्निकर्षात् तत्र ज्ञानमुत्पत्स्यते; कथमेवमनन्तेनापि कालेन ईश्वरस्याऽशेषज्ञता स्यात् ?
वर्त्तमानाशेषार्थग्रहणादस्याशेषज्ञताभ्युपगमेऽपि, कथं तदुपदेशस्य अनागतेऽर्थे प्रामाण्यं स्यात्
33 यतस्तदर्थिनां तदुपदेशात्त379त्र प्रवृत्तिः स्यात् ? नित्यत्वात्तज्ज्ञानस्यायमदोषः; इत्यप्यसमीचीनम्;
तन्नित्यत्वस्येश्वरनिराकरणावसरे निराकरिष्यमाणत्वात् ।


कथञ्चैवं वा380दिनः साध्यसाधनयोः व्याप्तिः सिद्ध्येत् यतोऽनुमानं स्यात्, इन्द्रियप्रत्यक्ष
स्येव मानसप्रत्यक्षस्यापि सन्निकृष्टेष्वेवार्थेषु प्रवृत्तेः, व्याप्तिश्चानियतदेशकाला इति कथं सन्नि
कर्षप्रभवप्रत्यक्षात् प्रतीयेत ? ननु सामान्येन व्याप्तिः, तत्र च तत्प्रभवप्रत्यक्ष381स्य सामर्थ्यं
संभवात् कथन्नातस्त382त्सिद्धिः ? इत्यप्यसांप्रतम्; सामान्येन व्याप्तेः व्याप्तिविचारप्रघट्टके निरा
करिष्यमाणत्वात् । तन्न सन्निकर्षस्याज्ञानात्मनोऽनुपचरितं प्रामाण्यं घटते, नापि कारकसाकल्यस्य ।


कारकसाकल्यापरनामिका सामग्रीं प्रमाणयतो भट्टजयन्तस्य पूर्वपक्ष ।


अथ मतमेतत्–अव्य383भिचारादिविशेषणार्थोपलब्धिजनिका सामग्री प्रमाणम् । न च
सामग्र्याः कारककलापरूपत्वात्, तत्र च स्वरूपातिशयाभावान्न कस्य
चित्साधकत्वमुपपद्यत इत्यभिधातव्यम्; कारकसाकल्यस्य करण384ताभ्यु
पगमे साधकतमत्वस्योपपत्तेः । नह्येकस्य सामग्र्येकदेशस्य प्रदीपादेः
क्वचित्कार्ये करणता प्रतीयते । कि तर्हि ? सामग्रीस्वरूपस्य कारक
साक385ल्यस्यैव; तच्च प्रमातृप्रमेयसद्भावे संपद्यते । अतः सामग्र्येकदेशकारकसद्भावेऽपि कार्य
स्यानुत्पत्तेः नैकदेशस्य करणता, सामग्रीसद्भावेतु तस्यावश्यंभावेनोत्पत्तेः तस्या एव सन्निपत्य
जनकत्वेन साधकतमत्वादुपपन्नं करणत्वम् । करणं च प्रमाणम्, करणसाधनत्वात् प्रमाण
शब्दस्य । न च साकल्यव्यतिरेकेण कारकान्तरे साधकतमत्वं संभावयितुं शक्यम् । यदि
हि तद्व्यतिरेकेणासकलावस्थायामपि क्वचित्कारके प्रमितिरवकल्प्येत, स्यात्तत्रापि साधकतमत्वा
त्करणत्वम्, न चासौ तत्रावकल्प्यते प्रतीतिविरोधात्, तस्मात् साकल्यमेव करणम् ।


ननु करणं कर्तृकर्मापेक्षं भवति, कर्तृकर्मणोश्च सामग्र्यन्तः–पतितयोः स्वरूपप्रच्युतितः
असंभवात् कथं तदपेक्षं साकल्यस्य करणत्वमिति ? तदविचारितरमणीयम्; सा386कल्यान्तर्गत
34 कारकापेक्षयैवास्य करणत्वोपपत्तेः । साकल्यं हि नाम कारकाणां धर्म, न च स्वकीयो धर्मः
स्वस्यैव स्वरूपापहाराय प्रभवति, साकल्यावस्थायामपि कारकस्वरूपस्य प्रत्यभिज्ञायमानत्वाच्च
न त387त्रैषां स्वरूपप्रच्युतिः, तस्मात्तदन्तर्गतकारकापेक्षया लब्धकरणभावं साकल्यं प्रमाणम्,
न तु ज्ञा388नं फलरूपत्वात्तस्य । फलस्य च प्रमाणतानुपपन्नैव; त389तो भिन्नत्वात्तस्य390, प्रमीयते हि
येनार्थः तत्प्रमाणम् इति करणसा391धने प्रमाणशब्दव्युत्पादनात् करणस्यैव तद्रूपतोपपन्ना । अथ
व्यतिरिक्तफलजनकमपि ज्ञानमेव प्रमाणमुच्यते; तदयुक्तम्; सक392ललोकाङ्गीकृत-अज्ञानस्व393
भावस्य शब्दलिङ्गादेरप्रमाणता प्रसङ्गात् । ततो394 ज्ञानमपि सामग्र्यनुप्रविष्टमेव, विशेषणज्ञान
मिव विशेष्यप्रत्यक्षे, लिङ्गज्ञानमिव लिङ्गिप्रतीतौ, सारूप्यदर्शनमिव उपमाने, शब्दज्ञानमिव
तदर्थज्ञाने, प्रमाणत्वं प्रतिपद्यते । तस्मा395त् बोधाबोधस्वभावं कारकसाकल्यं प्रमाणम् इत्यय
मेव पक्षः प्रमाणोपपन्न इति ।


कारकसाकल्यस्यसाकल्पस्य प्रतिविधानम्


अत्र प्रतिविधीयते । यत्तावदुक्तम्–अव्यभिचारादिविशेषण इत्यादि; तदयुक्तम्; यतो
396मुख्यतः, उपचारेण वा कारकसाकल्य397स्य प्रामाण्यं स्यात् ? मुख्यो
398पचारभेदेन हि शब्दानां द्विविधा प्रवृत्तिः प्रतीयते, अन्नं वै प्राणाः
इत्यादिवत् । तत्र न तावन्मुख्यतः, अज्ञानरूपस्यास्य स्वपरप्रमितौ
मुख्यतः साधकतमत्वाभावतो मुख्यतः प्रमाणत्वस्यानुपपत्तेः । 399तत्प्रमितौ मुख्यतः साधकतमत्वं
35 हि अज्ञानविरोधिना ज्ञानेनैव व्याप्तम् तत्रास्य400 अपरेणाव्यवधानात् । साकल्यस्य तु ज्ञानेन
व्यवधानान्न तन्मु401ख्यम्; प्रयोगः–य402द् यत्र अपरेण व्यवहितं न तत्तत्र मुख्यरूपतया साधक
तमव्यपदेशमर्हति यथा छिदिक्रियायां कुठारेण व्यवहितोऽयस्कारः, स्वपरप्रमितौ विज्ञानेन व्य
वहितं च परपरिकल्पितं साकल्यमिति । उपचारेण तत्प्रामाण्याभ्युपग403मे तु न किञ्चिदनिष्टम्,
मुख्यरूपतया हि स्वपरप्रमितौ साधकतम404स्य ज्ञानस्य उत्पादकत्वात्त405स्यापि साधकतमत्वम्,
तस्माच्च प्रमाणत्वम्, कारणे कार्योपचारात् अन्नं वै प्राणाः इत्यादिवत् ।


किञ्च तम406ग्रहणस्य प्रकर्षोऽर्थः, प्रकर्षश्च अपकृष्टसव्यपेक्षः, अतो यावन्न पृथक् साधकं
साधकतरं वा407ऽवस्थितम्, न तावत्साधकतमत्वं वक्तुं शक्यते तदपेक्षत्वात्तस्य । सामग्री च
अनेककारकस्वभावा, अनेककारकसमुदाये च न कस्यचित् स्वरूपातिशयः शक्यते वक्तुम्,
सर्वेषामभिप्रेत408कार्यं प्रति व्यापाराऽविशेषात् । कर्तृ-कर्म-करणसन्निधौ हि समुत्पद्यमानं प्रती
यते कार्यम्, तदभावे चानुत्पद्यमानं तत्कथं कस्यचिदतिशयो निर्देष्टुं 409शक्यते ? निःशेषविव
क्षायां च अपेक्षणीयस्याभावात् कथं साधकतमत्वम् ? सकलकारककलापरूपा किल सामग्री,
तस्याः किमपेक्षं410 साधकतमत्वम् ? अपेक्षणीयसद्भावे 411वा न तद्रूप412ता अस्याः स्यात् ।


किञ्च इदं साधकतमत्वं विवक्षातः कस्यचित्स्यात्, सन्निपत्य कार्यजननात्, सहसा
कार्योत्पादनाद्वा ? तत्र यद्यपि अनेककारकजन्यं कार्यम् तथापि विवक्षातः कारकाणां प्रवृत्तिः,
इति कस्यचिदेव साधकतमत्वं विवक्ष्यते413 इति चेत्; ननु विवक्षा पुरुषेच्छा, नचासति वैल
414क्षण्ये तन्निबन्धना415 वस्तुव्यवस्था युक्ता अतिप्रसङ्गात् । अथ 416सन्निपत्यकार्यजननम्, तदपि
ज्ञाने कर्त्तव्ये सर्वेषामिन्द्रियमनोऽर्थादानां तुल्यम्, कस्यचिदपि असन्निपत्यजनकत्वाभावात्,
इतरेतरसंसर्गे सत्येवास्योत्पत्तेः ।


नापि स417हसैव कार्योत्पादकत्वं साधकतमत्वम्, कर्मण्यपि अस्य गतत्वात् । सीमन्तिनी
समुदाये हि अद्भुतरूपा सीमन्तिनी झटित्यात्मविषयं विज्ञानमुत्पादयति ।


36

यदप्युक्त418म्–न ह्येकदेशस्य दीपादेः करणता इत्यादि; तदप्यनुपपन्नम्; प्रतीतिबा
धितत्वात् । न419 हि कश्चिल्लौकिकः परीक्षको वा सामग्र्याः करणत्वं प्रतिपद्यते, सामग्र्या
पश्यामः
इति तस्याः करणविभक्त्या निर्देशप्रसङ्गात् । न चैवं कश्चिदपि निर्दिशति दीपेन
पश्यामः, चक्षुषा निरीक्षामहे
इति तदेकदेशानामेव तन्निर्देशप्रतीतेः । किञ्च, करणमिति योऽयं
व्यपदेशः स कर्तृकर्मापेक्षः, कर्त्रा कार्ये व्यापार्यमाणस्य कारकविशेषस्य करणत्वप्रतीतेः कुठा
रादिवत् ।


सामग्र्याश्च करणत्वे कर्तृकर्मणी तदन्तर्गते, ततोऽर्थान्तरभूते वा स्याताम् ? प्रथमपक्षे
सामग्रीस्वरूपादभिन्नत्वात् तत्स्वरूपवत् त420योः करणतैवोपपन्ना । न421च करणरूपताया
मपि अनयोः कर्तृकर्मरूपता युक्ता परस्परविरोधात् । कर्तृता422 हि ज्ञानचिर्कीषाप्रयत्नाधारतेष्यते,
निर्वर्त्त्यत्वादिधर्मयोगित्वं कर्मत्वम्, करणत्वं तु साधकतमत्वम् इत्येषां कथमेकत्र संभवः ?
विषया423भावे च निरालम्बनाः सर्वा संविदः प्रसज्यन्ते, चक्षुरादिवत् आलम्बनकारकस्य प्रमा
णान्तःपातित्वात् । क424श्चेदानी सामग्र्या प्रमेयं प्रमिमीते ? प्रमातुरपि अ425स्यामेवान्तर्लीनत्वात् ।
द्वितीयपक्षोऽप्ययुक्त; सकलकारकव्यतिरेकेणार्थान्तरभूतयो कर्तृकर्मणोरभावात्, भावे वा न
कारकसाकल्यम् । कार्योत्पत्तौ हि यावतामुपयोगः ते सकलशब्दवाच्याः, कर्त्तृकर्मणोश्च व्यतिरेके
कथं परिशिष्टानां सकलत्वम् ?


यच्चान्यदुक्त426म्–साकल्यान्तर्गतकारकापेक्षयैवास्य करणत्वोपपत्तेः इत्यादि; तदप्यसाम्प्र
तम्; 427यतः पृथगवस्थापेक्षाणि कारकाणि कर्मादिभावं भजन्ते, समुदायावस्थापेक्षाणि तु करण
भावं । तथा च य428दा कर्मादिता न त429दा करणता, यदा तु 430सा, न तदा कर्मादिता इति नैक
मपि रूपं व्यवतिष्ठेत अन्योन्यापेक्षत्वात्, कर्मादिरूपं हि करणस्वरूपापेक्ष 431तच्च कर्माद्यपेक्षमिति ।
37 किञ्च432 सामग्रीजनने व्यापृताः कर्मादयः, तेऽस्यां433 कारणत्वेन प्रतीयन्ते सा434 च प्रमिति
लक्षणे फले करणत्वेन, अतश्च फलं प्रति सा एकैव व्याप्रियमाणा कथं विषयान्तरे व्यापृत
कर्तृकर्मभ्यामति435शयं प्रतिपद्येत ? अपि च, सामग्रीजनने व्याप्रियमाण आत्मा यदा सामग्री
करण436तां प्रतिपद्यते तदा फलविषये कस्य कर्तृत्वम् आत्मनः सामग्रीजनने व्यापारात् ? न च
आत्मा आत्मानं सामग्र्या मध्ये प्रक्षिप्य सामग्री जनयन् पश्चात्तामेव करणत्वेन व्यापारयन्
कर्तृतामनुभवति एक437स्वरूपस्यैवंविधानेकव्यापारविरोधात्, नित्यैकरूपे वस्तुनि कार्यकारित्वा
नुपपत्तेश्च ।


किञ्च, समग्रा एव सामग्री, समग्राणां धर्मो वा ? तत्राद्यपक्षे सर्वेषां फलं प्रति अन्वयव्य
तिरेकानुविधानात् कस्य करणता इति न विद्मः । करणं हि साधकतमम्, तमार्थश्च प्रकर्षः
कार्यं प्रति अव्यवधानेन व्यापारः, स चेत् स438र्वेषां तुल्यस्तदा कथं कस्यचिदेव करणत्वं
सिद्ध्येत् ? अथ439 तेषां धर्मः; स कि नित्यः, अनित्यो वा स्यात् ? न तावन्नित्यः, कादाचित्क
त्वात् सुखादिवत् । अथानित्यः; कुतो जायेत तत एव, अन्यतो वा ? न तावदन्यतः; अनभ्यु
पगमात् । तत एवचेत्; तर्हि अयमर्थः सम्पन्नः-समग्रास्तावत् सामग्रीलक्षणं कार्यं जनयन्ति,
सा च फलम्, तदा त440स्या एकत्वात् किमपेक्ष्य साधकतमत्वं स्यात् ?


किञ्च, समग्राणां भावः सामग्री, भावशब्देन च तेषां441 सत्ता, स्वरूपमात्रम्, समुदायः,
सम्बन्धः, ज्ञानजनकत्वं वाऽभिधीयेत442 प्रकारान्तरासंभवात् ? तत्राद्यविकल्पद्वये अतिप्रसङ्गः;
व्यस्तावस्थायामपि तत्सत्तायाः स्वरूपमात्रस्य च सद्भावतः प्रामाण्यप्रसङ्गात् । समुदायोऽपि एका
भिप्रायतालक्षणः, एकदेशे मिल443नस्वभावो वा ? तत्राद्यपक्षोऽनुपपन्नः; विषयेन्द्रियादेः निरभिप्राय
त्वात् । द्वितीयपक्षोप्ययुक्तः; चन्द्राऽर्कादिविषयस्य इन्द्रियादेश्च एकदेशे मिलनाऽसंभवात् । सम्बन्ध
पक्षोऽपि अनेनैव प्रत्याख्यातः; चन्द्रादेश्चक्षुरादिना सम्बन्धाऽभावात् तस्याप्राप्यकारित्वात्,
तदप्राप्यकारित्वञ्चाग्रे प्रसाधयिष्यामः । अथ ज्ञानजनकत्वं भावशब्देनाभिधीयते; तर्हि प्रमातृप्र
मेययोरपि प्रमाणत्वप्रसङ्गः तज्जनकत्वाऽविशेषात्, तथाच प्रतीतिसिद्धत444द्व्यवस्थाविलोपः स्यात् ।
न च तज्जनकत्वाऽविशेषेऽपि स्वेच्छावशात् क्वचिदेव प्रमात्रादिव्यवस्था युक्ता; सर्वस्य स्वेष्टतत्त्व
सिद्धिप्रसङ्गात् इच्छायाः सर्वत्र निरङ्कुशत्वात् ।


38

किञ्च, आत्मादयो भावाः नित्यैकरूपास्तज्जननस्वभावा सन्तः तज्जनयन्ति, अतज्जननस्व
भावा वा ? न तावदतज्जननस्वभावाः; सर्वस्मात् सर्वस्योत्पत्तिप्रसङ्गात् । अथ तज्जननस्व
भावा; किन्न सर्वदा ते तज्जनयन्ति नित्या445नां सर्वदा तज्जननस्वभावानां तेषां सदा सत्त्वात् ?
एकप्रमाणोत्पत्तिसमये सक446लतदुत्पाद्यप्रमाणोत्पत्तिप्रसङ्गश्च । यदा हि यज्जनकमस्ति तत् तदो
त्पत्तिमत् प्रसिद्धम् यथा तत्कालाभिमतं प्रमाणम्, अस्ति च पूर्वोत्तरकालभाविनां निखिल
प्रमाणानां तदा नित्याभिमतमात्मादिका447रणमिति । तत्सद्भावेऽप्येषामनुत्पत्तौ न कदाचिदप्यत
स्तदुत्पत्तिः इत्यखिलं जगत् प्रमाणविकलमापद्येत448 । तत्करणसमर्थे सत्यप्यात्मादिकारणेऽ
भवतां स्वयमेव पश्चाद्भवतां तत्कार्यता च कथमेषामुपपद्यते ? य449द् यस्मिन् समर्थे सत्यपि
नोत्पद्यते स्वयमेव पश्चाद्यथाकालमुत्पद्यते न तत् तत्कार्यम् यथा सत्यपि कुम्भकारेऽनुत्पद्यमान
पटः, नोत्पद्यते च आत्मादौ तत्करणसमर्थे सत्यप्यखिलप्रमाणानीति । य450त्र यदा यथा यत्
प्रमाणमुत्पित्सुः तत्र तदा तथा आत्मादेस्तत्करणसमर्थत्वान्नैकदा सकलप्रमाणोत्पत्ति; इत्यप्य
समीक्षिताभिधानम्; स्वभावभूतसामर्थ्यभेदमन्तरेण कार्यस्य कालादिभेदानुपपत्तेः । यस्य
स्वभावभूतसामर्थ्यभेदो नास्ति नासौ कालादिभिन्नकार्यकारी यथा निरंशः सौगतपरिकल्पितः
क्षण, नास्ति च स्वभावभूतसामर्थ्यभेदो नित्यैकस्वभावाभिमतस्यात्मादेरिति । स्वभावभूतसा
मर्थ्याभेदेऽपि कार्यभेदाभ्युपगमे च पार्थिवपरमाण्वादिकारणभेदपरिकल्पनं व्यर्थम्, एकमेव
नित्यैकस्वभाव प451रमब्रह्मादिकारणं पृथिव्याद्यनेकार्यकारि परिकल्प्यताम् । कारणजातिभेदमन्तरेण
कार्यभेदा452ऽसंभ453वे शक्तिभेदोऽप्यस्तु, त454मन्तरेणापि त455दसंभवात् ।


किञ्च, स456कलेभ्यः साकल्यं भिन्नम्, अभिन्नं वा स्यात् ? भि457न्नञ्चेत्; किमिति पृथक्
घटादिवन्नोपलभ्यते458 ? किञ्च, भिन्नं सत् तत्तत्र सम्बद्धम्, असम्बद्धं वा ? असम्बद्ध
चेत्; कथं तद्धर्म ? यद् यत्र न सम्बद्ध्यते न तत् तद्धर्मः यथा सह्येऽसम्बद्धो विन्ध्यो न
तद्धर्मः, कारकेष्वसम्बद्धञ्च तत्साकल्यमिति । सम्बद्धञ्चेत्459 कि समवायेन, सयोगेन, विशेष
णभावेन वा ? न तावत्समवायेन; अस्याऽसिद्धे, तदसिद्धिश्च पट्पदार्थपरीक्षायां निराकरिष्य
माणत्वात्सिद्धा । नापि संयोगेन, अस्य गुणत्वेन द्रव्येष्वेव संभवात्, साकल्यस्य चाऽद्रव्यत्वात् ।
39 नापि विशेषणभावेन; सम्बन्धान्तरेणासम्बद्धे वस्तुनि विशेषणभावस्यैवासंभवात् । अ460स्तु वा केन
चि461त्तत्तत्रैव सम्बद्धम्; तथापि युगपत् सकलकारकेषु सम्बद्ध्यते, क्रमेण वा ? युगप462च्चेत्; किमेकं
सत्, अनेकं वा ? यद्येकम्; सामा463न्यादिरूपताप्रसङ्गः, तद्रूपता च सामान्यादिदोषेण464 दुष्ट
त्वान्न465 श्रेयसी । अथानेकम्; तर्हि यावन्ति कारकाणि तावद्धा त466द् भिद्येत । अथ क्रमेण; तर्हि सक
लकारकधर्मता साकल्यस्य न स्यात्; यदैव हि तस्यैकेन सम्बन्धो, न तदैवान्येनेति । अथा467
भिन्नं तत् तेभ्यः; तर्हि तान्येव न साकल्य468म्, तदा करणरूपतैव वाऽशेषकारकाणांस्यात्, सापि
वा न स्यात् कर्त्तृकर्मापेक्षत्वात्त469स्याः, त470योश्चेत्थमसंभवात्, तथा च कस्य प्रमाणता स्यात् ?
ततः कारकसाकल्यस्य स्वरूपेण विचार्यमाणस्यानुपपत्तेर्न प्रामाण्यम् । यत् स्वरूपेण विचार्य
माणं नोपपद्यते न तत् प्रमाणम् यथा गगनेन्दीवरम्, स्वरूपेण विचार्यमाणं नोपपद्यते च पर
परिकल्पितं कारकसाकल्यमिति । उपपद्यतां वा तत्; तथापि न मुख्यतः प्रमाणम्, अज्ञानरूप
स्यास्य उपचारादन्यत्र प्रामाण्यानुपपत्तेः । न च लिङ्ग-शब्दादिना व्यभिचारः; तस्यापि उपचा
रादेव प्रामाण्याभ्युपगमात् ।


किञ्च, निर्विकल्पकप्रमित्यपेक्षया सन्निकर्षस्य कारकसाकल्यस्य वा प्रमाजनकत्वेन प्रामाण्यं
स्यात्, सविकल्पकप्रमित्यपेक्षया वा ? तत्राद्यपक्षोऽनुपपन्नः; संशयादिहेतुनिर्विंकल्पकदर्शन
जनकस्यापि सन्निकर्षादेः प्रामाण्यप्रसङ्गात् । न च त471त्रास्य472473ज्जनकत्वं नास्तीत्यभिधातव्यम्;
संशयादेः प्रत्यक्षाभासत्वाभावप्रसङ्गात् । द्वितीयविकल्पोप्ययुक्तः; सविकल्पकप्रमोत्पत्तौ सन्नि
कर्षादेर्निर्विकल्पकज्ञानेन व्यवधानतः साधकतमत्वानुपपत्तेः । यस्य य474दुत्पत्तौ अपरेण व्यवधानं
न तस्य तदुत्पत्तौ साधकतमत्वम् यथा छिदिक्रियोत्पत्तौ कुठारेण व्यवहितस्यायस्कारस्य,
व्यवधानञ्च निर्विकल्पकेन सविकल्प475कप्रमोत्पत्तौ सन्निकर्षादेरिति । अतोऽज्ञान476रूपस्य सन्नि
कर्षादेर्न मुख्यतः कथमपि प्रामाण्यमुपपद्यते ।


40

इन्द्रियवृत्ति प्रमाणम्
इति साख्यमतनिरसनम्–


ननु यद्यपि सन्निकर्षस्य कारकसाकल्यस्य वाऽज्ञानरूपस्य प्रामाण्यं नोपपद्यते; तथापि न
ज्ञानमेव प्रमाणं सिद्ध्यति, इन्द्रियवृत्तेः अर्थप्रमितौ साधकतमत्वेन
प्रामाण्योपपत्ते । इन्द्रिया477णां हि वृत्तिः विषयाकारपरिणतिः । न
खलु तेषां प्रतिनियतशब्दाद्याकारपरिणतिव्यतिरेकेण प्रतिनियत
शब्दाद्यालोचनं घटते । अतो विषयसम्पर्कात् प्रथममिन्द्रियाणां ताद्रूप्यापत्तिः इन्द्रियवृत्तिः,
तदनु विषयाकारपरिणतेन्द्रियवृत्त्यालम्बना मनोवृत्तिः । अथ कस्मान्मनोवृत्तिः अक्षवृत्त्यालम्बना
न शब्दाद्यालम्बना ? इति चेत्; अबहिर्वृत्तित्वात्, अन्यथा बाह्येन्द्रियकल्पनानर्थक्यं स्यात् ।

इत्यभिदधानः साङ्ख्योऽप्येतेनैव प्रत्या478ख्यातः ।


अचेतनस्वभावाया इन्द्रियवृत्तेरप्युपचारादन्यतोऽर्थप्रमितौ साधकतमत्वानुपपत्तेः । का
चेयमिन्द्रिय479वृत्तिः–विषयं प्रति तेषां गमनम्, आभिमुख्यं वा स्यात्, आकारधारित्वं वा ?
तत्राद्यपक्षोऽनुपपन्नः; विषयं प्रतीन्द्रियाणां गमनस्य इन्द्रियाप्राप्यकारित्वप्रक्रमे निराकरिष्यमाण
त्वात् । द्वितीयपक्षोऽप्ययुक्त, विषयं प्रत्याभिमुख्यस्य प्रगुणतापरपर्यायस्य अर्थपरिच्छितौ साध
कतमज्ञानहेतुत्वाद् उपचारत एव साधकतमत्वोपपत्तेः । विषयाकारधारित्वं पुनरिन्द्रियस्य अनु
पपन्नम्; प्रतीतिविरोधात् । न ख480लु दर्पणादिवत् तदाकारधारित्वेन श्रोत्रादीन्द्रियं प्रत्यक्षतः
प्रतीयते त481द्वत्तत्र482 विप्रतिपत्त्यभावप्रसङ्गात् । न हि प्रत्यक्षप्रतिपन्नेऽर्थे कश्चिदबालिशो विप्रति
41 पद्यते । नाप्यनुमानतः; तदविनाभाविनो लिङ्गस्याऽसंभवात् । न च प्रतिनियतार्थप्रतिपत्तिरेव
लिङ्गमित्यभिधातव्यम्; तस्याः सारूप्य483मन्तरेणाप्युपपत्तेः । तथोप484पत्तिश्चास्याः विज्ञाननिराका
रतासिद्ध्यवसरे प्रसाधयिष्यते ।


अस्तु वा काचित् तद्वृत्तिः; तथाप्य485सौ तेभ्यो भिन्ना, अभिन्ना वा स्यात् ? यद्यभिन्ना;
श्रोत्रादिमात्रमेव सा, तच्च सुपुप्तादावप्यस्तीति सुप्त-प्रबुद्धयोरविशेषप्रसङ्गात् तद्व्यवहाराभावः
स्यात् । अथ भिन्ना; किमसौ तत्र सम्बद्धा, असम्बद्धा वा ? यद्यसम्बद्धा; कथं 486श्रोत्रादेरियं
वृत्तिरिति व्यपदिश्येत ? यद् यत्राऽसम्बद्धं न तत् तस्येति व्यपदिश्यते यथा सह्ये विन्ध्यः,
असम्बद्धा च श्रोत्रादिना वृत्तिरिति । अथ सम्बद्धा; कि समवायेन, संयोगेन, विशेषणभावेन
वा ? न तावत् समवायेन; अ487स्याऽसिद्धस्वरूपत्वात्, त488दसिद्धस्वरूपता चाग्रे निराकरिष्यमाण
त्वात् प्रसिद्धा । तत्स्वरूपसिद्धौ वा नित्यव्यापिनोऽस्य श्रोत्रादेश्च तथाविधस्य सद्भावे
प्रतिनियतदेशा वृत्तिरभिव्यज्य489ते इति दुर्घटम् । नापि संयोगेन; तद्वृत्ते
र्द्रव्यान्तरत्वानुपङ्गात्, न हि द्रव्याऽद्रव्ययोः संयोगो युक्तः; अ490स्य गुणत्वेन द्रव्याश्रयत्वात् ।
तथा च इन्द्रियधर्मताभ्युपगमो वृत्तेर्विरुद्ध्यते । नापि विशेषणभावेन; सम्बन्धान्तरेणाऽसम्ब
द्धेऽर्थे सह्यविन्ध्यादिवत्तस्या491ऽसंभवात् । तस्माद्492 इन्द्रियवृत्तेर्विचार्यमाणाया सत्त्वाऽसंभवात्
कथम् विषयाकारपरिणतेन्द्रियवृत्त्यालम्बना मनोवृत्तिः इति सुघटं स्यात् ? इन्द्रियवृत्तेर्विषया
कारपरिणतत्वानुपपत्तौ मनोवृत्तेस्तदालम्बनत्वानुपपत्तेः । ततो बाह्यार्थालम्बनैवासौ493 युक्ता । न
चैवं बाह्येन्द्रियकल्पनानर्थक्यानुषङ्गः; मनसः 494तत्सापेक्षस्यैव 495अर्थप्रवृत्तिप्रतीतेः, विज्ञानोत्पत्तौ तेषा496
497मन्योन्यं सहकारिभावात् । न खलु बाह्येन्द्रियनिरपेक्षा मनसो विज्ञानोत्पत्तौ प्रवृत्तिः; अदृष्ट
पूर्वेऽप्यर्थे त498तस्त499दुत्पत्तिप्रसङ्गात् । नापि मनोऽनपेक्षा बाह्येन्द्रियाणाम्500; अन्यत्र गतचित्तस्या
प्यतो501 विज्ञानोत्पत्तिप्रसङ्गादिति ।


ननु सन्निकर्पकारकसाकल्येन्द्रियवृत्तीनाम् उक्तदोषदुष्टत्वान्माभूत् प्रामाण्यम्, 502ज्ञातृव्या-


42

ज्ञातृव्यापारप्रामाण्यवादे प्राभाकरस्य पूर्वपक्ष–


पारस्य तु भविष्यति; तमन्तरेण अर्थप्रकाशताख्यफलाऽनिष्पत्तेः ।
न हि व्यापारमन्तरेण कार्यस्योत्पत्तिः अतिप्रसङ्गात् । का503रकस्य
कारकत्वमपि क्रियावेशवशादेव उपपद्यते, करोतीति कारकम्
इति व्युत्पत्ते, इतरथा हि तद् वस्तुमात्रं स्यान्न कारकम्, क्रिया504विष्टं द्रव्यं कारकम्
इत्यभिधानात् । न च त505न्मात्रं फलार्थिभिरुपादीयते, अभिप्रेतप्रयोजनप्रसाधकस्यैव
तैरुपादानात् । त506तो यथा कारकाणि तन्दुल-सलिला-ऽनल-स्थाल्यादीनि सिद्धस्वभावानि असि
द्धस्वभावपाकलक्षणधात्वर्थं साधयितुं संसृज्यन्ते, संसृष्टानि च क्रियामुत्पादयन्ति, तथा
आत्मेन्द्रियमनोऽर्थसम्प्रयोगे सति ज्ञा507तुर्व्यापारोऽर्थप्राकट्यहेतुरुपजायते अ508तोऽसौ प्रमाणम्, अर्थ
प्राकट्यलक्षणे फले साधकतमत्वात्, यत्पुनः प्रमाणं न भवति न तत् तत्र साधकतमम् यथा
सन्निकर्पादि, साधकतमश्च तल्लक्षणे फले ज्ञातृव्यापार इति ।


अचेतनस्वरूपस्य ज्ञातृव्यापारस्य प्रामाण्यनिरास–


अत्र प्रतिविधीयते । यत्तावदुक्तम्–ज्ञातृव्यापारस्य प्रामाण्यं भविष्यति इत्यादि; तदसमी
चीनम्; यतोऽस्य प्रसिद्धसत्ताकस्य प्रामाण्यं प्रार्थ्येत, अप्रसिद्धसत्ता
कस्य वा ? न तावदप्रसिद्धसत्ताकस्य; अतिप्रसङ्गात्, अनुमानविरो
धानुषङ्गाच्च । तथाहि–यदप्रसिद्धसत्ताकं न तत् प्रमाणम् यथा गगनेन्दी
वरम्, अप्रसिद्धसत्ताकश्च प्रभाकरमतानुसारिभिरभिप्रेतो ज्ञातृव्यापार इति । अथ प्रसिद्ध
सत्ताकस्यास्य प्रामाण्यं प्रार्थ्येत, ननु कुतोऽस्य प्रसिद्धा सत्ता–स्वप्रक्रियोपवर्णनमात्रात्,
प्रमाणतो वा ? प्रथमपक्षे सन्निकर्षादेरपि त509था प्रसिद्धसत्ताकस्य प्रामाण्यप्रसङ्गात् कुतोऽप्रतिपक्षा
भवत्पक्षसिद्धि स्यात् ? प्रमाणतोऽपि–प्रत्य510क्षात्, अनुमानादेर्वा तत्सिद्धिः स्यात् ? यदि
43 प्रत्यक्षात्511; तत्किम् इन्द्रियार्थसंयोग512जात्, आत्ममनःसन्निकर्षप्रभवात्, स्वसंवेदनाद्वा ? तत्रा
द्यविकल्पोऽयुक्तः; चक्षुरादीन्द्रियाणां स्वसम्बद्धे513 ग्रहणयोग्ये चार्थे ज्ञानजनकत्वाभ्युपगमात् । न
च ज्ञातृव्यापारेण सह तेषां514 सम्बन्धः संभवति; प्रतिनियतै रूपादिभिरेवैषां सम्बन्धसंभवात्,
अत्यन्तपरोक्षतया तस्य515 ग्रहणायोग्यत्वाच्च । अस्तु वा तस्य तैः सम्बन्धः, ग्रहणयोग्यता च;
तथाप्य516सौ चक्षुरादिसहायः स्वविषयविज्ञानमुत्पादयन् अपरज्ञातृव्यापारसहकृत उत्पादयति,
असहकृतो वा ? प्रथमपक्षे, अनवस्था517-तद्व्यापारस्यापि अपरतद्व्यापारसापेक्षस्य स्वविषय
विज्ञानोत्पादकत्वप्रसङ्गात् । द्वितीयपक्षस्त्वनुपपन्नः; अपरत518द्व्यापाराऽसहकृतस्यास्य519 कर्मभूतस्य
स्वविषयविज्ञानजनकत्वानुपपत्तेः । तथाहि–ज्ञातृव्यापारः स्वविषयं विज्ञानमपरज्ञातृव्यापा
रसहकृत एवोत्पादयति, कर्मतया स्वविषयविज्ञानोत्पादकत्वात्, घटादिवत् । त520थाभूतस्याप्यस्य
521तदसहकृतस्य तज्जनकत्वे घटादेरपि 522तन्निरपेक्षस्यैव स्वविषयविज्ञानजनकत्वप्रसङ्गाद् अलं ज्ञातृ
व्यापारपरिकल्पनया । एतेन द्वितीयपक्षोप्यपास्त; प्रतिपादितदोषाणां तत्राप्यनुषङ्गाऽविशे
षात् । न च ग्रहणाऽयोग्ये वस्तुनि आत्ममनःसन्निकर्षप्रभवं प्रत्यक्षं प्रवर्त्तितुमुत्सहते, तद्योग्य
एव सुखादावस्य प्रवृत्तिप्रतीतेः । भवत्कल्पितयोः नित्यनिरंशस्वभावयोः व्यापकाऽणुरूपयो
आत्ममनसोः प्रमाणतोऽप्रसिद्धेश्च । तदप्रसिद्धिञ्च षट्पदार्थपरीक्षायां आत्म-मनोद्रव्यपरी
क्षावसरे प्रपञ्चतः प्रतिपादयिष्यामः । नापि स्वसंवेदनात्तत्सिद्धिः; अनभ्युपगमात्, अत्यन्त
परोक्षे तस्मिन् स्वसंवेदनविरोधाच्च । तन्न प्रत्यक्षाज्ज्ञातृव्यापारसिद्धिः ।


नाप्यनुमानात्; ज्ञातसम्बन्धस्यैकदेशदर्शनादसन्निकृष्टेऽर्थे 523बुद्धिः शावरभा॰
१ । १ । ५ पृ॰ ३६
इत्येवंरूपत्वात्तस्य । 524सम्बन्धप्रतिपत्तिश्च प्रत्यक्षतः, अनुमानाद्वा स्यात् ? न
तावत्प्रत्यक्षतः; ज्ञातृव्यापारस्य अत्यन्तपरोक्षतयाभ्युपगमे अर्थप्राकट्यलक्षणहेतोः तत्सम्बद्ध
त्वेन प्रत्यक्षतः प्रतिपत्तेरनुपपत्तेः, उभयस्वरूपग्रहणे हि इदमनेन सम्बद्धम् इति सम्बन्ध
प्रतीतिर्युक्ता अग्निधूमवत् । नाप्यनुमानात्; अनवस्थाप्रसङ्गात्–तदपि ह्यनुमानं निश्चित
प्रतिबन्धाद्धेतोरुत्पद्यते तत्प्रतिबन्धनिश्चयश्च अनुमानान्तरादिति । प्रथमानुमानात्तन्निश्चये च
इतरेतराश्रयः । एतेन अर्थापत्तितोऽपि ज्ञातृव्यापारसिद्धिः प्रत्युक्ता; 525तदुत्थापकस्याप्यर्थस्य
साध्यसम्बन्धसिद्धावेव गमकत्वोपपत्तेः, नान्यथा अतिप्रसङ्गात्, तत्सिद्धौ चोक्तदोषानुषङ्गः ।
44 किञ्च526, असौ ज्ञातृव्यापारः कारकजन्यः, तदजन्यो वा ? न तावत्तदजन्यः; तथाहि–
ज्ञा527तृव्यापारो न कारकाऽजन्यः, व्यापारत्वात्, पाचकादिव्यापारवत् । किञ्च, असौ तदजन्यः
528न् भावरूपः, अभावरूपो वा स्यात् ? अभावरूपत्वे अर्थप्रकाशनलक्षणफलजनकत्वविरोधः ।
अविरोधे वा फलार्थिनः कारकान्वेषणमफलमेव स्यात्, विश्वमदरिद्रञ्च स्यात् कारणाऽभावा
देवाऽखिलप्राणिनामभिमतफलसिद्धेः । अथ भावरूपः; तत्रापि किमसौ नित्यः, अनित्यो वा ?
नित्य529त्वे सर्वस्य सर्वपदार्थप्रतिपत्तिप्रसङ्गात् प्रदीपादिकारकान्वेषणवैयर्थ्यम्, अन्ध-सुप्तादिव्य
बहारोच्छेदानुषङ्गश्च स्यात् । अथाऽनित्यः; तदयुक्तम्; भावस्वभावस्य अजन्यात्मनोऽर्थस्य अ
नित्यत्वविरोधात् । यो भावस्वभावोऽजन्यार्थो नाऽसौ अनित्यः यथाऽऽकाशादिः, तथाभूत
श्चायं ज्ञातृव्यापार इति । अस्तु वा अनित्यः; तथाप्यसौ–कालान्तरस्थायी, क्षणिको वा ? प्रथ
मपक्षे क्षणिका530 हि सा न कालान्तरमवतिष्ठते इति वचो विरुद्ध्यते ।
द्वितीयपक्षे तु क्षणादूर्ध्वम् अर्थप्रतिभासाभावप्रसङ्गाद् अन्धमूकं जगत्स्यात् । प्रतिक्षणमपरापर
व्यापारोपगमे तु तदवस्थः सुप्ताद्यभावदोषानुषङ्गः, कारकाऽजन्यस्यास्य देशकालस्वभावप्रतिनि
यमाऽयोगात् ।


अथ कारकजन्योऽसौ, अस्त्वेतत्; तथापि क्रियारूपः, अक्रियारूपो वा स्यात् ? यदि
क्रियारूपः; तदासौ क्रिया परिस्पन्दस्वभावा, अपरिस्पन्दस्वभावा वा स्यात् ? तत्राद्यविकल्पो
ऽपेशलः; व्यापकत्वेनाऽऽत्मनः तथा531भूतक्रियाश्रयत्वानुपपत्तेः । यद् व्यापकं न तत् परिस्पन्द
स्वभावक्रियाश्रयः यथा आकाशादिः, व्यापकश्च भवन्मते आत्मेति । यदि वा, परिस्पन्द
स्वभावा क्रिया532 व्यापकद्रव्यवृत्तिर्न भवति यथा ध्वजादिक्रिया, परिस्पन्दस्वभावा च ज्ञातृव्या
पारलक्षणा क्रियेति । तथा च तद्व्यापारस्य ज्ञातुरन्यत्राश्रितत्वप्रसङ्गात् कथं ज्ञातृव्यापार
रूपता प्रमाणता वा स्यात् ? ध्वजाद्याश्रितस्योत्क्षेपणादिव्यापारस्यापि त533त्प्रसक्तेः । द्वितीय
विकल्पेऽपि अपरिस्पन्दः–परिस्पन्दाभावः, वस्त्वन्तरं वा ? यदि परिस्पन्दाभावः; तदाऽस्य फल
जनकत्वानुपपत्तिः अभावस्य कार्यकारित्वविरोधात्, यथा चाऽस्य तत्कारित्वं विरुद्ध्यते तथा
अभावपरीक्षाप्रस्तावे सप्रपञ्चं प्रपञ्चयिष्यते । वस्त्वन्तरमपि किं चिद्रूपम्, अचि534द्रूपं वा ?
चिद्रूपमपि–किं धर्मी, धर्मो वा ? यदि धर्मी; तदासौ प्रमाणं न स्याद् आत्मवत् । धर्मोऽपि
45 किमात्मनो भिन्नः, अभिन्नो वा ? यद्यभिन्नः; तदा आत्मैव535 इति प्रमाणतानुपपत्तिः । भेदे
तु असम्बन्धात् तस्येति व्यपदेशानुपपत्तिः । तत्कार्यत्वात् तस्यइति व्यपदेशे, तस्य
तत्कारित्वं किं व्यापारान्तरेण, अन्यथा वा ? यदि व्यापारान्तरेण; अनवस्था । अथ अन्य536था;
तन्न; निर्व्यापारस्य कार्यकारित्वाभ्युपगमे व्यापारकल्पनानर्थक्यप्रसङ्गात् । अ537चिद्रूषमपि
वस्त्वन्तरम्–धर्मी, धर्मो वा स्यात् ? यदि धर्मी; लोष्ठवन्न प्रमाणं स्यात् । अथ धर्मः; कस्य ?
आत्मनः, अन्यस्य वा ? यद्यन्यस्य; न प्रमाणम् अतिप्रसङ्गात् । अथ आत्मनः; तन्न; अज
डस्यास्य538 जडध539र्मत्वविरोधात् । तन्न क्रियारूपो व्यापारो घटते । अक्रिया540रूपोऽप्यसौ कि
बोधरूपः, अबोधरूपो वा ? बोधरूपत्वे अत्यन्तपरोक्षत्वविरोधः, तथा541भूतस्य बोधरूपतानुप
पत्तेः, तदनुपपत्तिश्च स्वसंवेदनसिद्धौ प्रसाधयिष्यते । अबोधरूपत्वे तु प्रमाणत्वानुपपत्तिः घटा
दिवत्, चिद्रूपस्यात्मनो अचिद्रूपव्यापारविरोधा542च्च । ततो ज्ञातृव्यापारस्य उक्तन्यायेन विचार्य
माणस्यानुपपत्तेः कथं प्रामाण्यं स्यात् ?


यदप्युक्तम्543कारकस्य कारकत्वमपि क्रियावेशवशादेव इत्यादि; तत्सत्यमेव; न544 हि परिस्प
न्दात्मकं परिदृश्यमानं कारकव्यापारमपह्नुमहे प्रतिकारकं विचित्रस्य ज्वालादिव्यापारस्य प्रत्य
क्षतः प्रतीतेः, अतीन्द्रियस्यैव व्यापारस्य भवत्कल्पितस्याऽपह्नवात्, तस्योक्तप्रकारेण कुतश्चिदपि
प्रमाणादप्रतीतेः । न च नित्यैकरूपस्याऽपरिणामिनो ज्ञातुरन्यस्य वा व्यापारादिकार्यकारित्वं
घटते । एतच्च अर्थक्रिया न युज्येत नित्यक्षणिकपक्षयोः इत्य545त्र प्रपञ्चतः प्रति
पादयिष्यते । ततः प्रमाणं ज्ञातृव्यापारोऽर्थप्राकट्यलक्षणे फले546 साधकतमत्वात् इत्यादि,
वन्ध्यासुतसौभाग्यव्यावर्णनप्रख्यतां प्रतिपद्यते, इत्युपरम्यते । तदेवम्–अज्ञानात्मनः सन्निकर्षादे
र्विचार्यमाणस्यानुपपत्तेः, उपपत्तौ वा अर्थप्रमितौ मुख्यतः साधकतमत्वानुपपत्तितः प्रामाण्यस्यापि
मुख्यतोऽनुप547पत्तेः, 548तत्प्रमितौ मुख्यतः साधकतमज्ञानलक्षणप्रमाणोत्पादकत्वाद् उपचारादेव549
अत्रास्य प्रामाण्यं550 प्रेक्षादक्षैः प्रतिपत्तव्यम् । इति युक्तमुक्तम्–सन्निकर्षादेरज्ञानस्य प्रामा
ण्यमनुपपन्नम् अर्थान्तरवत्
इति ।


ननु भवतु ज्ञानमेव प्रमाणम् । तत्तु द्विविधम्–निर्विकल्पकम्, सविकल्पकञ्चेति । तत्र


46

निर्विकल्पकप्रत्यक्षस्य प्रामाण्यमिति वौद्धस्य पूर्वपक्ष–


प्रत्यक्षरूपं ज्ञानं निर्विकल्पकम्, अनुमानरूपं तु सविकल्पकम् । तत्र
प्रत्यक्षलक्षणम्–प्रत्य551क्षं कल्पनापोढमभ्रान्तम् न्यायबि॰ पृ॰ ११
इति । अभिलापवती प्रतीतिःकल्प552ना न्यायबि॰ पृ॰ १३
ततोऽपोढम् । न हि प्रत्यक्षेऽभिलापसंसृष्टार्थग्रहणं संभवति, तद्वि553षये सङ्केत-व्यवहारकालाऽ
ननुयायिनि शब्दसन्निवेशाऽसभवात् । यः554 सङ्केतव्यवहारकालाननुयायी न तत्र व्यवहारिभि
शब्दो निवेश्यते यथा उत्पन्नमात्रप्रध्वंसिनि क्वचिदर्थे, नान्वेति555 च नियतदेशकालाकारं स्व
लक्षण देशान्तरादाविति । अत कथं तद्वि556शिष्टार्थग्रहणं प्रत्यक्षेण यतः सविकल्पकं तत्स्यात् ?
यो यत्र शब्दो न निवेशितो न तद्विशिष्टस्य तस्य ग्रहणं यथा अनिवेशिताऽश्वशब्दस्य
557गोद्रव्यस्य नाऽश्वशब्दविशिष्टस्य ग्रहणम्, अनिवेशितश्च स्वलक्षणे कश्चिदपि शब्द इति ।


किञ्च, अतीताद्यर्थ स्ववाचकसंसर्गेण विकल्पयतः पुरोवर्तिनि रूपादौ यदोत्पद्यते ज्ञानं
तस्य कथं सविकल्पकता वर्तमानार्थनामसंसर्गस्य तदाऽनुपलब्धेः ? अर्थे च558 शब्दानामसंभवात्
तत्तादाम्याभावाच्च कथमर्थप्रभवे ज्ञानेऽजनकस्य शब्दस्य आकारसंसर्गः ? यद् यस्याऽजनकं
47 न तत् तरयाकारमनुविधत्ते यथा रसादुत्पन्नं रस559ज्ञानं नाऽजनकस्य रूपादेः, नीलाद्यर्थादेवो
त्पन्नञ्चेन्द्रियज्ञान560मिति । ततो यदेव ज्ञानमर्थसंसृष्टं वाचकत्वेन शब्दं प्रतिपद्यते तदेव
सविकल्पकम्, नान्यत् । अत एव योगिज्ञानमनेकशब्दार्थप्रतिभासमपि योजनाऽभावान्न सवि
कल्पकम्, विशेषणविशिष्टार्थग्रहणाभावाच्च अविकल्पकं प्रत्यक्षम् । न खलु विशेषणविशिष्टता
प्रत्यक्षेण ग्रहीतुं शक्या, तुल्यकालस्याऽर्थद्वयस्य तत्र प्रतिभासनात् । न च स्वरूपमात्रेण प्रती
यमानयोः विशेषणविशेष्यभावः; अतिप्रसङ्गात् । प्रयोगः–यद् यदर्थसाक्षात्करणप्रवृत्तत्तंज्ञानं
तत् तत्स्वरूपव्यतिरिक्त–विशेषणविशेष्याकार-तत्संयोजनास्वभाव-कल्पनाकारं न भवति, यथा
रूपाद्याकारप्रवृत्तचक्षुरादिज्ञानम् अविषयीकृतगन्धादिविशेषणयोजनाकारं न भवति, तथा च
सर्वं स्वविषयप्रवृत्तं ज्ञानमिति ।


तच्च इत्थम्भूतं प्रत्यक्षम् स्वसंवेदन-इन्द्रिय-मनो-योगिप्रत्यक्षविकल्पाच्चतुर्धा भिद्यते । तत्र
सर्वचित्तचैत्तानामात्मसंवेदनं स्वसंवेदनम् न्यायवि॰ पृ॰ १९ इन्द्रियार्थसम
नन्तरप्रत्ययप्रभवम् इन्द्रियप्रत्यक्षम्
स्वविषयानन्तरविषयसहकारिणा
इन्द्रियज्ञानेन समनन्तरप्रत्ययेन जनितं मनःप्रत्यक्षम् न्यायवि॰ पृ॰ १८
भूतार्थ
भावनाप्रकर्षपर्यन्तजं योगिप्रत्यक्षम् न्यायवि॰ पृ॰ २०
इति ।


निर्विकल्पकनिरसनपुरस्सरं सविकल्पकप्रामाण्यव्यवस्थापनम्–


अत्र प्रतिविधीयते । यत्तावदुक्तम्561कल्पनापोढम् इत्यादि, तत्र केयं कल्प562ना–अभिलापव
त्प्रतिभासः, निश्चयः, जात्याद्युल्लेखः, अस्पष्टाकारता, अर्थ
सन्निधिनिरपेक्षता, अनक्षप्रभवता, धर्मान्तरारोपो वा ? तत्रा
द्यपक्षोऽयुक्तः; प्रतिभासस्याऽभिलापव563त्त्वानुपपत्तेः । तद्धि तत्स्व
भावत्वात्, तद्धेतुत्वाद्वा स्यात् ? न तावत्तत्स्वभावत्वात्;
चेतनाऽचेतनयोः विरुद्धधर्माध्यासतः तादात्म्याऽसंभवात् । ययोर्विरुद्धधर्माध्यासः न तयोस्ता
दात्म्यम् यथा जलाऽनलयोः, विरुद्धधर्माध्यासश्च चेतनाऽचेतनरूपतया शब्द-ज्ञानयोरिति । अतः
तत्स्वभावशून्यतया प्रत्यक्षस्याऽविकल्पकत्वसाधने सिद्धसाधनम् । नापि तद्धेतुत्वात्; तद्धि
तज्जन्यत्वम्, तज्जनकत्वम्, उभयं वा ? तज्जन्यत्वेन तद्वत्त्वे, श्रोत्रज्ञानस्य अविकल्पकत्वं न
स्यात्, तस्याऽभिलापप्रभवतया तद्वत्त्वप्रसङ्गात् । तज्जनकत्वात्तद्वत्त्वे, प्रकृति-प्रत्ययादिप्रत्यक्षस्य
48 सविकल्पकत्वं स्यात् । उभयपक्षेऽपि उभयदोपानुपङ्गः, एकत्रोभयरूपताविरोधश्च । अतः
अभिलापवत्प्रतिभास564स्य कल्पनालक्षणत्वाऽनुपपत्तेः यो यत्र शब्दो न निवेशितः इत्यादि
प्रत्याख्यातम् ।


अथ निश्च565य कल्पनोच्यते, सत्यमेतत्; तद्रहितत्वं तु566 प्रत्यक्षस्याऽसत्यम्; प्रमाणस्याऽनिश्चया
त्मक्त्वानुपपत्तेः; तथाहि–प्रत्यक्षं स्वार्थव्यवसायात्मकं प्रमाणत्वाद् अनुमानवत् । यत्पुनः
स्वयमनिश्चितस्वरूपम् अर्थाऽनिश्चयात्मकञ्च न तत्प्रमाणम्, यथा पुरुषान्तरज्ञानं संशयादि
ज्ञान567ञ्च । न खलु स्वार्थाऽव्यवसायात्मकत्वं विहाय आत्मान्तरज्ञानस्य सशयादेश्चाऽप्रामाण्ये
अन्यन्निबन्धनमस्ति, तच्च568 परैः प्रत्यक्षे प्रतिज्ञायमानम् अप्रामाण्यमन्वाकर्षति । निश्चयो हि
संशयादिव्यवच्छेदेन अर्थस्वरूपावधारणम्, तद्रूपता च प्रमाणस्य प्रमाणशब्द569स्य निरुक्त्यैवाऽ
वसीयते । तथाहि–प्रकर्षेण संशयादिव्यवच्छेदलक्षणेन मीयते परिच्छिद्यते येनाऽर्थ तत् प्रमा
णम्, न चैतन्निर्विकल्पके संभवतीति कथं तत्र प्रमाणशब्दस्यापि प्रवृत्तिः ? व्यवहाराऽनुपयोगि
त्वाच्च न त570त् प्रमाणम्, यद्व्यवहारानुपयोगि न तत् प्रमाणम् यथा गच्छत्तृणस्पर्शसंवेदनम्,
तथा च571 परपरिकल्पितं निर्विकल्पकं प्रत्यक्षमिति । व्यवहारञ्चाङ्गीकृत्य भवद्भि प्रमाणचिन्ता
प्रतन्यते, प्रामाण्यं व्यवहा572रेण प्रमाणवा॰ २ । ५ इत्याद्यभिधानात् । न चाऽविकल्पकस्य
प्रवृत्त्यादिव्यवहारप्रसाधकत्वमस्ति, स्वार्थाऽनिश्चायकात् 573ततोऽनध्यवसायादिवद् व्यवहारिणां
क्वचित्प्रवृत्त्याद्यनुपपत्ते ।


574ननु निर्विकल्पकमपि प्रत्यक्षं व्यतिरिक्तविकल्पोत्पादकत्वतः प्रवर्तकत्वात् प्रमाणतां प्रति
पद्यते, इत्यपि श्रद्धामात्रम्; तस्याऽविदितस्वरूपस्य सन्निकर्षादविशेषप्रसङ्गात्, 575तस्यापि
हि इत्थं प्रवर्तकत्वमुपपद्यते । न च चेतनाऽचेत576नत्वकृतस्तयोर्विशेषः, निर्विकल्पकप्रत्यक्षस्यापि
चेतनत्वाऽप्रसिद्धेः । परनिरपेक्षतया स्वरूपोपदर्शकं हि चेतनमुच्यते, न चाऽविकल्पकाध्यक्षं
स्वप्नेऽपि तथा577 स्वरूपमुपदर्शयतीति कथं तच्चेतनं यतः सन्निकर्षाद्विशेष्येत ? अतः तद्विशेष
49 मिच्छता व्यवसाया578त्मकं तत् प्रतिपत्तव्यम्, निर्व्यापारस्य अननुभूयमानस्वरूपस्यास्य अपर
प्रकारेण सन्निकर्षाद् भेदाऽप्रसिद्धेः ।


ननु पश्यामि इत्येवंभूतो विकल्प एवाऽध्यक्षस्य व्यापारः, तत्कथं निर्व्यापारता ? इत्य
प्यसुन्दरम्; तद्व्यवसायात्मकत्वप्रसङ्गात् । न खलु व्यापारः तद्वतो भिन्नो भवद्भिरङ्गीक्रि
यते; तत्स्वभावत्वात्तस्य । अथ तत्कार्यत्वात् ततो भिन्नोऽसौ; कथं तर्हि तद्व्यापारः ? न हि
पुत्रः पितुर्व्यापारो भवति । अस्तु वा; तथापि–यदि अविकल्पकाध्यक्षे व्यवसायस्वभावता न
स्यात् तदा तत्प्रभवविकल्पेऽपि कुतोऽसौ स्यात् ? स हि बोधरूपतया, विलक्षणसामग्रीप्रभ
वतया वा व्यवसायस्वभावतां स्वीकुर्यात् ? यदि बोधरूपतया; तदाऽसौ प्रत्यक्षेऽप्यस्ति, इति
तदपि व्यवसायस्वभावतां स्वीकुर्यात् । तद579विशेषेऽपि 580स्य साक्षादर्थे ग्रहणव्यापारः तन्न
निश्चिनोति, यस्य तु तद्व्या581पारोपजीवित्वम् अ582सौ निश्चिनोति
इति असेः कोशस्य तीक्ष्णता ।
विलक्षणसामग्रीप्रभवता च अ583नयोः भेदे सिद्धे सिद्ध्येत्, न च विकल्पव्यतिरेकेण अविकल्पक
स्वरूपं स्वप्नेऽपि प्रसिद्धम् । एकमेव हीदं स्वार्थव्यवसायात्मकमिन्द्रियादिसामग्रीतः समुत्पन्नं
विज्ञानमनुभूयते, न तत्र स्वरूपभेदः सामग्रीभेदो वा कश्चित् कदाचित् कस्यचित् प्रतिभाति
अन्यत्र महामोहाक्रान्तान्तःकरणात् सौगतात् । क584थञ्चैवं बुद्धिचैतन्ययोर्भेदं प्रतिवर्णयन्
साङ्ख्यः प्रतिक्षिप्येत ? विकल्पाऽविकल्पयोरिव अनयोरप्रतिपन्नस्वरूपयोरपि अभ्युपगममा
त्राद् भेदसिद्धिप्रसङ्गात् । तयोरेकत्वाध्यवसायाद् भेदेनाऽप्रतिपत्तिरित्यपि उभयत्र समानम् ।


किञ्च, उभयोर्भेदेन स्वरूपसंवितौ अन्यस्य अन्यत्राऽध्यारोपाद् एकत्वाध्यवसायो युक्तः
अग्निमाणवकवत्, न च विकल्पाऽविकल्पयोः क्वचित् कदाचित् कस्यचित् संवित्तिरस्ति
इत्युक्तम् । एकत्वाध्यवसायश्च अनयोः अन्यतरस्मात्, अन्यतो वा स्यात् ? अन्यतरस्माच्चेत्;
585किं विकल्पात्, निर्विकल्पकाद्वा ? न तावन्निर्विकल्पकात्; तस्य परामर्शशून्यतया एकत्वाध्य
वसायाऽसमर्थत्वात् । नापि विकल्पात्; तस्य निर्विकल्पकाऽविषयत्वात् । यद् यद्विषयं न भवति
न तत् तस्य केनचिदेकत्वमध्यवस्यति, यथा घटविषयं विज्ञानं परमाण्वविषयत्वान्न त586स्य घटा
दिना एकत्वमध्यवस्यति, निर्विकल्पकाऽविषयञ्चेदं विकल्पज्ञानमिति । तद्विषयत्वे वा स्वलक्षण
50 विषयत्वं विकल्पानामपि स्यात् । अन्यतोऽपि पूर्वज्ञानात्, उत्तरज्ञानात्, अन्वितरूपात्प्रतिपत्तुर्वा
तदेकत्वाध्यवसाय स्यात् ? न तावत्पूर्वज्ञानात्, तस्य587 तत्काले प्रध्वस्तत्वात् । नापि उत्तरज्ञानात्;
तत्काले तयोरभावात् । त588थैव तद्द्वयस्यापि निर्विकल्पकस्य सविकल्पकस्य वा सतोर्न तदेकत्वा
ध्यवसायहेतुत्वं युक्तम्; उभयत्रोभयदोपानुपङ्गात् । नाप्यन्वितरूपात्प्रतिपत्तुः तदेकत्वाध्यव
सायः; तस्य सौगतैरनभ्युपगमात् । ततः प्रतीतितो वस्तुव्यवस्थामभ्युपगच्छता एकमेवानुभ
वसिद्धस्वार्थव्यवसायात्मकं प्रत्यक्षं प्रतिपत्तव्यम्, स्वपरपरिच्छित्तेः सकलव्यवहा589रिणाञ्च त590न्मु
खप्रेक्षित्वात् । तस्यैव अविकल्पकम् इति नामान्तरकरणे न किञ्चिदनिष्टम्, संज्ञाभेदस्य
अर्थभेदाऽप्रसाधकत्वात् । जात्याद्युल्लेखः कल्पना इत्यप्य591विरुद्धम्; जात्यादीनां विशेषण
विशेष्यभूतानां परमार्थसतां व्यामोहविच्छेदेनावसायस्य कल्पनात्वोपपत्तेः ।


यदप्युक्त592म्-यद् यदर्थसाक्षात्कारप्रवृत्तं ज्ञानम् इत्यादि, तत्र कोऽयं विशेषणविशेष्या
द्याकारो नाम योऽर्थसाक्षात्करणप्रवृत्ते ज्ञाने प्रतिपिद्ध्येत्–प्रतिबिम्बम्, उल्लेखो वा ? प्रति
बिम्बञ्चेत्; सिद्धसाध्यता, ज्ञाने तत्प्रतिपेधस्य अस्माभिरप्यभ्युपगमात्, सकलज्ञानानां निरा
का593रत्वप्रतिज्ञानात् । अथ उल्लेख; तन्निपेधोऽनुपपन्न, प्रमाणस्य यथावस्थितार्थस्वरूपोद्योतक
त्वात्, तत्स्वरूपञ्च जात्यादिविशिष्टं गौः शुक्लः चरति इत्यादिप्रत्ययात् प्रसिद्धम् ।
न खलु प्रतीयमानस्याऽपलापो युक्त; सर्वत्राऽनाश्वासप्रसङ्गात् । जात्यादिसद्भावः तद्विशिष्टत्वञ्च
अर्थानां विषयपरिच्छेदे प्रपञ्चतः प्रतिपादयिष्यते इत्यलमतिप्रसङ्गेन ।


अथ अस्पष्टाका594रता विकल्पस्वरूपम्, तच्चास्य विकल्पकत्वादेव सिद्ध्यति; तथाहि–यत्
सविकल्पकं ज्ञानं तदस्पष्टम् यथा अनुमानम्, तथाचेदं विवादापन्नं ज्ञानम्; इत्यप्यसाम्प्र
595म्; निर्विकल्पकत्व-सविकल्पकत्वाभ्यां ज्ञानानां स्पष्टत्वाऽस्पष्टत्वयोरप्रसिद्धेः, स्वसामग्रीविशेषा
देव तेषां तत्प्रसिद्धे । कथमन्यथा प्रत्ययत्वात् प्रत्यक्षमपि अनुमानवदस्पष्टं न स्यात् ? अन्यो
न्याश्रयश्च; अस्पष्टाकारत्वे हि सिद्धे सविकल्पकत्वसिद्धि, तत्सिद्धौ च अस्पष्टाकारत्वसिद्धि
रिति । किञ्च, अस्य अस्पष्टता विशेषणविशिष्टार्थग्राहित्वात्, एकत्वपरामर्शित्वात्, परोक्षाका
रोल्लेखित्वाद्वा स्यात् ? तत्र आद्यपक्षद्वयमयुक्तम्, वस्तुस्वरूपस्य अस्पष्टत्वाऽहेतुत्वात् । यत्
51 खलु वस्तुस्वरूपं तन्नाऽस्पष्टत्वहेतुः यथा नीलत्वादि, वस्तुस्वरूपञ्च विशेषणविशिष्टत्वादिक
मिति । परोक्षाकारोल्लेखित्वञ्च यत्रास्ति तत्र अस्पष्टत्वमप्यस्तु, नान्यत्र । न हि सर्वत्र विकल्पः
परोक्ष एवार्थे प्रवर्तते; वर्तमाने पुरोवर्तिन्यप्यर्थे स्पष्टाकारोल्लेखमुखेन तत्प्रवृत्तिप्रतीतेः ।


नापि अर्थसन्निधिनिरपेक्षता596 विकल्पलक्षणम्; पुरोवर्तिन्यर्थे सत्येव अस्येदन्तया प्रवृत्तेः,
न हि ईदृशो विकल्पोऽसन्निहितेऽर्थे संभवति । अतश्च सन्निहितार्थलक्षणत्वेऽपि यदि अ597स्याऽप्रत्य
क्षता, न किञ्चित् प्रत्यक्षं स्यात् ।


नापि अनक्षप्रभवता तल्लक्षणम्; अक्षाऽन्वयव्यतिरेकानुविधायित्वतः अक्षप्रभवत्वस्यात्रैवा
वसायात्, न हि निर्विकल्पकम् अक्षव्यापारानन्तरं कदाचिदप्युपलभ्यते । अर्थसाक्षात्कारिण598
श्चास्याऽक्षप्रभवत्वं भवति । न चाऽविकल्पस्य तत्साक्षात्कारित्वं संभवति; स्वरूपेणाप्यस्या599ऽप्रसि
द्धत्वात् । यत् स्वरूपेणाऽप्रसिद्धं न तद् अर्थसाक्षात्कारि यथा वन्ध्यास्तनन्धयविज्ञानम्, स्वरू
पेणाप्रसिद्धञ्च अविकल्पकत्वाभिमतं विज्ञानमिति ।


धर्मान्तरारोपोऽपि न तल्ल600क्षणम्; विकल्पे हि कस्य धर्मान्तरमारोप्यते ? निर्विकल्पकस्य
चेत्; कि तद्धर्मान्तरम् ? वैश601द्यञ्चेत्; 602न्ध्यासुतसम्बन्धि त603त् तत्रा604रोप्यते इत्यपि किन्न
स्यात् ? तस्य त605द्धर्माधारतयाऽप्रसिद्धेः कथं तत् तत्रारोप्यते इत्यन्यत्रापि समानम् । न खलु
निर्विकल्पमपि प्रामाणिकस्य अनन्यमनसो विस्फारिताक्षस्य तद्धर्माधारतया कदाचिदपि प्रसि
द्धम्, इति अक्षव्यापारप्रभवं वैशद्याध्यासितं स्वार्थसाक्षात्कारि व्यवसायात्मकं प्रत्यक्षं प्रतिप
त्तव्यम् । ततो भवत्परिकल्पितप्रत्यक्षलक्षणस्याऽनुप606पत्तेः स्वसंवेदनेन्द्रिय इत्यादिना तद्भेदोप
वर्णनम् आकाशकुशेशयसौरभव्यावर्णनप्रख्यमित्युपेक्षते ।


52

विवृतिव्याख्यानम्–


एतदेवाह–न वै इत्यादि । न वै नैव ज्ञानमित्येव ज्ञानमित्येतावतैव प्रमाणम् । कुत
एतत् ? अतिप्रसङ्गात् । अतिप्रसङ्गमेव दर्शयति संव्यवहार इत्या
दिना । समीचीनः सङ्गतो वा वादिप्रतिवादिनोऽविप्रतिपत्तिभूतो व्यव
हारः
हेयोपादेययोर्हानोपादानलक्षणः संज्ञानादिलक्षणो वा, तत्र अनुप
योगिनः ।
कस्य ? ज्ञानस्य । पुनरपि कथम्भूतस्य ? इत्यत्राह–संशय इत्यादि । इयं शुक्ति
का रजतं वा
इति ज्ञानं संशयः । रजते शुक्तिका इति, शुक्तिकायां रजतम् इति वा ज्ञानं
विपर्ययः । तत्कारणस्य तत्कारणत्वादेव तदनुपयोगिनः भावाऽविरोधात् सत्त्वाऽविरोधात् ।
अयमर्थः–यथा संशयादिहेतोर्ज्ञानस्य ज्ञानत्वे सत्यपि संव्यवहारानुपयोगित्वान्न प्रामाण्यम्,
तथा भवत्परिकल्पितनिर्विकल्पकप्रत्यक्षस्यापि ।


अत्र607 वादिनां विवेकाख्याति-अख्याति-असत्ख्याति-प्रसिद्धार्थख्याति-आत्मख्याति–प्रसि
द्धार्थख्याति-सदसत्त्वाद्यनिर्वचनीयार्थख्याति–अलौकिकार्थख्याति-विपरीतार्थख्यातिरूपा विप्रति
पत्तयः सन्ति । तत्र–


विपर्ययज्ञाने विवेकाऽख्यातिवादिन प्राभाकरस्य पूर्वपक्ष–


प्रभाकरमतानुसारिणो विवेकाऽख्याति विपर्ययज्ञाने प्रतिपन्नाः । तथाहि–इदं रजतम्
इत्यन्योन्यं608 विभिन्नं ज्ञान609द्वयं प्रत्यक्ष-स्मरणरूपम् विभिन्नकारणप्रभव
त्वाद् विभिन्नविषयत्वाच्च सिद्ध्यत्येव । इन्द्रियं हि इदमंशोल्लेखिनः
प्रत्यक्षस्य कारणम्, संस्कारश्च स्मरणस्य, इति सिद्धमत्र विभिन्नकारणप्रभ
वत्वम् । ययोश्च विभिन्नकारणप्रभवत्वं तयोरन्योन्यं भेदः यथा प्रत्यक्षानुमानयोः, विभिन्नकार
णप्रभवत्वञ्च इदम् रजतम् इति ज्ञानद्वयस्य । विभिन्नविषयत्वञ्चात्र सुप्रसिद्धम्–इदम्
इति ज्ञानस्य पुरोवर्तिशुक्तिशकलावलम्बनत्वात्, रजतम् इति ज्ञानस्य च व्यवहितरजतविष
यत्वात् । यत्र च विभिन्नविषयत्वं तत्रान्योन्यं भेदः यथा रूप-रसादिज्ञाने, अस्ति च विभिन्न
विषयत्वम् इदं रजतम् इति ज्ञाने इति । इत्थं प्रत्यक्षात् स्मृतिर्विभिन्नापि प्रमुष्टा इति न
विवेकेन प्रतिभासते इत्यविवेकख्यातिः, न तु एकमेवेदं ज्ञानम्; तथात्वेन तदुत्पत्तौ कारणाऽभा
वात् । तत्र हि कारणम्-इन्द्रियम्, अन्यद्वा ? न तावदन्यत्; उपरतेन्द्रियव्यापारस्यापि तदु
त्पत्तिप्रसङ्गात् । नापीन्द्रियम्; तद्धि रजतसदृशे शुक्तिशकले सम्प्रयुक्त सत् तत्र निर्विकल्पकमु
पजनयत् सविकल्पकमपि तत्रैवोपजनयेत् न रज610ते, तस्य इन्द्रियेणाऽसम्बन्धाद् अवर्तमानत्वाच्च ।
53 न चाऽसम्बद्धमवर्तमानञ्चेन्द्रियग्राह्यम् सम्बद्धं वर्त्तमानञ्च गृह्यते चक्षुरादिना मीमां॰
श्लो॰ सू॰ ४ श्लो॰ ८४
इत्य611भिधानात् । अन्यथा612 विप्रकृष्टाऽशेषार्थानामपि तद्ग्राह्यत्वप्रसङ्गतोऽ
नुपायसिद्धमशेषस्य अशेषज्ञत्वं स्यात् । न च दोषाणामयं महिमा इत्यभिधातव्यम्; यतः
कोऽयं तन्महिमा नाम–इन्द्रियशक्तेः प्रतिबन्धः613, तत्प्रध्वंसः, विपरीतज्ञानाविर्भावो वा ? तत्र
आद्यविकल्पद्वयमयुक्तम्; कार्यानुत्पादप्रसङ्गात्, न हि मणिमन्त्रादिना दहनशक्तेः प्रतिबन्धे
प्रध्वंसे वा स्फोटादिकार्योत्पत्तिर्दृष्टा । तृतीयविकल्पोप्यनुपपन्नः; न ख614लु दुष्टा यवा विपरीतं
कार्यमाविर्भावयन्तः प्रतीयन्ते । अतः ज्ञानद्वयमेतत्–इदम् इति हि प्रत्यक्षं पुरोव्यवस्थितार्थ
ग्राहि, रजतम् इति च अनुभूतरजतस्मरणमिति । रजता615कारा हि प्रतीती रजतविषयैव न
शुक्तिविषया, अन्याकारायाः प्रतीतेः अन्यविषयत्वाऽयोगात्, तद्योगे वा सर्वं ज्ञानं सर्वविषयं
स्यात्, इति सर्वस्य सर्वदर्शित्वापत्तिः । प्रयोगः–यद् यदाकारं ज्ञानं तत् तद्विषयमेव यथा
घटाकारं घटविषयमेव, रजताकारञ्चेदं ज्ञानमिति । यदि च अन्याकारापि प्रतीतिः अन्यविषया
स्यात्, तदा अस्याः स्वार्थव्यभिचारतः सर्वत्राप्यनाश्वासान्न क्वचित् कस्यचित् प्रवृत्तिर्निवृत्तिर्वा
कुतश्चित् इत्यशेषव्यवहारोच्छेदः । ततः रजताकारं ज्ञानं रजतविषयमेवाभ्युपगन्तव्यम् । न
च रजतमग्रतः सन्निहितम्, अतोऽतीतमेव तत् तदा स्मर्यत इति । न तज्ज्ञानं प्रत्यक्षम्; इन्द्रियार्थ
सम्प्रयोगजत्वाऽभावात्, अगृ616हीतरजतस्य इदं रजतम् इति प्रत्ययानुत्पत्तेश्च । यदि हि तत्प्र
त्यक्षं स्यात् तदाऽगृहीतरजतस्यापि इन्द्रियव्यापारात् तदुत्पद्येत ।


ननु यदि अतीतं रजतं स्मर्यते तदाऽतीतस्यास्य अतीततयैव प्रतिभासः स्यात्, न तु वर्त
मानरजततुल्यतया; इत्यप्यपेशलम्; अतीतस्यापि रजतस्य दोषतोऽतीतत्वेनाऽप्रतिभासनात्,
617र्तमानस्य च शुक्तिलक्षणार्थस्य ग्राहकं ज्ञानं शुक्तिकेयम् इति तल्लक्षणमर्थं स्व618रूपेण
54 प्रतिपत्तुमसमर्थम् । शुक्तित्वलक्षणविशेषणस्य रजताच्छुक्तेर्भेदकस्याऽग्रहणात्, साधारणात्मना
तु रजतान्वयिना स्थितं वस्तु प्रतिपद्यमानं रजतस्मृतिज्ञानस्य स्मरामि इत्याकारशून्यस्य
कारणतां प्रतिपद्यते । स्मरा619मि इत्याकारशून्यत्वमेव चास्याः प्रमोषः । रजत620मिदम्
इति सामानाधिकरण्यं समीचीनसन्निहितरजतप्रत्ययतुल्यव्यवहा621रत्वञ्चात्र न दुर्घटम्; भेदाऽ
ग्रहतः तद्घटनात् । भेदाऽग्रहश्च त्रिप्रकारः; तथा हि–प्रकाश्ययोर्भेदो न गृह्यते, प्रकाशकयोः
भेदो न गृह्यते, सम्यग्ज्ञानाच्च भेदो न गृह्यते इति च । न च622 स्मृतिप्रमोषाभ्युपगमे रजतज्ञा
नस्य सत्यत्वात् उत्तरज्ञानेन बाध्यतानुपपत्तिरित्यभिधातव्यम्; शुक्तिकेयम् इति भेदबुद्धौ
भेदाऽनध्यवसायनिवा623रणेन पूर्वप्रत्ययप्रशंसितरजतोचितप्रवृत्त्यादिव्यवहारनिवारणतः तस्या624
उपपत्ते । ये तु625 स्मृतिप्रमोषमनिच्छन्त शुक्तौ रजतप्रतिपत्ति विप626रीतख्याति प्रतिपद्यन्ते तेषां
बाह्यार्थसिद्धिर्न प्राप्नोति; तद्दृष्टान्तेनाऽशेषप्रत्ययानां निरालम्बनत्वप्रसङ्गात् । यथैव हि रजत
प्रत्ययो रजताऽभावेऽपि रजतमवभासयति तथा सर्वे बाह्यार्थप्रत्ययास्तदवभासिनः इत्यद्वैत
वादिमतसिद्धि स्यात् । तामनिच्छता तत्र स्मृतिप्रमोष627 एवाभ्युपगन्तव्य इति ।


अत्र प्रतिविधीयते । यत्तावदुक्तम्628विभिन्नकारणप्रभवत्वात् इत्यादि; तत्र किं


55

स्मृतिप्रमोषापर–पर्यायायाः विवेकाख्याते प्रतिविधानम्–


का629रणभेदमात्रात् कार्यभेदः प्रसाध्यते, सामग्रीभेदाद्वा ? प्रथमपक्षे
न किञ्चिदेकं ज्ञानं स्यात्, आलोकेन्द्रियादिभिरनेकैः कारणै
र्जन्यमानस्य घटादिज्ञानस्याप्यनेकत्वप्रसङ्गात् । द्वितीयपक्षस्त्वयुक्तः;
सामग्रीभेदस्यात्राऽसंभवात्, चक्षुरादिकारणकलाप630स्यैकस्यैव तत्कारणत्वात् । कार्यभेदकल्प्यत्वाच्च
631द्भेदस्य, न चात्र कार्यभेदोऽस्ति । ननु रजतमिदम् इति स्मृतिप्रत्यक्षरूपः कार्यभेदोऽत्र विद्यत
एव, अतः सामग्रीभेदः कल्प्यत इति चेत्; न; अन्योन्याश्रयप्रसङ्गात्–सिद्धे हि सामग्रीभेदे
रजतमिदम् इत्यत्र स्मृतिप्रत्यक्षरूपतया कार्यभेदसिद्धिः, तत्सिद्धौ च सामग्रीभेदसिद्धिरिति ।


एतेन ययोर्विभिन्नकारणप्रभवत्वम् इत्याद्यनुमानं प्रत्युक्तम्; तयोर्हि भेदे सिद्धे विभिन्न
कारणप्रभवत्वं सिद्ध्येत, तत्सिद्धौ च तयोर्भेदः सिद्ध्येदिति । तथा च इन्द्रियं हि प्रत्यक्षस्य
कारणम्
इत्यादिस्वप्रक्रियाप्रदर्शनमनुपपन्नम् । यदि चान्यत्र इन्द्रियसंस्कारयोः स्मृतिप्रत्यक्ष
कारणत्वेन प्रतिपन्नत्वाद् अत्रापि तत्कार्यभेद इष्यते; तर्हि प्रत्यभिज्ञानस्यापि एकत्वं न स्यात्
संस्कारेन्द्रियप्रभवत्वाऽविशेषात् । अथात्र कार्यस्यैक्यदर्शनात् तावत्येकैव सामग्री कल्प्यते; तदित
रत्र समानम् । तथा च नैकमेवेदं ज्ञानं कारणाभावात् इत्याद्ययुक्तम्; चक्षुरादिसामग्र्या एव
तत्कारणत्वात् । न च कार्यप्रतीतौ कारणाभावाऽऽशङ्का युक्ता, तत्प्र632तीतेरेव तत्स633द्भावप्रसिद्धेः ।
न खलु निर्हेतुका कार्यस्योत्पत्तिरुपलब्धचरी । तन्न कारणभेदादस्य भेदः ।


नापि विषयभेदात्; शुक्तिशकलस्यैकस्यैव एतज्ज्ञानविषयत्वात् । पुरोवर्तमानं हि शुक्ति
शकलं चक्षुरादयः काचकामलादिदोषोपनिपाताद् रजतरूपतया दर्शयन्ति । कथमन्यथा शुक्ति
सन्निधानानपेक्षस्तज्ज्ञानस्य आविर्भावो न भवेत् ? तद्धि634 तत्र कारणतामात्रेण व्याप्रियेत, विष
यतया वा ? तत्राद्यविकल्पोऽयुक्तः; सत्यरजते चक्षुराद्यभाव इव शुक्तिशकलाभावेऽपि रजत
ज्ञानानुत्पत्तिप्रसङ्गात् । द्वितीयविकल्पे तु सिद्धं शुक्तिविषयत्वं635 तज्ज्ञानस्य । एकार्थविषयमेक
मेव हि इदं रजतम् इति ज्ञानमनुभूयते, इदंशब्दो ह्य636त्र पुरोवर्तितामात्रं परामृशति, रजत
शब्दस्तु रजतरूपतामात्रं न पुनर्विषयान्तरम्, तदत्र ज्ञाने कथं भेदाशङ्का स्यात् ? सत्यरज
तज्ञानेऽपि तत्प्रसङ्गात्, तयोः स्वरूपमात्रप्रतिभासे विशेषाभावात् ।


यच्चान्यत्–दोपैरिन्द्रियशक्तेः प्रतिबन्धः प्रध्वंसो वा इत्याद्युक्तम्637; तदप्ययुक्तम्; यतो
638न तैस्तस्याः प्रतिबन्धः प्रध्वंसो वा विधीयते, किन्तु स्वसन्निधाने रजतमिदम् इति ज्ञान
मेवोत्पाद्यते639 । दोषाणां चायमेव महिमा यदविद्यमानेप्यर्थे ज्ञानोत्पादकत्वन्नाम् ।


56

यदप्युक्तम्640न खलु दुष्टा यवाः इत्यादि, तदप्युक्तिमात्रम्; यतो दुष्टस्य अयमेव धर्मो
यत्कार्यानुत्पादकत्वं विपरीतकार्योत्पादकत्वं वा दुष्टभृत्यवत्, तच्चोभयमपि यवादावस्त्येव
अङ्कुरलक्षणकार्यानुत्पादकत्वस्य उपयुक्तानामुदरव्यथादिविपरीतकार्योत्पादकत्वस्य च प्रतीतेः ।
ननु दुष्टस्य कार्योत्पादकत्वं विरु641द्धम् इत्यप्यनेन प्रत्युक्तम्; तस्य हि अविपरीतकार्योत्पादकत्वं
विरुद्धं न पुनर्विपरीतकार्योत्पादकत्वम् । अथ कार्योत्पादकत्वमात्रमपि तत्र विरुद्धम्; तर्हि कथं
ततः स्मृतिप्रमोषलक्षणकार्योत्पादः स्यात् ? ततः युक्तो दोपतो विपरीतज्ञानस्य शुक्तिशकलविष
यतयोत्पादः । अतो न विषयभेदात्तज्ज्ञानस्य भेदः । पञ्चाङ्गुलादिज्ञानेन अनेकान्ताच्च, न खलु
विषयभेदेऽप्यस्य642 भेद संभवतीति ।


किञ्च, रजतज्ञानस्य शुक्तिशकलाऽविषयत्वे कि निर्विषयत्वम्, अतीतरजतविषयत्वं
वा स्यात् ? न तावन्निर्विषयत्वम्; रजतमिदम् इति विषयोल्लेखप्रतीतेः । नाप्यतीतरजतवि
षयत्वम्, अतीततयैव तत्र रजतप्रतिभासप्रसङ्गात्, तथा च तत्प्राप्त्यर्थिनाम् अतः प्रवृत्तिर्न
प्राप्नोति; अतीतस्य प्राप्तुमशक्यत्वात् । अत643 वर्तमानपुरोवर्तिशुक्तिशकलविषयमेव तज्ज्ञानं प्रति
पत्तव्यं तत्रैव प्रवृत्तिहेतुत्वात्, यद् यत्रैव प्रवृत्तिहेतुः तत् तद्विषयमेव यथा सत्यरजते
रजतज्ञानम्, वर्तमाने पुरोवर्तिन्येव शुक्तिशकले प्रवृत्तिहेतुश्चेदं ज्ञानमिति । अथ अतीत
रजतविषयत्वेऽप्यस्य दोषतोऽतीतस्य रजतस्य शुक्तिकातो भेदाऽग्रहणात् तत्र प्रवृत्तिहेतु
त्वम्; तन्न; भेदाऽग्रहमात्रम्य पुरुषप्रवृत्तिहेतुत्वानुपपत्तेः, पुरोवर्तितया रजतप्रतिभासो हि
तत्प्रवृत्तिहेतुः न पुनर्भेदाऽग्रहः । अथ अतीतरजतविषयत्वेऽप्यस्य रजतप्रतिभासस्य पुरोवर्ति
सत्यरजतप्रतिभासतुल्यत्वात् पुरुषप्रवृत्तिहेतुत्वम्, तत्तुल्यता च ततो भेदानवसायः इति चेत्;
नन्वेवं वर्तमानानवभासितया अतीतरजतावभासिज्ञानतुल्यताप्यस्यास्ति इति त644त्तुल्यतया तदप्र
वृत्तिहेतुताऽप्यस्य स्याद् अ645विशेषात् । तथा646 चाऽयं रजतज्ञानवान् पुरोवर्तिनि शुक्तिशकलल
क्षणेऽर्थे प्रवर्तेत निवर्तेत वा युगपत्परस्परविरुद्धक्रियाद्वयमापन्नः कि कुर्यात् ? न च 'तत्तु
ल्य647ताऽविशेषेऽपि एकत्र स्वोचितव्यवहारप्रवर्तकत्वं नान्यत्र इत्यभिधातुं युक्तम्; अप्रामाणिक
त्वप्रसङ्गात् । तत शुक्तिशकलस्यैव रजतमिदम् इत्येतज्ज्ञानविषयता प्रतिपत्तव्या । इति न
विषयभेदादपि अस्य ज्ञानस्य भेदः ।


अथ विभिन्नाकारत्वात् तत्र तद्भेदः648 प्रसाध्यते; तदयुक्तम्; यतो649 नाऽऽकारभेदादपि तद्भेदः
चित्रज्ञानेन प्रत्यभिज्ञानेन650 चानेकान्तात्, तद्धि अनेकाकाराक्रान्तमपि एकमेव651x, एवम् रजत
57 मिदम्
इत्यादिज्ञानमपि । अतः तज्ज्ञानस्य कुतश्चिद्भेदाऽप्रसिद्धेः एकत्वमेवाभ्युपगन्तव्यं तथैव
तत्स्वरूपप्रकाशनात्; यस्य यथैव स्वरूपं प्रकाशते तत् तथैवाभ्युपगन्तव्यम् यथा सत्यरजतादौ
रजतमिदम् इत्यादिज्ञानस्यैकत्वेन प्रकाशमानं स्वरूपम् एकत्वेनैवाभ्युपगम्यते, एकत्वेनैव
प्रकाशते च शुक्तिकाशकले रजतमिदम् इति ज्ञानस्य स्वरूपमिति । न हि प्रतिभासकृतं
विशेषमुभयत्र652 कञ्चित्पश्यामः, येन एक653त्रैकं ज्ञानम् अन्यत्र654 तु द्वयं प्रतिपद्यामहे । एतत्तु
स्यात्–एकं प्रमाणं यथावस्थितवस्तुस्वरूपग्राहित्वात्, अपरं त्वप्रमाणं तद्विपर्ययादिति ।


अस्तु वा ज्ञानद्वयम्; तथा655पि युगपत्, क्रमेण वाऽस्योत्पत्तिः स्यात् ? न तावद्युगपत्; ज्ञान
यौगपद्यप्रसङ्गात्, करणस्य क्रमेणैव ज्ञानोत्पादने सामर्थ्यम् इत्यभ्युपगमक्षतिप्रसङ्गाच्च । क्रमे
णोत्पत्तावपि इदम् इति प्रत्यक्षात् पूर्वम्, उत्तरत्र वा रजतस्मृतिः स्यात् ? तत्राद्यविकल्पो
ऽयुक्तः; तदा स्मृतिबीजस्य संस्कारस्य प्रबोधकप्रत्ययाऽपायात् । प्रबुद्धे च संस्कारे स्मृतिरुत्पद्यते
नाप्रबुद्धे अतिप्रसङ्गात् । अथ निर्विकल्पकात् तत्संस्कारप्रबोधः; तर्हि सविकल्पकेन सह रजत
स्मृतेर्यौगपद्यप्रसङ्गात् सैवाभ्युपगमक्षतिः । न च निर्विकल्पकं ज्ञानं कुतश्चित्प्रमाणात्प्रसिद्धम्
इत्युक्तं सविल्प656कसिद्धौ । अथ पश्चादुत्पद्यते; तन्न; यस्मात् इदम् इति प्रत्यक्षात् पश्चादुत्पद्य
मानं रजतज्ञानं निरुद्धव्यापारेऽपि चक्षुषि उत्पद्येत, तथा च निमीलिताक्षस्यापि तज्ज्ञानानुभवः
स्यात् । प्रतीतिविरुद्धा च त657त्क्रमोत्पत्तिः, न खलु पूर्वं पुरोवर्तिशुक्तिशकलं गृहीत्वा पश्चाद्
रजतं स्मरामि इति तत्संवेदनयोः स्वप्नेऽपि क्रमप्रतीतिरस्ति, रजतात्मकं पुरोवर्ति वस्तु सकृदेव
प्रतिभाति इत्यखिलजनानां प्रतीते, अन्यथा बाधकोपनिपाते सति नेदं रजतम् इति तादा
त्म्यप्रतिपेधो न स्याद् अप्रसक्तत्वात्तस्य । अस्ति चायम्–अङ्गुलिनिर्देशेन शुक्तिशकलस्य रजत
तया प्रतिपेधप्रतीतेः । अतः यद् यत्र प्रतिषिध्यते तत् तत्र प्रसक्तम् यथा क्वचित्प्रदेशे घटः,
प्रतिपिध्यते च पुरोवर्तिनि शुक्तिशकले रजतमिति ।


नन्वेवमपि घट-भूतलयोरिव शुक्ति-रजतयोः संयोगनिषेधो भविष्यति; इत्यप्यसुन्दरम्;
तद्वदत्र वैयधिकरण्याऽप्रतीतेः, न खलु यथा नास्त्यत्र घटः इति वैयधिकरण्यप्रतीतिः तथा
नेदं रजतम् इत्यत्रापि । यत्र च वैयधिकरण्यप्रतीतिर्नास्ति न तत्र संयोगनिषेधः यथा नेदं
नीलम्
इत्यादौ, नास्ति च इदं रजतम् इत्यादौ वैयधिकरण्यप्रतीतिरिति । यथैव हि अद्वैत
वादिना विश्वस्यैकत्वमभ्युपगच्छता658 पीतस्य नीलात्मकत्वं यदारोपितं तदेव नेदं नीलम् इत्यनेन
प्रतिषिध्यते, तथा शुक्ति-रजतयोर्यत् तादात्म्यं पूर्वविज्ञानेनारोपितं तदेव नेदं रजतम् इत्यनेन
बाधकेन अपनीयते, नतु इदमंशो रजतांशो वा निषिध्यते । तथा च सतः शुक्ति659शकलस्य या
रजतात्मकताप्रतीतिः सा660 अवस्थितरूपविरुद्धत्वाद् विपरीतख्यातिः न पुनः स्मृतिप्रमोषः ।


58

किञ्च, 661कोऽयं स्मृते प्रमोपो नाम–विनाश, प्रत्यक्षेण सहैकत्वाध्यवसायः, प्रत्यक्षरूपता
पत्तिः, तदित्यशस्याननुभव, तिरोभावमात्र वा ? यदि विनाश; तदा साध्यसाधनसम्बन्ध
स्मृतेः साध्यप्रतिपत्तिकाले विनाशात् तत्रापि स्मृतिप्रमोष स्यात् । अथ प्रत्यक्षेण सहैकत्वाध्य
वसायोऽस्या प्रमोष, ननु कुतरतयोरेकत्वाध्यवसाय–विषयैकत्वाध्यवसायात्, स्वरूपैकत्वा
ध्यवसायाद्वा ? प्रथमविकल्पे कोऽयं विषयैकत्वाध्यवसायो नाम ? अन्यतरविषयस्यान्यतरविषये
आरोपश्चेत्; कि प्रत्यक्षविषयस्य स्मृतिविषये, तद्विषयस्य वा प्रत्यक्षविषये आरोप स्यात् ?
तत्राद्यपक्षे स्मर्यमाणरजतदेशे स्पष्टतया शुक्तिकाया प्रतिभास स्यान्न तु इदम् इत्युल्लेखेन
पुरोवर्तितया, तत्रारोप्यमाणत्वात्, यत्र यदारोप्यते तस्य तद्देशे प्रतिभासो भवति यथा मरीचि
कायामारोप्यमाणस्य जलस्य662663रीचिकादेशे, स्मृतिविषये रजते आरोप्यते च प्रत्यक्ष664विषया
शुक्तिकेति । द्वितीयपक्षे तु इदन्त665या शुक्तिकाया स्पष्ट प्रतिभासो न प्राप्नोति, तत्रारोप्यमाणस्य
स्मृतिविषयस्याऽस्पष्टत्वात् । तन्न विषयैकत्वाध्यवसायात् स्मृते प्रत्यक्षेण सहैकत्वाध्यव
सायो युक्त ।


नापि स्वरूपैकत्वाध्यवसायात्, स हि ताभ्यामेव विधीयते, अन्येन वा ? न तावत्ताभ्यामेव,
अस्वसविदितस्वभावयो स्मृति-प्रत्यक्षयो स्वरूपमात्राध्यवसायेऽप्यसामर्थ्ये अन्येन सहैकत्वाध्ये
वसाये सामर्थ्यानुपपत्ते । ना666प्यन्येन ज्ञानान्तरेण तदेकत्वाध्यवसाय, तस्यापि अस्वस
विदितस्वभावस्य स्वरूपमात्रस्यापि वार्तानभिज्ञस्य667 अन्येनैकत्वाध्यवसायवार्ताभिज्ञताऽनुप
पत्ते । किञ्च, तेन तद्द्वयस्य प्रतीतस्य एकत्वमध्यवसीयते, अप्रतीतस्य वा ? न तावत्प्रतीतस्य;
द्वयप्रतीतौ तदेकत्वाध्यवसायविरोधात् । नाप्यप्रतीतस्य, अतिप्रसङ्गात् । अथ668 यदैव तद्द्वय
प्रतीय669ते न670 तदैव तदेकत्वाध्यवसायो येन विरोध स्यात्, किन्तु पूर्व तद्द्वयं प्रतीत्य पश्चादे
कत्वेनाध्यवसीयत इति, तदयुक्तम्, संवेदनस्य क्षणिकत्वेन एतावन्त कालमवस्थित्यनुपपत्ते ।
तन्न प्रत्यक्षेण सहैकत्वाध्यवसाय स्मृते प्रमोष ।


59

नापि प्रत्यक्षरूपतापत्तिः; तद्रूपतापत्तौ हि तस्याः स्मृतिरूपतापरित्यागात् प्रत्यक्षरूपतैव
स्यान्न स्मृतिरूपता, तत्कथमस्याः प्रमोषः ? अन्यथा मृत्पिण्डस्यापि घटरूपतापत्तौ मृत्पिण्ड
रूपतापरित्यागेऽपि मृत्पिण्डत्वप्रसङ्गात् मृत्पिण्डप्रमोषोऽपि स्यात्, प्रत्यक्षबाधा उभयत्र
समाना । अथ तत् इत्यंशस्याननुभवः स्मृतेः प्रमोषः, तद्रजत671म् इत्याकारा हि प्रतीतिः
स्मृ672तिः, तच्छब्दस्य अनुभूतपरोक्षार्थाभिधायकत्वात्, स यत्र नानुभूयते तत्र स्मृतिः प्रमुष्टा
इत्युच्यत इति; तदसाम्प्रतम्; रजताकारस्याप्यनुभवाभावप्रसङ्गात्, तद्रजतम् इति हि
रजतांशसम्बलितमेकमेवेदं स्मरणं भवतेष्यते, तत्र तच्छब्दस्य प्रमोषे रजतांशस्यापि प्रमोषः
स्यात् निरंशस्यैकदेशेन प्रमोषानुपपत्तेः ।


किञ्च673, प्रमोषः इत्यत्र प्रशब्देन कोऽर्थोऽभिधीयते–एकदेशापहारः, सर्वापहारो वा ?
न तावदेकदेशापहारः; तत्रा674स्य प्रयोगवैयर्थ्यात् । एकदेशेन हि चौरैर्द्रव्यापहारे मोषशब्द एव
लोके प्रयुज्यते, अतः सर्वापहार एव अस्यार्थो युक्तः प्रकृष्टो मोषः प्रमोषः इति । मोषस्य
चायं प्रकर्षो यत् सर्वात्मना वस्तुनोऽपहार इति । एवञ्च स्ववचनविरोधः; स्मृतिरस्ति, किन्तु
प्रमुष्टा
इति । य675दि हि सा अस्ति; कथं प्रमुष्टा ? प्रमुष्टा चेत्; कथमस्ति इति ?


तिरोभावोऽपि ज्ञानयौगप676द्ये सिद्धे सिद्ध्येत, न च भवतस्तत्सिद्धम् अपसिद्धान्तप्रस
ङ्गात् । किञ्च, अस्यास्तिरोभावः कार्याऽकर्तृत्वम्, आवृतत्वम्, अभिभूतस्वरूपाया अव
स्थानं वा ? प्रथमपक्षे कि तस्याः कार्यम्, यदकर्तृत्वात् तत्तिरोभाव स्यात् ? परिच्छित्ति
श्चेत्; सा तत्रास्त्येव, रजतपरिच्छित्तेरत्रानुभूयमानत्वात् । द्वितीयपक्षस्त्वयुक्तः; ज्ञानस्य आव्रिय
माणत्वानुपपत्तेः । चिरस्थायिनो हि पदार्थस्याव्रियमाणत्वं दृष्टम्, नच ज्ञानं चिरस्थायि
तया केनचिद् दृष्टमिष्टं वा । तृतीयपक्षोप्यनुपपन्नः; बलवता हि दुर्बलस्य स्वरूपाभिभवो दृष्टः,
यथा सवित्रा तारानिकुरम्बस्य । दुर्बलत्वञ्चास्याः अतीतविषयत्वात्, बाध्यमानत्वाद्वा ? प्रथम
विकल्पे स्मृतिवार्तोच्छेदः, सर्वस्या स्मृतेरतीतविषयतया दुर्बलत्वतो वर्तमानवस्तुप्रतिभासिज्ञानेन
स्वरूपाभिभवप्रसङ्गात् । वाध्यमानत्वं तु विपरीतख्यातिव्यतिरेकेण नोपपद्यते इत्युक्तम् । अतः
स्मृतिप्रमोपानुबन्धं परित्यज्य सैवा677भ्युपगन्तव्या ।


यदप्यु678क्तम्–विपरीतख्यात्यभ्युपगमे बाह्यार्थसिद्धिर्न स्यात् इत्यादि; तदप्यसाम्प्रतम्;
असत्यप्रत्ययानाम् अर्थाऽनालम्बनत्वेऽपि सत्यप्रत्ययानां तदालम्बनत्वप्रसिद्धेः । सत्येतरव्यवस्था
60 च प्रत्ययानां साधकबाधकप्रमाणसद्भावात् सुप्रसिद्धेति । एतच्च विस्तरतो बाह्यार्थसिद्धिप्रघट्टके
प्रतिपादयिष्यते इत्यलमतिप्रसङ्गेन । तदेवं679 विवेकाख्यातिपक्षस्य विचार्यमाणस्य सर्वथानुप
पत्तेर्नात्राग्रहः प्रेक्षादक्षैः कर्तव्य इति ।


विपर्ययज्ञानेऽख्यातिवादिनश्चार्वाकस्य प्रतिविधानम्–


अपरे अख्यातिं मन्यन्ते । तथा680हि–इदं रजतम् इति ज्ञाने रजतसत्ता विषयभूता ताव
न्नास्ति; अभ्रान्तत्वानुषङ्गात् । रजताभावोऽपि न तदालम्बनम्;
तद्विधिपरत्वेनास्य प्रवृत्तेः । अत एव शुक्तिशकलमपि न तदाल
म्बनम् । रजताकारेण शुक्तिशकलमालम्बनमित्यप्ययुक्तम्; अ
न्यस्य अन्याकारेण ग्रहणाऽप्रतीतेः, न खलु घटाकारेण पटस्य ग्रहणं प्रतीतम् । अतो न किञ्चि
दत्र ज्ञाने ख्या681ति इति सिद्धा अख्यातिः; तदसमीक्षिताभिधानम्; विशेषतो व्यपदेशाभावप्रस
ङ्गात्, यत्र हि न किञ्चिदपि प्रतिभाति तत्केन विशेषेण रजतज्ञानमन्यद्वा व्यपदिश्येत ?


का चेयमख्यातिः-किं ख्यातेरभावः, ईषत्ख्यातिर्वा ? प्रथमपक्षे भ्रान्ति-सुषुप्तावस्थयोरवि
शेषप्रसङ्गः, प्रतिभासविशेषात्मकत्वे हि भ्रान्तेः सुपुप्तावस्थातो भेदः स्यान्नान्यथा । अथ ईष
त्ख्यातिः अख्यातिः; ननु किमिदं ख्यातेरीषत्त्वम् ? यथावस्थितार्थाऽप्रतिभासित्वमिति चेत्;
तर्हि विपरीतार्थख्यातिरियं स्यान्न682तु अख्यातिः । तन्न अख्यातिपक्षोऽप्युपपन्नः ।


विपर्ययज्ञाने असत्ख्यातिवादिनोः सौत्रान्तिकमाध्यमिकयोः निराकरणम्–


अपरे तु असत्ख्यातिं मन्यन्ते । तथा683हि–इदं रजतम् इति प्रतिभासमानं वस्तुस्वरूपं
ज्ञानधर्मः, अर्थधर्मो वा स्यात् ? न तावज्ज्ञानधर्मः; अनहङ्कारा
स्पदत्वात्, बहिः इदन्तया प्रतिभासमानत्वाच्च । नाप्यर्थधर्मः;
तत्साध्यार्थक्रियाकारित्वाऽभावात्, बाधकप्रत्ययेन तद्धर्मतयाऽस्य
बाध्यमानत्वाच्च । अतः असदेव तत् तत्र प्रतिभातमिति असत्ख्यातिः; तदसमीक्षिताभिधा
नम्; असतः प्रख्योपाख्याविर684हितस्य खपुष्पादिवत् प्रतिभासाऽसंभवात् । विप्रतिषिद्धञ्चैतत्
61 असत्, प्रतिभाति च इति । प्रतिभासमानत्वमेव हि सत्त्वं पदार्थानाम् । नहि सर्वथाऽसन्तः
शशविषाणादयः स्वप्नेऽपि प्रतिभासन्ते । भ्रान्ति685वैचित्र्याभावप्रसङ्गश्च तन्निबन्धनाऽभावात्, नहि
असत्ख्यातिवादिनो ज्ञानगतमर्थगतं वा वैचित्र्यमस्ति यन्निबन्धनाऽनेकप्रकारा भ्रान्तिः स्यात् ।


यदप्युक्त686म्–अर्थक्रियाकारित्वाभावात् इति; तत्रापि किं ज्ञानसाध्यार्थक्रियाकारित्वाभावो
ऽभिप्रेतः, ज्ञेयसाध्यार्थक्रियाकारित्वाऽभावो वा ? तत्राद्यपक्षे ज्ञानधर्मतयैवास्य सत्त्वमनुपपन्नम्,
न पुनः सर्वथा । नहि अन्यस्य अन्यसाध्यार्थक्रियाकारित्वाभावादसत्त्वम्; घटस्यापि पटसाध्या
मर्थक्रियामकुर्वतोऽसत्त्वप्रसङ्गात् । द्वितीयपक्षस्त्वयुक्तः; जलहेतोरभिलापप्रवृत्त्याद्यर्थक्रियाकारि
त्वस्य तत्र संभवात् । कथमेवमस्य भ्रान्तता इति चेत् ? स्नानाद्यर्थक्रियाकारित्वाऽभावात् ।
द्विविधा687 हि अर्थक्रिया–अर्थमात्रनिबन्धना, सत्यार्थनिबन्धना चेति । तत्र अभिलाषादिरूपा
अर्थमात्रनिबन्धना । स्नानादिरूपा तु सत्यार्थनिबन्धना । अतः तत्कारिण एवार्थस्य ग्राहकं
ज्ञानमभ्रान्तं नान्यत् । ततः असत्ख्या688तिपक्षोऽनुपपन्न एव ।


विपर्ययज्ञाने प्रसिद्धार्थख्याति–वादिन साख्यस्य पर्यालोचनम्–


अन्ये तु प्रसिद्धार्थख्यातिं प्रतिपन्नाः । तथाहि–प्रतीतिसिद्ध एवार्थो विपर्ययज्ञाने प्रतिभाति ।
न चा689स्य विचार्यमाणस्य असत्त्वं वाच्यम्; प्रतीतिव्यतिरेकेण अप
रस्य विचारस्यैवासंभवात् । प्रतीति त्य बाधितत्वाच्च, न690
तत्प्रसिद्धेऽर्थे विचारो युक्तः, करतलगताऽऽमलकादेरपि हि प्रतिभास
बलेनैव सत्त्वम्, स च प्रतिभासोन्यत्राप्यविशिष्टः । अथ मरीचिकाचक्रादौ जलाद्यर्थस्य प्रति
भातस्य तद्देशोपसर्पणे सति उत्तरकालं प्रतिभासाभावादसत्त्वम्; तदयुक्तम्; यतो यद्यपि
उत्तरकालं सोऽर्थो न प्रतिभाति, तथापि यदा प्रतिभाति तदा तावदस्त्येव, अन्यथा विद्युदादेरपि
स्वप्रतिभासकाले सत्त्वसिद्धिर्न स्यात् । तस्मात् प्रसिद्धार्थख्यातिरेवेयमिति; तदविचारित
रमणीयम्; भ्रान्ताऽभ्रान्तप्रतीतिव्यवहारवार्त्तोच्छेदप्रसङ्गात् । न खलु यथावस्थितार्थग्राहित्वाऽ
विशेषे काचित्प्रतीतिर्भ्रान्ता काचिच्चाऽभ्रान्ता इति निर्निबन्धना व्यवस्थितिर्युक्ता; स्वेच्छाकारि
त्वप्रसक्तेः । किञ्च, उत्तरकालमुदकादेरभावेऽपि तच्चिह्नस्य भूस्निग्धतादेरुपलम्भः स्यात् । नहि
विद्युदादिवद् उदकादेरपि आशुभावी निरन्वयो विनाशः क्वचिदुपलभ्यते । तन्न प्रसिद्धा691र्थख्या
तिपक्षोऽपि श्रेयान् ।


62

विपर्ययज्ञाने आत्मख्याति–वादिनो योगाचारस्य खण्डनम्–


अन्ये च आत्मख्याति मन्यन्ते । तथाहि–शुक्तिकायाम् इदं रजतम् इति रजतं प्रति
भासते, तस्य च बाह्यस्य बाधकप्रत्ययात् प्रतिभासो नोपपद्यते । न
खलु यथैव प्रतिभासते तथैवार्थः इत्यभ्युपगन्तुं युक्तम्; भ्रान्तत्वा
ऽभावप्रसङ्गात् । अतः ज्ञानस्यैवा692यमाकारोऽनाद्यविद्यावासनासाम
र्थ्याद् बहिरिव प्रतिभासते इत्यात्मख्यातिः; तदसमीचीनम्; यत स्वरूपमात्रसंविन्निष्ठत्वे अर्था
कारधारित्वे च सिद्धे ज्ञानस्य आत्मख्याति सिद्ध्येत, न च तत्सिद्धम्, उत्तरत्र 693उभयस्यास्य
निराकरिष्यमाणत्वात् । स्वाका694रमात्रग्राहित्वे च अखिलज्ञानानां भ्रान्ताऽभ्रान्तविवेकः बाध्य
बाधकमावश्च न प्राप्नोति, तत्र कस्यचिदपि व्यभिचाराऽभावात् । स्वा695त्मस्वरूपतया रजताद्या
कारस्य संवेदने च अहं रजतम् इति स्वात्मनिष्ठतयैव संवित्तिः स्यात्, नतु इदं रजतम्
इति बहिर्निष्ठतया । यत् स्वात्मरूपतया संवेद्यते न तत्र वहिर्निष्ठतया संवित्तिः यथा विज्ञान
स्वरूपे, स्वात्मरूपतया संवेद्यते च आत्मख्यातिवादिमते रजताद्याकार इति । अथ अनाद्य696
विद्यावासनावशाद् बहिर्निष्ठत्वेनाऽसौ697 प्रतीयते; कथमेवं विपरीतख्यातिरेवेयं न स्यात्, ज्ञाना
दभिन्नस्य रजताद्याकारस्य अन्य698थाऽध्यवसायात् ?


किञ्च699, विज्ञानाद्वैते ब्रह्माद्वैते वा इयमात्मख्यातिः स्यात् । तत्र द्विविधेऽप्यद्वये द्वयदर्शन
निबन्धना700 कथं भ्रान्ति स्यात् ? अनाद्यविद्योपपप्लवादिति चेत्, ननु तत्रापि कि स्वरूपं प्रति
भाति, अन्यरूपं वा ? यदि स्वरूपम्; कथ भ्रान्तिः ? अथ अन्यरूपम्, कथमात्मख्यातिः ?
अथ आत्मरूपस्यैव भ्रान्तिवशादन्यरूपत्वेनाऽवभासनम्; नन्विदमितरेतराश्रयत्वम्, तथाहि–
अन्यरूपावभासनाद् बुद्धेर्भ्रान्तित्वसिद्धि, तत्सिद्धेश्च अन्यरूपावभासनसिद्धिरिति । 701यदि च
63 ज्ञानस्य बाह्यार्थविषयत्वन्नेष्यते तर्हि यावद् रजताकारोल्लेखेन तद्भवति तावन्नीलाद्याकारोल्लेखे
नापि कस्मान्न भवति नियामकाऽभावात् ? अथ अनाद्यविद्यावासनैव तन्नियामिका; कथमेवं
देशादिनियमेन तज्ज्ञानोत्पत्तिः स्यात् ? अथ अविद्यायाः इदमेव माहात्म्यम्–यदसन्तमपि
देशादिनियमं ज्ञाने दर्शयति इति चेत्; नैवम्; असत्ख्यातित्वप्रसङ्गात् ? कथञ्चात्मख्याति
वादिनः छेदाऽभिघातादिप्रतीतिः स्यात्, स्वरूपमात्रसंवित्तौ तदसंभवात् ? न खलु विज्ञानस्वरू
पस्य सुखादेः संवित्तौ तत्प्रतीतिर्दृष्टा । तन्न आत्म702ख्यातिपक्षोऽप्युपपन्नः ।


विपर्ययज्ञाने अनिर्वचनीयार्थ–ख्याति प्रतिपद्यमानस्य ब्रह्माद्वैतवादिन प्रतिविधानम्–


केचित् पुनरनिर्वचनीयार्थख्यातिमत्र उररीकुर्वन्ति । तथाहि–शुक्तिकादौ रजताद्याकारः
प्रतिभासमानः स703न् स्यात्, असन्, उभयरूपो वा ? न तावत्
सन्; उत्तरकालं बाधकानुत्पत्तिप्र704सङ्गतस्तद्बुद्धेरभ्रान्तत्वप्रसक्तेः ।
नाप्यसन्; आकाशकुशेशयवत् प्रतिभासाभावप्रसङ्गात् । नापि
सदसद्रूप; उभयदोपानुपङ्गात्, सदसतोरैकात्म्यविरोधाच्च । तस्मादयं बु705द्धिसन्दर्शितोऽर्थः
सत्त्वेनासत्त्वेनोभयधर्मेण वा निर्वक्तुं न शक्यत इत्यनिर्वचनीयार्थख्या706तिः; तदसमीक्षिताभि
धानम्; प्रतिभासमानस्यानिर्वचनीयख्यातित्वविरोधात्; तथा707हि–ख्यातिः इति किमयं
ख्या प्रकथने इत्यस्य प्रयोगः, ख्या प्रथने इत्यस्य वा ? उभयत्र सतोऽसतश्च वचनीयता
प्रतिभास्यता च घटत एव । स708न् खलु सत्त्वेनावग्रहीतुं व709क्तुञ्च यात्येव, अन्यथा घटादीनामपि
अनिर्वचनीयत्वप्रसङ्गः । असच्चाऽसत्त्वेन; अन्यथा घटा710द्यभा711वस्यापि अनिर्वचनीयतानुषङ्गः ।
यदि चानिर्वचनीयताऽङ्गीक्रियते तदा इदं रजतम् इति ज्ञानस्य व्यपदेशस्य चानुत्पत्तिरेव
स्यात् । सदेव हि पूर्वदृष्टं रजतं देशादिव्यवहितमपि सादृश्यवशात्तत्र प्रतिभाति, तस्मात् इदं
तत्
इत्युल्लेख एव वचनीयता, तदनुल्लेख एव अवचनीयतेति । तन्न 712अनिर्वचनीयार्थ
ख्यातिपक्षोऽप्युपपन्नः ।


64

भ्रमस्थले अलौकिकार्थख्यातिवादिनो निरास–


अपरे अलौकिकार्थख्याति प्रतिपद्यन्ते । ते हि प्राहु–यस्मादुक्तप्रकारेण ख्यात्यन्तराणि
विचार्यमाणानि नोपपद्यन्ते तस्माद् अलौकिकस्यान्तर्बहिर्वाऽनिरूपित
स्वरूपस्यार्थस्य ख्यातिरभ्युपगन्तव्या इति । तदविचारितरमणीयम्,
यत किमिदम् अलौकिक713त्वन्नाम अर्थस्य–किमन्यरूपत्वम्, अन्य
क्रियाकारित्वम्, अन्यकारणप्रभवत्वम्, अ714कारणप्रभवत्व वा ? न तावद् अन्यरूपत्वम्, यादृश
मेव हि सत्यस्य रूपं प्रतिभाति तादृशमेव असत्यरयापि, अन्यरूपावभासित्वे च विपरीतख्याते
रेव अलौकिकार्थख्यातिः इति नाम कृतं स्यात् । नाप्यन्यक्रियाकारित्वम्; अन्यस्य अन्यसाध्य
क्रियाकारित्वे कारणान्तरपरिकल्पनानर्थक्यप्रसङ्गात्, एकस्मादेव कारणात् सकलकार्याणा
मुत्पत्तेः । एतेन अन्यकारणप्रभवत्वपक्षोऽपि प्रत्युक्त । अकारण715प्रभवत्वेऽपि सद्रूपत्वम्, असद्रू
पत्वं वा अर्थस्य स्यात् ? सद्रूपत्वे नित्यत्वप्रसङ्गः, सतः कारणादनुत्पद्यमानस्याऽनित्यत्वानुप
पत्तेः । अथ असद्रूपः; कथम् इदं रजतम् इति विधिरूपतया तत्प्रतीति ? न खलु घटस्य
असद्रूपत्वे अयं घट इति विधिरूपा प्रतीति स्वप्नेऽपि प्रतीयते । अथाऽसद्रूपस्याप्यर्थस्य कुत
श्चिद् विभ्रमनिमित्तात् सद्रूपतया प्रतीति; तर्हि विपरीतार्थख्यातिरियम् नालौकिकार्थख्याति
स्यात् । तन्ना716ऽलौकिकार्थख्यातिपक्षोऽपि क्षेमङ्कर ।


तदेवं शुक्तिकायां रजतज्ञाने परोपवर्णितख्यात्यन्तराणां विचार्यमाणानामनुपपत्ते विपरी
तख्यातिरेव अत्र प्रतिपत्तव्या ।


विपरीतख्यातौ दोषापादनम्–


ननु विपरीतख्यातिरपि विचार्यमाणा नोपपद्यते । तथाहि–तस्या किमालम्बन रजतम्,
शुक्तिका वा ? य717दि रजतम्, तदा असत्ख्यातिरियं स्यान्न
विपरीतख्याति असतस्तत्र रजतस्य प्रतिभासनात् । अथ अन्य
देशकालं सदेव तत् तत्र प्रतिभाति अ718तो न तद्दोप, तदयु
क्तम्, एवं सति इदं रजतम् इत्युल्लेखेन ज्ञानानुत्पत्तिप्रसङ्गात् । नहि अतद्देशकाले रजते
असन्निकृष्टे चाक्षुषं ज्ञानं भवितुमर्हति, अन्यथा सर्वत्र तदुत्पत्तिप्रसक्तेर्विश्वस्यापि त719द् ग्राहक
स्यात् । तन्न अस्या रजतमालम्बनम् । नापि शुक्तिका, रजताकारेण उत्पद्यमानत्वात्, न च
65 अन्याकारायाः प्रतीतेः अन्यदालम्बनं युक्तम् अतिप्रसङ्गात् । शुक्तिका720लम्बनत्वे चास्याः कथं
भ्रान्तत्वं स्यादिति ?


तत्परिहारः–


अत्र प्रतिविधीयते । यत्तावदुक्तम्721किमालम्बनम् इत्यादि, तत्रास्तु तावद् रजतमेवा
लम्बनम् । नचैव722मसत्ख्यातित्वप्रसङ्गः; देशान्तरादौ रजतस्य विद्य
मानत्वात् । असत्ख्यातौ हि एकान्तेनाऽसतोऽर्थस्य प्रतिभासन
मिष्यते, अत्र तु देशान्तरादौ सतः, इत्यनयोर्महान् विशेषः । ननु तत्रासतो रजतस्य चक्षुषाऽ
सन्निकृष्टस्य कथमिदन्तया प्रतिभासः स्यात् ? इत्यप्यनुपपन्नम्; अतद्देशकालस्याप्यस्य
दोषवशात् सन्निहिततया प्रतिभासविषय723तोपपत्तेः, अतएव तत्प्रतीतेर्विपरीतख्यातित्वम् । न
चातद्देशकालस्यास्य724 ग्रहणे विश्वस्य ग्रहणप्रसङ्ग इत्यभिधातव्यम्; सदृ725शार्थदर्शनोद्भूतस्मृत्यु
पस्थापितस्यास्य प्रतिभासाभ्युपगमात् । नच विश्वस्य तदुपस्थापितत्वमस्ति, अतः कथं तद्ग्रह
णाशङ्काऽपि ? तदुपस्थापनञ्च चेतसि परिस्फुरतोऽर्थस्य बहिरवभासनमुच्यते, न पुनः पशो
रिव रज्वा नियन्त्रितस्योपढौकनम् । न चैतावतेयम् आत्मख्यातिः असत्ख्यातिर्वा वक्तव्या;
विज्ञानाद्विभिन्नस्यार्थस्य अत्रावभासनात्, अत्यन्ताऽसतोऽर्थस्य प्रतिभासाभावाच्च ।


ननु रजतमिदम् इत्यादिज्ञानस्य प्रत्यक्षरूपतया स्मृत्यनपेक्षत्वात् कथं तदुपस्थापितार्था
वभासित्वम् ? इत्यप्यसमीक्षिताभिधानम्; प्रत्यक्षरूपत्वाऽभावात्तस्य, प्रत्यभिज्ञानस्वरूप हि
तत् दृष्ट-दृश्यमानार्थसङ्कलनात्मकत्वात् स एवायं देवदत्तः इत्यादिज्ञानवत् । प्रत्यभिज्ञानस्य726
च दर्शनस्मरणकारणकत्वात् युक्ता तदपेक्षा । न चास्य प्रत्यभिज्ञानत्वाभ्युपगमे अपसिद्धान्त
प्रसङ्गः; वृक्षोऽयम् इत्यादिज्ञानानां प्रत्यभिज्ञानत्वेन वक्ष्यमाणत्वात् । ततः स्थितं स्मृत्युप
स्थापितं रजतमस्याः प्रतीतेरालम्बनमिति, निगू727हितनिजाकारा परिगृहीतरजताकारा शुक्ति
कैव वा; त्रिकोण728त्वादिविशेषग्रहणाभावाद्धि सा निगूहितनिजाकारा, चाकचिक्यादिसदृशधर्म
66 दर्शनोपजनितरजतस्मरणारोपितरजताकारत्वाच्च परिगृहीतरजताकारेति । कथं रजताकारस्य729
प्रत्ययस्य शुक्तिकालम्बनत्वमतिप्रसङ्गात् ? इत्यप्यचोद्यम्; अङ्गुल्या730दिना हि कर्मतया निर्द्दि
श्यमानं ज्ञानस्यालम्बनमुच्यते731, तच्च शुक्तावस्त्येव, कथमन्यथा732 तज्ज्ञानेन असौ अपेक्ष्यते733 ? सा हि
अनेनावश्यमपेक्षणीया, अन्यथा तदसन्निधानेऽपि734 तज्ज्ञानोत्पत्तिः स्यात् । अपेक्षा च कारण
त्वेन भवेत्, विषयत्वेन वा इति चिन्त्यम् ? न तावत् कारणत्वेन; आलोकाभाववत् शुक्त्य
भावेऽपि रजतज्ञानानुत्पत्तिप्रसङ्गात्, तथा च सत्यरजतज्ञानाय दत्तो जलाञ्जलि । अतः
कारणत्वेन अत्रापेक्षाऽनुपपत्ते विषयत्वेनैवासौ युक्ता । ननु यदि शुक्तिकाऽत्र रजताकारेण प्रति
भासते तदा रजतस्याविद्यमानत्वाद् असत्ख्यातिरियं स्यात्; तदसाम्प्रतम्; सादृश्यस्य अत्राऽ
पेक्ष्यमाणत्वात् । रजतसा735धारणं हि शुक्लभास्वराकारमपेक्ष्य इदं विज्ञानमुत्पद्यते, असत्ख्या736तिस्तु
न सादृश्यमपेक्ष्योत्पद्यते, खे खपुष्पख्यातिवत् । तदेवं विपर्ययज्ञानस्य विपरीतख्यातिस्वरूपस्य
अप्रामाण्यप्रसिद्धेः सूक्तम्–संशयविपर्ययकारण इत्यादि ।


विवृतिव्याख्यानम्–


न केवलं संशयविप737र्ययकारणज्ञानस्य भावाऽविरोधात् न वै ज्ञानमित्येव प्रमाणम्,
किन्तु अकिञ्चित्करस्य च क्षणक्षय-स्वर्गप्रापणसामर्थ्यादिज्ञानस्य
भावाऽविरोधात्,
अन्यथा क्षणक्षयादिज्ञानस्यापि प्रामाण्यप्रस
ङ्गात् तत्रानुमानमनर्थकं स्यात् । ननु तत्र738 निश्चयाजनकत्वान्न
तत्प्रमाणम् एतदेवाह–नहि इत्यादि । हि यस्मात् न तत्त्वस्य परमार्थस्य ज्ञानमित्येव
यथार्थनिर्णयसाधनम्
अपि तु किञ्चिदेव, तदेव च प्रमाणम् । तदुक्तम्–यत्रैव
जनयेदेनां तत्रैवास्य प्रमाणता739
इत्यपरः–दिड्नागादिः । अत्रो
त्तरमाह–तेनापि इत्यादि । न केवलं तत्त्वज्ञानमात्रप्रामाण्यवादिना अपि तु तेनापि दिड्नागादि
नाऽपि उक्तदोषभयात् तत्त्वनिर्णयं प्रति साधकतमस्यैव ज्ञानस्य निश्चयात्मनः प्रामाण्यं सम-
67 र्थ्येत, तस्यैव तं प्रति साधकतमत्वात्, अन्यथा तदपेक्षानुपपत्तेः । न पुनस्तत्त्वज्ञानमात्रस्य
सन्निकर्षादेर्वा तत् समर्थ्येत तदभावात् । तत्कारणत्वात्तस्यापि तत्समर्थ्येत इति चेदत्राह
वस्तुवल इत्यादि । वस्तुवलायातो विकल्पसामर्थ्यसिद्धोऽनुभवः, अनुभवहेतुश्च सन्निकर्षादिः,
सन्निकर्षादिहेतुश्च विशिष्टाऽऽहार-देशादिः, तस्याप्यभा740वे विकल्पानुपपत्तेः । वस्तुबलायातं
तत् सनिकर्षाऽऽहारादिः तस्मादनुभवात् अर्थान्तरंतस्यापि, न केवलमनुभवस्यैव 741त्कारण
त्वोपपत्तेः
विकल्पजनकत्वोपपत्तेः । कथम् ? इत्याह–परम्परया । तथाहि–विशिष्टाहारदेशादेः
सन्निकर्षः, ततोऽनुभवः, ततो विकल्प इति, अतस्तस्यापि तदुपपत्तेः प्रमाणता स्यात् । नचैवम्,
अतः प्रकृतोपसंहारमाह–तन्न इत्यादि । यतएवं तत् तस्मात् नाज्ञानस्य प्रमाणता स्वपरयोः
प्रमाणान्तरापेक्षणात्, अज्ञानमिव अज्ञानम् निर्विकल्पकदर्शनम्, साक्षात् सन्निकर्षादिर्वा,
तस्य प्रमाणता न । कि सर्वथा सा तस्य न ? इत्यत्राह–अन्यत्रोपचारात् । मुख्यतो
नास्ति उपचारादस्ति इत्यर्थः । कस्य तर्हि मुख्यतः प्रमाणता ? इत्यत्राह–ज्ञानस्यैव इत्यादि ।
ज्ञानस्यैव नेत742रस्य निर्विकल्पकदर्शनादेः । कि विशिष्टस्य ? विशदनिर्भासिनः परमुखाऽ
प्रेक्षितया स्वप743रस्वरूपयो स्पष्टप्रतिभासस्य प्रत्यक्षत्वम् प्रत्यक्षप्रमाणता । इतरस्य अविशद
निर्भासिनः परोक्षता परोक्षप्रमाणता ।


प्रत्यक्षमेवैक प्रमाणम्
इति चार्वाकमतस्योपपादनम्–


ननु प्रत्यक्षव्यतिरिक्तस्य प्रमाणान्तरस्यैवाऽसंभवात् कस्य परोक्षरूपता प्ररूप्यते ? प्रत्य744क्ष
मेव हि प्रमाणम् अगौणत्वात्, नानुमानं तद्विपर्ययात्; तथाहि–पक्षध
र्मत्वं हेतोः स्वरूपम्, पक्षश्च धर्मधर्मिसमुदायात्मा, तदनिश्चये कथं तद्ध
र्मतायाः निश्चयः ? तन्निश्चये वा अनुमानवैयर्थ्यम् । अ745तोऽवश्यं पक्षध
र्मव्यवहारसिद्धये तत्समुदाये रुढोऽपि पक्षशब्दस्तदेकदेशे धर्मिण्युपचरणीयः, अतः पक्षस्यापि
गौणत्वं, हेतोरपि गौणत्वम् । 746यो हि धर्मिधर्मः स पक्षधर्म इत्युच्यते, अतो गौणरूपत्वात् गौण
कारणजन्यत्वाद्वा गौणमनुमानम् ।


किञ्च, अर्थनिश्चया747त्मकं प्रमाणं भवति, अनुमानाच्च अर्थनिश्चयो दुर्लभः; तथाहि–प्रतीय
मानादर्थादर्थान्तरप्रतीतिः अनुमानम्, प्र748तीयमानश्चार्थोऽर्थान्तरस्य सम्बद्धस्य, असम्बद्धस्य वा
68 गमक स्यात् ? न तावदसम्बद्धस्य; अतिप्रसङ्गात् । अथ सम्बद्धस्य; कुतस्तत्सम्बन्धसिद्धि
प्रत्यक्षात्, अनुमानाद्वा ? न तावत्प्रत्यक्षात्; अस्य नियतदेशकालाऽऽकारगोचरचारितया सार्व
त्रिकसम्बन्धग्रहणे सामर्थ्याऽभावात् । नाप्यनुमानात्; अनवस्थाप्रसङ्गात्, तद749पि हि सम्बन्ध
ग्रहणे सति प्रवर्तते । किञ्च, अवस्था-देश-कालभेदेन भिन्नार्थक्रियाकारिणां भिन्नसामर्थ्यानां
चार्थानां न साकल्येन स्वभावप्रतिबन्धोऽवधारयितुं शक्य, सहस्रशोऽप्यामलिक्यादेः कषाय
रसे समुपलभ्यमानेऽपि क्षीराद्यवसेकेन माधुर्यस्याप्युपलम्भात् । तदुक्तम्–

अवस्थादेशकाला750दिभेदाद्भिन्नासु शक्तिषु751

भावानामनुमानेन प्रतीतिरतिदुर्लभा ॥ वाक्यप॰ १ । ३२ इति ।

न च साध्ये सत्येव साधनस्योपलम्भात् तदभावेऽनुपलम्भात् तत्सम्बन्धसिद्धि; तदनुपलम्भ
स्या752तिदूरासन्नत्वादौ प्रमातुरशक्तत्वे करणस्याऽसामर्थ्ये प्रमेयाऽभावे753 च संभवात् । यत्र हि
अनग्नौ धूमो न दृश्यते तत्र प्रमातुः शक्त्यभावः, करणस्य सामर्थ्यविरहः, विषयस्याभावो
वाऽनुपलम्भे कारणमिति । उक्तञ्च–


यत्नेनानुमितोप्य754र्थः कुशलैरनुमातृभिः ।

अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते ॥ वाक्यप॰ १ । ३४

किञ्च, अनुमानस्य धर्मी, धर्मः, तत्समुदायो वा साध्यः स्यात् ? तत्राद्यपक्षोऽनुप
पन्नः; ध755र्मिणोऽध्यक्षसिद्धत्वेन साधनानर्थक्यप्रसङ्गात्, हेतोरनन्वयत्वानुषङ्गाच्च; न खलु
यत्र यत्र धूमः तत्र तत्र पर्वतः इत्यन्वयोऽस्ति । द्वितीयपक्षेऽपि धर्मः सामान्यरूपः,
विशेषरूपो वा साध्यः स्यात् ? तत्र सामान्यरूपे सिद्धसाधनम्, अग्निमात्रे कस्यचिद्
विप्रतिपत्त्यभावात् ? नच तत्प्रतीतौ किञ्चित्प्रयोजनम्, नहि अग्नित्वं दाहपाकादौ गोत्वं756
वा वाहदोहादावुपयुज्यमानं प्रतीतम् । किञ्च, सामान्यात्प्रतीतात् प्रवर्तमान कथं नियत
दिगभिमुखमेव अवश्यं प्र757वर्तेत ? नहि सामान्यं नियतदिक्कं व्यापित्वाभावप्रसङ्गात् । अथ
सामान्यस्य व्यक्ति विनाऽनुपपत्ते, प्रतीते तस्मिन् अन्यथानुपपत्त्या व्यक्तिप्रतीते758र्दिङ्नियमेन
प्रवृत्तिः । ननु किमभिमतया व्यक्त्या विना नोपपद्येत, व्यक्तिमात्रेण वा ? न तावदभिमतया,
69 व्यक्त्यन्तरेऽप्यस्य सम्भवात् । व्यक्तिमात्रप्रतीतौ च इष्टव्यक्तिप्रतीत्यर्थं पुनर्यत्नान्तरं कर्त्तव्यम्,
तत्रापि च अयमेव पर्यनुयोगः इत्यनवस्था । विशेषरूपस्य च साध्यत्वे अनन्वय एव हेतुः, नह्य759
त्रत्येदानीन्तनेन खादिरादिस्वभावेन चाग्निना अग्निमान् पर्वतो धूमवत्वात् इत्यादौ विशेषे साध्ये
हेतोरन्वयो घटते, महानसादौ तथाविधसाध्येन धूमादेर्व्याप्त्यप्रतीतेः । अनुमानविरोधस्य इष्ट760
विघातकृतो विरुद्धाव्यभिचा761रिणो वा सर्वत्रानुमाने सम्भाव्यमानत्वाच्च न विशेषस्यापि साध्य
त्वम् । तन्न धर्मोपि साध्यः । नापि तत्स762मुदायः; तस्याप्यन्यत्रानन्वयात्, नहि यत्र यत्र धूम
तत्र तत्र अग्निमान् पर्वतः
इत्यन्वयः प्रतीतः । तदुक्तम्–


763विशेषेऽनुगमाऽभावात् सामान्ये सिद्धसाधनात् । तद्वतोऽनुपपन्नत्वादनुमानकथा कुतः ॥ १ ॥

साहचर्ये च सम्बन्धे विश्रम्भ इति मुग्धता । शतकृत्वोऽपि तद्दृष्टौ व्यभिचारस्य संभवात् ॥ २ ॥

देशकालदशाभेदविचित्रात्मसु वस्तुषु । अविनाभावनियमो न श764क्यो लब्धुमञ्जसा ॥ ३ ॥

भवन्नप्यविनाभावः परिच्छेत्तुं न शक्यते । जगत्त्रयगताशेषपदार्थालोचनाद्विना ॥ ४ ॥

न प्रत्यक्षीकृता यावद्धूमाग्निव्यक्तयोऽखिलाः । तावत्स्यादपि धूमोऽसौ योऽनग्नेरिति शङ्क्यते ५

ये तु प्रत्यक्षतो विश्वं पश्यन्ति हि भवादृशः । किं दिव्यचक्षुषां तेषा765मनुमाने प्रयोजनम् ॥ ६ ॥

70
सामान्यद्वारकोऽप्यस्ति नाविनाभावनिश्चयः । वास्तवं हि न सामान्यं नाम किञ्चन विद्यते ॥ ७ ॥

भूयोदर्शनगम्यापि न व्याप्तिरवकल्पते । सहस्रशोऽपि त766द्दृष्टौ व्यभिचारावधारणात् ॥ ८ ॥

बहुकृत्वोऽपि वस्त्वात्मा तथेति परिनिश्चितः । देशकालादिभेदेन दृश्यते पुनरन्यथा ॥ ९ ॥

भूयोदृष्ट्या767 च धूमोऽग्निसहचारीति गम्यताम् । अनग्नो तु स नास्तीति न भूयोदर्शनाद्गतिः १० ॥

न चा768प्यदृष्टिमात्रेण गमकः सहचारिणः । तत्रैव769 नियतत्वं हि तदन्याऽभावपूर्वकम् ॥ ११ ॥

निय770मश्चानुमाङ्गत्वं गृहीतः प्रतिपद्यते । ग्रहणञ्चास्य नान्यत्र नास्तितानिश्चयं विना ॥ १२ ॥

दर्शनाऽदर्शनाभ्या तु नियमग्रहणं यदि । तदप्यसदनग्नौ हि धूमस्येष्टमदर्शनम् ॥ १३ ॥

771नग्निश्च कियान् सर्व जगज्ज्वलनवर्जितम् । तत्र धूमस्य नास्तित्व नैव पश्यन्त्ययोगिनः १४

तदेवं नियमाभावात् स772त्यपि ज्ञ773प्त्यसंभवात् । अनुमानप्रमाणत्वदुराशा परिमुच्यताम् ॥ १५ ॥

अनुमानविरोधो वा यदि 774वेष्टविघातकृत् । विरु775द्धाव्यभिचारी वा सर्वत्र सुलभोदयः ॥ १६ ॥

अत एवानुमानानामपश्यन्तः प्रमाणताम् । तद्विस्रम्भनिषेधार्थमिदमाहुर्मनीषिणः776 ॥ १७ ॥

प्रत्यक्षमेव प्रमाणमगौणत्वादिति ।

तत्प्रतिविधानम्–


अत्र प्रतिविधीयते । यत्तावदुक्तम्777प्रत्यक्षमेव प्रमाणम् इत्यादि; तदसमीक्षिताभिधा
नम्; यतोऽविसंवादकत्वं प्रमाणस्य लक्षणम्, तस्य च अनुमानादौ
विद्यमानत्वात् कथं प्रत्यक्षमेव प्रमाणम् इत्यवधारणं घटते ? तथाहि–
अनुमानं प्रमाणम् अविसंवादकत्वात् प्रत्यक्षवत् । न778 खलु प्रत्यक्षेऽवि
संवादकत्वादन्यतः प्रामाण्यं प्रसिद्धम्, एतच्चान्य779त्राप्यविशिष्टम् अनुमानादिनाप्यवगतेऽर्थे विसं
वादाऽसम्भवात् ।


71

यच्च अगौणत्वात् इत्युक्तम्780, तत्र781 अनुमानस्य कुतो गौणत्वम्–अविशदस्वभावत्वात्,
स्वार्थनिश्चये परापेक्षत्वात्, विसंवादकत्वात्, प्रत्यक्षपूर्वकत्वात्, अर्थादनुत्पद्यमानत्वात्, अव
स्तुविषयत्वात्, धर्मिणि पक्षशब्दोपचारात्शब्दोपचरात्, बाध्यमानत्वात्, साध्यसाधनयोः प्रतिबन्धप्रसाधक
प्रमाणाऽभावाद्वा ? तत्र न तावदविशदस्वभावत्वात्; वैशद्यस्य प्रमाणलक्षणत्वाऽभावात् ।
यदि हि तत् प्रमाणलक्षणं स्यात् तदाऽनुमानादेस्तन्निवर्तमानं प्रामाण्यमादाय निवर्तते इत्यप्रामा
ण्यमस्योपपन्नं स्यात्, न चैतत्तल्लक्षणम्; द्विचन्द्रादिज्ञाने वैशद्यसद्भावेऽपि प्रामाण्याऽसम्भ
वात् । स्वार्थनिश्चये परापेक्षत्वमप्यस्याऽसम्भाव्यम्; प्रत्यक्ष782वत्तस्य तन्निश्चये परनिरपेक्षत्वात् ।
अनभ्यासावस्थायामनुमानस्यार्थनिश्चये परापेक्षत्वं प्रत्यक्षेऽपि तुल्यम् । विसंवादकत्वमप्यस्या
नुपपन्नम्; सम्यगनुमानेन प्रतिपन्ने वस्तुनि विसंवादाऽसम्भवात् । तदाभासेन प्रतिपन्ने तस्मिन्
विसंवादे तस्यैव गौणत्वं युक्तं नान्यस्य, अन्यथा प्रत्यक्षाभासे विसंवाददर्शनात् सत्यप्रत्यक्षेऽपि
गौणत्वप्रसङ्गः स्यात् । प्रत्यक्षपू783र्वकत्वञ्च असिद्धम्; अनुमानस्य ऊहाख्यप्रमाणपूर्वकत्वेन वक्ष्य
माणत्वात् । किञ्च, लिङ्गादेवानुमानमुत्पद्यते, तत्कथं प्रत्यक्षात्तदुत्पत्तिसम्भवः तस्य लिङ्गप्रति
पत्तावेव व्यापारात् ? अस्तु वा प्रत्यक्षादेव तदुत्पत्तिः; तथापि न गौणत्वं तस्य तत्सामग्रीत्वात्,
स्वसामग्रीतश्चोपजायमानस्य गौणत्वे प्रत्यक्षस्यापि तत्प्रसङ्गः ।


किञ्च, प्रत्य784क्षपूर्वकत्वेनानुमानस्य गौणत्वे प्रत्यक्षस्यापि कस्यचिदनुमानपूर्वकत्वेन गौणत्व
प्रसङ्गः, दृश्यते हि साध्यमर्थमनुमानान्निश्चित्य प्रवर्तमानस्य अनुमानपूर्विका प्रत्यक्षप्रवृत्तिः ।
अर्थादनुत्पद्यमानत्वेनास्य गौणत्वे तु अध्यक्षस्यापि तत्प्रसङ्गः; तस्याप्यर्थादनुत्पत्तेः प्रतिपाद
यिष्यमाणत्वात् । अवस्तुविषयत्वञ्च अस्यासिद्धम्, प्रत्यक्षवत् सामान्यविशेषात्मकार्थगोचरत्वा
त्तस्य । नह्यवस्तुभूतापोहविषयमनुमानं सौगतवज्जैनैरिष्टम्; तत्र त785द्विषयत्वस्य प्रतिक्षेप्स्य786मान
त्वात् । ध787र्मिणि पक्षशब्दोपचारतोऽपि नास्य गौणत्वसिद्धिः; सङ्क्षेपतः शब्दरचनार्थत्वात्तदुप
72 चारस्य । नहि लक्षणकाराणां लाघवेन शब्दरचनां कुर्वतां धर्मिणि पक्षशब्दोपचारमात्रेण अनु
मानस्य गौणत्वं भवति अतिप्रसङ्गात् । बाध्यमानत्वञ्च–सम्यगनुमानस्य, अनुमानाभासस्य
वा ? प्रक्षमपक्षोऽनुपपन्नः, सत्यधूमादिसाधनादग्न्याद्यनुमाने बाधाऽसम्भवात् । अनुमानाभा
सस्य तु बाधासम्भवे तस्यैव गौणत्वं युक्त न सम्यगनुमानस्य; अन्यथा प्रत्यक्षाभासस्य बाधोप
लम्भात् सम्यक्प्रत्यक्षस्यापि गौणत्वप्रसङ्गः स्यात् । साध्यसाधनयो प्रतिबन्धग्राहकप्रमाणाभा
वश्चाऽसिद्धः; तर्काख्यप्रमाणात्तद्ग्रहणप्रसिद्धेः । तथा च तत्सम्बन्धग्रहणे प्रत्यक्षं प्रवर्तेत
अनुमानं वा
इत्यादि प्रत्याख्यातम्, सार्वत्रिकसम्बन्धप्रतिपत्तौ च यथा त788स्य सामर्थ्यं तथा
वक्ष्यते ।


किञ्च, प्रत्यक्षमेव प्रमाणं नानुमानम् इति विधिनिषेधप्रतिपत्तौ प्रत्यक्षस्य सामर्थ्यम्,
अगौणत्वादिलिङ्गस्या वा ? न तावत्प्रत्यक्षस्य; नहि तद् इन्द्रियादिसामग्रीतः समुपजातम् अह
मेव प्रमाणं नानुमानम्
इत्यत्रार्थे समर्थम्, प्रतिनियतरूपादिप्रतिपत्तावेव अस्य सामर्थ्यसम्भ
वात् । अगौणत्वादिलिङ्गस्यापि789 तत्प्रतिपत्तौ सामर्थ्यम् अनुमानाऽप्रामाण्येऽनुपपन्नम् । अप्रमाणेन
च व्यवस्थां कुर्वाणस्य उन्मत्तत्वप्रसङ्गः, नहि प्रमाणादृते प्रमेयव्यवस्था युक्ता अतिप्रसङ्गात् ।


किञ्च, प्रत्यक्षमेव प्रमाणम् इत्यभ्युपगच्छता प्रत्यक्षमात्रं प्रमाणमभ्युपगम्यते, तद्वि
शेषो वा ? प्रथमपक्षे द्विचन्द्रादिप्रत्यक्षस्यापि प्रामाण्यप्रसङ्गः । द्वितीयपक्षे तु कोऽयं तद्विशेषो
नाम ? यथार्थता इति चेत्; तर्हि यथार्थं प्रत्यक्षं प्रमाणं नाऽयथार्थम् इति यदा परः प्रति
पाद्यते तदा काश्चित् प्रत्यक्षव्यक्तीः परिधृ790त्य यथार्थाश्चाङ्गीकृत्य, यदीदृशं प्रत्यक्षं तत्प्रमाणं
नान्यादृशम्
इति प्रतिपादनीयः, एतच्च प्रमाणान्तराद्विना न प्रतिपादयितुं शक्यम्, न खलु
पुरोव791र्तिवर्तमानप्रतिनियतरूपादिविषयोपरूढाभिः प्रत्यक्षव्यक्तिभिः एतत्प्रतिपादयितुं पार्यते ।
परश्च बुद्धिमत्त्वेन स्तम्भादिभ्यो विलक्षणः प्रतिपाद्यमानार्थग्रहणसमर्थो निश्चितः प्रतिपाद्यः, न
च तन्निश्चये अनुमानादन्यस्य सामर्थ्यम्; प्रत्यक्षस्य रूपादिमदर्थप्रतिपत्तावेव सामर्थ्यात् ।


कथञ्च अनु792मानानभ्युपगमे स्वव्यवस्थापितप्रमाण-प्रमेयव्यतिरिक्तप्रमाणप्रमेयस्य स्वर्गाऽ
पूर्वदेवतादेश्च निषेधः प्रत्यक्षस्य अत्राऽसामर्थ्यात् ? प्रमाणादृते प्रमेयसिद्धौ चातिप्रसङ्गात् । किञ्च,
793नुमानापह्नवः तत्स्वरूपाभावात्, निरवद्यतल्लक्षणाभावाद्वा स्यात् ? न794 तावत् स्वरूपाभावात्;
तत्स्वरूपस्य अखिललोकप्रसिद्धत्वात् । यत् स्वरूपमखिललोकप्रसिद्धं न तस्यापह्नवो युक्त यथा
73 प्रत्यक्षस्य, अखिललोकप्रसिद्धञ्चानुमानस्य स्वरूपमिति । न चेदमसिद्धम्; अवलावालगोपाला
दीनां धूमाद्यर्थात् पावकाद्यर्थान्तरे निरारेकं प्र795त्ययप्रतीतेः । कथं वा तत्स्वरूपापलापे प्रत्यक्षमेव
प्रमाणमगौणत्वात्
इत्यभिदधतः स्ववचनविरोधो न स्यात् ?


निरवद्यतल्लक्षणाभावोऽप्ययुक्तः; साध796नात् साध्यविज्ञानमनुमानम् इत्यादेः निरवद्य
तल्लक्षणस्य अग्रे प्रतिपादयिप्यमाणत्वात् । किञ्च, य797दि परप्रणीतं तल्लक्षणं सावद्यं तदा तत्
स्वयमनवद्यमावेद्यताम्, न पुनस्तद्द्वेषेण लक्ष्यमप्यनुमानमपह्नोतुं युक्तम्, नहि प्रेक्षावान् यूका
भयात् परिधानपरित्यागं विदधाति ।


798यदप्युक्तम्–अवस्थादेशकालादिभेदात् इत्यादि; तदप्युक्तिमात्रम्; ऊहाख्यप्रमाणप्रसा
दात् स799म्यगवधृतायां व्याप्तौ विप्लवाऽभावात्, प्रमातुरेव हि तत्रापराधो नानुमानस्य ।


800यदपि विशेषेऽनुगमाभावः इत्याद्युक्तम्; तदप्ययुक्तम्; व्याप्ति-प्रयोगकालापेक्षया
साध्यस्य भेदात् । व्या801प्तौ हि साध्यं धर्मः, प्रयोगकाले तु तद्विशिष्टो धर्मी इति वक्ष्यति,
802त्र कथमनुगमाभावः सिद्धसाधनं वा स्यात् ?


803यच्चान्यदुक्तम्–सर्वत्रानुमानेऽनुमानविरोधादेः संभाव्यमानत्वात् इत्यादि; तदप्ययुक्तम्;
804मीचीनसाधने प्रयुक्ते अनुमानविरोधादेरसम्भवात् । न खलु धूमादिसाधने पर्वताद्यग्निमत्त्व
सिद्धौ प्रयुक्ते पर्वतोऽयमग्निमान् न भवति पर्वतत्वात् तदन्यपर्वतवत् इत्यनुमानविरोधस्य,
अत्रत्येन वा अग्निना अग्निमान् न भवति धूमवत्त्वात् महानसवत् इति विरुद्धाऽव्यभि
चारिणः, धूमादिसाधनं यथैवाग्निमत्त्वं पर्वतादेः साधयति तथा निमू805?निर्वृक्षप्रदेशाग्नि
नापि अग्निमत्त्वं साधयति, महानसादौ तथादर्शनात्
इतीष्टविघातकृतो वा संभवः; प्रत्य
क्षादिविरुद्धत्वेन अस्यानुमानाभासत्वात् । निर्बाधं हि प्रमाणं कस्यचित् साधकं बाधकं वा
युक्तं नान्यत्, अतिप्रसङ्गात् । ततोऽनुमानादेः प्रमाणान्तरत्वोपपत्तेः सूक्तम् अविशद
निर्भामिनः परोक्षता
इति । तथा च प्रत्यक्ष-परोक्षयोः विभिन्नस्वरूपत्वात् परस्परतः
74 सिद्धो भेदः । ययोर्विभिन्नस्वरूपत्वं तयोः परस्परतो भेदः यथा जलानलयोः, विभिन्नस्वरूपत्वञ्च
विशदेतरस्वभावतया प्रत्यक्षपरोक्षयोरिति ।


के पुनर्बुद्धेर्वैशद्याऽवैशद्ये यदुपेतत्वेन प्रत्यक्षेतरयोर्भेदः स्यात् ? इति चेदुच्यते–


अनुमानाद्यतिरेकेण विशेषप्रतिभासनम् ।

तद्वैश806द्यं मतं बुद्धेरवैशद्यमतः परम् ॥ ४ ॥

विवृतिः–तत्र सांव्यवहारिकम् इन्द्रियाऽनिन्द्रियप्रत्यक्षम्, मुख्यम् अती
न्द्रियज्ञानम् । तदस्ति सुनिश्चिताऽसंभवद्बाधकप्रमाणत्वात् सुखादिवत् । यावज्ज्ञेय
व्यापिज्ञानरहितसकलपुरुषपरिषत्परिज्ञानस्य तदन्तरेणाऽनुपपत्तेः, तदभावतत्त्वज्ञो न
कश्चित् अनुपलब्धेः खपुष्पवत् । न वै जैमिनिः अन्यो वा तदभावतत्त्वज्ञः सत्त्वपुरुष
त्ववक्तृत्वादेः रथ्यापुरुषवत् । पुरुषातिशयसम्भवेऽतीन्द्रियार्थदर्शी किन्न स्यात् ?
अत्र अनुपलम्भमप्रमाणयन् सर्वज्ञादिविशेषाऽभावे कुतः प्रमाणयेद् अभेदात् ? साध
कबाधकप्रमाणाऽभावात् तत्र संशीतिः इत्यनेन प्रत्युक्ता; बाधकस्यैवाऽसम्भवात् ।
सर्वत्र बाधका807ऽभावेतराभ्यां भावाऽभावव्यवहारसिद्धिः, तत्संशयादेव सन्देहः । तत
एव अनुभवप्रामाण्यव्यवस्थापनात् इत्यलमतिप्रसङ्गेन ।


कारिकाव्याख्यानम्–


अनुमानादिभ्योऽतिरेकेण आधिक्येन वर्णसंस्थानादिविशेषरूपतया अर्थग्रहणलक्ष
णेन प्रचुरतरविशेषान्वितार्थावधारणरूपेण वा यद् विशेषाणां निय
तदेशकालसंस्थानाद्यर्थाकाराणां प्रतिभासनं तद्बुद्धेर्वैशद्यम-
भिप्रेतम् । अस्मात् परम् अन्यथाभूतं यद्विशेषाऽप्रतिभासनं तद्
अवैशद्यम् इति । स्वरूपा808पेक्षया च स809र्वं ज्ञानं विशदमेव, परिस्फुटरूपतया स्वरूपस्य सर्वज्ञा
नानां स्वसंवेदने प्रतिभासनात् । बहिरर्थस्तु केषाञ्चिज्ज्ञानानां परिस्फुटरूपतया प्रतिभाति केषा
ञ्चित्तु तद्विपरीततया, अतस्तदपेक्षया तेषां वैशद्यावैशद्ये प्रतिपत्तव्ये ।


75

विवृतिव्याख्यानम्–


तच्चेदं वैशद्यलक्षणलक्षितं प्रत्यक्षं द्विप्रकारं भवति–गौणम्, मुख्यञ्चेति । तत्र गौणं
सांव्यवहारिकम् इत्यादिना व्याचष्टे । संव्यवहारे नियुक्तं
सांव्यवहारिकम् गौणमित्यर्थः । कि तत् ? इन्द्रियानिन्द्रिय
प्रत्यक्षम् ।
अयमर्थः–यद् इन्द्रियाणां चक्षुरादीनाम् अनिन्द्रि
यस्य
च मनसः कार्यम् अंशतो विशदं विज्ञानं तत् सांव्यवहारिकं गौणप्रत्यक्षम् इत्यर्थः ।


ननु च इन्द्रियानिन्द्रियप्रत्यक्षम् इत्यनेन सांव्यवहारिकप्रत्यक्षस्य सामग्रीप्ररूपणमयु
क्तम्; तत्कारणस्य आत्मार्थालोकादेरत्रासङ्ग्रहात्; इति चेन्न; असाधारणस्यैव तत्कारणस्या
त्र प्ररूपयितुमभिप्रेतत्वात् । नचात्मनः समनन्तरप्रत्ययस्य वा प्रत्यक्षं प्र810त्यसाधारणकारण
त्वं संभवति; प्रत्ययान्तरेऽप्यस्याविशिष्टत्वात् । नाप्यर्थालोकयोः; तयोर्ज्ञानकारणत्वस्याग्रे
प्रतिपेत्स्यमानत्वात् । नापि सन्निकर्षादेः; तत्र तत्कारणत्वस्य प्रागेव प्रतिषेधात्, अव्यापकत्वा
च्चास्य न तत्कारणत्वम्, नहि चक्षूरूपयोः सन्निकर्षोऽस्ति अप्राप्यकारित्वाच्चक्षुषः ।


सन्निकर्ष प्रमाणम्
इति नैयायिकमतप्रतिपादनम्–


ननु चास्याऽप्राप्यकारित्वप्रतिज्ञा प्रमाणविरुद्धा; तथाहि–प्राप्य811कारि चक्षुः बाह्येन्द्रिय
त्वात्, यद् बाह्येन्द्रियं तत्प्राप्यकारि प्रतिपन्नम् यथा त्वगादि, बाह्ये
न्द्रियञ्च चक्षुः, तस्मात् प्राप्यकारि । नचायमसिद्धो हेतुः; पक्षे
प्रवर्तमानत्वात् । नापि विरुद्धः; सपक्षे सत्त्वात् । नाप्यनैकान्तिकः;
सपक्षवद् विपक्षेऽप्यप्रवृत्तेः । नच मनसा व्यभिचारः; बाह्यविशेष
णात् । इन्द्रियत्वात् इत्युच्यमाने हि मनसा व्यभिचारः स्यात्, तत्परिहारार्थं बाह्यविशेषणम् ।
नापि कालात्ययापदिष्टः; प्रत्यक्षागमाभ्यामबाधितविषयत्वात् । नापि प्रकरणसमः; प्रकरण
चिन्ताप्रवर्तकस्य हेत्वन्तरस्यासम्भवात् । अथ मतम्–अधिष्ठा812नदेश एव चक्षुः नान्यत्र, अधि
ष्ठानपिधाने विषयाग्राहकत्वात्; यद् यद् अधिष्ठानपिधाने विषयाग्राहकं तत्तत् अधिष्ठानदेश
एव यथा घ्राणादि, अधिष्ठानपिधाने विषयाग्राहकञ्च चक्षुः, तस्मात् तद्देश एव, अतः
कथमस्य प्राप्यकारित्वं स्यादिति ? तदपि न सङ्गतम्; यतः अधिष्ठानदेश एव इति
कोऽर्थः ? किम् अधिष्ठानदेशे सत्, उत अधिष्ठानादव्यतिरिक्तम्, ततोऽन्यत्र असदिति वा ?
तत्राद्यपक्षोऽयुक्तः; अधिष्ठानदेशे सत्त्वस्य प्राप्यकारित्वाविरोधात्, नह्यधिष्ठानदेशे सतः स्पर्श
नादेः प्राप्यकारित्वविरोधो दृष्टः । द्वितीयविकल्पोऽप्यनुपपन्नः; अधिष्ठानादव्यतिरिक्तत्वस्य
76 क्वचिदपि इन्द्रियेऽप्रसिद्धेः, न खलु स्पर्शनादेरपि अधिष्ठानादव्यतिरिक्तत्वम् उभयो प्रसिद्धम् ।
तृतीयपक्षोप्यसङ्गतः; अधिष्ठानादन्यत्रापि तत्सत्त्वसम्भवात् । अधिष्ठानं हि गोलकरूपम्,
तस्मा813न्निसृताः रश्मयोऽर्थदेशं यावत् प्रसृताः सन्ति प्रदीपान्निसृतरश्मिवत् । अधिष्ठानपिधाने
विषयाग्राहकत्वञ्च न प्राप्यकारित्वं विहन्ति घ्राणादेस्तत्सद्भावेऽपि प्राप्यकारित्वाऽविरोधात् । न
च रश्मिवत्त्वं चक्षुषोऽसिद्धम्, तत्साधकप्रमाणसद्भावात् । तथाहि–रश्मि814वच्चक्षुः तैजसत्वात्
प्रदीपवत् । नचेदमप्यसिद्धं तत एव, तथाहि–तैजसं चक्षुः रूपादीनां मध्ये रूपस्यैव प्रकाशक
त्वात् तद्वदेव, अतो रश्मिवत्त्वस्यात्र प्रसिद्धेः । प्राप्यकारित्वे चक्षुषो महतः पर्वतादेरप्रकाश
प्रसङ्गः
इत्येतत्प्रत्याख्यातम्, ध815त्तूरकपुष्पवद् आदौ सूक्ष्माणामप्यन्ते महत्त्वोपपत्तेस्तद्रश्मी
नाम् । ते हि आलोकमिलिता यावदर्थं वर्द्धन्ते, महतः पर्वतादेः प्रकाशकत्वान्यथानुपपत्ते ।
ननु चक्षु816षः प्राप्यकारित्वे कथं शाखाचन्द्रमसोर्युगपद्ग्रहणम् ? इत्यपि वार्तम्; युगपद् ग्रहण
77 स्यासिद्धत्वात्; प्रथमतो हि चक्षुः सन्निकृष्टां शाखां प्राप्य प्रकाशयति, पश्चाद्विप्रकृष्टं चन्द्रमसम्,
युगपत्प्रतिपत्त्यभिमानस्तु उत्पलपत्रशतव्यतिभेदवद् भ्रान्तिनिबन्धनः । दूरनिकटा817दिव्यबहा
रोऽपि चक्षुषः प्राप्यकारित्वे न दुर्घटः; शरीरापेक्षया चक्षुर्विषयस्य सन्निकृष्ट-विप्रकृष्टतोप
पत्तितस्तस्य सुघटत्वात् । यदि818 चाप्राप्यकारि चक्षुः स्यात्तर्हि कुड्याद्यव्यवहितवत् तद्व्यव
हितम्यापि घटादेर्मेर्वादेश्चानेकयोजनशतव्यवहितस्यापि तत् प्रका819शकं स्यात् क्वचित्प्रत्यासत्ति
विप्रकर्पाऽभावात्, न चैवम्, अतः प्राप्यकारि तत् प्रतिपत्तव्यम् ।


कारकत्वा820च्च; यत् कारकं तत् प्राप्यकारि यथा वास्यादि, कारकञ्च चक्षुरिति । यच्चा
स्याप्राप्यकारित्वे साधनमभिधीयते–अत्यासन्नार्थाऽप्रकाशकत्वात् इति; तत् साध्याऽविशिष्ट
त्वाद् असाधनमेव । पर्युदासप्रतिषेधे हि यदेवास्याऽप्राप्यकारित्वं तदेव अत्यासन्नार्थाऽप्रका
शकत्वम् । प्रसज्यप्रतिषेधस्तु जैनैर्नाभ्युपगम्यते, अपसिद्धान्तप्रसङ्गादिति ।


तत्प्रतिविधानपुरस्सर चक्षुष अप्राप्यकारित्वप्रसाधनम्–


अत्र प्रतिविधीयते । यत्तावदुक्तम्–बाह्येन्द्रिय821त्वात् इति; तत्र किमिदं बाह्येन्द्रियत्वं नाम ?
बहिरर्थग्रहणाभिमुख्य822म्, बहिर्देशावस्थायित्वम्, बहिःकारणप्रभ
वत्वम्, इन्द्रियस्वरूपातीतत्वम्, मनोऽन्यत्वं वा स्यात् ? तत्रा
द्यविकल्पे मनसाऽनेकान्तः; तस्याप्राप्यकारित्वेऽपि बहिरर्थग्रह
णाभिमुख्यतो बाह्येन्द्रियत्वसद्भावात् । द्वितीयविकल्पेऽपि रश्मि
रूपस्य, गोलकरवभावस्य वा चक्षुषो बहिर्देशेऽवस्थायित्वं स्यात् ? प्रथमपक्षे किमिदं तत्र तस्या
वस्थायित्वम्–आश्रितत्वम्, प्रकाशकत्वेन प्रवृत्तिर्वा ? तत्राद्यविकल्पे अपसिद्धान्तः; रश्मिरूप
78 स्य चक्षुषो भवता बहिर्देशाश्रितत्वस्यानभ्युपगमात्, गोलकान्तर्गततेजोद्रव्याश्रया हि रश्मयो
भवद्भिः प्रतिज्ञाताः । द्वितीयविकल्पे त्वसिद्धो हेतुः; रश्मिरूपस्य चक्षुषो ग्राहकप्रमाणाऽभा
वतः प्रकाशकत्वेन बहिर्देशे तत्प्रवृत्तेरसिद्धेः । तद्ग्राहकप्रमाणाभावश्च अत्रैव प्रतिपादयिष्यते ।
दृष्टान्तश्च साधनविकलः; तथाविधबाह्येन्द्रियत्वस्य त्वगादावसम्भवात् । गोलकस्वभावस्य तु
चक्षुषो बहिर्देशावस्थायित्वे प्रत्यक्षबाधा; अर्थदेशासम्बद्धस्यास्य शरीरप्रदेश एव प्रत्यक्षतः
प्रतीते । बहिःकारणप्रभवत्वमपि मनसैवाऽनैकान्तिकम्, आत्मापेक्षया हि बहिःका823रणं पुद्गल
तत्त्वम् तत्प्रभवत्वञ्च चक्षुरादीन्द्रियवत् मनसोऽस्त्येव, अस्यापि पौद्गलिकत्वेन षट्पदार्थपरी
क्षायां प्रसाधयिष्यमाणत्वात् । इन्द्रियस्वरूपातीतत्वञ्च अपसिद्धान्तप्रसङ्गादनुपपन्नम् । मनो
ऽन्यत्वमपि मनस सिद्धौ सिद्ध्येत, न च तत्सिद्धं भवत्परिकल्पितस्य मनस षट्पदार्थपरी
क्षायां निराकरिष्यमाणत्वात् । सिद्ध्यतु वा, तथापि बाह्येन्द्रियत्वं मनोऽन्यत्वे सतीन्द्रियत्वम्
उच्यते, तत्र824 च मनोव्यवच्छेदार्थं बाह्यविशेषणमयुक्तम्, तस्यापि सर्वत्र प्राप्यकारित्वात्,
सुखादौ हि संयुक्तसमवायादिसम्बन्धात्, व्याप्तौ तु सम्बन्धसम्बन्धात् त825ज् ज्ञानमुत्पादयति
रूपादौ नेत्रादिवत्, न खलु रूपादौ नेत्रादेरपि सम्बन्धसम्बन्धादन्यः सम्बन्धोऽस्ति ।


धर्मित्वेन826 चात्रोपात्तं चक्षुः गोलकस्वभावम्, रश्मिरूपं वा ? प्रथमपक्षे प्रत्यक्षविरोधः;
अर्थेनासम्बद्धस्य अर्थदेशपरिहारेण शरीरप्रदेश एव गोलकस्वभावस्य चक्षुषः प्रत्यक्षत प्रतीतेः,
अन्यथा तद्रहितत्वेन नयनपक्ष्मप्रदेशस्योपलम्भः स्यात् । द्वितीयपक्षे तु धर्मिणोऽसिद्धिः, रश्मि
रूपस्य चक्षुष कुतश्चित्प्रमाणादप्रसिद्धे । तत्साधकं हि प्रमाणं प्रत्यक्षम्, अनुमानं वा
स्यात् ? न तावत्प्रत्यक्षम्, अ827र्थवत्तत्र तत्स्वरूपाऽप्रतीतेः न खलु रश्मयः प्रत्यक्षत प्रतीयन्ते
विप्रतिपत्त्यभावप्रसङ्गात्, नहि नीले नीलतया प्रतीयमाने कश्चिद् विप्रतिपद्यते । किञ्च, इन्द्रि
यार्थसन्निकर्षजं प्रत्यक्षं भव828न्मते, न चार्थदेशे विद्यमानैस्तै अपरेन्द्रियस्य सन्निकर्षोऽस्ति यत
स्तत्र प्रत्यक्षमुत्पद्येत अनवस्थाप्रसङ्गात् । अनुमानतोऽपि अतएव, अन्यतो वा तत्सिद्धि स्यात् ?
यदि अतएव; अन्योन्याश्रय–प्र829सिद्धे हि अनुमानोत्थानेऽतस्तत्सिद्धिः, अस्याश्चानुमानोत्थान
मिति । अनुमानान्तरात् तत्सिद्धावनवस्था; धर्मिणस्तत्राप्यनुमानान्तरात् सिद्धिप्रसङ्गात् ।


एतेन यदुक्तं830 रश्मिप्रसाधकमनुमानम्–रश्मिवच्चक्षु तैजसत्वात् इति; तत्प्रत्याख्यातम्,
उक्तप831क्षदोषाणामत्राप्यविशेषात् । किञ्च, रश्मिवत्ता गोलकरूपस्य चक्षुषः प्रसाध्यते, तद्व्यति
79 रिक्तस्य वा ? न तावत्तद्व्यतिरिक्तस्य; तस्यासिद्धस्वरूपत्वात्, अपसिद्धान्तप्रसङ्गाच्च832 । गोलक
रूपस्य तु तत्साधने पक्षस्य प्रत्यक्षबाधा; प्रभासुरप्रभारहितस्य गोलकस्य प्रत्यक्षतः प्रतीतेः ।
अथ अदृश्या833स्तद्रश्मयः अनुद्भूतरूप स्पर्शवत्त्वात्, अतो नास्य प्रत्यक्षबाधा; कथमेवं रूपप्रका
शकत्वं तस्य स्यात् ? तथाहि–चक्षू रूपप्रकाशकं न भवति, अनुद्भूतरूपत्वात्, जलसंयुक्ता
नलवत् । न चानुद्भूतरूपस्पर्शं तेजोद्रव्यं क्वचित् प्रतीयते । जलहेम्नोर्भासुररूपोष्णस्पर्श
योरनुद्भूतिप्रतीतिरस्ति; इत्यप्यसम्यक्; उभया834नुद्भूतेस्तत्राप्यप्रतिपत्तेः । दृष्टानुसारेण चा
दृष्टार्थकल्पना, अन्यथा पृथिव्यादेरपि तद्व835त्ताप्रसङ्गः; तथाहि–रश्मिवन्तः पृथिव्यादयः द्रव्यत्वात्
प्रदीपवत् । यथैव हि तैजसत्वं रश्मिवत्तया व्याप्तं प्रदीपे प्रतिपन्नं तथा द्रव्यत्वमपि । अथ ततस्तेषां
तत्साधने प्रत्यक्षविरोधः, सोऽन्यत्रापि समानः । अथ मा836र्जारादिचक्षुषोः प्रत्यक्षतः प्रतीयन्ते
रश्मयः, तत्कथं तद्विरोधः ? यदि नाम तत्र ते प्रतीयन्ते अन्य837त्र किमायातम् ? अन्यथा हेन्नि
पीतत्वस्य सुवर्णत्वेन व्याप्तिप्रतिपत्तेः पटादौ पीतत्वोपलम्भात् सुवर्णत्वसिद्धिः स्यात् । प्रत्यक्ष
बाधनम् अन्यत्रापि । रश्मिवत्त्वे चास्य अर्थप्रकाशने आलोकापेक्षा न स्यात्; तथाहि–यद्
रश्मिवत् तदर्थप्रकाशने नालोकापेक्षं यथा प्रदीपः, रश्मिवच्च भवद्भिरभिप्रेतं चक्षुरिति । तथा
838द्वत्त्वे स्वसम्बद्धस्याञ्जनादेः प्रकाशकत्वप्रसङ्गः, न खलु प्रदीपस्तद्वान् स्वसम्बद्धं शलाकादिकं
न प्रकाशयति इति प्रातीतिकम् ।


प्रयोगः–यद् रश्मिवत् तत्स्वसम्बद्धमर्थं प्रकाशयत्येव यथा प्रदीपः, रश्मिवच्च चक्षुः, तस्मा
त्स्वसम्बद्धं कामलादिकं प्रकाशयेदेव । न839 चात्र चक्षुषः सम्बन्धोऽपि नास्ति इत्यभिधातव्यम्;
यतो गोलक840स्वरूपं चक्षुस्तत्रासम्बद्धम्, रश्मिरूपम्, शक्तिस्वभावं वा ? तत्राद्यपक्षे प्रत्यक्ष
विरोधः; गोलकस्वरूपस्य चक्षुषः काचादौ सम्बन्धप्रतीतेः । द्वितीयपक्षेऽपि तत्रास्य सम्बन्धोऽ
80 स्त्येव, नहि स्फटिकादिकूपिकामध्यगतप्रदीपादिरश्मयः ततो निर्गच्छन्तः तत्संयोगिना न सम्बद्धा
तत्प्रकाशका वा न भवन्तीति प्र841तीति । शक्तिरूप842मपि चक्षुः व्यक्तिरूपचक्षुषो भिन्नदेशम्,
अभिन्नदेशं वा स्यात् ? न तावद्भिन्नदेशम्, तच्छक्तित्वव्याघातानुषङ्गात्, निराश्रयत्वप्रसङ्गाच्च ।
न हि अन्यशक्तिरन्याश्रयायुक्ता, तद्देशद्वारेणैवार्थोपलब्धिप्रसङ्गश्च । अथ ततोऽभिन्नदेश843म्;
तत्तत्र सम्बद्धम्, असम्बद्धं वा ? यदि सम्बद्धम्; बहिरर्थवत् स्वाश्रयं तत्सम्बद्धञ्चाञ्जनादिकं
प्रकाशयेत् । अथासम्बद्धम्; कथमाधेयं नाम अतिप्रसङ्गात् ?


844यदपि–तैजसत्वात् इति साधनमुक्तम्; तदप्ययुक्तम्; असिद्धत्वात् । तदसिद्धत्वञ्च कुत
श्चि प्रमाणात्तत्र तस्याऽप्रतीतेः । तद्धि गोलकस्वरूपस्य चक्षुषोऽभ्युपगम्येत, रश्मिरूपस्य वा ?
यदि गोलकस्वरूपस्य; तदाऽध्यक्षबाधा, भासुररूपोष्णस्पर्शरहितस्यास्य अध्यक्षतः प्रतीते ।
अनुमानबाधश्च, तथाहि–चक्षुरतैजसं न भवति, भासुररूपोष्णस्पर्शरहितत्वात्, यद् यत्तथा
विधं तत् तत्तत् तैजसं न भवति यथा मृत्पिण्डादिः, भासुररूपोष्णस्पर्शरहितञ्च चक्षुः,
तस्मात्तैजसं न भवतीति । तथा845, न तैजसं चक्षु, तमःप्रकाशकत्वात्, यत्पुनस्तैजसं तन्न
तम प्रकाशकं यथा आलोक, तमप्रकाशकञ्च चक्षु, तस्मान्न तैजसमिति । रश्मिरूपस्य तु
चक्षुपो846ऽसिद्धस्वरूपत्वान्न तैजसत्वमुपपद्यते, न खलु रश्मयः प्रत्यक्षादित847 प्रसिद्ध्यन्तीत्युक्तम् ।
ननु मार्जारादिनेत्रे नेत्रत्वं रश्मिवत्तया व्याप्तं प्रतिपन्नम्, अतोऽन्यत्रापि मनुष्यादिनेत्रे848 नेत्र
त्वाद्रश्मिवत्त्वं ततस्तैजसत्वञ्च प्रसाध्यते, तर्हि गवादिनेत्रे नेत्रत्वं कृष्णत्वेन नरनारिनेत्रे च
धावल्येन व्याप्तं प्रतिपन्नम्, अतोऽविशेषेण कार्ष्ण्यं धावल्यं वा पार्थिवत्वम् आप्यत्वं वा
प्रसाध्यताम् अविशेषात् ।


849यदपि–रूपादीनां मध्ये रूपस्यैव प्रकाशकत्वात् इति तत्तैजसत्वे साधनमभिहितम्, तदपि
850लाऽञ्जन-चन्द्र-माणिक्यादिभिरनैकान्तिकम् । न चैतद्वक्तव्यम्–जलादीन् प्रति गत्वा व्यावृत्तानां
चक्षूरश्मीनामेव तत्प्रकाशकत्वम्, न जलादीनाम् इति, सर्वत्र दृष्टहेतुवैफल्यापत्ते । तथा च
दृष्टान्ताऽसिद्धि, प्रदीपादावपि अन्यस्यैव तत्प्रकाशकत्वप्रसङ्गात्, प्रत्यक्षबाधनम् उभयत्र ।
रूपप्रकाशकत्वञ्च रूपस्यानुभव, तत्र ज्ञानजनकत्वं वा ? प्रथमविकल्पे रूपज्ञानेनानेकान्त,
तस्यातैजसत्वेऽपि रूपानुभवसम्भवात् । द्वितीयविकल्पे तु घटादिरूपेणानेकान्त, तस्याऽतैजस
81 स्यापि रूपज्ञानजनकत्वाभ्युपगमात् । करणत्वे सति इति विशेषणेऽपि आलोकार्थसन्निकर्षेण
चक्षूरूपयोः संयुक्तसमवायेन चानेकान्तः, द्रव्यत्वे सति इति विशेषणेऽपि चन्द्रादिनाऽनेकान्तः ।
अतश्चक्षुषा कुतश्चित्तैजसत्वाऽसिद्धेः कथं रश्मिवत्त्वं सिद्ध्येत् यतः प्राप्यकारित्वं स्यात् ?


किञ्च, अस्य प्राप्यकारित्वे विषयश्चक्षुर्देशमागच्छेत्, चक्षुर्वा विषयदेशम् ? तत्राद्यविक
ल्पे प्रत्यक्षबाधा; चक्षुःप्रदेशे विषयस्य गमनाऽप्रतीतेः, न हि चक्षुःप्रदेशे पर्वतादेर्विषयस्यागमनं
केनचिद् दृष्टमिष्टं वाऽनुपहतचेतसा । द्वितीयविकल्पेऽपि अध्यक्षविरोधः; विषयं प्रति चक्षुषो
गमनाऽप्रतीतेः, चक्षुर्गत्वा नार्थेनाभिसम्बद्ध्यते, इन्द्रियत्वात्, त्वगादिवत् इत्यनुमानविरोधश्च ।
तदविशेषेऽपि दृष्टातिक्रमेण कस्यचित् तत्र गत्वा सम्बन्धाभ्युपगमे यथाप्रतीति असम्बन्ध एव
किन्नाभ्युपगभ्यते अलं प्रतीत्यपलापेन ?


किञ्च, चक्षु851र्गत्वा संयुज्य अर्थं चेद् द्योतयति, तर्हि यथा विप्रकृष्टस्याऽऽदित्यादेः संयुक्त
समवायाद् रूपं द्योतयति, एवं कर्माऽपि द्योतयेत् संयुक्तसमवायाऽविशेषात् । कथञ्चैवंवा852दिनः
काचाऽभ्रपटल-स्वच्छोदक-स्फटिकाद्यन्तरितार्थानामुपलम्भः स्यात् चक्षुषस्तत्र गच्छतः काचा
द्यवयविना प्रतिबन्धात् ? अथ काचादिकं भित्त्वा चक्षूरश्मयोऽर्थदेशं गच्छन्ति; तर्हि तद्व्यव
हितार्थोपलम्भसमये काचादेरनुपलम्भः, तदाधेयद्रव्यस्य पातश्च स्यात् तदाधारस्यावयविनो
नाशात्, न चैवम्, युगपत्तयोर्निरन्तरमुपलम्भात् । पू853र्वपूर्वव्यूहनिवृत्तौ उत्तरोत्तरतद्रूपव्यूहा
न्तरस्याशूत्पत्तेः प्रदीपाग्निज्वालावत् निरन्तरताभ्रमे सौगतमतसिद्धिः; सर्वार्थानां प्रतिक्षणं
क्षणिकत्वेऽपि इत्थं निरन्तरताभ्रमप्रसङ्गात् । एतेन शाखाचन्द्रमसोः क्रमेणानुभवेऽपि आशु
वृत्त्योत्पलपत्रशतव्यतिभेदवद् युगपत्प्रतिपत्त्यभिमानो भ्रान्तिनिबन्धनः
इति प्रत्याख्यातम् ।


यच्चान्यदुक्तम्854शरीरापेक्षया चक्षुर्विषयस्य सन्निकृष्ट-विप्रकृष्टतोपपत्तेर्दूरनिकटादिव्यव
हारः सुवटः
इति; तदपि श्रद्धामात्रम्; इन्द्रियसन्निकर्षेणास्य प्रतिपत्तौ तथा तद्व्यवहारानुप
पत्तेः । तथाहि–यद् इन्द्रियसन्निकर्षेण प्रतीयते न तत्र दूरनिकटादिव्यवहारः यथा रसादौ,
इन्द्रियसन्निकर्षेण प्रतीयते च चक्षुर्विषय इति ।


प्राप्यका855रित्वे च चक्षुषः संशय-विपर्ययानुपपत्तिः; सामान्यवद् विशेषाणामपि सन्निकृष्टा
नामुपलम्भसंभवात् । विशेषानुपलब्धिनिमित्तो हि संशयो विपर्ययश्च । न च चक्षुषा सन्निकृष्ट
82 त्वाऽविशेषेऽपि सामान्यमेवोपलभ्यते न विशेषः इत्यभिधातव्यम्; विशेषाभावात् । तन्न प्राप्य
कारित्वं चक्षुषो घटते । न चा856प्राप्यकारित्वे सकलार्थप्रकाशकत्वप्रसङ्गः; योग्यदेशापेक्षणाद्
अयस्कान्तवत्, नहि अयस्कान्तोऽयसोऽप्राप्तस्याकर्षणे प्रवर्तमानः सर्वस्यायसः तथाविधस्याकर्षणे
समर्थः, अपि तु योग्यदेशस्थस्यैव । अञ्जन-तिलक-मन्त्रादिर्वा अप्राप्तस्यापि स्त्र्यादेराकर्षकः सन्
न सर्वस्याकर्षको दृष्ट नियतस्यैव स्त्र्यादेः तेनाकर्षणोपलम्भात् । भवतोऽपि च चक्षूरश्मयो
लोका857न्तं गत्वा किमिति रूपं न प्रकाशयन्ति, चक्षुर्वा संयुक्तसमवायाद् यथा रूपं प्रकाशयति
तथा गन्धादिकमपि858 किमिति न प्रकाशयेत् तत्रापि तस्याविशेषात् ?
इति चोद्ये योग्यतैव शरणम् ।


यदपि कारकत्वात् इत्युक्तम्859; त860दपि मनसा अयस्कान्ताऽञ्जनतिलकमन्त्रादिना चानै
कान्तिकम्, तस्य कारकत्वेऽपि अप्राप्यकारित्वात् । यदपि अत्यासन्नार्थाऽप्रकाशकत्वात्
इत्यस्य साध्याविशिष्टत्वमुक्तम्861; तदप्य862युक्तम्; प्रसङ्गसा863धनत्वादेतस्य, श्रोत्रादौ हि प्राप्यकारि
त्वाऽत्यासन्नार्थप्रकाशकत्वयोः व्याप्य-व्यापकभावसिद्धौ सत्यां परस्य व्यापकाभावेष्ट्या अत्या
सन्नार्थाऽप्रकाशकत्वलक्षणया अनिष्टस्य प्राप्यकारित्वलक्षणव्याप्याभावस्य आपादनमात्रमेवा
नेन विधीयते इति864


83

श्रोत्रस्याप्राप्यकारित्वम्
इति बौद्धस्य पूर्वपक्ष–


ननु श्रोत्रादौ हि इत्याद्ययुक्तमुक्तम्, चक्षषोऽप्राप्यकारित्वे साध्ये श्रोत्रस्य विपक्षतानुप
पत्तेः तद्वत्तस्याप्यप्राप्यकारित्वात् । चक्षुःश्रोत्रमनसामप्राप्तार्थ
प्रकाशकत्वम्865
इत्यभिधानात् । प्राप्यकारित्वे
चास्य तद्विषये दूरादिव्यवहारो न स्यात्, अस्ति चात्रायम् दूरे
शब्दः
निकटे शब्द इति व्यवहारोपलम्भात्, अतोऽप्राप्यकारित्वमेवास्योपपन्नम् । तथा च
प्रयोगः–शब्दः स्वग्राहकेण असन्निकृष्ट एव गृह्यते, दूरादिप्रत्ययग्राह्यत्वात्, पादपादिवत् । न
चासन्निकृष्टस्य शब्दस्य ग्रहणे कथं ततः श्रोत्राभिघातः इत्यभिधातव्यम्; भा866सुररूपस्यासन्निकृष्टस्य
ग्रहणेऽपि अतश्चक्षुषोऽभिघातोपलम्भात् । इयांस्तु867 विशेष अत्र तेजस्विताऽभिघातहेतुः, शब्दे तु
तीव्रतेति ।


तत्प्रतिविधानम्–


अत्र प्रतिविधीयते । यत्तावदुक्तम्–शब्दः स्वग्राहकेणासन्निकृष्ट एव गृह्यते इत्यादि; तत्र
पक्षस्याध्यक्षबाधा868; कर्णशष्कुल्यन्तःप्रविष्टस्य मशकादिशब्दस्य
प्रकाशकत्वेन श्रोत्रस्याध्यक्षतः प्रतीतेः, अतोऽग्नावनुष्णत्ववत्
स्वग्राहकेणासन्निकृष्टत्वं शब्दस्याध्यक्षबाधितम् । हेतुश्च गन्धेना869नैकान्तिकः; तस्य स्वग्राहकेण
सन्निकृष्टस्य ग्रहणेऽपि दूरादिप्रत्ययग्राह्यत्वप्रतीतेः । न च तथा प्रतीयमाने गन्धे दूर-निकटादि
व्यवहारोऽसिद्ध; दूरे पद्मगन्धः, निकटे मालतीगन्धः इत्यादिव्यवहारस्य लोके सुप्रसिद्धत्वात् ।


किञ्च870, दूरादिप्रत्ययग्राह्यत्वं साकारज्ञानपक्षमभ्युपगम्य उच्यते, निराकारज्ञानपक्षं वा ?
तत्राद्यपक्षोऽनुपपन्नः; स्वज्ञानगतस्य871 शब्दाकारस्य ग्रहणे दूर-निकटव्यवहारानुपपत्तेः । यस्य
84 हि निरा872कार् अज्ञानं भिन्नदेशमर्थ वेत्ति तस्य इदं दूरम्, इदं निकटम् इति वक्तुं युक्तम् । साकार
ज्ञानवादिन पुन यद् दूरादि न तज्ज्ञानवेद्यम्, अवेद्ये च न दूरादिव्यवहारो युक्त, न ह्यन्धस्य
किञ्चिद्दूर निकटंवा इति व्यवहारस्तात्त्विकोऽस्ति; यच्च वेद्यं ज्ञानस्य स्वाकारमात्रम् न तद्दूरादि,
ज्ञानस्वरूपादभिन्नत्वात् । नहि ज्ञानस्य स्वरूप सुखादयो वा ज्ञानाद873भिन्नाः प्रतीयमानाः
दूरादिव्यवहारभाजः प्रतीयन्ते, सर्वत्र आसन्नव्यवहारोच्छेदप्रसङ्गात् । अथात्रापि आकारा
धायकस्य दूरादित्वाद् दूरादिव्यवहार, व्यर्थस्तर्हि तदप्राप्यकारित्वप्रसाधनप्रयास, कर्णशष्कु
लिप्रविष्टशब्दग्रहणेऽपि दूरादिव्यवहारस्य तन्मूलकारणदूरादित्वेनोपपद्यमानत्वात् । दृश्यते हि
गन्धस्य घ्राणेन्द्रियसन्निकृष्टस्य ग्रहणेऽपि तन्मूलकारणदूरादित्वेन दूरे पद्मगन्धः इत्यादि
व्यवहारः ।


किञ्च, स्वरूप874त एव शब्दो दूरादिस्वभाव, दूरादिकारणप्रभवत्वात्, दूरादिदेशादागत
त्वात्, दूरादिदेशे स्थितत्वाद्वा ? न तावत्स्वरूप875त; निकटस्यापि तथाव्यवहारप्रसङ्गात् । दूरा
दिकारणप्रभवत्वेन चास्य दूरादिव्यवहारार्हत्वे नातः स्वग्राहकेणासन्निकृष्टस्य ग्रहणसिद्धिः,
गन्धेनानैकान्तिकत्वप्रतिपादनात् । अथ दूरादिदेशादागतत्वात् शब्दस्य दूरादित्वम्, युक्तमिदं
तथैवास्य तद्रूपतोपपत्तेर्गन्धादिवत्, दूरादिप्रदेशादागतो हि गन्ध शब्दो वा स्वेन्द्रियसन्निकर्षेण
प्रतीयमानोऽपि योग्यताविशेषवशात् सन्निकृष्ट-विप्रकृष्टतया प्रतीयते ।


दूरादिदेशे स्थितत्वात्तु तस्य दूरादित्वे स्वोत्त्प876त्तिदेशस्था एव शब्दा श्रोत्रैर्गृह्यन्ते न वा
गताः
इत्यभ्युप877गतं स्यात् । तथा च यो निर्वाते दूरस्थेन मनागपि न श्रूयते शब्दः सोऽनुकूल
वाते कथं श्रूयेत ? यश्च आसन्नेन878 श्रूयते879 स एव प्रतिवाते कस्मात्तेन880 न श्रूयते; तद्वातेन श्रोत्रा
भिघातात्, शब्दस्य नाशितत्वाद्वा ? यदि श्रोत्राभिघातात् तर्हि निर्वातप्रदेशस्थेन श्रूयताम् ।
न च तत्प्रदेशे असता शब्दप्रदेश एव सता881ऽनेन तदभिघातो युक्त; पर्वते प्रज्वलिताग्निना
महानसे अन्नपाकप्रसङ्गात् । शब्दस्य नाशितत्वे तु यस्याप्यसौ 882वातोऽनुकूल तेनापि न श्रूयेत
अविशेषात् । तं प्रति तेनास्य प्रेरणे तच्छ्रोत्रेण प्राप्तोऽसौ गृह्यते इति सिद्धमस्य प्राप्यकारित्वम् ।
यदि च स्वोत्पत्तिदेश एव सर्वे शब्दा विलयिन कथ तर्हि नलिकादिशब्दस्य भेर्यादिशब्दस्य
च कर्णशष्कुलिगृहप्रपूरणेन प्रतिपत्ति स्यात् ? कथं वा धवलगृहादौ प्रतिशब्दनम् ? न हि
लोष्ठादय कोस883पात्राऽसंसृष्टा शब्दमुपजनयन्तः प्रतीयन्ते । यदि च स्वोत्पत्तिदेशस्थ एव शब्दो
85 गृह्येत तदा तत्रस्थैर्भेर्यादिशब्दैर्महद्भिः अल्पीयसोऽपि मशकादिशब्दस्यानभिभवाद् अनाकुलमेव
ग्रहणं स्यात् । ये स्वोत्पत्तिदेशस्था एवेन्द्रियेणासन्निकृष्टा गृह्यन्ते न तेषामन्योन्यं महद्भिरल्पीय
सामप्यभिभवः यथा पर्वतपादपादीनाम्, स्वोत्पत्तिदेशस्था एवेन्द्रियेणाऽसन्निकृष्टा गृह्यन्ते च
शब्दा इति । ननु दूरदेशवर्तिनां पर्वतः पादपादीनभिभूय आत्मानमेवोपदर्शयति, अतः साध्य
विकलो दृष्टान्तः; इत्यप्यसमीचीनम्; यतस्तेषां देशविप्रकृष्टतया तद्ग्रहणाऽयोग्यत्वाद् अप्रति
भासः नाभिभवात्, मशकादिशब्दा884नां तु अविप्रकृष्टानामपि भेर्यादिशब्दैरभिभवोऽस्ति अतो न
तेषां स्वोत्पत्तिदेशस्थानामेव ग्रहणम् ।


यदप्युक्तम्885–तच्छ886ब्दैः श्रोत्राभिघातात् तेषा887मग्रहणम् यथा भासुररूपेण चक्षुषोऽभिघातात्
सूक्ष्माग्रहणम् इति; तदप्ययुक्तम्; दृष्टान्तदार्ष्टान्तिकयोर्वैषम्यात्, दिवाकरकरा हि भासुररूपात्
प्रतिनिवर्त्त्य चक्षुषाभिसम्बद्ध्यमानास्तस्य अभिघातहेतवो दृष्टाः अतीव्रालोके तदभिघा888तादृष्टेः,
नचात्र तथाविधं किञ्चिदस्ति यत् शब्दात् प्रतिनिवर्त्त्य तदभिघातकारणं स्यात् । वायु स्यात्
इति चेत्; निर्वाते तर्हि न स्यात्तदश्रवणम् श्रोत्राभिघातकारणाऽभावात्, दृश्यते चात्रा889पि
भेर्यादिकोलाहले अल्पीयसोऽग्रहणम्, अतोऽन्योन्यदेशोपसर्पणेन अनल्पैरल्पशब्दानामभिभवोऽ
भ्युपगन्तव्यः । तथा च दूरदेशागमनविशिष्टत्वादेव अस्य गन्धादिवद् दूरत्वं सिद्धम्, न पुनः
स्वोत्पत्तिदेशस्थानामपि देशगतदूरत्वोपचारात्, अन्यथा स्खलिता तत्प्रतिपत्तिः स्यात् माणवकेऽ
ग्निप्र890तिपत्तिवत् । कथं वा तत् श्रोत्रस्या891प्राप्यकारित्वं प्रसाधयेत् उपचरितस्याऽप्रसाधकत्वात् ?
न हि माणवकेऽग्नित्वमुपचरितं दाहादिकार्यं प्रसाधयति ।


किञ्च, देशापेक्षया यद् दूरत्वं शब्दस्य तत् कि देशग्रहणे सति स्यात्, असति वा ? न
तावदसति; विशेषणत्वात्, यद् विशेषणं तद् गृहीतमेव विशेष्ये विशिष्टप्रतिपत्तिनिमित्तम् यथा
दण्डादि, विशेषणञ्च शब्दस्य दूरादिप्रतिपत्तौ देश इति । तथा, शब्दे दूरादिप्रत्ययो दूरदेशादि
ग्रहणे सत्येव भवति तत्सापेक्षदूरादिप्रत्ययत्वात्, यस्तत्सापेक्षदूरादिप्रत्ययः स तद्ग्रहणे सत्येव
भवति यथा पादपादौ दूरादिप्रत्ययः, तत्सापेक्षदूरादिप्रत्ययश्चायम्, तस्मात्तद्ग्रहणे सत्येव भव
तीति । सुप्रसिद्धो हि दूरासन्नपादपादौ चक्षुषा दूरासन्नदेशग्रहणे सत्येव दूरासन्नव्यवहारः,
अतः शब्देऽप्यसौ तद्ग्रहणे सत्येव इष्यताम् । त892थेष्टौ च कुतस्तद्ग्रहणम्–कि श्रोत्रात्,
अन्यतो वा ? यदि 893श्रोत्रात्; देशस्यापि शब्दत्वप्रसङ्गः तल्लक्षणत्वात्तस्य । इन्द्रियान्तरेण
तत्प्रत्तिपत्तौ साङ्गत्याभावात् न देशापेक्षया दूरः शब्दः इति प्रतीतिः स्यात् । न हि देवदत्त
गृहीतदूरदेशापेक्षया यज्ञदत्तस्य दूर शब्दः इति प्रतीतिर्दृष्टा । अथ इन्द्रियद्वयानुभवानन्तर
86 भाविनि894 विकल्पज्ञाने तथाप्रतीतेरयमदोषः; तर्हि पूर्वं दूरादिरहितस्य प्रतीतिः पुनस्तत्सहितस्य
इति क्रमेण तत्प्रतीतिः स्यात्, न चैवम्, प्रथममेव दूरत्वादिविशिष्टस्यास्य प्रतीते । ततो गति
परिणतस्य स्वयं दूरादिप्रत्यययोग्यताविशिष्टस्य गन्धस्येव शब्दस्यापि दूरादिप्रत्ययगोचरत्वं
प्रतिपत्तव्यम्, इति सिद्धं प्राप्यकारित्वं श्रोत्रस्य, कथमन्यथा तद्विषये देशादिसन्देह स्याद् रूपवत् ?
यथैव हि रूपे प्रतीयमाने किमस्मिन् देशे रूपमेतत् प्रतिभाति अन्यस्मिन् वा, अस्यां दिशि
अन्यस्यां वा
इति न सन्देहः, नियतदिग्देशतयैव अस्य अप्राप्यकारिणेन्द्रियेण प्रतिपत्तिसंभवात्,
तथा अत्राप्यसौ न स्यात्, अस्ति चात्रसन्देह–किमन्त शब्दोऽयं जात बहिर्वा प्राच्यां दिशि
अन्यस्यां वा
इति । अथ देशादिसन्देहात् त895त्रैवं सन्देहः तर्हि गन्धोऽप्यप्राप्त एव गृह्यतां देशादि
सन्देहादेवात्रापि सन्देहसंभवात् । अथ अतो घ्राणविकारदर्शनात् प्राप्तोऽसौ प्रतीयते, तदेत
च्छब्देऽपि समम्, श्रोत्रविकारस्य बाधिर्यादे शब्दात् प्रतीते । तस्माद् इन्द्रियानिन्द्रियाभ्या
मन्यस्य गौणप्रत्यक्षं प्रत्यसाधार896णकारणत्वानुपपत्तेः सूक्तम्–सांव्यवहारिकमिन्द्रियानिन्द्रिय
प्रत्यक्षम्
इति ।


मुख्यमिदानीं प्ररूपयति–मुख्यम् प्रधानम् प्रत्यक्षम् इत्यनुवर्तते । किं तत् ? इत्याह–
अतीन्द्रियज्ञानम् अवधि-मनःपर्यय-केवलाख्यम् ।


सर्वज्ञाभाववादिनो मीमासकस्य पूर्वपक्ष–


ननु च अतीन्द्रियज्ञानस्य तद्वतो वा सदुपलम्भकप्रमाणपञ्चकगोचरातिक्रान्ततया अभाव
प्रमाणकवलीकृतविग्रहत्व897तोऽस्याऽसत्त्वात् कस्य898 मुख्यप्रत्यक्षता
प्रसाध्येत ? न च तदतिक्रान्तताऽस्याऽसिद्धा, अतीन्द्रियार्थ
वेदिविषयस्य अध्यक्षादीनां मध्ये कस्यचिदपि प्रमाणस्याऽसंभ
वात् । तथाहि–न तावत्प्रत्य899क्षं तद्विषयम्; प्रतिनियतरूपादिगोचरचारित्वात्तस्य । किञ्च, सम्बद्धे
वर्तमाने चार्थे प्रत्यक्ष प्रवर्तते, न चाशेषार्थवेदी चक्षुरादीन्द्रियेण सम्बद्धो वर्तमानश्च, तत्कथं
तत्प्रभवप्रत्यक्षे प्रतिभासेत ? नाप्यनुमानं तद्विषयम्, तद्धि लिङ्गलिङ्गिनोरविनाभावग्रहणे
सति प्रवर्तते, न च सर्वज्ञेनाविनाभूतं किञ्चिल्लिङ्गमुपलभ्यते । तद्धि कार्यं वा स्यात्, स्वभावो
वा ? न ता900वत्कार्यम्, विप्रक901र्षिणा सर्वज्ञेन सह कस्यचित् कार्यकारणभावाऽसिद्धे, प्रत्यक्षानु
87 पलम्भसाधनत्वात्तस्य । नापि902स्वभावः; अशेषवेदिनोऽप्रत्यक्षत्वे तदव्यतिरेकिणः स्वभावस्य प्रति
पत्तुमशक्तेः । आग903मोऽपि नित्यः, अनित्यो वा सर्वज्ञसद्भावावेदकः स्यात् ? न तावन्नित्यः; तत्प्रति
पादकस्य नित्यस्यागमस्यैवाऽसंभवात् । हिरण्य904गर्भ प्रकृत्य स सर्ववित् स लोकवित्
इत्यादेरप्यागमस्य कर्मार्थवाद905विधायकत्वेन अशेषज्ञविधायकत्वानुपपत्तेः, अनादेश्चागमस्यादि
मत्सर्वज्ञप्रतिपादनविरोधात् । अनित्योऽप्यागमः–सर्वज्ञप्रणीतः, असर्वज्ञप्रणीतो वा तत्प्रतिपा
दकः स्यात् ? प्रथमपक्षे अन्योन्या906श्रयः–सर्वज्ञसिद्धौ हि तत्प्रणीतत्वेनागमस्य प्रामाण्यसिद्धिः,
तत्सिद्धौ चातः सर्वज्ञसिद्धिरिति । असर्वज्ञप्रणीतस्य चागमस्य अप्रमाणभूतत्वात् कथं ततस्त
त्प्रतिपत्तिः ? तथाभूतादप्यतस्तत्प्रतिपत्तौ स्वव907चनादेव तत्प्रतिपत्तिः किन्न स्यादविशेषात् ?
नह्यनासादितप्रमाणभावस्याऽन्यवाक्यस्य स्ववचनात् कश्चिद्विशेषोऽस्ति । तन्नागमतोऽपि तत्प्रति
पत्तिः । नाप्युप908मानात्; तस्य सदृशपदार्थग्रहणनान्तरीयकत्वात्, गोसदृशगवयग्रहणनान्तरीयक
गवाद्युपमानवत् । न चाशेषज्ञसदृशः कश्चिज्जगति प्रतीतः, तदप्रतीतौ तत्सादृश्यप्रतीतेरनुपपत्तेः ।
प्रयोगः–यस्य सदृशग्रहणं नास्ति स नोपमानविषयः यथा वन्ध्यास्तनन्धयः, नास्ति च सदृश
ग्रहणं सर्वज्ञस्येति । नाप्यर्थाप909त्तितस्तत्सिद्धिः; सर्वज्ञसद्भावमन्तरेणानुपपद्यमानस्य षट्प्रमाण
88 प्रमितस्य कस्यचिदप्यर्थस्याऽसंभवात् । न च धर्माद्युप910देशकरणान्यथानुपपत्तेर्बुद्धादीनां सर्वज्ञ
तासिद्धिर्भविष्यतीत्यभिधातव्यम्; तेषां तदुपदेशकरणस्य व्यामोहादेव उपपत्तेः । द्विविधो ह्युप
देशः–व्यामोहपूर्वक, सम्य911ग्ज्ञानपूर्वकश्च । तत्र व्यामोहपूर्वको यथा स्वप्नोपलब्धार्थोपदेशः ।
सम्यग्ज्ञानपूर्वको यथा मन्वादीनां सकलार्थज्ञानोदयवेदमूलो धर्माद्यशेषार्थोपदेशः । ते हि निखि
लपदार्थज्ञानोत्पत्तिहेतोर्वेदाद् आविर्भूतविशुद्धबोधाः धर्माद्यशेषपदार्थसार्थमुपदिशन्ति न पुन
र्बुद्धादय, अन्यथा मन्वाद्युपदेशवत् तदुपदेशोऽपि त्रयीविद्भिराश्रीयेत, न चासौ तैराश्रितः912, अतो
व्यामोहादेवासौ तद्विषयस्तैः कृत इत्यवसीयते । ततः सिद्धं सर्वज्ञस्य913 सदुपलम्भकप्रमाण
पञ्चकगोचरातिक्रान्तत्वम् । तच्च सिद्ध्यदभावप्रमाणकवलीकृतविग्रहत्वं साधयति, तदपि अस
त्त्वम् । अतः सर्वज्ञस्य आकाशकुशेशयप्रख्यतां प्राप्तत्वात् कस्याशेषज्ञता प्रार्थ्येत ?


अस्तु वा सर्वज्ञः; तथाप्यसौ समस्तमतीतकालादिपरिगतं वस्तु स्वेन स्वेन रूपेण प्रति
पद्यते, किं वा वर्तमानतयैव914 ? प्रथमपक्षे तज्ज्ञानस्य प्रत्यक्षतानुपपत्तिः अवर्तमानवस्तुविषयत्वात्,
यदवर्तमानवस्तुविषयं न तत् प्रत्यक्षम् यथा स्मरणादि, अवर्तमानवस्तुविषयञ्च अतीताऽना
गतार्थविषयतया सर्वज्ञज्ञानमिति । द्वितीयपक्षे तु तज्ज्ञानस्य भ्रान्तत्वप्रसङ्ग; अन्यथास्थितस्या
र्थस्य अन्यथात्वेन ग्राहकत्वात् । यदन्यथास्थितस्यार्थस्यान्यथात्वेन ग्राहकं तद् भ्रान्तम् यथा
द्विचन्द्रादिज्ञानम्, अन्यथास्थितस्य अतीतानागतकालस्यार्थस्य वर्तमानतया ग्राहकञ्च सर्वज्ञ
ज्ञानमिति ।


किञ्च, इदमिदानीमिह सत् इत्यस्यां संविदि वस्तुसत्तावत् तत्प्राक्-प्रध्वंसाभावौ प्रतिभा
सेते, न वा ? यदि प्रतिभासेते; तदा युग915पत्, क्रमेण वा ? युगपच्चेत्; तर्हि तदैवास्यानुत्पन्न
प्रध्वस्तव्यपदेशप्रसङ्गाद् युगपज्जन्म-मरणादिव्यपदेशप्रसङ्ग, यद् येन स्वरूपेण प्रतिभासते
तत्तेनैव916 व्यपदिश्यते यथा नीलं नीलतया, सत्त्व-प्राक्-प्रध्वंसाभावरूपतया प्रतिभास917ते च अशेप
ज्ञस्याऽशेपं वस्त्विति । तथा च प्रतिनियतार्थस्वरूपप्रतीतेरभावात् सुव्यवस्थिताऽस्य सर्वज्ञता ।
89 तन्न युगप918त्प्रतीतिः । नापि क्रमेण; अतीतानागतार्थानां परिसमाप्त्यभावतः तज्ज्ञानस्याप्यपरि
समाप्तेः सर्वज्ञत्वाऽयोगात् । अथ वस्तुसत्तावत् तौ न प्रतिभासेते; तदा कथमसौ सर्वज्ञः
स्या919दिति ?


तन्निरसनपुरस्सरा सर्वज्ञसिद्धिः–


अत्र प्रतिविधीयते । यत्तावदुक्तम्920–सदुपलम्भकप्रमाणपञ्चकगोचरातिक्रान्ततयाऽसत्त्वम
तीन्द्रियज्ञानस्य तद्वतो वा; तत्र तदतिक्रान्तता तावत्तस्य
असिद्धा; तत्सद्भावावेदकस्यानुमानप्रमाणस्य सद्भावात् इति ।
एतत् तत् इत्यादिना दर्शयति–तद् अतीन्द्रियज्ञानम्, अस्ति,
सुनिश्चिताऽसंभवद्बाधकप्रमाणत्वात् सुखादिवद्
इति । न तावदाश्रयासिद्धोऽयं हेतुः, धर्मिणो
हेतुप्रयोगात् पूर्वं कुतश्चित्प्रमाणादप्रसिद्धेरित्यभिधातव्यम्; विक921ल्पप्रसादात्तस्य प्रसिद्धेः ।
922 हि कश्चित्तस्याऽगोचरोऽस्ति यन्न क्रमेत सर्वत्राप्रतिहतप्रवृत्तित्वात्तस्य । न खलु वन्ह्याद्यनु
मानेऽपि पर्वतादेर्धर्मिणो विकल्पादन्यतः सिद्धिः इत्यग्रे वक्ष्यते । नापि स्वरूपासिद्धः; तद्वा
धकस्य कस्यचिदपि प्रमाणस्याऽसंभवात् । अतीन्द्रियार्थदर्शिनो हि बाधकं प्रमाणं प्रत्यक्षम्,
अनुमानादि, अभावो वा स्यात् ? यदि प्रत्यक्षम्; तत् किं क्वचित् कदाचित्तदभावं प्रसाधयेत्,
सर्वत्र सर्वदा वा ? प्रथमपक्षे सिद्धसाधनम्, नहि सर्वत्र सर्वदा तत्सद्भावोऽस्माभिः प्रतिज्ञातः ।
द्वितीयपक्षे तु अतीन्द्रियप्रत्यक्षमन्तरेण सर्वत्र सर्वदाऽतीन्द्रियज्ञानाऽभावाऽसिद्धिः इत्यावेदयति–
यावत् इत्यादिना । यावज्ज्ञेयं सक923लं ज्ञेयं व्याप्नोति विषयीकरोत्येवं शीलं924 यज् ज्ञानं तेन
रहिता शून्या या सकला925 पुरुषपरिषत् तस्याः परिज्ञानस्य तदन्तरेण अतीन्द्रियज्ञानमन्त
रेण अनुपपत्तेः, तदस्ति इत्यभिसम्बन्धः । न खलु प्रादेशिकेन्द्रियजज्ञानेन सर्वत्र सर्वदा
सर्वदर्शिनोऽभावः कर्त्तुं शक्यः तस्या926तद्विषयत्वात्, यद् यद्विषयं न भवति न 927तत्तत्र विपरीत
धर्मस्य बाधकम् यथा शब्दाऽविषयं 928चाक्षुषं ज्ञानं तदश्रावणत्वस्य, सकलदेशकालवर्तिपुरुषपरि
पदविषयञ्च प्रादेशिकमिन्द्रियप्रभवं ज्ञानमिति ।


ननु न929 प्रवर्तमानं प्रत्यक्षं सर्वदर्शिनो बाधकम् शब्दे श्रावणत्वप्रत्यक्षमिवाऽश्रावणत्वस्य, किन्तु
90 निवर्तमानम्, यत्र हि प्रत्यक्षस्य निवृत्तिः तस्य अभावोऽवसीयते यथा शशशृङ्गस्य, यत्र तु प्रवृत्तिः
तस्य सद्भाव यथा रूपादेः, न चातीन्द्रियार्थदर्शिविषयं स्वप्नेऽपि प्रत्यक्षं प्रवृत्तम्, अतस्तन्निवृत्ते
स्त930स्याप्यभावोऽवसीयते; तदप्यनुपपन्नम्; यतो यदि वस्तुनः प्रत्यक्षं कारणं व्यापकं वा स्यात्
तदा तन्निवृत्तौ वस्तुनोऽपि निवृत्तिः स्यात्, नान्यथा अतिप्रसङ्गात् । कार931णस्य हि वह्न्यादेर्निवृत्तौ
कार्यस्य धूमादेर्निवृत्तिर्दृष्टा, व्यापकस्य च वृक्षत्वादेर्निवृत्तौ व्याप्यस्य शिशपात्वादेर्निवृत्ति ।
न चार्थस्य प्रत्यक्षं कारणम् तदभावेऽपि तद्भावात् । यद् यदभावेऽपि भवति न तत्तस्य कारणम्
यथा गोरभावेऽपि भवन्नश्वो न गोकारणकः, देशादिव्यवधाने असत्यपि अर्वादर्शिप्रत्यक्षे भवति
चार्थ इति । नापि व्यापकम्; तन्निवृत्तावप्यनिवर्तमानत्वात् । यन्निवृ932त्तावपि यन्न निवर्तते न
तत्तस्य व्यापकम् यथा निवर्तमानेऽपि कुम्भेऽनिवर्तमानस्य स्तम्भस्य न कुम्भो व्यापकः, निवर्त
मानेऽपि प्रत्यक्षे न निवर्तते च देशादिविप्रकृष्टोऽर्थ इति । न चा933ऽकारणाऽव्यापकभूतस्यास्य
निवृत्तौ अकार्याऽव्यापकभूतस्यार्थस्य निवृत्तिर्युक्ता अतिप्रसङ्गात् । 934योऽपि कार्याभावात्
क्वचित् कारणस्याऽभावनिश्चयः सोऽप्यप्रतिबद्धसामर्थ्यस्यैव, न पुनः कारणमात्रस्य । न च
अर्वाक्प्रत्यक्षं प्रति अशेषार्थानां सामर्थ्यमस्ति येन तन्निवर्त्तमानं तेषामभावं साधयेत् ।


किञ्च, अध्यक्ष935निवृत्ति-अर्थाभावयो यदि व्याप्य-व्यापकभाव सिद्ध्येत् तदा तन्निवृत्तेरर्था
भावो निश्चीयेत, नचासौ सिद्धः 936त्रिविप्रकृष्टेऽर्थे सत्यपि प्रत्यक्षनिवृत्तेः प्रतीयमानत्वात् । किञ्च,
भवत्प्रत्यक्षनिवृत्तिः सर्वविदोऽसत्त्वं प्रसाधयेत्, सर्वप्रत्यक्षनिवृत्तिर्वा ? तत्राद्यपक्षोऽनुपपन्न,
भवत्प्रत्यक्षनिवृत्तेः देशादिव्यवधाने सत्यप्यर्थे प्रतीयमानत्वात् । द्वितीयपक्षोऽप्ययुक्तः; सर्वज्ञ
विषये सर्वप्रत्यक्षनिवृत्तेः सर्वज्ञमन्तरेणानुपपत्तेः, नहि अर्वाग्दृशा सर्वप्रमातॄणामसाक्षात्करणे
तत्र तत्प्रत्यक्षं न प्रवर्तते इति प्रतिपत्तुं शक्यम् । न937न्वेवं सर्वत्राऽभावव्यवहारोच्छेद स्यात्
क्वचित् घटाद्यभावसाधनेऽपि उक्तदोषानुषङ्गात्; इत्यप्यचर्चिताभिधानम्, तत्र एकज्ञानसंसर्गिप
दार्थान्तरोपलम्भतोऽभावव्यवहारोपपत्तेः, एकस्य हि कैवल्यम् इतरस्य वैकल्यम् । नचा938शेषज्ञस्य
91 केनचित् सार्धम् एकज्ञानसंसर्गित्वमस्ति यस्योपलम्भात्तदभावः सिद्ध्येत्, तस्यात्यन्तपरोक्षत्वात् ।
तन्न प्रत्यक्षं सर्वविदो बाधकम् ।


नाप्यनुमानम्; धर्मि-साध्य-साधनानां स्वरूपाऽप्रसिद्धेः, तद्बाधके ह्यनुमाने धर्मित्वेन सर्व
ज्ञोऽभिप्रेतः, सुगतः, सर्वपुरुषा वा ? यदि सर्वज्ञः; तदा कि तत्र साध्यम्–असत्त्वम्, असर्वज्ञत्वं
वा ? यद्यसत्त्वम्; कि तत्र939 साधनम्–अनुपलम्भः, विरुद्धविधिः, वक्तृत्वादिकं वा ? यद्यनुपलम्भः;
स किं सर्वज्ञस्य, तत्कारणस्य, तत्कार्यस्य940, तद्व्यापकस्य वा ? यदि सर्वज्ञस्य; सोऽपि किं स्व
सम्बन्धी, सर्वसम्बन्धी वा ? स्वसम्बन्धी चेत्; 941सोऽपि कि निर्विशेषणः, उपलब्धिलक्षणप्राप्त
त्वविशेषणो वा ? न तावन्निर्विशेषणोऽसौ तदभावसाधनाय प्रभवति; परचित्तविशेषादिभिरनै
कान्तिकत्वात् । नाप्युपलब्धिलक्षणप्राप्तत्वविशेषणः; सर्वत्र सर्वदा सर्वज्ञाऽभावसाधनाऽभावा
नुषङ्गात्, न हि सर्वथाप्यसतः उपलब्धिलक्षणप्राप्तत्वं घटते, क्वचित्कदाचित्सत्त्वोपलम्भाविना
भावित्वात्तस्य । तथाहि–यदुपलब्धिलक्षणप्राप्तं न तत् सर्वथाप्यसत् यथा घटादि, उपलब्धि
लक्षणप्राप्तश्च सर्वज्ञ इति । एतेन सर्वसम्बन्धिपक्षोऽपि प्रत्याख्यातः । असिद्धश्च सर्वसम्बन्ध्यनुप
लम्भः असर्वविदा प्रतिपत्तुमशक्यत्वात्, न खलु सर्वात्मनां तज्ज्ञानानाञ्चाप्रतिपत्तौ तत्सम्बन्धी
सर्वज्ञानुपलम्भः प्रतिपत्तुं शक्यः । नापि क्वचित् प्रदेशविशेषे छत्राद्यनुपलम्भात् छायाद्यभाववत्
सर्वज्ञस्य कारणानुपलम्भादभावो युक्तः; तत्कारणस्य ज्ञानावरणादिकर्मप्रक्षयस्य अनुमानादि
नोपलम्भसंभवात् । समर्थयिष्यते च मोक्षप्ररूपणावसरे अशेषविदो रत्नत्रयप्रभवज्ञानावरणादि
कर्मप्रक्षयादाविर्भाव इति ।


कार्यानुपलम्भोऽपि असिद्ध एव; धर्माद्यशेषार्थप्रतिपादकस्यागमस्यैव तत्कार्यस्योपलभ्यमान
त्वात् । तत्प्रतिपादकागमस्याऽपौरुषेयत्वात् कथं तत्कार्यता ? इ942त्यप्यसाम्प्रतम्; अपौरुषेयत्वस्य
आगमे प्रतिषेत्स्यमानत्वात्, गुणवद्वक्तृकत्वेनैव अशेषवचसां प्रामाण्यस्य समर्थयिष्यमाणत्वात् ।


व्यापकानुपलम्भोपि असिद्धः; तद्व्यापकस्यानुमानेन उपलम्भप्रतीतेः । सर्वज्ञत्वस्य हि
व्यापकं सर्वार्थसाक्षात्कारित्वम् न पुनः सर्वार्थपरिज्ञानमात्रम्, तस्य असर्वज्ञेऽप्यागमद्वारेण
उपलभ्यमानत्वात् । तच्चानुमानतः प्रसिद्धम्; तथा943हि–कश्चिदात्मा सकलार्थसाक्षात्कारी, तद्
ग्रहणस्वभावत्वे सति प्रक्षीणप्रतिबन्धप्रत्ययत्वात्, यद् यद्ग्रहणस्वभावत्वे सति प्रक्षीणप्रतिबन्ध
प्रत्ययम् तत् तत्साक्षात्कारि यथा अपगततिमिरादिप्रतिबन्धं लोचनविज्ञानं रूपसाक्षात्कारि,
92 सकलार्थग्रहणस्वभावत्वे सति प्रक्षीणप्रतिबन्धप्रत्ययश्च कश्चिदात्मेति । न तावदयं विशेषणासिद्धो
हेतुः, आगमद्वारेणऽशेषार्थग्रहणस्वभावत्वस्य आत्मनि प्रसिद्धत्वात् । नापि विशेष्याऽसिद्धः;
प्रक्षीणप्रतिबन्धप्रत्ययत्वस्य अग्रे प्रसाधयिष्यमाणत्वात्, तन्नानुपलम्भः तदभावे हेतुः ।


नापि विरु944द्धविधिः; यत साक्षात्, परम्परया वा विरुद्धस्य विधिः सर्वज्ञाभावं प्रसाधयेत् ?
प्रथमपक्षे सर्वज्ञत्वेन साक्षाद्विरुद्धस्य असर्वज्ञत्वस्य क्वचित् कदाचिद् विधानात्तस्याभावः साध्येत,
सर्वत्र सर्वदा वा ? आद्यविकल्पे न साकल्येनाशेषज्ञा945भाव सिद्ध्येत् । यत्रैव हि तद्विधानं
तत्रैव तदभावः सिद्ध्येत्, नान्यत्र, नहि क्वचित् कदाचिद्वह्नेर्विधाने सर्वत्र सर्वदा शीता
भावो दृष्टः । द्वितीयविकल्पोऽप्यसंभाव्यः, अर्वाग्दृशः सर्वत्र सर्वदाऽसर्वज्ञत्व946विधेरसंभवात्,
तत्संभवे वा अस्यैवाशेषज्ञत्वप्रसङ्गः स्यात् ।


परम्परयापि तद्व्यापकविरुद्धस्य, तत्कारणविरुद्धस्य, त947द्विरुद्धकार्यस्य वा विधिस्तदभावं
साधयेत् ? न तावत्तस्य सर्वज्ञत्व948स्य व्यापकेनाऽखिलार्थसाक्षात्कारित्वेन विरुद्धस्य तदसाक्षा
त्कारित्वस्य, नियतार्थसाक्षात्कारित्वस्य वा विधिः तदभावसाधनाय प्रभवति; स हि क्वचित् कदा
चित्तदभावं प्रसाधयेत् तुषारस्पर्शव्यापकशीतविरुद्धवह्निविधानात् क्वचित् कदाचित् तुषारस्प949र्श
निषेधवत्, न पुनः सर्वत्र सर्वदा, तत्र तदा तद्व्यापकविरुद्धविधेरसंभवात्, क्वचिदात्म
विशेषे तद्व्यापकविधेः प्रसाधितत्वात् । तत्कारणविरुद्धविधिरपि क्वचित् कदाचिदेवाशेषज्ञाभावं
प्रसाधयेत्, यथा रोमहर्षादिकारणशीतविरुद्धवह्निविशेषविधानात् क्वचित्कदाचित् शीतकार्यरोम
हर्षादिनिषेधः न पुनः साकल्येन, तत्कारणविरुद्धविधेः साकल्येन संभवाभावात् । सर्वज्ञ
त्वस्य हि कारणं ज्ञानावरणादिकर्मप्रक्षय तद्विरुद्धश्च तदप्रक्षय तस्य विधिः क्वचिदेवात्मनि न
सर्वत्र, तदत्यन्तप्रक्षयस्य क्वचिदात्मविशेषे प्रसाधयिष्यमाणत्वात् । एतेन तद्विरुद्धकार्यविधिरपि
प्रतिव्यूढः, तेन हि सर्वज्ञत्वेन विरुद्धं किञ्चिज्ज्ञत्वं तत्कार्य नियतार्थविषयं वचः तस्य विधिः,
सोऽपि न सामस्त्येन अशेषज्ञा950ऽभावं साधयितुं समर्थः; यत्रैव तद्विधिस्तत्रैवास्य तदभाव
प्रसाधनसामर्थ्योपपत्तेः, यथा यत्रैव प्रदेशविशेषे शीतादिविरुद्धदहनादिकार्यस्य धूमादेर्विधिः
तत्रैव शीतस्पर्शनिषेधः न सर्वत्र । तन्न विरुद्धविधिरपि अशेषविदोऽभावप्रसाधिका951


93

नापि वक्तृत्वादिकम्; तदसत्त्वाभ्युपगमे वक्तृत्वादिधर्मोपेतत्वानुपपत्तेः; अन्यथा स्ववचन
विरोधानुषङ्गात् । न खलु नास्ति सर्वज्ञः, वक्तृत्वादिधर्मोपेतश्च इत्यभिदधता स्ववचनविरोधः
परिहर्त्तुं शक्यः । तन्नाशेषज्ञस्याऽसत्ता कुतश्चिदपि साधनात् साधयितुं शक्या । नापि
असर्वज्ञता; स्ववचनविरोधस्य अत्राप्यविशिष्टत्वात्, नहि सर्वज्ञोऽसर्वज्ञः इति ब्रुवतः
स्ववचनविरोधासंभवः ।


किञ्च, स952र्वविदः प्रमाणविरुद्धार्थवक्तृत्वं हेतुत्वेन विवक्षितम्, तद्विपरीतम्, वक्तृत्वमात्रं
ना ? प्रथमपक्षे असिद्धो हेतुः; भगवतस्तथाभूतार्थवक्तृत्वाऽसंभवात् । द्वितीयपक्षे तु विरुद्धो
हेतुः; दृष्टेष्टाविरुद्धार्थवक्तृत्वस्य तत्परिज्ञाने सत्येव संभवात् । तृतीयपक्षेऽपि अनैकान्ति
कत्वम्; वक्तृत्वमा953त्रस्य सर्वज्ञत्वेन विरोधाऽसंभवात् । एतेन सुगतधर्मिपक्षोऽपि प्रत्याख्यातः;
असत्त्वादिसाध्यापेक्षया अनुपलम्भादिसाधनापेक्षया च उक्तदोषानुषङ्गाविशेषात् । किञ्च, सुग
तस्य सर्वज्ञताप्रतिषेधे अन्येषां तद्विधिरवश्यंभावी विशेषप्रतिषेधस्य शेषाभ्यनुज्ञानान्तरीयक
त्वात् अयं ब्राह्मणः इत्यादिवत् । अथ सर्वपुरुषान्954 पक्षीकृत्य तेषां वक्तृत्वादेरसर्वज्ञता प्रसा
ध्यते; तन्न; विपक्षात् तरय व्यतिरेकाऽसिद्धौ सन्दिग्धविपक्षव्यावृत्तितया असर्वज्ञताप्रसाधक
त्वानुपपत्तेः । रथ्यापुरुषादौ असर्वज्ञत्वे सत्येव वक्तृत्वादेरुपलम्भात्, सर्वज्ञे च कदाचिदप्यनु
पलम्भात् ततो व्यतिरेक955सिद्धिः, इत्यपि मनोरथमात्रम्; सर्वाऽऽत्मसम्बन्धिनोऽनुपलम्भस्य
असिद्धाऽनैकान्तिकत्वप्रतिपादनात् ।


ननु सर्वज्ञस्य कस्यचिदप्यभावात् सिद्धा ततो वक्तृत्वादेर्व्यतिरेकसिद्धिरिति चेत्; कुतः
पुनस्तदभावसिद्धिः–अत एव, अन्यतो वा ? अत एव चेत्; चक्रकप्रसङ्गः, तथाहि–वक्तृत्वादेः
सर्वज्ञाभावसिद्धौ ततोऽस्य व्यतिरेकसिद्धिः, तत्सिद्धौ चास्य असर्वज्ञत्वेनैव व्याप्तिः, तत्सिद्धौ
चातः सर्वज्ञाभावसिद्धिरिति । अथ अन्यतः; तदास्य वैयर्थ्यम्, न चान्यत् तदभावग्राहकं किञ्चि
त्प्रमाणमस्ति । अनुपलम्भोऽस्तीति चेत्; न; अस्य सर्वाऽऽत्म956सम्बन्धिनोऽसिद्धाऽनैकान्तिकत्वेन
तदभावसाधकत्वानुपपत्तेः । यदि च अनुपलम्भमात्रेण अतीन्द्रियार्थदर्शिनोऽभावः साध्यते तदा
तदभावज्ञस्याप्यतोऽभावः किन्नसाध्येत विशेषाभावात् ? इति प्रदर्शयन्नाह–तदभाव इत्यादि ।


विवृतिव्याख्यानम्–


तस्य अतीन्द्रियज्ञानस्य अभावः स एव तत्त्वं तज् ज्ञो न कश्चिद् अनुपलब्धेः ख
पुष्पवत्
इति । अथ यद्यपि अस्मदादिस्तथाभूतो नोपलभ्यते तथाप्यन्य
स्तथाभूतो भविष्यतीत्याशङ्क्याह–न वै जैमिनिरन्यो वा तदभाव
तत्त्वज्ञः सत्त्व-पुरुष957त्व-वक्तृत्वादे रथ्यापुरुषवत्
इति । उपलक्षणञ्चै
94 तत्, तेन वेदार्थज्ञोऽपि न भवति तत एव तद्वत् इत्यपि द्रष्टव्यम्, तथा च लाभमिच्छतो
मूलोच्छेदः स्यात् । सत्त्व-पुरुषत्वाद्यविशेषेऽपि जैमिन्यादे रथ्यापुरुषाद्विलक्षणत्वात् तत्परिज्ञाना
तिशयो न विरुद्ध्यत इत्य958त्राह–पुरुष इत्यादि । पुरुषस्य जैमिन्यादेः अतिशयः वेदार्थ-सर्व
ज्ञाभावतत्त्वज्ञ959तालक्षणः तस्य संभवे अतीन्द्रियार्थदर्शी किन्न स्यात् ? ननु तदभावतत्त्व
ज्ञो न कश्चिद् अनुपलब्धेः
इत्ययुक्तमुक्तम्; दृश्यानुपलम्भस्यैव प्रमाणत्वोपपत्तेः, न चायं दृश्या
नुपलम्भः; अर्वाग्दृशः परचेतसोऽदृश्यत्वात्, इत्याह–अत्र इत्यादि । अत्र तदभावतत्त्वज्ञाऽभाव
साधने अनुपलम्भमप्रमाणयन् मीमांसकः सर्वज्ञ आदिः यस्य वेदकर्त्रादेः स एव विशेषः
तस्य अभावे साध्ये कुतः प्रमाणयेत् ? न कुतश्चिदित्यर्थः । कुत एतत् ? इत्यत्राह–अभेदात्
अविशेषात् । तन्नानुमानमपि अशेषविदो बाधकम् ।


नाप्य960र्थापत्ति; तदभावमन्तरेणाऽनुपपद्यमानस्य प्रमाणषट्कविज्ञातस्य कस्यचिदप्यर्थस्याऽ
संभवात् । वेदप्रामाण्यस्य च सर्वज्ञे सत्येव उपपत्तेः । नहि गुणवतो वक्तुरभावे वचसः प्रामाण्यम्
इति तदपौरुषेयत्वप्रतिपेधावसरे प्रतिपादयिष्यते ।


नाप्युपमानं तद्बाधकम् । तत्खलु उपमानोपमेययोरध्यक्षत्वे सति गोगवयवत् सादृश्या
लम्बनमुदयमासादयति, नान्यथा अतिप्रसङ्गात् । नचाशेषपुरुषाः सर्वज्ञश्च केनचिद् दृष्टा येन
अशेषपुरुषवत् सर्वज्ञः सर्वज्ञवद्वाऽशेषपुरुषः इत्युपमानं स्यात् । तद्दृष्टौ वा तस्यैवाशेषज्ञत्व
प्रसङ्गात् कथमुपमानात् सर्वज्ञाभावः स्यात् ? यत इदं शोभेत–


नरा961न् दृष्ट्वा त्वसर्वज्ञान् सर्वानेवाधुनातनान् ।

तत्सादृश्योपमानेन शेषाऽसर्वज्ञसाधनम् ॥ १ ॥ इति ।

किञ्च, अशेषज्ञस्य अशेषप्रमातृशरीरसंस्थानवत् अविल962क्षणशरीरसंस्थानतयोपमेयता
स्यात्, इन्द्रियप्रभवप्रत्य963क्षेणार्थपरिच्छेदकतया, खरविषाणावन्नीरूपतया वा ? तत्राद्यविकल्पोऽ
नुपपन्नः; सर्वज्ञबाधाकरत्वाभावतः सर्वज्ञवादिनामनिष्टाऽसम्पादकत्वात् । नहि शरीरसंस्था
नस्य अशेषज्ञता तद्वादिभिरिष्यते, येन अशेषज्ञशरीरसंस्थानस्य इतरजनशरीरसंस्थानाऽवैलक्ष
ण्ये तद्वत्तस्य असर्वज्ञ964तापि स्यात् किन्त्वात्मनः, स चा965तोऽत्यन्तविलक्षण तत्कथं तदवैलक्षण्ये
तस्य असर्वज्ञतोपमानं स्यात् ? नह्यन्यस्य अन्येन सादृश्ये तद्विलक्षणेऽन्यत्र अदृष्टपूर्वे तद्
युक्तम् अतिप्रसङ्गात् ।


95

अथ इन्द्रियप्रभवप्रत्यक्षेणार्थपरिच्छेदकतया सर्वज्ञस्य सर्वपुरुषैः साम्यादुपमेयता । ननु
स्म966र्यमाणमेव वस्तु पुरोवर्तिपदार्थसादृश्योपाधि, सादृश्यं वा तेन विशेषितमुपमानस्य प्रमेयम् ।
स्मरणञ्च अनुभूत एव विषये प्रवर्तते नान्यत्र अतिप्रसङ्गात् । नचाशेषपुरुषाः तद्वर्तीनि चेतांसि
च केनचिदसर्वविदाऽनुभूतानि यतः स्मर्येरन् । नाप्यननुभूतानां तेषामसर्वज्ञत्वसाधारणः
कश्चिद्धर्मो निश्चेतुं शक्यः यद्वशात् अहमिव सर्वदा सर्वे पुरुषाः प्रतिनियतमर्थमिन्द्रियैः
पश्यन्ति
, सर्वपुरुषवद्वा अहम् इति असर्वज्ञतयोपमीयेरन् । यदपि सत्त्वादिकं क्वचिदसर्वज्ञे
दृष्टं तदपि नासर्वज्ञत्व एव साधारणम् स967र्वज्ञेऽपि सत्त्वाद्यविरोधात्; अन्यथा सर्वपुरुषाणामवेदा
र्थज्ञत्वं मूर्खत्वादि वा तद्वद् उपमीयेत अविशेषात् । यथा च न कश्चिदबालिशो मवये सत्त्वा
दिधर्मदर्शनात् घटादीनामपि गवयसादृश्यमुपमिमीते तथा सर्वपुरुषाणां सत्त्वादिधर्मदर्शनात्
नाऽसर्वज्ञत्वमिति । एतेन खरविषाणवत् सर्वज्ञः सर्वज्ञवद्वा खरविषाणम् इति नीरूपतया
सर्वज्ञस्य उपमेयता प्रत्युक्ता । तन्नोपमानमपि तद्बाधकम् ।


नाप्यागमः; स हि पौरुषेयः, अपौरुषेयो वा तद्बाधकः स्यात् ? न तावदपौरुषेयः;
तस्यागमविचारावसरे प्रपञ्चतः प्रतिषेत्स्यमानत्वात्, कार्य एवार्थे भवद्भिः प्रामाण्याभ्युप
गमाच्च, स्वरूपेऽपि प्रामाण्येऽतिप्रसङ्गात् । नचाशेषज्ञाभावप्रतिपादकं किञ्चिद्वेदवाक्यमस्ति,
हिरण्यगर्भः सर्वज्ञः इत्यादिवेदवाक्यानां तत्सद्भावावेदकानामेवानेकशः
श्रवणात् । अथ कर्माऽर्थवादपरत्वात्तेषां न तत्सद्भावाऽऽवेदकत्वम्; कुतः पुनः तत्परत्वं तेषाम्
न पुनः तत्सद्भावावेदकत्वम् ? तस्य असत्त्वाच्चेत्; तदपि कुतः ? प्रमाणान्तरात्, तस्य968
कर्माऽर्थवादपरतया त969त्सद्भावानावेदकत्वाद्वा ? तत्राद्यपक्षोऽयुक्तः; सर्वज्ञाऽसत्त्वग्राहिणः प्रमा
णान्तरस्य प्रागेव प्रतिक्षिप्तत्वात् । द्वितीयपक्षे तु अन्योन्याश्रयः; तथाहि–सर्वज्ञाऽसत्त्वसिद्धौ
आगमस्य कर्मार्थवादपरतया त970त्सद्भावानावेदकत्वसिद्धिः, तत्सिद्धौ च सर्वज्ञाऽसत्त्वसिद्धिरिति ।
पौरुषेयोऽप्यागमः कि सर्वज्ञप्रणीतः, तदभावविधातृपुरुषप्रणीतः, अन्यप्रणीतो वा तद्बाधकः
स्यात् ? यदि सर्वज्ञप्रणीतः; कथं तद्बाधकः विरोधात् ? द्वितीयपक्षेऽपि अशेषज्ञाभावप्रति
पादकागमप्रणेता सकलं सकलज्ञविकलं जगत् प्रतिपद्यते, न वा ? यदि प्रतिपद्यते; तदा युक्तः
तत्प्रणीतागमः प्रमाणम्, न पुनरशेषज्ञस्य बाधकः, तथाप्रतिपद्यमानस्य तत्प्रणेतुरेव अशेषज्ञत्व
प्रसिद्धेः । अथ न प्रतिपद्यते; कथं तर्हि प्रमाणम् अज्ञानमहामहीधरभराक्रान्तपुरुषप्रणीतत्वात्
तथाविधरथ्यापुरुषप्रणीतागमवत् ? अन्यप्रणीतपक्षेऽपि एतदेव दूषणद्वयं द्रष्टव्यम् । तन्ना
गमोऽपि सर्वज्ञबाधकः ।


नाप्यभावप्रमाणम्; तस्याग्रे विस्तरतो निराकरिष्यमाणत्वात् । अस्तु वा तत्; तथापि
96 प्रत्यक्षादिप्रमाणपञ्चकविनिवृत्तिरूपं तद्भवद्भिरिष्टम्; तन्निवृत्तिश्च प्रसज्यप्रतिषेधरूपा, पर्युदास
रूपा वा ? प्रसज्य971प्रतिषेधपक्षे तस्य अर्थपरिच्छित्तिहेतुत्वानुपपत्तिः नीरूपत्वात् । यन्नीरूपम्
तन्नार्थपरिच्छित्तिहेतु यथा गगनेन्दीवरम्, नीरूपञ्च प्रसज्यप्रतिषेधरूपमभावप्रमाणमिति ।
परिच्छित्तिहेतुत्वं हि भावधर्म972 स कथं सर्वथा तुच्छस्वभावाऽभावस्य स्याद् विरोधात् ? तद
भावाच्च कथं प्रमाणता परिच्छित्तौ साधकतमस्य प्रमाणव्यपदेशात् ? प्रमाणाऽभावरूपत्वाच्चाऽ
भावस्य तद्व्यपदेशानुपपत्तिः । यो यदभावः स तद्व्यपदेशं नार्हति यथा ब्राह्मणाऽभावो
न ब्राह्मणव्यपदेशम्, प्रत्यक्षादिप्रमाणाभावश्चाभावप्रमाणमिति ।


पर्युदासपक्षेऽपि प्रमाणपञ्चकाऽभावशब्दाभिधेयं भावान्तरं वाच्यम्, तच्च973 प्रमाणपञ्चक
विनिर्मुक्तात्मा, तदन्यज्ञानं वा स्यात् ? प्रथमपक्षे कि सर्वथा प्रमाणपञ्चकेन विनिर्मुक्त आत्मा,
निषेध्यविषयप्रमाणपञ्चकेन वा ? यदि सर्वथा; कथं सर्वज्ञाभावपरिच्छेदकत्वम् प्रमाणमन्त
रेण प्रमेयपरिच्छेदकत्वानुपपत्तेः ? अन्यथा प्रमाणपरिकल्पनानर्थक्यप्रसङ्गः । द्वितीयपक्षेऽपि
कि भवदीय आत्मा सर्वज्ञविषये प्रमाणपञ्चकविनिर्मुक्तत्वात् तदभावं प्रसाधयेत्, सर्वस्य वा ?
तत्राद्यपक्षोऽनुपपन्नः, परचेतोवृत्तिविशेषैरनेकान्तात् । द्वितीयपक्षोऽप्ययुक्तः, सर्वस्य974 प्रतिपत्तुः
तद्विषये तद्विनिर्मुक्तत्वस्य असर्वविदा प्रतिपत्तुमशक्यत्वात् । तन्न प्रमाणपञ्चकविनिर्मुक्तात्मपक्षः
क्षेमङ्करः । नापि तदन्यज्ञानपक्षः; यतो निषेध्यात् सर्वज्ञत्वात् अन्यत् किञ्चिज्ज्ञत्वं तद्विषयं
ज्ञानं तदन्यज्ञानम्; तच्च कि क्वचित् कदा975चित्कस्यचित् सर्वज्ञत्वाभावं प्रसाधयेत्, सर्वत्र
सर्वदा सर्वस्य वा ? प्रक्षमपक्षे सिद्धसाध्यता, यत्र यदा यस्य किञ्चिज्ज्ञत्वसिद्धिः तत्र तदा
तस्यासर्वज्ञत्वसिद्धेरभ्युपगमात् । द्वितीयपक्षस्तु श्रद्धामात्रगम्यः, कालत्रयत्रिलोकस्थप्राणिनाम
साक्षात्करणे तत्र किञ्चिज्ज्ञत्वप्रतिपत्तेरनुपपत्तित सर्वत्र सर्वदा सर्वस्याऽसर्वज्ञत्वसिद्धेरप्यनुप
पत्तेः । तन्नाभावप्रमाणमपि अशेषविदो बाधकम्, इति सिद्धं सुनिश्चितासंभवद्बाधकप्रमाणत्वं
निखिलातीतानागतवर्तमानार्थसाक्षात्कारिणोऽतीन्द्रियप्रत्यक्षस्य ।


यदप्युक्तम्976अतीतकालादिपरिगतं वस्तु स्वेन977 स्वेन रूपेण प्रतिभासते इत्यादि; तदप्य
सारम्; यत स्वेनैव तत्प्रतिभासते । कथं तर्हि अवर्तमानतया प्रतिभासमा978नस्यास्य प्रत्यक्षता युक्ता
इति चेत् ? परिस्फुटतयाऽर्थस्य ग्राहकत्वात्, नहि सन्निहितदेश-कालतयार्थप्रतिभासः प्रत्यक्षलक्ष
णम्, स्वोत्सङ्गस्थबालकशरीरे व्याहारादिलिङ्गतो जीवसद्भावावभासस्यापि प्रत्यक्षताप्रसङ्गात् ।
कि तर्हि ? परिस्फुटतयार्थप्रतिभास, स चेत् अतीतादेरप्यर्थस्यास्ति कथन्न तस्य प्रत्यक्षता ? यथा
97 च इन्द्रियप्रभवप्रत्यक्षस्य देशविप्रकृष्टार्थग्रहणेऽपि परिस्फुटप्रतिभासत्वन्न विरुद्ध्यते तथा अती
न्द्रियप्रत्यक्षस्य कालविप्रकृष्टार्थग्रहणेऽपि । न चैवम् अतीतादेर्वर्तमानतापत्तिः वर्तमाना979र्थग्रहणग्रा
ह्यत्वात् वर्तमानार्थवत् इत्यभिधातव्यम्; दूरदेशार्थस्य अदूरदेशार्थग्रहणग्राह्यत्वात् अदूरदेशार्थ
वत् अदूरदेश980ताप्राप्तेः ।


एतेन इदमिदानीमिह सत् इत्यस्यां संविदि वस्तुसत्तावत् तत्प्राक्-प्रध्वंसाभावौ प्रतिभा
सेते न वा' इत्याद्यपि प्रत्याख्यातम्; यथैव हि इन्द्रियप्रभवप्रत्यक्षे यद्देशविशिष्टं वस्तु नीलरूपम
नीलरूपं वा भावरूपमभावरूपं वा तद्देशविशिष्टतयैव प्रतिभासते, तद्वत् सर्वज्ञज्ञानेऽपि यद्देश
कालाकारविशिष्टं वस्तु भावरूपमभावरूपं वा तद्देशकालाकारतयैव प्रतिभासते, अतः कथं
युगपज्जन्ममरणादिव्यपदेशप्रसङ्गः प्रतिनिय981तार्थस्वरूपाऽप्रतीतिर्वा यतः सर्वज्ञताऽस्य सुव्य
वस्थिता न स्यात् ? भविष्यत्कालस्य हि वस्तुस्वभावस्य वर्तमानवस्तुस्वभावतया प्रतीतौ
युगपज्जन्ममरणादिव्यपदेशप्रसङ्गः प्रतिनियतार्थस्वरूपाप्रतीतिश्च स्यात् न पुनर्यथाकालं तत्प्र
तीतौ । तन्नेदमपि अशेषविदो बाधकम् । अतः सिद्धं982 सुनिश्चिताऽसंभवद्बाधकप्रमाणत्वमशेष
ज्ञसद्भावप्रसाधकम् ।


ईश्वरवादे नैयायिकस्य पूर्वपक्ष–


ननु न सुनिश्चिताऽसभवद्बाधकप्रमाणत्वात् सर्वज्ञसद्भावः सिद्ध्यति, किन्तु क्षित्यादिकार्य
कर्तृत्वात् । न चास्य तत्कर्तृत्वमसिद्धम्; तत्प्रसाधकस्यानु
मानस्य सद्भावात् । तथाहि–क्षित्यादिकं बुद्धिमत्कर्तृपू983र्वकं
कार्यत्वात् घटादिवत् । न चायमसिद्धो हेतुः; सावयवत्वेन
क्षित्यादेः कार्यत्वप्रसिद्धेः । तथाहि–कार्यम् उर्वीपर्वततर्वादि, सावयवत्वात्, तद्वत् । नापि
98 विरु984द्धः, निश्चितकर्तृके घटादौ प्रसिद्धत्वात् । नाप्यनैकान्तिक, निश्चिताकर्तृकेभ्यो व्योमादिभ्यो
व्यावर्तमानत्वात् । नापि कालात्ययापदिष्ट, प्रत्यक्षागमाभ्यामबाधितविषयत्वात् । नापि
प्रकरणसमः, प्रकरणचिन्ताप्रवर्त्तकस्य हेत्वन्तरस्याऽसंभवात् । तदयं निरवद्यो हेतुर्बुद्धिमन्तं
कर्त्तारं साधय985न् पक्षधर्मताबलात् जगनिर्माणसमर्थ सर्वज्ञत्वादिवि986शेषणविशिष्टं साधयति ।


स्यान्मतम्–इष्ट987विघातकृदयं हेतुः, तथाहि–सर्वज्ञः सर्वकर्त्ता नित्यज्ञानेच्छाप्रयत्नवान्
अशरीरो बुद्धिमानभ्युपगम्यते, दृष्टान्ते च घटादौ तद्विलक्षणः कर्त्तोपलभ्यते, दृष्टान्तदृष्टधर्मा
नुसारेण च अदृष्टेऽर्थे प्रतिपत्तिर्भवतीति सिसा988धयिषितधर्मविपर्ययसाधनाद्विरुद्धो हेतुः । दृष्टा
99 न्तश्च साध्यविकलः; घटादौ तथाभूतस्य बुद्धिमतोऽभावादिति । तदसमीचीनम्; यतो न साध्य
साधनयोर्विशेषेण व्याप्तिः सकलानुमानोच्छेदप्रसङ्गात्, किन्तु सामान्येन । अन्वयव्यतिरेकाभ्यां
हि व्याप्तिरवधार्यते, तौ च आनन्त्याद् व्यभिचाराच्च विशेषेषु ग्रहीतुं न शक्यौ, अतो बुद्धि
मत्कर्तृपूर्वकत्वमात्रेणैव कार्यत्वस्य व्याप्तिः प्रत्येतव्या, न शरीरित्वादिना । न989 खलु कर्तृत्व
सामग्र्यां शरीरं प्रविशति, तद्व्यतिरेकेणाऽपि ज्ञान-चिकीर्षा-प्रयत्नाश्रयत्वेन990 स्वशरीरप्रेरणे कर्तृ
त्वोपलम्भात् । अकिञ्चित्करस्यापि शरीरस्य सहचरमात्रेण कारणत्वे वह्निपैङ्गिल्यस्यापि धूमं प्रति
कारणत्वप्रसङ्गः स्यात् । विद्यमानेऽपि हि शरीरे ज्ञानादीनां समस्तानां व्यस्तानां वा991ऽभावे कुम्भ
कारादावपि कर्तृत्वं नोपलभ्यते । प्रथमं हि कार्योत्पादककारककलापज्ञानं प्रादुर्भवति, ततः तत्क
रणेच्छा, ततः प्रयत्नः, ततः फलनिष्पत्तिः
इत्यमीषां त्रयाणामेव कार्यकर्तृत्वे सर्वत्राऽव्यभिचारः ।


सर्वज्ञता चास्याऽखिलकार्यव्रातस्य कर्तृत्वात् सिद्धा, यो यस्य कर्ता स तदुपादानाद्य
भिज्ञः यथा घटोत्पादकः कुम्भकारो मृदृ992ण्डाद्यभिज्ञः, जगतः कर्त्ता चायं भगवान् ईश्वर इति ।
उपादानं हि जगतश्चतुर्विधाः परमाणवः, निमित्तकारणम् अदृष्टादि, भोक्ता आत्मा, भोग्यं
तनुकरणादि । न चैतदनभिज्ञस्य क्षित्यादौ कर्तृत्वं संभवतीति । 993ते च त994दीयज्ञानादयो
100 नित्या, कुम्भकारादिज्ञानादिभ्यो विलक्षणत्वात् । न च साध्य-दृष्टान्तधर्मिणोः सर्वथा साम्यं
संभवति, सकलानुमानोच्छेदप्रसङ्गात्, नहि यादृशोऽग्निर्महानसे दृष्टः तादृश एव पर्वतेऽस्ति ।


एकत्वञ्च क्षित्यादिकर्त्तुः अनेककर्तॄणामप्येकाधिष्ठातृनियमितानां प्रवृत्त्युपपत्तेः सिद्धम् ।
प्रसिद्धा हि स्थपत्यादीनामेकसूत्रधारनियमितानां महाप्रासादादिकार्यकरणे प्रवृत्तिः । न चेश्व
रस्य इच्छादीनाञ्च एकरूपत्वे नित्यत्वे च सनि कार्याणां कादाचित्कत्वं वैचित्र्यञ्च विरोध
मध्यास्ते, कादाचित्कविचित्रसहकारिलाभेन सामग्रीवैचित्र्यसिद्धौ तेषां तद्विरोधाऽसंभवात् ।


ननु क्षित्यादेर्बुद्धिमद्धेतुकत्वे अक्रियादर्शिनोऽपि जीर्णकूपप्रासादादिवत् कृतबुद्धिरुत्पद्येत,
न चोत्पद्यते, अतो दृष्टान्तदृष्टस्य हेतोर्धर्मिण्यभावादसिद्धत्वम्, तदप्ययुक्तम्; यत प्रामाणि
कम्, इतरं वाऽपेक्ष्येदमुच्यते ? यदीतरम्; कथन्न सकलानुमानोच्छेद धूमादावप्यसिद्धत्वा
नुषङ्गात् ? प्रामाणिकस्य तु नासिद्धत्वम्, कार्यत्वस्य बुद्धिमत्कारणपूर्वकत्वेन प्रतिपन्नाऽविना
भावस्य क्षित्यादौ प्रसिद्धेः, पर्वतादौ धूमादिवत् । न च यावन्त पदार्था कृतकाः तावन्तः
कृतबुद्धिमात्मन्याविर्भावयन्ति इति नियमोऽस्ति, खात995-प्रतिपूरितायां भुवि अक्रियादर्शिन
कृतबुद्धेरुत्पादाभावात् । न च अकृष्टप्रभवै स्थावरादिभिर्व्यभिचारो बुद्धिमत्कारणाभावेऽपि
स्वसामग्रीतस्तेषामुत्पत्तिप्रतीतेरित्यभिधातव्यम्, तेषां पक्षीकृतत्वात्, पक्षे एव साधनव्य
भिचारे च न कश्चिद्धेतुर्गमक स्यात् इत्यनुमानवार्तोच्छेद । बुद्धिमत्कारणाभावश्चात्र अनुप
लब्धितो भवता प्रसाध्यते, एतच्चायुक्तम्, दृश्यानुपलब्धेरेव अभावसाधकत्वोपपत्ते, न चेयमत्र
संभवति क्षित्यादिकर्त्तुरदृश्यत्वात् । अनुपलब्धिमात्रस्य996 तु अभावसाधकत्वे अतिप्रसङ्ग ।


ननु भगवतः परमकारुणिकस्य परार्थप्रवृत्तेर्जगन्निमित्तत्वे दुःखोत्पादकशरीराद्यारम्भकत्व
विरोध, तदविरोधे997 वा परमकारुणिकत्वा998नुपपत्ति, इत्यपि मनोरथमात्रम्, धर्माऽधर्मसहकारिण
कर्तृत्वात्, यच्छरीराद्यारम्भे धर्मोऽधर्मो वा सहकारी तस्य सुखाऽसुखरूपफलोपभोगाय तथा
विधशरीरादिकमारभते । भगवतो हि संसारात् प्राणिनो मोचयिष्यामि इति परोपकारार्थैव
प्रवृत्ति । मुक्तिश्च एषां धर्माधर्मप्रक्षयात्, तत्प्रक्षयश्च फलोपभोगं विना न999 घटते इति करुणा
वतोऽपि तद्विधाने प्रवृत्तिरविरुद्धा । यदि धर्माधर्मवशात्तस्य प्रवृत्ति, तर्हि ताभ्यामेवाऽखिल
कार्योत्पत्तिरस्तु किमीश्वरकल्पनया ? इत्यप्यसाधीय, तयोर1000चेतनयो चेतनाधिष्ठितयोरेव स्व
101 कार्ये प्रवृत्त्युपपत्तेः । तथाहि–धर्माधर्मौ चेतनाधिष्ठितौ स्वकार्ये प्रवर्तेते, अचेतनत्वात्, वास्या
दिवत् । न चास्मदाद्यात्मैव अधिष्ठापको युक्तः; तस्य अदृष्टपरमाण्वादिविषयविज्ञानाऽभावात् ।
नाप्यचेतनस्य अकस्मात्प्रवृत्तिः, अन्यथा निष्पन्नेऽपि कार्ये तत्प्रवर्तेत विवेकशून्यत्वादिति ।


ईश्वरस्य जगत्कर्तृत्वनिराकरणम्–


अत्र प्रतिविधीयते । यत्तावत्–क्षित्यादेर्बुद्धिमद्धेतुकत्वसिद्धये कार्यत्वं साधनमुक्तम्; 1001तत्किं
सावयवत्वम्, प्रागसतः स्वकारणसत्तासमवायः, कृतम् इति प्रत्यय
विषयत्वम्, विकारित्वं वा स्यात् ? यदि सावय1002वत्वम्; तदिदमपि कि
मवयवेषु वर्तमानत्वम्, अवयवैरारभ्यमाणत्वम्, प्रदेशवत्त्वम्, साव
यवम्
इति बुद्धिविषयत्वं वा ? तत्राद्यपक्षे अवयवसामान्येनाऽनेकान्तः, तद्धि अकार्यमपि
अवयवेषु वर्तत इति । द्वितीयपक्षे तु साध्याऽविशिष्टत्वम्; यथैव हि क्षित्यादेः कार्यत्वं साध्यम्
एवं परमाण्वाद्यवयवारभ्यत्वमपि । तृतीयपक्षेऽपि आकाशादिनाऽनेकान्तः, तस्य प्रदेशवत्त्वेऽपि
अकार्यत्वात्, प्रसाधयिष्यते चास्य प्रदेशवत्त्वं षट्पदार्थपरीक्षाप्रघट्टके । सावयवम् इति बुद्धि
विषयत्वमपि अनेनैवानैकान्तिकम् । न च निरवयवत्वेऽप्यस्य सावयवघटाद्यर्थसंयोगाद् घटा
काशं पटाकाशम्
इति सावयवप्रतीतिगोचरत्वसंभवात् औपचारिकं तत्तत्र इत्यभिधातव्यम्;
निरवयव1003त्वेऽस्य व्यापित्वविरोधात् परमाणुवत् । तथा च व्यापित्वमप्यस्य औपचारिकमेव स्यात् ।
नापि प्रागसतः स्वकारणसत्तासम्बन्धः कार्यत्वम्; तत्सम्बन्धस्य समवायाख्यस्य नित्यत्वेन
कार्यलक्षणत्वाऽयोगात्, तल्लक्षणत्वे वा कार्यस्यापि क्षित्यादेस्तद्वन्नित्यत्वानुषङ्गात् कस्य बुद्धि
मद्धेतुकत्वं साध्येत ? निराकरिष्यते चैतल्लक्ष1004णं कार्यत्वं विस्तरतः षट्पदार्थपरीक्षायामिति ।
कृत1005म् इति प्रत्ययविषयत्वमपि न तल्लक्षणम्; खननोत्सेचनादिना कृतमाकाशम् इत्यका
र्येऽप्याकाशे तस्य गतत्वात् । विकारित्वस्य च कार्यत्वे महेश्वरस्यापि कार्यत्वप्रसङ्गः । सतो वस्तु
नोऽन्यथाभा1006वित्वं हि विकारित्वम्, तच्च ईश्वरेऽप्यस्तीति अस्याप्यपरबुद्धिमद्धेतुकत्वप्रसङ्गाद् अन
वस्था स्यात् । अविकारित्वे चास्य कार्यकारित्वमतिदुर्घटम् । अतः कार्यस्वरूपस्य विचार्यमाण
स्यानुपपत्तेः असिद्धो हेतुः ।


किञ्च, कादाचित्कं वस्तु लोके कार्यत्वेन प्रसिद्धम्, जगतस्तु महेश्वरवत् सदा सत्त्वात् कथं
कार्यत्वम् ? तदन्तर्गतानां तरु-तृणादीनां कार्यत्वात् तस्यापि कार्यत्वे महेश्वरान्तर्गतानां बुद्ध्या
दीनां परमाण्वाद्यन्तर्गतानां पाकजरूपादीनाञ्च कार्यत्वात् महेश्वरादेरपि कार्यत्वानुषङ्गः, तथा
च अस्याप्यपरबुद्धिमद्धेतुकत्वप्रसङ्गात् अनवस्था अपसिद्धान्तश्चानुषज्यते ।


अस्तु वा यथाकथञ्चिज्जगतः कार्यत्वम्; तथापि किं कार्यमात्रमत्र हेतुत्वेन विवक्षितम्,
102 तद्विशेषो वा ? यदि कार्यमात्रम्; कथं बुद्धिमत कारणविशेषस्य अतोऽनुमानम् ? कारण
मात्रेणैवास्याऽविनाभावप्रसिद्धे तन्मात्रस्यैवातोऽनुमानं स्यात्, तत्र चाऽविप्रतिपत्तिः । हेतोर
किञ्चित्क1007रत्वं विरुद्धत्वं वा, बुद्धिमत्कर्तृपूर्वकत्वे साध्ये कारणमात्रस्यैव प्रसाधनात् ।


ननु यथा तार्ण-पार्णादिविशेषान् परिहृत्य अग्निमात्रस्य धूममात्रादनुमानम्, एवं कार्य
मात्राद् बुद्धिमत्कारणमात्रस्यानुमानात् कथं विरुद्धत्वमत्र ? इत्यप्यसमीचीनम; अनुमानस्य
प्रतिबन्धावष्टम्भादेव प्रवृत्तेः, प्रतिबन्धश्च कार्यमात्रस्य कारणमात्रेणैव प्रतिपन्न धूममात्रस्याग्नि
मात्रेणेव, न तु बुद्धिमता । न च धूममात्रमपि अग्निमात्रस्य गमकम्; अपनीतपावकापवरकधूमे
नाऽनेकान्तात्, अपि तु उच्छलद्वहलपताकाकारविशिष्टम्, तद्वत् कार्यत्वमपि कृतबुद्ध्युत्पादकं
बुद्धिमतो गमकम्, न सर्वम् । सारूप्यमात्रेण गमकत्वे च वाष्पादेरपि अग्निं प्रति गमकत्व
प्रसङ्ग, महेश्वरं प्रति आत्मत्वादे संसारित्वकिञ्चिज्ज्ञत्वाऽखिलजगदकर्तृत्वानुमापकत्वानुषङ्ग,
वस्तुत्वादे परमाणुवत् जगदबुद्धिमत्पूर्वकत्वप्रयोजकत्वप्रसङ्गश्च स्यात् तुल्याक्षेपसमाधानत्वात् ।
ततो वाष्प-धूमसंस्थानयोः केनचिदंशेन साम्येऽपि यथा कश्चिद्विशेषोऽभ्युपगम्यते, यत्सद्भावात्
धूमोऽग्नि गमयति न वाष्पादि, तथा क्षित्यादीतरकार्यत्वसंस्थानयोरपि ।


अथ कार्यत्वविशेषो हेतु, यो बुद्धिमत्कर्त्रन्वयव्यतिरेकानुविधायित्वेन निश्चितः; सोऽ
सिद्ध, तादृग्भूतस्यास्य क्षित्यादावभावात् । भावे1008 वा जीर्णकूपप्रासादादिवद् अक्रियादर्शिनोऽपि
कृतबुद्ध्युत्पादप्रसङ्ग । समारोपान्नेति चेत्, सोप्युभयत्र अविशेषत किन्न स्यात् कर्त्तुरुभयत्रा
तीन्द्रियत्वाऽविशेषात् ? अथ प्रामाणिकस्य अस्त्येवात्र कृतबुद्धि, ननु केन प्रमाणेन प्रमातुः
प्रामाणिकत्वम्–अनेना1009नुमानेन, अनुमानान्तरेण, आगमेन, लोकप्रतीत्या वा ? तत्राद्यपक्षे
अन्योन्याश्रय; तथाहि–सिद्धविशेषणाद्धेतोरस्योत्थानम्, तदुत्थाने च हेतोर्विशेषणसिद्धिरिति ।
अनुमानान्तरञ्च नास्त्येव, सत्त्वे वा तस्यापि सविशेषणादेव हेतोरुत्थानम्, तत्राप्यनुमानान्त
राद्विशेष1010णसिद्धौ अनवस्था । प्रथमानुमानात्तत्सिद्धौ इतरेतराश्रय । आगमोऽपि युत्तयनु
गृहोत, अननुगृहीतो वा प्रमातु प्रामाणिकत्वं प्रसाधयेत् ? न तावदननुगृहीत, अतिप्र
सङ्गात् । नाप्यनुगृहीत, तदनुग्राहिकाया युक्तेरेवाऽसंभवात् । उक्तयुक्तेश्च आवर्तने चक्रक
प्रसङ्ग–अक्रियादर्शिनोऽपि कृतबुद्ध्युत्पादकत्वलक्षणकार्यत्वानुमानस्य हि सिद्धौ तेनागमस्य
अनुग्रहसिद्धि, तदनुगृहोताच्चागमात् प्रमातु प्रामाणिकत्वसिद्धि, तत्सिद्धौ च अक्रियाद
र्शिनोऽपि कृतबुद्ध्युत्पादकत्वलक्षणकार्यत्वानुमानसिद्धिरिति । नापि केनचित् स्रष्ट्रा जगत्
सृष्टम्
इति लोकप्रतीत्या प्रामाणिकत्वसिद्धिः, अस्या निर्मूलत्वात् न कदाचिदनीदृशं जगत्
इति प्रतीतिवत्, वेदे मीमांसकस्य अकृत्रिमत्वप्रतीतिवच्च । न ह्यस्या मूलमिदमनुमानम्,
लिङ्ग-लिङ्गिसम्बन्धप्रतिपत्तेः प्रागभा1011वत तदुत्थानस्यैवाऽसंभवात् । अन्योन्याश्रयश्च, अने
103 नानुमानेनास्याः समूलत्वसिद्धौ सिद्धविशेषणाद्धेतोरस्यानुमानस्योत्थानसिद्धिः, तत्सिद्धौ चास्याः
समूलत्वसिद्धिरिति । नाप्यागमः; तत्रापि इतरेतराश्रयत्वानुषङ्गात्–प्रमाणभूतागममूलत्व
सिद्धौ हि अस्याः सातिशयपुरुषसिद्धिः, तत्सिद्धौ च तत्कृतत्वेन प्रमाणभूतागममूलत्वसिद्धि
रिति । ततः क्षित्यादेः कृत्रिमत्वप्रतीतिः लोकप्रवादपरम्परायाता न प्रमाणबलप्रभवा ।


ननु कृतकेन कृतबुद्ध्युत्पादकेनैव भाव्यम् इति नास्त्ययं नियमः, खात्त-प्र1012तिपूरितायां
भूमौ कृत्रिममणिमुक्ताफलादौ च अक्रियादर्शिन कृतबुद्धेरुत्पादाऽभावात्; इत्यप्यसमीक्षिता
भिधानम्; तत्र अकृ1013त्रिमभूभागादिसंस्थानसारूप्यस्य कृतबुद्धेरनुत्पादकस्य सद्भावतः तदनु
त्पादस्योपपत्तेः । न च क्षित्यादावपि अकृत्रिमसंस्थानसारूप्यं संभवति, अकृत्रिमसंस्थानस्यैव
भवताऽनभ्युपगमात्, अभ्युपगमे वा अपसिद्धान्तप्रसङ्गः स्यात् । त1014तोऽक्रियादर्शिनोऽपि कृत
बुद्ध्युत्पादकः क्षित्याद्यसंभवी जीर्णकूपादौ दृष्टकर्तृककूपादिसजातीयत्वलक्षणो विशेषो भव
ताऽभ्युपगन्तव्यः, इति कथन्न असिद्धो हेतुः ?


सिद्ध्यतु वा; तथाप्यसौ विरुद्धः, घटादिवत् शरीरादिविशिष्टस्यैव बुद्धिमतोऽत्र प्रसाधनात् ।
न चैवं सकलानुमानोच्छेदः सर्वत्रैवं विरुद्धत्वोपपत्तेरित्यभिधातव्यम्; धूमाद्यनुमाने महानसे
तरसाधारणस्य अग्न्यादेः प्रतिपत्तिसंभवात् । अत्र प्येवं बुद्धिमत्सामान्यप्रसिद्धेर्न विरुद्धत्वमि
त्यप्ययुक्तम्; दृश्यविशेषाधारस्यैव तत्सामान्यस्य अतः प्रसिद्धेः नादृश्यविशेषाधारस्य, तस्य
स्वप्नेऽप्यप्रतीतेः खरविषाणाधारतत्सामान्यवत् । हेतुव्यापकत्वेनाप्रतिपन्नस्य गम्यत्वे च अभासुर
रूपोष्णस्पर्शवतोऽप्यग्नेः धूमात् प्र1015तीतिः स्यात् । ततः कार्यकारणभावविवेकं कुर्वता यादृशा
त्कारणात् यादृशं कार्यमुपलव्यं तादृशादेव तादृशमनुमातव्यम्, यथा यावद्धर्मात्मकाद्वह्नेः
यावद्धर्मात्मकस्य धूमस्योत्पत्तिः सुदृढप्रमाणात्प्रतिपन्ना तादृशादेव धूमात् तादृशस्यैवाग्नेरनु
मानम् । न च प्रासादादिकार्यवत् क्षित्यादिकार्येऽपि अतिशयतारतम्यप्रतीतेः तत्कर्त्तुरतिशय
वत्त्वसिद्धिः; तद्वदस्मादृशस्यैव कर्तुरतिशयवतः सिद्धिप्रसङ्गात् । क्षित्यादिनिर्माणे तस्यासाम
र्थ्यादन्यादृशोऽसौ सिद्ध्यति; इत्यप्ययुक्तम्; तत्र कर्त्रभावस्यैव एवं प्रसङ्गात्, अन्यादृशस्य
कर्त्तुः हेतुव्यापकत्वेन कदाचिदप्यप्रतीतेः । अव्यापकस्य च गम्यत्वे व्यापकमगम्यम्, अव्या
पकं तु गम्यम्
इति महन्न्या1016यकौशलम् ।


अथ परिशेषात् हेतुव्यापकत्वेन अखिलकारकपरिज्ञानाद्यतिशयवान् कर्तृविशेषः प्रसाध्यते,
न ह्यनवगतकारकसामर्थ्यः कार्यस्य कर्त्ता सर्वस्य सर्वकर्तृत्वप्रसङ्गात् । न चास्मदादेः क्षित्याद्य
शेषकारकसामर्थ्यावगमोऽस्ति परमाण्वादेरतीन्द्रियत्वात्, ततोऽशेषकारकप्रयोक्तृत्वलक्षणं कर्तृ1017
त्वं तस्य सिद्ध्यत् तच्छक्तिपरिज्ञानाद्यतिशयपूर्वकमेव सिद्ध्यति; इत्यप्यविचारितरमणीयम्;
प्रयोक्तृत्वस्य शक्तिपरिज्ञानाऽविनाभावाऽसिद्धेः 1018सुप्तमत्तप्रमत्ताद्यवस्थायां वागादिहेतूनां ताल्वा
104 दीनां शक्तिपरिज्ञानाऽभावेऽपि प्रयोक्तृत्वोपलम्भात् । अस्तु वा तदविनाभाव; तथापि न
समस्तकारकशक्तिपरिज्ञानं सिद्ध्यति, सूत्रधारादीनां धर्माद्यपरिज्ञानेऽपि प्रासादादौ कारक
प्रयोक्तृत्वोपलम्भात् । यथा च प्रारब्धकार्याऽनिष्पत्तेः सूत्रधारादीनां धर्माद्यशेषकारकाऽपरिज्ञानं
तथा ईश्वरस्यापि तदस्तु प्रारब्धाङ्कुरादिकार्याऽनिष्पत्तेस्तत्राप्यविशेषात् । तत्परिज्ञानेऽपि
उपभोक्तुरदृष्टवशात्तथा तद्विधानं सूत्रधारादावप्यस्तु, प्रतीतिविरोधोऽप्युभयत्राऽविशिष्टः । भवतु
चास्यैव तत्परिज्ञानम्; तथापि एक1019स्याखिलकारकाधिष्टातृत्वानुपपत्तिः, अनेकस्याऽपि अनेव
कारकाधिष्ठातृत्वोपपत्ते । न हि निखिलं कार्यमेकेनैव कर्त्तव्यम् एकनियमितैरनेकैर्वा
इति नियमोऽस्ति, अनेकधा कार्यकर्तृत्वोपलम्भात्–एकेन हि क्वचिदेकं कार्यं क्रियते यथा पट
कुविन्देन, क्वचित्त्वनेकं यथा घटघटीशरावादि कुम्भकारेण, अनेकञ्चानेकेन यथा घट-पट-मकुट
शकटादि कुलालादिना, क्वचिदनेकेनाप्येकं यथा उद्देहिकाभिर्वल्मीकम्, न खलु तासां कश्चिदे
कोऽधिष्ठाताऽस्ति । न च प्रासादादिकार्ये अनेकस्थपत्यादीनामेकसूत्रधाराधिष्ठितानामेव प्रवृत्ति;
प्रतिनियताभिप्रायाणामेकसूत्रधाराऽनधिष्ठितानामपि प्रवृत्त्यविरोधात् । एकसूत्रधाराधिष्ठिताने
कस्थपत्यादीना प्रवृत्त्युपलम्भाच्च जगतो महेश्वरैकाऽधिष्ठातृकल्पने अनेकोद्देहिकानामेकेनाऽनधि
ष्ठितानां प्रवृत्त्युपलम्भात् तस्य तेनाऽनधिष्ठितस्यापि प्रवृत्तिः किन्न स्यात् उभयप्रतीत्योः
प्रामाण्याऽविशेषात् ?


अकृष्ट1020प्रभवैस्तरुतृणादिभिर्व्यभिचारी चायं हेतु, द्विविधानि हि कार्याण्युपलभ्यन्ते,
कानिचिद् बुद्धिमत्पूर्वकाणि यथा घटादीनि, कानिचित्तु तद्विपरीतानि यथा अकृष्टप्रभववृक्षा
दीनि, इत्युभयप्रतीत्यो प्रामाण्येन उभयो सिद्धिसंभवात् । तेषां पक्षीकरणादव्यभिचारे 1021
श्याम तत्पुत्रत्वादितरपुत्रवत्
इत्यादेरपि गमकत्वप्रसङ्गान्न कश्चिद्धेतुर्व्यभिचारी स्यात्,
व्यभिचारविषयस्य सर्वत्रापि पक्षीकर्तुं शक्यत्वात् । ईश्वरबुद्ध्यादिभिश्च व्यभिचार; तेषां
कार्यत्वे सत्यपि समवायिकारणादीश्वराद् विभिन्नबुद्धिमत्कर्तृपूर्वकत्वाऽभावात् । दृष्टान्ते हि
घटादौ बुद्धिमत्कर्तृपूर्वकत्ववत् समवायिकारणाद्व्यतिरिक्तबुद्धिमत्कर्तृपूर्वक्त्वेनापि व्याप्तिः कार्य
त्वस्य प्रतिपन्ना । व्यतिरिक्तबुद्धिमत्कर्तृसद्भावाभ्युपगमे चा1022ऽनवस्था । न चैकस्यैव समवायि
निमित्तकारणत्वं युक्तं घटादौ तथानुपलम्भात्, तत्रानुपलब्धस्यापि कल्पने क्षित्यादेरबुद्धिमद्धेतु
कत्वं किन्न कल्प्येत अविशेषादिति ?


105

कालात्ययापदिष्टश्चायम्; अकृष्टप्रभवाङ्कुरादौ कर्त्रभावस्य अध्यक्षेणैवाध्यवसायात् अग्नेर
नुष्णत्वे साध्ये द्रव्यत्ववत् । ननु यद् दृश्यं सत् प्रत्यक्षेण नोपलभ्यते तस्य अतोऽभावः नान्यस्य;
अन्यथा आकाशादेरप्यभावः स्यात्, न चायं दृश्यः तत्कथमतोऽस्य अभावः स्यात्; इत्यप्यसुन्द
रम्; यतोऽस्य सिद्धे कुतश्चित्प्रमाणात्सद्भावे अदृश्यत्वेनाऽनुपलम्भः स्यात्, तत्सद्भावश्च अस्मा
देव, अन्यतो वा प्रमाणात् सिद्ध्येत् ? प्रथमपक्षे चक्रकम्–अतो हि तत्सद्भावे सिद्धे अस्याऽ
दृश्यत्वेनानुपलम्भः सिद्ध्येत्, तत्सिद्धौ च कालात्ययापदिष्टत्वाभावः, ततश्चास्मात् तत्सद्भावसि
द्धिरिति । द्वितीयोऽपि पक्षोऽनुपपन्नः; तत्सद्भावावेदकस्य प्रमाणान्तरस्यैवाऽभावात् ।


अस्तु वा तत्सद्भावः, तथापि अस्याऽदृश्य1023त्वे शरीरा1024भावः कारणम्, विद्यादिप्रभावः, जाति
विशेषो वा ? न तावत् शरीराभावः; अशरीरस्य कार्यकर्तृत्वा1025नुपपत्तेः । तथाहि–नेश्व1026रः क्षित्यादेः
कर्त्ता अशरीरत्वात्, मुक्तात्मवत् । ननु शरीरं कर्तृत्वसामग्र्यां न प्रविशति तदभावेऽपि ज्ञाने
च्छाप्रयत्नाश्रयत्वमात्रेण स्वशरीरप्रेरणे कर्तृत्वोपलम्भात्; तदसत्; शरीरसम्बन्धेनैव तत्प्रेर
णोपलम्भात्, तत्सम्बन्धो हि आत्मनः सशरीरत्वम्, तस्मिन्सत्येव स्वशरीरेऽन्यत्र वा कार्य
कर्तृत्वमुपपद्यते । शरीराभावे मुक्तात्मवज्ज्ञानाद्याश्रयत्वमप्यसंभाव्यम्; तदुत्पत्तावस्य निमित्त
कारणत्वात्, तत्कारणाभावेऽपि तदुत्पत्तौ मुक्तात्मनोऽपि तदुत्पत्तिप्रसङ्गः, बुद्धिमन्निमित्ताऽभावे
ऽपि वा क्षित्याद्युत्पत्तिप्रसङ्गः स्यात् । नित्यत्वात्तेषामदोषोऽयम्; इत्यप्यसुन्दरम्; ज्ञानादीनां
नित्यत्वेन क्वचिदप्यप्रतीतेः, ईश्व1027रज्ञानादयो न नित्याः ज्ञानादित्वात् अस्मदादिज्ञानादिवत् इत्य
नुमानविरोधाच्च । तेषां दृष्टस्वभावातिक्रमे वा भूरुहादीनामपि स स्यादविशेषात् । ततो
ज्ञानादीनां शरीरसम्पाद्यत्वमेवाऽभ्युपगन्तव्यम्, तत्कथमकिञ्चित्करं शरीरम्, यतः सहचर
मात्रेण कारणत्वे वह्निपैङ्गिल्यस्यापि धूमं प्रति कारणता प्रसज्येत ? न हि पैङ्गिल्यमात्रं धूमकार
णम् हरितालादौ तत्सद्भावेपि धूमानुत्पत्तेः । वह्निविशेषितस्य तद्धेतुत्वे तु न किञ्चिद्विरुद्धम्,
यथैव हि इन्धनसम्बद्धो वह्निर्धूमोत्पादकः नान्यः, तथा वह्निविशेषितं पैङ्गिल्यं तन्निबन्धनं
नान्यत् । विद्यादिप्रभावस्य च अदृश्यत्वहेतुत्वे कदाचिदसौ दृश्येत् । न खलु विद्याभृतां
तन्त्रादिमताञ्च शाश्वतिकमदृश्यत्वं दृष्टम् । इतरविद्याभृद्भ्योऽस्य वैलक्षण्याद् दृष्टस्वभावाति
क्रमेष्टौ जगतोऽपि इतरकार्यवैलक्षण्यात् तदतिक्रमेष्टिः किन्न स्यात् ? पिशाचादिवत् जातिविशे
षोऽस्याऽदृश्यत्वे हेतुः; इत्यप्यसुन्दरम्; एकस्य जातिविशेषाऽसंभवात् अनेकव्यक्तिनिष्ठत्वात्तस्य ।


106

अस्तु वाऽदृश्योऽसौ, तथापि सत्तामात्रेण, ज्ञानवत्त्वेन, ज्ञानेच्छाप्रयत्नवत्त्वेन, तत्पूर्वकव्या
पारेण, ऐश्वर्येण वा क्षित्यादे कारणं स्यात् ? प्रथमपक्षे कुम्भकारादेरपि तत्कारणत्वप्रसङ्गः सत्ता
मात्रस्य तत्राप्यविशेषात् । द्वितीयपक्षे तु योगिनामपि तत्कर्तृत्वानुषङ्गः । अथ योगिनां तथा
भूतमशेषार्थविषयं विज्ञानं नास्ति तेनाऽयमदोष; अस्य कुत1028 तत् सिद्धम् ? सर्वकर्तृत्वा1029ज्ञेत्,
अन्योन्याश्रय–सर्वज्ञत्वसिद्धौ हि सर्वकर्तृत्वसिद्धिः, तत्सिद्धौ च सर्वज्ञत्वसिद्धिरिति । तृतीय
पक्षोप्यसाम्प्रत; अशरीरस्य ज्ञानेच्छाप्रयत्नवत्त्वप्रतिषेधात् । व्यापारवत्त्वमपि अशरीरस्यास
म्भाव्यम्; व्यापारो हि कायकृत, वाक्कृतो वा स्यात् ? उभयमपि अशरीरे न सम्भवत्येव ।
न च क्स्यचिदपि एवंविधा प्रतीतिरस्ति यद् वचनत कायेन वाऽहमीशेनात्र प्रेरित इति ।
व्यापारश्च क्रिया, सा चाऽस्य दुर्घटा । तथाहि–निर्व्यापार ईश्वरः सर्वगतत्वात् आकाशवत्,
सक्रियत्वे चास्य अतादवस्थ्यानुषङ्गादनित्यत्वं स्यात्, स्वावस्थातोऽविचलद्रूपस्यैवार्थस्य नित्यै
करूपतोपपत्ते । न च परमाणुभिर्व्यभिचारः, तेषामपि परिणामाऽनित्यत्वस्येष्टे, ईश्वरस्यापि
तद्वत्तदिष्टौ अपरबुद्धिमद्धेतुकत्वानुषङ्गाद् अनवस्था, अन्यथा तेनैव कार्यत्वादेर्व्यभिचारः ।


प्रतिकार्यञ्चास्य एकदेशेन, सर्वात्मना वा व्यापारः स्यात् ? एकदेशेन चेत्; तर्हि यावन्ति
कार्याणि तावद्भिरेव ईश्वराऽवयवैर्भाव्यम् इति निरंशेश्वरप्रतिज्ञा हीय1030ते । सर्वात्मना व्यापारे
यावन्ति कार्याणि तावद्धा ईश्वरस्य भेदप्रसङ्गात् एकेश्वरप्रतिज्ञाक्षति । किञ्च, असौ येनैकेन
स्वभावेन एकं कार्यं करोति तेनैव तत्स्थित्यादिकं कार्यान्तरञ्च, स्वभावान्तरेण वा ? य1031दि तेनैव,
स्थित्युत्पत्तिविपत्तीनां कार्यान्तराणाञ्च क्रम वैचित्र्यञ्च न स्यात् । स्वभावभेदे वा1032ऽनित्यत्वम् ।


ऐश्वर्यमपि ज्ञातृत्वम्, कर्तृत्वम्, अन्यद्वा स्यात् ? ज्ञातृत्वञ्चेत्, तत्कि ज्ञातृत्वमात्रम्,
सर्वज्ञातृत्वं वा ? तत्राद्यपक्षे ज्ञातैव असौ स्यान्नेश्वर, न हि यो यज्जानाति स तत्र ईश्वर
इत्युच्यते अन्यज्ञातृवत् । द्वितीयपक्षेऽपि अस्य सर्वज्ञत्वमेव स्यात् नैश्वर्यम् सुगतादिवत् ।
अथ कर्तृत्वम्; तर्हि कुम्भकारादीनां बहुप्रकारकार्यकर्तृणामैश्वर्यप्रसङ्गः । नाप्यन्यत्; इच्छा
प्रयत्नव्यतिरेकेण अन्यस्य ऐश्वर्यनिबन्धनस्य ईश्वरेऽभावात् । अथ तयोरेव तत्र तन्निबन्धनत्व
मिष्यते, नन्वत्रापि ताभ्यां क्रोडीकृतं सर्वम्, किञ्चिद्वा ? सर्वस्य क्रोडीकारे युगपत्सर्वमुत्पद्येत् ।
किञ्चिच्चेत्; तर्हि इच्छाप्रयत्नविषयस्य क्रमिकत्वे कथमेकरूपत्वं तयो स्यात् ? किञ्च, इष्यमाणार्था
वच्छेदेन इच्छोत्पद्यते, न चोत्तरकालभाव्यात्ममनसंयोगजज्ञानविषया1033कारं विना तत्र नियत
विषयमात्मानमप्यसौ स्वीकर्त्तुं समर्थ ।


107

किञ्च, अस्य सिसृक्षासञ्जिहीर्षे किं युगपद् भवतः, क्रमेण वा ? युगपद्भावे सृष्टि-संहा
रयोः यौगपद्यप्रसङ्गः । क्रमेण उत्पत्तौ कारणं वाच्यम्, कारणापेक्षायाञ्च नित्यत्वक्षतिः । अथ
नित्यमपि इच्छाप्रयत्नादिकं विचित्र1034सहकारिसन्निधानात् कार्यवैचित्र्यं विदधाति, ननु ते1035 सह
कारिणोऽतदायत्ताः, तदायत्ता वा ? अतदायत्तत्वे तैरेव कार्यत्वादेर्व्यभिचारः । तदायत्तत्वे
तदैव ते कुतो न भवन्ति ? तद्धेतूनामभावादिति चेत्; तेऽपि तदायत्ता न वा इत्यादि
दूषणं तदवस्थम् इत्यनवस्था । किञ्च, एते सहकारिणः तस्योपकारकाः, न वा ? यद्यनुपका
रकाः; कथं सहकारिणः अतिप्रसङ्गात् ? उपकारकत्वे अस्य परिणामित्वम् तत्कृतोपकारस्य
अतोऽनर्थान्तरत्वात्, अर्थान्तरत्वे तस्य इति व्यपदेशो न स्यात्, तेनाप्युपकारान्तरकरणे
अनवस्था ।


किञ्च, ईश्वरस्य जगन्निर्माणे यथारुचि प्रवृत्तिः, कर्मपारतन्त्र्येण, करुणया, धर्मादिप्रयो
जनोद्देशेन, क्रीडया, निग्रहानुग्रहविधानार्थम्, स्वभाव1036तो वा ? यथारुचि प्रवृत्तौ कदाचिद
न्यादृश्यपि सृष्टिः स्यात् । कर्मपारत1037न्त्र्ये च अस्य स्वातन्त्र्यहानिः, एतदेव हि स्वातन्त्र्यम्
ईश्वरत्वं वा यदनन्यमुखप्रेक्षित्वम् । अथ क1038रुणया; तर्हि कारुणिकत्वाद् युगपत् सर्वानपि अभ्यु
दयेन युञ्ज्यात्, ततो न कश्चिद् दुःखितः स्यात् । अथ एषामभ्युदयः स्यात् इत्यनयैवेच्छया
तानि तानि कर्माणि अनुभावयति, सोऽयं प्रक्षालिताऽशुचिमोदकत्यागन्यायः । कारुणिकस्य
हि एतदेव कारुणिकत्वम्–यत् अन्येषां1039 दुःखलेशोऽपि माभूत् इत्यनुसन्धानम् । अथ ईश्वरः
कि करोति, पूर्वार्जितैः कर्मभिरेव ते तथा वशीकृता येन दुःखमनुभवन्ति; तर्हि तस्य कः पुरु
108 षकारः ? कर्मणामुपभोगेनैव प्रक्षयोपपत्ते । अदृष्टापेक्षस्य च कर्तृत्वे किं तत्कल्पनया ?
कल्पितोऽपि असावदृष्टाधीनश्चेत्, जगदेव तदधीनमस्तु किमनेनान्तर्गडुना ? अथ धर्मादि
प्रयोजनमुद्दिश्यायं प्रवर्तते, तर्हि कथमसौ कृतकृत्यः स्यात् तस्य तत्प्रयोजनविरोधात् ? क्रीडा
1040द्भावे च कथं वीतरागता रथ्यापुरुषवत् ? परमपुरुपश्चेश्चरः बाल-ग्रहिलवत् क्रीडति इति
महच्चित्रम् । निग्रहानुग्रहप्रदत्वेऽपि कथ वीतरागद्वेषता ? तथाहि–रागवान् ईश्वर, अनुग्रह
प्रदत्वात्, राजवत् । तथा, द्वेषवानसौ निग्रहप्रदत्वात् तद्वत् । अथ स्वभावतोऽसौ प्रवर्तते
यथा आदित्य प्रकाशस्वभावत्वात् प्रकाशयति, तर्हि चैतन्यस्य सतोऽपि अकिञ्चित्करत्वात्
जगतोऽचेतनस्यापि स्वभावत प्रवृत्तिरस्तु, किमधिष्ठातृपरिकल्पनया ? तस्य अनादौ काले स्व
भावेनैव स्थितत्वात् । कथमचेतनस्य देशादिनियम निष्पन्नेऽपि वा कार्ये प्रवृत्तिर्नस्यात् ?
इत्यन्यत्रापि समानम्, नित्यादिस्वभावस्येश्वरस्यापि तद्दोषप्रतिपादनात् ।


बुद्धिमत्त्वञ्चास्य अनित्यया बुद्ध्या, नित्यया वा स्यात् ? न तावन्नित्यया, तन्नित्यत्वस्य
प्रतीत्या अनुमानेन च बाधितत्वप्रतिपादनात् । अथ अनित्यया, कुतौऽसौ जायेत–इन्द्रियार्थ
सन्निकर्षात्, समाधिविशेषात्, तदुत्थधर्ममाहात्म्यात्, अनुध्यानमात्राद्वा ? तत्राद्य1041पक्षोऽयुक्त;
अशरीरस्यास्य अन्तःकरणस्य अन्यस्य चेन्द्रियस्यानुपपत्तेर्मुक्तात्मवत्, उपपत्तौ वा न सर्वज्ञता
तज्जनितज्ञानस्य नियतविषयत्वात् । किञ्च, अचेतनाश्चक्षुरादय केनचिदधिष्ठितास्तज्ज्ञान जन
यन्ति, अनधिष्ठिता वा ? यद्यनधिष्ठिता, तदा जगदपि अचेतना केनचिदनधिष्ठिता जनयन्तु
अलमधिष्ठातृकल्पनया । अथाधिष्ठिता, किमधिष्ठात्रन्तरेण, तेनैव वा ? अधिष्ठात्रन्तरेण चेत्;
अनवस्था । तेनैव चेत्, चक्रकम्; तथाहि–ज्ञाता सन्तस्ते प्रेर्यन्ते, प्रेरिता ज्ञानं जनयन्ति,
जनितज्ञाना ज्ञाता भवन्तीति । समाधिविशेष अनुध्यानञ्च ज्ञानविशेष एव, तस्य च अद्या
प्यसिद्धे कथं स्वस्मादेव स्वस्योत्पत्ति ? समाधिविशेषाऽसंभवे च कथं तदुत्थो धर्मस्तत्र
संभाव्येत, यतस्तन्माहात्म्याज्ज्ञानोत्पत्ति स्यात् ? अशरीरस्य च समाधिविशेषादिकं मुक्तात्म
वद् दुर्घटमेव । अत कारणाऽसंभवाद् ईश्वरे ज्ञानसद्भावाऽनुपपत्ते कथं तत्र बुद्धिमत्ता सिद्ध्येत् ?
अथ नित्याऽनित्यबुद्धिविशेषानपेक्षया बुद्धिसामान्येन तत्र तद्वत्ता प्रसाध्यते, तदप्यसारम्;
द्वितीयविशेषस्याऽसंभवात्, न खलु नित्यो बुद्धिविशेष कदाचिदप्यनुभूयते, अनित्यस्यैवाऽस्य
सर्वदाऽनुभवात् । अत सिद्ध्यत् तत्सामान्यमनित्यबुद्धिविशेषाधारमेव सिद्ध्येत्, तद्विशेषस्य
चेश्वरे कारणाऽसंभवतोऽसंभवात् कथं तदाधारमपि तत्सामान्यं सिद्ध्येत् ?


अस्तु वा यथाकथञ्चिद् बुद्धिमत्त्वमस्य, तथापि शास्त्राणां प्रमाणेतरव्यवस्थाविलोप, सर्व
शास्त्रं प्रमाणमेव स्यात् ईश्वरप्रणीतत्वात् तत्प्रणीतप्रसिद्धशास्त्रवत् । प्रतिवाद्यादिव्यवस्थावि
लोपश्च, सर्वेषामीश्वरादेशविधायित्वात्, आदेशविधायिनाञ्च प्रतिलोमाचरणविरोधात् । संसार
109 विलोपश्च; ईश्वरव्यापारात् पूर्वं तनुकरणाद्यभावतः सकलात्मगुणानां बुद्ध्यादीनामप्यभावात्,
नहि तनुकरणाद्यभावे बुद्ध्यादिविशेषगुणाऽभावे च आत्यन्तिकीं शुद्धिमास्कन्दतामात्मनाम् अ
मुक्तत्वं युक्तमिति । संसारविधाने प्रवृत्तोऽसौ तदभावं विदधाति इति महती प्रेक्षापूर्वका
रिता ? ततो1042 यौगोपकल्पितस्येश्वरस्य अखिलजगज्जनकत्वाऽसंभवात् नातः सर्वज्ञतासिद्धिः ।


एतेन साङ्ख्यपरिकल्पितस्यापीश्वरस्याऽशेषज्ञता प्रत्युक्ता, जगन्निमित्तकारणत्वेन अस्यां
प्रतिज्ञायमानायां प्रोक्ताशेषदोषानुषङ्गाऽविशेषात् ।


ईश्वरस्वरूपवादे साख्यस्य पूर्वपक्ष–


ननु साङ्ख्यैरीश्वरस्वरूपस्यान्यथा व्यावर्णनात् कथं यौगोपकल्पितेश्वरपक्षोक्तदोषानुषङ्गः ?
तथाहि–क्लेश-कर्म-विपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः ।
योगसू॰ १ । २४
तत्र 1043अविद्याऽस्मितारागद्वेषाऽभिनिवेशाः
क्लेशाः । योगसू॰ २ । ३
1044र्माणि शुभाशुभानि, तद्विषा1045काः
कर्मफलोपभोगरूपाः, आश1046याः नानाविधतदनुगुणसंस्काराः, तैरपरामृष्टो यः पुरुषविशेषः
स ईश्वर इति । न चैवं सर्वमुक्तात्मनामीश्वरत्वप्रसङ्गः तदपरामृष्टत्वाऽविशेषात् इत्यभिधा
तव्यम्; तेषां सर्वदा बन्धेनाऽपरामृष्टत्वाऽसंभवात् । यो हि सर्वदा बन्धविनिर्मुक्तः क्लेशा
दिभिरपरामृष्टः स ईश्वरः । न च तदन्ये मुक्तात्मानस्तथाविधाः; तेषां प्राकृत-वैकारिक
110 दक्षिणालक्षणव1047न्धत्रयसद्भावात् । प्राकृतो हि बन्धः आत्माऽनात्मविवेकाऽभावस्वभावः, विषया
ऽऽसङ्गस्वरूपस्तु वैकारिकः, भोगाधिरूढधर्माधर्मलक्षणश्च दक्षिणाबन्धः । अनेन च बन्धत्र
येण आमूलादीश्वर एवाऽस्पृष्ट, मुक्तात्मानस्तु एतानि त्रीण्यपि बन्धनानि विवेकज्ञानेन मा
ध्यस्थ्येन कर्मफलोपभोगेन च निर्मूल्यैव कैवल्यं प्राप्ता । अ1048यं तु भगवान् ईश्वर सदैव मुक्तः
सदैवेश्वर न तस्य पूर्वा कोटिरस्ति यथा संसारिमुक्तात्मनाम्, नाप्यपरा यथा प्रकृतिलीनतत्त्व
ज्ञानानां योगिनाम्, ते हि मुक्ति प्राप्यापि पुनर्बन्धभाजो भवन्ति । ऐश्वर्यञ्चास्य निरतिशयोत्कृष्ट
सत्त्वाया बुद्धेर्योगात् सिद्धम्, निरतिशयसत्त्वोत्कर्षश्चास्या शासनत्राणलक्षणशास्त्रोपादानात् ।
नन्वेवमितरेतराश्रयः–सिद्धे हि निरतिशयसत्त्वोत्कर्षे तल्लक्षणशास्त्रोपादानसिद्धि, तत्सिद्धौ च
निरतिशयसत्त्वोत्कर्षसिद्धिरिति, तदसमीक्षिताभिधानम्, ईश्वरे शास्त्र-निरतिशयसत्वोत्कर्षयोः
अनादिसम्बन्धसंभवात् ।


1049च्चैश्वर्यम् अष्टविधम्–अणिमा, लघिमा, महिमा, प्राप्ति, प्राकाम्यम्, ईशित्वम्, वशि
त्वम्, यत्रकामावसायिता चेति । तत्र अणिमा–यदणुशरीरो भूत्वा सर्वभूतैरदृश्य सर्वलोके
सञ्चरति । लघिमा–यल्लघुत्वाद्वायुवद् विचरति । महिमा–यत्सर्वलोकपूजि1050तो महद्भ्योऽपि
111 महत्तमो भवति । प्राप्तिः–यद् यद् मनसा चिन्तयति तत्तत्प्राप्नोति । प्राकाम्यम्–यत्प्रचुरकामो
भवति, विषयान् भोक्तुं शक्नोति इत्यर्थः । ईशित्वम्–यत् त्रैलोक्यस्य प्रभुर्भवति । वशित्वम्–
यद् भूतानि स्थावरजङ्गमानि वशं नयति, वश्येन्द्रियश्च भवति । यत्रकामावसा1051यिता–यद् ब्राह्म1052
प्राजापत्य-दैव-गान्धर्व-यक्ष-राक्षस1053-पित्र्य-पैशाचेषु1054 मानुष्येषु तैर्यग्योनिषु च स्थानान्तरेषु च यत्र
यत्र कामयते तत्र तत्र आवसतीति ।


1055तेषाञ्च ज्ञानैश्वर्यादीनां प्रकृष्ट-प्रकृष्टतमद्वारेण तारतम्यदर्शनात् यत्र विश्रान्तः प्रकर्षः स
ईश्वर इति संभावनाऽनुमानेन असौ व्यवस्थाप्यते । तथाहि–यस्तारतम्यप्रकर्षः स क्वचिद्
विश्राम्यति यथा परिमाणप्रकर्षो व्योम्नि, तारतम्यप्रकर्षश्च ज्ञानैश्वर्यादिधर्माणामिति । त1056स्य
चेत्थं प्रसिद्धस्वरूपस्येश्वरस्य निःशेषसंसार्यनुग्रहार्थमेव प्रवृत्तिः, स हि कल्पप्रलयमहाप्रलयेषु
1057मग्रं जगदुद्धरिष्यामि इति प्रतिज्ञावान् अवतिष्ठते । स च ध्यायिभिश्चिन्त्यमानो वाच
केन प्रण1058वादिना जप्यमानः तेभ्योऽभिमतं फलं प्रयच्छति । कालेना1059ऽनवच्छेदाच्चासौ पूर्वेषामपि
कपिलमहर्षिप्रभृतीनां गुरुः, ते हि कल्पमहाकल्पादिना कालेन अवच्छिद्यन्ते, नतु ईश्वर इति ।


तत्प्रतिविधानम्–


अत्र प्रतिविधीयते । यत्तावदुक्तम्1060–क्लेशेत्यादि; तदविचारितरमणीयम्; य1061तः क्लेशादिभिर
परामृष्टत्वमात्रं तस्य स्वरूपम्, तस्मिन् सति अशेषज्ञत्वं वा ? प्रथम
पक्षे मुक्त एवासौ स्यात् तैरपरामृष्टत्वात् तदन्यमुक्तवत् न पुनरीश्वरः,
तदन्यमुक्तात्मनामपि त1062त्त्वप्रसङ्गात् । सर्वदा बन्धेनाऽस्पृष्टत्वाऽभावान्न
तेषां तत्प्रसङ्गः; इत्यपि श्रद्धामात्रम्; ईश्वरस्यापि सर्वदा बन्धेनाऽस्पृष्टत्वाऽसंभवात्, तदसंभ
112 वश्च मोक्षप्ररूपणावसरे प्रतिपादयिष्यते । अथ तदस्पृष्टत्वे सति अशेषज्ञत्वं तस्य स्वरूपम्,
तत्कुत सिद्धम् अशेष1063कर्तृत्वात्, ऐश्वर्याश्रयत्वाद्वा ? तत्राद्यपक्षोऽनुपपन्नः; यौगाभिमतेश्वरपक्ष
निक्षिप्तदूषणगणप्रसङ्गात् । कर्तृत्वाभ्युपगमे चास्य अकर्ता निर्गुणः शुद्धः
इत्यादेरात्मलक्षणस्याऽनुपपत्तिः । अथ अन्यात्मनामेवैतल्लक्षणं नेश्वरस्य, अस्याऽतो विशिष्ट
त्वात् तेनाऽयमदोष; नन्वेवं शुद्धत्वादेरपि ईश्वरस्वरूपत्वाऽभावप्रसङ्गात् अतीव तस्य तेभ्यो
विशिष्टत्वं स्यात् ।


अस्तु वाऽस्य कर्तृत्वम्, तथाप्यसौ1064 स्वतन्त्रः कार्य कुर्यात्, प्रकृतितन्त्रो वा ? यदि स्व
तन्त्रः, तदा यौगोपकल्पितेश्वरान्न विशिष्यते इति तद्दोपेणैव दुष्टताऽस्य प्रतिपत्तव्या । अथ
प्रकृतितन्त्र; तन्न, प्रकृते स्वरूपत एवाऽसिद्धेः, तदसिद्धिश्च अग्रे निराकरिष्यमाणत्वात् सिद्धा ।
तत्तन्त्रता चास्य अनया1065ऽतिशयाधानात्, मिलित्वैककार्यकारित्वाद्वा स्यात् ? तत्राद्यकल्पनाऽ
युक्ता, सर्वथा नित्यत्वेन अविकारिणोऽस्य अतिशयाधानाऽसंभवात् । द्वितीयकल्पनाप्यनुपपन्ना,
कार्याणां यौगपद्यप्रसङ्गात् अप्रतिहतसामर्थ्यस्य ईश्वरप्रधानाख्यकारणद्वयस्य सर्वत्र सर्वदा
सन्निहितत्वेनाऽविकलकारणत्वात्तेषाम् । यद् यदाऽविकलकारणं तत्तदा भवत्येव यथा अन्त्य
क्षणप्राप्तसामग्रीतोऽङ्कुर, अविकलकारणञ्च नित्यव्यापीश्वर-प्रधानाख्यकारणद्वयाधीनमशेपं
कार्यमिति ।


ननु कारणद्वयस्याऽस्य सर्वत्र सर्वदा सन्निहितत्वेऽपि न सर्वत्र सर्वदा कार्योत्पत्तिः, तत्स्थि
त्युत्पत्तिविनाशविधाने सत्त्वरजस्तमसामुद्भूतवृत्तीनां यथाक्रमं सहकारित्वात्, तेषाञ्च तथा
विधानां क्रमभावित्वादिति; तदप्यपेशलम्; यत1066 प्रकृतीश्वरयो स्थित्युत्पत्तिप्रलयानां मध्ये
अन्यतमोत्पादनसमये तदपरोत्पादने सामर्थ्यमस्ति, न वा ? यद्यस्ति, तर्हि सृष्टिसमयेऽपि
स्थितिप्रलयप्रसङ्ग अविकलकारणत्वादुत्पादवत्, एवं स्थितिकालेऽपि उत्पाद-विनाशयोः विना
शकाले च स्थित्युत्पादयो1067 प्रसङ्गः । न चैतद् युक्तम् । नहि परस्परपरिहारेणावस्थितानामुत्पादा
दिधर्माणाम् एकत्र धर्मिण्येकदा सद्भावो युक्त प्रतीतिविरोधात् । अथ नास्ति सामर्थ्यम्; तदा
113 एकमेव स्थित्यादीनां मध्ये कार्य सदा स्यात् यज्जनने तयोः सामर्थ्यमस्ति, नापरं तज्जनने
तयोः सामर्थ्याऽसंभवात् । अविकारिणोश्चाऽनयोः पुनः सामर्थ्योत्पत्तिविरोधात्, अन्यथा
नित्यैकम्वभावताव्याघातः ।


1068नु चानयोः तत्सामर्थ्यसंभवेऽपि यदोद्भूतवृत्तिरजः सहकारि भवति तदोत्पत्तिविधाय
कत्वम्, यदा सत्त्वम् तदा स्थितिकारित्वम्, यदा तु तमः तदा प्रलयोत्पादकत्वम्; इत्यप्यसाम्प्र
तम्; यतस्तेपा1069मुद्भूतवृत्तित्वं नित्यम्, अनित्यं वा स्यात् ? न तावन्नित्यम्; कादाचित्कत्वात्,
स्थित्यादीनां यौगपद्यप्रसङ्गाच्च । अथ अनित्य1070म्; कुतो जायते प्रकृतीश्वरादेव, अन्यतो वा
कुतश्चित्, स्वातन्त्र्येण वा ? प्रथमपक्षे सदाऽस्य सद्भावप्रसङ्गः, प्रकृतीश्वराख्यस्य हेतोर्नित्य
रूपतया सदा सन्निहितत्वात् । अथ अन्यतः; तन्न; प्रकृतीश्वरव्यतिरेकेण अपरकारणस्य भवताऽ
नभ्युपगमात् । तृतीयपक्षे तु देश-कालनियमेनाऽस्य आविर्भावविरोधः स्वातन्त्र्येण भवतः तन्नि
यमानुपपत्तेः । स्वभावान्तरायत्तवृत्तयो हि भावाः कादाचित्काः स्युः तद्भावाभावप्रतिबद्धत्वात्
तत्सत्त्वाऽसत्त्वयोः, नान्ये तेषामपेक्षणीयस्य कस्यचिदप्यभावात्, अपेक्षणीयसद्भावे वा स्वा
तन्त्र्येणोत्पादविरोधात् । अतः कर्तृत्वस्य ईश्वरे विचार्यमाणस्य कथञ्चिदप्यनुपपत्तेर्नातः
तस्याशेपज्ञत्वसिद्धिः ।


नाप्यैश्वर्याश्रयत्वात्, तत्रैश्वर्यस्यापि विचार्यमाणस्यानुपपत्तेः, तद्धि त1071त्र स्वाभाविकम्,
प्रकृतिकृतं वा स्यात् ? न तावत् स्वाभाविकम्; बुद्धिधर्मतया साङ्ग्र्यैस्तस्याभ्युपग1072मात्, चैतन्य
मेव हि तैः आत्मनि स्वाभाविकं स्वरूपमभ्युगतम् । अथ प्रकृतिकृतम्; तथाहि–यदा प्रकृतिर्बुद्धि
लक्षणेन विकारेण परिणमते तदा तदवस्थाविशेषाः धर्म-ज्ञान-वैराग्य-ऐश्वर्यादयः प्रादुर्भवन्तीति;
114 तदसमीक्षिताभिधानम्; एवम् ईश्वरस्य भवतैव ऐश्वर्याऽभावप्रतिपादनात्, न हि बुद्धिपरिणाम
स्यैश्वर्यस्य संभवे ततोऽर्थान्तरस्यास्य तद् युक्तम्, अन्यात्मनोऽपि तत्प्रसङ्गात् । अथ बुद्ध्या
सह सम्बन्धसद्भावात् तस्यैव तत् नान्यस्य इत्युच्यते; ननु1073 कोऽयं तेनास्या सम्बन्धः–समवाय,
संयोगादिः, तदुद्देशेन प्रवृत्तिमात्रं वा ? न तावत् समवायः, अन्यधर्मस्यान्यत्र समवायानु
पपत्तेः, यो यद्धर्म स ततोऽन्यत्र न समवैति यथा चिद्रूपता, प्रकृतिधर्मश्च बुद्धि, तस्मात्ततोऽ
र्थान्तरेऽस्मिन् न समवैतीति । न च स्फटिकादिसमवेतेन रक्तादिधर्मेणाऽनेकान्त; जपापुष्प
सन्निधाने स्फटिकादेरेव तथा परिणमनात् । एतच्च प्रतिबिम्बोदयसिद्धौ सप्रपञ्चं प्रपञ्चयिष्यते ।
आत्मनोऽपि बुद्धिरूपतया परिणतप्रकृतिसन्निधाने तथा परिणामाभ्युपगमे चिच्छ1074क्तिरपरिणामि
न्यप्रतिसङ्क्रमा व्यासभा॰ पृ॰ १५
इत्यादिग्रन्थविरोध । तन्नेश्वरेण सह बुद्धेः समवाय
सम्बन्धो घटते । नापि संयोग, बुद्धेरद्रव्यत्वात् अतिप्रसङ्गाच्च; सर्वैरपि हि आत्मभिर्नित्यव्यापिभिः
तस्या संयोगो विद्यत एव । एतेन संयुक्तसमवायादिरपि प्रत्याख्यात, असंभवस्य अति
प्रसङ्गस्य चात्राप्यविशेषात् । अथ तदुद्देशेन प्रवृत्तिमात्रमेवास्यास्तेन सम्बन्ध; तदप्यसाम्प्रतम्;
ईश्वरोद्देशेन अस्याः प्रवृत्तेरेवासंभवात्, पुरुषार्थकर्त्तव्यतावशेन हि प्रकृते प्रवर्तमानाया
बुद्ध्यादयो विकाराः व्यक्तिमासादयन्ति, न चेश्वरस्य कश्चित्पुरुषार्थ कर्त्तव्योऽस्ति, नित्यनिर्मुक्त
त्वेन कृतकृत्यत्वात् तत्कथं तमुद्दिश्य प्रकृति प्रवर्तेत ? अप्रवृत्तायां वास्यां कथमैश्वर्यसंभव ?


किञ्च, ऐश्वर्यं स्वाभिमतकार्यसम्पादने द्रव्यसहायादिसम्पन्नत्वमुच्यते, कार्यञ्चेत् स्वाभि
मतं न किञ्चिदसौ सम्पादयति केवलं वस्तु यथावज्जानाति, कथं तर्हि तावतास्य ऐश्वर्यम् ?
नहि यो यत् जानाति स तत्र ईश्वर इत्युच्यते, अतिप्रसङ्गात् । अथ कालेनानवच्छिन्नं
तज्ज्ञानम् तेनासौ ईश्वर नान्यः, ननु कालेनाऽनवच्छिन्नत्वं नित्यत्वे गमकम् नैश्वर्ये । एतेन
संभावनानुमानं प्रत्युक्तम्, ततो हि बुद्ध्यादिगुणानां परमप्रकर्षः सिद्ध्येत् नैश्वर्यम् ।


किञ्च, पुरुषार्थकर्त्तव्यतानुरोधेन प्रकृतितः प्रवर्तमानाया1075 निरवशेषभोगपूर्वकं विवेकख्याति
पर्यन्तं पुरुषार्थ सम्पाद्य विनिवृत्तकर्तृत्वभोक्तृत्वाद्यभिमानाया बुद्धे स्वकारणे लयः सम्पद्यते,
ततश्च ईश्वरंप्रत्यस्याः कृतार्थता स्यात्, न वा ? कृतार्थत्वे बुद्धेः स्वकारणे लीनत्वात् गतम
स्यैश्वर्यम् । अकृतार्थत्वे अद्यापि बन्धलेशस्य सद्भावाद् योगितुल्यत्वमस्य स्यात्, नेश्वरत्वमिति ।
ततो जगत्कर्तृत्वादिप्रकारेण अशेषज्ञसद्भावाऽसिद्धे सुनिश्चितासंभवद्बाधकप्रमाणत्वादेव तत्स
द्भावसिद्धिरभ्युपगन्तव्या ।


115

विवृतिव्याख्यानम्–


ननु वा1076धकाभाववत् साधकस्यापि प्रमाणस्य तत्राऽभावात् सन्देहोऽस्तु, इत्यारेकां निघ्नन्नाह–
साधक इत्यादि । साधकबाधकप्रमाणाभा1077वात् कारणात् त्र अती
न्द्रियप्रत्यक्षे संशीतिः अनेन यावज्ज्ञेय इत्यादिना ग्रन्थेन प्रत्युक्ता
निरस्ता । कुत एतत् ? इत्याह–बाधकस्यैवाऽसंभवात् न साधकस्य ।
यदि नाम वाधकस्यैवाऽसंभवः किमेतावता अतीन्द्रियप्रत्यक्षस्य सद्भावो भविष्यति ? इत्यत्रा1078ह–
सर्वत्र इत्यादि । सर्वत्र दृश्येऽन्यत्र1079 वा विषये बाधकाभावेतराभ्यां भावाऽभावव्यवहार
सिद्धिः
बाधकस्याभावेन हि वस्तुनि भावव्यवहारसिद्धिः, भावेन च अभावव्यवहारसिद्धि
रिति । कुतस्तर्हि सन्देहः ? इत्याह–तद् इत्यादि । तयोः बाध1080केतरयोः सन्देहादेव सन्देहः
सर्वत्रेति । ननु न बाधकाभावाद् भावव्यवहारसिद्धिः अपि तु प्रतीतेः इत्याशङ्क्याह–तत एव
इत्यादि । तत एव बाधकाभावादेव अनुभवस्य सुखादिसंवेदनस्य प्रामाण्यव्यवस्थापनात्
इति एवम् अलमतिप्रसङ्गेन ।


ननु च इन्द्रिया1081ऽनिन्द्रियप्रत्यक्षस्य वर्तमानमात्रपर्यवसितत्वेन हेयोपादेयाऽविषयत्वात् कथं
संव्यवहारनियुक्तत्वम् ? इत्यारेकायामाह–


अक्षार्थयोगे सत्तालोकोऽर्थाकारविकल्पधीः ।

अवग्रहो विशेषाकाङ्क्षेहावायो विनिश्चयः ॥ ५ ॥

विवृतिः–विषयविषयिसन्निपातानन्तरमाद्यं ग्रहणम् अवग्रहः1082 । विषयस्तावत्
द्रव्य-पर्यायात्मार्थः, विषयिणो द्रव्यभावेन्द्रिय1083स्य । 1084 द्रव्येन्द्रियं पुद्गलात्मकम् ।
लब्ध्युपयोगौ भावेन्द्रियम् । अर्थग्रहणशक्तिः लब्धिः, उपयोगः पुनरर्थग्रहणव्यापारः ।❀

116 अर्थग्रहणं योग्यतालक्षणम्, तदनन्तरभूतं सन्मात्रदर्शनं स्वविषयव्यवस्थापनविकल्पम्
उत्तरपरिणामं प्रतिपद्यते अवग्रहः । पुनः अवग्र1085हीकृतविशेषाऽऽकाङ्क्षणम् ईहा । त
थेहितविशेषनिर्णयोऽवायः1086 कथञ्चिदभेदेऽपि परिणामविशेषाद् व्यपदेशभेदः ।


कारिकाविवरणम्–


अक्षाणां चक्षुरादीन्द्रियाणां अर्थानां घटादीनां योगे सम्बन्धे योग्यतालक्षणेसति,
न तु संयोगादिलक्षणे तस्य प्रागेव प्रतिक्षिप्तत्वात्, सत्तालोकः
सकलहेयोपादेयसाधारणसत्त्वमात्रस्य आलोको दर्शनम् आत्मन
प्रथमतः प्रादुर्भवति, तदनु स एवाऽऽलोकः अर्थाकारविक
ल्पधीः
भवति । अर्थः व्यवहारिणा हेयत्वेन उपादेयत्वेन वा प्रार्थ्यमानो भावः तस्य
आकारः सत्त्वसामान्यादवान्तरो जातिविशेषो मनुष्यत्वादिः तस्य विकल्पधीः निर्णय
रूपा बुद्धिः आविर्भवति तद्रूपतया दर्शनं परिणमत इत्यर्थ । तस्या किन्नाम ? इत्यत्राह–
अवग्रह इति । अयमपि विशेषाकाङ्क्षा भवति । अन्यस्याऽप्रकृतत्वादश्रूयमाणत्वाच्च अर्था
कारस्यैव विशेषो बलाकादिभेदो गृह्यते तस्य आकाङ्क्षा भवितव्यताप्रत्ययरूपतया ग्रह
णाभिमुख्यम् । तस्या नाम कथयति ईहा इति । सापि अवायो भवति आकाङ्क्षितविशेप
विनिश्चयो भवति । ततश्च ज्ञानज्ञेययो कथञ्चित्कालान्तरानुवृत्तिमत्त्वप्रसिद्धे सिद्धम्
इन्द्रियाऽनिन्द्रियप्रभवप्रत्यक्षस्य सव्यवहारनियुक्तत्वं हेयोपादेयार्थविषयत्वसंभवात्, सर्वथाऽ
ननुवृत्तिमत एव तदसंभवत तन्नियुक्तत्वाऽनुपपत्ते ।


विवृतिव्याख्यानम्–


कारिका विवृण्वन्नाह–विषय इत्यादि । ननु कारिकायां दर्शनं पूर्वमुक्तम् पश्चाद् अवग्रहः,
वृत्तौ तु विपर्ययः किमर्थम् ? इति चेत् अवग्रहाद् दर्शनस्य
कारिकायां पूर्व प्रतिज्ञातस्य अनुमेयत्वख्यापनार्थम् । यथैव हि
अवान्तरजातिग्रहणपूर्वकम् उत्तरं विशेषज्ञान तत्त्वात्, तथा तत एव अवान्तरजातिग्रहणं सत्ता
117 दर्शनपूर्वकम्; न च सत्तायाः परं सामान्यमस्ति यतोऽनवस्था स्यात् । विषयः घटादिः विषयी
चक्षुरादिः तयोः समीचीनः यथार्थज्ञानजनको निपातः योग्यदेशाद्यवस्थानम् तस्य अनन्तरम्
आद्यं ग्रहणं ज्ञानम् अवग्रहः अवान्तरमनुष्यत्वादिजातिपरिच्छेदः । तत्र विषयः इत्यादिना
विषयस्वरूपं निरूपयति । तावत् शब्दः क्रमवाची विषयो गोचरः अर्थः किंविशिष्टः ?
द्रव्यपर्यायात्मा । तत्र द्रव्यम् पूर्वोत्तरविवर्त्तवर्त्त्यन्वयप्रत्ययसमधिगम्यम् ऊद्ध्र्वतासामान्यम्,
तत्र क्रमभुवो विवर्त्ताः पर्यायाः1087 ते आत्मा1088 स्वभावो यस्य स तथोक्तः ।


संवेदनाद्वैतवादिनो योगाचारस्य पूर्वपक्ष–


ननु ज्ञानस्वरूपातिरक्तस्याऽर्थस्य सद्भावे प्रमाणाभावात् कस्य द्रव्यपर्यायात्मकत्वविशिष्टस्य
विषयत्वं प्र1089रूप्यते ? प्रतिभासमानस्याऽशेषस्य वस्तुनो ज्ञान
स्वरूपान्तःप्रविष्टत्वप्रसिद्धेः संवेदनमेव पारमार्थिकं तत्त्वम् ।
तथाहि–यदवभासते तज्ज्ञानमेव यथा सुखादि, अवभासन्ते च
भावा इति । न चैषां1090 परतोऽवभासो घटते । स हि परतः सम्बद्धात्, असम्बद्धाद्वा भवेत् ?
न तावदसम्बद्धात्; अतिप्रसङ्गात् । अथ सम्बद्धात्; किं तादात्म्येन, तदुत्पत्त्या वा ? यदि
तादात्म्येन तदा ज्ञानरूपताऽर्थानाम् जडस्वभावता वा ज्ञानस्य स्यात्, तादात्म्यस्य अन्योन्य1091
स्वरूपस्वीकारस्वभावत्वात् । ज्ञा1092नस्वरूपत्वे चार्थानां सिद्धं ज्ञानाद्वैतम् । जडस्वभावत्वे तु
ज्ञानस्य अर्थव्यवस्थावार्तोच्छेदः जगतो विवेकविकलतया आन्ध्यप्रसक्तेः ।


अथ तदुत्पत्त्या; कुतः किमुत्पद्येत ज्ञानादर्थः, अर्थाद्वा ज्ञानम् ? प्रथमपक्षे अर्थस्य ज्ञान
रूपताप्रसङ्गः ज्ञानादुत्पद्यमानत्वात् उत्तरज्ञानक्षणवत् । अथ अर्थाज्ज्ञानमुत्पद्यते; किं समका
लात्, भिन्नकालाद्वा ? न तावत् समकालात्; समसमयभाविनोः सव्येतरगोविषाणवत् कार्य
कारणभावाऽभावात्, अन्यथा अर्थं प्रति ज्ञानस्यापि कारणत्वप्रसङ्गः अविशेषात् । भिन्नकाला
त्ततस्तदुत्पत्तौ ज्ञानस्याऽहेतुकत्वप्रसक्तिः, तत्कालेऽर्थस्याऽसत्त्वात्, यदसन् न ततः किञ्चिदुत्प
त्तुमर्हति यथा मृताच्छिखिनः केकायितम्, असंश्च ज्ञानकाले अर्थ इति । किञ्च, अर्थो ज्ञानस्य
जनको नित्यः संभवेत्, अनित्यो वा ? नित्यत्वे सर्वं ज्ञानमेकदैवोत्पादयेत् नित्यैकरूपतया
तस्यैकदेव तज्जननसामर्थ्यसंभवात्, अन्यथा नित्यैकरूपताव्याघातः स्यात् । अनित्यस्य च
समकालस्य भिन्नकालस्य वा तज्जनकत्वं प्रतिषिद्धम् । तथा एकरूपः, अनेकरूपो वाऽसौ
स्यात् ? एकरूपत्वे दूरासन्नानां स्पष्टाऽस्पष्टप्रतिभासभेदो न स्यात् । अनेकरूपत्वे परमाणुशो
भेदात् न कस्यचित् स्फुटतया अस्फुटतया वा स्थूलैकप्रतिभासः स्यात् ।


किञ्च, असौ निराकारज्ञानग्राह्यः, साकारज्ञानग्राह्यो वा ? निराकारज्ञानग्राह्यत्वे प्रतिकर्म
118 व्यवस्थाविलोपः, तथा च इद नीलस्य ग्राहकम् इदं पीतस्य इति प्रतिनियतकर्मव्यवस्थापका
ऽभावात् प्रतिनियतविषये प्रतिनियता प्रवृत्तिरपि दुर्लभा । साकारत्वे च ज्ञानस्य अर्थकल्पना
वैयर्थ्यम् तत्रैव ग्राह्य-ग्राहकभावस्य परिसमाप्तत्वात् ।


ननु ज्ञानगताकारस्य कादाचित्कस्य परिदृश्यमानकारणेभ्यः अनुपपद्यउपपद्यमानत्वात् कारणाभावे
च कार्यसद्भावाऽनुपपत्ते तदुपपत्तये तदाकारोऽर्थः कल्प्यते, यस्तथा ज्ञान जनयतीति; तदप्य
साम्प्रतम्, वास1093नासामर्थ्यात् तथाभूतज्ञानोत्प1094त्तेर्नाऽतोऽर्थसद्भावसिद्धि, अर्थाच्च तथाभूतज्ञान
संभवे स्वप्नेन्द्रजालगन्धर्वनगरादौ तदभाव स्यात् । न हि स्वप्नादौ प्रतिभासमानोऽर्थ अस्ति,
यः स्वगतमाकारं विज्ञाने विदध्यात्, अतो ज्ञानाभावे गन्धर्वनगराद्याकारानुपलम्भात् तत्स
द्भावे चोपलम्भात् अन्वय-व्यतिरेकाभ्यां ज्ञानस्यैवायमाकारोऽवसीयते ।


किञ्च, अर्थो ज्ञानाधिरूढ एव अर्थतामासादयति, ज्ञानं पुनरर्थनिरपेक्षं स्वप्नादौ स्वसाम
र्थ्येनैव असतोऽप्यर्थान् अवभासयदर्थक्रियां निर्वर्तयति, अतो ज्ञानादभिन्नोऽर्थ ।


किञ्च, द्वयोर्दर्शने अनेनाऽयं सदृश इति प्रतिपत्तिर्युक्ता, न च ज्ञानव्यतिरिक्तोऽर्थ
कदाचिद् दृष्टः येन अर्थस्यायमाकारो न ज्ञानस्य इत्यध्यवसाय स्यात् । ततो1095 नीलादेः परतः
प्रकाशानुपपत्तेः सिद्ध स्वयं प्रकाशनियतत्वम्, तस्माच्च ज्ञानादभिन्नत्वम् । तथाहि–यत् स्वयं
प्रकाशते तज्ज्ञानादनन्यत् यथा सुखादि, स्वयं प्रकाशन्ते च नीलादय इति ।


सहोप1096लम्भनियमाच्च, यद्धि येन नियमेन सहोपलभ्यते तत् ततो न भिद्यते यथा तैमिरि
119 कोपलभ्यमानादेकस्माच्चन्द्राद् द्वितीयश्चन्द्रः, नियतसहोपलम्भश्च ज्ञानेनार्थ इति । भेदे हि
नियमेन सहोपलम्भो न दृष्टः यथा घटपटयोः, तथा च भेदः सहोपलम्भाऽनियमेन व्याप्तः,
तद्विरुद्धश्च सहोपलम्भनियमो दृश्यमानः स्वविरुद्धमनियमं निवर्त्तयति, स च निवर्त्तमानः
स्वव्याप्यं भेदं निवर्त्तयति, ततोऽयं हेतुः विपक्षाद्भेदात् स्वविरुद्धव्याप्तात् निवर्त्तमानो रा1097श्यन्त
राभावाद् अभेद एवावतिष्ठते इत्यविनाभावसिद्धिः । तथा1098 यद्वेद्यते तद्धि ज्ञानादभिन्नम् यथा
विज्ञानस्वरूपम्, वेद्यन्ते च नोलादय इत्यतोऽपि विज्ञानाद्वैतसिद्धिरिति ।


सवेदनाद्वैतवादिमतखण्डनम्–


अत्र प्रतिविधीयते । यत्तावदुक्तम्1099यदवभासते तज्ज्ञानम् इत्यादि; तत्र अर्थानामवभास
मानत्वं स्वतः, परतो वा स्यात् ? स्व1100तश्चेत्; असिद्धम्, नहि परनिर
पेक्षप्रतिभासा घटादयः कस्यचित् स्वप्नेऽपि प्रसिद्धाः, अन्यत्र महा
मोहाक्रान्तचेतसो योगाचारात् । परतश्चेत् विरुद्धम्, तथावभासमान
त्वस्य जडत्वे सत्येव संभवात्, स्वसिद्धौ परमुखप्रेक्षित्वलक्षणत्वाज्जडत्वस्य । यद् येनोप
लब्धिलक्षणप्राप्तेनाकारेण न प्रतिभासते न तत् तदात्मकम् यथा घटाकारेण पटः, न प्रतिभासते
च ज्ञानाकारेण घटाद्यर्थः
इत्यनुमानाच्च घटादेर्जडत्वप्रसिद्धेः अनुमानबाधितपक्षनिर्देशानन्तरं
प्रयुक्तत्वेन कालात्ययापदिष्टत्वम् । ननु ज्ञानाद् भिन्नस्यार्थस्य उक्तप्रकारेणाऽप्रसिद्धेः कथं परतः
प्रतिभासः यतो विरुद्धत्वं हेतोः स्यात् ? तदयुक्तम्; ज्ञानार्थयोर्भेदस्याध्यक्षत एव प्रसिद्धेः,
प्रत्यक्षेण हि पुरोवर्तिस्फुटविकटाकारो नीलधवलादिरूपो दिक्प्रदेशविशेषनियतोऽनात्मनिष्ठोऽर्थः
प्रतीयते, प्रतीयमानस्य चापह्नवे अन्तःसंवेदने कः समाश्वासः ? इति सर्वापह्नव एव स्यात्,
नहि विज्ञानस्य सुखादेर्वा प्रतीतेरन्यतः सत्त्वम् । न च विज्ञानरूपतया अ1101र्थसत्त्वमिष्टमेव इत्य
भिधातव्यम्; विज्ञानव्यतिरिक्तस्यैवास्य प्रतिभासमानत्वात् । तथा च, यद् यत्रोपलब्धिलक्षणप्राप्तं
सन्नोपलभ्यते तत्तत्र नास्ति यथा क्वचित्प्रदेशविशेषे घटः, नोपलभ्यते च उपलभ्यमाने घटादौ
तथाभूतं ज्ञानस्वरूपमिति । न चेदमसिद्धम्; तत्स्वरूपस्यानहङ्कारास्पदाद् बाह्यार्थस्वरूपाद्विलक्ष
णस्य अन्तरहङ्कारास्पदस्यानुभवात् । ततश्च यो विरुद्ध1102रूपानुभवो नासौ एकस्वरूपार्थविषयः
यथा सुख-दुःखानुभव, अस्ति च अर्थ-ज्ञानयोः परस्परपरिहारस्थितस्वरूपत्वेन विरुद्धयोः स्वरू
पानुभव इति । ग्राहकस्वरूपं हि विज्ञानमन्तः ग्राह्यस्वरूपं तु नीलादिकं बहिः परिस्फुटं प्रति
120 भासते, तथापि अनयोरभेदे न किञ्चित् कुतश्चिद्भिद्येत, प्रतिभासभेदं विरुद्धधर्माध्यासञ्च
विहाय अन्यस्य भेदकस्याऽसंभवात् । तथा, यद् द्वयाकारतया प्रतिभासते तत् तत्त्वतो भिन्नम्
यथा सुखदुःखे, द्वयाकारतया प्रतिभासेते च विषय-ज्ञानाकारौ
इत्यनुमानाच्चानयोर्भेद । अभेदे
वा ज्ञान1103रूपाग्रहणे नीलादेरप्यग्रहणप्रसङ्ग, यादृशं हि पारमार्थिकं यस्य1104 रूपं तस्याग्रहणे
तदपि न गृह्यते यथा पीतस्य पीतरूपाग्रहणे पीतम्, न गृह्यते च ज्ञानस्वरूपं नीलादेरिति ।
ननु प्रकाशव्यतिरिक्तस्य नीलादेरूपलम्भे स्यादेतत्, न चासौ तद्व्यतिरिक्त कदाचिदप्युप
लभ्यते, तदयुक्तम्; यत कोऽयं प्रकाशो नाम अहम् इति बुद्धिः, नीलादेर्दृश्यता वा ?
प्रथमपक्षे सिद्धो नीलादेस्ततो भेद, न हि भिन्नमुपलभ्यमानमेव अभिन्न युक्तम् सुखदु खादेरप्य
भेदापत्ते । एतेन द्वितीयपक्षोऽपि प्रतिक्षिप्त; दृश्यताया दर्शननिबन्धनत्वात्, अत एव दर्शनात्
पूर्वमप्यस्य सत्त्वसिद्धि ।


किञ्च, अर्थाभावोऽनुपलब्धे नान्यत, एकः प्रतिषेधहेतुः न्यायवि॰ पृ॰ ३९ ।
इत्यभिवानात् । नचोपलभ्यमानस्यैव अनुपलब्धिर्वक्तुं युक्ता, प्रतीतिविरोधात् । न च वक्तव्यम्
पुरोवर्तिज्ञानाकार एवोपलभ्यते, तत्कथमर्थोपलब्धिः ? यतो न ज्ञानाकारतया पुरोवर्तिन्यर्थे
कस्यचित्प्रतीतिरस्ति, नीलमर्थमुपलभामहे इति सामानाधिकरण्येन अर्थे प्रतीत्युत्पत्तेः । साका
रता च विज्ञानस्य अग्रे निराकरिष्यते । अस्तु वाऽसौ; तथापि तत्प्रतिबिम्बित आकार कादा
चित्कत्वात् कार्य । यत् खलु कादाचित्कम् तत्कार्य दृष्टम् यथा घटादि, कादाचित्कश्च ज्ञानस्य
नीलाद्याकार इति । कार्यत्वञ्च अन्यापेक्षया व्याप्तम्, यच्चान्यत् तद्विज्ञानसामग्रीतोऽधिकम्
तस्या सत्यामपि तदनुत्पत्ते । यस्यां सत्यामपि यन्नोत्पद्यते तत् ततोऽधिककारणजन्यम् यथा
भूम्यादिकारणसामग्रीतोऽभवन्नङ्कुर तदधिकबीजाख्यकारणजन्य, सत्स्वपि चक्षुरादिषु नोत्पद्यते
च नीलाकार इति । यत् तदधिक तज्जनकं कारणम् सोऽर्थ ।


वासनारूपं चक्षुरादिभ्योऽधिकं कारणमत्र भविष्यतीति चेत्, किम् आल1105म्बनत्वेन, अधि
पतित्वेन, समनन्तरत्वेन वा ? प्रथमपक्षे अर्थ एव नामान्तरेणोक्त स्यात् । उत्तरपक्षद्वये तु
चक्षुरादिवत् तस्या ग्राह्याकारकारणानुपपत्तिः । यदि च बाह्यमर्थमन्तरेण रूपादिज्ञानं स्यात,
तदा कथ प्रतिनियतदेश-काल-प्रमातृनिष्ठतया तत्स्यात् नियामकाऽभावतः सर्वत्र सर्वदा सर्वे
पामनियमेनैव तत्प्रसङ्गात् ? कथं वा तत्रैव देशे तस्यैव प्रमातु कदाचि1106त्तदुत्पद्येत कदाचिन्नेति ?
कथ वा तैमिरिकस्यैव सन्ताने खे केशपाशदर्शन नान्येषाम्, तदुपलब्धैश्च केशादिभि कार्य न
क्रियते नान्यै तुल्येऽप्यर्थाभावे ? स्व1107प्नदृष्टान्तमात्रेण अर्थाभावे-देशादिनियमस्य कल्पने निरंशै
121 कपरमब्रह्मसिद्धिप्रसङ्गः, जलचन्द्रवत् तस्यैव भेदेन प्रतिभाससंभवात् । यथा च अनादिवा
सनासामर्थ्यप्रतिनियमात् एवंविधो विज्ञानाद्वैते भेदप्रतिभासप्रपञ्चः, तथा नित्यनिरंशैकरूपे
ब्रह्मण्यपि अनाद्यविद्यासामर्थ्यप्रतिनियमात् ।


किञ्च, भ्रान्तिः सर्वत्र साधर्म्यदर्शनाज्जायते, यथा अनुदकरूपासु मरीचिकासु उदक
भ्रान्तिः, न च विज्ञप्तिमात्रवादिनः नचित् केन1108चित् साधर्म्यदर्शनमस्ति यद् भेद
भ्रान्तेर्निमित्तं स्यात् । ननु स्वापादौ अर्थाभावे साधर्म्यदर्शनाभावे च भेदभ्रान्तिरुपलभ्यते
ततोऽयमदोषः; तदसत्; तत्रापि पारम्पर्येण बाह्यार्थोपयोगात्, न ह्यननुभूतेऽर्थे स्वप्नः
कदाचि1109त् क्वचिदप्युदेति, अतोऽनुभूतार्थसापेक्षजन्मत्वात् स्वप्नस्य कथमर्थाभावे संभवः ?
नन्वननुभूतेऽपि स्वशिरश्छेदादौ ज्ञानमुपजायते; तन्न; तत्रापि परशिरश्छेदो दृष्टः, स्व
शरीरञ्चानुभूतम्, तत्र मनोदोषवशाद् विवेकमपश्यन् आत्मशरीरे शिरश्छेदमभिमन्यते, अत
स्तत्रापि अनुभूतोऽर्थ एव कारणम् । नहि अननुभूतपरशिरश्छेदस्य तदपि ज्ञानमुपजायते । गन्ध
र्वनगरप्रत्ययेऽपि परमार्थसन्तो बाह्यार्था जलधराः कुतश्चिदन्याकारतयाऽवभासन्ते । कथञ्च
बाह्यार्थापह्नवे जातिनैयत्यसिद्धिः ? ज्ञानमात्रे हि जगति नियामकाभावात् मनुष्योऽश्वः, अश्वोऽपि
मनुष्यः, हस्त्यपि पिपीलिका, पिपीलिकापि हस्ती स्यात् । बाह्यार्थाभ्युपगमे तु तन्नैयत्यं सुघटमेव;
येन हि मनुष्यत्वजात्युपभोग्यसुखदुःखादिनिमित्तं कर्म समाचरितं स तत्परिपाकवशात्तामेव
जाति प्रतिपद्यते, एवमन्येऽपि प्राणिनः स्वोपार्जितसाधारणकर्मबलात् तास्ताः जातीः प्रतिपद्यन्ते ।


किञ्च, अर्थस्याऽसत्त्वम् इच्छामात्रेण, साधकप्रमाणाभावात्, संवादासत्त्वात्, अर्थक्रिया
कारित्वाऽभावात्, बाधकप्रमाणसद्भावाद्वा ? यदीच्छामात्रेण तदाऽतिप्रसङ्गः, तदद्वैतादेरपि
अतोऽसत्त्वानुषङ्गात् । नापि साधकप्रमाणाभावात्; प्रत्यक्ष1110स्यैव अनात्मभूताऽबाधितार्थक्रिया
प्रसाधकोदकाद्यर्थसंसाधकस्य सद्भावात् । संवादासत्त्वमपि असिद्धम्; प्रत्यक्षप्रतिपन्ने जलादौ
अनुमानादेः संवादकस्य संभवात् । अर्थक्रियाकारित्वाभावोऽपि अनुपपन्नः; बाह्या1111ऽऽध्यात्मि
कार्थक्रियायाः तन्निबन्धनत्वात् । बाधकञ्चार्थस्य न किञ्चित्प्रमाणमुपलभ्यते ।


यच्चात्र बाधकमुक्त1112म्–परतः सम्बद्धात्, असम्बद्धाद्वा इत्यादि; तत्र सम्बद्धादेव ज्ञाना
दर्थस्य प्रतिभासः, सम्बन्ध1113श्च योग्यतालक्षणः, न तादात्म्य-तदुत्पत्तिलक्षणः तस्य क्ष1114णक्षयादिना
चक्षुरादिना चाऽनेकान्तात् । योग्यस्य चार्थस्य समकालस्य भिन्नकालस्य वा ग्रहणमविरुद्धम् ।


122

ननु तथाभूतस्यार्थस्य यावज्ज्ञान ग्राहकं तावदर्थोऽपि ज्ञानस्य ग्राहकः कुतो न स्यादिति
चेत् ? स्वभावभेदात् । न खलु य एवैकस्य स्वभावः स एवान्यस्यापि, अन्यथा प्रदीपवत् घट
स्यापि प्रकाशकत्वप्रसङ्ग, तथा प्रतीतिः अन्यत्रापि समाना । नहि अर्थस्य ज्ञानवत् ग्राहकत्वेन
प्रतीतिरस्ति । नीलाद्याकाराणां वा यावद् बुद्धिर्व्यापिका तावन्नीलादय किन्नास्या व्यापकाः,
नियतानाञ्चैषां यावदसौ व्यापिका तावत् सर्वेषां किन्न व्याषिका ?
इति चोद्ये भवतोऽपि नातः
स्वभावभेदप्रतीते अन्यदुत्तरम् ।


यदप्यभिहित1115म्–1116र्थो नित्योऽनित्यो वा एकरूपोऽनेकरूपो वा इत्यादि, तदपि अखिला
र्थानामनेकान्ताभ्युपगमान्निरस्तम्, नहि सर्वथा नित्योऽनित्यो वा एकरूपोऽनेकरूपो वा बहिर
न्तर्वाऽर्थोऽस्ति इत्यनेकान्तसिद्धौ प्ररूपयिष्यते ।


यदप्युक्त1117म्–अर्थो ज्ञानाधिरूढ एवार्थतामासादयति इत्यादि, तत्र कोऽधिरूढार्थ–व्यव
स्थितिः, अपेक्षा वा ? न तावद्व्यवस्थितिः, तस्य ज्ञानाऽनात्मभूतस्य स्वपराप्रकाशकस्य
आत्मप्रकाशे परमुखप्रेक्षकस्य जडव्यवहारविषयस्य अध्यक्षादितो बहिर्व्यवस्थितत्वप्रतीतेः,
अन्यथा जाड्यव्यवहारेण बहिश्छिदादिक्रिया न स्यात् । द्वितीयपक्षे तु ज्ञानार्थयोर्भेद एव
स्यात्, अपेक्षाया1118 स्वामि-भृत्यवत् भेदे सत्येव सभवात् । ज्ञानापेक्षाऽर्थस्य1119 सिद्धि इत्ये
तावता अर्थस्य ज्ञानात्मकत्वे कार्यस्यापि कारणात्मकत्वप्रसङ्गात् कारणाद्वैतमप्यनुषज्येत, न हि
कारणनिरपेक्षा कार्यस्य सिद्धिरिति । यच्चान्यदुक्त1120म्–यत् स्वयं प्रकाशते तज्ज्ञानादनन्यत्
इत्यादि, तदपि श्रद्धामात्रम्, स्वयं प्रकाशमानत्वस्य अर्थे प्रागेव प्रतिषेधात् ।


यच्चोक्तम्1121सहोपलम्भनियमात् इत्यादि, तदप्युक्तिमात्रम्; अ1122नैकान्तिकत्वात्, भिन्ना
123 स्वपि हि कृत्तिकासु सहोपलम्भनियमो वर्तते । विरु1123द्धत्वञ्च भेदेनैव सहोपलम्भस्य व्याप्तत्वात्,
सहशब्दो हि भेदाधिष्ठानः, अभेदे सहशब्दार्थानुपपत्तेः, न हि स एव तेनैव सह इति व्य
पदेशमर्हति । व्याप्तिशून्यत्वञ्चास्य; तथाहि–हेतोर्विपक्षे बाधकप्रमाणसद्भावाद् व्याप्तिरवसेया,
अभेदस्य च भेदो विपक्षः, ततो नियतसहोपलम्भस्य व्यावृत्तौ दर्शितायां गत्य1124न्तराभावाद् अभे
देनैव व्याप्तिः सिद्ध्येत्, न चायं भेदाद् व्यावृत्तः, भिन्नास्वपि हि कृत्तिकासु नियतसहोपलम्भ
स्य दृष्टत्वात् । कालात्ययापदिष्टश्चायम्; संवित्-संवेद्य-संवेदकानां परस्परविविक्तस्वरूपाणामबा
धितप्रत्यक्षेण प्रतीयमानत्वात् । न च एतेनैव बाध्यमानत्वाद् अबाधितत्वमसिद्धम्; प्रत्यक्षविरोधे
एतस्यानुमानस्य आत्मलाभस्यैवाऽसंभवात्, लब्धात्मलाभञ्च साधकं बाधकं वा तत्स्यात् ।


सहोपलम्भशब्देन च किमत्राभिप्रेतम्–किमर्थद्वये उपलम्भद्वयस्य स1125हभावः, एकस्मिन्नेवोप
लम्भे अर्थद्वयस्य युगपत्प्रतिभासित्वं वा ? प्रथमपक्षे असिद्धो हेतुः प्रतिविष1126यं ज्ञानभेदाऽसंभ
वात् । साधनविकलश्च दृष्टान्तः; न1127 हि द्विचन्द्रप्रतिभासे प्रतिभासद्वयसाहित्यमस्ति, एकस्यैव
ज्ञानस्य उभयाकारोल्लेखितयाऽध्यक्षतोऽध्यवसायात् । द्वितीयपक्षे तु विरुद्धत्वम्, एकत्रोपलम्भे
सहार्थद्वयप्रतिभासत्वस्य भेदे सत्येव संभवात् । अथ यदेकस्मिन्नेत्र संवेदने स्फु1128रति तत् संवे
दनादभिन्नम् यथा संवेदनस्वरूपम्, स्फुरन्ति च तत्रैव संवेदने नीलादयो भावाः
इत्यतोऽनु
मानाद् भेदे प्रतिभास्यत्वाऽसंभवान्नास्य विरुद्धत्वम्; तन्न; संवित्-संवेद्ययोर्भेदस्य प्रत्यक्षादि
प्रसिद्धत्वेन प्रतिपादितत्वात् । किञ्च, संवेदनस्य स्वपरावभासस्वभावत्वात् परस्य चाऽभावे
तत्स्वभावसंवेदनस्वरूपस्यासंभवेन संवेदनस्याप्यसंभवात् कस्य केनाऽभेदः ?


यच्चोक्तम्1129यद्वेद्यते तद्विज्ञानादभिन्नम् इत्यादि; तत्र किमिदं वेद्यत्व1130म्–वेदनकर्मत्वम्, तत्स
म्बन्धित्वमात्रम्, तत्स्वभावत्वं वा ? यदि वेदनकर्मत्वम्; तदा विरुद्धोहेतुः1131कर्मत्वस्य भेदेनैव व्याप्त
त्वात्, न हि छिदिक्रियायाः कर्मभूतानि काष्ठानि अभिन्नान्युपलभ्यन्ते, अतः क्रिया-कारकयो
र्भेदे सत्येवोपलब्धेः भेदेनैव कर्म-क्रियाभावस्य व्याप्तत्वात् अभेदविपरीतार्थसाधनत्वाद् अभेदे
124 साध्ये विरुद्धो हेतु । अभेदे चानयोः कि संवेदनादर्थस्याऽभेदः, अर्थाद्वा संवेदनस्य ? प्रथमवि
कल्पे संवेदनमेव स्यात् नार्थः तस्य तत्रैवानुप्रविष्टत्वात्, तथा च संवेद्यत्वात् इत्यसिद्धो हेतु ।
द्वितीयविकल्पे तु अर्थ एव न संवेदनम्, इति कुतोऽस्य अभेदः साध्येत ? भेदस्यानयोः प्रत्यक्षप्र
तिपन्नत्वात् कालात्ययापदिष्टत्वञ्च । संवित्स्वरूपस्य चाऽभिन्नत्वेन अकर्मकत्वे साधनविकलो दृष्टा
न्त । अथ संवित्सम्बन्धित्वमात्रं वेद्यत्वम्, तथापि विरुद्धत्वम् सम्बन्धित्वस्य भेदे सत्येव सं
भवात्, भेदाश्रयो हि सम्बन्धः तदभावे तस्याप्यभावात् संवित्सम्बन्धित्वस्यासिद्धिः इत्यसिद्ध
त्वञ्च । अथ वेद्यत्वं संवित्स्वभावत्वं विवक्षितम्, तदसिद्धमेव अर्थस्याऽसंवित्स्वभावत्व1132समर्थ
नात् । ततो निर्बाधबोधाद् वस्तुव्यवस्थामभ्युपगच्छता तत्संवेदनमिव असंवेदनस्वभावो बाह्यार्थो
नील1133सिताद्यनेकाकारः प्रतिपत्तव्यः ।


चित्राद्वैतवादिनो बोद्धैकदेशिन पूर्वपक्ष–


ननु ज्ञानमेवेदं चि1134त्रं नीलसुखाद्यनेकाकारखचितमाभासते न पुनर्बाह्योऽर्थ तत्सद्भावे
प्रमाणाऽभावात्, यस्य सद्भावे प्रमाणं नास्ति तन्नास्ति यथा खर
विषाणम्, नास्ति च बाह्यार्थसद्भावे किञ्चित्प्रमाणमिति । न चेद
मसिद्धम्, तथाहि–तत्सद्भावावेदकं निराकारम्, साकारं वा
प्रमाणं स्यात् ? न तावन्निराकारम्; तस्य सर्वत्राऽविशेषतः प्रतिकर्मव्यवस्थानिबन्धनत्वानुप
पत्ते । साकारत्वे तु सिद्धं ज्ञानमेव नीलाद्यनेकाकाराक्रान्तं चित्रमेकम्, न पुन तद्व्यतिरिक्तो
जडोऽर्थः तद्व्यवस्थाहेतो कस्यचिदप्यभावात् । नचाकारविशिष्टं ज्ञानमेव तद्व्यवस्थाहेतु;
तस्य स्वाकारानुभवमात्रेणैव चरितार्थत्वात् । तदुक्तम्–


धि1135योऽनीलादिरूपत्वे बाह्योऽर्थः किन्निबन्धनः ।

धियो नीलादिरूपत्वे बाह्योऽर्थः किन्निबन्धनः ॥ प्रमाणवा॰ ३ । ४३३ इति ।

125

किञ्च, प्रमेयात् पूर्वकालभाविज्ञानं तद्व्यवस्थापकं स्यात्, उत्तरकालभावि वा ? प्रथम
पक्षे कथमस्येन्द्रियार्थसन्निकर्षप्रभवता प्रमेयमन्तरेणैवोत्पद्यमानत्वात् ? यत्प्रमेयमन्तरेणैवोत्प
द्यते न तदिन्द्रियार्थसन्निकर्षजम् यथा खपुष्पविज्ञानम्, प्रमेयमन्तरेणैवोत्पद्यते च प्रमेयात् पूर्व
कालभावि तद्व्यवस्थापकत्वेनाभिमतं ज्ञानमिति । द्वितीयपक्षे तु प्रमाणात् पूर्वकालवृत्तित्वं प्रमे
यस्य कुतश्चित् प्रतिपन्नम्, न वा ? यदि न प्रतिपन्नम्; कथं सद्व्यवहारविषयः ? यत् कुत
श्चिन्न प्रतिपन्नम् न तत् सद्व्यवहारविषयः यथा गगनेन्दीवरम्, कुतश्चिदप्रतिपन्नञ्च प्रमाणात्पू
र्वकालवृत्तित्वं प्रमेयस्येति । अथ प्रतिपन्नम्; किं स्वतः, परतो वा ? यदि स्वतः; कथमस्य ज्ञाना
द्भेदः तस्यैव स्वतोऽवभासलक्षणत्वात् ? यत् स्वतः प्रसिद्धम् न तज्ज्ञानाद्भिद्यते यथा ज्ञानस्व
रूपम्, स्वतः प्रसिद्धञ्च ज्ञानात्पूर्वं प्रवर्तमानं प्रमेयत्वेनाभिमतं वस्त्विति । अथ परतः; तन्न;
प्रमाणाद् व्यतिरिक्तस्य प्रमेयव्यवस्थाहेतोः परस्याऽसंभवात् । अथ प्रमाणमेव तस्य तद्वृत्तित्वं
प्रकाशयति; तन्न; तस्य स्वयं तत्कालेऽसतः तत्प्रकाशकत्वाऽयोगात्, यद् यत्काले नास्ति न
तत्तस्य प्रकाशकम् यथा स्वोत्पादात्पूर्वकालवृत्तिपदार्थकालेऽसन् प्रदीपो न तत्प्रकाशकः, नास्ति
च पूर्वकालविशिष्टस्य प्रमेयस्य काले ज्ञानमिति ।


समकालत्वे तु ज्ञानज्ञेययोः सव्येतरगोविषाणवत् ग्राह्यग्राह1136कभावाभावः, न च ज्ञाने नी
लाद्याकारानुरागप्रतीत्यन्यथानुपपत्त्या तदनुरञ्जको बहिरर्थोप्य1137स्तीत्यभिधातव्यम्; स्वप्नावस्था
यां तदभावेऽपि तदनुरागप्रतीतेः, न हि तद्दशाभाविनि करितुरगादिप्रत्ययेऽनुरञ्जको बहिरर्थोऽ
स्ति, स्वप्नेतरप्रत्ययानामविशेषप्रसङ्गात् । अतो बुद्धिरेवार्थनिरपेक्षा स्वसामग्रीतो विचित्राकार
छायाछुरिता यथाऽत्रोत्पद्यते तथाऽन्यत्रापि । ननु एवमपि एकस्या बुद्धेः विचित्राकाररूपतया
प्रतिभासमानायाः कथमेकत्वं युक्तम् ? इत्यप्यचोद्यम्; अशक्यविवेचनत्वतः तस्यास्तदविरोधा
त् । उक्तञ्च–


नीलादिश्चित्रविज्ञा1138न-ज्ञानोपाधिरनन्यभाक् ।

अशक्यदर्शन1139स्तं हि पतत्यर्थे विवेच1140यन् ॥ प्रमाणवा॰ ३ । २२०

126

चित्रप्रतिभासाप्येकैव बुद्धिः बाह्यचित्रविलक्षणत्वात्, शक्यविवेचनं हि बाह्यं चित्रम् अ
शक्यविवेचनास्तु बुद्धेर्नीलादय आकारा इति । ननु चित्रपट्यादौ चित्ररूपता प्रतीयते तस्या
कुतो ज्ञानधर्मतेति चेत् ? अर्थधर्मत्वानुपपत्तेः । तथाहि–चित्रपट्यादिकमेकमवयविरूपं निरं
शं वस्तु स्यात्, तद्विपरीतं वा ? प्रथमपक्षे नीलभागे गृह्यमाणे पीतादिभागानामग्रहणं न स्यात्,
तेषां ततो भेदप्रसङ्गात्, यस्मिन् गृह्यमाणे यन्न गृह्यते तत् ततो भिन्न यथा सह्ये गृह्यमाणे
विन्ध्यः, गृह्यमाणे नीलभागे न गृह्यते च पीतभागादिकमिति । तथा च अवयविनोऽप्येकरूपता
नुपपत्तिः विरुद्धधर्माध्यासात्, यस्य विरुद्धधर्माध्यासो न तस्यैकरूपता यथा जलाऽनलादे,
ग्रहणाऽग्रहणलक्षणविरुद्धधर्माध्यासश्च अवयविनः इति । नीलभागस्य पीतादिभागात्मकत्वाद्वा
पीताद्यग्रहे तस्याप्यग्रहणमेव स्यात् । यद् यदात्मकम् तस्याऽग्रहे तदपि न गृह्यते यथा पीता
देरग्रहे न तत्स्वरूपम्, पीताद्यात्मकञ्च नीलमिति । तद्विपरीतत्वे तु चित्रपट्यादे सिद्धः स्वय
मेव चित्रतापाय विभिन्नाश्रयवृत्तिनील-पीतादिवत् । तन्नार्थधर्मश्चित्रता किन्तु ज्ञानधर्म, स्व
कारणकलापाद् विज्ञानमुपजायमानम् अनेकाकारखचितमेवोपजायते अनुभूयते च । अतः
तथाभूतं ज्ञानमेव एकं तत्त्वम्, इति चित्राद्वैतसिद्धि ।


अथ अचेतनस्य सुखादेर्ज्ञानम्बरूपताविरहात् कथं चित्रप्रतिभासं ज्ञानमेवैकं तत्त्व स्यात्
यतश्चित्राद्वैनं सिद्ध्येत इत्युच्यते, तदप्युक्तिमात्रम्, यत सुखादेरपि ज्ञानाऽभिन्नहेतुजत्वेन
ज्ञानात्मकत्वोपपत्ते । तथाहि–ज्ञानात्मका सुखादय ज्ञानाभिन्नहेतुजत्वात् ज्ञानान्तरवन् ।
तदुक्तम्–


तद1141तद्रूपिणो भावाः तदतद्रूपहेतुजाः ।

तत्सुखादि किमज्ञान विज्ञानाऽभिन्नहेतुजम् ॥ प्रमाणवा॰ ३ । २५१ इति ।

चित्राद्वैतवादिमतखण्डनम्–


अत्र प्रतिविधीयते । यत्तावदुक्तम्1142साकारं निराकारं वा ज्ञान बहिरर्थसद्भावे प्रमाणं स्यात्
इत्यादि, तत्र1143 निराकारमेव ज्ञानं तत्सद्भावे प्रमाणम् साकारपक्षस्य
निराकरिष्यमाणत्वात् । न च निराकारसंवेदनस्य सर्वत्राऽविशे
पात् प्रतिकर्मव्यवस्थाहेतुत्वाभाव; योग्यतातो निराकारत्वेऽपि तद्धेतुत्वस्य समर्थयिष्यमाणत्वात् ।
127 यदप्युक्तम्1144प्रमेयात् पूर्वकालभावि प्रमाणम् इत्यादि; तदप्यसमीक्षिताभिधानम्; प्रकाश1145कस्य
पूर्वापरसहभावनियमाऽभावात् । तथाहि–क्वचित् पूर्वं विद्यमानः पश्चाद्भाविनां प्रकाशको भवति,
यथा आदित्यः समुत्पद्यमानानाम् । क्वचिच्च पूर्वं सतां प्रकाश्यानां पश्चाद्भवन् प्रकाशकः यथा
प्रदीपः अपवरकान्तर्वर्त्तिघटादीनाम् । क्वचित्तु सहभाविनां प्रकाशकः, यथा कृतकत्वादिः अनि
त्यत्वादीनाम् । अतः प्रमाणं पूर्वापरसहभावनियमनिरपेक्षं वस्तु प्रकाशयति, प्रकाशकत्वात्,
आदित्यादिवत् ।


यच्चान्यदुक्तम्1146स्वप्नावस्थायां बहिरर्थाभावेऽपि नीलाद्यनुरागः प्रतीयते इत्यादि; तदप्यु
क्तिमात्रम्; स्वप्नज्ञाने अनन्तरमेव माध्यमिकमतविचारावसरे बाह्यार्थविषयत्वस्य प्रसाधयिष्य
माणत्वात् ।


यदप्युक्तम्1147चित्राकारतया प्रतिभासमानस्यापि ज्ञानस्य अशक्यविवेचनत्वादेकत्वम् इति;
तत्र किमिदम् अशक्यविवेचनत्वं नाम–ज्ञा1148नाऽभिन्नत्वम्, सहोत्पन्नानां नीलादीनां ज्ञानान्तर
परिहारेण तज्ज्ञानेनैवाऽनुभवः, भेदेन विवेचनाऽभावमात्रं वा ? प्रथमपक्षे साध्यसमो हेतुः,
यदुक्तं भवति ज्ञानादभिन्ना नीलादयः ततोऽभिन्नत्वात्, तदेवोक्तं भवति अशक्यविवेचनत्वात्
इति । द्वितीयपक्षे तु अनैकान्तिकत्वम्, सचराचरस्य जगतः सुगतज्ञानेन सहोत्पन्नस्य ज्ञानान्तर
परिहारेण तज्ज्ञानेनैव ग्राह्यस्य तेन सहैकत्वाऽभावात् । एकत्वे वा सुगतस्य संसारित्वम्,
संसारिणां वा सुगतत्वं स्यात्, संसारेतररूपता चैकस्य ब्रह्मवादं समर्थयते । ज्ञानान्तरपरि
हारेण तज्ज्ञानेनैवानुभवश्च असिद्धः, नीलादीनां ज्ञानान्तरेणाप्यनुभवात् । ज्ञानरूपत्वात्तेषां तत्सि
द्धौ च अन्योन्याश्रयः–ज्ञानरूपत्वसिद्धौ हि तेषां ज्ञानान्तरपरिहारेण तज्ज्ञानेनैवाऽनुभवसिद्धिः,
तत्सिद्धौ च ज्ञानरूपत्वसिद्धिरिति । भेदेन विवेचनाऽभावमा1149त्रमप्यसिद्धम्; बहिरन्तर्देशसम्बन्धि
त्वेन नील-तज्ज्ञानयोर्विवेचनप्रसिद्धेः । न चेत्थं विवेच्यमानयोरप्यनयोः विवेचनापह्नवो युक्तः;
सर्वापह्नवप्रसङ्गतः सकलशून्यतानुषङ्गात् ।


128

किञ्च, अन्तस्तत्त्वस्य अनेकाकाराक्रान्तस्यापि अशक्यविवेचनत्वाद् एकत्वाऽविरोधे बहि
स्तत्त्वस्यापि अवयव्यादेः अत एव एकत्वाऽविरोधोऽस्तु विशेषाऽभावात् । बुद्ध्या तत्स्वरूपविवे
चनम् अन्यत्राप्यविशिष्टम्, चित्रज्ञानेऽपि नीलाद्याकाराणाम् अन्योन्यदेशपरिहारेण स्थितत्वाऽ
विशेषात् । एकदेशत्वे च एकाकारे एवाशेषाकाराणामनुप्रवेशप्रसङ्गत तद्वैलक्षण्याऽभावात् तच्चि
त्रता विरुद्ध्येत् । यदेकदेशं न तस्य आकारवैलक्षण्यम् यथा एकनीलाकारस्य, एकदेशाश्च
चित्रज्ञाने नीलाद्याकारा इति । तथा, यत्र आकाराऽवैलक्षण्यम् न तत्र चित्ररूपता यथा एक
नीलज्ञाने, आकाराऽवैलक्षण्यञ्च एकदेशतयाऽभिमतानां नीलाद्याकाराणामिति ।


किञ्च1150, एते आकारा चित्रज्ञाने सम्बद्धा सन्तस्तद्व्यपदेशहेतव, असम्बद्धा वा ? न
तावदसम्बद्धा, अतिप्रसङ्गात् । अथ सम्बद्धाः, कि तादात्म्येन, तदुत्पत्त्या वा ? न तावत्तदु
त्पत्त्या, समसमयवर्त्तिनां नारीनयनयुग्मवत् तदसभवात् । नापि तादात्म्येन; ज्ञानस्य अनेका
काराऽव्यतिरिच्यमानत्वेन एकरूपत्वाऽभावप्रसङ्गात् । यदनेकाकाराऽव्यतिरिच्यमानस्वरूपं
तदनेकम् यथा अनेकाकारस्वरूपम्, अनेकाकाराऽव्यतिरिच्यमानस्वरूपञ्च चित्रज्ञानस्वरूपमिति ।
अनेकाकाराणाञ्च एकस्माज्ज्ञानस्वरूपादव्यतिरेकेऽनेकत्वानुपपत्ति । यदेकस्मादव्यतिरिक्तं न
तदनेकम् यथा तस्यैव ज्ञा1151नस्य स्वरूपम्, एकस्माज्ज्ञानस्वरूपादव्यतिरिक्ताश्च अ1152नेकत्वेनाभि
मता नीलादय आकारा इति ।


यदप्युक्तम्1153ग्रहणाऽग्रहणलक्षणविरुद्धधर्माध्यासान्नार्थधर्मश्चित्रता इति, तदप्यसुन्दरम्; प्र
त्यक्षविरोधेऽनुमानाऽप्रवृत्तेः, बाह्यार्थधर्मतया हि अबाधिताध्यक्षप्रत्यये चित्राकारः प्रतिभासते,
न तस्य ज्ञानधर्मता युक्ता अतिप्रसङ्गात् । यो यद्धर्मतया प्रतीयते न स ततोऽन्यधर्मा यथा
अग्निधर्मतया प्रतीयमाना भा1154स्वरोष्णता न जलधर्म, बाह्यार्थधर्मतया प्रतीयते च चित्रतेति ।
कथं तद्धर्मत्वे ग्रहणाऽग्रहणयोरुपपत्तिः इति चेत् ? चित्रप्रतिपत्ते अनेकवर्णप्रतिपत्तिनिबन्धन
त्वात्, प्रतिपन्नेऽपि नीलभागे पीतादिभागाऽप्रतिपत्तौ चित्रताऽप्रतिपत्तिरुपपन्नैव । विरोधश्च
ज्ञानधर्मत्वेऽपि चित्रताया तुल्य एव, तथा1155हि–ज्ञानमेकमनेकाकारम्, तद्विपरीतं वा ? न
तावदाद्यविकल्पो युक्त, परस्परव्यावृत्तत्वेनाऽऽकाराणाम् एकत्रानंशे ज्ञाने वृत्त्यनुपपत्ते, येषां
परस्परव्यावृत्ति न तेषामेकत्राऽनंशे वृत्ति यथा गवाश्वादीनाम्, परस्परव्यावृत्तिश्च नीलाद्या
काराणामिति । न चैकस्याऽनंशस्याऽस्य परस्परविरु1156द्धाकारैस्तादात्म्य युक्तम्, तावद्धा तस्यापि
भेदप्रसङ्गात् । प्रयोग–यद् एकमनंशं न तस्य परस्परविरुद्धाकारै सह तादात्म्यम् यथा उत्प
न्नस्य क्षणस्य उत्पत्त्यनुत्पत्ति1157भ्यां सत्त्व-विनाशाभ्यां वा, एकमनशञ्च1158 चित्रज्ञानं भवद्भिर
129 भिप्रेतमिति । तत्तादात्म्ये च आकाराणां भेदवार्ताऽपि दुर्लभा इति कथं तच्चित्रता ? अ1159थ नीला
द्याकारवत् तज्ज्ञानमप्यनेकमिष्यते, तदाऽपि किं कथञ्चित्, सर्वथा वा ? यदि सर्वथा; तदा
तज्ज्ञानानां परस्परमत्यन्तभेदात् चित्रप्रतिपत्तिः स्वप्नेऽपि न प्राप्नोति । येषां परस्परमत्यन्त
भेदो न तेषां चित्रप्रतिपत्तिः यथा सन्तानान्तरज्ञानानाम्, परस्परमत्यन्तभेदश्च आकारवत् तज्ज्ञा
नानामिति । कथञ्चिदभेदे तु ज्ञानवद् बहिरर्थस्यापि स्वाकारैर्विचित्रैः कथञ्चित्तादात्म्यमनुभ
वतः प्रत्यक्षादिप्रमाणेन प्रतीयमानस्य चित्रस्वभावता इष्यताम्, कि दुराग्रहग्रहाभिनिवेशेन
आक्षेप–समाधानयोः बहिरन्तर्वा चित्रतायां समानत्वात् ?


यदप्यभिहितम्1160ज्ञानात्मकाः सुखादयः, ज्ञानाऽभिन्नहेतुजत्वात् इत्यादि; तत्र कि सर्वथा
ज्ञानाभिन्नहेतुजत्वं तेषामभिप्रेतम्, कथञ्चिद्वा ? प्रथमपक्षे अ1161सिद्धो हेतुः; सुखादीनां सदसद्वे
द्योदय-स्रग्वनितादिनिमित्तनिबन्धनत्वात्, ज्ञानस्य च ज्ञानावरणक्षयोपशम-इन्द्रियादिकारण
कलापप्रभवत्वात् । विभिन्नस्वरूपत्वाच्च अमीषां सर्वथाऽभिन्नहेतुजत्वमनुपपन्नम्; येषां विभिन्न
स्वरूपत्वं न तेषां सर्वथाऽभिन्नहेतुजत्वम् यथा जलानलादीनाम्, विभिन्नस्वरूपत्वञ्च ज्ञानसु
खादीनामिति । न चेदमसिद्धम्; सुखादेः आह्लादनाद्याकारत्वात्, ज्ञानस्य च प्रमेयानुभव
स्वभावत्वात् । उक्तञ्च1162


सुखमाह्लादनाकारं विज्ञानं मेयबोधनम् ।

शक्तिः क्रियानुमेया स्याद् यूनः कान्तासमागमे ॥ १ ॥ इति ।

विभिन्नस्वरूपाणामपि अभिन्नोपादानत्वे सर्वं सर्वस्योषादानं स्यात् । अथ कथ1163ञ्चिद् विज्ञानाऽ
भिन्नहेतुजत्वं विवक्षितम्; तद् रूपाऽऽलोकादिनाऽनैकान्तिकम्, यथैव हि ततो विज्ञानस्यो
त्पत्तिः तथा रूपाऽऽलोकादिक्षणान्तरस्यापि ।


130

किञ्च, उपादानकारणापेक्षया सुखादीनां विज्ञानाऽभिन्नहेतुजत्वमुच्यते, सहकारिकारणा
पेक्षया वा ? तत्राद्यविकल्पे किमेषामभिन्नमुपादानम्-आत्मद्रव्यम्, ज्ञानक्षणो वा ? न ताव
दात्मद्रव्यम्; अनभ्युपगमात् । अभ्युपगमे वा किमेतेपामुपादानापेक्षया अभेदः साध्यते, स्वरूपा
पेक्षया वा ? यद्युपादानापेक्षया, तदा सिद्धसाधनम् चेतनद्रव्यार्थादेशात् सुखादीनामभेदा
भ्युपगमात्, सुखज्ञानादिप्रतिनियतपर्यायार्थादेशादेव अमीषामन्योन्यं भेदाऽभ्युपगमात् । स्व
रूपापेक्षया तु अभेदाऽभ्युपगमे घटादिभिर्व्यभिचार, न ह्यभिन्नोपादानानां घट-घटी-शरावोद
ञ्चनादीनां स्वरूपतोऽभेदोऽस्ति । अथ ज्ञानक्षणोपादानत्वं विज्ञानाभिन्नहेतुजत्वमभिप्रेतम्; तद
सिद्धम्, आत्मद्रव्योपादानत्वात्तेषाम्, न खलु पर्यायाणां पर्यायान्तरोत्पत्तौ उपादानत्वं क्वचिद्
दृष्टम् द्रव्यस्यैव अन्तर्वहिर्वोपादानत्वोपपत्ते । तदुक्तम्–

त्यक्ताऽत्यक्तात्मरूपं यत् पौर्वापर्य्येण वर्तते ।

कालत्रयेऽपि तद्द्रव्यमुपादानमिति स्मृत1164म् ॥

आत्मद्रव्यसिद्धिश्च सन्तानविचारावसरे प्रसाधिता, जीवसिद्ध्यवसरे प्रसाधयिष्यते च । अथ सह
कारिकारणापेक्षया विज्ञानाभिन्नहेतुजत्व सुखादीनां विवक्षितम्, तदपि विवक्षामात्रम्, तस्य
चक्षुरादिभिरनैकान्तिकत्वप्रतिपादनात् । यदि च सुखादयो ज्ञाना1165त् सर्वथाऽभिन्नाः तर्हि तद्व
देव एषामप्यर्थप्रकाशकत्वं स्यात्, न चात्र तदस्ति स्वरूपप्रकाशनियतत्वात्तेषाम् । ज्ञानं हि
स्वपरप्रकाशनियतम्, सुखादिकं तु स्व1166प्रकाशनियतम्
इति प्रतिप्राणि प्रसिद्धम्, अतो विरु
द्धधर्माध्यासात् कथमत्राऽभेदः ? यत्र विरुद्धधर्माध्यासो न तत्राऽभेदः यथा जलाऽनलादौ,
विरुद्धधर्माध्यासश्च ज्ञानसुखादाविति । तदेवं सुखादीनां ज्ञानरूपत्वाऽप्रसिद्धेः नीलसुखादि
विचित्रप्रतिभासापि एकैव बुद्धिः, अशक्यविवेचनत्वात्
इत्येतद्वच सत्त्यम्
अभिप्रायमात्रमेव सूचयतीति1167


सवेदनमात्रमेव आलम्बनप्रत्ययरहित वास्तव तत्त्वम्
इति बौद्धैकदेशिमाध्यमिकस्य पूर्वपक्ष–


ननु चित्रज्ञाने नीलाद्याकारप्रतिभासस्य अविद्याशिल्पिकल्पितत्वादवास्तवत्वमेव, ज्ञानस्यै
वानुभवपथप्राप्तस्य एकस्य मध्यक्षणस्वभावस्य वास्तवत्वम्, ततो नीला
द्याकाराणामभेदेऽनेकत्वविरोधात्, भेदे प्रतिभासाऽसंभवात्, संभवे
वा संवेदनान्तरत्वापत्ते कथं तच्चित्रता स्यात् ? तदुक्तम्–


किं स्यात् सा चित्रतैकस्या न1168 स्यात्तस्या मतावपि ।

यदीदं स्वयम1169र्थेभ्यो रोचते तत्र के वयम् ॥ प्रमाणवा॰ ३ । २१० इति ।

131

1170 च ज्ञाने चित्ररूपतापाये तत्स्वरूपप्रतिपत्तिः विरुद्ध्यते; तदपायेऽपि स्व1171रूपस्य स्वतो गते
रूपपत्तेः, संवेदनमात्रतापाये एव तद्विरोधात् । न च अनेकत्वप्रतिभासो वास्तवाऽनेकत्वे सत्ये
वोपपद्यत इत्यभिधातव्यम्; स्वप्नावस्थायां तदभावेऽपि तदृर्शनात् । अतः संवेदनमात्रमेव
आलम्बनप्रत्ययरहितं वास्तवं तत्त्वम् सकलप्रत्ययानां निरालम्बनस्वभावत्वात्, तत्स्वभावत्वञ्चै
तेषां प्रत्ययत्वेन हेतुना प्रसाध्यते, स्वप्नादौ प्रत्ययत्वस्य1172 निरालम्बनत्वेनाऽविनाभावप्रतिपत्तेः ।
तथा च प्रयोगः–सर्वे प्रत्यया निरालम्बनाः प्रत्ययत्वात् स्वप्नेन्द्रजालादिप्रत्ययवत् इति । नचाऽ
नुभूयमानमध्यक्षणरूपसंविद्व्यतिरिक्तेऽर्थे किञ्चित्प्रमाणं क्रमते; समकालस्य भिन्नकालस्य
वा तत्र तस्य प्रवृत्त्यनुपपत्तेः । सैव परमार्थसती मध्यमा प्रतिपत्तिः सर्वधर्मनिरात्मता सकल
शून्यता चोच्य1173ते । तदुक्तम्–

मध्यमा प्रतिप1174त् सैव सर्वधर्मनिरात्मता ।

भूतकोटिश्च सैवेयं त1175थ्यता सैव1176 शून्यता ॥ इति ।

सर्वधर्मरहितता चार्थानाम् एकानेकस्वरूपविचाराऽसहत्वात् सिद्धा । तथा1177हि–ये एकानेकस्वरूप
विचाराऽसहाः न ते परमार्थसन्तः यथा खरविषाणादयः, एकाऽनेकस्वरूपविचाराऽसहाश्च
परपरिकल्पिता आत्मादयो भावा इति । आत्मादिभावानां हि एकरूपतयोपगतानां क्रमवद्वि
ज्ञानादिकार्योपयोगित्वाऽभ्युपगमे तावद्धा भेदप्रसङ्गात् नैकरूपताऽवतिष्ठते, अनेकरूपता1178 तु
132 नित्यैकरूपतयोपगतत्वात् नितरां नावतिष्ठते । अतो भावा यथा यथा विचार्यन्ते तथा तथा प्लवन्त
एव केवलम् इति सिद्धं तेषां तद्विचाराऽसहत्वम् । उक्तञ्च–
भावा येन निरूप्यन्ते तद्रूपं नास्ति तत्त्वतः ।

यस्मादेकमनेकं च रूपं तेषा न विद्य1179ते ॥ प्रमाणवा॰ ३ । ३६०

तदेत1180न्नूनमायातं यद्वदन्ति विपश्चितः ।

यथा यथाऽर्थाश्चिन्त्यन्ते विशीर्यन्ते तथा तथा ॥ प्रमाणवा॰ ३ । २०९ इति ।

तथा, उत्पादादिधर्मरहिताश्चैते तद्रूपतयाऽपि विचाराऽसहत्वाविशेषात् । तथाहि–न स्वतो
भावा समुत्पद्यन्ते कारणनैरपेक्ष्येणोत्पद्यमानानां देशादिनियमाऽभावप्रसङ्गात् । परतोऽपि
सत, असत, सदसद्रूपस्य वोत्पत्तिः स्यात् ? न तावत् सतः, कारणवत् तथाविधस्योत्पत्तिवि
रोधात् । नाप्यसत, खरविषाणवत् । नापि सदसद्रूपस्य, विरोधादेव । नाप्युभाभ्यामेषामुत्पत्ति;
उभयदोषानुषङ्गात् । अहेतुका तूत्पत्तिर्न केनचिदिष्टा । तदुक्तम्–


1181 स्वतो नापि परतः न द्वाभ्या नाप्यहेतुतः ।

उत्पन्ना जातु विद्यन्ते भावाः क्वचन केचन ॥ माध्यमिकवृ॰ प्रत्ययप॰ कारि॰ १ इति ।

एतेन स्थितिभङ्गावपि चिन्तितौ, तयोरपि स्वतः परतो वा इत्यादिप्रकारेण सद्भावा
भ्युपगमे उक्तदोषानुषङ्गात् । अतो मरीचिकादौ तोयादिप्रतीतिवत् भावेषु उत्पादादिप्रतीति
र्भ्रान्तिरेव । उक्तञ्च–


1182था माया यथा स्वप्नो गन्धर्वनगरं यथा ।

तथोत्पादस्तथा स्थान तथा भङ्ग उदाहृतः ॥ माध्यमिकवृ॰ सस्कृतपरी॰ कारि॰ ३४ इति ।

यद्येवम् असतां कथं तेषां प्रतिभासः इति चेत् ? अनाद्यविद्यावासनाप्रभावात्, करि
तुरगादीनामसतां मन्त्राद्युपप्लवसामर्थ्यात् मृच्छकलादौ केषाञ्चित् प्रतिभासवत् । तदुक्तम्–


133
1183न्त्राद्युपप्लुताक्षाणां यथा मृच्छकलादयः ।

अन्यथैवाऽवभासन्ते तद्रूपरहिता अपि ॥ प्रमाणवा॰ ३ । ३५५

तथा ग्राह्य-ग्राहकभावादिरपि अविद्याविनिर्मित एव, त1184दविपर्यासितदर्शनानां तथाप्रतिभा
साऽभावात् । उक्तञ्च–

1185विभागोऽपि बुद्ध्यात्मा विपर्यासितदर्शनैः ।

ग्राह्य-ग्राहक-संवित्तिभेदवानिव लक्ष्यते ॥ प्रमाणवा॰ ३ । ३५४ इति ।

रविकिरणसंस्पृष्टनीहारनिकरवत् तत्त्वज्ञानात् निखिलाविद्याविलासविलये तु ग्राह्य-ग्राहकभा
वाद्यखिलधर्मविकलं संवित्स्वरूपमात्रमाभासते । तदुक्तम्–


ना1186न्योऽनुभाव्यो बुद्ध्यास्ति तस्या नानुभवोऽपरः ।

ग्राह्यग्राहकवैधुर्यात् स्वयं सैव प्रकाशते ॥ प्रमाणवा॰ ३ । ३२७ इति ।

प्रोक्तस्य माध्यमिकमतस्य प्रतिविधानम्–


अत्र प्रतिविधीयते । यत्तावदुक्त1187म्–नीलाद्याकारप्रतिभासस्य अविद्याशिल्पिकल्पितत्वा
दवास्तवत्वम्
इत्यादि; तत्र कु1188तोऽयं नीलादिप्रतिभासोऽविद्याप्रभवः
बाध्यमानत्वात्, तद्गोचरस्यार्थक्रियाकारित्वाऽभावाद्वा ? प्रथमपक्षे
न सर्वत्र जल-नीलादिप्रतिभासस्याऽविद्याप्रभवत्वसिद्धिः, यत्र हि
असौ बाध्यमानः तत्रैवाऽविद्याप्रभवः यथा मरीचिकायां जलप्रतिभासः शुक्तिकाशकले च रज
तप्रतिभासः, न पुनः सत्ये जले जलप्रतिभासः रजते वा रजतप्रतिभास इति । किञ्च, अत्र
134 बाधकं मध्यक्षणरूपं संविन्मात्रञ्चेत्, कुतस्तत्सिद्धि ? नीलादिप्रतिभासानामवास्तवत्वाच्चेत्;
इतरेतराश्रयत्वम्–सिद्धे हि मध्यक्षणरूपे संविन्मात्रे तत्त्वे तत्प्रतिभासानामवास्तवत्वसिद्धि,
तत्सिद्धौ च तथाविधसंविन्मात्रतत्त्वसिद्धिरिति । अन्यच्च यत् संविन्मात्रप्रसाधकं प्रमाणं तत्
प्रागेवाऽपास्तम् । तद्गोचरस्य अर्थक्रियाकारित्वाभावस्तु असिद्ध, जलानलादेस्तद्गोचरस्य
स्नानपानाद्यर्थक्रियाकारित्वेन सदा सुप्रसिद्धत्वात्, तस्या1189श्च अन1190र्थक्रियात्वे काऽपरा अर्थक्रिया
स्यात् ? स्वरूपा1191नुभवनं सा इति चेत्, तदपि ज्ञानगतानां नीलाद्याकाराणामस्त्येव, नहि निरा
कारस्य मध्यक्षणरूप1192स्य संविन्मात्रस्यानुभवनं कदाचिदप्यस्ति, बहिरन्तर्वाऽनेकाकारस्यैवार्थस्य
अनुभवनात् ।


अथ नीलाद्यनेकाकारानुभवो मिथ्या; ननु संवित्-नीलाद्याकारयो एकानेकस्वभा
वयो प्रतिभासाऽविशेषे1193ऽपि कुतो वास्तवेतरत्वप्रविवेक ? एकाकारस्य अनेकाकारेण विरोधा
त्तस्य अवास्तवत्वे कथमेकाकारस्यैवाऽवास्तवत्वं न स्यात् ? स्वप्नज्ञाने अनेकाकारस्याऽवास्तवस्य
प्रसिद्धे चित्रज्ञानेऽपि तस्य अवास्तवत्वे केशादौ एकाकारस्याप्यवास्तवस्य प्रसिद्धेः अन्यत्रा
प्येकाकारस्यैव अवास्तवत्वं किन्न स्यात् ? यथा च अनेकाकारस्य एकाकारादभेदेऽनेकत्वं विरु
द्ध्यते, भेदे तु सवेदनान्तरत्वमनुषज्यते; तथा एकाकारस्यापि अनेकाकारादभेदेऽनेकत्वम्, भेदे
तु संवेदनान्तरत्वमनुषज्यत इति । यदि च एकस्याऽनेकाकारता नेष्यते तदा प्रत्याकारं ज्ञानस्य
सन्तानान्तरवद्भेद स्यात्, तेषाञ्चाकाराणां नीलाकारेणाऽनुपलम्भत तद्वदेवाऽसत्त्वं स्यात् ।
नीलां1194शस्यापि प्रतिपरमाणु भेदात् नीलाणुसंवेदनै परस्परं भिन्नैर्भवितव्यम्, तेषाञ्च एकनीलाणु
संवेदनेनाऽनुपलम्भादसत्त्वम्, एकनीलाणुसंवेदनस्याप्येवं वेद्य-वेदक-संविदाकारभेदात् त्रितयेन
भवितव्यम्, वेद्याकारादिसवेदनत्रयस्यापि प्रत्येकमपरस्ववेद्याकारादिसंवेदनत्रयेण इत्यनवस्था,
अतो नेष्टतत्त्वसिद्धि स्यात् । तथाभूतस्य चास्य अनुपलम्भतोऽभावप्रसङ्गात् सकलशून्यतैव
स्यात् । तत प्रतीतितो वस्तुव्यवस्थामभ्युपगच्छद्भि बहिरन्तर्वा एकानेकप्रतिभासात् तथाविधं
वस्तु प्रेक्षादक्षै प्रतिपत्तव्यम् ।


135

यच्चान्यदुक्त1195म्–सर्वे प्रत्यया निरालम्बनाः इत्यादि; तदप्यविचारितरमणीयम्; जाग्रत्प्र
त्ययानां स्वरूपव्यतिरिक्तस्थिरस्थूलसाधारणस्तम्भकुम्भाद्यर्थोद्योतकत्वेन प्रत्यक्षतः प्रतीतेः ।
तथा च अश्रावणः शब्दः सत्त्वात् इत्यादिवत् प्रत्यक्षबाधितपक्षनिर्देशानन्तरं प्रयुक्तत्वेन का
लात्ययापदिष्टं प्रत्ययत्वम् । असिद्धञ्च; प्रत्ययेभ्यो व्यतिरिक्तस्य प्रत्ययत्वस्य भवताऽनभ्युपग1196
मात्, तेषामेव च हेतुत्वे प्रतिज्ञार्थैकदेशाऽसिद्धता । आश्रयासिद्धता च; तद्ग्राहकप्रमाणस्य प्रत्य
यत्वतो निरालम्बनत्वेनाश्रयस्याऽतोऽप्रसिद्धेः । स्वरूपासिद्धता च; हेतुस्वरूपग्राहकप्रत्ययस्यापि
अत एव निरालम्बनत्वान् । अथ एतद्दोषपरिजिहीर्षया पक्षादिप्रसिद्धये तद्ग्राहकप्रत्ययस्य साल
म्बनत्वमङ्गीक्रियते, तर्हि तेनैव प्रत्ययत्वमनैकान्तिकम् । विरुद्धञ्च; सालम्बनत्वे स1197त्येव हि
प्रत्ययानां प्रत्ययत्वमुपपद्यते, यतः प्रतीयते स्वरूपं पररूपं वा1198 यैः ते प्रत्ययाः तद्भावः प्रत्यय
त्वम्, तत् कथं निरालम्बनत्वविरुद्धेन सालम्बनत्वेन न व्याप्येत यतो विरुद्धं न स्यात् ?


दृष्टान्तश्च साध्यविकलः; स्वप्नादिप्रत्ययानामपि बाह्यार्थालम्बनत्वेन निरालम्बनत्वाभावात् ।
1199द्विविधो हि स्वप्नः–सत्यः, असत्यश्च । तत्राद्यो देवताविशेषकृतो धर्माऽधर्मकृतो वा कश्चित् सा
क्षादर्थाऽव्यभिचारी, यद्देशकालाऽऽकारतया स्वप्ने प्रतिपन्नोऽर्थः तद्देशकालाकारतया जाग्रद्द
शायां तस्य प्राप्तिप्रसिद्धेः । कश्चित्तु परम्परया; राजादिदर्शनेन स्वप्नाध्यायनिगदितार्थस्य कुटुम्ब
वर्द्धनादेः प्रा1200प्तिहेतुत्वात् अनुमानवत्, क्वचिद्व्यभिचारस्य अनुमानेऽपि समत्वात् । योऽपि
वातपित्ताद्युद्रेकजनितोऽसत्यत्वेन प्रसिद्धः स्वप्नः सोऽपि नार्थमात्रव्यभिचारी, न हि किञ्चि
ज्ज्ञानं सत्तामात्रं व्यभि1201चरति तस्यानुत्पत्तिप्रसङ्गात्, विशेषं तु यत एव व्यभिचरति अत एव
असत्यः इति । न च स्व1202प्नादौ बौद्धेन बोधोऽभ्युपगम्यते इति कस्य दृष्टान्तता ? अभ्युपगमे
वा साध्यसाधनधर्मग्राहकप्रत्ययस्य निरालम्बनत्वे साध्यसाधनोभयविकलता दृष्टान्तस्याऽनुष
ज्यते । दृष्टान्तग्राहकस्य च प्रत्ययस्य निरालम्बनत्वे दृष्टान्तस्यैवाऽसत्त्वाद् अनन्वयत्वम् । धर्मि
धर्मोभयप्रत्ययानां निरालम्बनत्वे वा अप्रसिद्धविशेष्यः अप्रसिद्धविशेषणः अप्रसिद्धोभयश्च पक्षः
स्यात् । प्रतिज्ञा-हेत्वोर्विरोधश्च; सर्वप्रत्ययानां निरालम्बनत्वे साध्ये हेतूपादाने तत्प्रत्ययत्वस्य
सालम्बनत्वाऽभ्युपगमात्, अन्यथा किसाधनः साध्यमयं साधयेत् ?


किञ्च, स्वप्नदृष्टान्तेन अखिलप्रत्ययानां बहिर्मिथ्यात्वाभ्युपगमे स्वरूपेऽपि तत्प्रसङ्गः । तथा
हि–यत् प्रतिभासते तन्मिथ्या यथा अर्थः, प्रतिभासते च विज्ञानस्वरूपमिति । प्रतिभासाऽवि
136 शेषेऽपि प्रतीतित स्वरूपप्रतिभासस्य सत्यत्वाभ्युपगमे प्रत्ययत्वाऽविशेषेऽपि जाग्रद्दशाबहिरर्थ
प्रत्ययानां प्रतीतित सत्यत्वं किन्नाभ्युपगम्येत विशेषाभावात् ?


यानि च एकाऽनेकस्वरूपविचाराऽसहत्वात् इत्याद्यनुमानानि उपन्यस्तानि1203, तान्यपि
पक्ष-हेतु-दृष्टान्तदोषैरेतैरेव प्रतिव्यूढानि प्रतिपत्तव्यानि । तद्विचाराऽसहत्वञ्च सर्वथा1204ऽप्य
सिद्धम्; आत्माद्यर्थानामेकानेकस्वरूपविचारसहत्वात् । न हि क्रमवद्विज्ञानादिकार्योपयोगित्वम्
आत्मादे भेदप्रसाधकम्, तत्सामर्थ्यभेदस्यैव अत प्रसिद्धेः । ननु सामर्थ्यस्य स्वभावभूतस्य
भेदे कथन्न तद्वतो भेद ? इत्यप्यसमीचीनम्, स्वभावभेदस्य भावभेदं प्रत्यनङ्गत्वात्, कथम
न्यथा चित्रमेकं ज्ञानं स्यात् ? तदनभ्युपगमे च सकलशून्यता प्रागेव प्रतिपादिता । क1205थं वा
ग्राह्याकारविवेकरूपतया परोक्षतां संविद्रूपतया च प्रत्यक्षतां विभ्रतो ज्ञानस्य स्वभावभेदसंभ
वाद् एकत्वं स्यात् ?


यदप्युक्तम्1206उत्पादादिधर्मरहिताश्चार्था इत्यादि, तदप्यसाम्प्रतम्; द्रव्यरूपतया सतां
पर्यायरूपतया चाऽसतां तेषामुत्पादादिधर्मसद्भावोपपत्ते, न हि सर्वथा सतोऽसतो वा तद्ध
र्माणामुपपत्तिः इति यथास्थानं निवेदयिष्यामः । यदि च उत्पादादिधर्माः सर्वथा न सन्ति,
तदा चिन्मात्रस्य असत्त्वमनुषज्यते कार्यकारित्वाऽभावात् खपुष्पवत्, नित्यत्वं वा स्यात् स1207
कारणवत्त्वादाकाशादिवत् । तेषामसत्त्वे च कथं विशदप्रतिभासगोचरता ? यत्सर्वथाप्यसन्न
तद्विशदप्रतिभासगोचरः यथा खपुष्पम्, सर्वथाऽप्यसन्तश्च भवद्भिः परिकल्पिता उत्पादादयो
धर्मा इति । तद्गोचरत्वे वा सर्वथाप्यसत्त्वानुपपत्तिः, यद्विशदप्रतिभासगोचरः न तत् सर्व
थाप्यसत् यथा संवित्स्वरूपम्, विशदप्रतिभासगोचराश्च उत्पादादयो धर्मा इति । न चेदमसि
द्धम्, सुवर्णादौ कटकाद्युत्पादादे आबालं विशदप्रतिभासगोचरचारितया सुप्रसिद्धत्वात् । तत्र
तेषां सर्वथा1208ऽसत्त्वे च संवेदनमात्रमपि न प्राप्नोति, यद् यत्र सर्वथाप्यसत् न तत्तत्र संवेद्यते
यथा दु खे सुखम् नीलाकारे वा पीताकार, सर्वथाऽप्यसन्तश्चोत्पादादयो धर्मा अर्थेष्विति ।


ननु मरीचिकाचक्रे जलस्याऽसत्त्वेऽपि संवेदनसंभवात् अनेकान्तः, इत्यप्यसत्; तत्र
तस्य सर्वथाऽसत्त्वस्याऽसंभवात् । द्रव्यक्षेत्रकालाकारतया हि असत्त्वं सर्वथाऽसत्त्वमुच्यते,
तच्चास्य अत्र नास्ति वीचीतरङ्गाद्याकारेण सदृशात्मना तत्र तस्य सत्त्वात्, अन्यथा काष्ठपा
षाणादिवत् तच्चक्रेऽपि तत्संवेदनोत्पत्तिर्न स्यात् । अस्तु वा1209 असतामप्येषां संवेदनम्, तथापि
मुख्यम्, गौणं वा तत् स्यात् ? तत्राद्यपक्षोऽयुक्त; ज्ञानस्यैव हि स्वात्मभूतोऽसाधारणो धर्मो
मुख्यं संवेदनम्, तत्कथम् अज्ञानरूपाणामुत्पादादीनां स्यात् ? प्रयोग–यदज्ञानरूपं न तस्य
137 मुख्यं संवेदनम् यथा शशशृङ्गस्य, अज्ञानरूपाश्च असत्त्वेनोपगता उत्पादादयो धर्मास्तदुपल
क्षिताश्चार्था इति । द्वितीयपक्षोऽप्यनुपपन्न; यतः स्वाकारनिर्भासिज्ञानोत्पादनमेव गौणं संवेदन
मुच्यते, तच्च अश्वविषाणवदसतामुत्पादादीनामयुक्तम् सर्वसामर्थ्यविरहलक्षणत्वादसत्त्वस्य ।
यत् सर्वसामर्थ्यविरहितं न तस्य गौणं संवेदनम् यथा अश्वविषाणस्य, सर्वसामर्थ्यविरहिताश्च
असत्त्वेनाभिमता उत्पादादयो धर्माः तद्वन्तश्चार्था इति ।


किञ्च, उत्पादादीनां ज्ञानेन सार्द्धं कः सम्बन्धः येन तस्मिन् संवेद्यमाने नियमेन ते संवे
द्येरन्–कि तादात्म्यम्, तदुत्पत्तिर्वा ? न तावत्तादात्म्यम्; ज्ञानवत् तेषामपि सत्त्वप्रसङ्गात् ।
नापि तदुत्पत्तिः; उत्पादाद्याकाराणां नीरूपत्वे जन्यत्वस्य जनकत्वस्य चाऽसंभवात् । अतः
सम्बन्धाऽभावात् कथं तेन तेषां संवेदनम् ? यस्य येन सम्बन्धो नास्ति तस्मिन् संवेद्यमाने
नियमेन स न संवेद्यते यथा ज्ञानात्मनि संवेद्यमाने वन्ध्यासुतः, नास्ति च तादात्म्य-तदुत्पत्ति
लक्षणः सम्बन्धो ज्ञानेन सह असत्त्वभूतानामुत्पादाद्याकाराणामिति । अस्ति चैतेषां ज्ञाने संवे
द्यमाने नियमेन संवेदनम्, अतोऽस्ति कश्चित् तेषां तेन सम्बन्धः, स च परमार्थसत्त्वमन्तरेण न
संभवतीति सिद्धं तेषां परमार्थसत्त्वम् । यस्मिन् संवेद्यमाने यन्नियमेन संवेद्यते तत् तेन सम्ब
द्धम् परमार्थसच्च यथा ज्ञाने संवेद्यमाने तत्स्वरूपम्, संवेद्यन्ते च ज्ञाने संवेद्यमाने नियमेनो
त्पादादयः तद्वन्तश्चार्था इति । संवेद्यमानानामप्येषामसत्त्वे ज्ञानस्वरूपेऽप्यसत्त्वानुषङ्गात् सकल
शून्यताप्रसङ्गः स्यात् ।


इष्टत्वान्न तत्प्रसङ्गो दोषाय इति चेत्; ननु केयं सकलशून्यता नाम यदिष्टिर्दोषाय न
स्यात्-सकलपदार्थाऽभावमात्रम्, ग्राह्यग्रा1210हकभावादिरहितं संविन्मात्रं वा स्यात् ? प्रथमविकल्पे
किं तस्याः सद्भावावेदकं किञ्चित्प्रमाणमस्ति, न वा ? यदि नास्ति; कथं तत्सिद्धिः प्रमाण
निबन्धनत्वाद् वस्तुसिद्धेः । अथ अस्ति; कथं सकलशून्यता प्रत्यक्षादिप्रमाणस्य तज्जनकस्ये
न्द्रियादेश्च सद्भावे सकलशून्यताविरोधात् ?


किञ्च1211, सकलशून्यता प्रमाणप्रमेययोः ग्राहकप्रमाणाऽभावात्, अनुपलब्धेः, विचारात्,
प्रसङ्गाद्वा स्यात् ? प्रथमपक्षे कोऽयं तद्ग्राहकप्रमाणाऽभावः–दुष्टेन्द्रियप्रभवप्रत्ययाः संशया
दयः, ज्ञानानुत्पादो वा ? तत्राद्यविकल्पोऽनुपपन्नः; संश1212यादिसद्भावाभ्युपगमे सकलशून्यताहानि
प्रसङ्गात् । ज्ञानानुत्पादोऽपि ज्ञातः सर्वाभावं गमयति, अज्ञातो वा ? न तावदज्ञातः; अति
प्रसङ्गात् । योऽभावः स ज्ञातोऽन्याभावं गमयति यथा क्वचिद् धूमाऽभावोऽग्न्यभावम्, अभा
138 वश्चायं ज्ञाना1213नुत्पाद इति । अथ ज्ञातः; कुतस्तज्ज्ञप्तिः—अन्यतः प्रमाणाभावात्, स्वतो वा ?
प्रथमपक्षे अनवस्थातः प्रकृताऽभावाऽप्रतिपत्तिः । स्वतस्तज्ज्ञप्तौ सर्वाऽभावस्यापि स्वतो ज्ञप्ति
प्रसङ्गात् प्रमाणाभावो व्यर्थः स्यान् । अस्तु, का नो हानिरिति चेत् ? सकलशून्यताव्या
घातः तथाभूतस्यास्यैव प्रमाण-प्रमेयरूपत्वप्रसङ्गात् । प्रमाण-प्रमेयपदाऽव्यपदेश्यः सर्वाऽभावः
इति चाऽयुक्तम्; स्वतः स्व1214रूपं प्रतितीयतः तद्रूपप्रतिषेधविरोधात् । तत्पदाऽव्यपदेश्यत्वे
वा1215ऽस्याऽसत्त्वप्रसङ्गः । तथाहि—यत्प्रमाणप्रमेयपदाव्यपदेश्यम् तन्नास्ति यथा खरविषाणम्,
तत्पदाव्यपदेश्यश्च सर्वाऽभाव इति ।


नाप्यनुपलब्धेः प्रमाणप्रमेययोरभावात् सकलशून्यतासिद्धिः; प्रतिज्ञा-हेत्वोर्विरोधात् सिद्ध
साध्यताप्रसङ्गाच्च, प्रध्वस्ताऽनुत्पन्नानामसत्त्वाभ्युपगमात् । कालात्ययापदिष्टता च; धर्मिहेतु
दृष्टान्तानां सत्त्वे अनुपलब्धेः त1216ज्ज्ञप्तिसाधनैर्निरस्तविषयत्वात्, तत्सत्त्वाऽनभ्युपगमे आश्रया
सिद्धतादिदोषानुपङ्गात् कथं सकलशून्यतासिद्धिः ? अभावधर्मत्वादनुपलब्धेः आश्रयासिद्ध
ताद्यनुपपत्तिः; इत्यप्यसुन्दरम्; अनुपलब्धेरभावधर्मत्वे प्रमाणाऽभावात् । किञ्च, अनुपलब्धिः
स्वरूपेणाधिगता अन्यप्रतीतये प्र1217युज्यते, अनधिगता वा ? न तावदनधिगता; ज्ञापकत्वात्,
यज् ज्ञापकं तत् स्वरूपेणाधिगतमन्यप्रतीतये प्रयुज्यते यथा धूमादि, ज्ञापिका च अनुपलब्धिः
सर्वाभावस्येति । नाप्यधिगता; तत्स्वरूपाधिगमे प्रत्यक्षस्य अनुमानस्य वा प्रमाणस्य प्रवृत्तौ
सकलशून्यताविरोधानुषङ्गान् । न च लिङ्गत्वेन स्वयमनिश्चितायाः दृष्टान्ते क्वचिदप्रतिपन्न
प्रतिबन्धायास्तस्याः स्वसाध्यसिद्धौ गमकत्वं युक्तम् अतिप्रसङ्गात् ।


अथ विचारात् सर्वाभावः प्रसाध्यते; ननु विचारो वस्तुभूतोऽस्ति, न वा ? यद्यस्ति; कथं
सकलशून्यता ? ना1218स्ति चेत्; कुतः सर्वाऽभावः सिद्ध्येत् ? अथ प्रसङ्गसाधनात् तदभावः
सा1219ध्यते; न; सर्वाऽसत्त्ववादिनः स्वपरविभागाऽसंभवे प्रसङ्गसाधनस्यैवाऽसंभवात्, परस्येष्ट्याऽ
निष्टापादनलक्षणत्वात्तस्य । कथञ्च प्रमाणप्रमेयप्रपञ्चं प्रतीतिभूधरशिखरारूढमनभ्युपगाय स्वप्ने
प्यप्रतीयमानं सर्वाऽभावमभ्युपगच्छन् प्रामाणिकः स्यात् ? स्वप्ने करितुरगादिवत् मिध्यैव तत्प्र
पञ्चः प्रतिभातीति चेत्; क्व इदानीं सत्यता स्यात् ? घटादिपदार्थाऽसत्त्वे चेत्; कुतस्तस्य
सत्यता ? बाधारहितप्रतिभासाच्चेत्; तदितरत्र समानम् । यथैव हि क्वचिद्देशे काले वा पदार्था
नामसत्त्वे बाधारहितप्रतिभासोऽस्ति, तथा सत्त्वेऽपि । यदि च प्राक्-प्रध्वंसाभाववत् मध्येऽप्य1220र्था
139 नामसत्त्वं स्यात्; तदा स्थितिकालेऽपि गौरयम् शुक्लः चलति इति जाति-गुण-क्रियाव्यप
देशो न स्यात् अस1221तः तद्व्यपदेशाऽसंभवात् । अस्ति चायं व्यपदेशः, अतो मध्यावस्थायां प
दार्थानामसद्रूपादर्थान्तरं सद्रूपं प्रतिपत्तव्यम् । तन्न सकलार्थाऽभावः सकलशून्यता ।


अथ ग्राह्य-ग्राहकभावादिशून्यं संविन्मात्रं सा इत्युच्यते; ननु सा तथाविधा कुतः
सिद्धा—अभ्युपगममात्रात्, प्रतीतेर्वा ? प्रथमपक्षे कुतोऽप्रतिपक्षा पक्षसिद्धिः सर्वस्य स्वेष्ट
तत्त्वसिद्धेः तथा संभवात् ? द्वितीयपक्षोऽप्यनुपपन्नः; यतो ग्राह्य-ग्राहकभावादिशू1222न्यस्य
संविन्मात्रस्य कदाचिदप्यप्रतीतितः कथं तल्लक्षणा तच्छून्यता प्रतीतितः सिद्ध्येत् ? प्रतीत्या च
वस्तुव्यवस्थां कुर्वता बहिरन्तर्वाऽनेकान्तात्मकं वस्तु उररीकर्तव्यम्, बाह्याध्यात्मिकार्थानां ग्राह्य
प्राहकाद्यनेकाकाराक्रान्ततयैव प्रतीतौ प्रतिभासनात् । न चेयं मिथ्या वाधकाऽभावात्, विपरी
तार्थोपलम्भो हि वाधकः, न चात्र सोऽस्ति, तद्विपरोतस्य मध्यक्षणस्थायिनः संविन्मात्रस्य
स्वप्रेप्युपलम्भाऽभावात् । असताऽपि वाधाकल्पने नित्य-निरंश-व्यापिपरव्रह्मोपलम्भेनाऽसतापि
मध्यक्षणस्थायिसंविन्मात्रस्य बाधा किन्न स्याद् विशेषाभावात् ? ततः1223 प्रतीतिनिबन्धनां वस्तु
व्यवस्थामभ्युपगच्छता बहिरन्तर्वा अनेकान्तात्माऽर्थः प्रमाणगोचरः प्रतिपत्तव्यः, इति सिद्धो
बाह्योऽप्यर्थः प्रमाणस्य गोचर इति ।


शब्दब्रह्मवादे भर्तृहरेः पूर्वपक्षः—


एतेन ब्रह्माद्वैतवाद्यपि बाह्यमर्थमपलपन् प्रत्याख्यातः, ब्रह्मणः सद्भावे प्रमाणाभावात् ।
ननु किंरूपस्य ब्रह्मणः सद्भावे प्रमाणाऽभावः—शब्दस्वभावस्य, परमात्म1224रूपस्य वा ?
द्विविधं हि ब्रह्म, शब्द-परमब्रह्मविकल्पात् । उक्तञ्च1225शब्दब्रह्मणि
निण्णातः परमब्रह्माधिगच्छति
ब्रह्मबिन्दूपनि॰ २२ इति । तत्रा
द्यविकल्पोऽनुपपन्नः; शब्दस्वभावब्रह्मसद्भावे प्रत्यक्षस्य अनुमानस्य च
प्रमाणस्य सद्भावात् । तथाहि—सकलं योगजमयोगजं वा प्रत्यक्षं शब्दव्रह्मोल्लेख्येवाऽवभासते
140 बाह्याध्यात्मिकार्थेपूत्पद्यमानस्याऽस्य शब्दानुविद्धत्वेनैवोत्पत्ते, तत्संस्पर्शवैकल्ये प्रत्ययानां प्रका
शमानताया दुर्घटत्वात् । बाग्रूपता हि शाश्वती प्रत्यवमर्शिनी च, तदभावे तेषां1226 नापरं रूप
मवशिष्यते । तदुक्तम्–


न सोस्ति प्रत्ययो लोके यः शब्दानुगमादृते ।

अनुविद्धमिवाऽऽभाति सर्वं शब्दे प्रतिष्ठितम्1227

वा1228ग्रूपता चेदुत्क्रामेद् अववोधस्य शाश्वती ।

न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी ॥ वाक्यप॰ १ । १२४-२५ । इति ।

सकलव्यवहारोऽपि शब्दानुविद्ध एवाऽनुभूयते, न हि भोक्ष्ये, दास्यामि इत्याद्यनुल्लि
खितशब्दः कश्चिदपि स्वयं कार्यनिर्वर्त्तनाय यतते, परं वा देहि इत्यादिशब्दं विना प्रवर्त
यति । जीवेतररूपाविर्भावोऽपि शब्दायत्त एव; तथाहि–सुप्तावस्थायामनुल्लिखितशब्द1229रूपत्वात्
मृतान्न कश्चिद्विशिष्यते, तदुत्तरकालं तु कु1230तश्चिच्छब्दात् प्रबुद्धः पुरुषः शब्देनैवाऽन्तर्जल्पा
त्मना आत्मानमनुदधानो जीवितमुपयाति, तदुपहितजीवितात् सकला शब्दभावनाः अहमिद
मनुतिष्ठामि
इत्यादिरूपा विवर्तन्ते, ताश्च नानाविषया विवर्तमानाः स्वस्वविषयानर्थान्
आविर्भावयन्ति । यदा तु पुरुषेणोच्चारित शब्दः समाविर्भूय तिरोभवति तदा स्वग्रन्थिभूतमर्थ
मपि तिरोभावयति ज्योत्स्नामिव शशाङ्कः । ननु च अद्वयरूपे तत्त्वे कथमाविर्भाव-तिरो
141 भावादिरूपो भेदप्रपञ्चप्रतिभासः स्यात् ? इति1231 न चेतसि विधेयम्; अविद्यातः तत्र तत्प्रति
भासाऽविरोधाद् आकाशवत् । यथैव हि तिमिरोपहतलोच1232नो जनो विशुद्धमप्याकाशं विचित्र
रेखानिकरकरम्बितमिव मन्यते तथा अनादिनिधनमभिन्नस्वभावमपगतनिखिलभेदप्रपञ्चमपि
शब्दब्रह्म अविद्यातिमिरोपहतो जनः आविर्भावादिभेदप्रपञ्चान्वितमिव प्रतिपद्यते । उक्तञ्च–

यथा विशुद्धमाकाशं तिमिरोपप्लुतो जनः ।

सङ्कीर्णमिव मात्राभिश्चित्राभिरभिमन्य1233ते ॥

तथेदममलं ब्रह्म निर्विकारमविद्यया ।

कलुषत्वमिवापन्नं भेदरूपं प्रपश्य1234ति ॥ बृहदा॰ भा॰ बा॰ ३ । ५ । ४३, ४४ । इति ।

सकलाऽविद्याविलासविलये तु योगिनः तत्प्रपञ्चानन्वितं यथावत्तत्स्वरूपं प्रतिपद्यन्ते । यथा
च वीचीतरङ्गबुद्बुदफेनरूपो नीरविकारः सारभूतममलं जलम् आविर्भाव-तिरोभावार्थमपे
क्षते, तथा व्यावहारिकः स्थूलोऽयमकारादि1235शब्दभेदप्रपञ्चः परमसूक्ष्मप्रतिभासमात्रैकरूपं
सर्वशब्दविषयविज्ञानप्रसवनिमित्तं क्वापि अनियमितैकनिजस्वभावं शब्दमयं ब्रह्मापेक्षते ।
उक्तञ्च–


अनिबद्धैकरूपत्वाद् वीचीबुद्बुदफेनवत् ।

वाचः सारमेपक्षन्ते शब्दब्रह्मोदकाऽद्वयम्1236

एवमध्यक्षतः प्रतीयमानमपि शब्दब्रह्म ये अविद्यातिमिरोपहतचेतसः तथा इति नाभ्युप
गच्छन्ति विपर्यस्यन्ति च, तान् प्रति इदमुच्यते–ये यदाकारानुस्यूताः ते तन्मयाः यथा घटशरा
वोदञ्चनादयो मृद्विकारा मृन्मयाः, शब्दाकारानुस्यूताश्च सर्वे भावा इति । न चायमसिद्धो हेतुः;
प्रत्यक्षत एवाऽशेषार्थानां शब्दाकारान्वयप्रसिद्धे प्रतिपादितत्वात् । तत्सिद्धौ च तेषां तन्मयत्वं
सिद्धमेव तन्मात्रभावित्वात्तस्य । तद्व्यतिरेकस्य च प्रमाणबाधितत्वात्; तथाहि–न शब्दाद् व्य
तिरिच्यतेऽर्थः, तत्प्रतीतावेव प्रतीयमानत्वात्, यत्प्रतीतावेव यत्प्रतीयते न तत्ततो व्यतिरिच्यते
142 यथा शब्दस्यैव स्वरूपम्, शब्दप्रतीतावेव प्रतीयते चार्थ, अतः ततो न व्यतिरिच्यत इति ।
ततः सिद्ध शब्दस्वभावब्रह्मसद्भावे प्रत्यक्षादिप्रमाणसद्भाव ।


शब्दाद्वैतस्य पतिविधानम्–


अत्र प्रतिविधीयते । यत्तावदुक्तम्1237शब्दस्वभावब्रह्मसद्भावे इत्यादि; तदसमीचीनम्;
यतस्तत्सद्भाव किमि1238न्द्रियप्रभवप्रत्यक्षत प्रतीयेत्, अतीन्द्रियात्, स्व
संवेदनाद्वा ? तत्राद्यविकल्पोऽयुक्त; यत सकलदेशकालार्थाकारनिक
रकरम्बितस्वभावं शब्दब्रह्म भवद्भिरभिप्रेतम् । तथाविधस्य1239 चास्य स
द्भावः श्रोत्रप्रभवप्रत्यक्षात्, इतरेन्द्रियजनिताध्यक्षाद्वा प्रतीयेत् ? न तावत् श्रोत्रप्रभवप्रत्यक्षात्;
तस्य शब्दस्वरूपमात्रगोचरचारितया अगोचरेण तदाकारनिकरेणान्वितत्वस्य तद्ब्रह्मणि प्रति
पत्तुमसमर्थत्वात् । यद् यदगोचरो न तत्तेनान्वितत्वं कस्यचित् प्रतिपत्तुं समर्थम् यथा चक्षु
र्ज्ञान रसेन, अगोचरश्च तदाकारनिकरः श्रोत्रज्ञानस्येति । तदगोचरेणापि तेन तदन्वितत्वप्रति
पत्तौ अतिप्रसङ्ग, सर्वस्य सर्वेणान्वितत्वप्रतिपत्तिप्रसक्तेः । एतेन इन्द्रियान्तरजनिताऽध्यक्षा
दपि तत्प्रतिपत्ति प्रत्युक्ता; शब्दाऽगोचरतया तस्यापि तत्प्रतिपत्तावसमर्थत्वात् । तन्न इन्द्रि
यप्रत्यक्षान् प्रतिनियतरूपादिविषयव्यतिरेकेण अपरं शब्दब्रह्म प्रतीयते ।


नाप्यतीन्द्रियप्रत्यक्षात्, तस्यैवात्राऽसंभवात् । योगिनां योगजं तत्संभवतीति चेत्, न;
योगि-योग-तत्प्रभवप्रत्यक्षाणां सभवे अद्वैताऽभावप्रसङ्गात् । न तत्प्रसङ्ग योग्यवस्थायाम् आत्म
ज्योतीरूपस्यास्य स्वय प्रकाशनात्, इत्यपि मनोरथमात्रम्; तदवस्था-रूप-प्रकाशनत्रयसद्भावे अ
द्वैताऽभावस्य तदवस्थत्वात् । किञ्च, योग्यवस्थाया तस्य तद्रूपप्रकाशनेन ततःप्राक् तद्रूपं प्रका
शते, न वा ? यदि प्रकाशते, तदा1240ऽयत्नसिद्धः सर्वदा सर्वेषां मोक्ष स्यात्, व्योतिःस्वभाव
ब्रह्मप्रकाशो हि मोक्ष, स च अयोग्यवस्थायामपि एवं प्रसज्येत । अथ न प्रकाशते; तदा तत्कि
मस्ति, न वा ? यदि नास्ति, कथं तन्नित्यम् कादाचित्कत्वात् ? यत् कादाचित्कम् न तन्नित्यम्
यथा अविद्या, कादाचित्कञ्च ज्योति स्वरूप ब्रह्मण इति । तदनित्यत्वे च शब्दब्रह्मणोऽप्यनि
त्यत्वप्रसङ्ग तन्मयत्वात्तस्य, अतो द्वैतसिद्धिरप्रतिहतप्रसरा प्रसज्यते, अद्वैतविनाशे द्वैतसिद्धेर
वश्यम्भावित्वात् । अथास्ति; कस्मान्न प्रकाशते–ग्राहकाभावात्, अविद्याभिभूतत्वाद्वा ?
तत्राद्यपक्षोऽनुपपन्न, ब्रह्मण एव तद्ग्राहकत्वात्, तस्य च नित्यतया सदा सत्त्वात्।


143

द्वितीयपक्षोऽप्यसुन्दरः; अविद्याया विचार्यमाणाया अनुपपद्यमानत्वात् । सा1241 हि ब्रह्मणो
व्यतिरिक्ता, अव्यतिरिक्ता वा ? यदि व्यतिरिक्ता; किमसौ वस्तु, अवस्तु वा स्यात् ? न ताव
दवस्तु; अर्थक्रियाकारित्वाद् ब्रह्मवत्, तत्कारित्वेऽप्यस्याः अवस्तु इति नामान्तरकरणे नाम
मात्रमेव भिद्येत । अथ अर्थक्रियाकारित्वमप्यस्या नेष्यते तत्कथं वस्तुत्वापत्तिः ? कथमेवम्
अविद्यया कलुषत्वमिवापन्नम् इत्यादिवचो घटेत ? आकाशे1242 च वितथप्रतिभासहेतुभूतं
वास्तवमेव तिमिरं प्रसिद्धम्, अविद्यायाश्च अवास्तवत्वेन विचित्रप्रतिभासहेतुत्वाऽनुपपत्तितो
दृष्टान्त-दार्ष्टान्तिकयोः साम्याऽसंभवात् यथा विशुद्धमाकाशम् इत्याद्यपि दुर्घटमेव ।
1243 चाऽनाधेयाऽप्रहेयातिशयस्य ब्रह्मणः तद्वशात् तथाप्रतिभासो युक्तोऽतिप्रसङ्गात् । नाप्य
वस्तुवशाद् वस्तुनोऽन्यथाभावो भवति, अतिप्रसङ्गादेव । अथ वस्तु; तन्न; अभ्युपगम
क्षतिप्रसक्तेः, ब्रह्मा-ऽविद्यालक्षणवस्तुद्वयप्रसिद्धितोऽद्वैताऽभावप्रसङ्गाच्च । अथाऽव्यतिरिक्ता;
तर्हि ब्रह्मणोऽपि मिथ्यात्वप्रसक्तिः, मिथ्यारूपायाः अविद्यातोऽव्यतिरिक्तत्वात् तत्स्वरूपवत्,
इति लाभमिच्छतो मूलोच्छेदः स्यात् । अविद्याया वा सत्यत्वप्रसङ्ग; सत्यस्वभावाद्
ब्रह्मणोऽव्यतिरिक्तत्वात् तत्स्वरूपवत्, अतः कथमस्याः मिथ्याप्रतीतिहेतुत्वम् ? यत् सत्यम्
न तन्मिथ्याप्रतीतिहेतुः यथा ब्रह्म, सत्या च ब्रह्मणोऽव्यतिरिक्तत्वेनाऽविद्येति । अस्तु वा यथा
कथञ्चिदविचारितरमणीयस्वभावा अविद्या, तथापि न तया तत्स्वभावस्यास्य अभिभवः; दुर्बल
स्य हि बलवताऽभिभवो दृष्टः यथा सवित्रा तारानिकरस्य, न चाऽविद्याया बलवत्त्वमस्ति अव
स्तुत्वात् वाजिविषाणवत् । अतोऽसत्त्वादेव अयोग्यवस्थायाम् आत्मज्योतिःस्वरूपस्य शब्दब्रह्मणो
ऽप्रतिभासः । त1244त्र तद्रूप>स्यास्याऽसत्त्वे च योग्यवस्थायां कुतः सत्त्वं स्यात् यतोऽतीन्द्रियप्रत्य
क्षात् तत्प्रतीयेत ?


एतेन स्व1245संवेदनादपि तत्प्रतिपत्तिः प्रत्याख्याता; आत्मज्योतिःस्वभावस्यास्य स्वप्नेऽपि संवे
दनाऽगोचरत्वात्, तद्गोचरत्वे वा अनुपायसिद्ध एव अखिलप्राणिनां मोक्षः स्यात्, तथा
विधस्य हि शब्दब्रह्मणः स्व1246संवेदनं यत् तदेव मोक्षो भवतामभिमतः । न च घटादिशब्दोऽर्थो
144 वा स्वसंविदितस्वभावः, यतस्तदन्वितत्वं स्वसंवेदनतः सिद्ध्यत्, अस्वसंविदितस्वभावतयैवास्य
प्रतिप्राणि प्रसिद्धत्वात् ।


किञ्च, शब्दार्थयोः सम्बन्धे सति शब्देनान्वितत्वमर्थस्य कुतश्चित प्रमाणात् प्रतीयेत, अस
ति वा ? न तावदसति; अतिप्रसङ्गात्, यद् येनासम्बद्धं न तत्तेनाऽन्वितम् यथा सह्येन विन्ध्यः,
असम्बद्धश्च अर्थेन शब्दः
इत्यनुमानविरोधानुषङ्गाच्च । अथ सति सम्बन्धे; ननु कोऽयं तस्य
तेन सम्बन्धः–संयोगः, तादात्म्यम्, विशेषणीभावः, वाच्यवाचकभावो वा ? न तावत् संयोगः;
विभिन्नदेशत्वात्, ययोर्विभिन्नदेशत्वं न तयोः संयोगः यथा मलय-हिमाचलयोः, विभिन्नदेश
त्वञ्च शब्दाऽर्थयोरिति । न चेदमसिद्धम्; शब्दस्य श्रोत्रप्रदेशे अर्थस्य च पुरोदेशे प्रतिभास
मानत्वात्, त1247त्सम्बन्धाभ्युपगमे च अनयोर्द्रव्यान्तरत्वसिद्धिप्रसङ्गात् कथं तदद्वैतसिद्धिः स्यात् ?


तादात्म्याभ्युपगमोऽप्ययुक्तः; विभिन्नेन्द्रियग्राह्यत्वात्, ययोर्विभिन्नेन्द्रियग्राह्यत्वं न तयो
स्तादात्म्यम् यथा रूप-रसयोः, विभिन्नेन्द्रियग्राह्यत्वञ्च शब्दार्थयोरिति । न चेदमसिद्धम्;
1248ब्दाकाररहितस्य घटादेः लोचनविज्ञाने प्रतिभासनात् तद्रहितस्य तु शब्दस्य श्रोत्रज्ञाने । तथा
भूतयोरप्यनयोस्तादात्म्याभ्युपगमे अतिप्रसङ्गात् । शब्दात्मकत्वे चार्थानां शब्दप्रतीतौ सङ्के
ताऽग्राहिणोऽपि अर्थे सन्देहो न स्यात् तद्वत् तस्यापि प्रतिपन्नत्वात्, अन्यथा तत्तादात्म्यानुप
पत्तिः । क्षुरा1249-ऽग्नि-पापाणादिशब्दश्रवणाच्च कर्णस्य कर्त्तन-दाहा-ऽभिघातादिप्रसङ्गः, अन्यथा
तत्तादात्म्यविरोधः । यो यत्साध्यप्रयोजनं न निर्वर्तयति नासौ तेन तादाम्यमनुभवति यथा
रूपेण रसः, न निर्वर्तयति च अर्थसाध्यप्रयोजनं दाहादिकं शब्द इति । तथा, नास्ति शब्दार्थयो
स्तादात्म्यं विभिन्नदेश-काल-आकारत्वात्, यत् तथाविधं न तत्र तादात्म्यम् यथा घट-पटादौ,
तथाविधौ च शब्दार्थाविति । न च विभिन्नदेशत्वं तत्रासिद्धम्; प्राक् प्रसाधितत्वात् । नापि
विभिन्नकालत्वम्; घटाद्यर्थानां तच्छब्देभ्यः प्रागपि सत्त्वप्रतीतेः । नापि विभिन्नाकारत्वम्; तत्र
तस्य सकलजनप्रसिद्धत्वात् । ननु तत्तादात्म्यासम्भवे कथमतोऽर्थप्रतीतिः ? इत्यप्यसाम्प्रतम्;
तदभावेऽप्यस्याः सङ्केतसामर्थ्यादुपपद्यमानत्वात् । वृद्ध1250परम्परातो हि शब्दानां सहजयोग्यता
युक्तानामर्थप्रतीतिप्रसाधकत्वम् काष्ठादीनां पाकप्रसाधकत्ववत् । तन्न तत्र तादात्म्यं घटते ।


नापि विशेषणीभावः; सम्बन्धान्तरेणासम्बद्धानां सह्यविन्ध्यादिवत् तद्भावस्यानुपपत्तेः । वा
च्यवाचकभावस्तु शब्दार्थयोः भेदमेव प्रसाधयति, तमन्तरेण अनयोः तद्भावाऽनुपपत्तेः । तदेवं
145 शब्दार्थयोः अद्वैताविरोधिनः सम्बन्धस्य कस्यचिदपि विचार्यमाणस्याऽनुपपत्तेः न शब्देनान्वि
तत्वमर्थस्य घटते । प्रतीत्या च शब्दान्वितत्वं ज्ञाने परिकल्प्य1251ते, सा चेदन्यत्राप्यस्ति तदपि परि
कल्प्यत्नामविशेषात्, तथा च न सोऽस्ति प्रत्ययो लोके इत्याद्ययुक्तम् । प्रसाधितञ्च लोच
नाद्यध्यक्षे शब्दसंस्पर्शाभावेऽपि स्वार्थप्रकाशकत्वं सविकल्पकसिद्धिप्रघट्टके इत्यलमतिप्रसङ्गेन ।


यदप्युक्तम्1252सकलव्यवहारोऽपि इत्यादि; तदप्ययुक्तम्; शाब्दव्यवहारस्यैव तदनुविद्ध
त्वेन अनुभवात्, न चक्षुरादिप्रभवस्य ।


यच्चान्यदुक्तम्1253सुप्तावस्थायाम् इत्यादि; तदप्युक्तिमात्रम्; अद्वैते सुप्रेतरावस्थाया एवाऽ
संभवात्, तत्संभवे अद्वैतविरोधात् । अविद्यातस्तत्र तदविरोधः; इति श्रद्धामात्रम्; अवि
द्याया भेदप्रतिभासहेतुत्वस्य प्रागेव कृतोत्तरत्वात् ।


यदप्युक्तम्1254ये यदाकारानुस्यूताः इत्यादि; तदप्यसारम्; शब्दाकारानुस्यूतत्वस्य अ
सिद्धेः । प्रत्यक्षेण हि नीलादिकं प्रतिपद्यमानः प्रतिपत्ता शब्दाकारानन्वितमेव प्रतिपद्यते,
कल्पितत्वाच्च अस्याऽसिद्धिः । शब्दाकारान्वितरूपाधाराऽर्थाभावेऽपि हि ते तदन्वितत्वेन त्वया
कल्प्यन्ते, तथाभूताच्च हेतोः कथं पारमार्थिकं ब्रह्म सिद्ध्येत् । साध्य-साधनविकलश्च दृष्टान्तः;
घटादीनामपि सर्वथैकमयत्वस्य एकान्वितत्वस्य चाऽसिद्धेः । न खलु भावानां सर्वथैकरूपानुग
मोऽस्ति, सर्वार्थानां समानाऽसमानपरिणामात्मकत्वात् ।


यदप्यभिहितम्1255न शब्दाद् व्यतिरिच्यतेऽर्थः इत्यादि; तत्र पक्षस्य प्रत्यक्षबाधा, शब्दाद्
देशादिभेदेनार्थस्य प्रत्यक्षतः प्रतीतेः । तत्प्रतीतावेव प्रतीयमानत्वात् इति हेतुश्चाऽसिद्धः;
लोचनादिज्ञानेन शब्दाऽप्रतीतावपि अर्थस्य प्रतीयमानत्वात् । कथमन्यथा बधिरस्य चक्षुरादि
प्रभवप्रत्यक्षाद् रूपाद्यर्थप्रतीतिः स्यात् ? तन्न शब्दस्वभावस्य ब्रह्मणः सद्भावः कुतश्चित्प्रमा
णाद् घटते ।


अस्तु वा; तथापि शब्द1256परिणामत्वात् जगतः शब्दमयत्वं स्यात् मृत्परिणामत्वाद् घट
स्य मृण्मयत्ववत्1257, शब्दादुत्पत्तेर्वा यथा अन्नमयाः प्राणा इति हेतौ मयङ् विधानात् ? तत्रा
द्यपक्षोऽनुपपन्नः; परिणामस्यैवा1258त्राऽनुपपत्तेः । शब्दात्मकं हि ब्रह्म नीलादिरूपतां प्रतिपद्यमानं
146 स्वाभाविकं शब्दरूपं परित्यज्य प्रतिपद्येत, अपरित्यज्य वा ? प्रथमपक्षे अ1259स्याऽनादिनिधनत्व
विरोध, पौरस्त्यस्वभावविनाशात् । द्वितीयपक्षे तु नीलादिसंवेदनसमये बधिरस्यापि शब्दसवे
दनप्रसङ्ग नीलादेस्तदव्यतिरेकात् । यद् यदव्यतिरिक्तं तन् तम्मिन संवेद्यमाने संवेद्यते यथा
नीलादिसंवेदनावस्थायां तस्यैव नीलादेरात्मा, नीलाद्यव्यतिरिक्तश्च शब्द इति । तम्याऽसंवेदने
वा1260 नीलादेरप्यसंवेदनप्रसङ्ग तादात्म्याऽविशेषात् । अन्यथा विरुद्धधर्माध्यासात् तस्य ततो भेदाऽ
नुषङ्ग, न1261 हि एकस्यानशस्यैकदा एकप्रतिपत्रपेक्षया ग्रहणमग्रहणञ्च युक्तम् विरोधात् । विरुद्ध
धर्माध्यासेऽपि अत्राऽभेदे हिमवद्विन्ध्यादीनामप्यभेदानुषङ्ग । किञ्च, शब्दा1262त्मा परिणाम गच्छन्
प्रतिपदार्थं भेदं प्रतिपद्येत, न वा ? तत्राद्यविकल्पे शब्दब्रह्मणोऽनेकत्वप्रसङ्ग, विभिन्नानेकस्व
भावाऽर्थात्मकत्वात् तत्स्वरूपवत् । द्वितीयविकल्पे तु सर्वेषां नीलादीनां देश-काल-म्बभाव-व्या
पारा-ऽवस्थाभेदाऽभाव प्रतिभासभेदाऽभावश्चानुपज्यते, एकम्बभावात् शब्दब्रह्मणोऽभिन्नत्वात्
तत्स्वरूपवत् । तन्न शब्दपरिणामत्वाज्जगतः शब्दमयत्वं घटते ।


नापि शब्दा1263दुत्पत्ते, तस्य नित्यत्वेन अविकारित्वात्, अविकारिणश्च क्रमेण कार्योत्पाद
कत्वानुपपत्तेर्युगपदेवाऽखिलकार्याणामुत्पत्तिप्रसङ्ग । कारणवैकल्याद्धि कार्याणि विलम्बन्ते
147 नान्यथा, तच्चेदविकलम्, किमपरं तैरपेक्ष्यम् येन युगपन्न भवेयुः ? तदेवं1264 शब्दब्रह्मणः सद्भाव
ग्राहकप्रमाणस्य जगत्प्रपञ्चरचनानिमित्तत्वस्य चाऽसिद्धेः न तदभ्युपगमेन अबाधबोधाधिरूढ
स्यार्थस्यापलापो युक्तः । नापि परमब्रह्माभ्युपगमेन तस्यापि तदसिद्धेरविशेषात् ।


परमब्रह्मवादिनो वेदान्तिन पूर्वपक्ष–


ननु 1265र्व खल्विदं ब्रह्म छान्दोग्यो॰ नेह1266 नानास्ति किञ्चन वृहदा॰
1267रामं तस्य पश्यन्ति न तं पश्यति कश्चन वृहदा॰
इत्याद्युपनिषद्वाक्यात् परमब्रह्मणः सद्भावसिद्धेः चेतनाऽचेतनपरि
णामेन जगत्प्रपञ्चरचनानिमित्तत्वमुपपद्यते । चेतनो हि परिणा
मोऽस्य कर्मात्मानः, अविप्रतिपत्त्या तत्र सर्वेषां चैतन्यान्वय
प्रसिद्धेः, अचेतनस्तु पृथिव्यादिमहाभूतरूपः । न चैकत्वे ब्रह्मणः कथमयं नानारूपः परि
णामः ? इत्यभिधातव्यम्; सुव1268र्ण-क्षीरादेरेकत्वेऽपि कटक-दध्यादिविचित्रपरिणामोषलम्भात्,
तदेवेदं सुवर्ण कटकादिरूपतया परिणतम्, तदेवेदं क्षीरं दधीभूतम् इति प्रतीतेः । क्षीरदध्नो
स्तादात्म्ये किन्न युगपत्प्रतिभासः कटकसुवर्णवत् नीलपीताद्याकारैकवस्तुवद्वा ? इत्यप्ययु
क्तम्; देशचित्रस्यैवाऽर्थस्य युगपत्प्रतिभासार्हत्वात्, कालचित्रस्य तु स्वात्मभूतेनैव क्रमेणावष्ट
ब्धत्वान्न युगपत्प्रतिभास ।


नन्वेकस्य कथं क्रम ? अनेकस्य कथम् ? न हि घटपटादीन् विहाय अन्यः कश्चित्क्रमोऽ
स्ति । स हि तेषां स्वरूपम्, धर्मो वा स्यात् ? स्वरूपञ्चेत्; किमेकैकशः, अनेकेषां वा ?
यदि एकैकश; घटप्रतीतावपि क्रमप्रतीतिः स्यात् । अनेकेषां चेत्; तर्हि युगपत्प्रतिभासाना
मपि अनेकार्थानां क्रमप्रतीतिः स्यात् । अथ धर्मः; स किं कारणान्तराधीनः, प्रमातृ1269कल्पनाय
148 त्तो वा ? तत्राद्यपक्षोऽयुक्त; तदुत्पत्तौ ज्ञानव्यतिरेकेण कारणान्तरस्याऽनुपलभ्यमानत्वात् ।
प्रमातृकल्पनायत्तत्वे तु एकत्वेऽप्यसौ न विरोधमध्यास्ते, सर्वत्र तत्कल्पनानुसारेणैव क्रमेणैते
प्रतिभाता, युगपदेते प्रतिभाताः
इत्यादिव्यवहारप्रसिद्धे । ननु चैकत्वे ब्रह्मणो देश1270कालचित्रता
विरुद्ध्यते, तस्यां वा तदेकत्वमिति चेत्, न, चित्रपटादीनां देश-कालवैचित्र्येऽपि एकत्वो
पलम्भात् । प्रतिभासभेदोऽपि एकस्य न विरोधमास्कन्दति, निश्चितैकत्वम्यापि पादपस्य दूरा
सन्नपुरुषापेक्षया विभिन्नप्रतिभासविषयत्वप्रतीते । सामर्थ्यभेदोऽपि एकत्वं न विरुणद्धि, ज1271
निधेरेकस्यापि वीची-तरङ्ग-बुद्बुद-फेनाद्यनेककार्यकरणे सामर्थ्यभेदाध्यवसायात् ।


न चैक1272त्वे तस्य विचित्रसृष्टिविधानम् उत्कृष्टा1273ऽपकृष्टप्राण्युत्पादनम् नैर्घृण्यहेतुकनिरति
शयनरकादिदु खकरणञ्चाऽनुपपन्नम्; सापेक्षस्य कर्तृत्वात् । स हि कर्मात्मानुष्ठितधर्मावर्म
सहायो विचित्रां सृष्टिमुत्पादयति, कर्मात्मानो हि विहित-निषिद्ध1274कर्मानुष्ठातृत्वेन प्रतिप्राणि
प्रसिद्धाः । यद्यपि एकरूपब्रह्मविवर्ता ते, तथापि अविद्यया भेदमिवापादिता कर्मणां कर्तृत्वेन
तत्फलानाञ्च भोक्तृत्वेन अवधार्यन्ते । अतस्तान् पुण्याऽपुण्योपेतान् सार्वज्ञ्यज्ञानेनाऽऽकलय्य
उक्तप्रकारं स1275र्गमारभमाणस्यास्य न नैर्घृण्याद्युपालम्भो ज्यायान् । स्वभा1276वादेव वा उर्णनाभ
इवांशूनां कारणान्तरनिरपेक्षं ब्रह्म जगद्वैचित्र्यस्य कारणम् ।


149

यदि चार्थानां भेदो नाऽविद्याकृतः किन्तु वास्तवः, तदा तत्र प्रमाणं वक्तव्यम्–तच्च प्रत्य
क्षम्, अनुमानं वा स्यात् ? न तावत्प्रत्यक्षम्; व्यावृत्तिरूपे 1277भेदेऽस्य प्रवृत्त्यनुपपत्तेः, पर
स्परव्यवच्छेदो हि भेद अयम् अयं न भवति, 'अस्मादयं भिन्नः इति । स च प्रत्यक्षस्याऽ
विषय, विधिविषयत्वात्तस्य, 1278हुर्विधातृ प्रत्यक्षं न निषेद्धृ विपश्चितः
इत्यभिधानात् ।


किञ्च, अर्थानां भेदः क्रमेण गृह्येत, यौगपद्येन वा ? न तावद् यौगपद्येन; तस्य प्रतियो
गिग्रहणसापेक्षत्वात्, न च प्रतियोग्यग्रहणे तद्ग्रहणापेक्षो भेदो अर्थस्वरूपग्रहणमात्राद् ग्रहीतुं
शक्यः, अतिप्रसङ्गात् । न च आश्रय-प्रतियोगिनोर्युगपद् ग्रहणं संभवति; प्रतियोगिप्रतिपत्तेः
भेदाश्रयार्थस्वरूपप्रतिपत्तिपूर्वकत्वात्, तदप्रतीतौ अयमस्माद् भिन्नः इति प्रतीतेरनुपपत्तेः ।
नापि क्रमेण; इतरेतराश्रयत्वप्रसङ्गात्–घटप्रतिपत्तौ हि तद्व्यवच्छेदेन पटादिप्रतिपत्तिः, तत्प्र
तिपत्तौ च पटादिव्यच्छेदेन घटप्रतिपत्तिरिति । तन्न प्रत्यक्षेण भेदप्रतिपत्तिः ।


नाप्यनुमानेन; अस्य प्रत्यक्षपूर्वकत्वात् । सम्बन्धप्रतिपत्तिपूर्वकं हि अनुमानं प्रवर्तते,
न चाऽविषये प्रत्यक्षात् सम्बन्धप्रतिपत्तिर्युक्ता । न च भेदेनाऽविनाभूतं किञ्चिल्लिङ्गमस्ति ।
न च सुख-दुःखादिप्रतीत्यन्यथानुपपत्त्या आत्मादेर्भेदानुमानं युक्तम्; तस्या मिथ्यारूपत्वात्,
अतो भेदोऽप्यपारमार्थिक एव आत्मादेः सिद्ध्येन्न वास्तवः ।


किञ्च, असौ भेदः पदार्थेभ्यो भिन्नः, अभिन्नो वा स्यात्, उभयरूपः, अनुभयरूपो वा ?
यद्याद्यः पक्षः; तत्रापि किमसौ स्वतो भिद्यते, भेदान्तरेण वा ? यदि स्वतः; अर्थैः किमप
राद्धम् येनैषां स्वतो भेदो नेष्यते ? अथ भेदान्तरेण, तदा अनवस्था, तस्याप्यपरभेदान्तरेण
अर्थेभ्यो भेदप्रसङ्गात् । अथ अभिन्न; तदा अर्थमात्रं भेदमात्रं वा स्यात् । नाप्युभयरूपः;
उभयपक्षनिक्षिप्तदोषानुषङ्गात्, भेदाऽभेदयोः परस्परपरिहारस्थितिलक्षणत्वेन एकत्रैकदा संभवा
ऽभावाच्च । नाप्यनुभयरूप; विधि-प्रतिषेधयोः एकतरप्रतिषेधे अन्यतरविधेरवश्यम्भावित्वात् ।


150

किञ्च, अखिलार्थानाम् एक एव भेद, प्रत्यर्थ भिन्नो वा ? यद्येक एव; तर्हि तस्याऽभेदात्
तेषामप्यभेद एव स्यात् । अथ प्रत्यर्थ भिन्न, कि स्वत, भेदान्तरेण वा ? पक्षद्वयेऽपि प्राक्
प्रतिपादितमेव दोषद्वयं द्रष्टव्यम् । ततो भेदाऽऽग्रहं परित्यज्य अभिन्नमेकं परमब्रह्मलक्षणं
पारमार्थिकं तत्त्वं प्रतिपत्तव्यमिति ।


ब्रह्माद्वैतस्य खण्डनम्–


अत्र प्रतिविधीयते । यत्तावदुक्तम्1279चेतनाऽचेतनपरिणामेन इत्यादि, तदसमीचीनम्;
अत्र परिणामवाचोयुक्तेरेवाऽसंभवात् । परिणामो हि पू1280र्वपूर्वधर्मपरि
त्यागेन धर्मान्तरस्वीकार । ब्रह्म चेत् पूर्व चिद्रूपं प1281रित्यज्य आकाशा
दिस्वरूपं स्वीकुरुते, तदा ब्रह्मरूपतैवाऽनेन परित्यक्ता स्यात्, चिदा1282नन्दमयं हि ब्रह्म उच्यते ।
अथ स्वरूपाऽपरित्यागेनैव आकाशादिरूपतया तत् परिणमते, तन्न, इत्थम्भूतस्य परिणामस्य
क्वचिदप्यप्रतिपत्ते । कार्यमेव हि तेन इत्थमर्थान्तरभूतमुत्पादितं स्यात्, तथा च उपादाना
न्तरसिद्धि तद्व्यतिरिकेण तदनुपपत्ते इत्यद्वैतहानि, ब्रह्मोपादानकारणं जगत् इति स्व
वचनव्याधातश्च ।


किञ्च, क्षीर-सुवर्णादे परिणामिन कालपरिवास-सुवर्णकारकरव्यापारादिसहकारिस
व्यपेक्षस्य परिणामे प्रवृत्तिर्दृष्टा, ब्रह्मणश्च सहकार्यभावात् कथं तत्र प्रवृत्ति, परिणामस्य निष्प
त्तिर्वा ? तत्सद्भावे वा अद्वैतहानिः । अथ इतरपरिणामिपदार्थविलक्षणत्वात्तस्य न दोषो
ऽयम्, इदमेव हि तस्य माहात्म्यम्–यदन्यानपेक्षमपि तत् तथाविध1283 परिणामं प्रतिपद्यते, तन्न;
दृष्टानुसारेणैव अदृष्टार्थकल्पनोपपत्ते । य कस्यचित् कदाचिदपि परिणामिन स्वभावो न
दृष्ट सोऽस्यास्ति इति केनावष्टम्भेन कल्प्यते ? उपादानान्तरस्याऽनुपपत्तेरिति चेत्, न;
तदुपपत्तेर्निषेधाऽसंभवात्, दध्यादौ क्षीरादेरुपादानत्वप्रतीतेः । यदि च अन्यदुपादानान्तरं
नास्ति तथापि ब्रह्मणो यत् प्रमाणेनाऽनुपपन्नं रूपं तत् कथं घटेत ? स्वभावतश्चास्य परिणामे
प्रवृत्तौ तदनुपरतिप्रसङ्ग, सदैकरूपपरिणामश्च स्यात् ।


कि1284ञ्च, सर्वाऽपि प्रेक्षावत्प्रवृत्ति प्रयोजनवत्त्वेन व्याप्ता । ब्रह्मणश्च विश्वप्रपञ्चरचने कि कि
ञ्चित् प्रयोजनमस्ति, न वा ? यदि नास्ति; तदा नास्य प्रेक्षापूर्वकारिता, प्रेक्षापूर्वकारी हि न
प्रयोजनमनुद्दिश्य कदाचिदपि प्रवर्तेत, अन्यत्र जडात् । द्विविधा हि प्रवृत्ति–जडस्य, इतरस्य
च । तत्र जड1285प्रवृत्तिः नित्यं परायत्तैव, न हि यावत्स्वप्रयोजनमुद्दिश्य न चेतनेन प्रेर्यते तावज्जडः
151 क्वचित्प्रवर्तते, न च ब्रह्मणो जडत्वमङ्गीक्रियते, प्रेरकस्याऽन्यस्य प्रसङ्गतः अद्वैतहानिप्रसङ्गात् ।
ननु चेतनस्यापि स्वापादिदशायां तदन्तरेण प्रवृत्तिर्दृश्यते; इत्यप्यसमीक्षिताभिधानम्; पूर्वाऽभ्य
स्तस्वप्रयोजनप्रवृत्तिनिबन्धनत्वात् तत्प्रवृत्तेः, अन्यथा अनभ्यस्तेऽपि विषये तदा प्रवृत्तिः
स्यात् । प्रयोजनवत्त्वे च ब्रह्मण साकाड्क्षत्वात् कृतार्थता न स्यात् । प्रयोजनं हि इष्टं साध्य
मुच्यते, सर्वथा कृतार्थस्य च साध्याऽभावात् तद्विरुद्ध्यते ।


किञ्च, ब्रह्म सावयवम्, निरवयवं वा ? न तावत् सावयवम्; चिद्रूपत्वात्, नहि चितोऽ
वयवानां सम्भवोऽस्ति, तत्संभवे वा अस्या कार्यत्वप्रसङ्गात् नित्यत्वक्षतिः । निरवयवत्वे च
सर्वात्मना प्रथममेव आकाशादिपरिणामं प्रतिपन्नस्य स्वरूपप्रच्युतितो जडत्वप्रसक्ते लाभमिच्छ
तो मूलोच्छेदः परिणामान्तराऽसङ्क्रमश्च स्यात्, न हि जडस्यास्य आकाशरूपतां गतस्य केनचि
दप्रेरितस्य अतो व्यावृत्य परिणामान्तरे वृत्तिर्घटते, न चान्यस्तद्व्यतिरिक्तः कश्चित् प्रेरकोऽस्ति
द्वैतप्रसङ्गात् । ततोऽयुक्तमिदं सृष्टिक्रमकथन1286म्–ब्रह्मणः प्रथम आकाशलक्षणः परिणामः,
तस्माद्वायु, ततस्तेज, ततो जलम्, ततः पृथिवी, ततो नानाविधौषधयः, ततो जरायुजाण्डजो
द्भेदजादिभेदेन नानाविध शरीरादिसर्ग विषयसर्गश्च
इति । ब्रह्मपरिणामत्वे च आकाशादीनां
कर्मात्मनाञ्चाऽभेद, कारणस्याभिन्नत्वात् । न हि अभिन्नस्वरूपादुपादानाद् भिन्नजातीयस्यो
त्पत्तिर्युक्ता, वह्नेर्जल-तेजसोरुत्पत्तिप्रसङ्गात् । भोग्यभोक्तृभावश्च एतेषामनुपपन्नः; कर्मात्मानो
भोक्तारः, भूतानि भोग्यानि
इति । न हि तस्मात्तेषामभेदे विरुद्धस्वभावद्वयसंभव, तत्संभ
वे वा विरुद्धधर्माऽध्यासाद् ब्रह्मणो नैकत्वम् ।


यदप्युक्तम्1287–सुवर्ण-क्षीरादेरेकत्वेऽपि कटक-दध्यादिविचित्रपरिणामवदत्रापि सर्वं घटते;
तदप्युक्तिमात्रम्, तस्य अनेकस्वभावत्वे कथञ्चिदुत्पत्ति-विनाशवत्त्वे च सति विचित्रपरिणाम
त्वोपपत्तेः सर्वथैकस्वभावस्य अनुत्पत्ति-विनाशधर्मणश्चार्थस्यैवाऽसंभवात् खरविषाणवत् । क्रम
श्च अर्थानां धर्मः पराधीनोऽनेकस्थः । स च द्वेधा–देशक्रमः, कालक्रमश्च । तत्र युगपद्भाविनां
देशप्रत्यासत्तिरूपो देशक्रम, यथा वृद्धा एते क्रमेणोपविष्टाः इत्यादिप्रतीत्यारूढः । कालप्रत्या
सत्तिविशिष्टार्थानां तु कालक्रमः, क्रमेणोत्पद्यन्ते वर्णाः क्रमेणोत्पद्यन्ते स्थास-कोशादयः
इत्यादिप्रतीतिसमधिगम्य । युगपत्प्रतिभासमानानेकार्थानां किन्न क्रमप्रतीतिरिति चेत् ?
कालस्य उपाधेरभावात् । यन्निबन्धना हि या प्रतीतिः सा तदभावे न भवति यथा देशनिबन्धना
क्रमप्रतीतिः देशाभावे कालनिबन्धना चेयं प्रतीतिरिति । चित्र1288पट-दूरासन्नपादपा-ऽम्भोनिधि
152 प्रभृतीनामपि सर्वथैकस्वभावत्वमसिद्धम्, चित्ररूपत्वात् विशदेतरप्रतिभासविषयत्वात् साम
र्थ्यभेदाच्चात्र कथञ्चिद् भेदप्रसिद्धे ।


किञ्च, ब्रह्मणश्चित्ररूपत्व विभिन्नप्रतिभासविषयत्वं सामर्थ्यभेदश्च अवस्थानां भेदे सति
स्यात्, अभेदे वा ? न तावदभेदे, एकस्यामप्यवस्थायां तत्प्रसङ्गात् । भेदे चेत्, तर्हि तासा
मन्योन्यं भेदप्रसाधनाय इतरेतराभावादिरप्यायात इति सुष्ठु प्रसाधितमद्वैतम् तत्स्वरूपस्य
विधिरूपत्वेन प्रतिषेधसाधकत्वाऽयोगात् । अस्तु वा यथाकथञ्चित्तासामन्योन्यं भेद; तथापि
अवस्थावत ता भिन्ना, अभिन्ना, उभयम्, अनुभयं वा ? भेदे तस्य अवस्थाः इति व्यप
देशो न स्यादनुपकारात्, उपकारे वा अनवस्था । अभेदे, क्रिमवस्थातादात्म्येन अवस्थाता
स्थित, अवस्थातृतादात्म्येन अवस्था वा ? प्रथम1289पक्षे अवस्थातुरेकत्वानुपपत्ति तद्वत्तस्यापि
भेदप्रसङ्गात्, न हि भिन्नतादात्म्येनावस्थितं तत्स्वरूपवदभिन्नं युक्तम् अतिप्रसङ्गात् । द्वितीय
पक्षे तु अवस्थातैव नाऽवस्था, न हि अभिन्नतादात्म्येनावस्थितं तत्स्वरूपवद् भिन्नं भवितुमर्हति
तत्स्वरूपस्यापि भेदप्रसङ्गात् । उभयपक्षेऽपि उभयदोष । अनुभयपक्षस्त्वयुक्त; विधि-प्रतिषेध
धर्मयो एकतरप्रतिषेधे अन्यतरविधेरवश्यम्भावित्वेन एकत्रैकदा उभयप्रतिषेधानुपपत्ते ।


यदपि–1290र्मात्मानुष्ठितकर्मसहायस्य कर्तृत्वात् इत्याद्युक्तम्1291, तदप्ययुक्तम्; यत कर्मा
त्मनां कर्मणाञ्चोत्पाद तदायत्त एव, तद्व्यतिरेकेणाऽन्यस्याऽनभ्युपगमात् । तत्र किं प्रथमं
कर्मात्मनो निर्माय कर्मभिर्योजयति, कर्माणि 1292वोत्पाद्य कर्मात्मन सृजति ? न तावत् प्रथमम्
अनुष्ठात्रभावात् कर्माणि स्रष्टुं शक्यन्ते, कर्मसम्बन्धञ्च विना नाऽनुष्ठातारो भिन्ना कल्पयितुं
शक्यन्ते
इति इतरेतराश्नयत्वान्न कस्यचित् सृष्टि स्यात् । अविद्यया भेदमिवापादिता
इत्यादि चातीव दुर्घटम्, तस्यास्ततो व्यतिरेकाऽव्यतिरेकपक्षयोरनुपपत्ते, तथा तदनुपप
त्तिश्च शब्दाद्वैतनिराकरणप्रघदृके1293 प्रपञ्चत प्रतिपादिता इत्यलमतिप्रसङ्गेन ।


किञ्च, अज्ञानस्वभावाऽविद्या ज्ञानस्वभावं ब्रह्म च, न च ज्ञानाऽज्ञानयो भावाऽभावयोरिव
क्वचित्तादात्म्यं दृष्टम् । न च इत्थमनिर्वचनीयाऽविद्या इत्यभिधातव्यम्, वस्तुनो भेदाऽभेदाभ्यां
विचार्यमाणत्वोपपत्तेः, न चावस्तुत्वमस्या संगच्छते, सकलभेदप्रपञ्च निष्पादयन्त्या यदि
अवस्तुत्वमविद्याया तदा ब्रह्मणोऽप्यवस्तुत्वं स्यात् ।


किञ्च, ब्रह्मस्वरूपाऽप्रवेदनप्रभवोऽविद्याप्रादुर्भाव, अविद्याप्रादुर्भावप्रभवं वा ब्रह्मस्वरूपा
ऽप्रवेदनम् ? न तावदाद्यः पक्ष; नित्योदितत्वेन ब्रह्मण स्वरूपाऽप्रवेदनाऽसंभवात् । नापि
द्वितीय, नित्योदिते तस्मिन् प्रकाशमाने मध्यन्दिनावस्थित इवाऽर्के तस्यास्तमस्तुल्याया प्रादु
153 र्भावाभावात् । अनादित्वात्तस्या नायं दोषश्चेत्; न; एवमपि तमः-प्रकाशयोरिव ब्र
ह्मा-ऽविद्ययोः सहावस्थानाऽनुपपत्तेः । कर्मात्मनाञ्च अविद्यास्वभावत्वे कथमयं विचारात्मको
विवेकः अविद्यात्मनो विद्यात्मकविचारविरोधात् ? कुतश्चास्योत्पत्तिः–अविद्यात एव, अन्यतो
वा ? न तावदन्यतः; अविद्याव्यतिरेकेण अन्थस्यानभ्युपगमात् । अथ अविद्यैव एवंविध
विद्योपायः; तन्न; विरोधात्, न हि तमः तेजःप्रकाशोपायः प्रतीयते ।


यच्चान्यदुक्तम्1294स्वभावादेव वा ऊर्णनाभ इवांशूनां कारणान्तरनिरपेक्षं ब्रह्म जगद्वैचित्र्य
कारणम्
; तदप्युक्तिमात्रम्; ऊर्णनाभ1295स्य तन्तूत्पादने अन्तर्बहिःकारणापेक्षाप्रतीतेः तत्र तदन
पेक्षत्वासिद्धेः, ततः कथं तद्दृष्टान्तावष्टम्भेन ब्रह्मणस्तदनपेक्षस्य स्वभावतो जगद्वैचित्र्यहेतुत्वं1296
प्रसाधयितुं शक्यम् ? स हि प्राणिहिंसालाम्पट्यतो वंशकुड्यादिकं बहिःकारणकलापं समा
साद्य अन्तर्गतं लालारूपं पुद्गलप्रचयं प्राणिभक्षणप्रयोजनमुररीकृत्य दीर्घीकुर्वन्नुपलभ्यते ।
ततः सहकारि-प्रयोजनानपेक्षस्य उपादानरूपस्य ब्रह्मणो जगद्वैचित्र्यमभ्युपगच्छन्नयम् उपेक्ष
णीय एव, दृष्टहानेः अदृष्टपरिकल्पनायाश्चाऽनुषङ्गात् ।


यदप्युक्तम्1297भेदे प्रत्यक्षमनुमानं वा प्रमाणं1298 वर्तेत इत्यादि; तत्र प्रत्यक्षत एव भेदः
प्रतीयते, अक्षव्यापारानन्तरप्रभवप्रत्यये अन्योन्यासंसृष्टस्य नीलादेः प्रतिभासनात्, पर
स्पराऽसङ्कीर्णताप्रतिभास एव च भेदप्रतिभासः । न च अन्योन्यव्यावृत्तिर्भेदः किन्तु पदार्थ
स्वरूपम्, त1299द्धि स्वकारणपरम्परातः त्रैलोक्यविलक्षणस्वभावमेवोत्पन्नम् । तथाभूतञ्च तत्
चेतनात्मकम् अहङ्कारास्पदं ग्राहकाकारमन्तः प्रतिभासते नीलादिकं तु ग्राह्याकारं बहिः ।
नहि तदुभयं मुक्त्वा अद्वैतं कस्यचित्स्वप्नेऽपि किञ्चित्प्रतिभासते । ननु यदि पदार्थस्वरूपमेव
भेदः तर्हि प्रथमाऽक्षसन्निपाते तत्स्वरूपप्रतिपत्तौ अयमस्माद् भिन्नः इति किमिति न प्रतीयते
इति चेत् ? पदार्थान्तरग्रहणसापेक्षत्वाद् अभेदवत्, यथैव हि प्रथमाऽक्षसन्निपाते प्रतीतोऽपि
सत्सामान्यलक्षणोऽभेदः अर्थान्तराऽप्रतीतौ सत् सत् इति अनुगतात्मना नोल्लिखति, तथा
भेदोऽपि । अस्तु वा अन्योन्याभावरूपो भेदः; तथापि अस्य प्रत्यक्षतः प्रतीतिः न विरुद्ध्यते,
सत्स्वरूपेणेव असत्स्वरूपेणाप्यर्थानां प्रत्यक्षे प्रतिभासनात् । न ख1300लु स्वरूपेण सत्त्वमेव अर्थानां
154 प्रत्यक्षे प्रतिभासते न पुनः पररूपेणाऽसत्त्वम्, तदप्रतीतौ तेपामप्यप्रतीतिप्रसङ्गात् स्व1301पररूपोपा
दानापोहापाद्यत्वाद् वस्तुनो वस्तुत्वस्य ।


यच्चान्यदुक्तम्1302क्रमेणासौ गृह्यते युगपद्वा इत्यादि; तदप्येतेनैव प्रत्युक्तम्; उक्तन्यायेन
युगपद्भेदप्रतिभाससंभवात् । प्रतियोग्यप्रतिपत्तौ कथं भेदः तत्सापेक्ष प्रतीयते ? इत्यप्यसुन्दरम्;
यतो भेदव्यवहार एव परापेक्षो न तत्स्वरूपम्, तद्धि स्वकारणकलापात् प्रतियोगिग्रहणनिर
पेक्षमेवोत्पन्नम्, कथमन्यथा अभेदेऽपि इतरेतराश्रयो न स्यात्–भेदापेक्षा1303 हि सामान्यसिद्धि,
तदपेक्षा च भेदसिद्धिरिति ? सङ्कोचितप्रसारिताङ्गुल्यादौ च प्राक्-प्रध्वंसाभावरूपः क्रम
भावी भेद क्रमेणैव सुस्पष्टमाभासते ।


यच्चोक्तम्1304अखिलार्थानाम् एक एव भेदः प्रत्यर्थं भिन्नो वा इत्यादि; तदप्यसाम्प्रतम्;
एकत्वविरोधलक्षणत्वाद् भेदस्य, यत्र हि ऐक्यविरोधः तत्र भेदशब्द प्रयुज्यते यथा नीलाद्
भिन्नं पीतम्
इत्यादौ । स कि धर्मिणो भिन्नोऽभिन्नो वा इत्यादिविकल्पसंहतिरपि अने
कान्तसमाश्रयणात् प्रत्याख्याता, न खलु धर्म-धर्मिणोः सर्वथा भेदोऽभेदो वा संभवति इत्यग्रे
वक्ष्यते । कथञ्चैवंवादिनः अभेदः सिद्ध्येत् भिन्नाऽभिन्नादिविचारस्य तत्रापि कर्तुं श1305क्यत्वात् ?
तथाहि–अयमभेदः भेदेभ्यो भिन्नः, अभिन्नो वा स्यात् ? यद्यभिन्न, तदाऽस्य अभेदरूपताऽ
नुपपत्तिः भेदस्वात्मवत्तावद्धा भेदप्रसङ्गात् । अथ भिन्नः; तन्न; भेदेभ्यो भिन्नस्य अभेद
स्याऽप्रतीतेः, अन्यथा विप्रतिपत्त्यभावप्रसङ्ग, न हि घटात् पटे भिन्ने प्रतीयमाने कश्चिद्
विप्रतिपद्यते ।


किञ्च, असौ ततो भिन्न प्रत्यक्षेण प्रतीयेत, अनुमानेन वा ? प्रत्यक्षेण चेत्, किं भेदस्व
रूपग्राहिणा, अन्येन वा ? न तावदन्येन, तथाभूतस्यास्य असंवेद्यमानत्वात्, न हि अन्तर्ब
हिर्वा भेदस्वरूपाऽनवभासिप्रत्यक्षं स्वप्नेऽपि सवेद्यते नीलसुखादिभेदस्वरूपावभासिन एवास्य
सदा संवेदनात् । भेदस्वरूपग्राहिणाऽपि तेन युगपत, क्रमेण वा1306 अभेद प्रतीयेत ? न तावद् युग
पत्, द्वयप्रतीतेरभावात्, न खलु सर्वथा भिन्नौ भेदाऽभेदौ युगपत् क्वचिदपि प्रत्यक्षे प्रतिभा
सेते इत्यनेकान्तसिद्ध्यवसरे प्रतिपादयिष्यते । नापि क्रमेण, प्रत्यक्षस्य एकक्षणस्थायितया
क्रमेणाप्यतः तत्प्रतिपत्तेरसभवात् । तन्न प्रत्यक्षतोऽभेदप्रतिपत्तिर्घटते । नाप्यनुमानत, प्रत्यक्षाऽ
भावे तस्याप्यनुपपद्यमानत्वात् तत्पूर्वकतया तस्य भवद्भिरभ्युपगमात् ।


किञ्च, अभेदो नाम द्वितीयापेक्ष, तदग्रहे कथमसौ ग्रहीतुं शक्योऽतिप्रसङ्गात्, यो
यदपेक्षो धर्मः नासौ तदग्रहे1307 ग्रहीतुं शक्य यथा दण्डाग्रहे दण्डित्वम्, द्वितीयापेक्षश्च अभेद
लक्षणो धर्म इति । यथाप्रतीति अभेदसिद्ध्यभ्युपगमे च भेदसिद्धिरपि त1308थैवाऽभ्युपगन्तव्या
155 इति सिद्धः प्रत्यक्षत शरीरादिभेदवद् आत्मनोऽपि भेद । विभिन्नसुख-दुःखादिप्रतीत्यन्य
थानुपपत्तेश्च; न चेयं मिथ्या असन्दिग्धाऽवाध्यमा1309नस्वरूपत्वात् आत्मप्रतीतिवत् । आ1310त्मनोऽ
भेदाभ्युपगमे च एकस्मिन् सुखिते सर्व जगत् सुखितं स्यात्, दुःखिते च दुःखितम्, बद्धे
बद्धम्, मुक्ते मुक्तम्, प्रवृत्ते प्रवृत्तम्, निवृत्ते1311 च निवृत्तम्, न चैवमस्ति, अ1312तोऽस्ति आत्मनो
वास्तवो भेदः । अन्यथा स एव सुखी दुःखी बद्धो मुक्त प्रवृत्तोऽप्रवृत्तश्च इति प्राप्नोति, न
चैतद् युक्तम्, परस्परविरुद्धवर्माणां नित्यनिरंशैकरूपे वस्तुनि असंभवात् । न च कल्पि1313ता
काशभेदवद् आत्मन्यपि कल्पितभेदात् सर्वमिदमुपपत्स्यते इत्यभिधातव्यम्; आकाशस्याऽ
बाधितप्रमाणप्रसिद्धस्वरूपस्य वास्तवप्रदेशप्रसिद्धेः घटाकाशम्, पटाकाशम् इत्यादिव्यवहारो
युक्तः, ब्रह्मणस्तु कुतश्चिदपि प्रमाणादप्रसिद्धेः खपुष्पवत् न कल्पितोऽपि भेदः संभवेत् ।


योऽपि सर्व खल्विदं ब्रह्म इत्याद्यागमः तत्प्रतिपादकः प्रतिपादितः1314; सोऽपि द्वैतवि
पयत्वाद् भेदमेव प्रसाधयति, नहि वाच्य-वाचक-प्रतिपाद्य-प्रतिपादकानां मध्ये अन्यतमस्याप्य
पाये प्रमाणभूताऽऽगमसत्ता उपपद्यते ।


किञ्च, सकलशरीरेषु आत्मन एकत्वे शरीरभेदेऽपि प्रतिसन्धानप्रसङ्गः, यथैव हि एक
स्मिन् शरीरे प्रदेशभेदेऽपि एकत्वादात्मनः प्रतिसन्धानम्, एवं शरीरभेदेऽपि स्यात् । न च
कल्पितभेदानां जीवानां भिन्नत्वात् कल्पितप्रदेशभेदवत् प्रतिसन्धानाऽभावः; यतः प्रदेशानां
भेदे यद्यपि अन्योन्यं प्र1315तिसन्धानं नास्ति तथापि तद्वर्तिप्रदेश्यपेक्षया तदस्ति, एवं जीवानां
भेदे परस्परप्रतिस1316न्धानाऽभावेऽपि तदनुस्यूताऽऽत्मापेक्षया तत् स्यादिति । ततः अ1317द्वैताद्याग्रह
ग्रहाभिनिवेशं परित्यज्य अबाधवोधाधिरूढो बाह्यार्थो यथाप्रतीति अभ्युपगन्तव्यः, अन्यथा
अप्रामाणिकत्वप्रसङ्ग । अतः सिद्धो द्रव्यपर्यायात्मार्थो विषयः । कस्याऽसौ विषयः
इत्यत्राह–विषयिणो द्रव्य-भावेन्द्रियस्य । अथ कि द्रव्येन्द्रियम् ? इत्याह–द्रव्येन्द्रियं पुद्
गलात्मकम् ।
रूप1318रसगन्धस्पर्शवन्तो हि पुद्गलाः तदात्मकं तत्परिणामविशेषस्वभावम् ।


156

अत्यन्तभिन्नजातीयपृथिव्याद्यारब्धत्वमिन्द्रियाणाम्
इति नैयायिकस्य पूर्वपक्ष तन्निरसनञ्च–


ननु च इन्द्रियाणा1319मविशेषत पुद्गलात्मकत्वमयुक्तम्, अत्यन्तभिन्नजातीयेभ्यः पृथिव्या
दिभ्योऽत्यन्तभिन्नजातीयानां चक्षुरादीनामाविर्भावविभावनात् । तथा
च न्यायभाष्यम्–पृथिव्यप्तेजोवायूना घ्राणरसनचक्षुःस्पर्शनेन्द्रिय
भावा1320त् भावः
इति । अमुमेवा1321र्थमनुमानतः समर्थयते–
पा1322र्थिवं घ्राणम् रूपादिषु सन्निहितेषु गन्धस्यैवाऽभिव्य1323ञ्जकत्वात्, यद्
यत्तथाविधम् तत्तत् पार्थिवं दृष्टम् यथा नागक1324र्णिकाविमर्दककरतलादि,
रूपादिषु सन्निहितेषु गन्धस्यैवाऽभिव्यञ्जकञ्च घ्राणम्, तस्मात् पार्थिवमिति । आप्यं रस1325नम्
रूपादिषु सन्निहितेषु रसस्यैवाऽभिव्यञ्जकत्वात् लालावत् । च1326क्षुस्तैजस रूपादिषु सन्निहितेषु
रूपस्यैवाऽभिव्यञ्जकत्वात् प्रदीपवत् । वा1327यव्यं स्पर्शनं रूपादिषु सन्निहितेषु स्पर्शस्यैवाऽभिव्य
157 ञ्जकत्वान् तोयशीतस्पर्शव्यञ्जकवाय्ववयविवत् । श्रोत्रस्य तु पुद्गला1328त्मकत्वम् अतीवाऽनुप
पन्नम्; शब्दस्य स्वसमानजातीयविशेषगुणवतैव इन्द्रियेण ग्राह्य1329त्वोपपत्तेः; तथाहि–शब्दः स्व
समानजातीयविशेषगुणवता इन्द्रियेण गृह्यते, सामान्यविशेषवत्त्वे सति बाह्यैकेन्द्रियप्रत्यक्षत्वात्,
बा1330ह्यैकेन्द्रियप्रत्यक्षत्वे सति अनात्मविशेषगुणत्वाद्वा रूपादिवदिति ।


तदेतदविचारितरमणीयम्; पृथिव्यादीनामत्यन्तभिन्नजातीयत्वेन द्रव्यान्तरत्वाऽसिद्धितः
प्रत्येकमिन्द्रियाणां तदारब्धत्वाऽसिद्धेः । द्रव्यान्तरत्वाऽसिद्धिश्च तेषां विषयपरिच्छेदे प्रसाधयिष्यते ।


यदप्युक्तम्1331पार्थिवं घ्राणम् इत्यादि; तदप्यसमीचीनम्; हेतोर्दिनकरकिरणैः उदकसेकेन
चाऽनेकान्तात् । दृश्यते हि तैलाभ्यक्तस्य आदित्यरश्मिभिर्गन्धाभिव्यक्तिः, भूमेस्तु उदकसेकेनेति ।
आप्यं रसनम् इत्याद्यप्ययुक्तम्; हेतोर्लवणेन व्यभिचारात्, तस्याऽनाप्यत्वेऽपि रूपादिषु स
न्निहितेषु रसस्यैवाऽभिव्यञ्जकत्वप्रसिद्धेः । चक्षुस्तैजसम् इत्याद्य1332प्यनुपपन्नम्; हेतोः मा
णिक्याद्युद्योतेनाऽनैकान्तिकत्वात्, स हि रूपादीनां मध्ये रूपस्यैव प्रकाशको न च तैजस इति ।
वायव्यं स्पर्शनम् इत्याद्यप्यसाम्प्रतम्; कर्पूरादिना हेतोर्व्यभिचारात्, स हि सलिलादौ रूपा
दिषु सन्निहितेषु शीतस्पर्शस्यैवाऽभिव्यञ्जको न च वायव्य इति । पृथिव्यप्रेजःस्पर्शाऽभि
व्यञ्जकत्वाच्च स्पर्शनस्य पृथिव्यादिकार्यत्वाऽनुषङ्गः, वायुस्पर्शाऽभिव्यञ्जकत्वात् वायुकार्यत्व
वत् । चक्षुषश्च तेजोरूपाभिव्यञ्जकत्वात् तेजःकार्यत्ववत् पृथिव्यप्समवायिरूपाऽभिव्यञ्जक
त्वात् पृथिव्यप्कार्यत्वप्रसङ्गः । रसनस्य च आप्यरसाभिव्यञ्जकत्वाद् अप्कार्यत्ववत् पृथिवी
रसाभिव्यञ्जकत्वात् पृथिवीकार्यत्वप्रसङ्गः । शब्दः स्वसमानजातीयविशेषगुणवता इत्याद्यपि
स्वगृहप्रक्रियोपदर्शनमात्रम्; शब्दे नभोगुणत्वस्य प्रतिषेत्स्यमानत्वात् । ततो1333 नेन्द्रियाणां प्रति
नियतभूतकार्यत्वं व्यवतिष्ठते प्रमा1334णाऽभावात् ।


साङ्ख्यपरिकल्पितस्य इन्द्रियाणामाहङ्कारिकत्वस्य प्रत्याख्यानम्–


एतेन आ1335हङ्कारिकत्वमपि इन्द्रियाणां साङ्ख्यपरिकल्पितं प्रत्याख्यातम्; तत्रापि प्रमाणाऽ
भावाऽविशेषात्, प्रमाणबाधासद्भावाच्च । तथाहि–नाहङ्कारि
काणि इन्द्रियाणि, अचेतनत्वे सति करणत्वाद् वास्यादिवत्, इन्द्रि
यत्वाद्वा कर्मेन्द्रियवत् । न मनसा व्यभिचारः; द्रव्यमनसोऽनाह
ङ्कारिकत्वाऽभ्युपगमात् । नापि भावेन्द्रियाऽनिन्द्रियैर्व्यभिचारः;
अचेतनत्वे सति इति विशेषणात् । नापि सुखादिभिर्व्यभिचारः; तेषां करणत्वाऽभावात् ।
तथा, नाह1336ङ्कारिकाणि इन्द्रियाणि प्रतिनियतज्ञानव्यपदेशनिमित्तत्वाद् रूपादिवत्, प्रतिनियत
158 विषयप्रकाशकत्वा1337द्वा प्रदीपवत् । यथैव हि–रूपज्ञानम्, रसज्ञानम् इत्यादिप्रतिनियतज्ञान
व्यपदेशहेतवो रूपादय नाहङ्कारिका तद्वत् चक्षुर्ज्ञानम् रसनज्ञानम् इत्यादितद्व्यपदेशहे
तुत्वाच्चक्षुरादीन्द्रियाण्यपि । तथा, नाहङ्कारिकाणि इन्द्रियाणि पौद्गलिकाऽनुग्रहोपघाताश्रयत्वात्
दर्पणादिवत् । यथैव हि दर्पणादय पौद्गलिकैर्भस्मपापाणादिभि क्रियमाणाऽनुग्रहोपधाताश्रय
भूता नाहङ्कारिका किन्तु पौद्गलिकाः तथा अञ्जनादिभि पौद्गलिकै क्रियमाणानुग्रहोपघाताश्र
यभूतानि चक्षुरादीन्द्रियाण्यपि । मनोऽपि नाहङ्कारिकम्, अनियतविषयत्वाद् आत्मवदिति ।
ततः प्रतिनियतेन्द्रिययोग्यपुद्गलारब्धत्वं द्रव्येन्द्रियाणां प्रतिपत्तव्यम् इति सिद्धं पुद्गलात्मकत्वं
तेषामित्य1338लमतिप्रसङ्गेन ।


अतीन्द्रियशक्तिसद्भावे प्रमाणाऽभावात्
इति वदतो नैयायिकस्य पूर्वपक्ष–


भावेन्द्रियमिदानी व्याचष्टे–1339ब्ध्युपयोगौ भावेन्द्रियम्, अर्थग्रह1340णशक्तिः लब्धिः ।
ननु च अतीन्द्रियशक्तिसद्भावे प्रमाणाभावात् कथं लब्धिरूपं भावेन्द्रियं व्य1341वतिष्ठेत ?
तथाहि–अन्त्यतन्तुसंयोगानन्तरमुपजायमानः पटः अङ्गुल्यग्निसं
योगानन्तरञ्च दाहो नाधिककारणापेक्षः, तस्य तावन्मात्रान्वयव्य
तिरेकानुविधायित्वेन अन्यहेतुकत्वाऽनुपपत्ते । न च अतीन्द्रिय
शक्तिमन्तरेण पिपासापनोदो जलात् नानलात् शीतापनोदोऽ
नलात् न पुनर्जलात्
इति नियमाऽनुपपत्ते, तदुपपत्तये साऽभ्युपगन्तव्या इत्यभिधातव्यम्;
स्वरूप1342-सहकारिशक्तिप्रसादादेव तन्नियमोषपत्ते । द्विविधा हि शक्ति स्वरूप-सहकारिशक्ति
159 भेदात् । तत्र स्वरूपशक्तिः तन्त्वादीनां तन्तुत्वादिरूपा, चरमसहकारिरूपा तु सहकारिशक्तिः;
न हि सन्तोऽपि तन्तवः अन्त्यतन्तुसंयोगं विना पटमारभन्ते । तथा च, अनलत्वाऽभिसम्बन्धाद्
अनल एव शीतापनोदं विदधाति न जलं तदभावात्, जलत्वाऽभिसम्बन्धाच्च जलमेव पिपासा
मपनुदति नत्वनलः, तयोः प्रतिनियतसामान्याश्रयत्वेन अन्योन्यकार्योत्पादं प्रति अनङ्ग
त्वात् । प्रयोगः–दहनादयो निजसहकारिसन्निधिलक्षणमेव सामर्थ्यमुद्वहन्ति असति प्रतिबन्ध
के कार्योत्पादकत्वात्, यद् असति प्रतिबन्धके कार्यमुत्पादयति तन्निजसहकारिसन्निधिलक्षणमेव
सामर्थ्यं विभर्ति, यथा कर्म विभागेन 1343निवृत्ते पूर्वसंयोगे उत्तरसंयोगोत्पा1344दिकां निजसहकारि
सन्निधिलक्षणामेव शक्तिम्, तथा च दहनादयः, तस्मात्तेऽपि तथा इति । न 1345चैवं प्रतिबन्धक
मण्यादिसन्निधानेऽप्यग्नेः स्फोटादिकार्यकारित्वप्रसङ्गः निजसहकारिसन्निधिलक्षणायाः शक्तेः
सद्भावात् इत्यभिधातव्यम्; तदुत्पत्तौ करतलाऽनलसंयोगवत् प्रतिबन्धकमण्याद्यभावस्यापि
सहकारित्वात् । न चाऽभावस्य अवस्तुत्वात् कारणत्वाऽभावः; यतो दर्शनं नः प्रमाणम्;
दृश्यते च नास्ति इति ज्ञाने प्रमाण-प्रमेयाऽभावस्य कारणत्वम्, प्रत्यवाये नित्याऽकरणस्य,
पतनकर्मणि संयोगाऽभावस्य च ।


किञ्च1346, असौ शक्तिः नित्या, अनित्या वा ? यदि नित्या; तदा सर्वदा कार्योत्पादप्रसङ्गः
160 तस्याः1347 सदा सत्त्वात् । ननु तन्नित्यत्वेऽपि सहकारिणां कादाचित्कत्वात् कार्ये कादाचित्कत्वं
युक्तं तदपेक्षया तस्याः कार्यकारित्वप्रतिज्ञानात; इत्यप्ययुक्तम्; शक्तिकल्पनावैयर्थ्याऽनुषङ्गात्,
स्वरूपस्यैव सहकारिकारणापेक्षस्य कार्योत्पादकत्वोपपत्तेः । अनित्यत्वे तु पदार्थस्वरूपमात्र
सम्पाद्या1348ऽसौ, निजाऽऽगन्तुकलक्षणसामर्थ्योत्पा1349द्या, अतीन्द्रियशक्त्यन्तरनिष्पाद्या1350 वा ?
प्रथमपक्षे पदार्थस्वरूपस्य शाश्वतिकत्वेन शश्वच्छक्तेरुत्पादप्रसङ्गात् स एव सदा सातत्येन कार्यो
त्पादप्रसङ्गः । निजागन्तुकसामर्थ्यसम्पाद्यत्वे तु शक्तेः कार्यमेव तत्सम्पाद्यमस्तु, अलमप्राती
तिकाऽतीन्द्रियशक्तिकल्पनया । अतीन्द्रियशक्त्यन्तरनिप्पाद्यत्वेऽपि अनवस्था, तस्याऽपि कादा
चित्कतया तदन्तरनिष्पाद्यत्वप्रसङ्गात् ।


तथा प्रतिकार्यम् एका शक्तिः, अनेका वा ? न तावदेका; तद्भेदात् कार्यभेदाश्रयणात् ।
अथ1351 अनेका, किमसौ शक्तिमतो भिन्ना, अभिन्ना वा ? भेदे अपसिद्धान्तप्रसङ्गः । अभेदे तु
कि शक्तिभ्यः तद्वानभिन्न, तद्वतो वा शक्तयः ? प्रथमविकल्पे शक्तिस्वरूपवत् शक्तिमतोऽ
प्यनेकत्वमतीन्द्रियत्वञ्च स्यात् । तत्तादात्म्ये तस्यापि तावद्धा भेदात् अतीन्द्रियस्वरूपस्वीकाराच्च,
अन्यथा तत्तादात्म्याऽनुपपत्तिः । द्वितीयविकल्पे तु शक्तिमत्स्वरूपवत् शक्तीनामप्येकत्वानुषङ्गः,
एकस्मादभिन्नानां तत्स्वरूपवद् अनेकत्वाऽनुपपत्तेः कुत कार्यनानात्वसंभव इति ?


शक्तिमस्वीकुर्वतो नैयायिकस्य निराकरणम्–


अत्र प्रतिविधीयते । यत्तावदुक्तम्1352अन्त्यतन्तुसंयोगानन्तरम् इत्यादि; तदसमीक्षि
ताऽभिधानम्, अतीन्द्रियशक्तिमन्तरेण प्रतिनियतकार्यकारणभावाऽनुप
पत्तेः । प्र1353तिनियतं हि कारणं कार्यञ्चोपलभ्यते पट तन्तु1354भ्यो न वीरणादेः
दाह कृशानो न जलादे, सेयं व्यवस्था परिदृश्यमानपदार्थस्वरूपाद
नुपपद्यमाना तदतिरिक्तं तद्गतमेव धर्मान्तरत्व रं स्व सिद्ध्यर्थमाक्षिपति । ननु चेयं
व्यवस्था तद्व्यतिरेकेणा1355पि अन्वय-व्यतिरेकाभ्यां पटं प्रति तन्तूनामेव उत्पादनसामर्थ्याऽध्यव
सायात् सिद्ध्यति इत्यभिदधतोऽपि स्वरूपातिरेकिणी शक्तिरेव शरणम्, तदनभ्युपगमे द्रव्यस्व
रूपाऽविशेषात् सर्वस्मात् सर्वसंभवो दुर्निवार । 1356स्वभावभेदान्न सर्वस्मात् सर्वसंभवश्चेत् तर्हि
1357स्वो भाव कार्यनियमहेतुर्विशिष्टं स्वरूपम् इत्यङ्गीकृता सकलार्थाश्रिता भेदवती विचित्रा शक्तिः ।


यदप्युक्तम्1358स्वरूप-सहकारिशक्तिप्रसादादेव इत्यादि, तदप्युक्तिमात्रम्, 1359स्वाश्रयजन्य
कार्यनिरपेक्षतया सामान्यस्य स्थितत्वात्, 1360स्वानाश्रयभूतकारणान्तरजन्यकार्य प्रति साधार
णत्वेन 1361कार्यकारणभावप्रतिनियमव्यवस्थापकत्वाऽसंभवाच्च । अग्नित्वं हि स्फोटवद् विजातीय
161 कारणजन्यकार्येष्वपि तुल्यरूपम् । न हि स्फोटं प्रत्येव अग्नेरग्नित्वम् यथा पुत्रापेक्षं पितुः
पितृत्वम्, भृत्यापेक्षं वा स्वामिनः स्वामित्वम्, अपि तु सर्वं प्रत्येव अग्निः अग्निरेव । न हि
कार्यान्तराणि प्रति अग्निः अनग्निर्भवति, अतो दाहवत् पिपासाद्यपनोदमपि विदध्यात् । ननु
असाधारणं स्वरूपं व्यवस्थानिमित्तम्, तथाभूतञ्चेदम् अग्नित्वमग्नेः अनग्निभ्यो व्यावृत्ति
निमित्तत्वात्, दाहत्वमपि अदाहाद् दाहस्य व्यावृत्तिहेतुत्वात्, अतः कार्यकारणभावप्रतिनि
यमस्य दृष्टेनैव उपपत्तेर्नाऽदृष्टकल्प1362ना उपपन्ना; तदयुक्तम्; अनग्निव्यावर्तकतया तु1363ल्यस्वरूप
त्वाऽभावेपि अग्नित्वस्य प्रतिनियतकार्योत्पादकत्वव्यवस्थापकत्वाऽनुपपत्तेः तस्या1364पि सर्वकार्याणि
प्रति साधारणत्वात्, न हि कार्यान्तरेष्वपि अग्नित्वस्याग्नेः अनग्निभ्यो व्यावर्तकत्वं नास्ति
येनाऽस्य1365 तज्ज1366नकत्वं न स्यात्, जलादिकारणापेक्षया हि अग्नित्वस्याऽसाधारणस्वरूपता न
जलादिकार्यापेक्षयेति । एवं जलस्यापि शैत्यादिजनक1367त्वे प्रतिनियमो न घटते; तन्नि1368यमनिमि
त्तस्य1369 च जलत्वस्य दाहादावपि साधारणत्वात्, अतो जलमपि दहेद् अनलोऽपि पिपासामप
नुदेदविशेषात् ।


अथ दाहस्याऽग्निजन्यत्वे दाहत्वजातेर्व्यवस्थानिमित्तत्वात् क्षित्यादीनामदाहरूपतया अ
ग्निजन्यत्वाऽप्राप्तिः, शैत्यादीनाञ्च जलादिजन्यत्वे त1370ज्जातेः प्रयोजकत्वात् तद्रहितत्वेन दाहस्य
कथमिव जलादिजन्यत्वप्रसङ्ग ? तदसमीचीनम्; दाहत्वजाते शैत्याद्यपेक्षया 1371अतुल्यत्वेऽपि
जलादिकारणान्तरापेक्षया तुल्यत्वान्न प्रतिनियतकार्य-कारणभावव्यवस्थाहेतुत्वम् । ननु यत् सा
मान्यं यत्र समवेतं तदेव तत्र कार्यकारणभावव्यवस्थाहेतुः, न चाऽग्नित्वं जलादौ समवेतं
नापि दाहत्वं शीतादौ, इत्यप्यसुन्दरम्; एवमप्यग्नित्वादेः कारणत्वादिव्यवस्थापकत्वाऽयोगात्,
1372यद्धि अकारणादेर्व्यावृत्तं कारणादावनुवृत्तं तद् असाधारणत्वात् कारणत्वं व्यवस्थापयति,
अग्नित्वादिकं1373 च अकारणेभ्यो न व्यावृत्तं भूतभाविषु अग्निविशेषेष्ववि ष्वपि वि द्यमानत्वेन
अकारणेष्वपि गतत्वात् । न च असत्त्वेन भूत-भविष्यतोर्वह्निविशेषयोः वह्नित्वाश्रयत्वानुपपत्तिः;
वह्नित्वावच्छेदेन आसीद्1374 वह्निः, भविष्यति वह्निः इति प्र1375त्ययद्वयाऽनुत्पत्तिप्रसङ्गात् । अस्तु वा
1376सत्त्वविशेषितविशेषाश्रयत्वम्; तथापि न वह्नित्वस्य विपक्षाद् व्यावृत्तिः विवक्षितवह्निविशेषज
न्यधूमं प्रति वह्निविशेषान्तरस्याऽकारणत्वात्, तज्जन्यञ्च प्रति अन्यस्याऽकारणत्वात्, अतः
अकारणेऽपि1377 विपक्षे वह्नित्वस्योपलम्भान्न स्वाश्रयकारणत्वप्रयोजकत्वम् ।


किञ्च, अनग्निरूपाऽर्थेभ्यो व्यावर्तमानमग्नित्वम् अग्निजन्यकार्यं प्रति 1378अनग्निरूपार्थानां
कारणत्वमपाकरोतु, निखिलाऽग्निव्यक्तीनाम् अन्योन्यकार्यजननं प्रति कारणत्वसङ्करप्रसङ्गं
162 1379थं परिहर्त्तुमुत्सहते, अतस्तत्परिहारे किञ्चिन्नियामकं वक्तव्यम्–तच्च सामान्यम्, विशेषः, द्वयम्,
शक्तिर्वा स्यात् ? न तावत्सामान्यम्, व्य1380क्त्यन्तरेऽप्यनंप्यनुगमात् । नापि विशेषः;
यतो न विशेषान्तरजन्यकार्यं प्रति विशेषो विशेषरूप1381तां परित्यजति । नापि द्वयम्; अत एव,
अत शक्तेरेव तन्नियामकत्वमङ्गीकर्त्तव्यम् । स्वरूप-सहकारिशक्तेस्तन्नियामकत्वे च लोकप्रतीति
विरोध, प्रतीयते हि1382 लोके स्वरूप-सहकारिशक्तियुक्तष्वपि1383 वलीवर्द-मनुष्यादिषु अयमत्र
कार्ये समर्थ, अयञ्चाऽसमर्थ अल्पसामर्थ्योवा
इत्यादिव्यवहार प्रतीतिश्च । तत्सिद्धं तन्नि
मित्तं स्वरूप-सहकारिशक्तिव्यतिरिक्तं सामर्थ्यम्, अन्यथा अयं विभागो न स्यात्, सर्वेषां
समानमेव कार्यकारित्व तदकारित्वं वा स्यात् ।


किञ्च, सहकारिलाभमात्रात् पदार्थाः कार्य कुर्वन्ति, स्वभावभेदे सति सहकारिलाभाद्वा ?
प्रथमपक्षे तल्लाभे सत्यपि स्वरूपस्याऽविशिष्टत्वात् मृत्पिण्डाद् घटस्येव पटस्याप्युत्पत्ति स्या
त्, स्वभावभेदश्च शक्तिभेदे सत्येव स्यात् इत्युक्तम् । किञ्च, अग्ने स्वरूपसहकारिसन्निधि
मात्रात् कार्यकारित्वाऽभ्युपगमे प्रतिबन्धकमण्यादिसन्निधानेऽपि तत्प्रसङ्ग, न हि तदाऽग्नित्व
स्य करतलाऽनलसंयोगस्य वा सहकारिणो विनाशोऽन्यत्वं वा1384ऽस्ति, तत्स्वरूपरयाऽविकलस्य
प्रत्यभिज्ञायमानत्वात् । ततो दृष्टरूपात् कारणादनुद्भवत् कार्य तदतिरिक्तं किञ्चिन्निमित्तान्तर
परिकल्पयति, सा च शक्ति ।


ननु तन्मण्यादिसन्निधौ सामग्र्यभावाद् वह्ने कार्याऽकरणत्वादकारणत्वम्, करतलाऽनल
संयोगवद् दाहोत्पत्तौ तन्मण्याद्यभावस्यापि सामग्रीत्वात्, तदसत्, यत 1385कोऽत्र अभाव
सहकारी–कि प्रतिबन्धकमण्यादे प्रागभाव, प्रध्वस, अन्योन्याभाव, अत्यन्ताऽभाव, अभा
वमात्र वा ? यदि प्रागभाव, तदा विद्यमानेऽप्येकस्मिन्मणौ मण्यन्तरप्रागभावाऽपेक्षया दाहो
त्पत्ति स्यात् । अथ तस्यैव प्रागभावं प्राप्य असौ दाहं विधत्ते, तर्हि त1386त्प्रध्वंसे, सत्यपि वा
अस्मिन् उत्तम्भकमणिसन्निधौ दाहोत्पत्तिर्न स्यात् । एतेन प्रध्वंसस्य सहकारित्वं प्रत्युक्तम्, त
त्प्रागभावे, तत्सत्त्वेऽपि वा उत्तम्भकमण्युपनिपाते दाहाऽनुत्पत्तिप्रसङ्गात् । ना1387प्यन्योन्याभाव,
प्रतिबन्धकमण्यादिसद्भावेप्यस्य 1388संभवात् दाहोदयानुषङ्गात्, 1389तत्प्राक्-प्रध्वसाभावसंभवे तद
नुदयप्रसङ्गाच्च । अत्यन्ताऽभावस्य च प्रतिबन्धकमण्यादावसंभवादेव सहकारित्वं प्रत्याख्यातम् ।
नाप्यभावमात्रं सहकारि, अभावचतुष्टयव्यतिरिक्तस्य अभावमात्रस्यैवाऽसभवात् । तत
163 प्रतिबन्धकमण्याद्यभावो न दाहादौ कारणम् अन्वय-व्यतिरेकशून्यत्वात्, यद् यत्रान्वय-व्यति
रेकशून्यं न तत्तत्र कारणम् यथा पटे कुम्भकारः, तथा चायम्, तस्मात्तथेति । अन्यथासिद्धा
न्वयव्यतिरेकत्वाद्वा षैङ्गल्यादिवत् ।


किञ्च, यदि तन्मन्त्राद्यभावो दाहहेतुः तदैकत1390न्मन्त्रादिव्यक्तिसद्भावेऽपि अन्यतन्मन्त्रादि
व्यक्तीनां भूतभविष्यद्वर्तमानानां तद्देशे तत्काले च अभावाः सन्तीति दाहोत्पत्तिः किन्न
स्यात् ? न च एकव्यक्त्यभावो नास्ति इति व्यक्त्यन्तराभावैः स्वकार्यं न कर्त्तव्यम्, न हि
भावव्यक्त्यन्तराणि न सन्ति इति एका भावव्यक्तिः स्वकार्यन्न करोति इति प्रातीतिकम् ।
न च अनन्तानां सम्भूय कार्यकारित्वं क्वापि प्रतिपन्नम् । न चैक एवायमभावः तन्मन्त्रादि
जातेरेकत्वात् इत्यभिधातव्यम्; जातेः अभावेषु भवताऽनभ्युपगमात्, अन्यथा अभावानां
द्रव्य-गुण-कर्मान्यतमरूपताप्रसङ्गो जातेस्तत्रैव परिसमाप्तत्वात् ।


किञ्च, मण्यादिमात्राऽभावो दाहहेतुः, प्रतिबन्धकाऽभावो वा ? तत्राद्यपक्षोऽयुक्तः;
मण्यादिमात्राऽभावे दा1391हाऽदर्शनात् । न च विशिष्टमण्याद्यभावः कारणम्, तद्वैशिष्ट्यस्य कार्यै
कसमधिगम्यस्य नामान्तरेण शक्तेरेवाऽभिधानात् । द्वितीयपक्षोऽप्यनुपपन्नः; प्रतिबन्धकस्तम्भित
विषभक्षणे पश्चात् प्रतिबन्धकनिवृत्तौ मरणप्रसङ्गात् । अत्र हि प्रतिबन्धकेन रसाभावः क्रियते;
अतिशयान्तरं वा ? न तावद्रसाभा