प्रथमाध्यायः

प्रथमाध्याये प्रथमाह्निकम्


विश्वव्यापी विश्वशक्तिः पिनाकी

विश्वेशानो विश्वकृद् विश्वमूर्तिः ।

विश्वज्ञाता विश्वसंहारकारी

विश्वाराध्यो राधयत्वीहितं नः ॥

नमामि धर्मविज्ञानवैराग्यैश्वर्यशालिने ।

निधये वाग्विशुद्धीनामक्षपादाय तायिने ॥

ग्रन्थव्याख्याच्छलेनैव निरस्ताखिलदूषणा ।

न्यायवार्त्तिकतात्पर्यटीकास्माभिर्विधास्यते ॥

इच्छामि किमपि पुण्यं दुस्तरकुनिबन्धपङ्कमग्नानाम् ।

उद्द्योतकरगवीनामतिजरतीनां समुद्धरणात् ॥

अभिधेयप्रयोजनसम्बन्धप्रकरणम्


प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवाद
जल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानांतत्त्वज्ञानान्निःश्रेय
साधिगमः ॥ १ । १ । १ ॥


अथ भगवताऽक्षपादेन निःश्रेयसहेतौ शास्त्रे 1प्रणीते, व्युत्पादिते च भगवता
2 पक्षिलस्वामिना, किमपरमवशिष्यते यदर्थं वार्त्तिकारम्भ इति शङ्कां निराचिकीर्षुः
2सूत्रकारोक्तशास्त्रप्रयोजनानुवादपूर्वकं वार्त्तिकारम्भप्रयोजनं दर्शयति—यदक्षपाद
इति ॥


यद्यपि भाष्यकृता कृतव्युत्पादनमेतत्, तथापि दिग्नागप्रभृतिभिरर्वाचीनैः
कुहेतुसन्तमससमुत्थापनेनाच्छादितं शास्त्रं न तत्त्वनिर्णयाय पर्याप्तमित्युद्द्योतकरेण
3स्वनिबन्धोद्द्योतेन तदपनीयत इति प्रयोजनवानारम्भ इति । सूत्रोक्तप्रयोजनानुवादश्च
प्रयोजनवच्छास्त्रव्युत्पादनेन स्वनिबन्धस्य प्रयोजनवत्तां प्रेक्षावत्प्रवृत्त्यङ्गं दर्शयि
तुम्, व्युत्पादनमात्रस्य च काकदन्तपरीक्षाग्रन्थसाधारण्येन प्रेक्षावत्प्रवृत्त्यनङ्गत्वात् ।
अत्र चैकविंशतिप्रभेदभिन्नस्य दुःखस्यात्यन्तिकी निवृत्तिः शमः, तस्मै । कस्य ?
जगतः । परमकारुणिको हि भगवान् मुनिः4 जगदेव दुःखपङ्कमग्नमुद्दिधीर्षुः शास्त्रं
प्रणीतवान् । तत्र यदि कश्चिन्न प्रवर्तेत, किमायातं शास्त्रस्य ? न चानधिकृतपुरुष
व्युत्पादनेनास्य तपोनिधेः कश्चिदस्ति दोषः । तथा च विश्वामित्रस्त्रिशङ्कुं याज
यामास, वशिष्ठश्चाधमयोनिजामक्षमालामुपयेमे । तपःप्रभाव एव हि तादृशस्तेषां यत
एवंविधाः पाप्मानो विलीयन्त इति । न चास्मदादीनां मन्दतपसामयं प्रसङ्गः । न हि
गजानामुदर्यं तेजो वटकाष्ठमशितं पचतीत्यस्मदादीनामप्युदर्येण तेजसा तथा
भवितव्यम् । कुतार्किकैर्दिग्नागप्रभृतिभिराहितमज्ञानं कुतार्किकाज्ञानमिति ।


अविगीतशिष्टाचारपरम्पराप्राप्तः परमशिष्टेन वार्त्तिककारेण कृतोऽपीष्ट
देवतानमस्कारो न शास्त्रे5 निवेशितः । न खल्वन्यदपि मङ्गल्यं शास्त्रे निवेशितम्,
प्रसिद्धतरतया तु मङ्गल्यान्तरवच्छिष्या अवगमिष्यन्तीति सर्वमवदातम् ।


तत्र संक्षेपतः प्रथमसूत्रमनूद्य तस्य तात्पर्यमाह—प्रमाणादिपदार्थतत्त्वज्ञाना
न्निःश्रेयसाधिगम इत्येतच्छास्त्रस्यादिसूत्रम् । तस्य
शास्त्रस्य अभिसंबन्ध
वाक्यम् ।
आदिग्रहणेन क्रमप्राप्तस्यैव प्रथमं व्याख्यानं युक्तम्, न द्वितीयादेरिति
दर्शितम् । अभिमतः संबन्धोऽभिसंबन्धः, शास्त्रनिःश्रेयसयोर्हेतुहेतुमद्भावः । तस्य
3 इदं 6सूत्रवाक्यमभिसंबन्धवाक्यम् । प्रमाणादिपदार्थतत्त्वज्ञानादित्यत्र हि 7ज्ञायतेऽ
नेनेति ज्ञानमिति व्युत्पत्त्या तत्त्वज्ञानं शास्त्रमुच्यते । पञ्चम्या च तस्य हेतुत्वम् । न हि
विषघ्नमन्त्रवत् 8स्वरूपमात्रेण तदविवक्षितार्थं निःश्रेयसहेतुरिति पदार्थतत्त्वा
वगमकरणतया शास्त्रमपदिशति9, न तु स्वरूपेण, तेन शास्त्रस्य निःश्रेयसे कर्तव्ये
प्रमाणादितत्त्वावगमोऽवान्तरव्यापार इत्युक्तं भवति । तथा च प्रमाणादिपदार्थतत्त्वं
प्रतिपाद्यम्, प्रतिपादकं च शास्त्रमिति शास्त्रप्रमाणादिपदार्थतत्त्वयोर्ज्ञाप्यज्ञापक
भावश्च10 प्रमाणादिपदार्थतत्त्वज्ञाननिःश्रेयसयोः कार्यकारणभावलक्षणश्च संबन्धः
सूचितो भवति । तदिदमभिधेयसंबन्धप्रयोजनप्रतिपादनार्थत्वं प्रथमसूत्रस्य ।
11पत्पदार्थतत्त्वज्ञानस्य च यथा निःश्रेयसाधिगमं प्रत्युपयोगस्तथाग्रे निवेदयिष्यते ।
विनिश्चिताप्तभावाश्च मुनेराप्तत्वेन तद्वाक्यात् प्रयोजनादि विनिश्चित्य प्रर्क्त्स्यन्ति,
आप्तत्वाविनिश्चये त्वर्थसंशयात्12 । न खलु कृष्यादावपि विनिश्चितसस्याद्यधिगमानां
प्रवृत्तिः, अन्तरावग्रहादिप्रतिबन्धेन फलानुत्पादस्यापि संभवात् । न च प्रयोजना
दिवाक्याभावेऽपि13 संशयस्य साधकबाधकप्रमाणाभावेन न्यायप्राप्तत्वेन तदभिधान
मनर्थकमिति साम्प्रतम्, विशेषस्मृत्यनपेक्षस्य संशयस्यानुत्पादात् । वाक्यात् तु
विशेषस्मृतिरिति नानर्थक्यम्14


तदेवं प्रथमसूत्रतात्पर्यमुक्त्वा भाष्यस्यादिवाक्यतात्पर्यमाह—प्रमाणतोऽ
र्थप्रतिपत्तावित्येवमादि15 । तस्यानुसन्धानवाक्यम् ।
तस्य शास्त्रस्य निःश्रेय
साधिगमेन सह सूत्रेण घटितस्य । कुतश्चिन्निमित्ताद् विघटनशङ्कायाम् अनु सूत्र
घटनायाः पश्चात् सन्धानं घटनं अनुसन्धानम्, तस्य वाक्यमनुसन्धानवाक्यमिति ।


एवं किलात्र शङ्क्यते—यदशक्यानुष्ठानोपायोपदेशकं तदनर्थकम्, यथा
ज्वरहरतक्षकचूडारत्नालङ्कारोपदेशकं वचनम्16 । तादृशं चेदं शास्त्रमिति । तथा हि
4 प्रमेयादीनां तावत्पदार्थानां तत्त्वज्ञानं प्रमाणतत्त्वज्ञानाधीनम् । न हि प्रमाणं तत्त्वे
नानवधारितं बोधकत्वमात्रेण स्वगोचरावधारणायालं तावन्मात्रस्य तदाभास
साधारण्यात्, अपि तु बोधकत्वैकार्थसमवेतेनाव्यभिचारित्वेन । तदेव हि प्रामा
ण्यम् । तच्चाशक्यावधारणम् । तदनवधारणाच्च प्रमेयादयो दुरवधारणाः । तथा हि
विज्ञानस्य तावत्प्रामाण्यं स्वतो वा निश्चीयते परतो वा ? न तावत् पूर्वः कल्पः । न
खलु विज्ञानमनात्मसंवेदनमात्मानमपि गृह्णीयात्, प्रागेव तत्प्रामाण्यम् । नापि
विज्ञानान्तरम्, तद्विज्ञानमित्येव गृह्णीयात् । न पुनरस्याव्यभिचारित्वम् । ज्ञानत्वमात्रं च
तदाभाससाधारणमिति न स्वतः प्रामाण्यावधारणम् । एतेन स्वसंवेदननयेऽपि
अव्यभिचारग्रहणं प्रत्युक्तम् । नापि परतः । परं हि तद्गोचरं वा ज्ञानमभ्युपेयेत,
अर्थक्रियानिर्भासं वा ज्ञानम्, तद्गोचरनान्तरीयकार्थान्तरदर्शनं वा । तच्च सर्वं
स्वतोऽनवधारितप्रामाण्यमाकुलं सत् कथं पूर्वं प्रवर्तकं ज्ञानमनाकुलयेत् ? स्वतो
वास्य प्रामाण्ये किमपराद्धं प्रवतर्कज्ञानेन, येन तस्मिन्नपि तन्न स्यात् । न च प्रामाण्यं
ज्ञायते स्वतः इत्यावेदितम् । यदा च संवेदनप्रामाण्यमुक्तेन क्रमेण दुरधिगमं
तदा कैव कथेन्द्रियादीनामव्यभिचारिसंवेदनकार्यव्यङ्ग्यप्रमाणभावानाम् ? तदेवं
दृष्टार्थाः प्राणभृतां व्यवहारा भवन्तु सन्देहादपि यथा तथा, अदृष्टार्थास्तु
बहुवित्तव्ययायाससाध्या वैदिका व्यवहारा दत्तजलाञ्जलयः प्रसक्ताः । तस्मात्
प्रमाणादिपदार्थतत्त्वज्ञापनद्वारेण17 न शास्त्रं निःश्रेयसेन संबध्यत इति । सेयमाशङ्का
प्रामाण्यज्ञानोपायकथनेनादिवाक्येन भाष्यकृता निराकृता । तथा हि प्रमाणमर्थव
-दिति नित्ययोगे मतुप् । नित्यता चाव्यभिचारिता । तेनार्थाव्यभिचारीत्यर्थः । इयमेव
18चास्याव्यभिचारिता प्रमाणस्य 19यद्देशकालनरावस्थान्तराविसंवादोऽर्थस्वरूप
प्रकारयोस्तदुपदर्शितयोः । अत्र हेतुः प्रवृत्तिसामर्थ्यात् सफलप्रवृत्तिजनकत्वात् ।
यदि पुनरेतदर्थवन्नाभविष्यत्, न समर्थप्रवृत्तिमकरिष्यत्, यथा प्रमाणाभास इति
व्यतिरेकी हेतुः । अन्वयव्यतिरेकी वा । अनुमानस्य स्वतः प्रमाणतया अन्वयस्यापि
5 संभवात् । प्रवृत्तिजनकत्वं तु प्रमाणस्य न साक्षात्, किं त्वर्थप्रतिपत्तिजनन
द्वारेणेत्याह—प्रमाणतोऽर्थप्रतिपत्ताविति । सर्वस्य चास्योपपत्तिं वार्त्तिक
व्याख्यानावसरे निवेदयिष्यामः ।


स्यादेतत् । भवन्तु प्रमाणादयः पदार्थाः शक्यज्ञानाः शास्त्रेण तु ते नाभिधीयन्त
इति न निःश्रेयसेन संगतिः शास्त्रस्येत्यत आह—शास्त्रस्य पुरुषश्रेयोऽभि
धायकत्वात् ।
यद्यपि श्रेयो दुःखनिवृत्तिमात्यन्तिकीं वक्ष्यति, तथापि सोपायैव सा
अत्र श्रेयःशब्देन विवक्षिता, तन्मात्रस्य शास्त्राविषयत्वात् । तदयमर्थः । शास्त्रं
तावदेतत् पुरुषश्रेयः सहोपायेनाभिधत्त20 इत्यनुभवसिद्धं 21सदशक्यानुष्ठानतयापव
दितव्यम् । सा चेदशक्यानुष्ठानोपायोपदेशतापनीता22 प्रमाणत इत्यादिना । संहितं
निःश्रेयसेन सह शास्त्रमिति । शास्त्रस्येत्यादि ग्रहणकवाक्यं विवृणोति—शास्त्रं
पुन
रित्यादिना उपभोगात् प्रक्षयेणेत्यन्तेन । प्रमाणादिवाचकपदग्रहणेन तल्लक्षणानि
च तत्परीक्षाश्चोपलक्षयति । तथा च पञ्चाध्यायी शास्त्रमित्युक्तमित्यविरोधः ।
पञ्चाध्यायीत्यनेन व्यूहः समूहिनामुचितानुपूर्वी । उपलक्षकपदस्वरूपमाह—पदं
पुनरिति ।
एकस्मृतिसमारूढा वर्णा एकार्थप्रतिपादनावच्छिन्नाः समूहः । एवं
स्वार्थस्मृत्यवान्तरव्यापाराणां सूत्रपदानां नानापदार्थविशिष्टैकपदार्थरूपवाक्यार्थ
प्रत्यायनकार्यावच्छिन्नानां23 समूहो वेदितव्यः । एवं च क्वचित् केनचिदर्थेनैकेन
सूत्रवाक्यानामेकवाक्यत्वं समूहः प्रकरणम् । प्रकरणानामपि कयाचित् स्वार्थसंगत्या
समूह आह्निकम् । एवं तत्र तत्र वेदितव्यम् । एताश्च प्रकरणाह्निकाध्यायार्थसंगतीस्तत्र
तत्र लेशतो दर्शयिष्यामः ।


तदेवं शास्त्रस्वरूपं दर्शयित्वा नान्तरेण तदर्थकथनं पुरुषश्रेयोऽभिधायकत्व
मस्य सिध्यतीति तदर्थं कथयति—तत्पदार्था इति । ननु प्रमाणादीनां प्रतिनरमान
न्त्येन दुर्ज्ञानत्वमिति तदवस्थमेवानर्थक्यं शास्त्रस्य प्रसक्तमित्यत आह—
6 षोडशात्मानः । आत्मा स्वभावः प्रमाणादीनां प्रमाणत्वादिसामान्यविशेष इति
यावत् । एतदुक्तं भवति । आन्तर्गणिकभेदादानन्त्येऽपि स्वसामान्यविशेषैः संगृहीता
न दुर्ज्ञाना इति यतोऽस्य पदार्थाः प्रमाणादयः, तत्तस्मात् शास्त्रं पुरुषश्रेयोऽभिधत्ते ।


स्यादेतत् । प्रमाणादयः पदार्थाः प्रमाणिका अप्रामाणिका वा ? अप्रमाणिकत्वे
कल्पनामात्रनिर्मिताः कथं निःश्रेयसाय कल्पन्ते ? न च षोडशात्मानः कल्पनाः
कोशस्यानन्तप्रसरत्वात्24 । प्रामाणिकत्वे वा प्रमाणादेव तत्सिद्धेः शास्त्रस्य वैयर्थ्य
मित्यत आह—प्रत्यक्षेति । प्रत्यक्षानुमानाधिगतग्रहणेनाप्रामाणिकत्वं निषिद्धम् ।
अत+एव वस्तुतत्त्वमिति । प्रमाणादयः पदार्था नोपमानविषया इति नोपमानमुपन्य
स्तम् । यद्यपि प्रमेयमात्माद्यपवर्गान्तलक्षणमागमिकं तथाप्यागमस्याप्तप्रणेतृकतया
तत्रापि मूलभूतमनुमानं प्रत्यक्षं वास्तीति प्रत्यक्षानुमाने एव दर्शिते । ननूक्तं प्रामाणि
कत्वे शास्त्रवैयर्थ्यमित्यत आह—तस्य विषय इति । व्यवहरमाणा अपि25 प्रमाणै
र्लौकिका वैनयिकबुद्धिविरहिणो नैतान् पदार्थान् विविञ्चते । अविविक्ताश्चैते न
निःश्रेयसाय कल्पन्त इति अनधिगतेत्युक्तम् । आध्यात्मिकी शक्तिः शुश्रुषादिः ।
पुरुषेत्युक्तम् । तत्र विवक्षितं पुरुषविशेषं ग्रहीतुं संभविनः पुरुषप्रकारान्26 दर्शयति—
पुरुषः पुनरिति । हेयं दर्शयति—तत्रेति । उपादेयानाह—इतर इति । अपेक्षा
जिज्ञासा । सा सन्दिग्धस्य तावदस्ति शिष्यस्य । विप्रतिपन्नस्य तु साक्षिणां पुरतो
जल्पवितण्डाभ्यां शिष्यमाणस्य विगलितेऽहङ्कारे सन्दिग्धस्य सञ्जातजिज्ञासस्य
सापेक्षस्य सतः । अप्रतिपन्नस्यापि केनचित् प्रकारेण सन्देहमापाद्य सापेक्षीकृतस्य
प्रतिपाद्यता । तदिदमुक्तम्—इतरे सापेक्षाः सन्तः प्रतिपाद्या इति । असन्दिग्धोऽपि
तत्त्वप्रतिपादनाय कारुणिकेन सन्दिग्धः कृत्वा प्रतिपाद्यत इति । तत् किं सापेक्षमधि
कृत्य शास्त्रं प्रवृत्तम् ? तथा च प्रमातॄणां न प्रमाणान्तरे प्रवृत्तिः स्यादित्यत आह—ते
यदेति ।
कञ्चिद् विषयं जिज्ञासवो यदेन्द्रियाद्यपेक्षन्ते, तदा प्रत्यक्षेण प्रतिपाद्याः ।
एवमुत्तरमपि योज्यम् । अयमभिसन्धिः, न दृष्टप्रयोजनोपयोगिवस्तुजिज्ञासा इहा
7 पेक्षाभिमता । किं तु निःश्रेयसोपयोगिपदार्थजिज्ञासा । सा चास्मिन्नेव शास्त्रे प्रवृत्ति
हेतुः, नान्यत्र । तदिदमुक्तम्—यदा पुनरिति । परमपुरुषार्थसाधनं तु जिज्ञासव इति
शेषः । इहाभिमतं श्रेयो निर्धारयितुं श्रेयोमात्रप्रकारानाह—श्रेयः पुनः सुखमहित
निवृत्तिश्च ।
तत्राप्यवान्तरप्रकारानाह—तच्छ्रेयः सुखं दुःखनिवृत्तिश्च भिद्यमानं
द्विधा व्यवतिष्ठते । तदाह दृष्टादृष्टभेदेन । न व्यासज्य किं तु प्रत्येकमित्याह—दृष्टं
सुखं स्रक्चन्दनवनितादिभोगजन्म । अदृष्टं सुखं स्वर्गादि । एवं च दुःखनिवृत्तिरपि
श्रेयो दृष्टमदृष्टं चेति योजनीयं चकारलोपात् । अहितनिवृत्तेः श्रेयस आत्यन्तिका
नात्यन्तिकत्वेन27 दृष्टादृष्टस्य भेदमाह—अहितनिवृत्तिरपीति । अभिमतं श्रेयो निर्धा
रयति—आत्यन्तिकीति । पुनरिति निर्धारणमेव द्योतयति । आत्यन्तिकत्वं निवृत्ते
र्निवृत्तस्य पुनरनुत्पादः । स च कार्यकारणतदनुषङ्गिनिवृत्त्या लक्ष्यते । न ह्यकारणं
कार्यं जायते । तदिदमुक्तम्—एकविंशतिप्रभेदभिन्नदुःखहान्येति । गौणमुख्य
भेदेन चैकविंशतेः शरीरादीनां दुःखत्वे प्रकारानाह—एकविंशतीति । षष्ठमिन्द्रियं
मनः । तस्य विषय इच्छाद्वेषप्रयत्नाः । यद्यपि विषयः शरीरमपि तथाप्यन्यथास्य
दुःखहेतुभाव इत्याह—शरीरमिति शरीरावच्छिन्न आत्मप्रदेशो दुःखायतनमिति
शरीरं दुःखायतनमुक्तम् । इन्द्रियविषयबुद्धीनां दुःखत्वोपचारे कारणमाह—
इन्द्रियाणीति । तत्रेन्द्रियाणि तावद् गन्धादिविषयबोधनात्, विषया बोध्यत्वात् ।
बुद्धयस्तु साक्षाद् दुःखसाधनानीति दुःखत्वेनोपचर्यन्ते । 28सुखस्य दुःखत्वोपचार
बीजमाह—सुखमिति । साधनपारतन्त्र्यं क्षयित्वं काम इति दुःखहेतवः सकल
सुखानुषङ्गिनः, तस्मात् सुखमपि दुःखानुषङ्गि । उक्तप्रकारदुःखहानि
साधनमाह—तस्य हानिरिति । संशयादितत्त्वज्ञानपरिशोधितपरमन्यायमार्गः खलु
हेयोपादेयभूतद्वादशविधप्रमेयतत्त्वपरिभावनभुवा प्रसंख्यानेन निर्मृष्टनिखिल
प्रवृत्तिहेतुदोषानुषङ्गोऽप्रवर्तमानो न शरीरेन्द्रियादिहेतुमपूर्वधर्माधर्मप्रचयमातनोति29
8 अनादिभवपरम्परोपात्तं च धर्माधर्मप्रचयमनन्तमप्यनियतविपाकसमयमपि प्रसंख्या
नपरिपाकप्रभावात् परितस्तत्तदुपभोगभागिनः कायान् निर्माय तत्तत्फलोपभोगात्
प्रक्षिणोति । अचिन्त्यसामर्थ्यातिशयो हि समाधिः । यथाहुरत्रभवन्तः30


को हि योगप्रभावादृते अगस्त्य इव समुद्रं पिबति, स इव च दण्डकारण्यं
सृजतीति ।
सेयमात्यन्तिकी दुःखनिवृत्तिः श्रेयः । तदिदमुक्तम्—


शास्त्रस्य पुरुषश्रेयोऽभिधायकत्वादिति ॥

स्यादेतत् । केवलस्य दुःखस्यात्यन्तिकी निवृत्तिः श्रेयः पुरुषप्रवृत्त्यङ्गम् । इयं
तु दुःखवत् सुखस्याप्यात्यन्तिकी निवृत्तिरिति कथं श्रेयः, कथं च प्रेक्षावत्प्रवृ
त्त्यङ्गमित्यत आह—पुरुषा रागादिमन्त इति । यद्यपि रागादिमतां पृथग्जनानामेतन्न
प्रवृत्त्यङ्गम्, ते हि मधुविषसंपृक्तमप्यन्नं मधुरतया आपातरमणीयं 31विषविषङ्गात्तु
मारयतु मा वा मीमरदुपयुञ्ज्महे32 तावदापाततः सुखम्, को हि हस्तगतं पादगतं
करोतीति विचिन्त्योपभुञ्जते । विवेकिनस्तु आयतिमालोचयन्तः स्वर्गमपि कुपित
फणिफणामण्डलच्छायप्रतिम33 इत्यपजहति । तेन मा भूदेतद् रागादिमतां प्रवृत्त्यङ्गम्,
विवेकिनां तु भविष्यति । अविवेकिनामपि चाप्रतिपन्नविप्रतिपन्नानां विवेकाधानो
पायः पूर्वमावेदितः । शास्त्रप्रवृत्त्यङ्गमात्रमेव चेह विवेको वैराग्यमभिमतमिति ।
प्रवृत्तेर्द्वैविध्यम् ऐकरूप्यं द्वैरूप्यं च । 34पुरुषभेदो रागवैराग्याभ्याम्, प्राप्तव्यस्य
सर्वस्य सुखस्य दुःखसंभेदेनानिष्टपक्षनिक्षेपादनिष्टप्रतिषेधायैव प्रवृत्तिर्विवेकि
नामेकरूपैव । अविवेकिनां तु प्रवृत्तिर्द्विरूपेत्युक्तम् ।


तदनेन प्रपञ्चेन प्रमाणतोऽर्थप्रतिपत्तावित्यादिवाक्यस्य तात्पर्यमभिधाय तद
वयवं प्रवृत्तिसामर्थ्यादिति विवरीतुं 35भूमिमारचयति—प्रवृत्तेरपीति । दृष्टं प्रवृत्ति
9 सामर्थ्यं हेतुरिति रागादिमत्प्रवृत्तिसामर्थ्यमुपन्यस्तम्, न तु वीतरागाणाम् न हि
तत्प्रवृत्तेर्निःश्रेयसाधिगमलक्षणफलसंबन्धो दृष्टो निःश्रेयसस्यालौकिकत्वात् ।
प्रमाणस्यार्थवदनर्थकत्वाद् इत्ययुक्तम्, प्रमाणमनर्थकमिति हि विप्रतिषिद्ध
मित्यत आह—प्रमाणं तावदिति । न ह्यप्रमाणमप्रमाणमिति गृहीतं प्रवृत्त्यै कल्पते ।
किं तर्हि ? प्रमाणमिति । न चाप्रमाणे 36प्रमाणाभिमानो विना प्रमाणादिसाधर्म्यादिति
तत्साधर्म्यं पृच्छति—किं पुनरिति । उत्तरम्—सामान्यपरिच्छेदकत्वम् । तद्वि
वृणोति—प्रमाणेनापीति । रजतविज्ञानमपि पुरोवर्तिशुक्लं भास्वरं सद्द्रव्यं परि
च्छिनत्ति, शुक्तिज्ञानमपि । केवलमेकस्मिन्नेव विषये रजतसमारोपापवादाभ्यां
बुद्ध्योर्बाध्यबाधकभाव इति भावः । तदेवमुभयतः प्रवृत्तिः समर्थात् प्रमाणादेव,
नाप्रमाणादर्थव्यभिचारिण इत्याह—सोऽयं प्रमातेति । ततश्च सिद्धः समर्थायाः
प्रवृत्तेरनर्थवद्व्यतिरेक इत्यभिसन्धिः । तथा च समर्था प्रवृत्तिरनर्थवद्व्यतिरेकसंपन्न
प्रमाणस्यार्थवत्त्वे37 हेतुरित्याह—तस्याः समर्थायाः प्रवृत्तेर्हेतोः पुनः प्रमाण
स्यार्थवत्त्वमर्थाव्यभिचारित्वम् । असमर्था त्वनन्तरापि न संबध्यते योग्यताविरहात् ।


संप्रत्यादिवाक्यमाक्षेप्तुमनुवदति—प्रमाणत इति । आक्षिपति—परस्परेति ।
समाधत्ते—नेति । आक्षेपवाक्यं विभजते—यदि प्रमाणत इति । न तावदर्थप्रतिपत्तिः
प्रवृत्तिहेतुरपि तु तद्विनिश्चयः । न च तन्मात्रम् अपि तु 38तदर्थजातीयस्य 39श्रेयो
हेतुतामसकृदुपलभ्य संप्रत्युपलभ्यमानस्यार्थस्य तज्जातीयतया श्रेयोहेतुभावानु
मानसहितो विनिश्चयः40 प्रवृत्तिहेतुः । सेयं श्रेयःसाधनतानुमानसहिता प्रमाणतोऽर्थ
प्रतिपत्तिर्विनिश्चितिः समर्थप्रवृत्तिनिमित्तमुक्ता । न चार्थविनिश्चयः प्रामाण्याव
धारणमन्तरेण, प्रामाण्यावधारणं 41चार्थश्रेयोहेतुतानुमाननिमित्तव्याप्तिग्रहणं च न
समर्थां प्रवृत्तिं विना, न च समर्था प्रवृत्तिस्ताभ्यां विनेति परस्पराश्रयता । तदिदमुक्तम्,
यदि पूर्वं प्रमाणतोऽर्थप्रतिपत्तिर्विनिश्चितिरपेक्षितोपायतानुमानसहिता42
प्रवृत्तिसामर्थ्यमन्तरेण किमिति प्रतिपद्यते निश्चिनोत्यपेक्षितोपाय एवेति च तोय
10 मेवेति चेति ? समाधानं विभजते—तच्च नैवमिति । यत् तावदुक्तम्, प्रमाणस्य
दुरवधारणत्वादर्थविनिश्चयाभावान्न प्रवृत्तिसामर्थ्यमिति, तत्र ब्रूमः—सत्यं न स्वतः
प्रामाण्यं शक्यावधारणम् । परतस्तु दृष्टार्थेष्वनभ्यासदशापन्नेषु प्रवृत्तिसामर्थ्यादेव
तद् गम्यते । अर्थप्रतीत्यधीना तु प्रवृत्तिर्नार्थावधारणाधीना, अर्थसन्देहादपि43 प्रेक्षावतां
प्रवृत्तेः44 । नो खलूपायताविनिश्चयेनापि प्रवर्तमाना न अनागतफले सन्दिहते । तदमी
संशयाना अपि प्रवर्तमानाः प्रवृत्तिसामर्थ्यात् प्रमाणस्य तत्त्वं विनिश्चित्य तज्जा
तीयस्यान्यस्याभ्यासदशापन्नस्य प्रवृत्तिसामर्थ्यात् प्रागेव तज्जातीयत्वेन लिङ्गेन
प्रामाण्यावधारणात् अर्थविनिश्चयेन प्रवर्तन्ते । एवं च दृष्टार्थमन्त्रायुर्वेदप्रामाण्यं
प्रवृत्तिसामर्थ्येनावधार्य तज्जातीयस्याप्तोक्तस्यादृष्टार्थस्य45 वेदस्य विनापि प्रवृत्ति
सामर्थ्यं प्रामाण्यावधारणमाप्तोक्तत्वेन निवेदयिष्यते46 । न च फलज्ञानं परीक्ष्यते
प्रेक्षावद्भिः, तस्य यादृशतादृशस्यापीष्टत्वादिष्टलक्षणत्वाच्च फलस्य तत्साधनत्वं ते47
परीक्षन्ते । तथा हि तोयज्ञानम्, पिपासोस्तत्र प्रवृत्तिः, प्रवृत्तस्य तदाप्तिः, आप्तस्य
पानम्, पानेन चोदन्योपशान्तिरित्येतावतैव प्रमाता कृती भवति । न पुनरुदन्योपशम
मपि परीक्षते, तस्य यादृशतादृशस्यापीप्सितत्वादिति केचित् । वयं तु ब्रूमः,
फलज्ञानमप्यभ्यासदशापन्नतया तज्जातीयत्वेन लिङ्गेनावधृताव्यभिचारमेव48 । एवं
तत्पूर्वं तत्पूर्वतरं तत्पूर्वतममिति । न च संप्रतितनस्य फलज्ञानस्य प्रामाण्या
वधारणायेदानीमेव पूर्वस्य फलज्ञानस्य तज्जातीयत्वेन प्रामाण्यावधारणे सत्यनव
स्थेति वाच्यम् । पूर्वतरसाधर्म्येण पूर्वमेव पूर्वस्यावधृतप्रामाण्यत्वात्49 । एवं
पूर्वतमसाधर्म्येण पूर्वतरस्य । एवं तत्पूर्वसाधर्म्येण पूर्वतमस्येत्यनादितयैवात्र
परिहारः । एतेषु च मध्ये यत्फलज्ञानं स्वप्नाद्युपभोगतुल्यतया शङ्कितव्यभिचारं
तदनभ्यासदशापन्नम् । अतः प्रवृत्तिसामर्थ्यं तत्र प्रामाण्यावधारणाय 50विनिवेशनीय
मित्यर्थप्रतिपत्तिप्रवृत्तिसामर्थ्ययोरनादित्वमुक्तम् । अनुमानस्य तु प्रवृत्तिसामर्थ्य
11 लिङ्गजन्मनोऽन्यस्य वा निरस्तसमस्तव्यभिचारशङ्कस्य स्वत एव प्रामाण्यमनु
मेयाव्यभिचारिलिङ्गसमुत्थत्वात् । न हि लिङ्गाकारं ज्ञानं लिङ्गं विना, न च लिङ्गं
लिङ्गिनं विनेति स्वत एव51 गृहीताव्यभिचारलिङ्गसमुत्थं निष्कम्पमुपपद्यते ज्ञानम् ।
प्रत्यक्षज्ञानं त्वर्थादुत्पद्यमानमपि न गृहीताव्यभिचारात् अपि तु सत्तामात्रेणा
वस्थितात् । न च कारणान्तराण्यपीन्द्रियादीनि अस्यार्थेन गृहीताव्यभिचाराणि न
चार्थेनाव्यभिचाराणि । शाब्दं तु ज्ञानं नार्थादुत्पद्यते तदभावेऽपि सति शब्दे भावात् ।
नापि लिङ्गस्येव शब्दस्यार्थाव्यभिचारः, किं तु सङ्केतग्रहणमात्रात् पदार्थप्रत्यायनेन
52वाक्यार्थमधिगमयति शब्दः । तस्मात् प्रत्यक्षशाब्दविज्ञानयोर्न स्वतोऽव्यभिचारग्रह
इति । प्रवृत्तिसामर्थ्यं तज्जातीयत्वं वा लिङ्गमर्थाव्यभिचारायानुसरणीयम्, ज्ञानगत
तज्जातीयत्वलिङ्गग्राहिणश्च ज्ञानस्य मानसप्रत्यक्षस्य तादृशस्यादृष्टव्यभिचारतया53
परितो निरस्तसमस्तविभ्रमाशङ्कस्य स्वतः प्रामाण्यमिति नानवस्था । एतेनोपमानं
व्याख्यातम् । संवेदनस्य चार्थाव्यभिचारिताकथनेन तत्कारणानामिन्द्रियादीनामपि
प्रमाणत्वमुक्तं वेदितव्यम् । न ह्यव्यभिचारिविज्ञानजनकत्वादन्यदेषां प्रामाण्यम्54 । न
चार्थव्यभिचारिणामिन्द्रियादीनां कथमर्थाव्यभिचारिविज्ञानजनकत्वमिति सांप्रतम्,
कारणस्वभावनियोगपर्यनुयोगयोरशक्यत्वात् । तस्मादर्थसन्देहादनभ्यासदशापन्नात्
प्रमाणतोऽर्थप्रतिपत्तौ55 प्रवृत्तिसामर्थ्यसंभवात् प्रवृत्तिसामर्थ्यज्ञानस्य चाभ्या
सदशापन्नस्य तज्जातीयत्वेन प्रामाण्यानुमानादनभ्यासदशापन्नस्य तु 56प्रवृत्ति
सामर्थ्यान्तरज्ञानेन प्रामाण्यानुमानादनादित्वान्नार्थप्रतिपत्तिप्रवृत्तिसामर्थ्ययोः
परस्पराश्रयत्वमस्तीति । अर्थस्यापेक्षितोपायतानुमानप्रवृत्तिसामर्थ्ययोः परस्परा
पेक्षित्वमवशिष्यते । तत्राप्यनादितापरिहारः । उत्पन्नमात्रकस्य हि बालकस्य स्तनं
दृष्टा प्राग्भवीयस्तज्जातीयापेक्षितानुभवजनितः संस्कार आविरस्ति । 57ततश्च स्मरणम् ।
12 ततोऽपेक्षितोपायतानुमानम् । ततः प्रवृत्तिः । ततस्तस्याः सामर्थ्यम् । एवं पूर्वस्मिन्
पूर्वस्मिन् जन्मनीत्यनादितया न बीजाङ्कुरवत् परस्परापेक्षितेति । अर्थप्रतिपत्ति
रिति
अर्थप्रतिपत्तिश्चार्थस्यापेक्षितोपायताप्रतिपत्तिश्चेत्यर्थः । तस्मात् सर्वमवदातम् ।


तदनेनोक्तेन क्रमेण प्रमाणतोऽर्थप्रतिपत्तावित्यस्य शास्त्रानुसन्धानवाक्यत्वं
58तात्पर्यं च समाहितम् । इदानीमस्यैव 59तात्पर्यान्तरमाह—प्रमाणप्रवृत्त्योर्वेति ।
तत्रेदमाशङ्क्यते मुनिर्हि प्रत्यक्षसंशयादिव्युत्पादनद्वारेण साक्षाच्चानेन शास्त्रेणान्वीक्षिक्या
हेयोपादेयभावावस्थितद्वादशविधप्रमेयव्युत्पादकं न्यायमनुमानापरनामानं निःश्रेय
ससिद्धये व्युत्पादयांबभूव । न च न्यायतः प्रमाणात् प्रमेयतत्त्वनिश्चयमात्रान्निःश्रेय
साधिगमः । अपि 60त्वाद्यन्तवर्ज्जं दशानां प्रमेयाणां दुःखसंज्ञाभावनम्, आत्मनश्च
याथात्म्यभावनमित्यादिभ्यः प्रवृत्तिभ्य61 आत्मतत्त्वसाक्षात्कारवैराग्यपरि
पाकक्रमेणापूर्वयोर्धर्माधर्मयोरनुत्पादेनोत्पन्नयोश्चोपभोगात् प्रक्षयेणेति । तथा च
निःश्रेयसं प्रत्यन्तरङ्गत्वात्62 प्रमाणान्न्यायात् प्रवृत्तिरेव बलीयसी, न न्यायः ।
तस्मात् प्रवृत्तिरेव व्युत्पादनीया न 63प्रमाणं निःश्रेयसहेतुरपि प्रवृत्तेरन्तरङ्गत्वात् ।
तत्रेदमुपतिष्ठते प्रमाणतोऽर्थप्रतिपत्तौ सत्यां प्रवृत्तेः सामर्थ्यं फलेनाभिसंबन्धो, न
तु प्रमाणतोऽसत्यामर्थप्रतिपत्तौ । तस्मादर्थवत् प्रयोजनवत् प्रमाणमपि प्रवृत्तिवदेव ।
एतदुक्तं भवति, यथान्तरङ्गतया प्रवृत्तिर्बलीयसी एवं मूलकारणतया प्रमाणमपि ।
64न ह्यप्रमाणात् प्रवृत्तिः फलेनाभिसंबध्यते । तस्मात् तुल्यमुभयमपि । तथापि
प्रमाणव्युत्पादनेन प्रवृत्तिरपि व्युत्पादिता भवतीति प्रमाणस्य व्युत्पादनमकारि
शास्त्रेण, न तु प्रवृत्तेः । सामान्याभिधानं च परमन्यायपरम्, तस्यैव प्रकृतत्वादिति ।
प्रामाण्यज्ञानोपायप्रतिपादनपरतयानुसन्धानवाक्यत्वमस्य पूर्वमुक्तम् । संप्रति
परपर्यनुयोगमुखेनास्यानुसन्धानवाक्यत्वं प्रतिपादयति—लोकवृत्तेति । तथा हि
प्रमाणप्रतिपत्त्युपायं प्रत्याचक्षाणक एवं प्रष्टव्यो जायते, किं भवान् प्रमाणेन
13 प्रमाणज्ञानोपायं प्रत्याचष्टे, अप्रमाणेन वेति ? यदि ब्रूयात् प्रमाणेनेति स प्रति
वक्तव्यः, प्रमाणज्ञानोपायमविद्वान् कथं भवानेवमाहेति ? अप्रमाणेनेति चेदनुज्ञया
वर्तितव्यम् । अथ प्रमाणेनागृहीतप्रामाण्येनेति, वाङ्मनसयोर्विसंवादः । तस्माद
निच्छतापि त्वया लोकवृत्तमनुसरणीयम् । अन्यथा नासि लौकिको न परीक्षक
इत्युन्मत्तवदुपेक्षणीयः स्या इति । तदिदं लोकवृत्तमाक्षेप्तारं बोधयितुमनेन भाष्ये
णानूद्यते प्रमाणतोऽर्थप्रतिपत्तौ प्रवृत्तिसामर्थ्यादर्थवत् प्रमाणं यतोऽतः सर्वः
प्रमाता प्रमाणेनावगतार्थवत्त्वेनार्थमवधार्य प्रवर्तमानः फलमुपलभत इति लोकवृत्तम् ।
तत् प्रमाणत इत्यादिना वाक्येन कारणप्रदर्शनद्वारेणानूद्यते ।


अस्यैव भाष्यस्य तात्पर्यान्तरं वक्तुं भूमिमारचयति—हेयहानेति । अर्थोऽर्थशब्दः
प्रमाणतोऽर्थप्रतिपत्तावित्यत्र स्थितः पदं वाचकं येषां तानि तथा । एत
द्वार्त्तिकग्रन्थस्यैतादृशं व्याख्यानम्, भाष्यगतस्य त्वन्यथा भविष्यति । उपायः
शास्त्रमिति ।
शास्त्रशब्दस्तदर्थपरः, अर्थस्यापि शब्दवच्छास्त्रशरीरत्वात् । अत्र च
हेयहानाधिगन्तव्यपदैः प्रमाणप्रमेययोरुपादानाद् गोबलीवर्दन्यायेन संशयादिषु
निग्रहस्थानान्तेषु शास्त्रपदं प्रवर्तते । तेनोपायपदेन संशयादयो निग्रहस्थानान्ता
एवोक्ता इति । ग्रहणकवाक्यं विवृणोति—हेयमिति । तात्पर्यमाह—एतस्मिंश्चेति ।
चेन प्रमाणप्रमाप्रमातृप्रमेयरूपं चतुर्वर्गान्तरमपि सूचयति । तत्र हेयादिचतुर्वर्गे
65चार्यमाणतयार्थपदसूचिते प्रमाणादिचतुर्वर्गे च प्रमाणस्य प्राधान्यप्रदर्शनार्थमिदं
भाष्यम् । यद्यपि चतुर्वर्गद्वयतत्त्वावगमो निःश्रेयसाधिगमहेतुः, तथापि प्रमाणमेव
प्रधानम्, तन्मूलत्वादितरसिद्धेः । तदिदमुक्तम्—अर्थवदिति । अतिशायने मतुप् ।
प्रमात्राद्यपेक्षया हेयाद्यपेक्षया चातिशयेन प्रयोजनवत् प्रमाणम् । कस्मात् ? प्रमाण
तोऽर्थप्रतिपत्तौ सत्यां प्रवृत्तस्य प्रमातुस्तदितरप्रतिलम्भात् । प्रमायाश्च तत्कार्यत्वात् ।
तदिदमुक्तम्—प्रवृत्तिसामर्थ्यादिति । तदेतस्मात् प्राधान्याद् विवक्षाभेदेन त्रिवर्गद्वयात्
प्रागुद्देशः प्रमाणस्येति । एतेन यदाहुरेके यदि प्राधान्यात् प्राथम्यं 66तत् प्रमेयस्यैव ।
14 अथोपायत्वात् 67तत् संशयादीनाम्, तेषां प्रमाणोपायत्वात् । कस्माच्च68 प्रमात्रादिभ्यः
प्राथम्यं प्रमाणस्येति ? तन्निरस्तं भवति, प्रमाणोपायानामपि संशयादीनां प्रमाणा
धीनत्वादिति । नन्ववगतम्, अर्थपदतया हेयादिचतुर्वर्गो दर्शित इति; प्रमाणादिचतुर्व
र्गस्तु कथं दर्शित इति पृच्छति—कथं पुनरिति । उत्तरं प्रमाणप्रमेयाधिगतय
इति ।


तदेवं तात्पर्यं व्याख्यायावयवार्थं व्याख्यातुमुपक्रमते—तदिदं वाक्यमवयवश
उपन्यस्य वर्ण्यते
व्याख्यायतेऽवयवश इति । 69तत्रास्यावयवेषु व्याख्यातव्येषु
प्राथम्यात् प्रमाणत इति विवृणोति—तत्रेति । विभजते—प्रमाणत इतीयं
निमित्तपञ्चमी ।
70निमित्तपञ्चमी चेत् कस्मात् प्रमाणादिति नाभिहितमित्यत
आह—अस्येति । प्रमाणत इत्येवंरूपस्याभिधानं वचनव्याप्त्यर्थं विभक्तिव्याप्त्यर्थं
चेति । वचनव्याप्त्यर्थमिति मृष्यामहे न तु विभक्तिव्याप्त्यर्थमिति, पञ्चमीव्यतिरेकेण
तसेरभावादित्याह—कथं पुनरिति ? परिहरति—लभ्यत इति । व्याप्तेः प्रयोजनं
पृच्छति—किं सिद्धं भवतीति । उत्तरं वचनव्याप्त्या संप्लवो व्यवस्था च । तदुभयं
विभजते—प्रमाणेनेति । यत्र द्वयोर्बहूनां वा संप्लवः प्रमाणानां तत्रैकैकस्याप्यस्ति
प्रतिपत्तिसाधनत्वं प्रमाणस्येति कथयितुं संप्लवावसरेऽपि प्रमाणेनेत्युक्तम् । अत एव
व्यवस्थायामेवकारः प्रमाणेनैवेति । विभक्तिव्याप्तेः प्रयोजनमाह—विभक्तिव्याप्त्या
हेतुकरणभावः ।
गम्यते इत्यनुषज्यते । तद्विभजते—प्रमाणादर्थाधिगतिर्भवतीति
हेतुत्वं गम्यते । प्रमाणेनार्थाधिगतिर्भवतीति करणरूपोऽर्थो गम्यत इति संबन्धः ।
कस्मात् पुनः करणार्थो गम्यत इत्यत आह—प्रमाणेनेति । अर्थमर्थाधिगतिं साधय
तीति साधकतमत्वात् । अत्र च करणभावनान्तरीयकस्य हेतुभावस्य पञ्चम्या अभि
धानं प्रमाणफलयोस्तादात्म्यप्रतिषेधार्थम्, भेदाधिष्ठानत्वाद्धेतुफलभावस्य । न खलु
परशुरेव च्छिदेति । प्रमाणप्रातिपदिकलब्धकरणत्वानुवादश्च प्रमाकारका
15 न्तरेभ्योऽभ्यर्हितत्वेनास्य व्युत्पाद्यत्वं च प्राथम्यं च युक्तमिति दर्शयितुम् ।
संप्लवमाक्षिपति—संप्लवेति । समाधत्त—नेति ।


आक्षेपं विभजते—स्यान्मतिरिति । विशिष्टो भिन्नो विषयो येषां तानि तथा ।
बहुवचनमान्तर्गणिकभेदाभिप्रायम् । अर्थसामर्थ्यसमुत्थं हि प्रत्यक्षमर्थगोचरम् ।
स एवार्थः । प्रत्यक्षगोचरो यो ज्ञानप्रतिभासमात्मनोऽन्वयव्यतिरेकावनुकारयति । न
च सामान्यं निरस्तसमस्त्तार्थक्रियासामर्थ्यमेवं भवितुमर्हति । स्वलक्षणं तु स्यात् ।
71तदेव हि परमार्थसत्, अर्थक्रियासामर्थ्यलक्षणत्वाद् वस्तुनः । एतदेवास्य स्वम
साधारणं लक्षणं यद्देशतोऽननुगमेनादेशात्मकस्य 72परमाणुत्वम्, कालतोऽननुगमेन
च क्षणिकत्वम् । तस्मात् स्वलक्षणविषयं प्रत्यक्षम् । न च स्वलक्षणमनुमानस्यापि
गोचरः । तद्धि गृहीतप्रतिबन्धलिङ्गहेतुकम् । प्रतिबन्धश्च तादात्म्यतदुत्पत्तिलक्षणः
स्वलक्षणविषयोऽशक्यग्रह इति सामान्यधर्मावाश्रयते । न च सामान्यमेकमनेक
देशकालावस्थासंसर्गि भवितुमर्हति । तदिदमनादिवासनोद्भूतविकल्पाधिष्ठानं
विकल्पाकारस्य वा अलीकस्य वा 73बाह्यत्वमनुमानगोचरोऽभ्युपेयम् । तच्च भावा
भावसाधारण्याच्च बाह्यसादृश्याच्च नियतप्रतिभासत्वाच्चान्यव्यावृत्तिनिष्ठम्74 । यत्
खलु भावाभावसाधारणम्, तदन्यव्यावृत्तिनिष्ठमेव यथा अमूर्तत्वम् । तद् विज्ञानादौ
भावे शशविषाणादौ चाभावे साधारणम् । भावाभावसाधारणश्च विकल्पगोचरोऽस्ति
75घटो नास्ति घट इति । यदि पुनरसाधारणो भावो भवेद् अस्तिशब्दो न प्रयुज्येत,
पुनरुक्तत्वात् । नास्तीत्यपि न 76वक्तव्यं विरोधात् एवमभावासाधारण्येऽपि वाच्यम् ।
न चालीकस्य सर्वसामर्थ्यविरहिणः परमार्थसत्ता स्वलक्षणेन सादृश्यं मन्यतेऽ
न्यव्यावृत्तेः । न च गौरिति नियतौ बुद्धिव्यपदेशौ विनाश्वादिव्यावृत्तिम् । तस्मात्
सामान्यमन्यव्यावृत्तिरूपमबाह्यं बाह्यभेदाग्रहाद् बाह्यत्वेनावगाह्यमानमनुमानं
बाह्ये प्रवर्तयति । पारम्पर्येण च बाह्यप्रतिबन्धाद् बाह्यं प्रापयत् संवादकं सद्
16 भ्रान्तमपि प्रमात्राश्रयवशात् प्रमाणम् । तदस्य न स्वलक्षणं गोचरः77 । प्रत्यक्षमपि न
सामान्यगोचरमित्यावेदितम् । न चाभ्यामन्यत् प्रमाणमस्ति, प्रमाणस्य सतोऽ
त्रैवान्तर्भावात् । अनन्तर्भावे वा प्रमाणत्वानुपपत्तेः । न च सामान्यविशेषाभ्यामन्य
दस्ति प्रमेयान्तरं यत्रैते संप्लोष्येते इत्यर्थः ।


समाधानवाक्यं विवृणाति—एतच्च नेति । यथा चैतत् तथा तत्र तत्र निवे
दयिष्यते । विशेषो व्यवच्छेदकः । स च वक्रकोटरादिरन्त्यश्च । व्यवस्था
सङ्करोदाहरणान्याह—इन्द्रियवदिति । संप्लवममृष्यमाण आह—अधिगतत्वादिति ।
समाधत्ते—नान्यथेति । आक्षेपं विवृणोति78यदीति । स्यादेतत् । नास्ति
वैयर्थ्यमधिगतीनामाशुतरविनाशितया तद्गोचराधिगत्यन्तरोत्पादं प्रति प्रमाणान्तर
स्यार्थवत्त्वादित्यत आह—अधिगतं चार्थमधिगमयता प्रमाणेनेति । यद्यप्यधि
गतय आशुतरविनाशिन्य स्तथाप्येकतरप्रमाणजनितार्थाधिगतिलब्धजन्मनः
संस्कारादेव स्थायिनस्तदर्थस्मृतिसन्ततिसंभवाद् अधिगतमर्थमधिगमयता प्रमा
णेन पिष्टं पिष्टं स्यादिति । समाधिवाक्यं विवरीतुमनुवदति—नान्यथेति । विवृणोति—
न ब्रूम इति । अयमभिसन्धिः, न हि प्रमाणकारणानि प्रेक्षावन्ति, येनैवमालोच
येयुः—79जनितमेव प्रमाणमन्यतमेनास्मासु, वयमिहोदास्मह इति । नापि 80स्वकारण
बललब्धजन्मानि प्रमाणानि दर्शितोऽयमर्थोऽन्यतमेन चास्मासु प्रमाणेन । कृत
मस्माभिरिति विरन्तुमर्हन्ति । प्रमातुश्चेतनत्वादयमनुयोग इति चेत्—न, प्रियतमस्य
वस्तुनोऽनेन भूयो भूयः प्रमित्सितत्वात् । अप्रमित्सितस्यापि च दुर्जनवचनादेः
प्रमेयस्यानेन प्रमीयमाणत्वात् । तस्मान्न प्रमात्रभिसन्धानात् प्रमाणस्य प्रवृत्तिर
प्रवृत्तिर्वार्थे किं तु सामर्थ्यात् । अन्यथाग्निदाहादिदुःखस्याप्रत्यक्षत्वप्रसङ्गः ।


यत्तु प्रमाणं प्रमित्साधीनप्रवृत्ति तद्यदि प्रमाता न व्यापारयेत् किमायातं
प्रमाणस्य ? न हि तोयमपि पिपासुना न पीयत इति, तस्य पिपासोपशमनशक्तिर
17 पैति । तस्मात् 81प्रत्युत्पन्नकारणसामग्रीजनिता बुद्धिः प्रमा । तज्जनकानि च प्रमाणानि
समानविषयाण्यपि । स एव चानेन सामग्रीभेदः प्रदर्शितः । 82अन्यथा तु प्रत्यक्षेणेत्या
दिना । यद्यपि साक्षात्कारासाक्षात्कारादिरपि प्रकारभेदोऽस्ति, तथाप्यसौ प्रकृता
नुपयोगान्नोक्तः । यदि च द्रव्यं त्वचा गृहीतमिति कृतं चक्षुषा, चक्षुषा वा गृहीतमिति
कृतं त्वचेत्युच्येत, न रूपविज्ञानं वा स्पर्शविज्ञानं वोपजायेत । 83तेन तदर्थं चक्षुर्वा
त्वग्वाभ्युपेतव्यम् । तथा च संप्लववैयर्थ्येऽपि व्यवस्थायां न वैयर्थ्यमित्याह—
विषयान्तर इति । प्रकृतमुपसंहरति—तस्मादिति ।


विभक्त्यर्थं निरूप्य प्रातिपदिकार्थनिरूपणमवतारयति—प्रमाणेति । 84अत्र
चावधार्यतेऽनेनेत्यवधारणं विचार इति । विचारणाय भावभवितारौ पृच्छति—किं
पुनरिति ।
85केचिदाहुः, अनधिगतार्थगन्तृ86 प्रमाणमिति । विषयसारूप्यं साकारस्य
विज्ञानस्येत्यन्ये87 । विज्ञानस्यैवानाकारस्यात्मानात्मप्रकाशनसामर्थ्यमित्यपरे88
उपलब्धिसाधनमिति वृद्धाः89 । तस्माद् विप्रतिपत्तेः संशयात् प्रश्नः । भावप्रश्नव्याख्या
नेन भवितृप्रश्नो व्याख्यातः । उत्तरम्—उपलब्धिहेतुः प्रमाणम् । न च संशय
विपर्यासरूपोपलब्धिकारणयोः प्रसङ्गः, अर्थवदित्यधिकारात् । तयोश्चोपदर्शितार्थ
व्यभिचारेणानर्थवत्त्वात्90 । नो खलु विकल्प्यमानं वस्त्वस्ति, अर्थक्रियासु वोपयुज्यते ।


स्यादेतत् । स्मृतिहेतोरपि प्रामाण्यप्रसङ्गः । न ह्यसौ नोपलब्धिहेतुः । न चार्थ
सहकारि प्रमाणमिति संस्कारस्यार्थसहकारिताविरहादप्रमाण्यमिति साम्प्रतम्,
नदीपूरस्य पिपीलिकाण्डसंचरणस्य चातीतानागतवर्षलिङ्गस्य शब्दस्यातीता
नागतगोचरस्यार्थसहकारिताविरहिणोऽप्रमाणत्वप्रसङ्गात् । ज्ञापकत्वेन कार्यत्वेन
वा कथञ्चिदर्थसंबन्धे संस्कारस्यापि तत् समानमिति तस्यापि स्मृतिरूपोपलब्धि
हेतोः प्रामाण्यं प्रसक्तम् । मैवम्, प्रमाणशब्देन तस्यापास्तत्वात् । प्रमासाधनं हि
प्रमाणं न च स्मृतिः प्रमा । लोकाधीनावधारणो हि शब्दार्थसंबन्धः । लोकश्च
18 संस्कारमात्रजन्मनः स्मृतेरन्यामुपलब्धिमर्थाव्यभिचारिणीं प्रमामाचष्टे । तस्मात्
तद्धेतुः प्रमाणमिति न स्मृतिहेतौ प्रसङ्गः । अनधिगतार्थगन्तृत्वं च धारावाहिक
विज्ञानानामधिगतार्थगोचराणां लोकप्रसिद्धप्रमाणभावानां प्रामाण्यं विहन्तीति
नाद्रियामहे । न च कालभेदेनानधिगतगोचरत्वं धारावाहिकानामिति युक्तम्,
परमसूक्ष्माणां कालकलाभेदानां पिशितलोचनैरस्मादृशैरनाकलनात् । न चाद्येनैव
विज्ञानेनोपदर्शितत्वादर्थस्यप्रवर्तितत्वात् पुरुषस्य प्रापितत्वाच्चोत्तरेषाम्, अप्रामाण्य
मेव विज्ञानानामिति वाच्यम् । न हि विज्ञानस्यार्थप्रापणं प्रवर्तनादन्यत्, न च
प्रवर्तनमप्यर्थप्रदर्शनादन्यत् । तस्मादर्थप्रदर्शनमात्रव्यापारमेव ज्ञानं प्रवर्तकं प्रापकं
च । प्रदर्शनं च पूर्ववदुत्तरेषां विज्ञानानामभिन्नमिति कथं पूर्वमेव विज्ञानं प्रमाणं नोत्त
राण्यपि पुरुषापेक्षया तु प्रामाण्ये चन्द्रतारकादिविज्ञानस्य पुरुषानपेक्षितस्याप्रामाण्य
प्रसङ्गः । न चातिदवीयस्तया तदर्थस्य हेयतया तदपि पुरुषस्यापेक्षितम्, तस्योपेक्ष
णीयार्थविषयत्वात् । न चोपेक्षणीयमप्यनुपादेयत्वाद्धेयमिति निवेदयिष्यते । उपलब्धि
हेतुं च प्रमाणं वदता अनधिगतार्थगन्तृत्वं चार्थसारूप्यं चात्मानात्मप्रकाशन
शक्तिश्च प्रमाणमिति निरस्तानि भवन्ति, उपलब्धिमात्रस्यार्थाव्यभिचारिणः स्मृतेर
न्यस्य प्रमाशब्देनाभिधानात् । हेतुग्रहणेन सारूप्यशक्त्योः फलादभिन्नयोरपाकरणात्
हेतुहेतुमद्भावस्य तादात्म्येऽनुपपत्तेरिति । उपलब्धिहेतुत्वं च प्रमाणत्वम् । भवितृ
व्याख्यानेन भावो व्याख्यातः । तदेवं ज्ञानमज्ञानं वा उपलब्धिहेतुः प्रमाणम् । तस्य
भावस्तत्त्वमिति स्थितम् ।


तदेतदतिव्यापकत्वेनाक्षिपति—समानत्वादिति । समाधत्ते—अयं विशेष इति ।
अयमर्थः, सर्वः कर्ता करणगोचरव्यापारो न तु साक्षात् फले व्याप्रियते । करणं च
द्विधा सिद्धससिद्धं च । तत्र सिद्धं परश्वादि दारुद्वैधीभावायोद्यम्योद्यम्य दारुणि
निपातयन् दारु च्छिनत्तीत्युच्यते, न तु साक्षात् कर्तृव्यापारगोचरो दारुद्वैधीभावः,
किं तु स्पर्शवद्वेगवतः करणीभूतस्य परशोः संयोगस्योद्यमननिपातनलक्षणस्तु
कर्तृव्यापारः परशुगोचर एव । एवं स्वर्गकामोऽपि कर्ता न साक्षात् स्वर्गे व्याप्रियते,
19 किं तु तत्करणं यागमसिद्धं साधयति । स्वर्गस्तु यागव्यापारादेवापूर्वाभिधानात्
चेतनाश्रयाद् देशकालावस्थाभेदासादितपरिणतिविशेषात् साक्षादुत्पद्यते । तद्व
दिहापि प्रमाणसिद्धमिन्द्रियादि, असिद्धं च91 तत्सन्निकर्षादि व्यापारयन्नुत्पादयन् वा92
करण एव चरितार्थः । करणं त्विन्द्रियादि तत्सन्निकर्षादि वा नान्यत्र चरितार्थमिति
साक्षादुपलब्धावेव फले व्याप्रियते । प्रमेयस्य तु प्रत्यक्षादन्यत्रोपलब्धिहेतुभाव एव
तावन्नास्ति, केवलं प्रमाणविषयभावमात्रेणोपयुज्यते । यत्राप्यस्य हेतुभावः प्रत्य
क्षेऽभिप्रेयते, तत्रापीन्द्रियसंबन्धमात्रे उपयुज्यते प्रमेयम् । इन्द्रियमेव तु तत्सन्नि
कर्षादि वा93 साक्षात् प्रमाहेतुः । ततः सिद्धमेतत् न प्रमाता साक्षात् प्रमाहेतुः कर्तृत्वात् ।
यो यः कर्ता स सर्वो न साक्षात् फलहेतुः, यथा 94व्रश्चनयजमानादिः तथा 95चायम् ।
तस्मात् तथा । तथा प्रत्यक्षं 96प्रमेयं न साक्षात् प्रमाहेतुः प्रमेयत्वात् । यद् यत् प्रमेयं
तत्तत् सर्वं न प्रमाहेतुरनुमेयादिवत् । तथा चैतत् । तस्मात् तथेति97 । तदिदं प्रमातृ
प्रमेययोः प्रमाणे चरितार्थत्वमचरितार्थत्वं च प्रमाणस्य, तस्मात् तदेव फलहेतुः ।
प्रमातृप्रमेये तु फलोद्देशेन प्रवृत्ते इति तद्धेतू कथञ्चिदिति । चोदयति—अकर
णेति ।
नाकरणः कर्ता प्रमाणमपि व्याप्तुमर्हतीत्यर्थः । परिहरति—न, इन्द्रियार्थेति ।
98यदा ज्ञानं प्रमाणं तदा ज्ञानस्य प्रमाणस्योत्पत्तावित्यर्थः । पुनश्चोदयति—यदि
तर्हीति ।
परिहरति—तस्मिन्नपीति । चोदयति—यदि प्रमातृप्रमेयाभ्यां सद्भ्यां
प्रमाणमिति ।
प्रमाणमन्तरेण प्रमाया अभावात् प्रमातृप्रमेययोरसिद्धिरित्यर्थः ।
पृच्छति—कथमिति । उत्तरं—प्रमाणमितीति । अथ 99स्वरूपमात्रमेव कारकं कस्मान्न
भवति, तच्च क्रियासंबद्धस्य पुरस्तादप्यस्तीत्यत आह—न च द्रव्यमात्रमिति ।
अस्तु तर्हि तदीयोऽवान्तरव्यापारः प्रधानक्रियायां साध्यायां कारकम्100, तस्यापि
प्रधानक्रियायां निमित्तत्वादित्यत आह—न च क्रियामात्रम् । न हि स्वरूपेण देव
20 दत्तो व्रश्चनः, नापि तदीयो व्यापार उद्यमननिपातनादिर्लोष्टाद्याश्रयः । क्व तर्हि
कारकशब्दः प्रवर्तत इत्यत आह—कारकशब्दो हीति । प्रधानक्रियासाधने हेतौ
अवान्तरक्रियाविशेषयुक्ते कारकशब्दः प्रवर्तते । 101द्वैधीभावे हि फले प्रधानव्यापारे
कर्तुः करणगोचर 102उद्यमननिपातनादिरवान्तरव्यापारः । कर्मणश्च दारुणः स्पर्श
वद्वेगवत्तीक्ष्णतरकुठारसंयोग एवावान्तरव्यापारः । तेन हि दारु स्वावयवपरिस्पन्द
लब्धजन्मनोऽवयवविभागाद्103 द्वैधीभावमनुभवति । 104तस्मादवान्तरप्रधानव्यापार
संपन्नं कारकमिति सामान्यतः प्रसाध्य प्रकृते योजयति—प्रमातृप्रमेयशब्दौ चेति ।
तावन्तरेण क्रियां
प्रधानक्रियामित्यर्थः । परिहरति—न, पाचकादिशब्दवदिति ।
लोकाधीनावधारणः खल्वयं शब्दार्थसंबन्धः । लोकश्चातीतानागतवर्तमानक्रिया
संबन्धमात्रविवक्षया कारकशब्दान् प्रयुङ्क्ते, पाचकमानय पक्ष्यतीति च, पाच
कोऽयमपाक्षीदिति च, पाचकोऽयं पचतीति च तुल्यवत् त्रैकाल्यविषयप्रयोग
दर्शनम् । तत् कस्य हेतोरपचत्यपि पाकसंबन्धं प्रत्यस्ति स्वरूपशक्तिर्देवदत्ता
दाविति ? द्वयी हि शक्तिः कारकाणां कार्यजननं प्रति स्वरूपं च सहकारिग्राम
समवधानं च । तत्रासत्यपि 105सहकारिग्रामसमवधाने कारकशब्दानां प्रवृत्तेः, सत्यपि
च स्वरूपे त्रैकाल्यव्यापिनि त्रैकाल्ययोगिकार्यासंभवेऽप्रवृत्तेः106 त्रैकाल्ययोगि
कार्योपहितमर्यादमेव स्वरूपं कारकशब्दानां प्रवृत्तौ निमित्तमिति । असत्यपि
प्रत्युत्पन्नप्रमाहेतुप्रमाणसंबन्धे प्रमातृप्रमेयशब्दयोः प्रवृत्तिरिति उपपन्नं प्रमातृ
प्रमेयाभ्यां प्रमाणं जन्यत इति । तत् प्रमाणमुपलब्धिसाधनं साक्षात्, न प्रमातृप्रमेये
इति सिद्धम् ।


सत्यपि चोपलब्धिसाधनत्वे प्रमातृप्रमेययोरुपलब्धिहेतुरित्यत्राप्रसङ्गः107,
साधकतमासाधकतमयोः साधकतमे कार्यसंप्रत्ययात्108 सातिशयत्वेनोद्भूतत्वात्
तस्येत्याह—साधकतमत्वाद् वेति । साधकतमार्थं पृच्छति—कः पुनरिति ।
21 उत्तरम्—प्रमाणस्य भावाभावयोः प्रमायाः कार्यस्य तद्वत्ता । भावाभाववत्ता
साधकतमार्थः । लक्ष्यलक्षणयोरभेदविवक्षया सामानाधिकरण्यम्, न तु
प्रमातृप्रमेयान्वयव्यतिरेकानुविधानमप्यस्ति प्रमाया109 अन्वयव्यतिरेकयोरित्यत
आह—न प्रमातरीति । प्रमातृप्रमेयाभ्यां सह प्रमोत्पादस्यान्ययोगव्यवच्छेदेन
संबन्धः । प्रमाणेन 110तु संबन्धः प्रमोत्पादस्यायोगान्ययोगव्यवच्छेदाभ्यामित्यतिशयः
प्रमाणस्य । प्रमातृप्रमेये हि प्रमाणोपक्षीणवृत्तिनी न प्रमायां व्याप्रियेते । तेना
न्तरायसंभवान्नावश्यं प्रमातृप्रमेयव्यापारे सति प्रमा भवति । प्रमाणस्य व्यापारे तु प्रमा
भवत्येवेति कल्पान्तरमाह—यद्वान् वा प्रमिमीते सोऽतिशयः । प्रमिमीत इति
स्वतन्त्रं कर्तारं दर्शयति प्रतिपाद्यात् करणाद् व्यवच्छेत्तुम् । यद्वानेवेति च सावधारणम् ।
तत्र यद्वानिति कर्त्रन्तरं व्यवच्छिनत्ति । न हि कर्ता कर्तृमान्, किं तु प्रमाणवान् ।
स्वतन्त्रो ह्याश्रयः परतन्त्रेणाश्रीयते । कर्त्रधीनं हि करणमित्यावेदितम् । प्रमाता प्रमेय
वानपि क्वचिद् भवेत् तत्तन्त्रत्वात् प्रमेयस्य न तु प्रमेयवानेव, अनुमानादिषु
प्रमेयस्यातीतत्वादिना तद्वत्ताविरहात् । न तु लिङ्गादिज्ञानवान् न कदाचिदित्यव
धारणफलम् । सोऽयं विशेषः प्रमातृप्रमेयाभ्यां प्रमाणस्य । अस्यैव च विशेषस्या
तिशयत्वमन्वयव्यतिरेकाभ्यामादर्शयति—प्रमाणे सतीति । कल्पान्तरमाह—सतो
र्वेति ।
पूर्वेण भावप्रधानोऽतिशयो यादृशस्य दर्शितः, तादृशस्यैवेह व्यतिरेक
प्रधानोऽतिशय इति विशेषः । अकर्तृत्वमहेतुत्वमित्यर्थः । कल्पान्तरमाह—संयोग
वच्चरमभाविता वा ।
111सेतिकर्तव्यताकं हि व्याप्रियमाणं करणम्, न तु 112चक्षुरा
दिस्वरूपम् । करणादिशब्दप्रवृत्तिनिमित्तमात्रं तु स्वरूपं स्यादिति पूर्वमावेदितम् ।
तच्च सिद्धमसिद्धं वा प्रमातृप्रमेयव्यापारस्य पश्चादेव तथात्वेन संपद्यत इति
चरमभावीत्युच्यते । सोऽयमस्य चरमभावितातिशयः । यथा तन्तूनां पटे जनयितव्येऽ
न्त्याः संयोगभेदा यदनन्तरं पट उत्पद्यत एवेति । कल्पान्तरमाह—प्रतिपत्तेरानन्तर्यं
वा ।
यत एव प्रमाणं चरमभावि, अत एव तदनन्तरं प्रतिपत्तेः प्रमाया भावात् ।
22 प्रतिपत्तेरानन्तर्यमेव प्रमाणस्यातिशयः । स चेति । चोऽवधारणे । इदमपि लक्ष्य
लक्षणयोरभेदविवक्षयोक्तम् । कल्पान्तरमाह—असाधारणकारणता वा । चतस्रः
खल्विमाः प्रत्यक्षादिप्रमितयो भिन्नबुद्धिव्यपदेशभाजोऽनुभूयन्ते । न च प्रमाता
तद्भेदहेतुः, तस्य साधारण्यात् । न च प्रमेयमेकस्यापि प्रमेयस्य संप्लवे
सर्वप्रतिपत्तिसाधारण्यात् । प्रमाणानि तु यथायथं 113चतसृष्वपि प्रमितिष्वसाधारणा
नीति भिन्नबुद्धिव्यपदेशनिबन्धनानि । तदिदमसाधारण्यमतिशयः अशेषः पुरुषः
प्रमातात्र विवक्षितः114 । कल्पान्तरमाह—प्रमाकारणेति । प्रमाया असमवायिकारणं
खल्वात्ममनःसंयोगः । स च सर्वप्रमासाधारणः115 । नासौ प्रमात्रा प्रमेयेण वा शक्यो
विशेष्टुम्, तयोरपि तद्वदेव साधारण्यात् । असाधारणं तु प्रमाणं यथायथमात्ममनः
संयोगमवच्छिनत्ति । एवं सुखादिप्रमेयाणामपि मन एवसाधारणं व्यवच्छेदकं
द्रष्टव्यम् । सोऽयमस्यातिशयः अतिशयातिशयिनोरभेदविवक्षया अतिशयशब्द
वाच्यम्
इत्युक्तम् ।


क्रमप्राप्तमर्थग्रहणं तात्पर्यतो व्याचष्टे—अर्थग्रहणमिति । कस्मात् पुनर्निषि
ध्यते प्रमाणविषया प्रतिपत्तिरित्यत आह—यतो न प्रमाणविषयेति, इतिकर्तव्यता
अनुष्ठानम्, तस्मिन् । अर्थ्यत इत्यर्थः, तोयकण्टकादिः । तस्य तथाभावोऽर्थनीय
त्वम् । तच्च सुखदुःखसाधनत्वम् । सुखसाधनं खलूपादेयत्वेन दुःखसाधनं च
हेयत्वेनार्थ्यते116 । तात्पर्यान्तरमाह—उपेक्षणीयेति । उपेक्षणीयविषये प्रमाणे प्रवृत्ति
सामर्थ्यं नास्तीति तत्प्रतिषिध्यते । न च तदप्रमाणमिति । 117तस्यापि दृष्टप्रमाण
साधर्म्येण लिङ्गेन प्रामाण्यानुमानादिति । चोदयति—प्रमाणाग्रहणमिति । समर्थ
प्रवृत्तिजनिका हि प्रतिपत्तिर्नाप्रमाणाद्भवतीत्यर्थादेव प्रमाणादिति गम्यत इत्यर्थः ।
परिहरति—न प्रमाणविशेषज्ञापनार्थत्वात् । अयमभिसन्धिः, प्रवृत्तिसामर्थ्येन हि
कार्येण प्रमाणस्यार्थवत्त्वमनुमातव्यम् । न चैतत् साक्षात् प्रमाणस्य कार्यम्, किं
23 त्वर्थप्रतिपत्तेः । तदनन्तरं हि समर्था प्रतिपत्तिरुपजायते । अर्थप्रतिपत्तिस्तु प्रमाणकार्येति
समर्था प्रवृत्तिः प्रमाणकार्या सती प्रमाणस्यार्थवत्त्वमनुमापयति118 । तस्मादर्थगम्य
मपि प्रमाणमर्थप्रतिपत्तिकरणत्वेन द्योतनीयम् । अन्यथा प्रमाणमर्थवदर्थप्रतिपत्तेः
समर्थप्रवृत्तिजनकत्वादिति किं केन संगतम् ? प्रमाणस्य विशेषः प्रमाणाभासाद्
व्यावृत्तिः । तस्य ज्ञापनम् । स एवार्थो यस्य119 प्रमाणग्रहणस्य तत् तथोक्तम् । तस्य
भावस्तत्त्वम् । तस्मादेतदुक्तं भवति—प्रमाणकार्याया अर्थप्रतिपत्तेः प्रवृत्तिसामर्थ्यं न
तदाभासकार्यायाः । तस्मात् प्रमाणस्यार्थवत्त्वं गम्यत् इति । तदिदमुक्तम्—तद् येह
प्रमाणेन प्रतिपत्तिः सा प्रवृत्तिसामर्थ्यं प्रतिपादयति प्रमाणम् ।
अयमर्थः । प्रमाणं
कर्तृ, प्रवृत्तिसामर्थ्यं प्रतिपद्यमानं प्राप्नुवत् तत् प्रतिपादयति प्रापयति प्रमाणकार्यार्थ
प्रतिपत्तिरिति । इदमपि प्रमाणग्रहणस्य प्रयोजनमित्याह—न च प्रमाणग्रहणमिति ।
एकदेशिव्याख्यानमुपन्यस्यति—सुखेति । न केवलं सुखदुःखहेतुत्वादर्थ्यमानत्वात्120,
ज्ञायमानत्वाच्च121 । दूषयति—नेति । सर्वस्य सुखदुःखतद्धेतुत्वेन हेयपक्षनिक्षेपात् ।
उपादेयानां प्रमाणशास्त्रापवर्गाणामभावप्रसङ्गाद् व्याघातः । अविवक्षितत्वा
च्चेति ।
चशब्दसमुच्चितमशक्यहानत्वं हेत्वन्तरमादर्शयति—न च प्रमाणा
दिहानमिति ।
सुखदुःखतद्धेतवो हि हेयाः सन्तो हानोपायमपेक्ष्यन्ते । न च
प्रमाणादेरन्यस्तदुपायः संभवति । न च प्रमाणादिः स्वोच्छेदाय पर्याप्तः । न चास्मादप
वर्गो नाधिगम्यते । तस्मान्न शक्यं प्रमाणादिना प्रमाणहानमिति । न चैतन्निःश्रेयसहेतुं
शास्त्रं प्रणयतः सूत्रकारस्य तदनुवर्तिनो वा भाष्यकारस्य विवक्षितमित्याह—न च
प्रमाणादिहानं विवक्षितम् ।
तस्मादस्मद्व्याख्यानमेव शोभनमित्याह—किं त्विति ।
122प्रवृत्तिसामर्थ्याधानयोग्यत्वमधिकारः । तस्मात् सुखदुःखतद्धेतुरूपार्थप्रतिपत्तिरेव
हि समर्थां प्रवृत्तिमाधत्ते । न त्वर्थमात्रप्रतिपत्तिरित्यर्थः । न केवलं व्याघाताशक्यहाना
विवक्षितत्वैरर्थपदेन123 न सर्वसंग्रहोऽशक्यत्वादपि न सर्वसंग्रह इत्याह—न संविद
24 इति । सुखदुःखतद्धेतुतया न संविद ग्रहणं संग्रहः सर्वमध्यपतिताया अपि । कुतः ?
अनधिकारात्, सुखदुःखतद्धेतुयोग्यताविरहात् । नाप्यर्थ्यमानत्वेन संग्रह
इत्याह—अकर्मत्वाच्च । न तावत् सर्वा एव संविदः संविद्गोचरा मनोयोनयः संवेद्या
भवितुमर्हन्ति । एकनीलविषयसंवित्परम्परामात्र एव पुरुषायुषसहस्रपर्यवसानात्
विषयान्तरसंचाराभावप्रसङ्गाच्च124 । तस्मादनवस्थाभयादन्ते कस्याश्चित् संविदोऽ
संवेद्यतया फलमात्रत्वमभ्युपेयम् । तथा च सा नार्थ्यते125 । न च सुखदुःखे तद्धेतुरिति
न सर्वसंग्रहः संविदोऽसंग्रहादित्यर्थः ।


तदेवमादिवाक्यं126 व्याख्याय भाष्यव्याख्यान्तरमवतार्य तत्रैकदेशिव्याख्यानं
दूषयितुमुपन्यस्यति—सोऽयं प्रमाणर्थ इति । दूषयति—न उभयस्यापि परिसंख्या
तत्वात्,
अर्थस्तु सुखमित्यादिना भाष्यग्रन्थेन । कार्यकारणाभ्यामुभयत्वम् । प्राण
भृद्भेदस्यापरिसंख्येयत्वादिति च हेतुः127, श्वेतः प्रासादः काकस्य कार्ष्ण्यादितिवन्न
प्रतिज्ञार्थेन सङ्गच्छत इत्याह—प्राणभृद्भेदस्य चेति । तदेतदेकदेशिमतदूषणम
स्मिन् व्याख्याने128 नास्तीत्याह—नार्थशब्दस्येति । चन्दनादिविषयं प्रमाणं सुख
प्रयोजनमेव । कण्टकादिविषयं च प्रमाणं दुःखोत्पादप्रयोजनमेवेत्येतदुभयं परि
संख्यातुं नियन्तुमशक्यमित्यर्थः ।


एवं किलात्र शङ्क्यते—सुखदुःखहेतुभावो वस्तूनां स्वाभाविको भवेन्न वा ।
स्वाभाविकत्वे नील इव129 सर्वान् प्रत्यर्थः सुख इति करभवन्मनुष्याणामपि कण्टकः
सुखः स्यात् । एवं निदाघेऽपि कुङ्कुमं सुखं स्यात् । चन्दनं च हेमन्तेऽपि सुखं भवेत् ।
एवं तृष्णज इवापां सुहितस्यापः सुखाः प्रसज्येरन् । अस्वाभाविकत्वे
त्वनादिवासनावैचित्र्यलब्धजन्मपुरुषधर्मकल्पनानुपातिनः सुखदुःखादयो न
प्रमाणप्रयोजनं भवितुमर्हन्तीति । तत्रेदमुपतिष्ठते—सोऽयं प्रमाणार्थ इति । निवेदयिष्यते
हि क्षणभङ्गाधिकारे130 यथा स्थेमभाजामपि वस्तूनामक्रमाणामपि क्रमवत्सहकारि
25 कारणसमवधानवशादुपजनापायधर्माणः क्रमवन्तो धर्मा भवन्तीति, तदिहापि ।
यद्यपि न जात्या सुखदुःखहेतुभावो भावना131 भवति, तथापि जातिदेशकालावस्थापुरुष
भेदसहकारिसमवधानादुत्पत्स्यते सुखदुःखहेतुभावोऽव्यवस्थयेति भावः ।


तत् सिद्धमेतत्, प्रमाणार्थोऽनियतः अनियतप्राणभृद्भेदहेतुकत्वात् । यद्यदनियत
कारणकं कार्यं तत्सर्वमनियतमेव, यथा अनियतकालमेघोदयनिबन्धनं वर्षम् । तथा
चायम् । तस्माद् अनियत इति । कस्मात् पुनः प्रमात्रादिचतुर्वर्गे प्रमाणस्यैव
अर्थवत्त्वमुच्येत132 न प्रमात्रादीनामपीति आशङ्कानिवारणार्थ भाष्यमनुवदन्नेव
व्याचष्टे—अर्थवति च समर्थे सम्यगर्थेऽर्थाव्यभिचारिणीति यावत् । प्रमाणेऽर्थ
वन्ति
भवन्ति समर्थानि सम्यगर्थानि प्रमात्रादीनि । अर्थस्य तु सम्यक्त्वमिदमेव यद्
यादृशः प्रमाणेनोपदर्शितस्तस्य तथात्वं न पुनरन्यथाभाव इति । यदात्वादिभाष्य
वाक्येऽर्थशब्दः प्रयोजनवचनः तदैवं व्याख्यानम्—अर्थवति च प्रयोजनवति च
यतः133समर्थं शक्तं प्रमाणं प्रतिपत्त्यादिक्रमेण पूर्वोक्तेन प्रयोजनं प्रति, अतः समर्थे
प्रमाणे
प्रमात्रादीनि अर्थवन्ति प्रयोजनवन्ति भवन्ति, यतस्तान्यपि प्रमाणवदेव
समर्थानि शक्तानि प्रयोजनं प्रतीति । अत्र हेतुः अन्यतमापाय इति । तस्यार्थं
व्याचष्टे—अन्यतमत्वार्थ इति । नन्वन्यतमशब्दो बहुष्वनिर्धारितविशेषमेकमाह134, न
तु साधकतममित्यत आह—प्रकरणात् इति । साधारणशब्दो हि प्रकरणाद्
विशषे वर्तते । तद् यथा शिविकावाहनप्रक्रमे पुरुषमानयेति पुरुषशब्दो विष्टौ,
तद्वदिहापि प्रमात्रादिपरिहाण्या135 प्रमाणस्यार्थवत्त्वाभिधाननियमप्रक्रम इति प्रमात्रादिभ्य
प्रमाणस्य विशेषो वाच्य इति तत्रैवान्यतमशब्दो वर्तते । यद्यप्यर्थप्रतिपत्त्यर्था
व्यभिचारद्वारेण136 प्रमाणस्याव्यभिचारो गम्यते दृष्टे विषये, तथाप्यदृष्टे विषये न
तज्जनितप्रतिपत्त्यव्यभिचारेणाव्यभिचारः शब्दस्य प्रमाणस्य शक्यो विज्ञातुम्,
प्रतीत्यव्यभिचारस्य प्रमाणाव्यभिचारग्रहणमन्तरेणाशक्यज्ञानत्वात् । तस्माद् दृष्टा
26 र्थस्य मन्त्रायुर्वेदस्य प्रवृत्तिसामर्थ्यावधृतार्थाव्यभिचारस्य 137साधर्म्यादाप्तप्रणीतत्वा
दग्निहोत्रादिवाक्यानां प्रमाणानामव्यभिचारग्रहणपुरःसरमेव त्रिवर्गस्याव्यभिचार
ग्रहणम् । न पुनरत्र त्रिवर्गस्याव्यभिचारः138 शक्योऽन्यतः परिच्छेत्तुम् । अदृष्टार्थविषयस्य
च चतुर्वर्गस्येहार्थवत्त्वेन प्रयोजनं दृष्टार्थे सन्देहादपि व्यवहारसिद्धेः । तदिदं
चतुर्वर्गे प्रमाणस्य प्राधान्यमिति ।


चतुर्वर्गविभागपरे भाष्ये प्रमाता प्रथमं दर्शितः । 139ततस्तस्य लक्षणमाह—प्रमाता
स्वतन्त्र
इति । स्वातन्त्र्यं पृच्छति—किं पुनः स्वातन्त्र्यम्, यस्याभिसंबन्धात् स्वतन्त्र
इति । तत्र भाष्यकृता 140प्रमातोपलक्षितो न लक्षितः । न खल्वीप्साजिहासयोर्वा प्रवृत्तौ
वा स्वातन्त्र्यं प्रमातृत्वम्, अपि तु प्रमायाम् । ईप्सादिस्वातन्त्र्येण तु तदुत्तरकाल
भाविना प्रमायां स्वातन्त्र्यं 141पूर्वकालभाव्युपलक्षितम् । तेन तच्चरितमनुवर्तमानो
वार्त्तिककृदुपलक्षणान्तरं 142कर्तृत्वोत्तरकालभाव्याह—कारकफलोपभोक्तृत्वम् ।
न हि सर्वः कर्ता समस्तकारकजन्यं स्वर्गादि143 वौदनादि वा भुङ्क्ते ऋत्विक्पाचका
दिषु144 च व्यभिचारदर्शनात्145 । कारकस्य तु सतः कर्तृत्वोत्तरकालभाविनी फलोपभोक्तृता
कर्तृत्वनान्तरीयकतया तदुपलक्षयति, यजमानस्य राज्ञश्च प्रैषादिना तत्तद्व्यापारे
कर्तृत्वात् । यथाहुरत्रभवन्तः,
तदभिसन्धिपूर्वकं प्रेषणमध्येषणं वा युक्तं 146यत्सर्वं पच्यर्थः
महाभाष्ये ३॑१॑२६
इति । स्वातन्त्र्यलक्षणमाह—तत्समवायो वा कारकाभिधानेन सन्निधापितां क्रियां
तदितिसर्वनाम्ना परामृशति । यस्य हि व्यापारं प्राधान्येन धातुराख्यातप्रत्ययो वाभिधत्ते
स स्वतन्त्रः कर्ता । तथा हि विक्लिद्यन्तीत्यत्र तण्डुलादयः कर्तारः, पचन्तीत्यत्र
देवदत्तादयः । तत् कस्य हेतोः ? एकत्र तण्डुलादेर्व्यापार उपात्तोऽपरत्र देवदत्ता
27 देरिति । प्राधान्येन चाशेषकारकनिवर्त्त्यत्वं प्रधानक्रियायाः147 अवान्तरव्यापारभेदेऽपि
प्रधानक्रियोद्देशेन समस्तकारकप्रवृत्तेरिति । पुरुष इति प्रकृतक्रियापेक्षम्, प्रमायाः
पुरुषाश्रयत्वादिति । लक्षणान्तरमाह—तत्प्रयोक्तृत्वमितराप्रयोज्यता वा । तस्य
चेतनस्य सर्वकारकाणि प्रति प्रयोक्तृत्वम्, तैश्च कारकैरप्रयोज्यता वा148 । अचेतनस्य
तु भाक्तं कर्तृत्वं न स्वाभाविकमिति भावः । परिसमाप्तिपदार्थं व्याचष्टे—तत्त्व
परिसमाप्तिरिति ।
तत्त्वं हि प्रमाणव्याप्यत्वं प्रमाणव्यापारविषयत्वम् । तच्च
हानोपादानोपेक्षाभिः पर्यवस्यति । पर्यवसानं परिसमाप्तिः । विनियोज्यतेति वक्तव्ये
योग्यताग्रहणमीप्सितेऽपि 149दृष्टे वस्तुनि कुतश्चित् प्रतिबन्धात् पुरूषेणानुपात्ते मा भूत्
तत्त्वापरिसमाप्तिरिति । यद्यपि हि तत् पुरूषेणानुपात्तं तथाप्युपादानयोग्यता
प्रदर्शनादस्ति तत्वपरिसमाप्तिरिति । तत्प्रतिषेधश्चेत्यत्र तच्छब्देन हानोपादानलक्षणं
विनियोगं परामृशति ।


किं पुनस्तत्त्वमित्यादि भाष्यं व्याचिख्यासुस्तत्त्वप्रत्ययप्रकृतेस्तदोऽर्थं
पृच्छति—किं पुनरिति । उत्तरं—सदसती तत्150 प्रश्नं विभजते—तस्य भाव
स्तत्त्वमित्यत्रेति ।
उत्तरं विभजते—सदसती तत् । अथ कस्मात् प्रकृतिपुरुषौ वा,
पञ्चस्कन्धा वा, परं ब्रह्माद्वैतं वा, जीवाजीवास्रवादयो वा सप्त, पृथिव्यापस्तेजोवायुरिति
वा 151चत्वारि भूतानीत्यादीनि तदो वाच्यानि न भवन्तीत्यत आह—प्रमाण
विषयत्वेनाधिकारात् । सूत्रभाष्यवाक्यतद्विवरणे
षु प्रमाणं प्रमाणविषय
श्चाधिकृतः152 । न च साङ्ख्यादिसिद्धान्तभेदानुपातिनोऽर्थाः प्रमाणविषयाः । यथा
चैतत् तथात्रैव153 निवेदयिष्यते । उपसंहरति—तस्मादिति ।


प्रकृत्यर्थं व्याख्याय प्रत्ययार्थं व्याचष्टे—तद्भाव इति, सदसतोर्यथासंख्यं
विधायकप्रमाणविषयता सतो भावः, तत्प्रतिषेधश्चासतो भावः । सदिति
विधायकप्रमाणविषयतां परामृशति । तत्प्रतिषेधेन च प्रतिषेधकं प्रमाणमुप
28 स्थापितम् । तेन प्रतिषेधकप्रमाणविषयत्वमेव 154तत्प्रतिषेध इत्यनेनोक्तं भवति । एतद्
विभजते—तयोः खल्विति । शङ्कते—प्रमाणविषयत्वादिति । सर्वसामर्थ्यविरहेण
त्वसत् सतो व्यावर्तते । यदि चासदपि प्रमाणविषयः, तर्हि नासमर्थम् । तथा च
सदसतोरभेद इत्यर्थः । निराकरोति—न, अनैकान्तात् । न वयमसामर्थ्येनासतो
भेदमाचक्ष्महे येनैवमुपालभ्येमहीति भावः । शङ्कां विभजते—तत्र भवेदिति ।
निराकरणं विभजते—तच्च नेति । गवादि चेतनम्, अचेतनं घटादीति । यदि सदसती
समर्थे कुतस्तर्हि तयोर्भेद इत्यत आह—स्वतन्त्रेति । असदुपलब्धिरेव सदुपलब्धे
रन्यानुपलब्धिः । ननु संयोगविभागादिषु सत्स्वपि परतन्त्रोपलब्धिकारणत्वमस्ति,
तेषां संयुज्यमानविभज्यमानाद्यधीननिरूपणत्वादित्यत आह—प्रतिषेधमुखेन प्रति
पद्यते
प्रतीयते । सतां केषाञ्चित् पारतन्त्र्येऽपि न निषेध्यनिषेधाधिकरणपार
तन्त्र्यमित्यर्थः ।


संप्रति सदुपलम्भकस्य प्रमाणस्यासदुपलम्भकत्वं 155प्रतिपिपादयिषता
भाष्यकारेण प्रदीपो दृष्टान्त उपन्यस्तः । स तु साध्यसमः, तस्यापि प्रमाणसामग्री
निवेशादिति शङ्क्यमानोऽत्यन्तलोकप्रसिद्धतयास्य दृष्टान्तत्वं समर्थयते—प्रदीप
वदिति ।
गोपालाङ्गना अपि हि किमत्रास्ति स्तेनोऽस्मद्धनं वा 156अपवरके न वेति
सन्दिहानाः प्रदीपमुपादाय समन्तादवलोक्यापवरकमस्तीहास्मद्धनं नास्ति स्तेन
इति सममेव निश्चिन्वन्ति, न तु स्तेनाभावनिश्चयायोपायान्तरमुपाददते । 157तेना
गोपालाङ्गनमा च पण्डितरूपेभ्यः सिद्धः प्रदीपो दृष्टान्तः । तदिदमुक्तम्—
ह्यसत्प्रतिपत्तावुपायान्तरमास्थीयते
लोकेन । अनाश्रयणे हेतुमाह—प्रदीपेन
दृश्यमाने हि घटादिकेऽर्थे
स्वतन्त्रे नानेन समानजातीयं तुल्योपलम्भयोग्यतं158
दृश्यान्तरमस्ति । नीलपीतौ हि परस्पराभाववन्तौ, तेन नीलनिषेधे नावश्यं पीत
विधिः । भावाभावौ तु परस्पराभावात्मानौ, नो खल्वभावाभावो नाम कश्चिदन्यो
29 भावरूपात्159 । नापि भावाभावोऽन्योऽभावात् । तेन समानजातीयं दृश्यान्तरं निषेधन्
दृश्यान्तराभावमेव विधत्ते प्रदीपः । तदेवं प्रदीपोपायस्य प्रतिपत्तुः प्रतीतिक्रम
मुक्त्वा परीक्षकाणामुपपत्तिक्रममाह—यद्यभविष्यदिति । यदि कश्चिदाशङ्केत
दृश्यतामभावः प्रदीपेन भावोऽपि भविष्यतीति, तत्रैष परीक्षकाणां तर्क उपतिष्ठते—
यद्यभविष्यदिति । तदेवं लौकिकपरीक्षकसंमतं दृष्टान्तमुपपाद्य दार्ष्टान्तिके
योजयति—एवं प्रमाणेनापि इन्द्रियादिना सति प्रमीयमाणे इति । पूर्ववद् व्याख्येयम् ।
उपसंहरति—तदेवमिति । सर्वं चैतदुपरिष्टादुपपादयिष्यते । ननु यदि सदसती
प्रमाणविषयौ, कस्मात् सद्भेदा इवासद्भेदा अपि सूत्रकृता नोच्यन्त इत्यत आह—
तत्र तेषु सदसद्भेदेषु मध्ये स्वातन्त्र्येणासद्भेदा न प्रकाशन्त इति नोच्यन्ते ।
निषेध्यनिषेधाधिकरणाधीननिरूपणत्वादसद्भेदानां भावभेदतन्त्रं प्रकाशनमिति भाव
भेदकथनेनैवाभावभेदा अपि गम्यन्त इति नोक्ता इत्यर्थः । अथ वा कथिता एव येषां
तत्त्वज्ञानं निःश्रेयसोपयोगि, ये तु न तथा न तेषां प्रपञ्चः अनुपयुक्तभावप्रपञ्च इव
वक्तव्य इत्याह—चतुर्वर्गानन्तर्भावाद्वा भावप्रपञ्चवदभावप्रपञ्च इति ।
निःश्रेयसानुपयोगिनि भावप्रपञ्चे यथा चतुर्वर्गानन्तर्भावः, एवमभावप्रपञ्चेऽपीति ।
अथ निःश्रेयसोपयोगाभावः कुतोऽवगन्तव्य160 इत्यत आह—भावोपदेशादेवाभाव
उपदिष्टो भवतीति ।
द्विविधं प्रमाणं भावोऽभावश्च । यथा कारणाभावेन कार्याभाव
ज्ञानं यतो द्वितीयसूत्रसमुत्थानम् । प्रमेयेषु चापवर्ग एव मूर्धाभिषिक्तः । एवं
प्रयोजनादिष्वपीति तत्र161 तत्रोहनीयमिति । उपसंहरति—अतश्चेति ।


तदेवं तात्पर्यं व्याख्याय अवयवार्थं व्याख्यातुं भाष्यं पठति—सच्च खलु
षोडशधा व्यूढमुपदेक्ष्यत
इति । अत्र प्रथमे कल्पे चशब्दोऽवधारणे, खलुशब्दः
स्पष्टार्थे162 । सदेव षोडशधा व्यूढमुपदेक्ष्यते नासत्, तस्य सदधीनप्रकाशत्वादिति ।
द्वितीये तु कल्पे पारमार्थिके चः समुच्चये, खलु अवधारणे । सति षोडश
धैवोपदेक्ष्यमाणेऽसदप्युपदेक्ष्यत इत्यर्थः । प्रकृत्यर्थं व्याचष्टे—व्यूह इति । सूत्रस्य
30 सप्रपञ्चं तात्पर्यं व्याख्याय अवयवार्थं व्याचिख्यासुना भाष्यकारेण तासां खल्वासां
सद्विधानामिति भाष्येण सूत्रम
वतार्य पठितं तदस्य वार्तिककृत् तात्पर्यमाह त
एते सद्भेदा इति सूत्रम् । त एते प्रमाणादयः सद्भेदा निःश्रेयसोपयोगिनो न गङ्गा
बालुकादयः । तस्मात् सत्सु163 प्रमाणादयः 164षोडशैवोद्दिष्टा लक्षिताः परीक्षिताश्च । न
गङ्गाबालुकादयः सन्तोऽपि निःश्रेयसानुपयोगादिति भावः ।


द्वन्द्वस्वरूपमाह—सर्वपदेति । द्वन्द्वपरिग्रहे तात्पर्यमन्वयव्यतिरेकाभ्यामा
दर्शयति—सर्व एत इति । बहुव्रीहिकर्मधारययोरसंभवात् षष्ठीसमासपरिग्रहे
निग्रहस्थानस्यान्त्यपदार्थस्य165 प्राधान्ये विवक्षितार्थहानप्रसङ्ग इत्यर्थः । निर्देशे
यथावचनं विग्रह
इत्यस्य भाष्यस्य तात्पर्यमाह—यथावचनमिति । अन्योन्य
निरपेक्षाणां प्रत्येकं प्रमाहेतुभावः प्रमाणानामिति हि बहुवचनप्रयोजनम् । प्रमेयेषु तु
यद्यपि प्रमेयता वास्तवी प्रत्येकमस्ति तथाप्यपवर्गहेतुभावेन प्रमेयता समुदाये
समाप्यते, न तु प्रत्येकम् । आत्मादीनामन्यतमस्याप्यतत्त्वज्ञाने संसारानतिवृत्तेरिति
यदेव हि166 निर्देशे वचनभेदस्य प्रयोजनम्, तदेव चोद्देशेऽपि, तयोरेकवाक्यत्वादिति
भावः । प्रमाणादीनामिति विभक्त्यर्थव्याख्यानपरं भाष्यं पठित्वा पृच्छति—कः
पुनरिति ।
उत्तरं—कारकाणामिति । तद्विभजते—यत्रेति । कारकार्थः प्रधानक्रिया,
यदुद्देशेन सर्वकारकप्रवृत्तिः । कारकग्रहणेन च तन्नान्तरीयकतया प्रधानक्रिया
प्यानीतेति विवरणे सापि दर्शिता । यद्यपि स्वस्वामिभावादावपि संबन्धेऽन्तर्गतः
क्रियाकारकसंबन्धोऽस्ति संबन्धमात्रस्य क्रियागर्भत्वात् तन्नान्तरीयकत्वाच्च
कारकस्य, तथाप्यसौ न विवक्ष्यते । संबन्धमात्रमेव तु विवक्ष्यत इत्यर्थः । तत्र
चोदयति—तत्त्वस्येति षष्ठी चानर्थिका अव्यतिरेके तदनुपपत्तेरित्यपि द्रष्टव्यम् ।
तत्रानियमवाद्येकदेशी परिहरति—न, उभयथापीति । भावस्य भवित्रधीन
निरूपणत्वाद् भावनिरूपणमेव भवितृनिरूपणमाक्षिपति । अभेदेऽपीति ।
31 इषुस्थित्या167 यथा तद्भावप्रतिषेध इषोर्भावो168 धर्मो गतिः, तस्य प्रतिषेधः स्थितिः,
तिष्ठतेर्गतिनिवृत्त्यर्थत्वात् । एवमत्रापि न प्रमाणप्रमेयादिमात्रमुच्यते तत्त्वग्रहणेनापि
त्वर्थान्तरं तेष्वेव यत् समारोपितं रूपमन्यथात्वमिति यावत् तत् प्रतिषिध्यते ।
गतिमदिति भावप्रधानो निर्देशः । यथा
द्वेकयोर्द्विवचनैकवचने पा. सू. १॑४॑२२
इति द्वित्वैकत्वयोरिति । संख्येयविवक्षायां तु द्व्येकेष्विति स्यात् । तेन
गतिमत्त्वमर्थान्तरमिषोर्न भवतीत्यस्मिन्नर्थे इषोः स्थितिरिति वाक्यं प्रयुज्यत169
इत्यर्थः । तदेतदेकदेशिमतमर्थान्तरत्वनियमवादी दूषयति—तन्नेति । प्रमाणा
दिभ्योऽनर्थान्तरस्य तत्त्वस्य च इषोरनर्थान्तरस्य 170गत्यभावस्य चासिद्धे । यथा च
भावातिरिक्तोऽभावस्तथा क्षणभङ्गाधिकारे171 निवेदयिष्यते । प्रमाणाद्यतिरिक्तं च
तत्त्वमनन्तरमेव दर्शयिष्यतीति । तत्वस्य ज्ञानमित्यादिभाष्यं व्याचष्टे—तत्त्वं
ज्ञायमानमिति ।
उभयं पृच्छति—किं पुनरिति । तत्त्वप्रश्नस्योत्तरम्—तत्त्वमिति ।
निमित्तत्वं
शक्तिः प्रमाणादीनाम् । सा च द्वयी स्वरूपलक्षणा सहकारिसाकल्य
लक्षणा च, अतीन्द्रियस्य सामर्थ्यस्य नैयायिकैरनभ्युपेतत्वात् । शक्तेश्च भावत्वेन
भवितृनिरूपणाधीननिरूपणत्वाद् भवितुरपि निरूपणं भवतीत्युक्तम् ।


अभिमतं निःश्रेयसं ग्रहीतुं निःश्रेयसद्वैविध्यमाह—निःश्रेयसं पुनरिति ।
तत्रादृष्टं निःश्रेयसं ग्रहीतुं दृष्टमतिप्रसङ्गापादनेन दूषयति—एवं च कृत्वेति ।
सूत्रकाराभिमतं निःश्रेयसमाह—परं त्विति । एतदुक्तं भवति, यद्यपि निःश्रेयस
पदमभिमतमात्रवाचि प्रमाणादितत्त्वज्ञानस्य च दृष्टमपि निःश्रेयसं संभवति, तस्यैव
ततः साक्षादुत्पत्तेः । तथाप्यात्मादिवाचकप्रमेयपदसमभिव्याहाराददृष्टमेव निः
श्रेयसमभिप्रेतं172 सूत्रकारस्य । तत्र च प्रमाणादितत्त्वज्ञानस्यापि पारम्पर्येण
हेतुभावोऽस्त्येवेति । चोदयति—दृष्टमिति । दृष्टे दर्शनमेव प्रमाणम् । अदृष्टं तु
32 निःश्रेयसमप्रामाणिकं दर्शनाभावादित्यर्थः । परिहरति—न, नास्ति अर्थस्य तथा
भावात् ।
अर्थ आत्मादिः । तस्य आगमानुमानसहकारिणा कारणाभावेन कार्या
भावानुमानमेवात्रार्थे प्रमाणमिति भावः । ये तु वैयात्यान्मन्येरन् 173पदार्थतत्वज्ञान
मात्रमेव परनिःश्रेयसहेतुरिति, यथाहुः—


एको भावस्तत्त्वतो येन दृष्टः, सर्वे भावास्तत्त्वतस्तेन दृष्टाः इति, तान्
प्रत्याह—यदि पुनरिति । न हि भावानां तत्त्वमन्यदतः प्रत्यक्षविषयीकृताद् रूपा
दिति भावः । मोक्षमाणा इति, सनि
मुचोऽकर्मकस्य गुणो वा पा. सू. ७॑४॑५७
इति गुणाभ्यासलोपौ । न केवलं वस्तुवृत्तिः, सूत्रकारस्यापि संमतमेत
दित्याह—पृथगुपदेशाच्च प्रमेयस्य प्रमाणादिभ्यः । यदि च यत्किञ्चित्
प्रमेयतत्त्वज्ञानान्निःश्रेयसस्य परस्य प्राप्तिः, किमर्थमात्मादिसूत्रेण द्वादशैव प्रमेयाणि
नाधिकानि न न्यूनानि चेत्यवधार्यते सूत्रकारेण ? तस्मात् तदेव174 साक्षादुपयोगि
निःश्रेयसे न पदार्थमात्रमित्याह—प्रमेयावधारणार्थायां चोत्तरसूत्रप्रक्रियायाम
कुशलः सूत्रकारः स्यात् ।
कुतः ? प्रमेयस्य विहितत्वादाद्येन सूत्रेणेति । तस्माद्
यद्युपपत्तिः यदि च सूत्रकाराभिमतमुभयथापि प्रमेयतत्त्वपरिज्ञानं परस्य निःश्रेय
सस्य हेतुः । तदनेन आत्मादेरिति भाष्यं व्याख्यातम् ।


अथ किं तत्त्वज्ञानस्यात्मादिविषयस्यादृष्ट एव कोऽपि सामर्थ्यातिशयो यतः
परनिःश्रेयसोत्पादः, मैवम् । किं तर्हि ? दृष्ट्यैव द्वारेत्याह भाष्यकारः—तच्चैतदिति
निःश्रेयसहेतुभावाभिधानस्य अनु पश्चात् उद्यते अनूद्यते । तत्त्वज्ञानोत्पादे हि
शास्त्रात्175 तद्विषयमिथ्याज्ञानादिनिवृत्तिक्रमेणापवर्गोत्पाद इति द्वितीयसूत्रेणानूद्यते ।
तदेतद् भाष्यं तच्चैतदित्याद्यधिगच्छतीत्यन्तमनूद्य व्याचष्टे—हेयमिति । मिथ्याज्ञान
मात्मादिषु प्रमेयेषु अविद्या तन्मूलं तृष्णा । उपलक्षणं चैतत्, द्वेषोऽपि द्रष्टव्यः ।
तन्मूलौ च धर्माधर्मौ । तदेतद्धेयम् । हानं तत्त्वज्ञानं हीयते ह्यनेनैतत् सर्वम् । तस्य
33 प्रमाणस्य । उपायःशास्त्रम् । अधिगन्तव्यो मोक्षः । एवमवयवान् विभज्य तात्पर्य
माह—एतानीति । एतानि चत्वार्यर्थपदानि पुरुषार्थस्थानानि, न केवलं हेयाधि
गन्तव्यभेदेन द्वादशभेदं176 प्रमेयं दर्शयतः तद्विषयतत्त्वज्ञानाय च सोपकरणन्याया
भिधानप्रमाणव्युत्पादकं शास्त्रं प्रणयतः सूत्रकारस्य संमतमपि तु सर्वेषामे
वाध्यात्मविदामाचार्याणामिति भाष्यतात्पर्यमित्यर्थः ।


तत्र संशयादीनां पृथग्वचनमनर्थकम् इत्यादिचोद्यभाष्यं व्याचष्टे—
संशयाद्यग्रहणमिति । सत्यमिति परिहारभाष्यं व्याचष्टे—न विद्येति । चोद्यं
विवृणोति—संशयादय इति । परिहारं विवृणोति—न विद्येति । प्रस्थानं व्यापारः ।
तेषां पृथग्वचनमित्यादिभाष्यं 177व्याचष्टे—तस्याः संशयादीति । न च वाच्यमस्तु
विद्यात्रयमेव, कृतमान्वीक्षिक्या विद्ययेति, तस्या एव समस्तविद्यावदातीकरण
हेतुत्वात् । यथा वक्ष्यति—प्रदीपः सर्वविद्यानामिति । स चायं किंस्विदिति
वस्तुविमर्शमात्रमनवधारणज्ञानं संशय
इति भाष्यम् । तद् व्याचष्टे—तत्र तेषु
संशयादिषु । संशयस्तावदिति ज्ञानमवधारणं प्रत्यय इति पर्याय इति
मन्वानश्चोदयति—अनवधारणात्मक इति । न ज्ञानमात्रपर्यायोऽवधारणशब्दः ।
अपि तु तद्विशेषनिश्चयवचनः । किंस्विदिति दोलायमानस्योभयकोटिस्पृशः प्रत्यय
स्यार्थेऽनवधारणात्मकस्यापि प्रत्यात्मं मानसेन प्रत्यक्षेणावधार्यमाणत्वादिति ।
परिहरति—न व्याघात इति । तत् तस्मात् उभयमिति । तत्र नानुपलब्धे इत्यादि
भाष्यमवतारयितुं पृच्छति—स कथं न्यायस्येति । यदि न्यायस्याङ्गं संशयो भवेत्,
सोऽपि व्युत्पाद्येतेति भावः । उत्तरम्—यस्मादिति । एतदाक्षिपति—उपलब्ध इति ।
पञ्चरूपश्चतूरूपो वा हेतुर्न्यायः । प्रतिज्ञाद्यवयवसमूहो वा न्यायः । नीयते प्राप्यते
विवक्षितार्थसिद्धिरनेनेति, तस्याश्रयो178 विषय उपलब्ध उच्यमानो निर्णीत एव
वक्तव्यः । सन्दिग्धे हि तस्मिन् हेतुः सन्दिग्धाश्रयतया असिद्धः स्यात्, यथेह
नगनिकुञ्जे मयूरः केकायितापातादिति । तदापातसन्देहे 179अतो न निर्णीतश्चेन्नोप
34 लब्धः । ततश्चोपलब्धश्चानिर्णीतश्चेति व्याहतमित्यर्थः । परिहरति—नास्ति व्याघात
इति । सामान्यतः पर्वतमात्रमुपलब्धं निर्णीतम्, तद्विशेषस्तु वह्निमत्त्वादिरनिर्णीत
इति । पुनश्चोदयति—एवमपीति । उपलब्धो निर्णीत इति सामानाधिकरण्यात्
समानविषयत्वं दर्शयति । तथा च व्याघातः । सामान्यविशेषभेदेन तु व्याघातं परिहरन्
सामानाधिकरण्यं न समर्थस इति भावः । परिहरति—न, यथा तथेति व्यपदेशा
दिति ।
सामान्यविशेषयोः सामानाधिकरण्यात् । य एव सामान्यतो निर्णीतः, स एव
विशेषतोऽनिर्णीतोऽपि संभवतीति न व्याघात इत्यर्थः । एवमर्थं न्यायप्रवृत्त्यर्थम्,
असन्दिग्धे न्यायप्रवृत्तेरनुपपत्तेः । न हि 180करिणि दृष्टे चीत्कारेण तमनुमीमते प्रेक्षावन्त
इति ।


प्रयोजनस्वरूपप्रतिपादनपूर्वकं प्रयोजनपदप्रयोजनप्रदर्शनार्थं भाष्यमनुभाषते
अथ प्रयोजनम् । व्याख्यातुं पृच्छति—किं पुनरिति । उत्तरम्—येनेति । स्फुटतरमे
वैतदित्यर्थः । पुनः पृच्छति—केनेति । एकदेशिमतेनोत्तरमाह—धर्मेति । तत्र काम
इतीच्छामात्रं वोच्यते, कामिनीविषयो वा रागः ? पूर्वस्मिन् कल्पे काम इत्येवास्तु
कृतं धर्मादिभिः सर्वेषामेव काम्यमानत्वात् । उत्तरस्मिन्नव्याप्तिः सरकमृगयादीनां
काम्यानामसंग्रहात् । धर्ममोक्षयोरपि नास्तिकान् प्रत्यप्रवर्तकत्वम्181 । तस्मादयुक्तमे
तदिति मन्वान आह—वयं तु पश्याम इति । सुखस्यास्या दुःखस्य हान्या विषयेण
विषयिणं प्रत्ययमुपलक्षयति । असत्योरकारणत्वात्, सत्योर्वा अनर्थकत्वात् प्रवृत्तेरिति ।
तथापि सुखदुःखाप्तिहान्योरेव कर्तुः प्रवृत्तिप्रसङ्गो न तत्साधने, न ह्यन्यद्विजानाति
इच्छति च करोति चान्यदिति घटते, अतिप्रसङ्गात् । न च फलं पुरुषप्रवृत्ति
गोचरः । तत्साधनं तु तद्गोचरः, तत्साधनत्वविज्ञानात् तत्साधन एव प्रवर्तते ।
तन्नातिप्रसङ्ग इति चेत् ? हन्त तर्हि तत्साधनत्वज्ञानमेव प्रवर्तयति, न फलज्ञानम्,
ज्ञानेच्छाप्रवृत्तीनां कार्यकारणभूतानां सामानाधिकरण्येन संप्रतिपत्ते
रित्यभिप्रायेणाह—सुखदुःखसाधनभावात्तु सर्वेऽर्थाश्चेतनं प्रयोजयन्तीति ।
35 तुशब्दः फलाद् व्यवच्छिनत्ति । अत्रापि 182विषयेण विषयिणं प्रत्ययमुपलक्षयति ।
एतदुक्तं भवति तोयमुपलभ्य तज्जातीयस्यापेक्षितसाधनतां दृष्टचरीमनुस्मरति । अथ
तज्जातीयतया लिङ्गेन दृश्यमानस्यापेक्षितसाधनभावमनुमिमीते । अनुमाय च
पिपासुः प्रवर्तते । तेनोपायज्ञानस्य साक्षात् पुरुषप्रवृत्तिहेतुत्वम्, फलस्य183
त्वीप्सिततमस्योद्देश्यतयेति सर्वं सुन्दरम्184तदाश्रयश्च न्यायः प्रवर्तते इति भाष्यं
व्याचष्टे—तदिदं प्रयोजनं न्यायस्येति । आक्षिपति— इति । समाधत्ते—उप
कारकत्वमिति ।
यथा राजाश्रितः पण्डित इति । उपकारकत्वमेव दर्शयति—तन्मूल
त्वादिति । विधिः
प्रवृत्तिः । न जातु निष्प्रयोजनां185 काकदन्तादौ परीक्षामारभन्ते
प्रेक्षावन्त इत्यर्थः । आक्षिपति—का पुनरियमिति । न्यायाश्रयत्वं प्रयोजनस्य
प्रतिज्ञाय परीक्षाश्रयत्वसमर्थनमसङ्गतमिति भावः । उत्तरम्—न्यायः । तस्मान्ना
संगतमित्यर्थः । नन्वेवमपि नीयते प्राप्यते विवक्षितार्थसिद्धिरनेनेति व्युत्पत्त्या
प्रत्यक्षादि प्रत्येकं न्यायः । न 186चैतत् प्रत्येकं प्रयोजनमाश्रयते । अजिहासितानु
पादित्सितानामप्यजिज्ञासितानामर्थानां प्रत्यक्षादिगोचरत्वदर्शनादित्याक्षिपति—कः
पुनरयं न्यायः ?
समाधत्ते—प्रमाणैरिति । प्रत्यक्षादिप्रमाणमूलाः प्रतिज्ञादयः
पञ्चावयवाः प्रमाणानि । तैरर्थस्य लिङ्गस्य परीक्षणं परीक्षा । परीक्षितं तु लिङ्गं
पञ्चावयवोपपन्नमनुमेयप्रत्ययफलं भावयत्येव, न त्वनुमेयार्थपरीक्षा । तस्य
सन्दिग्धत्वेऽपि स्वरूपेण परीक्षानास्पदत्वादिति । नन्ववयवैश्चेदर्थपरीक्षणम्, न तर्हि
प्रमाणैः कार्यकारणयोरभेदाभावादित्यत आह—किमुक्तं भवतीति । न साक्षात्
प्रतिज्ञादयोऽवयवा अर्थपरीक्षायामुपयुज्यन्ते । अपि तु स्वकारणतत्प्रमाणसूचनेन ।
तस्मात् प्रमाणानामवान्तरव्यापारः प्रतिज्ञादय इत्युपपन्नं प्रमाणैरर्थपरीक्षणम् । तदिद
मुक्तम्—प्रमाणव्यापारादितीति । तस्मात् नैकैकं प्रमाणमिति । समस्तप्रमाणो
पकरणत्वादेव चास्य परमत्वमित्याह—सोऽयमिति । पञ्चावयवोपपन्नतया च
36 187प्रत्यक्षागमाश्रितत्वम् । न तद्विरोध इति 188प्रदर्शनार्थं भाष्यमनुभाष्य तात्पर्यं
व्याचष्टे—प्रत्यक्षागमेति । कथं पुनरनेन भाष्येणैतदुच्यत इत्यत आह—यदिहानु
मानेनेति । यत् पुनरनुमानमि
त्यादि भाष्यं व्याचष्टे—यत्र पुनरिति । यत्र हि
विरोधस्तत्र प्रमाणमूलानामवयवानां प्रतिज्ञादीनामितरेतरप्रतिसन्धानमेकवाक्यता
नास्ति । प्रमाणविरोधेन योग्यताविरहिणां तत्पदार्थानां पारमार्थिकान्वयाभावादिति ।
तीर्थं दर्शनं तस्य प्रतिरूपकः । अदर्शनमिव189 दर्शयतीति यावत् । स खलु तादृशः
पञ्चावयवप्रयोगो लाभपूजाख्यातिकामैः पण्डितव्यञ्जनैरुपवर्ण्यमानः प्रत्यवायाय,
प्रागेव190 त्वपवर्गायेत्यर्थः । तदेवं समुदायतो भाष्यं व्याख्यायावयवविभागाय पठति
यत् पुनरनुमानमिति । 191प्रत्यक्षविरुद्धोदाहरणमाह—अनूष्णोऽग्निरवयवी कृत
कत्वाद् घटवदिति ।
अत्र चोदयति—कः पुनरिति । इदमत्राकूतम् रूपत्रयसंपन्न
मेतत् कृतकत्वं न वा ? न चेत् तत एव तर्हि तदनुमानाभासमिति192 कृतं प्रत्यक्ष
विरोधेन । अथान्वयव्यतिरेकपक्षधर्मतासंपन्नमपि बाधितविषयतयैतदप्रमाणम् ?
तदयुक्तम्, रूपत्रयसंपत्त्यां खल्वेतत् स्वसाध्येनाविनाभूतं भवति । न च बाधा
विनाभावयोः सह संभवः । बाधायामपक्षधर्मो भवेत्, अनैकान्तिकश्च हेतुः । जिज्ञा
सितधर्मणो धर्मिणः 193पच्यमानत्वेन पक्षत्वम्, न पुनः प्रत्यक्षावधृतसाध्यविरुद्धधर्मस्य194
तस्याजिज्ञासितत्वेनापक्षतया तद्धर्मस्यापक्षधर्मत्वान्न चैकान्तिकः195 । साध्य
धर्मिण्येव प्रत्यक्षोपस्थापितसाध्यधर्मविरुद्धधर्मवति दर्शनेन व्यभिचारात् । न च
सपक्षासपक्षावेवान्वयव्यतिरेकगम्याविनाभावदर्शनविषयौ न पक्ष इति साम्प्रतम् ।
यदि हि पक्षं विहाय बहिरेव सपक्षासपक्षयोरविनाभावो गम्येत, तदा
बहिर्व्याप्तिमात्रबलेन पक्षधर्मोऽपि हेतुर्न पक्षे साध्यं साधयेत् । असिद्धा हि तत्रास्य
स्वसाध्येन व्याप्तिः । तदेतत् पण्डकमुद्वाह्य मुग्धायाः पुत्रप्रार्थनमिव । तस्मादन्त
र्बहिर्वा सर्वोपसंहारेणाविनाभावोऽवगन्तव्यः । एवं च सिद्धः पक्षेऽपि व्यभिचारः
37 साधनधर्मस्येत्यनैकान्तिकत्वम् । तथा च रूपत्रयसम्पन्नो हेतुर्बाधितविषयश्चेत्य
संभवः । तस्मात् सुष्ठूक्तम्—कः पुनरस्यानुमानस्य रूपत्रयसम्पन्नस्य विरोधः ?
न ह्यस्ति संभवो रूपत्रयसम्पन्नं विरुद्धं चेत्यर्थः । 196अत्र समाधिमाह—अनुमाना
विषये प्रयोगः ।
197वक्ष्यति ह्यनुमानाधिकारे यथानौपाधिकः संबन्धो हेतु
साध्ययोरनुमानाङ्गम्, न तु कार्यकारणभावादिरव्यापकत्वादतिप्रसङ्गाच्चेति । स
चैवं प्रवर्तते—यो यः कृतकः स सर्वोऽनुष्णो यथा घटादिरिति । न च वह्नेरिव
धूमसंबन्धे आर्द्रेन्धनसंयोगो गुर्वन्तेवासिनोः 198साहचर्ये इव स्वाध्यायाध्ययनमुपाधिः
कृतकत्वानुष्णत्वयोः संबन्धे उपलभ्यते । सोऽयं शङ्कितः समारोपितो वा प्रयत्नेन
पुनःपुनरन्विष्यमाणोऽनुपलभ्यमानस्तत्र तत्र घटादावुपाधिर्नास्तीति प्रत्यक्षेण,
यद्यभविष्यद् घटादिवदेव व्यज्ञास्यत, विज्ञानाभावान्नास्त्येवेति तर्कसहायेन
निश्चीयते । सोऽयं रूपेणेव रसस्य, श्वस्तनेनेव सवितुरुदयेनाद्यतनस्य तदुदयस्य,
समुद्रवृद्ध्येव चन्द्रोदयस्य समानकालस्य, कृतकत्वस्यानुष्णत्वेन स्वाभाविक
औत्सर्गिकः संबंधः सामान्येन यो यः कृतकः स सर्वोऽनुष्ण इत्यवधारितः, न तु
निर्विभज्य तेजोऽवयविनि । न हि सर्वोपसंहारवती व्याप्तिरेकदेशविषया भवितु
मर्हति । एकदेशविषयत्वे यत्रैव न दर्शिता तेनैवानैकान्तिकत्वमाशङ्क्येत । तथा च
तत्र तत्रैकदेशे प्रत्येकं व्याप्तिप्रदर्शनमशक्यम्, आनन्त्यात् । तस्मात् सर्वोपसंहारेणैव
तदुपदर्शनम् । तदिह कृतकत्वमौत्सर्गिकसामान्यविषयव्याप्तिस्मरणसध्रीचीनं पक्ष
धर्मतावशात् विशेषे तेजोऽवयविनि साधयितुमनुष्णतोन्मुखं यन्न साधयेत् तत्199
किं प्रत्यक्षेणापहृतविषयत्वात्, आहोस्विदनैकान्तिकत्वात् ? न तावदनैकान्तिक
त्वम् प्रागेव सामान्यतोऽनौपाधिकसंबन्धस्यावधारणात् । 200उष्णे तेजोऽवयविनि
कृतकत्वस्य दर्शनादनैकान्तिकमपक्षधर्मो वा कृतकत्वमितिचेत्—न, अनुमानेन
सामान्यतोऽवधृतव्याप्तिना तस्यानौष्ण्यसाधनात् । प्रत्यक्षेण तेजोऽवयविन
38 औष्ण्यग्रहणेन तत्र201 कृतकत्वस्य हेतोर्वृत्तावुत्पन्नमपि व्याप्तिविज्ञानं बाध्यते ।
ततश्चानैकान्तिकत्वादप्रवृत्तिरनुमानस्येति चेत्—न, अनुमानप्रवृत्तिविषये साध्यधर्मिणि
हेतोर्व्यभिचारानुद्भावनात् । अन्यथा तद्गतसाध्यधर्मसन्देहे तत्रोपलभ्यमानः साधन
धर्मः सन्दिग्धव्यतिरेकित्वादनैकान्तिकः स्यात् । सन्दिग्धसाध्यधर्मे दृष्टान्त इव
साधनधर्मः । तथा चानुमानमात्रमुच्छिद्येत, प्रत्यक्षेण साध्यधर्मविपर्ययदर्शनात् ।
तेजोऽवयविनोऽनुष्णत्वेनासाध्यत्वम्, तथा चानैकान्तिकत्वमपक्षधर्मता वेति चेत् ?
तर्हि प्रत्यक्षेण साध्यविपर्ययसाधनं बाधनमित्यनर्थान्तरम् । तदिदमुक्तम्—यस्मिन्
विषये
तेजसोऽनुष्णत्वे एतत् प्रयुक्तम्, स प्रत्यक्षेणापहृत इति । एवं चानुमाने
दूषिते कृतमपक्षधर्मत्वव्यभिचाराभ्यां तदुपजीविभ्यामिति भावः ।


यत् पुनः दिग्नागेन प्रत्यक्षविरुद्धमनुमानमुदाहृतं तदुपन्यस्यति—अपरेपुन
रिति ।
अश्रावणः शब्दः कृतकत्वाद् घटादिवदिति ब्रुवाणः शब्दस्वरूपमेवापलपति ।
न हि श्रवणेन्द्रियादन्यदस्ति शब्दग्रहणकारणम् । न चागृह्यमाणः शब्दः सद्व्यवहार
गोचरः । तस्मादेवंवादिनोऽभिप्रायव्याप्तमसत्त्वं शब्दस्य । तथा च प्रत्यक्षविरोध इति
भावः । दूषयति—तैस्त्विति । सविशेषणे हि विधिनिषेधौ विशेषणमुपसंक्रामत
इत्युत्सर्गः । क्वचित् पुनर्विशिष्टविधानमपि भवत्यनन्यगतित्वात् । तद्यथा—

लोहितोष्णीषा ऋत्विजः प्रचरन्ति ।

सति विभवे न जीर्णमलवद्वासाः स्नातकः स्यात्202

इति । तद्वदिहापि अश्रावणः शब्द इति श्रुतिवाक्ययोः सामर्थ्यात् श्रावणत्व
विशेषणोपसंक्रान्तो निषेधो न विशेष्येण शब्देन सह संबध्यते । नापि श्रावण
त्वनिषेधादार्थः203 शब्दनिषेधो वाद्यभिप्रायव्याप्तः । वचनार्थाविरोधिनोऽर्थस्या
र्थगम्यत्वान्न तद्विरोधिनः श्रावणत्वनिषेधस्य चाधिकरणं शब्द इति न शब्दाभावे
तन्निषेधोऽवकल्पते । न चाभावस्तुच्छ इति तृतीय204 उपपादयिष्यते । न च श्रावणत्वं
प्रत्यक्षगोचरः । तद्धि शब्दश्रोत्रयोः संबन्धः
39 कृत्तद्धितसमासेषु संबन्धाभिधानं त्वतल्भ्याम्
इति कात्यायनीयवचनात् । न च प्रत्यक्षाप्रत्यक्षवृत्तिः संबन्धः प्रत्यक्षः । तस्मात्
श्रावणत्वमप्रत्यक्षमिति नात्र प्रत्यक्षविरोधः । तदिदमुक्तम्—इन्द्रियवृत्तीना
मतीन्द्रियत्वादिति ।
वृत्तिः स्वार्थे संबन्ध इत्यर्थः ।


आगमविरुद्धमुदाहरति—शुचीति । मन्वादिभिर्नरास्थिस्पर्शप्रतिषेधात्, स्पर्शे
च प्रायश्चित्तोपदेशादशुचित्वं नरशिरःकपालादीनामिति । कापालिक आक्षिपति—
कथमिति । नास्माकं वेदस्तन्मूला वा स्मृतयः प्रमाणमित्यभिप्रायः । उत्तरम्—शुचि
नरशिरःकपालमिति ब्रुवता श्रुतिस्मृतीतिहासपुराणानपेक्षेणानुमानमात्रसहायेनात्र205
वस्तुनि त्वया शुचिरूपोऽर्थो वक्तव्यः । किमुक्तं भवति शुचीति ? यदि उच्येत
स्प्रष्टुः प्रत्यवायाभावः ? सिद्धान्ती पृच्छति—स कस्येति वाच्यम् । यद्यात्मन इति
ब्रूयात् कापालिकः, अविगीता हि व्यवहारपरम्परास्माकम् । कापालिकानां
नरशिरःकपालस्पर्शतदवस्थितान्नपानोपयोगलक्षणा, दाक्षिणात्यानामिवाह्नेनैवुकादि
लक्षणा क्रिया श्रेयस्करी । तस्मादस्माकमप्रत्यवायकरतया शुचि नरशिरःकपाल
मित्यर्थः । तत्र सोपहासमुत्तरमाह—तदागमानुष्ठानतात्पर्यावस्थानात्206 कापालिक
स्यैवमेतत् । श्रुतिस्मृतीतिहासपुराणलक्षणागमविहितमर्थमाचरतां तन्निषिद्धं च
परिहरतां दाक्षिणात्यानामाह्नेनैवुकाद्यनुष्ठानमनादि अद्य यावदनुवर्तमानमविगीत
माम्नायमूलतामनुमापयति आत्मनः श्रेयोहेतुभावेन, न खल्वागमानपेक्षः सहस्र
णाप्यनुमानैरिममर्थमवगन्तुमर्हति । कापालिकानां त्वामगमविहितमकुर्वतां कुर्वतां
च तन्निषिद्धमर्थं प्रयत्नेनानादिरपि व्यवहारः 207शाक्यभिन्नकादीनामिव न वेदानुमाने
मूलमिति भावः । अथ त्रयीविदां नरशिरःकपालमप्रत्यवायहेतुरिति ब्रूयात्, तदा
त्रय्या वक्ष्यमाणेन न्यायेन प्रामाण्योपगमादागमविरोधः, तदीयस्पर्शस्य त्रय्यां
निषेधेन208 प्रत्यवायहेतुत्वनिश्चयात् । अपि चागमानपेक्षोऽनुमानेन शौचं नरशिरः
कपाले व्यवस्थापयन् प्रष्टव्यो जायते—शुचि नरशिरःकपालमिति कोऽर्थः ? ननु
40 य एव वाक्यात् प्रतीयते स एवार्थः, तत् किं पृच्छ्यत इत्यत आह—विशेषस्य
नरशिरःकपालस्य शौचविधानमेतत् । ततः किमित्यत आह—विशेषविधानं च
209शेषप्रतिषेधपरं लोके दृष्टम्, यथा दक्षिणेन चक्षुषा पश्यतीति उक्ते न210 वामेनेति
गम्यते । तदिह यदि शुचि नरशिरःकपालम्, किमन्यदशुचीति वक्तव्यम्211 । न हि
नरोच्चारादीनामशुचित्वे प्रमाणमन्यदस्त्यागमात् । आगमप्रामाण्यं च न मन्यस इति
भावः । अथ त्रयीविद्वेषादनुमानपक्षपातिना त्वया सर्वमेव नरविट्कपालादि शौचपक्षे
निक्षिप्यत इत्याह—अथ सर्वमेव शुचि । परिहरति—दृष्टान्तो नास्ति । कुतः
सर्वस्य पक्षीकृतत्वात् । चोदयति—अथानुमानविरुद्धं कस्मादनुमानं न
भवतीति ।
न खलु प्रमाणत्वेन प्रत्यक्षागमाभ्यामनुमानस्य कश्चिद् विशेषो येन तौ
बाधकावनुमानस्य नानुमानमिति212 भावः । परिहरति—एकस्मिन्ननुमान
द्वयसमावेशाभावात् ।
अयमभिसन्धिः—यत् तावदनुमानं पूर्वप्रवृत्तं तेन बाधित
विषयं तद्बलभावि पश्चात्तनमनुमानं213 न स्वकार्याय पर्याप्तम्, यथोक्तमश्रावणः
शब्दः कृतकत्वाद् घटादिवदित्यस्यानुमानस्यानुमानविरोध214 इति । लब्धस्वरूपं हि
वस्तु क्वचित् किञ्चिन्निषिध्यते, न तु ज्ञानाकारालीके बहिरिति215 तृतीये निवेदयिष्यते ।
तदिह श्रावणत्वं शब्दस्य निषेधता पूर्वं श्रवणमिन्द्रियमतीन्द्रियं216 तद्ग्राह्यत्वं च
वस्तुनी अनुमातव्ये शब्दोपलम्भलक्षणेन कार्येण । तथा चैतेनैवानुमानेनापहृत
विषयमश्रावणत्वानुमानं चरममन्वयव्यतिरेकसंपन्नमपि न स्वोचितं कार्यं जनयति ।
एवं तनुभुवनादीनां न कर्तेश्वरोऽशरीरित्वान्मुक्तात्मवत् प्रयोजनाभावादित्याद्यपीश्वर
धर्मिग्राहिमूलानुमानेनापहृतविषयतया न्यायाभासं वेदितव्यम् । तस्मात्
परस्परानपेक्षसमानकालप्रवृत्तिसमर्थानुमानद्वयसमावेशाभावाभिप्रायमेतदुक्तम् ।
न ह्यनयोरन्यतरद् बाध्यं बाधकं वा संभवति, किं तु मिथः सत्प्रतिपक्षतया न प्रमां
41 कुरुतः । कस्मात् पुनर्न समावेशोऽनुमानयोः ? असमावेशे वा कुतः सत्प्रतिपक्षते
त्यत आह—न ह्यन्वयव्यतिरेकसम्पन्ने217 इति । इहान्वयव्यतिरेकग्रहणेन समान
बलयोरन्वयव्यतिरेकपक्षधर्मत्वासत्प्रतिपक्षत्वान्युपलक्षितानि । एतैः सम्पन्नयोर्यदि
समावेश एकस्मिन् विषये भवेत् तत एकतरस्य बाध्यत्वं बाधकत्वं वा गम्येतापि ।
न त्वेतदस्ति, असत्प्रतिपक्षतासम्पत्तेरभावादिति । उपसंहरति—तस्मान्नानु
मानविरुद्धम्
अनुमानं तुल्यबलम्, अपि तु सत्प्रतिपक्षमित्यर्थः । प्रत्यक्ष
मप्युनमेयविरुद्धसाधनादनुमानस्य प्रतिपक्ष इति सत्प्रतिपक्षतयान्वयव्यतिरेकादि
सम्पन्नस्यानुमानस्य न प्रत्यक्षेण तद्विरुद्धार्थोपसंहारिणा समावेश इति न बाध्य
बाधकभाव इत्यमिप्रायेण चोदयति—प्रत्यक्षविरोध्यपीति । परिहरति—न नेति ।
तुल्यबलौ हि मिथः प्रतिपक्षौ भवतः न तु दुर्बलोत्तमबलौ । न हि भवति तरक्षुः
प्रतिपक्षो हरिणशावकस्य, किं तु समरकण्डूनिघ्नविषाणकोटिसमुल्लिखितगण्ड
शैलस्य विपिनमहिषस्य । तस्मात् पूर्वभावि प्रत्यक्षमनन्यथासिद्धं सदसत्प्रतिपक्षम
नुमानं समानविषयसमावेशाद् बाधत इति युक्तमित्यर्थः ।


चोदयति—अथोपमानविरुद्धमनुमानं कस्मान्न भवति ? गोसदृशो गवय
इत्यारण्यकस्य वाक्यं श्रुत्वा यदा नागरको वनं गतो गोसदृशं पिण्डमुपलभते,
तदास्य वाक्यार्थानुभवाहितसंस्कारप्रबोधजनितस्मृत्यपेक्षं218 गोसादृश्यज्ञानमुपमानं
पुरोऽवस्थितस्य पिण्डस्य गवयशब्दवाच्यत्वज्ञाने219 प्रमाणम् । तत्र यदि कश्चित्
प्रमाणयेत् नैष पिण्डो गवयशब्दवाच्यो गोपिण्डसादृश्याद् गोपिण्डान्तरवदिति,
तदिदमनुमानमुपमानेन बाधितविषयमस्त्वित्यर्थः । संप्रतिपत्तिरुत्तरम्—220नोपमान
विरुद्धं
न भवतीत्यनुषज्यते । अस्ति चेत् कस्मान्नोक्तमित्यत आह—पूर्वप्रमाण
विरोधानुविधानान्नोक्तमिति शेषः । तद् दर्शयति—उपमानविरोध इति । स्वफलद्वारा
शाब्दं प्रमाणं दर्शयति—आगमेति । स्वफलद्वारैव प्रत्यक्षं प्रमाणं दर्शयति—
42 सारूप्यज्ञानमिति । उपसंहरति—प्रत्यक्षागमयोर्विरोधात् विरोधाभिधानाद्221 उक्तं
तद्
उपमानविरुद्धमनुमानमिति ॥


भाष्यमनुभाष्याक्षिपति—तत्र वादजल्पाविति । प्रयोजनस्वरूपोपयोगाभि
धानानन्तरं दृष्टान्तपदे व्याख्यातव्ये तदुल्लङ्घनेन वादजल्पयोः कोऽवसर इत्यर्थः ।
अवसरमाह—तेनानेनेति । प्रयोजनव्याख्यानाङ्गमेवेदं न वादजल्पव्याख्याङ्ग
मित्यस्त्यवसर इति भावः । तत्रशब्दार्थं व्याचष्टे—तस्मिन्न्यायाभासे इति ।
वादजल्पकथयोर्हि न द्वयोर्वादिप्रतिवादिनोः साधने समीचीने संभवतः, वस्तुनि
विरुद्धधर्मद्वयसमावेशाभावात् । तस्माद् द्वयोरेकस्य न्याय एकस्य तु न्यायाभास इति
वादजल्पाभ्यां विविच्यते । न्यायाभास इति तु सन्निधानादुक्तम्, सन्निहितार्थत्वात्
सर्वनाम्न इति । वितण्डा तु परीक्ष्यते । सप्रयोजना निष्प्रयोजना वेति । तुशब्दः
प्रसिद्धप्रयोजनाभ्यां वादजल्पाभ्यां व्यवच्छिनत्ति । प्रतिपक्षस्थापनाहीना हि
वितण्डोच्यते । तत्र स्थापनाहीनत्वात् प्रतिपक्षहीनेति प्रतीयते । 222न खलु स्थापनाभावे
स्थाप्यसंभवः । तथा वितण्ड्यते व्याहन्यतेऽनया प्रतिपक्षसाधनमिति व्युत्पत्त्या
परपक्षोपघातेन पारिशेष्यात् स्वपक्षसिद्धिरस्याः प्रयोजनं प्रतीयते । तदेवं सन्दिग्ध
प्रयोजना सती वितण्डा परीक्ष्यते, प्रयोजनवती न वेति । तत्र यदि निष्प्रयोजना ततो
न सर्वा विद्याः, सर्वाणि कर्माणि, तन्मुखेन च सर्वे प्राणिनः प्रयोजनेन व्याप्ताः,
वितण्डाया एव कर्मरूपाया विद्यारूपाया निष्प्रयोजनत्वात् । अथ प्रयोजनवती, तत
उपपन्ना प्रयोजनव्याप्तिः । किं तावत् प्राप्तम् ? तत्र केचिद् ब्रुवते निष्प्रयोजना
वितण्डेति । स्थापनाहीनतया तावत् स्थाप्यः पक्षो नास्ति । अवयवव्युत्पत्त्यापि
परसाधनाविघातः प्रतीयते । न च तावन्मात्रेण223 स्वपक्षसिद्धिरस्ति । न हि
पर्वतनितम्बवर्तिनि धूमे असिद्धत्वादिना दूषिते वह्नेस्तत्राभावो निश्चीयते ।
तदिदमुक्तम्—दूषणमात्रत्वादिति । तमिमं निष्प्रयोजनवितण्डावादिनं
प्रत्याह—तच्च नैवमिति । परसाधनदूषणेनास्य पारिशेष्यात् स्वपक्षः224 सिध्यतु मा
43 वा सैत्सीत् । स तु स्वपक्षसिद्ध्यैव प्रयोजनेन प्रतिपक्षसाधनमाहन्तीति भावः ।
तदनेन यदि प्रयोजनमनुयुक्त-इत्यादि भाष्यं व्याख्यातम् । अथ न
प्रतिपद्यत
इत्यादि भाष्यं व्याचष्टे-अथ पक्षमपीति । अथापीत्यादि भाष्यं व्याचष्टे
अथ परपक्षेति नास्तिको हि सदसदुभयानुभयरूपतया न विचारं सहन्त225 इति
प्रमेयाणि सर्वथा दूषयति । तदयं परपक्षप्रतिषेधमात्रप्रयुक्तः प्रवर्तते । न त्वस्यास्ति
पक्षो न च स्थापना226 । तयोरपि प्रमेयपक्षपातितया दूष्यत्वादित्यर्थः227एतदपीत्यादि
भाष्यं व्याचष्टे—तादृगेवैतत् । एतद्विभजते—एतस्मिन्नपि पक्षे चतुर्वर्गं चेत्
प्रतिपद्यते सोऽस्य पक्षः ।
प्रतिपत्तिरभ्युपगमः । यद्यपि स्थाप्य एव पक्षः, तथापि
तन्नान्तरीयकतया अभ्युपगममात्रेण चतुर्वर्गोऽपि पक्ष उक्तः । कश्चतुर्वर्ग इत्यत
आह—चतुर्वर्ग इति । एष साधनवादी ज्ञापयति—अहं वैतण्डिको जाने अनेन
पञ्चावयवेन साधनवाक्येनेदं228 साध्यं ज्ञाप्यत इति चतुर्वर्गः । तत्प्रतीत्या खल्वस्य
वैतण्डिकस्य परपक्षनिषेधः प्रयोजनं सिध्यति । तथा च न निष्प्रयोजनोऽयं
वैतण्डिक इत्यर्थः । द्वितीयं कल्पं दूषयति—अथ न प्रतिपद्यत इति । चतुर्वर्गना
न्तरीयकत्वाद् दूषणमपि न प्रतिपद्यते229 इत्युन्मत्तवदुपेक्षणीय इत्यर्थः । अपरमपि
नास्तिक वैतण्डिकं प्रति दोषमाह—प्रतिपक्षेति । असिद्धविरुद्धादिदोषो वाक्यस्य
वैतण्डिक प्रयुक्तस्यार्थः । तं यदि प्रतिपद्यते सोऽस्य पक्षः । अथासिद्धविरुद्धादीनां
सद्भावाभ्युपगमे230प्रमेयमध्यपातिनां प्रमेयमात्रविचारासहत्वाभ्युपगमो विघटत इति
स्ववाक्याभिहितमेवासिद्धविरुद्धादि न प्रतिपद्यते, पूर्ववद्दोषः । नायं लौकिको न
परीक्षक इति । तस्माद् वितण्डापि प्रयोजनवतीति नाव्यापकं प्रयोजनमिति सिद्धम् ।
सोऽयं प्रसक्तानुप्रसक्तिवादः प्रयोजनव्याख्याङ्गमित्याह—उक्तं प्रयोजनमिति ।


दृष्टान्तपदव्याख्यानपरं भाष्यमनुभाषते—प्रत्यक्षविषय इति । आक्षिपति
किमुक्तं भवतीति । न तावद् यो यः प्रत्यक्षविषयः, स सर्वो दृष्टान्तः, अदृष्टान्तस्यापि
44 प्रत्यक्षविषयत्वात् । नापि यो दृष्टान्तः स सर्वः प्रत्यक्षविषयः, आगमादिविषयस्यापि
दृष्टान्तत्वात् । तस्मादयुक्तमेतदित्याक्षेप इति । तत्समाधानभाष्यम्—यत्रेति । तद्
व्याचष्टे—लौकिकपरीक्षकाणं दर्शनविघातहेतुरिति । एतच्च क्वचिल्लौकिक
परीक्षाकाणाम् 231क्वचित् परीक्षकाणामिति मन्तव्यम् । अन्यथा यदप्रसिद्धं लौकिकानां
केवलं पण्डितरूपवेदनीयं परमाण्वादि तस्यादृष्टान्तता स्यात् । अत्र च यो दृष्टान्तः
स एवम्, न तु य एवं स दृष्टान्त इति द्रष्टव्यम् । एवंभूतव्याख्यानस्य प्रयोजनं
दर्शयति—एवं चेति । तद् विभजते—दर्शनाविघातेति । न केवलं प्रमेयविरोधः
सूत्रविरोधश्चेत्यत आह-ततश्चोदाहरणसूत्रं व्याहन्यते । यत् तेषु तेषु शास्त्रप्रदेशे
ष्वतीन्द्रियोदाहणसूत्रं सिद्धान्ते पूर्वपक्षे वा यथा,
मन्त्रायुर्वेदप्रामारण्यवत् २॑१॑६८
अणुश्यामतानित्यत्ववत् ३॑२॑७१
इत्येवमादि, तद् व्याहन्यते । न तूदाहरणलक्षणसूत्रम् । तद्धि प्रत्यक्षविषय
दृष्टान्तत्वेऽप्युपपद्यत एव । तस्माद् भाष्ये प्रत्यक्षवचनं दृष्टान्तविषयप्रमाणदार्ढ्यं
लक्षयति । प्रत्यक्षमूलत्वाद् वा प्रत्यक्षो दृष्टान्तः, अन्यथानवस्थाप्रसङ्गादिति232 । सोऽयं
दृष्टान्तः प्रमेयेऽन्तर्भवन्नेवमर्थं पृथगुक्त इत्याह—सोऽयमिति । न्यायस्य पञ्चा
वयवात्मकस्य वचनसमूहस्य दृष्टान्तो मूलम्, अतस्तस्य पृथगुपदेशः । अतश्चास्य
पृथगुपदेशो यत्—सति तस्मिन्निति । अनुमाननिमित्तत्वमाह—पूर्वं प्रत्यक्षेति ।
दृष्टान्तधर्मिणि दृढतरप्रमाणावधारितमित्यर्थः । शाब्दमूलतां दृष्टान्तस्य दर्शयति—पूर्वं
ज्ञातं चार्थमिति ।
संबन्धग्रहणविषयोऽर्थो दृष्टान्तः, 233संबन्धग्रहणं च शाब्दस्यापि
ज्ञानस्य निमित्तं प्रथमश्राविणः 234शब्दादर्थज्ञानाभावात् । तस्मादस्ति शाब्देऽपि
दृष्टान्तस्योपयोग इति । अपरमपि पृथगुपादानप्रयोजनमाह—नास्तिकस्येति । अप्रपञ्चने
हेतुमाह—तदुक्तं भाष्य इति ॥


45

सिद्धान्तपदविवरणभाष्यं व्याचष्टे—अभ्युपगमेति । तद्विभजते—अभ्युपगम
इदमित्थम्भूतं चेति ।
तद्विभजते—इदमितीति । इदमिति हि धर्मिविषयं सिद्धान्तं
दर्शयति, धर्मी सर्वतन्त्रसिद्धान्तविषयः । इत्थमिति प्रतितन्त्राधिकरणाभ्युपगम
सिद्धान्तविषयं दर्शयति । व्यवस्थायामुपलक्षणतया प्रतितन्त्रसिद्धान्तमात्र
मुदाहरति—इदं सांख्येष्वेवेति । उपलक्षणतामुदाहरणस्याजानानश्चोदयति—सर्व
तन्त्रेति ।
परिहरति—योऽयमिति । अभ्युपगमव्यवस्थितिरनभ्युपगमाद् व्यवच्छिनत्ति ।
न तु पुरुषविशेषे व्यवस्थापयतीति भावः235 । अस्यापि प्रमेयान्तर्गतस्यापि सतः
पृथगुपादानप्रयोजनमाह—तस्य प्रमेय इति । तत्र सर्वतन्त्रसिद्धान्तसिद्धस्तावद्
विप्रतिपन्नानामपि वादिनां धर्मी, तस्य सर्वतन्त्रसिद्धान्तसिद्धस्य विशेषेषु प्रति
तन्त्रसिद्धान्ताः प्रवर्तन्ते । तथा हि यदि घटो नाम न सर्वतन्त्रसिद्धान्तसिद्धः,
किमाश्रया अवयवी वा परमाणुसमूहो वा ज्ञानाकारो वा प्रधानपरिणामो वा
ब्रह्मपरिणामो वा तद्विवर्तो वेति प्रतितन्त्रसिद्धान्ताः प्रवर्तन्ते ? कथं च
प्रतितन्त्रसिद्धान्ताश्रया वादजल्पवितण्डाः प्रवर्तन्ते ? किमाश्रयश्च न्यायः स्यात् ?
तथा यद्यधिकरणसिद्धान्तो न भवेत्, कथं साध्यसामान्यव्याप्तं साधनसामान्यमिति
साधनविशेषात् साध्यविशेषो गम्येत ? तस्मादस्ति प्रमेयस्यापि सिद्धान्तस्य
पृथगुपादानप्रयोजनम् । अभ्युपगमसिद्धान्तं चोपरिष्टाद् विचारयिष्यति वार्त्तिक
कृदिति तत्प्रयोजनमिहास्माभिर्नोक्तमिति ॥


क्रमप्राप्तानवयवानाह—अथावयवाः । ननु यथा तन्तवः पटस्य समवायिकारणं
किं तथैवैते प्रतिज्ञादयो वाक्यस्य ? नो खलु गगनगुणा वर्णाः समवायिकारणतां
प्रतिपद्यन्त इत्याह—वाक्यैकदेशा इति । अवयवा इवावयवाः, न पुनः
समवायिकारणम् । यथा ह्यवयवाः समुदायिन एकस्मिन्नवयविनि कार्ये धारयितव्ये
च, एवमेकस्मिन् विवक्षितार्थप्रतिपादने236 प्रतिज्ञादयोऽवयवा वाक्यस्य समुदायस्य
समुदायिन इति । ननु वर्णानामाशुतरविनाशिनां क्रमवतामेककालत्वाभावे
46 समुदायाभावात् कुतस्तत्समुदायो वाक्यम्, कुतश्चैकदेशतेत्याशयवानाक्षिपति—किं
पुनर्वाक्यम् ?
उत्तरम्—पूर्वपदस्मृत्यपेक्षोऽन्त्यपदप्रत्ययः स्मृत्यनुग्रहेण
प्रतिसन्धीयमानो विशेषप्रतिपत्तिहेतुर्वाक्यम् ।
विशिष्यत इति विशेषः पदार्थ
एकः, क्रिया वा कारकं वा प्रातिपदिकार्थो वा पदार्थान्तरविशिष्टो वाक्यार्थः । यथा
सोमेन, यजेत गोदोहनेन पशुकामस्य, यस्य पिता पितामहो वा सोमं न पिबेत् स
व्रात्य इति । तस्य विशेषस्यैकस्य प्रतिपत्तिहेतुः । 237तदेवं समूहनिबन्धनं पदानामेककार्यत्वं
सूचयति । को विशेषप्रतिपत्तिहेतुरित्यत उक्तम्—अन्त्यपदप्रत्ययः । अन्त्यं विशेष्यं
विशेषणपूर्वकत्वात् । तस्य पदम् । न च तदविदितं सत्तामात्रेण चक्षुरादिवद् विशेष्यं
प्रतिपादयतीत्यत उक्तम्—प्रत्यय इति । प्रतीयमानं विशेष्यवाचि पदं विशेष्यं
बोधयति । प्रतीतिश्च नानुभवः, अपि तु स्मृतिः । न हि क्रमवद्वर्णसमुदायः 238पदं
श्रवणेन्द्रियानुभवगोचरः संभवति, संभवन्ति तु प्रत्येकं वर्णाः । न चैते प्रत्येकं पदम् ।
न च पूर्ववर्णस्मृतिनिचयसहितोऽन्त्यवर्णानुभवः श्रोत्रज इति युक्तम्, स्मृतीनां
स्वकार्यसंस्कारविरोधिनीनामसहभावात् । विनश्यदविनश्यदवस्थयोस्तूपान्त्या
न्त्यवर्णस्मृत्यनुभवयोः स्यात् । न चैतावतार्थप्रत्ययः पूर्ववर्णस्मृतीनां तिरोभावात् । न
239पूर्ववर्णानुभवजनितसंस्कारसहकारिणः श्रवणादेव लब्धजन्मनः प्रत्यय
स्यैकस्याध्यस्ततत्स्मृत्यनुभवरूपवैचित्र्यस्य सदसद्वर्णावगाहिनो विषयभावमापन्ना
वर्णा अर्थधियमादधतीति साम्प्रतम्, संबन्धसंवेदनाहितसंस्कारोद्बोधसमयजन्मना
240स्वजनितेन संस्कारेण संबन्धस्मृत्युत्पत्तिसमये विनाशात् पदार्थावबोधकत्वानुप
पत्तेः । तस्मात् स्मृतिरेव प्रत्ययः । अत+एवाध्ययनसमये गुरुमुखाद् गृहीतो वेद
राशिर्वेदाङ्गोपाङ्गज्ञानसंस्कृतेन स्मर्यमाण एव तस्यार्थं बोधयति । एवं च यदा पदार्थ
प्रत्यायन एव पदानुभवो न कारणम्, तदा वाक्यार्थज्ञाने नानापदार्थस्मरणाकांक्षा
योग्यतासन्निधानावधारणादिव्यवहिते कैव कथेति । यदि तर्हि विशेष्यपदमेव
स्मर्यमाणं विशिष्टमर्थमवगमयति कृतं पदान्तरैः, तत एव वाक्यार्थप्रतिपत्तेरित्यत
47 उक्तम्—पूर्वपदस्मृत्यपेक्षः । पूर्वं विशेषणं तत्पूर्वकत्वाद् विशेष्यप्रतीतेः । तस्य
पदं स्मर्यमाणपूर्वपदापेक्षः । यद्यपि स्मरणानि न सह संभवन्ति तथाप्येक
स्मृतिसमारूढानि वा पदानि निरन्तरस्मृतिसंतानसमारूढानि वा परस्परापेक्षाणि ।
तथा च स्मर्यमाणं विशेष्यपदं विशेषणपदापेक्षं विशिष्टमर्थमवगमयतीति ।


स्यादेतत् । पदमाला चेत् स्मर्यमाणा वाक्यार्थबोधनी, कृतं तर्हि पदार्थबोधनेन241
कृतं च पदतदर्थसंबन्धबोधनेनेत्यत242 उक्तम्—स्मृत्यनुग्रहेणेति । प्रत्येकं पदेभ्यो
याः पदार्थस्मृतयस्तदनुग्रहेण । एतदुक्तं भवति यद्यपि वाक्यार्थबोधनाय पदमाला
प्रवृत्ता, तथापि पदार्थस्मृतिरवान्तरव्यापारभूता अपेक्षते काष्ठानीव पाकप्रवृत्तानि
ज्वलनमवान्तरव्यापारम् । न च पदान्यगृहीतसङ्केतानि पदार्थान् स्मारयन्तीति उपपन्ना
पदार्थस्मृतिसंबन्धसंवेदनयोरपेक्षेति । यदि हि पदार्थस्मृत्यपेक्षा पदमाला वाक्यार्थ
बोधनी, हन्त दश दाडिमानि षडपूपा भवन्तीत्येवमादीनामपि वाक्यार्थबोधकत्वं
स्यादित्यत आह—प्रतिसन्धीयमानः । प्रतिपदं सन्धानं घटनं प्रतिसन्धानम् । तच्च
स्वार्थद्वारेणाकांक्षायोग्यतासत्त्यधीनम्243 । न च दशदाडिमादिवाक्यादिषु तदस्तीति न
ततो वाक्यार्थावबोध इत्यर्थः । तदेवमेकस्मृतिसमारोहेण एकार्थावच्छेदेन च पदानां244
समूहो वाक्यम् । तस्य भागा एकदेशा इति । यावतीत्यादि भाष्यमवतारयति—ते
कियन्तः ?
भाष्यव्याख्यानेनोत्तरम्—यावद्भिरिति । पृच्छति—केति । न हि
समाप्तेर्निष्पत्तेरन्या सिद्धिरस्तीत्यभिप्रायः । उत्तरम्—पदार्थस्येति । धर्मिणः
सिषाधयिषितधर्मविशिष्टत्वं वास्तवमित्यर्थः । 245समाप्तिं पृच्छति—केति । उत्तरम्—
विशेषेति । वास्तवो धर्मः सिद्धिः, तद्गोचरस्तु विनिश्चयः पुरुषधर्मो निष्पत्तिरिति
विशेष इत्यर्थः । कियद्भिः किमभिधानैश्च विभागैः सिद्धिः परिसमाप्यत इत्या
शङ्क्य भाष्यकृतोक्तम्—तस्य पञ्चेति । तद् व्याचष्टे—समाख्येति । भाष्य
मनुभाष्याक्षिपति—तत्रागम इति । न ह्यागमवत् प्रतिज्ञावचनं निश्चायकम्,
48 हेतुवचनादिवैयर्थ्यात् । निष्पादितक्रिये कर्मणि साधनस्य साधनन्यायातिपातादिति ।
समाधत्ते—आगमाधिगतस्येति । आत्मादिप्रमेयप्रतिपादनोद्देशेन हि शास्त्रमेतत्
प्रवृत्तम् । तन्नान्तरीयकतया न्यायं व्युत्पादयत् तमेव व्युत्पादयेत्, य आत्मादेः
प्रमेयस्य साक्षान्निश्चायकः, तत्प्रतिपादकागमप्रामाण्यनिश्चायको वा । तस्य च
न्यायविशेषस्याद्योऽवयवः प्रतिज्ञा, आगमार्थविषया साक्षात्, तद्विषयागम
प्रामाण्यप्रतिपादकस्य च परम्परया । तस्मात् आगमः प्रतिज्ञा । आगमोपचारस्य च
प्रयोजनमिदं 246यदर्थसंवादेनागमेनानुगृह्यते न्यायः सप्रयोजनश्च भवति, आगमार्थज्ञानस्य
निःश्रेयसहेतुभावेन निरूढत्वात् । तस्माद् यद्यपि न न्यायमात्रवर्तिनी प्रतिज्ञा
आगमः, तथापि प्रकृतन्यायाभिप्रायेणैतद् द्रष्टव्यम् । तथा 247चागमार्थसंबन्धेन प्रति
ज्ञायाः कल्पितविषयत्वमपि पराकृतं वेदितव्यम् । यदाहुरेके—सर्वोऽयमनुमानानुमेय
व्यवहारो बुद्ध्यारूढेनैव धर्मधर्मिभावेन248 न बहिःसदसत्त्वमपेक्षत इति ।


तथानुमानस्य न्यायानुग्राहकत्वं हेतुवचनस्यानुमानत्वोपचारेण भाष्यकारेणो
क्तम्—हेतुरनुमानमिति । तत् 249खल्वनुमानप्रतिपादकं वचनं विषयतयानु
मानेनानुग्रहीतव्यम् । न च लिङ्गदर्शनमात्रमनुमेयप्रतिपत्तिहेतुः250, अपि तु संबन्ध
स्मृतिसहकारि । न च हेतुवचनमात्रात् सहकारितावगम्यते । तस्मान्न लिङ्गवचनम
नुमानप्रतिपादकमिति कथमनुमानत्वोपचार इत्यह आह—एवं लिङ्गदर्शनमात्रे
दृश्यमाने लिङ्गरूपे संबन्धस्मरणरहिते हेतूपचारात् अनुमानत्वोपचारात्
हेतुरनुमानमित्युक्तं भाष्यकृता । तदेव विभज्यते—यत्तु द्वितीयं लिङ्गदर्शनम् ।
संबन्धग्रहणसमये लिङ्गदर्शनं प्रथमम्, तदपेक्षया साध्यधर्मिणि लिङ्गदर्शनं
द्वितीयम्, तत्संबन्धस्मृतिव्यक्तिहेतुभावात् । स्मर्यतेऽनयेति स्मृतिः संस्कारः ।
तस्य व्यक्तिः कार्याभिमुखीकरणम्, तत्र हेतुभावात् । क्वचित् पाठः—संबन्ध
स्मृतिहेतुव्यक्तिहेतुभावादिति । स तु सुगम एव । अतो हेतुरित्युच्यते251 । एतदुक्तं
49 भवति, यत् तद्252 द्वितीयं लिङ्गदर्शनं शुद्धमप्यापाततः संबन्धस्मृतिहेतुभावात्
संबन्धस्मृतिसहकार्येव । तथा चानुमानम् । एवं च तत्प्रतिपादकस्य वचस
उपपन्नोऽनुमानत्वोपचार इति सिद्धम् । एवं च वास्तवेन लिङ्गेन संबन्धात् तद्वचनस्य
बुद्धिविकल्पितलिङ्गविषयत्वं परास्तं वेदितव्यम् । एवमन्येष्वप्यवयवेषु
वक्ष्यमाणेष्वेतदेव प्रयोजनं योजनीयमिति । उदाहणं प्रत्यक्षमिति भाष्यम् ।
तद्व्याचष्टे—स्मृतिविषयस्येति । यत्र प्रत्यक्षे विषये पूर्वं व्याप्तिर्गृहीता तस्य
स्मृतिरिति स्मृतिविषयस्य प्रत्यक्षतः पुनरुपदर्शनात् अविप्रतिपत्त्या पुनः स्मरणात् ।
तत्स्मारकं वचनमुदाहणं प्रत्यक्षम्, मूलभूतप्रत्यक्षप्रमाणसमुत्थत्वादिति । 253कःपुन
रुपमानार्थ
इति । प्रत्यक्षमिव प्रत्यक्षमित्यत्रेवकारे तत्रोपमार्थः क इत्यर्थः । एतदेव
विभजते—यस्मादिति । उपमानमुपनय इति भाष्यम् । तद् व्याचष्टे—यथा
तथेत्युपमानैकदेश
इति । उपनयो हि तथा चैतदिति प्रवर्तमान उदाहरणस्थं
यथाशब्दार्थमपेक्षत इति यथा तथेति प्रवर्तत इति । किं पुनरुपमानं यस्यायमेकदेश
इत्यत आह—उपमानं खलु यथा गौस्तथा गवय इत्युपदेशोपयोगे । उप
योगस्तदर्थविषयोऽनुभवः । तस्मिन् सति पश्चाद् वनं गतो नागरकः प्रत्यक्षेणादृष्ट
पूर्वं पिण्डं पश्यति । स्मरति चोपदेशार्थम् । पिण्डस्य च पुरोवर्तिनः स्मर्यमाणेन गवा
सादृश्यं प्रत्यक्षेणैव पश्यति । तदेवंभूतं सारूप्यज्ञानं गवयशब्दवाच्योऽयं पिण्ड इति
प्रतीतिहेतुरुपमानम् । तदेतस्योपमानस्योपदेशार्थस्मरणगवयपिण्डगोसारूप्या
प्रत्यक्षरूपस्यैकदेशे सारूप्ये यो यथातथाभावः स उपनयेऽप्यस्तीत्येतावतो
पमानत्वोपचार उपनय इत्यर्थः । सोऽयं सर्वप्रमाणविनिवेशेन परमो न्यायः स्तूयते ।
निगमनव्याख्यान भाष्यमनुभाष्याक्षिपति—कःपुनरिति । न खल्ववयवानां प्रमाणानां
वा वाक्ये समवायः संबन्धः संभवतीति भावः । उत्तरम्—एकवाक्येति । अध्यारोपो
बुद्ध्या प्रतिसन्धानम् । सामर्थ्यं पृच्छति—किं पुनरिति । उत्तरम्—इतरेतरेति ।
सामर्थ्यं हि पदार्थानां धर्मः । इह तु विभज्यमानानामवयवानां तन्मूलानां च
50 प्रमाणानां साकांक्षत्वमेव धर्मः सामर्थ्यम् । तदत्र समस्तरूपसम्पन्नलिङ्गप्रतिपादन
मेकं प्रयोजनं विभज्यमानसाकांक्षत्वं 254चास्तीति सिद्धमेकवाक्यत्वमवयवानामिति
निगमनपदं व्युत्पादयति—निगम्यन्त इति । सोऽयमिति भाष्यमनुभाष्य पृच्छति—कः
पुनः परमशब्दस्यार्थ
इति । उत्तरम्—विप्रतिपन्नपुरुषप्रतिपादकत्वं पञ्चा
वयववाक्यस्य255 परमत्वमिति । एतदेव व्यतिरेकमुखेन प्रतिपादयति—एकैकश256
इति । यद्यपि लोके प्रत्यक्षादीनामेकैकशोऽपि257 विप्रतिपन्नपुरुषप्रतिपादकत्वं तत्र
तत्रोपलभ्यते, तथापि यदेतद् वेदप्रामाण्यमात्मादिप्रतिपादनं च निःश्रेयसोपयोगि,
न तत् पञ्चावयववाक्यादेतच्छास्त्रोपदिष्टोपकरणाद् विना सिध्यतीत्यनेनाभिप्रायेण
द्रष्टव्यम् । अवयवानां पृथगभिधानमाक्षेप्तुं विकल्पयति—किं पुनरवयवा इति ।
विकल्पप्रयोजनं पृच्छति—किं चातः ? उत्तरम्—यदि प्रमाणान्तरमिति ।
समाधत्ते258न प्रमाणान्तरमिति । प्रयोजनान्तरमाह—त एत इति । यत एव
वादादिप्रवृत्तिहेतवोऽत एव तत्त्वव्यवस्थायाश्चाश्रया भवन्तीति । पृच्छति—259
इति । न हि कुण्डमिव वदराणि तत्त्वव्यवस्थावयवानाश्रयतीत्यर्थः ।
उत्तरम्—विशेषप्रतिपादकत्वम् । धर्मिविशिष्टो धर्मो260 विशेषः । विशिष्यत इति
व्युत्पत्त्या तत्प्रतिपादकत्वमवयवानां तत्त्वव्यवस्थाश्रयत्वमित्यर्थः ।


क्रमप्राप्ततर्कपदव्याख्यानार्थं भाष्यमनुभाषते—तर्को न प्रमाणसंगृहीतः ।
प्रमाणपदेन हि चत्वारि प्रमाणानि संगृहीतानि । न चैतेष्वन्यतमस्तर्क इत्यर्थः । अस्तु
तर्हि प्रमाणपदसंगृहीतेभ्यः प्रमाणेभ्यः प्रमाणान्तरमसंगृहीतं प्रमाणपदेन प्रमेयपदेन
वा261 संगृहीताः संशयादयः प्रमेया इत्यत आह—न प्रमाणान्तरम् । भाष्यमनुभाष्य
हेतुमाह—अपरिच्छेदकत्वात् अनिश्चायकत्वात् । तदेव व्यतिरेकमुखेन
दर्शयति262प्रमाणमिति । स्यादेतत् । अपरिच्छेदकत्वमसिद्धं तर्कज्ञानस्य संशया
51 दिवद् गुणत्वेनात्मलिङ्गत्वात् । अन्यथा त्वकिञ्चित्करत्वादुपादानवैयर्थ्यमित्यत
आह—प्रमाणविषयविभागात् त्विति । न हि वयं गुणत्वेनोत्पत्तिमत्त्वेन वा
रूपेणानिश्चायकत्वं तर्कस्याचक्ष्महे, किं तु प्रमाणविषयविभागहेतुतया । न
चैवमस्याकिञ्चित्करत्वमित्यर्थः । पृच्छति—कः पुनरिति । उत्तरम्—युक्तायुक्तेति ।
इदं युक्तमिदमयुक्तमिति ।
इतिकारेण युक्तायुक्तविषयं तर्कज्ञानं परामृशति ।
तदनेन तर्कस्य स्वरूपं दर्शितम् । तस्य व्यापारमाह—यत् तत्र युक्तं भवति संभवति
तदनुजानाति, न त्ववधारयति तर्कः । एतदुक्तं भवति प्रमाणं तत्त्वावधारणाय प्रवृत्तं263
करणतया इतिकर्तव्यतामपेक्षते । तर्कश्च प्रमाणविषययुक्तायुक्तविचारात्मा प्रमाणं
युक्ते तत्त्वे प्रवर्तमानमनुजानन् प्रमाणमनुगृह्णाति । तदनुगृहीतं प्रमाणं तत्त्वनिर्णयाय
पर्याप्तम्264 । न च प्रमाणविषये चेत् तर्कः प्रवर्तते कृतमस्य प्रमाणानुज्ञया, नन्वयमेव
निश्चायकः कस्मान्न भवतीति साम्प्रतम्, तस्य प्रसङ्गतया पारतन्त्र्येण स्वयमसाधनत्वात् ।
अस्ति हि प्रसङ्गो न प्रसङ्गो हेतुः । तथा हि प्रत्यक्षमेव तावद् भूतले प्रवर्तमानं
तद्विशेषणतया घटाभावेऽपि प्रवर्तमानं यद्यत्राभविष्यद् घटो भूतलमिवाद्रक्ष्यत, तेन
सह तुल्यदर्शनयोग्यत्वात् । न च दृश्यते । तस्मान्नास्तीति 265तर्केणानुज्ञायमानं
घटाभावविशिष्टे भूतले प्रवर्तते केवलमेवेदं भूतलं नेह घट इति । एवं
स्वर्गकामो यजेत
इति शब्दोऽपि प्रवर्तमानः परमाप्तस्य भगवत ईश्वरस्य नियोगो नास्वर्गफलायां
यागभावनायामवकल्पत इति समानपदेनोपात्तोऽपि दुःखतया धात्वर्थः साध्य इति
न युक्तम्266 । भिन्नपदोपात्तोऽपि पुरुषविशेषणमपि स्वर्ग एव भावनाफलं युक्त इति
तर्केणानुज्ञायमानः प्रवर्तते । न च यद्यभविष्यद्घट इति वा यद्यभविष्यद् धात्वर्थः
साध्य इति वा क्रियातिपत्तिरस्ति, यदाश्रयानिष्टप्रसङ्गेनायुक्तत्वमितरथा तु युक्तत्वम्,
तत् तर्केण निश्चीयते । तस्मान्न प्रमाणम् । निश्चयाय तु प्रवृत्तं267 प्रमाणं त
52 द्विषयविवेचनेनानुगृह्णन्नितिकर्तव्यतात्वेनोपयुज्यते । यथोक्तम्—

मीमांसासंज्ञकस्तर्कः सर्ववेदसमुद्भवः ।

सोऽतो वेदो रुमाप्राप्तकाष्ठादिलवणात्मवत् ॥

पूजितविचारवचनो हि मीमांसाशब्दः । अयुक्तप्रतिषेधेन युक्ताभ्यनुज्ञानं तर्कः268
प्रमाणेतिकर्तव्यतात्वेन च प्रमाणाद् वेदादभेद269 उक्तः । सोऽतो वेद इत्यङ्गाङ्गिनोर
भेदविवक्षया इतिकर्तव्यतात्वं चास्य साक्षाद् दर्शितम् ।
धर्मे प्रमीयमाणे हि वेदेन करणात्मना ।

इतिकर्तव्यताभागं मीमांसा पूरयिष्यति ॥

इति सर्वमवदाम् । तस्योदाहारणं भाष्ये कर्मेति । कर्मकारणकमपूर्वं धर्माधर्माविति
यावत्, कार्ये कारणत्वोपचारात् । एतदुपपादनाय पृच्छति—कथं पुनरिति ।
निकायविशिष्टाभिरपूर्वाभिः270 शरीरेन्द्रियबुद्धिवेदनाभिरभिसंबन्धो जन्म, तस्य कथं
कर्मनिमित्ततेत्यर्थः । अत्र प्रमाणमनुमानमाह—भेदवत्त्वात्, विचित्रत्वादित्यर्थः ।
पृच्छति—कःपुनरिति । भेदमाह—सुगतिरिति । प्रमाणमुक्त्वा तस्येतिकर्तव्यताभूतं
तर्कमवतारयति—सोऽयं भेद इति । यद्येकं निमित्तं स्याद् वैवित्र्यं न भवेत् । न
ह्यभिन्नात् कारणात् कार्यवैचित्र्यमुपपद्यते, तस्याकस्मिकत्वप्रसङ्गात् । अत
उक्तम्—अनेकमिति । नन्वनेकं यागादिब्रह्महत्यादिक्रियारूपं कारणमस्तु
कृतमपूर्वैरित्यत उक्तम्—अवस्थितम् । यागादिका तु किया आशुतरविनाशिनी न
चिरभाविने स्वर्गाय कल्पत इत्यर्थः । अवस्थितं चेद् यागाद्याहितमपूर्वं धर्मोऽस्तीति
सदैव सुखिना भवितव्यम् । एवमधर्मोऽस्तीति सदैव दुःखी स्यादिति271 सुखदुःखयोः
कादाचित्कत्वं व्याहन्येत । न ह्यवस्थितात् कारणादनवस्थितं कार्यमित्यत
उक्तम्—अनित्यम् । 272न ह्यवस्थानं नित्यतां ब्रूमः, किं तु तावदनेन 273स्थातव्यं न
यावदन्त्यसुखदुःखसंविज्ञानं जनयति, अथ नश्यतीति । ननु भिन्नानि सन्त्वपूर्वाणि,
53 तथापि सर्वाणि 274सर्वात्मसमवेतानि, यथावयवी स्वावयवेषु । तथा च
सर्वसाधारण्यान्नोक्तवैचित्र्योत्पाद इत्यत उक्तम्—एकद्रव्यम् । एकद्रव्यं चेदस्तु
तर्हि सर्वसाधारणे पृथिव्यादौ यत्र क्वचित् । तथापि वैचित्र्यानुपपत्तिरित्यत
उक्तम्—प्रत्यात्मनियतम् । अथ पृथिव्याद्येव कारणं जन्मवैचित्र्ये कस्मान्न
भवतीत्याशयवान् पृच्छति—किं कारणमिति कस्मात् कारणादित्यर्थः ।
उत्तरम्—पृथिव्यादीनामिति । 275मा भूत् पृथिव्यादि, पृथिव्यादिगतं किञ्चिद्
भविष्यतीत्यत आह—पृथिव्यादिगतस्येति । भाष्योक्तप्रमेयत्वे तर्कस्य
हेतुमाह—उपलब्धिविषयत्वादिति ।


तर्कानन्तरं निर्णय उद्दिष्टस्तर्कहेतुकत्वात् । तस्य स्वरूपमाह—निर्णयस्तत्त्वज्ञान
मिति । 276यद्येवमिन्द्रियापातजन्मप्रत्यक्षज्ञानमपि तत्त्वज्ञानमिति निर्णयः स्यादित्यत
आह—प्रमाणानामिति । अनेन पञ्चावयववाक्यमुपलक्षयति । तत्र सतर्काणां प्रमाणानां
समवायात् । परमार्थतस्तु तर्कपूर्वकस्तत्त्वविनिश्चयो निर्णय इति प्रत्यक्षादीनामपि
तर्कसहायानां 277निर्णयफलत्वमिति । स्यादेतत् । धूमादिगोचरेण तत्त्वनिर्णयेन278
वह्न्यादावनुमीयमाने प्रमाणमेव निर्णयो न फलमित्याशयवान् पृच्छति—कदा
पुनरिति ।
विदिताभिप्रायस्योत्तरम्—यदेति । संकलय्य तर्कनिर्णयव्युत्पादनस्य
प्रयोजनमाह—तावेताविति । परीक्षकोऽत्र लोको लोकशब्देनोच्यते, तदितरस्य
तर्कासंभवात् । बुद्ध्वेति परीक्ष्य निर्णयं कृत्वेत्यर्थः । शेषं निगदव्याख्यातम् ।


निर्णयानन्तरं वादव्याख्यानार्थं भाष्यम्—वादः खल्विति । तदनुभाष्योप
पत्तिमाह—वाद इति । नाना प्रवक्तारो यस्मिन् स तथा । एकस्यापि शास्त्रकर्तुः
पूर्वपक्षोत्तरपक्षसाधनदूषणप्रतिपादको वचनसमूहो वादः स्यादिति नानाप्रवक्तृक
इत्युक्तम् । सिद्धान्तभेदानुविधानेन हि द्वावपि स्वसिद्धान्तानुरूपं साधनं दूषणं
चाहतुरित्यर्थः । प्रत्यधिकरणेत्यादि भाष्यमनुभाष्याचष्टे—प्रत्यधिकरणमस्य
54 साधनम् ।
अधिक्रियत इत्यधिकरणं साध्यम्, तदधिकृत्य साधनप्रवृत्तेः । प्रत्यधि
करणं साधनं यस्मिन् वादे स तथोक्तः अस्यैवार्थं निष्कर्ष्टुं पृच्छति—किमुक्तं
भवति ?
निष्कर्षति—उभाभ्यां वादिप्रतिवादिभ्यां स्वस्वसाध्ये साधनं वक्तव्यम् ।
तथा च नानाप्रवक्तृकत्वेन तुल्यत्वेऽपि वादस्य वितण्डायाः प्रत्यधिकरणसाधनत्वेन
भेदः सिद्धो भवति । वितण्डायाः प्रतिपक्षस्थापनाहीनतया प्रत्यधिकरण
साधनत्वाभावात् । तथापि जल्पादभेदो वादस्य, अस्ति हि जल्पस्य
प्रत्यधिकणसाधनवत्वं च नानाप्रवक्तृकत्वं चेति । अत आह—अन्यतरस्मिन्नधि
करणे निर्णय
इति । वादे हि तावद ब्रूते, न यावदन्यतरस्मिन् पक्षे निर्णयो
जातः । तत्त्वभुभुत्सोर्वादिनोर्वादेऽधिकारात् । जल्पे तु पुरुषशक्तिपरीक्षालक्षणेऽ
प्रतिभादिनापि 279पराजयोपपत्तेर्नावश्यं तत्त्वनिर्णयः । तस्मादन्यतरनिर्णयावसानत्वेन
जल्पाद् भेदो वादस्येति सिद्धम् । यथा चैतत्, तथोपरिष्टात् 280उपपादयिष्यते इत्याह
तच्चेति । तस्य स्वरूपं पृच्छति—सोऽयमिति । उत्तरम्—वाक्येति । चोदयति—ननु
चेति ।
वाक्यसमूहश्च ज्ञानं चेति विप्रतिषिद्धमेतदित्यर्थः । परिहरति—नेति ।
साधनोपालम्भग्रहणस्य शब्दविषयत्वादविरोध इत्यर्थः ।


युगपदेव जल्पवितण्डे व्याचष्टे—तद्विशेषाविति । विशिष्येते भिद्येते इति
विशेषौ । तस्माद् वादाद् विशेषौ भिन्नौ । भाष्यनुभाष्य पृच्छति—कः पुनर्विशेषः ।
यद्योगाद् विशिष्टे वादात् जल्पवितण्डे इत्यर्थः । उत्तरम्—अङ्गाधिक्यमङ्गहानिश्च
यथासंख्यम् । तदेव दर्शयति—छलेति । तत् किमिदानीं संशयादिभिरिवात्यन्तवैरूप्यं
वादेन जल्पवितण्डयोः । नेत्याह—एतावता विशेषेण कथामार्गभेद इति । एतावानेव
विशेषो न सर्वथा, कथात्वेन संशयादिव्यावृत्तेन सामान्यविशेषेण त्रयाणाम
प्यभेदादित्यर्थः । अपरमपि भेदहेतुमाह—विषयभेदाच्चेति281 तद्
विभजते—शिष्यादीति । शिष्यमाणोऽत्यन्तविपर्यस्तः दुर्ज्ञानावलेपदुर्विदग्ध इति
यावत् । न त्वेवंभूतः शिष्यादिर्विपर्यस्तोऽप्यनवलिप्तात्वादिति भावः ।


55

क्रमप्राप्तानां हेत्वाभासानां स्वरूपमाह—अन्यतमेति । पञ्चसु चतुर्षु वा
लिङ्गरूपेष्वन्यतमं लिङ्गं धर्ममेकं द्वयं त्रयं वानुविदधाना अहेतवो हेतुवदाभासन्त
इति हेत्वाभासा उक्ताः । निग्रहस्थानेभ्य इति भाष्यमवतारयितुमाह—ते च
निग्रहस्थान
मिति । अवतारयति—निग्रहस्थानेति । अवतार्य दूषियतुमेकदेशिमतेन
व्याचष्टे—यस्मात् किलैत इति । किलशब्दोऽयमरुचौ । तदेतदेकदेशिव्याख्यानं
दूषयति—न, उभयथाप्यसंबन्धात् । किं ये ये निग्रहस्थानेभ्यः पृथगुपदिश्यन्ते, ते
सर्वे वादे चोद्यन्ते ? अथ ये ये वादे चोद्यन्ते ते सर्वे पृथगुपदिश्यन्त इति ?
उभयथाप्यनैकान्तिकत्वात् नाविनाभावलक्षणः संबन्ध इत्यर्थः । तदेतद् विभजते—
वादे चोदनीयत्वमिति ।
कस्माद्282 उभयथाप्यविनाभावाभाव इत्यत आह—यदि
तावदिति ।
तस्मात् नायमविनाभूतो हेतुर्वादे चोदनीयत्वं वा पृथगुपदेशो वा
भाष्यकारेणोक्त इत्युपसंहरति—तस्मादिति । वादे 283चोदनीयत्वादित्युपलक्षणम्,
पृथगुपदेशादिति च284 द्रष्टव्यम् । तदेवमेकदेशिमतं दूषयित्वा स्वमतेन भाष्यं
व्याचष्टे—एतदेव तु न्याय्यमिति । निग्रहस्थानेभ्यो हेत्वाभासानां पृथगुपदेशे
प्रयोजनं यद् भाष्याक्षरेभ्यः साक्षात् प्रतीयते । सामान्योपदेशेन विशेष उपदिष्टे
विशेषोपदेशः प्रयोजनाधिक्यं सूचयति । यथा ब्राह्मणान् भोजय कठं चेति कठभोजने
विशषो गम्यते, तद्वदिहापि निग्रहस्थानोपदेशेनैव हेत्वाभासेषु लब्धेषु तेषां
विशेषेणाभिधानप्रयोजनाधिक्यं सूचयति285 । एतावानेव सूत्रकृतो व्यापारो यत् सूत्रणं
नाम । तत्र निग्रहस्थानविशेषाणां हेत्वाभासानां स्वरूपं वादस्य च तत्त्वनिर्णया
वसानत्वमालोच्य वादे चोदनीया286 भविष्यन्ति निग्रहस्थानत्वेन हेत्वाभासा नाप्रतिभा
दय इति प्रयोजनं वर्णयांचकार भाष्यकारः । स्यादेतत् । भवन्तु वादे चोदनीया
हेत्वाभासाः, मा च भूवन्नप्रतिभादयः । किमेवमपीत्याह—विद्याप्रस्थान
प्रभेदज्ञापनार्थत्वात् ।
वादजल्पवितण्डा विद्याः परम्परया निःश्रेयसोपयोगात् ।
56 तासां प्रस्थानं व्यापारः, तस्य भेदः, तज्ज्ञापनार्थत्वात् । अत+एव जल्पवितण्डयोस्तु
इत्याह287 । चोदयति—अथ कस्मादिति । यदि वादे हेत्वाभासाः प्रयुज्येरन् ततो
निग्रहस्थानत्वेन चोद्येरन्, न तु तेषामस्ति प्रयोगोऽप्रमाणत्वात् प्रमाणतर्कसाधनो
पालम्भत्वाच्च वादस्य । तस्मात् निग्रहस्थानमात्रत्वं हेत्वाभासानाम् । 288तथा च न
पृथगुपदेशः, निग्रहस्थानोपदेशेनैव लब्धत्वादित्यर्थः । परिहरति—प्रमाण
सामान्यादिति ।
न खलु हेत्वाभासान् तद्बुद्ध्या प्रयुञ्जाते वादिप्रतिवादिनौ, अपि तु
हेतुबुद्ध्या । तथा चास्ति तेषां वादे प्रयोग इति, वादे निग्रहस्थानत्वेन
हेत्वाभासाश्चोद्यन्ताम्, नाप्रतिभादीनीत्यर्थवान् पृथगुपदेशः । तदेतद् विकल्प्या
क्षिपति—वादे कानिचिदिति । समाधत्ते—न, लक्षणपरतन्त्रत्वादर्थतथाभाव
स्येति ब्रूमः ।
लक्ष्यत इति लक्षणम्, समानासमानजातीयव्यावृत्तं रूपं वादस्य च
निग्रहस्थानानां च । तदधीनो हि तेषां तथाभावो व्यवस्था, कानिचिदेव निग्रहस्थानानि
वादे न तु सर्वाणीति सामान्यतोऽभिधाय तदेव लक्षणपरतन्त्रत्वमभिमते विशेषे
योजयति—वादस्येति । उक्तमाक्षिपति—प्रमाणप्रतिरूपकत्वादिति । निश्चितौ
हि वादं कुरुतः । निश्चयश्च प्रमाणफलमिति कुतोऽप्रमाणस्यावकाश इत्यर्थः ।
उत्तरम्—भ्रान्तेरिति । न निश्चयः सर्वः प्रमाणमूलोऽप्रमाणमूलस्यापि तस्य दर्शनात्,
अन्यथा विपर्यासादप्रवृत्तिप्रसङ्गात् । वादिनोश्चाभ्रान्तत्वे वस्तुनो 289विरुद्धधर्मद्वय
समालिङ्गितत्वमेकदा स्यादिति भावः । पृच्छति—कः पुनः शिष्येति । उपास्यो
पासकयोः परस्परं न ध्वंसनं संभवतीति भावः । उत्तरम्—विवक्षितार्था
प्रतिपादकत्वमेव
न खलीकार इति । हेत्वाभासानां च पृथक्करणं न वादे
290तन्मात्रावधारणार्थम्, अपि तु यस्मिन्ननुद्भावितेऽपि निग्रहस्थाने तत्त्वप्रतिपत्तिव्याघातो
भवति, 291तस्य सर्वस्य संग्रहार्थम् । एवं च न्यूनाधिकापसिद्धान्ता अपि संगृहीता
भवन्ति । तत्र पृच्छति—न्यूनाधिकेति । उत्तरम्—प्रमाणेति । जल्पवितण्डयो
57 स्त्विति
भाष्यमनुभाष्यापपादयति—जल्पवितण्डयोस्त्विति । साहङ्कारो विजिगी
षुरप्रतिभादिभिरपि निग्रहस्थानैस्तिरस्कृतो गलिताहङ्कारस्तत्त्वबुभुत्सुतां नीतः
पश्चाद् वादेन व्युत्पाद्यत इत्यर्थः ।


छलजातिनिग्रहस्थानानां पृथगुपदेशप्रयोजनपरं भाष्यमनुभाषते—छलेति ।
292उपलक्षणार्थमिति
भाष्यावयवं व्याचष्टे । परिज्ञानार्थमेव293 केवलम्, परिज्ञानस्य
फलमुक्तम्—स्ववाक्ये परिवर्जनमप्रयोगः, परवाक्ये चोद्भावनमिति ।
चोदयति—छलजातिनिग्रहस्थानानीति । अत्र हि जातेः स्ववाक्ये परिवर्जनमुक्त्वा
पुनः स्वयं 294प्रयोगो न युक्तः । कस्मात् ? व्याघातात् । एतद् विभजते—स्ववाक्य
इति । परिहरति—न व्याघातः । 295कुतः ? प्रश्नापाकरणार्थत्वात् । तद् विभजते—स्वयं
च सुकरः प्रयोग
इत्यनेन भाष्येण । किमुक्तं भवति ? परेण प्रतिवादिना जातौ
प्रयुक्तायां 296वादी प्राश्निकान् सभ्यान् ब्रवीति—जातिरनेन प्रतिवादिना प्रयुक्तेति ।
ते
प्राश्निका एनं पर्यनुयुञ्जीरन् हे वादिन् कथं केन प्रकारेण जातिः चतुर्विंशत्यां
जातिषु कतमा जातिरिति । सोऽयं प्राश्निकानां प्रश्नः । तदपाकरणार्थं स्वयं सुकरः
प्रयोग इत्यर्थः । प्रकृतमुपसंहरति—तस्मादेत इति ।


सूत्रकारेण शास्त्रस्यात्यन्तिकदुःखोपरमरूपनिःश्रेयसाधिगमः प्रयोजनमुक्तम् ।
भाष्यकारस्तु नास्त्येव तत् प्रेक्षावतां प्रयोजनम्, यत्रान्वीक्षिकी न निमित्तं भवती
त्याह—सेयमान्वीक्षिकीति । तदेतद् भाष्यं व्याचष्टे—सेयमान्वीक्षिकी न्याय
विद्येति ।
यद्यपीतरा विद्याः प्रामाणिकमेवार्थमभिनिविशन्ते तथाप्येतद्विद्याप्रतिपाद्यमेव
प्रमाणाद्युपजीव्य स्वे स्वे व्युत्पाद्ये तत्त्वे297 प्रवर्तन्ते, न तु प्रमाणाद्यपि व्युत्पादयन्ति ।
यथा प्रत्यक्षाद्युपजीव्य प्रवर्तमानमनुमानं न प्रत्यक्षादिविषयमपि तदानीमेव गोचरयति ।
तदनेन विद्योपकरणग्रहणेन व्यापार आन्चीक्षिक्या दर्शितः । संप्रति विद्यानां यानि
कर्माणि प्रतिपाद्यानि सामाग्निहोत्रकृष्यादीनि तत्राप्यान्वीक्षिक्युपाय इत्याह—उपायः
58 सर्वकर्मणां
विद्याव्युत्पाद्यानाम्, न तु 298हालिकमृगय्वादिकर्मणामपि । न हि
विद्यापदेभ्यो यावन्मात्रावगतिः, तावन्मात्रेण प्रेक्षावतां परितोषः । मा भूत्
आदित्यो वै यूपः
इत्यादिभ्यः आदित्यादीनां यूपादिता । तस्मात् संशयपरीक्षाप्रमाणविनिवेशद्वारेण
तदर्थतत्त्वमवधार्य तत्र त्रयी विनिवेशनीया । एवं दण्डनीतिवार्तयोरनुगन्तव्यम्299
300तस्मादान्वीक्षिकीपरिशोधितप्रमाणप्रकाशितं सामादीतरा विद्याः कुर्वन्ति विषयमिति
शेषः । अपि च द्रव्यगुणकर्मणामभिमतानभिमतोपायताप्रज्ञापनेन यथायथं301 सर्वा
विद्याः प्रेक्षावन्तः प्रवर्तयन्ति निवर्तयन्ति वा । तत्र किमविशेषेण साध्य
साधनेतिकर्तव्यतासु प्रवर्तयन्तु, आहोस्वित् साधनेतिकर्तव्यतामात्रे ? तत्र यदि
साध्यांशोऽपि प्रवर्तनागोचरः, तदा302 श्येनादिसाध्याया हिंसाया विहितत्वेनानर्थत्वम् ।
अथ 303साध्यांशं रागतः प्राप्तमनूद्य साधनेतिकर्तव्यते एव विधीयेते, ततः
श्येनादिसाध्याया हिंसाया अविहितत्वेन
न हिंस्यात् सर्वाभूतानि
इति प्रतिषेधादनर्थत्वम् । तदिह साध्यांशेऽप्रवर्तनमान्वीक्षिकीगम्यम् । एवमनु
ष्ठानगताः प्रयोजकत्वाप्रयोजकत्वादय आन्वीक्षिकीगम्या । एवं304 वार्तादिष्वपीति ।
तदेवमान्वीक्षिकीमाश्रयन्ते सर्वविद्या इत्याह—आश्रयः सर्वधर्माणाम् सर्वासां
विद्यानां पुरुषप्रवर्तना धर्माः, तेषामाश्रयः । वार्त्तिककारस्तु धर्मद्वारेण विद्यानामेवा
श्रय इति व्याचष्टे—सर्वविद्योपकारकत्वादाश्रयः, सर्वासां विद्यानामियमुप
करोति ।
विद्यया प्रवर्तनायां कर्तव्यायामियं सहकारितयोपकरोतीत्यर्थः ।


स्यादेतत् । व्युत्पाद्याश्चेत् प्रमाणादयः सर्वविद्योपयोगिनः, न तर्ह्यात्यन्तिकी
दुःखनिवृत्तिरान्वीक्षिक्याः फलं निःश्रेयसपदादवगम्यते305 । व्युत्पाद्यस्वभावालोचनया
हि तद् गम्यते306, स च विद्यान्तरसाधारण इति विद्यान्तराधिगम्येन निःश्रेयसेन
59 सङ्करप्रसङ्ग इत्यत आह—तदिदं तत्त्वज्ञानं निःश्रेयसाधिगमश्च यथाविद्यं
वेदितव्यम्
विद्यान्तराणि तावद् यत् तत्त्वज्ञानं कुर्वन्ति307 तत्स्वभावालोचनया हि
तद्विद्यासाध्ये एव निःश्रेयसभेदे उपयुज्यन्ते308 नान्यत्र । इह तु प्रमाणादि यद्यपि
साधारणम् 309तथाप्यसाधारणात्मादिरूपप्रमेयसमभिव्याहृतं सदभिमत एव निःश्रेय
सेऽवतिष्ठत इति । विशुद्धेनार्जनेन होमसाधनस्य द्रव्यस्य प्राप्तिः स्वागतम् ।
आदिग्रहणेन 310क्रमपर्यन्ताङ्गग्रामसाकल्यं गृह्यते । श्वमार्जारादिभिरनुपघातोऽनुपह
तत्वम्311 । आदिग्रहणाद् विशुद्धोऽभिसन्धिरिति । शेषमतिरोहितम् । वादादीनां
निग्रहस्थानान्तानामुपदेशः पराभिभवोपायतया मदमानादिहेतुत्वेन निःश्रेय
सपरिपन्थीति मन्वानश्चोदयति—मदमानादीति । परिहरति—न, सूत्रार्थापरिज्ञानात् ।
नायं सूत्रार्थः, सर्वेषां तत्त्वज्ञानं साक्षान्निःश्रेयसोपयोगीति, किंत्वात्मादितत्त्वज्ञानम् ।
312तदितरत् तु पारम्पर्येण । तत्र जल्पादीनां पराहङ्कारप्रशमनमवान्तरव्यापार इति न
निःश्रेयसपरिपन्थिता, किंत्वानुकूल्यमित्यर्थः । मदमानादिनिमितत्तत्त्वं313 च हेतुरसिद्ध
इत्याह—यच्चेदमिति । उपसंहरति—तस्मान्न निमित्तं वादादिपरिज्ञानं
रागादीनामिति ।
इतिः सूत्रसमाप्तौ ॥ १ ॥


दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरा
पायादपवर्गः ॥ १ । १ । २ ॥


तदेवं प्रथमसूत्रेण शास्त्रस्याभिधेयप्रयोजनसंबन्धान् दर्शयता पदार्थाः प्रमाणादय
उद्दिष्टाः । तेषां च लक्षणमुक्त्वा तत्परीक्षा 314वर्तयिष्यते, अपरीक्ष्य तत्त्वज्ञाननिर्णयायोगात् ।
न चानिर्णीतप्रयोजनसंबन्धानां प्रमाणादीनां लक्षणपरीक्षयोरवसरः315 । न च
प्रयोजनसंबन्धनिर्णयः परीक्षां विनेति तत्परीक्षार्थं द्वितीयं सूत्रम् । तत्र प्रयोजनाभिधानस्य
60 द्वैविध्यात् संशयः । द्विविधं हि प्रयोजनाभिधानं ग्रन्थकृतां दृष्टं समीचीनमसनीचीनं
च, यथा वार्त्तिकादिप्रयोजनाभिधानमायुर्वेदादिप्रयोजनाभिधानं च । तस्मादभि
धानसामान्यादुभयथा दर्शनाच्च316 संशयः तत्रोत्सूत्रेण 317प्रयोजनाभिसंबन्धप्रतिपादनपरं
पूर्वपक्षभाष्यम्—तत् खलु वै निःश्रेयसमित्यादि । तद् विभजते—न तत्त्व
परिज्ञानादपवर्गः ।
कुतः ? उभयथा दोषात् । तदत्यन्तविमोक्षलक्षणोऽपवर्गो
निःश्रेयसम् । तच्चेत् तत्त्वज्ञानानन्तरम्, सम्प्रदायोच्छेदो वातपुत्रीयता च शास्त्रस्य
स्याताम्318 । तस्मान्न तत्त्वज्ञानानन्तरं निःश्रेयसम् । तथा सति प्रमाणदितत्त्वज्ञाना
न्निःश्रेयसमिति319 मिथ्या । न चान्यन्निःश्रेयसमित्यभिमानः320 पूर्वपक्षवादिन इति । अत्रेदं
सिद्धान्तसूत्रमुपतिष्ठते—दुःखजन्मेति । तस्य तात्पर्यमभिधायावतारयति—
प्रयोजनानभिसंबन्धः ।
कुतः ? निःश्रेयसस्य परापरभेदात् । चतस्रो हि प्रतिपत्तयः
प्रमेये आत्मादौ । प्रथमा तावदागमात् यामाचक्षते श्रवणमिति । द्वितीया तु श्रुतस्य
321परीक्ष्य न्यायेन व्यवस्थापनम् यामाहुर्मननमिति । सा चान्वीक्षिक्यामायतते ।
आन्वीक्षिकी च संशयादिः तत्त्वज्ञापनं प्रमाणतत्त्वज्ञापनायोपादत्ते । प्रमाणतत्त्वज्ञापनं
च हेयोपादेयभेदव्यवस्थितप्रमेयतत्त्वपरिज्ञापनाय । 322तत्राप्याद्यन्तवर्जितदशवर्ग
ज्ञापनमाद्यन्तयोरेवात्मापवर्गयोरुपादेययोस्तत्त्वज्ञानस्योपकरोति323 । न चाय
मान्वीक्षिकीविद्यावधृतप्रमेयतत्त्वोऽपि परितुष्यति, पूर्ववदेवात्मादिगतं
विपर्ययवासनानुवृत्तेः । नो खलु दिङ्मूढः सहस्रेणाप्यनुमानैर्विपर्ययसंस्कारम
पनयति324 । तत्त्वसाक्षात्कारस्तु विपर्ययसंस्कारं325 निवर्तयति । तज्जनिता च वासना
326विपर्ययवासनामिति लोकसिद्धम् । तस्मादात्मादिसाक्षात्कारवतीं चतुर्थीं
327प्रतीतिमशेषतद् गोचरवासनाविपर्यासशमनीमर्थयमानेनादरनैरन्तर्याभ्यां
328ध्यानचिन्तादिशब्दवाच्या 329तृतीया प्रतीतिः साक्षात्कारफला दीर्घकालमुपासनीया ।
61 अथ परिनिष्पन्नध्यानोपायः साक्षात्कारवतीं प्रतिपद्य चतुर्थीं प्रतीतिं निर्मुक्त
सकलक्लेशजालोऽप्रवर्तमानो धर्माधर्मसाधनेषु निरुद्धानागतधर्माधर्मप्रबन्धोत्पादो
भूतेन्द्रियविजयी प्रज्ञाज्योतिर्जीवन्नेव मुक्त इत्युच्यते । न चैवमवस्थो वीतरागोऽपि
सहसैव देहादिभिर्वियुज्यते, प्रागुपात्तस्य धर्माधर्मप्रचयस्याभुक्तस्य भुज्यमानस्य
330चाप्रक्षीणत्वात् । न च प्रायश्चित्तेनेवात्मज्ञानेनादत्तफलान्येव कर्माणि क्षीयन्त इति
युक्तम्,
नाभुक्तं क्षीयते कर्म ।
इति स्मृतेः । अत्यन्त सुखदुःखसंविज्ञानविरोधस्य कर्मणामवधारणात् । औत्सर्गि
कस्य क्वचित् प्रायश्चित्तादौ विशेषवचनेनापवादात् ।
क्षीयन्ते चास्य कर्माणि ।
मुण्डक २. २. ८
इति श्रुतेः । योगर्द्धिवशाद् युगपदुत्पादितानेकविधदेहोपभोगेनाप्युपपत्तेः ।

तावदेवास्य चिरं यावन्न विमोक्ष्येऽथ संपत्स्ये ।

छान्दोग्योपनिषदि ६. १४. २

इति 331चाभुक्तोपभुज्यमानफलकर्मप्रक्षयावधित्वदर्शनम्332 । योगर्धिवशाच्चा
नियतविपाककालान्यपि333 दीर्घकालफलान्यपि कर्माणि पिण्डीकृत्य भूतेन्द्रिय
विजयितया युगपदेव भुङ्क्ते । अचिन्त्यो हि समाधिप्रभाव इत्युक्तम् । न चाचिन्त्यत्वाद्334
विनैवोपभोगेन कर्माशयान् 335प्रक्षयिष्यतीति युक्तम्, दृष्टानुसारेण कथंचिदुपपत्तौ
अत्यन्तादृष्टकल्पनाया अयोगात् । तस्मादुत्पन्नतत्त्वसाक्षात्कारस्य दोषाभावात्
प्रवृत्त्युपरमे योऽनागतापूर्वानुत्पादस्तदपरं निःश्रेयसम् । तच्च तत्त्वसाक्षात्कारानन्तरं
भवति । तादृशश्च मुनिस्तत्त्वज्ञानवान् शास्त्रस्य प्रणेतेति न वातपुत्रीयं शास्त्रमिति । परं
तु निःश्रेयसं 336योगर्द्धिप्रभवसम्पदा युगपदुपभोगेनोपात्तकर्माशयस्य क्षयात् सर्व
दुःखोपरम इत्युपपन्नं निःश्रेयसद्वैविध्यमिति भावः ।


62

तदेतद् दर्शयति—यत्तावदिति । तत्त्वसाक्षात्कारः तत्त्वज्ञानम् । संहर्षः सुखम् ।
आयासो दुःखम् । तत्रानागताभ्यां 337तावत् प्रवृत्त्यभावादनुत्पादादेवमुच्यते338
विद्यमानकारणे अपि सुखदुःखेऽशक्तोऽद्विष्टश्च339 भुञ्जानो न सुखदुःखतया मनुते340
ह्यस्ति संभवो न तत्र तृप्यति341 तच्च तस्य सुखम्, न च तद् द्वेष्टि तच्च तस्य दुःखमिति ।
स्यादेतत् भवत्वेतदपरं निःश्रेयसम्, प्रकृते किमायातमित्यत आह—अयं
शास्त्रार्थः ।
अर्थशब्दो निमित्ते । अपरं निःश्रेयसं शास्त्रस्य निमित्तम् । अथापर
निःश्रेयसोत्पादसमय एव परनिःश्रेयसोत्पादोऽपि कस्मान्न भवतीत्याह—परं तु
निःश्रेयसं तत्त्वज्ञानात् क्रमेण भवति ।
नो 342खलूत्पन्नतत्त्वसाक्षात्कारः सवासना
विपर्यासज्ञानतत्कार्यदोषतत्कार्यप्रवृत्तीनां निवृत्त्यै प्रयतते, कारणनिवृत्त्यै
वायत्नलभ्यत्वात् कार्यनिवृत्तेः । न हि कफोद्भवज्वरप्रशमनाय कफनिवृत्तौ सत्यां
यत्नान्तरमातिष्ठते, तत एव तत्सिद्धेः । परं तु निःश्रेयसं न तावद् भवति, यावदुपभोगादु
पात्तकर्माशयप्रचयो न क्षीयते । तस्मात् तत्त्वसाक्षात्काराधानप्रयत्नात्परस्तदुप
भोगप्रयत्न343 आस्थेयः । तथा च न तुल्यकाल उत्पादः परापरयोर्निःश्रेयसयोः ।
तदिदमुक्तम्—क्रमेणेति ।


तदेवमर्थगतिं परिशोध्य सूत्रमवतारयति—क्रमेति । यद्यप्यपरस्मिन्नपि
निःश्रेयसे मिथ्याज्ञानदोषप्रवृत्तीनामपि समुच्छेदक्रमोऽस्ति, तथापि जन्म
दुःखोच्छेदक्रमो नास्ति, पूर्वोपात्तस्य कर्माशयप्रचयस्य तादवस्थ्यात् । तस्मात्
जन्मदुःखोच्छेदक्रमसमभिव्याहृतो मिथ्याज्ञानाद्युच्छेदक्रमः परस्यैव निःश्रेयसस्य
शास्त्रप्रयोजनस्य । तत्प्रतिपादनमर्थः प्रयोजनं यस्य तत् तथोक्तम् । इदं
चावान्तरप्रयोजनम् । प्रधानप्रयोजनमग्रे वक्ष्यति ।


अत्र केचित् योगविभागमिच्छन्ति । कारणोच्छेदात् कार्योच्छेदोऽभिमतो, न
चासौ दुःखादीनां मिथ्यज्ञानान्तानामप्रदर्शिते कार्यकारणभावे सिध्यति । तस्माद्
63 दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामित्येको योगः । अत्र किल समासादेतेषा
मितरेतरयोगोऽवगम्यते । स च योग्यतया कार्यकारणभावः । कार्येण कारणं युक्तम्,
कारणेन च344 कार्यमिति । अतः सिद्धे कार्यकारणभावे उत्तरोत्तरापाये तदनन्तरा
पायादपवर्ग345 इत्यनेन योगेन कारणोच्छेदक्रमेण कार्योच्छेदक्रमप्रतिपादनेनापवर्गः
प्रतिपाद्यते । अत्र चोत्तरत्वं पाठापेक्षया कारणस्य । तदनन्तरत्वं च
कार्यस्याव्यवहितादिपाठापेक्षया । मिथ्याज्ञाने कारणे तत्कार्याः दोषाः । एवं शेषेष्वपि
योज्यम् । तमिमं346 सूत्रविभागममृष्यमाणो वार्त्तिककृदाह—इदं सूत्रम् । एकवचनेन
भेदं व्यावर्तथति । न हि समुच्छेदक्रमप्रतिपादनेनापवर्गपरतयैकवाक्यत्वे संभवति
वाक्यभेदो न्याय्यः । एकनिवृत्त्या अन्यनिवृत्त्यैव कार्यकारणभाव आक्षिप्त इति नासौ
सूत्रे347 दर्शनीयः । न ह्यर्थाक्षिप्तं सूत्रकारा दर्शयन्ति । तदिदं सूत्रग्रहणप्रयोजनम् । तथा
हि—

स्वल्पाक्षरमसन्दिग्धं सारवद् विश्वतोमुखम् ।

अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः ॥
विष्णुधर्मोत्तरे ३. ५. १
इति । अस्तोभमनधिकम्, अर्थलभ्यप्रदर्शने त्वधिकं भवेदिति । तत्सूचनात् सूत्रं
स्यात् । तथा ह्याहुः,
लघूनि सूचितार्थानि स्वल्पाक्षरपदानि च ।

सर्वतः सारभूतानि सूत्राण्याहुर्मनीषिणः ॥

इति । इतरेतरयोगेनापि कार्यकारणभावः 348सूचनीय एव । स वरमेकनिवृत्त्यान्य
निवृत्त्यैव सूच्यतामेकवाक्यतानुरोधायेति । परमतात्पर्यमस्याह—एतत्संबन्धेनैव ।
शास्त्रस्य निःश्रेयसाधिगमलक्षणेन प्रयोजनेन यः संबन्धः पूर्वमाक्षिप्तः,
तत्समाधानेनार्थेन349 अर्थवदेतत् सूत्रम् । संबन्धपदेन विषयवाचिना विषयिसमाधानं350
लक्षयति । तदेवं सूत्रतात्पर्यं व्याख्यायावयवव्याख्यानमवतारयति—पदार्थस्त्विति ।
64 यद्यपि सामभेदादौ हलशकटादौ च मिथ्याज्ञानमनेकप्रकारं संभवति, तथापि न तत्
संसारहेतुरपि त्वात्मादिद्वादशविधप्रमेयविशेषविषयमिति सूत्रस्थं मिथ्याज्ञानं
विशेष्टुमाह—तत्रेति । तदेतेन आत्माद्यपवर्गपर्यन्त इत्यादि भाष्यमवतारितम् ।
तदेतदाक्षिपति को 351वृत्त्यर्थ इति । न खलु यथा कुण्डे वदरं पटे वा शौक्ल्यम्, एवं
प्रमेये मिथ्याज्ञानं प्रवर्तते, तस्य ज्ञातृसमवेतत्वादित्यर्थः । उत्तरम्—352विषयार्थः ।
यावदुक्तं भवति प्रमेयविषयं मिथ्याज्ञानमिति, तावदुक्तं भवति प्रमेये वर्तत इति ।
विषयत्वं चाग्रे निवेदयिष्यते । अनेकप्रकारम् इत्युक्तम् । तदाह—तत्रायं भेदः ।
तत्रात्मनि तावत् प्रधाने प्रमेये नास्तीति कथं पुनरेतन्मिथ्याज्ञानमित्यत आह—आत्मा
तावदिति ।
अत्र शङ्कते—तस्यानुपपत्तिः । कुतः ? सदसतोः सारूप्याभावादिति
चेत् ?
सर्वत्र हि रजतोदकादिविभ्रमेषु शुक्तिरजतयोर्वा मरुमरीचिसलिलयोर्वा
सारूप्यमेव निमित्तं प्रतीमः । न हि जातु रूपं रसादिषु हस्तिनं वा मशकादिषु
आरोपयन्ति । असदृशेऽपि श्वेते पीतभ्रमः, मधुरे च तिक्तभ्रमः, पीतः शङ्खस्तिक्तो
गुड इति च दृश्यत इति चेत्—न, तत्रापि सारूप्यसंभवात् । तथा हि
बहिर्निर्गच्छदत्यच्छनयनरश्मिसंपृक्तपित्तगतं पीतिमानमाश्रयरहितम्, शङ्खं च
दोषाच्छादितसितिमानमनुभवन् पीतगुणस्य च तदसंबन्धमननुभवंस्तदसंबन्धा
ग्रहेण353 पीतचिरविल्वादिसामानाधिकरण्येन सारूप्यात् शङ्खः पीत इति विपर्यस्यतिं ।
एवं त्वगिन्द्रियोपनीतं गुडद्रव्यमननुभूयमानमाधुर्यमनुभवन् रसनाग्रवर्तिनश्च
पित्तस्यास्वभावजाततिक्तस्य तिक्तत्वमनुभवन्354 तदाश्रयं च 355पित्तमननुभवन्न
संबन्धाग्रहसारूप्यात् तिक्तनिम्बसामानाधिकरण्येन तिक्तो गुड इति विपर्यस्यति ।
अतिशीघ्रतया चैष क्रमो न लक्ष्यते । न च ब्रूमो यत्र सारूप्यं तत्र भ्रम इति,
356येनातिप्रसक्तिश्चोद्येत, अपि तु यत्र भ्रमस्तत्रावश्यं कथञ्चित् 357सारूप्यमिति । एवं
द्विचन्द्रदिङ्मोहालातचक्रादिष्वपि किञ्चित् कथञ्चित् सारूप्यमूहनीयम् । न च
65 सदसतोरत्यन्तविलक्षणयोः सारूप्यमस्ति । तत् कथमात्मनि नास्तितारोप
इत्याक्षेपः ।


समाधत्ते—न, प्रमाणगम्यतोपपत्तेः । आक्षेपं विभजते—न हि सदसती
इति । समाधानं विभजते—तच्च नैवमिति । यदि सदसतोः समानत्वं नास्ति, तर्हि
भेदः । तथा च कस्य कुत्रारोप इत्यत आह—क्रियागुणेति । सोऽयमसद्भर्मान्
क्रियागुणरहितत्वादीन् सत्यात्मनि समारोप्यासत्तया विपर्यस्यति नास्त्यात्मेति,
त्वात्मानं सर्वतोऽभ्यर्हिततमम्, यं पश्यन् तत्रासौ स्निह्यति । स्नेहाच्च तदुपकाराय
घटते । एवं तत्परिपन्थिनं द्वेष्टि । द्वेषाच्च तदपकाराय घटते । ततश्च कर्माशयमा
चिनोति । ततो जन्म । ततश्च दुःखमिति । एवमात्मनस्तादृशस्य मा भूत् तत्त्वज्ञानम् ।
अस्तु नास्तितासमारोप एव तावद् यतो न प्रवर्तते । यथाहुः,

सुखी भवेयं दुःखी वा मा भूवमिति तृष्यतः ।

यैवाहमितिधीः सैव सहजं सत्त्वदर्शनम् ॥ प्रमाणवार्त्तिके १.२०२-३

अत्रोच्यते । यद्यपि रागादिनिवृत्तिहेतुर्नैरात्म्यदर्शनम्, तथापि नास्ति कर्म, नास्ति
कर्मफलमिति दृष्टेः परमं निदानम् । एवं प्रेत्याभावाभावज्ञानस्य च । तथा च दुःख
हेतोर्हेयवर्गस्याभावान्न तद्धानायानेन घटितव्यम् । न चाघटमानो 358हेयं हातुमर्हति ।
सोऽयं वृश्चिकभिया पलायमान आशीविषमुखे निपतितः । सेयमास्तिकत्वायात्मा
स्तितोपासनीया । 359अभ्यर्हितता चात्मनोऽत्यन्तदुःखनिवृत्तावुपपद्यते । अयमेव
चास्योपकारो यदात्यन्तिकदुःखशमनम्, सुखाधाने त्वस्य तदनुषङ्गिदुःखा
धानादपकारप्रसङ्गात् । न हि जातु कश्चिच्चेतनः सुखमाप्स्यामीति मधुविष
सम्पृक्तमन्नमुपभुङ्क्ते । तस्मान्नैरात्म्यदृष्टिः प्रयत्नेनोच्छेत्तव्या प्रेक्षावतेति
सिद्धम् ।


अपरमपि संसारहेतुं मिथ्यादर्शनमाह—एवमनात्मनीति । पृच्छति—किं
पुनरिति ।
उत्तरम्—अहङ्कारेति । विशेषमाह—इच्छादीति । पुनः पृच्छति—कथं
66 पुनरिति ।
उत्तरम्—शरीरेति । उपसंहरति—एवमिति । सामान्यधर्मोऽहंकारास्पदत्वम् ।
विशेषधर्म इच्छाद्याधारता । तां खल्वयं शरीरादिष्वारोप्य 360एत एवाहमिति
शरीरादिष्यात्मभावमारोपयति ।


एवं सिद्धं कृत्वा विपर्ययं सर्वमुक्तम् । संप्रति सन्दिहानो 361विपर्ययस्वरूपं
पृच्छति—कः पुनरयं विपर्ययः ? परीक्षकाणां विप्रतिपत्तेः संशयः । केचित्362
स्वाकारबाह्यत्वविषयं363 ज्ञानं विपर्यय इत्याचक्षते । 364अन्येऽसद्विषयं ज्ञानम् । 365अन्ये
त्वनिर्वचनीयमेव ज्ञानम् । 366अपरे त्वग्रहणमेव । अन्यथाख्यातिं तु367 वृद्धाः368
उत्तरम्—अतस्मिंस्तदिति प्रत्ययः ।


इदमत्राकूतम्—न तावत् स्वाकारं रजतादि बाह्यतया आलम्बन्ते विभ्रमाः ।
तथा हि ज्ञानाकारत्वं रजतादेरनुभवाद् व्यवस्थाप्येत, अनुमानाद् वा ? अनुभवोऽपि
रजतप्रत्ययो वा स्याद् बाधकप्रत्ययो वा ? न तावद् रजतप्रत्ययः । स हीदमनहङ्कारास्पदं
रजतमादर्शयति, न त्वान्तरम् । अहमिति तदा स्यात्, प्रतिपत्तुः प्रत्ययादव्यतिरेकात् ।
भ्रान्तं हि ज्ञानं स्वाकारमेव बाह्यतया आलम्बते । तथा चानहंकारास्पदमस्य विषयो
ज्ञानाकारोऽपि । ज्ञानाकारता पुनरस्य बाधकज्ञानप्रवेदनीयेति चेत् ? हन्त चक्षुषी
निमील्य 369वैतालिकपक्षपातं परित्यज्यालोचयत्वायुष्मान्370 किं पुरोवर्तिद्रव्याकारतामात्रं
प्रतिषेधति रजतस्य, आहोस्वित् ज्ञानाकारतामप्यस्यादर्शयति बाधकप्रत्ययः ? तत्र
ज्ञानाकारतोपदर्शनं व्यापारं बाधकप्रत्ययस्य371 ब्रूवाणः श्लाघनीयप्रज्ञो देवानां
प्रियः । पुरोवर्तित्वनिषेधादर्थात् ज्ञानाकारतासिद्धिरिति चेत् ? 372तन्निषेधो वणिग्वी
थ्यादावुपलब्धस्य रजतस्य व्यवस्थापने हेतुः । आन्तरत्वं 373त्वस्यानुपलब्धचरं
कुतस्त्यम् ? न चानुमानमत्र प्रभवतीति चतुर्थे374 निवेदयिष्यते ।


67

सन्तु तर्हि बाधकप्रत्ययानुरोधादसत्प्रकाशनशीला एव मिथ्या प्रत्ययाः । तथा
हि बाधकं विज्ञानं नेदं रजतमिति रजतज्ञानगोचरस्यासत्त्वं गृह्णाति । न चासतो
विषयभावो नोपपद्यते । न हि विषयत्वं नाम कारणत्वं येनासति न स्यात्, किं तु
स्वकारणाधीनः सामर्थ्यातिशयः । स तादृशो ज्ञानस्य, येन सन्तमिवासन्तमपि
गोचरयति । न च विषयसामर्थ्यमत्रोपयुज्यते, ज्ञानस्य सामर्थ्यादेव तद्भावसिद्धेः ।
अत+एवासत्प्रकाशनसामर्थ्यमेव मिथ्याज्ञानानामविद्यात्वमनिर्वचनीयं375 केचिदास्थिषत ।
अत्रेदमालोचनीयम्—किमेतन्मिथ्याज्ञानमसत् सदात्मना गृह्णातीत्यसद्विषयमुपेयते376,
आहोस्वित् सदेव सदन्तरात्मना गृह्णाति, सतश्च 377सदन्तरात्मत्वेन असत्त्वाद
सद्विषयमुच्यते ? न तावत् पूर्वः कल्पः378, रजतात्मना चेदसदालम्बेत, न सतीं
शुक्तिकाम्, कथं पुनरसौ रजतार्थी शुक्तौ प्रवर्तते न पुना रजताभावे ? कस्माच्चेदमिति
पुरोवर्ति द्रव्यमङ्गुल्या निर्दिश्य तस्य रजतत्वं निषेधति—नेदं रजतमिति, यदि तत्र
न प्रसञ्जितं रजतत्वं पूर्वविज्ञानेन ? अथ शुक्तिरेव रजतात्मना असतीति तदाकारतया
तामालम्बमानं मिथ्याज्ञानमसदालम्बनमुच्यते ? तत्रानुज्ञया वर्तामहे । न खल्वन्यथा
ख्यातिवादिनोऽपि सदन्तरं सदन्तरात्मना सदभ्युपगच्छन्ति । तथा सत्यन्यथेत्येव न
स्यात् । यथाहुरन्यथाख्यातिवादिनः,

तस्माद् यदन्यथा सन्तमन्यथा प्रतिपद्यते ।

तन्निरालम्बनं ज्ञानमभावालम्बनं379 च तत् ॥

श्लोकवार्त्तिके निरालम्बनवादः ११७-८
इति । न च रजतात्मना पुरोवर्तिनो द्रव्यस्यानिर्वचनीयता, मिथ्याज्ञानसमये सत्त्वेन
बाधकसमये 380चासत्त्वन निर्वचनीयत्वात् । न चैवंभूतस्यासतः प्रथा नोपपद्यते, तस्य
सदसद्भ्यामुपाख्येयत्वात् । यः पुनरद्वैतवादिनां प्रपञ्चो वैनाशिकानां वा सामान्यादिर्नो
बहिः381 किं त्वलीकम् । तद्विषयं च ज्ञानं मिथ्याज्ञानमित्यपि न संभवति, तस्य
68 सर्वोपाख्यारहितस्य केनचित् सारूप्याभावात्, तत्कारणकत्वाच्च भ्रान्तेः । कारणा
भावे कार्याभावस्य सुलभत्वात् । तस्मात् प्रपञ्चश्च सामान्यादि च वस्तुसती
नासमीचीनविज्ञानगोचरौ । तद्बाधकं चोपरिष्टादपाकरिष्यति382 । तस्मान्नानिर्वचनीय
ख्यातिरपि । स्यादेतत् । अन्यदन्यथा प्रकाशत इति संविद्विरुद्धम् । न तावत्
सद्भावमात्रेणालम्बनत्वम् । तन्मात्रस्य सर्वप्रत्ययसाधारण्येन सर्वेऽर्था सर्वप्रत्यय
विषया इति सर्वसर्वज्ञतापत्तिः । न च कारणत्वेनालम्बनत्वम्, रूपादिविज्ञानानां
रूपादिवच्चक्षुराद्यपि कारणमिति चक्षुराद्यालम्बनत्वप्रसङ्गात् । अतीतानागतविषय
त्वं च विज्ञानस्य न स्यात्, अतीतानागतयोरसत्त्वेनाकारणत्वात् । तस्मात्
प्रतिभासमानमालम्बनम् । तथा च रजतप्रतिभासः शुक्तिकालम्बनमिति दुर्घटम् ।
अपि च चक्षुरादीनां समीचीनज्ञानोपजननसामर्थ्यमिति कथमेभ्यो मिथ्याज्ञानं
भवितुमर्हति । न हि श्यामाकबीजं परिकर्मसहस्रेणापि कलमाङ्कुराय कल्पते ।
दोषसहाया लोचनादयो मिथ्याप्रत्ययमादधत इति383 चेत्—न, दोषा हि कारणानां
सामर्थ्यं निघ्नन्ति, न पुनः कार्यान्तरोपजननसामर्थ्यमादधति । न खलु 384भृष्टं कुटजबीजं
न्यग्रोधधानायै कल्पते, किं तु न करोति 385कुटजधानाम् । अपि च स्वगोचरे व्यभिचारे
विज्ञानानां सर्वत्रानाश्वासप्रसङ्गः । तस्मात् सर्वमेव विज्ञानं समीचीनमास्थेयम् । तथा
हि रजतमिदमिति द्वे ज्ञाने स्मृत्यनुभवरूपे । तत्रेदमिति पुरोवर्तिद्रव्यमात्रग्रहणम्,
दोषवशात् तद्गतस्य शुक्तिकात्वसामान्यविशेषस्याग्रहणात् । तावन्मात्रं च गृहीतं
सदृशतया संस्कारोद्बोधक्रमेण रजते स्मृतिं जनयति । सा च गृहीतग्रहण
स्वभावापि दोषवशात्386 गृहीतांशप्रमोषेण ग्रहणमात्रमवतिष्ठते । तथा च रजतस्मृतेः
पुरोवर्तिमात्रग्रहणस्य च मिथः स्वरूपतश्च विषयतश्च भेदाग्रहणात् सन्नि
हितरजतविषयविज्ञानसारूप्येणेदं रजतमिति भिन्ने अपि ग्रहणस्मरणे अभेदव्यवहारं
सामानाधिकरण्यव्यपदेशं च प्रवर्तयतः । क्वचित् पुनर्ग्रहणे एव मिथोऽगृहीतप्रभेदे,
69 यथा पीतः शङ्ख इति । अत्र हि 387विनिर्यन्नयनरश्मिवर्तिनः पित्तद्रव्यस्य काचस्ये
वातिस्वच्छस्य पीतत्वं च गृह्यते, पित्तं तु न गृह्यते । शङ्खोऽपि दोषवशात् गुणरहितः
स्वरूपमात्रेण गृह्यते । तदनयोर्गुणगुणिनोरसंसर्गाग्रहात् सारूप्यात् पीतचिर
बिल्वफलप्रत्ययाविशेषेणाभेदव्यवहारः सामानाधिकरण्यव्यपदेशश्च भेदाग्रह
प्रसञ्जिताभेदव्यवहारबाधनाच्च388 नेदं रजतमिति विवेकप्रत्ययस्य बाधकत्व
मप्युपपद्यते । तदुपपत्तौ च भ्रान्तत्वमपि लोकप्रसिद्धं सिद्धं भवति । तस्माद्
यथार्थाः सर्वेऽपि भ्रमाः प्रत्ययत्वात् पटप्रत्ययवदिति प्राप्तम् । एवं प्राप्तेऽभि
धीयते—अस्ति तावद् रजतार्थिनो रजतमिति ज्ञाने सति पुरोवर्तिद्रव्यप्रवृत्तिः
सामानाधिकरण्यव्यपदेशश्चेति सर्वजनीनम् । तत् किं ग्रहणस्मरणयोस्तद्गोचर
योश्च भेदाग्रहाद् भवतु, आहोस्विदभेदग्रहात् ? न तावच्चेतनोऽज्ञानात् प्रवर्तते, अपि
तु ज्ञानात् । पुरोवर्तिवस्तुग्रहणरजतज्ञानादगृहीतभेदं स्वरूपतो विषयतो वा रजतार्थिनं
पुरोवर्तिद्रव्ये प्रवर्तयतीति चेत् ? हन्त भोः किमेतावता पुरोवर्तिवस्तुगोचरं ज्ञानं
रजतगोचरं भवति, आहोस्वित् तन्मात्रगोचरमेव ? यदि रजतगोचरं पुरोवर्तिरजततया
गृह्णात्389, कथं नान्यथाख्यातिः ? अथ तन्मात्रगोचरम्, को भेदाग्रहस्योपयोगः ? न हि
वृक्षमात्रदर्शनं निश्चयेन शिंशपार्थिनं प्रवर्तयति । न हि तत्र शिंशापाज्ञानमस्ति । अस्ति
त्विह रजतविज्ञानम्, अगृहीतभेदमिदमिति ज्ञानेनेति चेत् ? ननु रजतविज्ञानं
पुरोवर्तिनि द्रव्ये न वर्तते, पुरोवर्तिज्ञानं च न रजत इति तत्र पुरोवर्तिद्रव्यमात्रार्थी
पुरोवर्तिनि390 प्रवर्तेत न रजतार्थी । एवं रजतार्थी यत्र क्वचन प्रवर्तेत न नियमेन
पुरोवर्तिनि द्रव्ये । न हि तत्र तेन रजतत्वमवगतमिति । अथेदं रजतमिति द्वे ज्ञाने
भेदाग्रहादिदं रजतमित्येकज्ञानसदृशे, तेन तदुचितं व्यवहारं प्रवर्तयतः ? यद्येवं
तद्रजतम् इयं शुक्तिरिति भेदावभासिविज्ञानव्यवहारमपि कस्मान्न प्रवर्तयतः ?
यथैव हि भेदाग्रहादभिन्नविज्ञानसादृश्यम्391, एवमभेदाग्रहाद् भिन्नविज्ञानसादृश्यमपि ।
70 सोऽयमुभयतो भेदाभेदाग्रहसारूप्यात् प्रवृत्तिनिवृत्तिभ्यां युगपदाकृष्यमाणः प्रतिपत्ता
कष्टां दशामावेशितः प्रज्ञाशालिभिरतिव्याख्यया ।


स्यादेतत् । विपर्ययज्ञानोत्पादेऽपि शुक्तिरजतयोर्भेदाग्रहेऽस्य392 व्यापार आस्थेयः
अन्यथा गृहीतभेदानामपि विपर्ययोत्पादप्रसङ्गात् । तथा च शक्यं तत्रापि वक्तुम्—
यथा भेदाग्रहाद् विपर्ययज्ञानोत्पाद एवमभेदाग्रहात् कस्मान्न समीचीनज्ञानोत्पाद
इति । तत्र यस्तव परिहारः सोऽस्माकं व्यवहारव्यपदेशयोर्भविष्यतीति ।
यथाहुरख्यातिवादिनः—येषामपि विपरीतख्यातिस्तेषामप्यज्ञानवासनानिबन्धनो
भ्रम इति । मैवम्, ज्ञानहेतूनामज्ञातरूपकार्यसंबन्धानां चक्षुरादीनां दर्शनात्,
चेतनव्यवहाराणां त्वबुद्धिपूर्वकाणामप्रतीतेः, बुद्धिपूर्वकत्वे तु विवेकाग्रह उप
युज्यते न व्यवहारव्यपदेशयोरिति युक्तमुत्पश्यामः । यद्यविवेकग्रहोऽपि तत्परि
पन्थी विद्यत इति कुतोऽन्यतरनिबन्धनो व्यवहारः ? तस्मात् समारोप एव भेदाग्रह
इति । तत् सिद्धम्393 एतद्विवादाध्यासितं रजतादिविज्ञानं पुरोवर्तिवस्तुविषयम्,
रजतार्थिनस्तत्र नियमेन प्रवर्तकत्वात् । यद् यदर्थिनं नियमेन यत्र प्रवर्तयति तद्विज्ञानं
तद्विषयम्, यथोभयसिद्धं समीचीनरजतविज्ञानम् । तथा चैतत्394 । तस्मात् तथा ।
यच्चोक्तम्—अनवभासमाना 395शुक्तिरनालम्बनमिति, तत्र किं शुक्तिकात्वस्य
रजतमिति ज्ञानं प्रत्यनालम्बनत्वं साध्यते, आहोस्विद् द्रव्यमात्रस्य सितभास्वरस्य
पुरोवर्तिनः ? तत्र 396पूर्वस्मिन् कल्पे सिद्धसाधनम् । उत्तरस्मिन्ननवभासनमसिद्धम्397,
इदमिति पुरोवर्तिनो द्रव्यस्याङ्गुल्या निर्देशात् दृष्टं च दुष्टानामपि कारणानामौ
त्सर्गिककार्यप्रतिबन्धेन कार्यान्तरोत्पादकत्वम् । तद् यथा, वेत्रबीजानां दावाग्निदग्धानां
कदलीप्रकाण्डजनकत्वम्, भस्मकदुष्टस्य चौदर्यस्य तेजसो बहुतरान्नपानपाचकत्वम् ।
नेदं रजतमिति च प्रत्यक्षबाधकप्रत्ययादपहृतविषयम्, प्रत्ययत्वेन विभ्रमाणां
71 यथार्थत्वानुमानं नोदेतुमर्हति । यथा च प्रमाणाभासव्यभिचारेऽपि प्रमाणे आ
श्वासः, तथा प्रमाणतोऽर्थप्रतिपत्तौ इत्यत्रोपपादितम्398 । दिङ्मात्रमत्र दर्शितम् ।
प्रपञ्चस्तु तत्त्वसमीक्षायामस्माभिः कृत इत्युपरम्यते ॥


तदेवमात्मनि मिथ्याज्ञानं व्याख्याय शरीरादिष्वेकादशसु मिथ्याज्ञानं भाष्य
एव दर्शितम् । तत्तु स्पष्टत्वादस्माभिर्न 399व्युत्पादितमित्याशयवानाह—शेषमिति । तत्र
शरीरादिषु मनःपर्यन्तेषु यथायोगं मिथ्याज्ञानं दुःखे सुखम् इत्यादिना अप्रतिहा
तव्यम्
इत्यन्तेन भाष्येणोक्तम् । प्रवृत्त्यादिषु शृङ्गग्राहिकयोक्तं प्रवृत्तौ इत्यादिना
रोचयेत् इत्यन्तेन भाष्येण । एवं मिथ्याज्ञानस्य स्वरूपं दर्शयित्वा मिथ्या
ज्ञानदोषप्रवृत्तिजन्मदुःखानां कार्यकारणभावो दोषादीनां स्वरूपं चोक्तम्, एतस्मात्
इत्यादिना 400ताप इत्यन्तेन भाष्येण । संप्रति मिथ्याज्ञानाद्युच्छेदादपवर्ग इति वक्ष्यति ।
तच्चायुक्तम्, सत्यपि तदुच्छेदे संसारतादवस्थ्यात् । न ह्यन्योच्छेदेऽन्यस्योच्छेदः ।
तथा च नापवर्ग इति वक्ष्यमाणमर्थमुपपादयितुमुक्तं भाष्यकृता त इमे मिथ्याज्ञाना
दय
इत्यादि । तद् वार्त्तिककारो व्याचष्टे—त इमे दुःखादय इति । भाष्यकारो
क्तक्रमाद् विपरीतक्रमाभिधानं वार्त्तिककृतः । एवं सूत्रकारोक्तक्रमाद् विपरीत
क्रमाभिधानं भाष्यकृतः । तद् दुःखादीनां मिथ्याज्ञानपूर्वकत्वेन मिथ्याज्ञानस्य
दुःखादिपूर्वकत्वेनानादित्वं दर्शयितुम् । पृच्छति—कः पुनरिति । यद्येत एव संसारस्तर्हि
सूत्रकारः प्रमेयसूत्रे कस्माद् दुःखादिभ्यः पृथक् प्रेत्यभावं संसारापरनामानमुपादत्ते ?
तस्मादेभ्योऽन्य एव संसार इति भावः । उत्तरम्—दुःखादीनामिति । नैषां स्वरूपमपि
तु कार्यकारणभाव इत्यर्थः । क्रमव्यतिक्रमतात्पर्यमाह—स चानादिरिति । अत्र
हेतुमाह—पूर्वापरेति । दुःखजन्मप्रवृत्तिदोषाः विषयत्वेन401 तावन्मिथ्याज्ञानस्य कारणम् ।
एवमसति जन्मनि मिथ्याज्ञानस्यानुत्पत्तेरविषयोऽपि जन्म मिथ्याज्ञानस्य कारणम् ।
एवं विना प्रवृत्तिं जन्माभावात् जन्मद्वारेण प्रवृत्तेरपि मिथ्याज्ञानकारणत्वम् । प्रवृत्ति
द्वारेण च दोषाणाम्, तथा मिथ्याज्ञानाद् दोषाः, दोषेभ्यः प्रवृत्तिः, प्रवृत्तेर्जन्म, जन्मनो
72 दुःखम् । यद्यपि प्रवृत्तिरेव साक्षाद् दुःखहेतुः, तथाप्यनायतनस्य तस्यानुत्पत्तेरन्तरा
जन्म करोति । अथ सैव दुःखमिति ? अनादित्वाच्च नान्योन्याश्रयं चक्रकं वा
बीजाङ्कुरसन्तानयोरिवेति । संप्रति बीजापाय इव तज्जन्याङ्कुरप्रवाहनिवृत्तिः,
मिथ्याज्ञानापाये तज्जन्यदोषप्रवृत्तिजन्मदुःखमिथ्याज्ञानादिप्रवाहनिवृत्तिः, कारण
निवृत्तौ कार्यनिवृत्तेरिति कथनपरं भाष्यमनुभाष्याक्षिपति—यदा तु तत्त्वज्ञानादिति ।
अपायोऽपि तत्त्वज्ञानान्मिथ्याज्ञानस्य स्वरुपतो वा, विषयतो वा, फलतो वा स्यात्,
न तावत् स्वरुपतः, तस्याशुतरविनाशिनः संस्काराद् वा ज्ञानान्तराद् वा अपायस्य
तत्वज्ञानसाधारण्येन तस्यापि बाध्यत्वप्रसङ्गात् । नापि विषयतः, न हि शुक्तिकाज्ञानं
रजतज्ञानस्य रजतविषयतामपहर्तुमुत्सहते जातं402 हि तद् रजतं विषयीकृत्य । यथाहुः

गृहीत्वार्थं गताश्चौराः कस्तानाच्छेत्तुमर्हति ।

इति । नापि फलमपहरति, उपदर्शितो हि तेनार्थः, प्रवर्तितश्च तत्र पुरुषः । तदिद
मुक्तम्—कथमपाय इति । उत्तरम्—समानविषय इति । यस्मिन्नेव हि पुरोवर्तिनि
द्रव्ये पूर्वेण रजतत्वमासञ्जितमत्रैवोत्तरं तद्विरुद्धशुक्तिकात्वं धर्ममुपनयति । तथा
च पूर्वस्य विज्ञानस्य 403मिथ्यात्वमादर्शयत्तज्जनितां प्रवृतिं विघटयत् फलमस्यापहर
तीति भावः । न तु समानविषयतामात्रेण विरोधः, मा भूदेकस्मिन्नात्मनि नित्यत्व
विभुत्वज्ञानयोर्विरोध इत्यत आह—यस्मादिति । तत्त्वमिथ्यात्वकथनेन मिथो
विरुद्धधर्मप्रसञ्जनं सूचयति । नित्यत्वविभुत्वज्ञानयोस्तु समानविषययोर
प्यविरुद्धधर्मोपस्थापकतया तत्त्वज्ञानत्वादित्यर्थः । कस्माद् विरोध इत्यत आह—
वस्तुन इति । परस्पराभावधर्मिणोरेकत्र समवाये नेदं स्वाभाविकं नानात्वं
क्वचिदपीत्यद्वैतप्रसङ्ग इति भावः । उपसंहरति—तस्मादिति ।


अत्र देशयति404कथं पुनरिति । प्रथममुत्पन्नं मिथ्याज्ञानमनुपजातविरोधि,
तेनापहृतविषयं पश्चात्तनं तत्त्वज्ञानमुदेतुमेव नोत्सहते, प्रागेव तु मिथ्याज्ञानं
बाधितुमिति भावः । उत्तरम्—मिथ्याज्ञानस्येति । तत्र हि प्रथममुपजातेनानुप
73 जातविरोधिना ज्ञानेनोत्तरं बाध्यते, यत्र पूर्वापेक्षमुत्तरमुपजायते । तत् खलु पूर्वविरोधे
न जायेत405 । अजातं सत् कथं पूर्वं बाधेत, यथा प्रत्यक्षादिविरुद्धमनुमानम् ? इह तु
द्वे अपि ज्ञाने दोषोपहतानुपहतेन्द्रियार्थसन्निकर्षजन्मनी परस्परानपेक्षे । तत्र पूर्वमनुप
जातविरोधित्वात् किं बाधताम् अनागतस्याप्राप्तत्वेन बाधितुमशक्यत्वात्,
स्वकारणबलादासाद्यमानजन्मनश्चोत्पत्तिविरोधस्य चाशक्यत्वात् ? तदेवमुत्पन्नमुत्तर
मुपजातविरोधितया पूर्वबाधात्मकं सन्नानुपमृद्य पूर्वमुत्पत्तुमर्हतीति बाधते406 । तत्तु न
पूर्वेण नाप्यन्येन केनचिदिति भवत्यर्थसहायम् । अर्थासहायं च मिथ्याज्ञानम् ।
तदनेन बाध्यत्वाबाध्यत्वे मिथ्याज्ञानतत्त्वज्ञानयोरुपलक्ष्येते । तदिदमन्यैर
प्युक्तम्—

पूर्वात् परबलीयस्त्वं तत्र नाम प्रतीयताम्407

अन्योन्यनिरेपेक्षाणां यत्र जन्म धियां भवेत् ॥

इति । तथा चानुपजातविरोधित्वमत्र बाध्यत्वे हेतुः, उपजातविराधित्वं च बाधकत्व
इति ।


यदुपलक्षणार्थं ससहायत्वाभिधानं तज्जिज्ञासुः पृच्छति—कस्मात् ?
उत्तरम्—तथात्वेनेति । अनेनाबाध्यत्वं तत्त्वज्ञानस्योक्तमिति । न केवलमबाध्य
त्वम्, दृड्¤हमूलत्वमपि तत्त्वज्ञानस्येत्याह—प्रमाणान्तरानुग्रहाच्च । अन्तरशब्दो
विशेषवचनः । आत्मादितत्त्वज्ञानं हि फलं प्रमाणविशेषैरागमानुमानप्रत्यक्षैरनु
गृह्यते, तस्माद् दृढमूलत्वात् तदपि तत्वज्ञानं मिथ्याज्ञानं निवर्तयतीत्यर्थः । एतदेव
विभजते—आगमेति । तदेव स्फोरयति—यदा हीति । आगममयेन408 हि ज्ञानेन
प्रमेयं गृहीत्वा शास्त्रीयेण च न्यायविज्ञानेनानुमानापरनाम्ना व्यवस्थाप्य भावयतो
यदात्मनः सन्निकर्षाद् योगजधर्मसहायादुत्पद्यते तत्त्वविषयः साक्षात्कारः
प्रत्यक्षफलम्, तत्र त्रयाणामपि प्रमाणानां प्रतिसन्धानमस्तीति दृढमूलत्वात् तेन
मिथ्याज्ञानं बाध्यते ॥


74

विषयं भावयतीति व्याचष्टे—समाहित इति । समाहितत्वेन चेतसो409 धारणां
दर्शयति—अनन्यमना इति प्रत्याहारम्, चिन्तयतीति चेतसः तत्त्वविषयबुद्धिधारा,
विपच्यमानत्वं ध्यानस्य, तत्त्वज्ञानस्य स्फुटाभत्वारम्भावस्था410 । ध्यानजनितभावना
संस्कारो ध्यानभावना, तस्या विवेको मिथ्याज्ञानवासनायाः । पूर्वं हि मिथ्याज्ञानवासना
तत्त्वज्ञानवासनाया बलवत्यासीत्, अथाभ्यासवशात् तुल्यबलाभवत्, अथेयमेव
बलीयसी 411तत्त्वज्ञानवासनासंभिन्ना मिथ्याज्ञानवासनया सहानुवर्तते । संप्रति तु412
तत्त्वज्ञानवासनाया अत्यन्तबलीयस्या समूलकाषं कषितत्वात् मिथ्याज्ञानवासनाया
भवति विविक्ता तत्त्वज्ञानवासना413 तस्यामित्यर्थः ।


नन्वनेन क्रमेण निवर्ततां मिथ्याज्ञानम्, निवृत्तं तु तत्त्वसाक्षात्कारसमयेऽपि
कस्मात् पुनः स्ववासनावशान्न जायते ? न खलु मिथ्याज्ञानवासना अनादि
कालप्रवृत्ता आदिमता तत्त्वज्ञानेन 414तत्संस्कारेण वा शक्या निवर्तयितुमित्यत
आह—निवृत्ते चेति । तावदेव पुंसां बुद्धयोऽस्थिराः भ्राम्यन्ति 415स्वोचितं च संस्का
रजातमातन्वते, न यावद् भूतमर्थं साक्षात्कुर्वन्ति । अथ साक्षाकृत्य तत्र स्थिरपदा
भवन्ति, क्षिण्वन्ति च सवासनान् मिथ्याप्रत्ययान् । भूतार्थपक्षपातो हि बुद्धेः स्व
भावः । यदाहुर्बाह्या अपि—

निरुपप्लवभूतार्थस्वभावस्य416 विपर्ययैः ।

न बाधो यत्नवत्त्वेऽपि बुद्धेस्तत्पक्षपाततः ॥

प्रमाणवार्त्तिके १.२१२-३

इति । तस्मात् मिथ्याज्ञानस्य न पुनरुत्पाद इति ॥


उक्तमेवार्थं स्मृतिदाढ्र्याय पृच्छति—कः पुनरिति । उक्तं स्मारयितुमुत्तरम्—
सहेति । भवतु मिथ्याज्ञानस्य निवृत्तिः सवासनस्य, ततोऽपि किमित्यत आह—मिथ्या
75 ज्ञानेति ।
अत्र पृच्छति—ये तावदिति । उत्तरम्—तेषामपीति । वैराग्यस्वरूपं
पृच्छति—किं पुनरिति । रागाभावो हि वैराग्यम् । न च तस्मादेव रागादीनामभाव
इति भावः । उत्तरम्—भोगानभिष्वङ्गलक्षणमित्युक्तम् । विषयदोषपरि
भावनापरिपाकात् खलु विषयपरित्यागेच्छा भवति । तया विरोधिगुणेन विषय
तृष्णा च तत्परिपन्थिनि विद्वेषश्च तदाधिकरणश्चेर्ष्यादयो निवर्तन्ते ।
असक्तिर्विषयपरित्यागेच्छा, वशितया च स्वयमुपनतेषु विषयेषु माध्यस्थ्य
दर्शनम् । दोषाभावे किं भवतीत्यत आह—दोषाभाव इति । पृच्छति—का
पुनरियमिति ।
यदि हि जन्मनः प्रवृत्तिः कारणं स्यात्, ततो जन्मनिवृत्त्पै
तन्निवृत्तिरर्थ्येत । न पुनरसौ क्षणिका सती आमुष्मिकाय जन्मने कल्पते । अतः
किमर्थं निवर्त्यत इति भावः । विदिताभिप्राय उत्तरमाह—धर्माधर्मौ । कस्मात्
पुनरुपचार इत्यत आह—जन्मसाधनत्वात् । एतद्विभजते—नास्मिन्निति । उपचारे
प्रयोजनं दर्शयित्वा निमित्तमाह—धर्माधर्मयोस्त्विति । वर्तमानानागतयोरविशेषेण
दोषापायात् निवृत्तिरुक्तेति भ्रान्त्या देशयति—यौ तावदनागताविति । परिहरति—
न, अनागतयोरिति । अनागताभिप्रायमेतदित्यर्थः । यद्येवम्, वर्तमानयोः कुतः
प्रक्षय इत्यत आह—वर्तमानयोरिति । अस्तु प्रवृत्तेरभावः, ततः किमित्यत आह—
प्रवृत्त्यभाव इति । उक्तं विवेकमिहापि योजयति—अत्रापीति । वर्तमाननिवृत्ति
हेतुं पृच्छति—अथेति । उत्तरम्—संस्कारेति । श्रुतिः

तावदेवास्य चिरं यावन्न विमोक्ष्येऽथ संपत्स्ये

छान्दोग्य ६.१४.२ इति । किं जन्माभावे सिध्यतीत्यत आह—जन्माभाव इति ।
अत्रैव 417वृद्धसंमतिमाह—एतच्च तदाहुरिति । तदेतच्चेति योजना । प्राणनस्य
कालभेदावच्छेद आयुः ।


स्यादेतत्, महाप्रलयेऽपि मिथ्याज्ञानादिना दुःखान्तेनास्ति वियोग इति अत्रापि
मुक्तिप्रसङ्ग इत्यत आह—सोऽयं मिथ्याज्ञानादिनेति । सर्वत इति तृतीयार्थे
76 तसिः सर्वेणेति । न च प्रलयावस्थायां सर्वेण वियोगः, कर्माविद्यावासनयोर
विनाशात् । मुक्तौ तु तयोरपि विनाशः । कर्मवासना च सर्वकार्याणामुत्पादिका
अवस्थापिका च । तन्निवृत्तौ शरीरादिवत् तत्त्वज्ञानसंस्कारस्यापि प्रलय इत्यशेष
विशेषगुणविमुक्तो मुक्त इत्युच्यत इति सिद्धम् ।


स्यादेतत् । तत्त्वज्ञानात् मिथ्याज्ञानापाय इत्युक्तम् । किं पुनस्तत्त्वज्ञानमित्यत
उक्तं भाष्यकृता—तत्त्वज्ञानं त्विति । तदनुभाष्य सर्वेषां ज्ञानानां भाष्योक्तानाम
नुगतमेकं स्वरूपमाह—स्वरूपतस्त्विति । चोदयति—कस्मादिति । नो खल्वयं
प्रेक्षावतां समाचारो यद् दुःखभिया सुखपरित्याग इति, अपि तु सुखं दुःखाद्
418विविच्योपाददते दुःखं च वर्जयन्ति । न हि मृगाः सन्तीति शालयो नोप्यन्ते,
भिक्षुकाः सन्तीति स्थाल्यो नाधिश्रीयन्त इति419 । उत्तरम्—विवेकहानस्येति ।
यद्यपि सुखदुःखे भिन्ने, तथाप्यनित्यत्वकृतकत्ववत् परस्परानुषक्ते इति न खलु
सुखस्य केवलस्योपादानं दुःखस्य वा केवलस्य परिवर्जनं शक्यमित्यर्थः । कः
पुनरयमनुषङ्गो यतो विवेकहानमशक्यमित्यत आह—अनुषङ्गोऽविनाभावः ।
तत्स्वरूपमाह—यत्रैकं सुखं वा दुःखं वा, तत्रेतरत् दुःखं वा सुखं वा ।
तदनेनानित्यत्वकृतकत्वयोरिव 420सुखदुःखयोरविनाभावो दर्शितः । न चाविना
भावो विना संबन्धादिति तत्सिद्धये संबन्धविकल्पानाह—समाननिमित्तता वां
अनुषङ्गो
ऽविनाभावः, वाशब्दश्च वक्ष्यमाणसंबन्धान्तरापेक्षया, 421न तु पूर्वापेक्षया ।
अत्र च शरीराद्यपेक्षया समाननिमित्तता, न तु धर्माधर्मापेक्षया तयोरसाधारण्या
दिति मन्तव्यम् । तयोरविनाभावसिद्ध्यर्थं संबन्धान्तरमाह—समानाधारता वा ।
अपरं संबन्धान्तरमाह—समानोपलभ्यता वा । मनोगोचरत्वमुभयोः । ततश्च
सिद्धोऽविनाभावापरनामा अनुषङ्ग इति । यत्रैकं तत्रेतरदिति वा422 यत्र यस्मिन्निमित्ते
77 सतीति वा यत्राधार इति वा यत्रोपलब्धिसाधने सतीति व्याख्येयम् । इतिः सूत्रसमाप्तिं
सूचयति ॥ २ ॥


॥ इति अभिधेयप्रयोजनसम्बन्धप्रकरणम् ॥

प्रमाणलक्षणप्रकरणम्


प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि ॥ १ । १ । ३ ॥


तदेवं प्रमाणादिपदार्थतत्त्वज्ञानस्य423 निःश्रेयससंबन्ध उक्तः परीक्षितश्च । तत्रैतत्
स्यात् स्वपदेभ्यः प्रमाणदयः पदार्थास्तत्त्वतो ज्ञाता यथायथं 424मिथ्या
ज्ञानादिनिवृत्तिक्रमेणापवर्गे उपयोक्ष्यन्ते, कृतमुपरितनेन प्रबन्धेन इत्यत उक्तं
भाष्यकृता—त्रिविधा चास्येति । न नामधेयमात्रात् प्रमाणादीनां तत्त्वज्ञानं भवति,
अपि तु लक्षणपरीक्षणाभ्यामित्यस्ति प्रबन्धस्योत्तरस्योपयोग इति भाष्यार्थः ।
तदेतद्भाष्यमनुभाष्य पृच्छति—प्रवृत्तेरिति । यदि पुरुषकल्पनामात्रात् त्रैविध्यम्,
अथानन्त्यमेव कस्मान्न भवति, सर्वत्र तस्य सुलभत्वादिति भावः । उत्तरम्—
अर्थस्य तथाभावात् । अर्थस्य प्रयोजनस्य साक्षात् शास्त्रकार्यस्य तत्त्वज्ञानलक्षणस्य
तथैव त्रिविधयैव425 शास्त्रप्रवृत्त्या भावात् । तथा हि, लक्षणं नाम व्यतिरेकिहेतुवचनम् ।
तद्धि समानासमानजातीयेभ्यो व्यवच्छिद्य लक्ष्यं426 व्यवस्थापयति । न चास्य
धर्मिदर्शनमन्तरेण पक्षधर्मता सिध्यतीति तदुपदर्शनाय नामधेयमात्रेण धर्मिणा
मुद्देशः । यद्यपि च प्रतिलक्षणमुद्दिष्टा एव धर्मिणः, तथापि शास्त्राभिसंबन्धपरादपि
वाक्यात् समधिगम्यन्त इत्युद्देशोऽप्युक्तः । न चापरीक्षितो हेतुर्व्यतिरेकी चतूरूपो
भवतीति परीक्षाप्यवश्यं कर्तव्या । तस्मात् तत्त्वज्ञानस्यार्थस्य तथाभावात् त्रैविध्य
78 मिति । तदेतद्427 विभजते—नामी पदार्था इति । किं त्विति । अर्थः तत्त्वज्ञानं तथा
भूतम्, येनार्थेन हेतुना शास्त्रस्य प्रवृत्तिस्त्रेधा भवति ॥


उद्देशस्वरुपप्रतिपादनपरं भाष्यमनुभाष्याक्षिपति—नामधेयेनेति । परिहरति—
मात्रग्रहणसामर्थ्यादिति । यद्यपि प्रमाणादिशब्दा अपि कारकशब्दा एव, तथाप्यु
द्देशसमये तदर्थानां सदपि कारकत्वमविवक्षितम्, अपि तु प्रातिपदिकार्थमात्रम् ।
घ्राणादिसूत्रे १. १. १२ तु लक्षणपरे कारकत्वं विवक्षितम्, अन्यथा
लक्षणत्वायोगादित्यदोषः । अत्र यद्यपि सूत्रकारेण संशयप्रमाणप्रमेयेषु परीक्षा
साक्षात् कृता न प्रयोजनादिषु, तथापि तत्करणादेव प्रयोजनादिपरीक्षापि सूचिता
सूत्रकारेणेति त्रिविधेत्युक्तम् । अत एव भाष्यकारः सर्वत्र परीक्षामन्ववर्तयदिति ॥


स्यादेतत् । विभागपरमेतत् सूत्रमिति वक्ष्यति । न च विभागो न्यूनाधिकसंख्या
व्यवच्छेदार्थमेकं किञ्चिदुपसंग्राहकमन्तरेण । न च 428प्रमाणत्वादन्यदत्रोपसंग्राहकम् ।
न चेदमलक्षितमुपसंगृह्णाति । न चैतत् सूत्रमस्य लक्षणम्, विभागपरत्वादिति
शङ्कानिराकरणपरं भाष्यम्-तत्रोद्दिष्टस्येति । तस्यार्थः-यद्यपि विभागपरमेतत्
सूत्रम्, तथापि प्रमाणपदसमभिव्याहृतं सत् सामर्थ्यात् प्रमाणत्वमपि लक्षयतीति ।
तथा हि, प्रमीयतेऽनेनेत्यस्य वाक्यस्यार्थे प्रमाणपदप्रयोगः । प्रमा च स्मृतेरन्या,
अर्थाव्यभिवारी स्वतन्त्रः परिच्छेदः । तस्माद् विभागपरादपि सूत्रात् प्रतीयमानं
429प्रमाणसामान्यलक्षणमपेक्षितं संगृहीतमिति प्रमाणत्वोपगृहीतानां प्रत्यक्षादीनां
प्रमाणानां युक्तो विभागः । तथा च विभागपरत्वेन साक्षात् सामान्यलक्षणानभिधा
नाद् विभक्तस्य लक्षणमुच्यत इत्युक्तम् । तच्चेह विशेषलक्षणम् इन्द्रियार्थ
सन्निकर्षेत्यादि
१.१.४ । तदेतद् भाष्यं व्याचष्टे—उद्दिष्टस्येति । लक्षणालक्षणमात्र
विवक्षया लक्षितस्यालक्षितस्य इत्युक्तम् । तच्च छले430 सामान्यतः, प्रमाणेषु प्रमेयेषु
च विशेषत इति गमयितव्यम् ॥


79

अत्र भाष्यम्—अथोद्दिष्टस्यविभागवचनमिति । तस्यार्थः—उच्यतेऽनेनेति
वचनं सूत्रं विभागस्य । अथेति त्रिविधप्रवृत्तिव्युत्पादनानन्तरं विविक्तानां431 प्रतिपादनं
विभागवचनम् । न च विवेकः स्वरूपत उपयुज्यत इत्यत आह—अथोद्दिष्ट
विभागद्वारेणेति ।
नात्र विभागमात्रं विवक्षितम्, अपि तु तद्द्वारेण न्यूनाधिक
संख्याव्यवच्छेदस्तत्त्वज्ञानाङ्गमित्यर्थः ॥


अव्याख्याने हेतुमाह—सूत्रेति । चोदयति—432उद्दिष्टस्य विभागानर्थक्यम्,
व्याघातात् ।
त्रिविधा चास्य शास्त्रस्य प्रवृत्तिरित्यस्यानर्थक्यम् । अनर्थमर्थविपर्ययं
कायति कीर्तयतीत्यनर्थकम् । तस्य भावस्तत्त्वम् । कस्मात् ? व्याघातात् । व्याघा
तमेव स्फोरयति—त्रिविधा चास्य शास्त्र्यस्येति । परिहरति—नोद्दिष्टेति । परस्परं
विभक्ता नामधेयमात्रेणोद्दिश्यन्त इत्युद्देशेऽन्तर्भावः433 । तेनायमर्थो भवति,
सामान्येनोदिष्टस्य विभागवचनं विशेषेणोद्देश इति । विभागप्रयोजनं पृच्छति—किं
पुनरिति ।
उत्तरम्—नियमः । तद्विभजते—यदीति । पुनश्चोदयति—लक्षणत इति ।
प्रमाणलक्षणकरणप्रवृत्तो यत् चत्वार्येव लक्षयति तदवगम्यते न न्यूनान्यधिकानि वा
प्रमाणानीत्यर्थः । परिहरति—लक्षणस्येति । आक्षेपं विभजते—स्यादेषेति । परिहारं
विभजते—न, लक्षणस्येति । अन्यपरमपि वाक्यं तदेवार्थलभ्यं स्वीकरोति । यत्
तेनापेक्षितम्, 434तदेव च तेनापेक्षितम् येन विना तदर्थो नोपपद्यते । न च प्रत्यक्षादीनां
समानासमानजातीयस्य व्यवच्छेदे पञ्चमाद्यभाव उपयुज्यते । लक्षणकरणप्रवृत्तस्य
क्वचिदकरणं न तदभावे प्रमाणम्, सतोऽप्यनुपयोगेनाकरणोपपत्तेः ।
तदेतदाह—अन्यासंभवस्येति । विभागोद्देशस्य पुनरनन्यपरत्वादन्याभावनिश्चयो
भवतीति । उपसंहरति—तस्मादिति ।


अक्षस्याक्षस्येति भाष्यमनुभाष्य तात्पर्यमाह—अयं च सूत्रविवक्षयेति435
अक्षमक्षं प्रति वर्तत इति विगृह्याव्ययीभावे कृत सर्वेन्द्रियावरोधो भवति । ननु
80 यदीदृशो विग्रहः, कस्मात् पुनर्भाष्यकारेण अक्षस्याक्षस्येति विगृह्यत इत्यत
आह—अन्यथा तु वस्तुनिर्देश इति । अर्थमात्रमनेन प्रतिपाद्यते, न पुनः समास
इत्यर्थः । अथ कस्मात् समास एव तेन विग्रहेण न प्रतिपाद्यत इत्यत आह—समासे
हि अक्षस्येति षष्ठी न श्रूयेतेति ।
यदि सूत्रगतस्य प्रत्यक्षपदस्याव्ययीभावः
समासः, अन्यत्र पुनरस्य कः समास इति पृच्छति—कः पुनरिति । उत्तरम्—प्रादि
समास
इति । तथा हि, 436प्राप्तापन्नालंपूर्वगतिसमासेषु परवल्लिङ्गताप्रतिषेधादभिधेय
लिङ्गोपादानात् प्रत्यक्षोऽर्थः प्रत्यक्षा बुद्धिः प्रत्यक्षं ज्ञानमित्यभिधेयलिङ्गता सिद्धा
भवति । क्वचित् पाठः समासे हि प्रत्यक्षस्येति षष्ठी न श्रूयेतेति । सूत्रविवक्षया
व्ययीभाव इत्युक्तम् । तत्र शङ्कते—कस्मात् पुनः सूत्रविवक्षयेत्युच्यते यावता
सर्वत्रैव कस्मादव्ययीभावो न भवतीति ? तत्रेदमुपतिष्ठते—समासे हि अवययी
भावसमासे हि सर्वत्र प्रत्यक्षस्येति षष्ठी न श्रूयेतेति । व्युत्पत्तिनिमित्तमात्रं चेदं
प्रत्यक्षशब्दस्य, न तु प्रवृत्तिनिमित्तम् । तस्मात् नेन्द्रियगतैर्गुणसामान्यादिभि
र्व्यभिचारः, प्रवृत्तिहेतुस्तर्थसाक्षात्कारिज्ञानजनकत्वम् । तन्निमित्तः खल्वयं
प्रत्यक्षशब्दस्तत्र तत्र लौकिकपरीक्षकैः प्रयुज्यते । यथा मयूरशब्दो मयूरत्व
सामान्यनिबन्धनः कासुचिदेव पतत्रिव्यक्तिषु वर्तमानः, मह्यां रौतीत्यन्वाख्यायते ।
तदिदं प्रत्यक्षमुद्दिष्टमपि सत् प्रमाणतदाभाससंकीर्णमिति तद्विवेकाय लक्षणमुप
युज्यते । यदि तूद्देशपदं तद्विवेचयेत्, कृतं तर्हि लक्षणप्रणयनेन437


विग्रहवाक्यगता च वृत्तिर्भाष्यकृता व्याख्याता । वृत्तिस्तु सन्निकर्षो ज्ञानं
वा ।
वृत्तिरिति हि व्यापारः । स तु व्यापार उच्यते, यः कारकैः फले जनयितव्ये
चरमभावी धर्मभेदः फलोत्पादानुकूलोऽपेक्ष्यते । यथा पटे जनयितव्ये तन्तु
भिश्चरमभाविनः संयोगभेदाः, स्वर्गे जनयितव्ये यागेनापूर्वमात्मधर्मः, तथेहापि
इन्द्रियादिना प्रमाणेन प्रमायां फले प्रवृत्तेन तदुत्पादनानुकूलः सन्निकर्षो ज्ञानं वा
चरमभावी धर्मभेदोऽपेक्ष्यत इति भवति व्यापारः । स एव वृत्तिरित्याख्यायते ।
81 व्यवस्थां दर्शयति—यदा सन्निकर्षो व्यापार इन्द्रियादेः प्रमाणस्य तदा ज्ञानम्
आलोचनं वा सविकल्पकं वा साक्षात्कारवद्विज्ञानं438 प्रमितिः फलम्,
उभयस्यापीन्द्रियव्यापारात् सन्निकर्षापराभिधानादुत्पत्तेः न चान्तरालिकेन निर्वि
कल्पकेनेन्द्रियव्यापारविच्छेद इति प्रत्यक्षव्याख्यानावसरे निवेदयिष्यते । यदा
ज्ञानम्
आलोचनं वा विकल्पो वा व्यापार इन्द्रियादीनां तदा हानोपादानोपेक्षाबुद्धयः
फलम् ।
तत्रोपादेयमिदं सलिलमिति बुद्धिरनागतोपादानविशिष्टं सलिलमालम्ब
माना न साक्षात्कारवती, सलिलमात्रसाक्षात्कारस्तु स्यात् । न च तन्मात्रमस्य फलम्,
अपि तूपादेयता । सा च परोक्षा, अनागतत्वात् । तस्मादुपादीयतेऽनेनेत्युपादानम् ।
उपादानं चासौ बुद्धिश्चेत्युपादानबुद्धिः । 439तत्र तोयालोचनमथ तोयविकल्पः, 440अथ
तज्जातीयस्य दृष्टचरपिपासोपशमनहेतुभावस्य स्मृतिबीजसंस्कारोद्बोधः, अथ तस्य
स्मरणम्, अथ लिङ्गपरामर्शः तज्जातीयं चेदमिति । तदिदं लिङ्गपरामर्शविज्ञानं
साक्षात्कारवत् । लिङ्गे विनश्यदवस्थव्याप्तिस्मरणसहकारिदृश्यमानस्य सलिलस्य
पिपासोपशमनहेतुतया अनुमानमुखेनोपादानबुद्धिरुच्यते । 441अनुमाय खल्वयं तथाभावं
442तदुपादित्सन्नीहमानः तदुपादत्ते । न च व्याप्तिस्मृतिविच्छिन्नमालोचनं वा विकल्पो
वा न लिङ्गपरामर्शज्ञानहेतुरिति वाच्यम्, तदुद्बोधितसंस्कारद्वारेण व्याप्तिस्मरणे च
परामर्शे च तस्य तदानीमसतोऽपि कारणत्वात् । न खलु कृषिकर्म शस्याधिगति
समये समस्ति, न च यागादिकं स्वर्गाद्युत्पादसमये, न च त्रिवृत्कषायपानं विरेक
समये । आन्तरालिककार्यपरम्परया तु 443तत्साधनत्वं सर्वत्र समानम् ॥


स्यादेतत् । का पुनरियं पिपासोशमनशक्तिस्तोयस्य, या अनुमानगोचरः ? न
तावन्मीमांसकवदतीन्द्रिया 444शक्तिर्युस्माभिरभ्युपेयते, किं तु कारणानां स्वरूपं वा
सहकारिसाकल्यं वा । तत्र स्वरूपं हेतूनां प्रत्यक्षमेव । सहकारिणां प्रत्यक्षाप्रत्यक्षाणां
साकल्यं 445कार्यसमुत्पादैकव्यञ्जनीयम्, न तु तत् तोयरूपदर्शनमात्रात्446 शक्या
82 नुमानम् । तत् किमपरमवशिष्यते यदनुमानस्य गोचर इति ? अत्रोच्यते न वयमती
न्द्रियं सामर्थ्यमातिष्ठामहे, नापि सहकारिसाकल्यानुमानमाचक्ष्महे447, किं तु स्वरूप
स्य कार्यसंबन्धिताम् । न चेयं स्वरूपमेव, इहस्थस्येव नारिकेलद्वीपादागतस्यापि
वह्निदर्शनमात्राद् ग्राहकत्वावगमप्रसङ्गात् । तस्मात् कार्योपहितं स्वरूपमनुमेयम् ।
इदमेव चास्य कार्योपधानं यत् कार्योत्पादात् पूर्वमवश्यंभाव आनन्तर्यनियमः । न च
तज्जातीयस्य दृष्टचरस्य तथाभावदर्शनेऽपि दृश्यमानस्य तोयस्य तद् दृष्टं भवति येन
तत्र स्मर्येत । न खलूज्जयिन्यामुपलब्धस्य सौधस्य पाटलिपुत्रे स्मरन्त्यभ्रान्ताः ।
उपादानेन हानं व्याख्यातम् । न चोपेक्षानुपादानतया हानपक्षे निक्षिप्ता,
अहानतयोपादानपक्षे निक्षेपप्रसङ्गात् । उपादानप्रयत्नाप्रसवहेतुतया नोपादानमिति
चेत् ? किमियं हानप्रयत्नमपि प्रसूते यतो हानं स्यात् ? तस्माद् या नोभयप्रयत्नप्रसव
हेतुः सोपेक्षाबुद्धिस्तृतीया लोकप्रसिद्धेति सिद्धम् ॥


प्रत्यक्षपदव्युत्पत्तिं दर्शयित्वा अनुमानादिपदेष्वपि 448व्युत्पत्तिगतिं दिशति—
एवमनुमानादिष्वपीति । तत्रेदमनुमानपदव्युत्पत्तिभाष्यम्449मितेन लिङ्गेन
लिङ्गिनोऽर्थस्य पश्चान्मानमनुमानमिति ।
मितिर्मानम् । तथा च लिङ्गदर्शनो
द्वोधितसंस्कारजा स्मृतिर्व्यवच्छिना450, तस्या मितेरन्यत्वेन451 लोकसिद्धत्वात् ।
मितेनेत्यज्ञानसन्देहविपर्यासा लिङ्गविषया व्युदस्ता452 भवन्ति । तथापि मितेनार्थस्य
ज्ञानं 453शाब्देऽप्यस्तीत्यत उक्तम्—लिङ्गेनेति । अपक्षधर्मतां निवर्तयति—लिङ्गिन
इति । तथापि धर्मिणः454 प्रत्यक्षगोचरत्वात् कृतमनुमानेनेत्यत उक्तम्—अर्थस्येति ।
अर्थ्यते455 साध्यत इत्यर्थः । न च धर्मी स्वरूपेणार्थ्यते456, किं तु जिज्ञासितधर्मविशिष्ट
इत्यर्थः । पश्चादित्यनुशब्दस्य व्याख्या । तदेतद्भाष्यमनुभाष्याक्षिपति—मितेनेति ।
कस्मादयुक्तमित्यत आह—फलाभावादिति । एतद् विभजते—एतस्मिन्निति ।
83 अनुमानज्ञानस्य फलावस्थायामेवार्थो मित इति मेयं नावशिष्यते, यत्रैतत् सिद्धं सत्
प्रमाणं भवेदित्यर्थः । तत्र फलविशेषणपक्षमास्थाय457 यत इत्यध्याहृत्य समाधत्ते—नैष
दोष
इति । अनध्याहारेणाप्यदोष इति समाधानान्तरमाह—भवतु वेति । पूर्वोक्तं दोषं
स्मारयति—ननु चेति । परिहरति—न दोष इति । अथ कस्मात् हानादिविषयं
प्रमाणमुच्यते, न स्वगोचरं प्रतीत्यत आह—सर्वं च प्रमाणमिति । यद्यपि वह्नि
विज्ञानस्यानुमानस्य सतो हेयत्वादिकं विषयः, 458तत्रैव व्यापारात् । अन्यथा
प्रमाणफलयोर्विभिन्नविषयत्वेन विप्रतिपत्त्या प्रमाणफलभावायोगात् । न हि
पनसविषयेण परशुना खदिरे द्वैधीभावो भवति । तथापि फलान्तरानपेक्षमुत्पत्तावेव
विज्ञाने यत् प्रकाशते स तस्य विषयः । तत्र तु न तत् प्रमाणम्, फलान्तराजनकत्वादपि
तु फलमेवेत्यर्थः । विषयान्तरं प्रति तु459 प्रमाणमित्याह—विषयान्तरमिति ।
चोदयति—यदीति । भावसाधनश्चेत् प्रमाणशब्दः फलमस्यार्थो न तु फलं स्वविषये
करणम्, 460तद्व्यापारस्य तज्जनकेनैव कृतत्वात् । न च स्वविषयादन्यद् विषयान्तरमस्य
संभवति, अतिप्रसङ्गादिति भावः । परिहरति—उक्तं फलमिति । यद्यपि यत्र फलं
सोऽस्यौत्पत्तिको विषयः, तथापि यत्रानेन प्रमाणेन सता हानादिबुद्धयो जनयि
तव्याः, सोऽपि व्यापारेण विषय इति भावः । फलत्व एव हेतुमाह—ज्ञात इति ।
परोक्षार्थावगाहितया हेयादिबुद्धयः प्रत्यक्षफलं न भवन्ति, भवन्ति त्वनुमानस्येति
नियमवादिनां मतमुपन्यस्य दूषयति—केचित् त्विति । अनियमं रोचयमान
आह—उभयं त्विति ।


अनुमानशब्दवत् 461फलेन निर्वचनीयत्वमुपमानशब्दस्येति मन्वान आक्षिपति
सामीप्येति । समाधत्ते—नास्ति व्याघात इति । नेयमुपमानशब्दस्य 462फलेन निरुक्तिः
अपि तु प्रमाणेन निरुक्तिरिति न व्याघात इत्यर्थः ।


84

शब्दविषया प्रतिपत्तिः शाब्दं प्रमाणम् । यत् खलु चैत्र, गां बधानेति
वाक्यमिदमित्यनुसन्धानात्मकं स्मार्तं विज्ञानमुपजायते, तत् पदार्थस्मरणसहकारि
विशिष्टार्थविषयं विज्ञानं प्रसूते, तच्छाब्दं प्रमाणम् । प्रमाणमुक्त्वा फलमस्याह—फलं
तदेव ।
यदा ह्येतत् प्रमाणं तदा वाक्यार्थविज्ञानं फलम् । 463यदानुमानवद् वाक्यार्थ
विज्ञानं प्रमाणं तदा हानोपादानादिबुद्धयः फलमित्यर्थः ।


अत्र प्रत्यक्षादीनां क्रमोद्देशप्रयोजनं प्रति एकदेशिमतमुपन्यस्यति—केचित्
त्विति ।
प्रत्यक्षपरा हि प्रमाणान्तरजन्याः प्रमितय इति प्रत्यक्षस्य प्राधान्यम् । यद्यपि
464किञ्चिदनुमानमनुमानादिपूर्वकमपि, तथापि प्रायेण प्रत्यक्षपूर्वकम् । उपमानं तु
प्रत्यक्षपूर्वकमपि शब्दपूर्वकमेवेत्यस्यानुमानादपकर्षः । स्मणसहकारिता चानुमान
सादृश्यमुपमानस्यास्तीत्यनुमानानन्तरमुद्देशः । अल्पज्ञानाधीनं च बहुज्ञानमित्यल्प
विषयप्रत्यक्षाद्युद्देशेभ्यः परो बहुविषयशब्दोद्देश इति । 465तदेतद् एकदेशिमत
मेकदेश्यन्तरमतेन दूषयति—तच्चायुक्तमित्यपर इति । अक्लिष्टो हि प्रथमं महा
विषयमेव दुरवधारणत्वान्निरूपयति, अल्पविषयं तु क्लिष्टोऽपि शक्नोति466
निरूपयितुम् । अतो महाविषयत्वं प्राथम्य एव हेतुर्न चरमत्व इत्यर्थः । अनन्तरमतं
दूषयति—एतच्चेति । एतावता क्रममात्रं भवेत्, न तु तद्विशेषनियम इत्यर्थः ॥


संप्रति विमर्शपूर्वकं स्वाभिमतक्रमनियमहेतुमवधारयन्नेव पूर्वैकदेशिमत
मपाकरोति—तस्मादन्य इति विमर्शनिमित्तं467 विप्रतिपत्तिमाह—प्रत्यक्षं पूर्वं
प्राधान्यात्
इत्येकः । महाविषयत्वाच्चादौ शब्दोपदेश इत्यपरः । तत्र महाविषय
त्वमनैकान्तिकं सन्नागमस्यैव पूर्वोपदेशं गमयतीत्याह—उभयमिति । पृच्छति—
कथमिति । उत्तरम्—प्रत्यक्षेणापीति । महाविषयत्वलक्षणसाधारणधर्मदर्शन
निमित्तं 468संदेहमाह—तत्रेति । स्वाभिमतेन469 हेतुना क्रमविशेषनियममवधारयति470
85 प्रत्यक्षस्येतीति । यद्यपि प्रमितेः प्रत्यक्षपरत्वेन प्रत्यक्षस्य प्राधान्यम्, तथापि शास्त्रे
व्युत्पाद्यत्वेनानुमानस्यापि तदस्तीति साधारणतया न हेतुरिति भावः ।


स्यादेतत् । व्यवस्थितविषयं प्रत्यक्षं नानुमानविषये प्रवर्तते, न चानुमानम
गृहीतसंबन्धमुदेति । न च संबन्धग्रहः संबन्धिग्रहमन्तरेण । न चानुमानविषये
सामान्यरूपे संबन्धिनि प्रत्यक्षं प्रवर्तते । अनुमानान्तरेण तु ग्रहणेऽनवस्था । तस्मात्
कारणाभावान्नानुमानमस्ति । एतेन शब्दोपमाने अपि परास्ते, तयोरपि संबन्धसंवेदना
धीनजन्मत्वात् । तस्मात् नाप्रत्यक्षं प्रमाणमिति विभागवचनमनुपपन्नमिति शङ्काम
पनेतुं विमर्शपूर्वकं विचारयति स्म भाष्यकारः—किं पुनः प्रमाणानीति ।
तदेतद्भाष्यमनुभाष्याव्याख्याने 471कारणमाह—किं पुनरेतानीति ।


सा चेयं प्रमितिः प्रत्यक्षपरेति भाष्यम् । तदनुभाष्य हेतुमाह—सेयमिति ।
आकांक्षाभावप्रतिपादनाय प्रतीतिस्वरूपं472 क्रमं चाह—यथायमिति । आहित
उत्पादितः प्रत्ययो निश्चयो यस्य, संसर्गोपधानं वह्निं प्रति स तथा473 । सन्दिग्धेन हि
निश्चयाय प्रवर्तितव्यमेव । निश्चितस्तु विनिश्चयाय प्रमाणान्तरे प्रवर्तमानस्तदभ्यर्हिततरं
मन्यते । धूमाङ्गत्वेनेति । अङ्गत्वं व्यापकत्वम् । व्याप्यं पुनर्व्याप्तिक्रियायां कर्मत्वेन
प्रधानम् । तदनेन धूमव्यापकत्वोपधानेन धूमाद् गम्यमानो वह्निः परोक्ष इति दर्शितम् ।
अनुपहितप्रकाशस्तु प्रत्यक्षेणाव्यवहितवह्निस्वरूपप्रकाशः । स हि साक्षात्कार इति ।
तावदयं प्रमाता साकांक्षो यावदुपधानव्यवहितं स्वरूपमुपलभते474 । उपधानानपेक्षस्तु
प्रत्यक्षेणाव्यवहितं साक्षाद् वह्निं विषयीकृत्य निराकांक्षो भवति475 धूमाङ्गत्वेन धूम
विशेषणत्वेनेति केचित् । तत्तु प्रकृतानुपयोगितया अयुक्तमिति । उपसंहरति—अतः
प्रधानमिति ।
सोऽयं गुणाप्रधानभावो भेदाश्रयो व्यवस्थायां नास्ति, व्यवस्थितानां
प्रत्येकमेकत्वात् । तस्माद् व्यवस्थायां476 गुणाप्रधानभावो न चिन्त्य477 इति । इतिः
सूत्रसमाप्तौ ॥ ३ ॥


॥ इति न्यायत्रिसूत्रीतात्पर्यटीका समाप्ता ॥


86

इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यव
सायात्मकं प्रत्यक्षम् ॥ १ । १ । ४ ॥


प्रत्यक्षादिप्रमाणविशेषलक्षणानामर्थाक्षिप्तसामान्यलक्षणविभागोद्देशहेतुत्वेन
तदनन्तराभिधानमित्याह—अथ विभक्तानामिति । तत्र तेषु मध्ये प्राथम्यात्
प्रत्यक्षलक्षणम् इन्द्रियार्थसन्निकर्षोत्पन्नम् इत्यादि सूत्रम् । अस्य तात्पर्यमाह—
सूत्रार्थः सूत्रप्रयोजनम् । समानासमानजातीयविशेषकत्वम् । समानजातीयम
नुमानादि, असमानजातीयं प्रत्यक्षाभासप्रमेयादि । तेभ्यो विशेषकत्वं विशेषः ।
तदस्य सूत्रस्य प्रयोजनम् । यः खलु कुतश्चिद् व्यामोहात् समानासमानजातीयव्यावृत्तं
तद्रूपं न शक्नोति ग्रहीतुम्, सोऽनेन लक्षणेन बोध्यते, एवंलक्षणकं प्रत्यक्षमिति ।
तस्मात् सामान्यतः सिद्धविविक्तप्रत्यक्षमात्रानुवादेन लक्षणविधानपरमिदं सूत्रम् ।
इतस्त्ववगतलक्षणः तेनैव विविच्य प्रत्यक्षतत्त्वं गृह्णातीति समानासमानजातीयव्य
वच्छदेः सूत्रार्थ उक्त इति । अत्र च यत इत्यध्याहृत्य यत्तदोर्नित्याभिसंबन्धात् तत्
प्रत्यक्षमिति प्रमाणवाचि प्रत्यक्षपदं योजनीयम् । एवं च 478ज्ञानप्रामाण्यपक्षेऽपि यत्
तद्विशेष्यज्ञानं प्रत्यक्षफलं लिङ्गपरामर्शो वा तदपीन्द्रियार्थसन्निकर्षोत्पन्नत्वाद्युपे
तत्वेन भवति प्रमाणविशेषणमिति नाव्यापकत्वं लक्षणस्येति । सूत्रपदार्थं
पृच्छति—अथेति । उत्तरम्—इन्द्रियेति । सन्निकर्षग्रहणलभ्यं प्रकारभेदं परिसंचष्टे—
सन्निकर्षः पुनरिति । पुनःशब्देन संयोगसमवायपदोपादानात् व्यवच्छिनत्ति ।
संयोगपदोपादाने हि न समवायो लभ्यते, समवायपदोपादाने वा न संयोगः ।
सन्तिकर्षपदोपादाने त्वभिमतलाभः । अर्थग्रहणेनार्थ्यमाणतया479 ज्ञेयस्वरुपयोग्यता
दर्शिता । न चासावण्वाकाशादीनामस्तीति सत्यपि संयोगादौ नासावर्थसन्निकर्ष इति
तद्व्युदासः । उत्पन्नग्रहणेन च सन्निकर्षस्योत्पादकत्वं सूचितम् । ततः सत्यप्यर्थस्वरूप
योग्यत्वे संयुक्तसंयोगादेरनुत्पादकस्य सन्निकर्षस्य व्युदासः । अन्यथा कुड्यादि
87 संयुक्तेनेन्द्रियेण कुड्यादिव्यवहितस्य तत्संयुक्तस्य घटादेः तत्समवेतस्य च रूपा
देरपि ग्रहणप्रसङ्गः । न चैतावता त्रिविध एव सन्निकर्षः संयोगः संयुक्तसमवायः
समवायश्चेति सांप्रतम् । स्वतन्त्रव्याघातादनुभवव्याघाताच्च । ये हि 480द्रव्यगुण
कर्माश्रयं सामान्यातिरिक्तं सादृश्यमर्थान्तरं रोचयन्ते, तेषां कथं रूपादिभेदानाम
न्योन्यस्य सादृश्यं प्रत्यक्षं भवेत् ? न हि तदिन्द्रियेण संयुक्तम् । नापीन्द्रियसंयुक्त
समवेतम् । तस्मात् चतुर्थः संयुक्तसमवेतसमवायोऽभ्युपगन्तव्यः । इतरथा स्वतन्त्र
व्याघातः अनुभवव्याघातश्च । अनुभूयन्ते हि रूपगन्धत्वादयः सामान्यविशेषा
अनुगताः, तासु तासु व्यक्तिषु परस्परव्यावृत्तिमतीषु एते नानुभूयेरन् असति
सन्निकर्षान्तरे । यदि तु वैयात्यादाहुः481 नानुभूयन्त एवेति, तदा प्रतिवक्तव्यं
कुतस्त्योऽयमनन्तासु रूपगन्धादिव्यक्तिषु रूपमिति वा गन्ध इति वा व्यपदेश
भेदः ? चाक्षुषत्वाद्युपाधिनिबन्धन इति चेत्-न, अननुसंहितोपाधेरुपहितप्रत्यया
योगात् । न खल्वननुसंहितदण्डश्चैत्रं दण्डीति व्यपदिशति । न चेन्द्रियाण्यती
न्द्रियाणीन्द्रियदर्शनविषयभावमनुभवन्ति । तस्मादस्तीन्द्रियेण रूपत्वादिसामान्या
नुभवो यन्निबन्धनाः कासुचिदेव व्यक्तिषु केचिदेव व्यदेशभेदा इति सिद्धं
सन्निकर्षान्तरम् । विशेषणभावेन च संयुक्तविशेषणं समवेतविशेषणं च संगृहीतम् ।


यस्येन्द्रियेण यादृशः सन्निकर्षः तादृशं तत्र दर्शयति—तत्र चक्षुरिति । शब्दस्य
आकाशगुणत्वम् । कर्णशष्कुल्यवच्छिन्नस्य नभोभागस्य श्रोत्रत्वम् । आद्यस्यैव
शब्दस्य संयोगविभायोनिजत्वम् । सन्तानेन श्रोत्रे समुत्पादः समवाय इत्यादि द्वितीये482
निपुणतरमुपपादयिष्यते । अवयवावयविनौ गुणगुणिनौ क्रियाक्रियावन्तौ
जातिजातिमन्तौ च मिथः संबद्धावनुभूयेते नान्यथा, तन्तुषु पट इति च, शुक्लः पट
इति च, पटः स्पन्दते इति च, पटो द्रव्यमिति च बुद्धिव्यपदेशौ स्याताम् । शुक्लः पट
इत्यादि सामानाधिकरण्यज्ञानं न तु संबन्धज्ञानमिति चेत् ? किं पुनरिदं
सामानाधिकरण्यम् ? तादात्म्यमिति चेत्—न, द्वितीयबुद्धिव्यपदेशयोः पौनरुक्त्यात् ।
88 अपौनरुक्त्यं चाभिमन्यन्ते प्रतिपत्तारः, 483यदन्यतरदुपलभ्यान्यद् बुभुत्सन्ते । न चैकं
वस्तु द्व्यात्मकमिति युक्तम् । भेदाधिष्ठानस्य तन्नान्तरीयकस्य द्वित्वस्यैकात्मनि
विरोधेनासंभवात् । तस्माद् भिन्ने एव वस्तुनी संबद्धे सामानाधिकरण्येन 484भासेते,
असंबन्धे गौरश्व इतिवत् तदनुपपत्तेः । संबन्धेऽपि कुण्डे दधीतिवद्वैयधिकरण्य
प्रसङ्ग इति चेत्—न, शब्दवृत्तिभेदेन संबन्धाभेदेऽपि सामानाधिकरण्य
वैयधिकरण्यव्यवस्थापनात् । न हि जातु दधिशब्दः कुण्डे वर्तते कुण्डशब्दो वा दध्नि ।
वर्तन्ते तु सुरभिमधुरशुक्लादिशब्दाः स्वाभिधेयं निमित्तीकृत्य पटादिषु, एवं
पटादिशब्दा अपि जात्यादि निमित्तीकृत्य द्रव्ये प्रवर्तन्ते इति सामानाधिकरण्यम् । तेन
सामानाधिकरण्येऽपि प्रवृत्तिनिमित्तानां नैकात्म्यं परस्परम् । नापि द्रव्येण, किंतु
तैस्तैरन्वितमेकं द्रव्यं प्रतीयते । शब्दानां तु तत्रैकस्मिन् द्रव्ये प्रवृत्तेः तद्वा
च्यानामैकात्म्यभ्रमः । अयुतसिद्ध्या तु कुण्डे दधीतिवन्न स्फुटतरो विवेक
प्रकाशः । तदेवमस्ति संबद्धानुभवः, न चासौ संबन्धानुभवं विनेति संबन्धोऽनुभूयते,
स चायुतसिद्ध्यादिसंपत्त्या समवायः, न चास्यान्यः समवायोऽनवस्थानात् । न
चेन्द्रियेणास्य संयोगोऽद्रव्यत्वात् । न चासंबद्धस्य ग्रहणम्, इन्द्रियाणां प्राप्य
कारित्वसमर्थनात् । तस्मात् विशेषणविशेष्यभावः परिशिष्यते । नन्वयं विशेषण
विशेष्यभावोऽन्यत्र संबन्धान्तरपूर्वको दृष्टः । तत् किमत्र संबन्धान्तरं कल्प्यताम् ?
तथा चानवस्था इत्युक्तम् । न चेन्द्रियासंबन्धस्य ग्रहणम् । तस्माद् विना संबन्धान्तरं
विशेषणविशेष्यभाव एषितव्य इति सिद्धम् । एवमभावेऽपि यदिन्द्रियसंयुक्तं वा
यद्वेन्द्रियसमवेतं485 यथा भूतले घटो नास्तीति वा नास्त्यकारेऽनुदात्तस्वर इति वा
तस्य संयुक्तस्य वा विशेषणभावेन, समवेतस्य विशेषणभावेन चेन्द्रियप्रत्यासत्त्या
ग्रहणम् । न च भूतलादिरूपमेव घटाभावो नार्थान्तरमिति सांप्रतम्, सत्यपि घटादौ
भूतलस्य भावात् । न च कैवल्यं तस्य धर्मो घटभावविरोधी घटाभावादन्यः । न च
दृश्ये घटादौ भूतलोपलम्भः कैवल्यमभावव्यवहारहेतुरिति युक्तम् । एवं हि
89 घटसंसृष्टभूतलग्रहोऽपि कैवल्यमिति घटाभावव्यवहारं प्रवर्तयेत् । न ह्यदृश्यो
घटस्तदानीं दृश्यमानः । दृश्येऽनुपलभ्यमान इति तु विषेषणे किमपराद्धमुप
लभ्याभावेन येन तदपाकरणायोपलम्भाभावोऽभ्युपेयते । तस्मात् सदिवासदपि
तत्त्वमभ्युपेयम् । तच्च प्रत्यक्षमक्षव्यापारे सति तत्प्रत्ययात् । न च प्रतियोगिस्मरणव्य
वहित इन्द्रियार्थसन्तिकर्षो नालमभावधियमुपजनयितुमिति सांप्रतमित्यग्रे
दर्शयिष्यामः । सविकल्पकस्य प्रत्यक्षत्वसिद्धौ यथा शब्दस्मरणपूर्वगृहीत
पिण्डानुसन्धानादयो नेन्द्रियव्यापारं व्यवदधतीति, न च शब्दस्मरणादीनामनुयोगिता,
भूतलविकल्पं प्रत्यङ्गत्वात्, स्वाङ्गमव्यवधायकमिति न्यायात् । घटस्य तु प्रतियोगि
तेति सांप्रतम् । कस्य पुनः प्रतियोगी घटः ? तदभावस्येति चेद् भवतु । घटाभावानु
भवस्य तु घटस्मरणं हेतुरिति न प्रतियोगि, किंत्वनुयोग्येव । ननु स्वरूपमात्रं दृष्टं
वेश्माद्यर्थं स्मरन्नेव बहिर्निर्गतश्चैत्रो यदा पृच्छ्यते केनचित्-वयस्य तव गृहे तदा
किमासीत् मैत्र इति । स चैत्रः प्रतियोगिस्मरणविरहात् पुर्वमप्रतिपन्नमैत्राभावोऽपि
तत्प्रश्नजनितमैत्रस्मृतिः क्षणं ध्यात्वा तदभावमवगम्याह, मित्र, तत्र नासीत् मैत्र इति ।
तदीयमसतीन्द्रियार्थसन्निकर्षेऽभावबुद्धिर्भवन्ती प्रत्यक्षाद्यतिरिक्तमभावाख्यं
प्रमाणं व्यवस्थापयतीति । नैतत्, संयुक्तविशेषणलक्षणेन मनःसन्निकर्षेण स्मर्तव्यस्य
स्मरणाभावं मैत्रस्य गृहीत्वा तेन लिङ्गेन तदभावस्य तदानीमनुमानात् । तथा हि
तद्गेहं तदा मैत्राभाववत्, ज्ञानार्हस्य मैत्रस्याज्ञाने गेहस्य ज्ञायमानत्वात् । यद् यस्य
ज्ञानार्हस्याज्ञाने ज्ञायते तत् तदभाववत् । यथा घटाभाववद् भूतलम् । तथा च गेहम् ।
तस्मात् तथा । न च यत् कदाचिदानुमानिकं तेनेन्द्रियगम्येन न भवितव्यम्,
प्रमाणसंप्लवव्यवस्थापनात् । तत् सिद्धं विशेषणाभावादभावस्येन्द्रियप्रमेयतेति ।
संयोगसमवायपदपरिहारेण486 सन्निकर्षपदोपादानस्य प्रयोजनमाह—सोऽयं
सन्निकर्षशब्द
इति ।


90

तदनेन प्रबन्धेन इन्द्रियस्यार्थेन सन्निकर्षाद् यदुत्पद्यते ज्ञानं तत् प्रत्यक्षमिति
भाष्यं
व्याख्यातम् । संप्रति न तर्हीति चोद्यभाष्यं व्याचष्टे—यदीन्द्रियार्थेति ।
487प्रत्यक्षज्ञानकारणाभिधानप्रवृत्तस्तदेकदेशं वदन्नकुशलः सूत्रकारः स्यादित्यर्थः ।
कारणान्तराणि दर्शयति—तद्यथेति । विषयसंयोगि चक्षुरालोकश्च । तत्स्थं रूपम् ।
आत्मीयेन हि रूपेणालोकचक्षुषी द्रव्यं दर्शयत इति स्थितिः । महत्त्वं वा अनेकद्रव्य
वत्त्वं वा, अनेकद्रव्या अवयवाः, तद्वत्त्वमवयविनो महत एव न द्व्यणुकस्य ।
तस्मादन्योन्यनिरणेक्षत्वं महत्त्वानेकद्रव्यवत्त्वयोरिति विकल्प एव न्याय्य इति ।
सत्यप्येवंलक्षणकत्वे चक्षुरवयविनस्तैजसस्य न चाक्षुषत्वमित्यत उक्तम्—उप
लब्धिफलः संस्कार
इति । धर्माधर्मनिमित्त उद्भवसमाख्यातः संस्कारः उपलब्धि
फलः न चासौ चक्षुषि तस्यादृष्टवशेनानुद्भूतरूपस्पर्शत्वादित्यर्थः । परिहरति—
वक्तव्यानि
इति । प्रत्यक्षलक्षणकरणप्रवृत्तो488 हि सूत्रकारः तदेव ब्रूयात् यदस्यासाधारणं
कारणम्489 । न तु सदपि साधारणमस्य कारणम् । न हि तत् तस्य लक्षणमतिव्याप्ते
रित्यर्थः । तदनेन नेदम् इत्यादि भाष्यं व्याख्यातम् । असाधारणं कारणं चेत्
प्रत्यक्षलक्षणायोपादेयम्, हन्त, अन्यदप्यस्यासाधारणमस्ति कारणमिति तदप्यु
पादेयमिति चोदयति—इन्द्रियमनःसंयोगस्तर्हीति । तदनेन मनसस्तर्हीत्यस्य
भाष्यस्यार्थ उक्तो वेदितव्यः । परिहरति—न, अनेनैव इन्द्रियार्थसन्निकर्षेणैव । तस्य
इन्द्रियमनःसन्निकर्षस्य उक्तत्वात् । तदुक्तिसाध्यं यत् तत् तेनैव कृतम् । तत् साध्यं
त्विन्द्रियमनःसन्निकर्षो न शक्नोति साधयितुम् । न च सुखदिज्ञाने मानसे अस्तीन्द्रिय
मनःसन्निकर्षः । इन्द्रियार्थसन्निकर्षस्तु सर्वव्यापकः । वक्ष्यति हि मनस इन्द्रियत्वम्490
सुखादेश्चार्थत्वं सिद्धमेवेति । संप्रति व्यापकत्वमभ्युपेत्य परीहारान्तर
माह—इन्द्रियार्थेति । यद्यपीन्द्रियमनःसन्निकर्षेऽपीन्द्रियमस्ति प्रत्यक्षज्ञानस्य
विशेषकम् इन्द्रियेण व्यपदेशादिन्द्रियज्ञानमिति, तथापि मनसा व्यपदेशाभावात्
91 मनसस्तत्राविशेषकत्वम् । इन्द्रियार्थसन्निकर्षे तूभयमपि विशेषकम्, उभाभ्यां
प्रत्यक्षज्ञानस्य व्यपदेशादित्ययमस्येन्द्रियमनःसन्निकर्षाद्विशेष इति ।


चोदयति—यदा त्विति । तुशब्दः पूर्वपक्षं व्यावर्तयति । युञ्जानस्य हि योगिनो
यदात्ममनःसंयोगादात्मनि बुद्धयो भवन्ति ताः खल्वात्मना व्यपदिश्यन्ते आत्मबुद्धय
इति । मनसा च व्यपदिश्यन्ते मनोबुद्धय इति । तस्मादुभाभ्यां व्यपदेशादुभयो
र्विशेषकत्वमितीन्द्रियार्थसन्निकर्षवदात्ममनःसन्निकर्षो वक्तव्य इत्यर्थः ।
परिहरति—यच्चेति । चोऽवधारणे । यदेवासाधारणं तद् व्यपदेशभाग्भवति, कारणत्वेन
तेन व्यपदिश्यते इत्यर्थः । एतदुक्तं भवति—यथा चक्षुषा इन्द्रियत्वेन ज्ञानं व्यपदिश्यते
चाक्षुषमिति, तथा मनसापीन्द्रियत्वेन491 व्यपदिश्यते ज्ञानं मानसमिति । एवं यथा
रूपेणार्थेन व्यपदिश्यते ज्ञानं रूपज्ञानमिति, तथा आत्मनाप्यर्थेन व्यपदिश्यते
आत्मज्ञानमिति । तत्र चासाधारणत्वमेव तयोः । यत्र त्विन्द्रियान्तरमेवासाधारणम्,
लिङ्गादि वा 492तत्र चात्मा नार्थोऽपि तु प्रमातैव । 493यथा रूपादिज्ञानेऽनुमानादिज्ञाने वा
न तत्र ज्ञानं मानसमिति वा आत्मज्ञानमिति वा व्यपदेशः, स कस्य हेतोः ? तयोः
साधारण्यात् । आत्ममनःसन्निकर्षस्त्विन्द्रियार्थसन्निकर्षेण संगृहीतो न त्विन्द्रियार्थ
सन्निकर्षस्यैष संग्राहकोऽव्यापकत्वादिति ।


एकदेशिनः परीहारमुपन्यस्यति—इन्द्रियमनःसंयोगस्य वा अग्रहणं
भेदेऽभेदात् ।
यदा हि नगरयोषितः कुतूहलात् प्रणिहितमनसो विकसितनिःस्प
न्दनयनोत्पलाः सौधमालागवाक्षकैरवनिपतिं सबलवाहनमतिचिरप्रोषितपरावृत्तं
गोपुरेण निविशमानमालोकयन्ति, तदा खल्वासामेकेनैवेन्द्रियमनःसंयोगेन क्रमवदने
केन्द्रियार्थसन्निकर्षसहकारिणा भिन्नानि क्रमवन्ति हास्तिकाश्वीयादिप्रत्यक्षज्ञानानि
जायन्ते । तदिदमाह—यस्मादिति । चोदयति—यदीति । यदा हि मन्दं गच्छति गवि
दूरतः संयुक्तसमवायेनेन्द्रियार्थसन्निकर्षेण शुक्लो गौरित्यज्ञासीत्, अथ प्रत्यासीदन्
गच्छतीत्यपि विजानाति तेनैव संयुक्तसमवायेन सन्निकर्षेण, तेन प्रत्यक्षज्ञानस्य
92 शुक्ल इति च गच्छतीति च भेदेऽपीन्द्रियार्थसन्निकर्षो न भिद्यते । तस्मादिन्द्रियार्थ
सन्निकर्षे तुल्यत्वादिन्द्रिययमनःसंयोगोऽपि तत्र वक्तव्य इत्यर्थः । परिहरति—
वक्तव्यः ।
कुतः—उक्तोत्तरत्वादिति । तद्विभजते—उक्तेति । ननु भवतूक्तमुत्तरं
भेदेऽभेदादित्यस्याक्षेपः समाधातव्यः इत्यत आह—अनभ्युपगमाच्च । एकदेशि
मतमेतदस्माभिर्नाभ्युपेयते । तस्मान्न समाधेयमित्यर्थः । तत् किमिदानीं भिद्यमानस्य
प्रत्यक्षज्ञानस्य नायं भिद्यत इति समानत्वान्नोक्त इति भाष्यम् अनुपपन्नमेव ?
नेत्याह—इन्द्रियमनःसंयोगस्य चाग्रहणं समानत्वात् । पृच्छति—केनेति ।
उत्तरम्—आत्ममन इति । पुनः पृच्छति—किं पुनः समानत्वम् ? उत्तरम्—व्यपदेशा
भाव इत्युक्तम् ।
तेन भाष्यस्यायमर्थः । प्रत्यक्षज्ञानस्य रूपज्ञानस्य रूपज्ञानमिति वा
चक्षुर्विज्ञानमिति वा व्यपदेशेन भिद्यमानस्य आत्ममनःसंयोग इव अयम् इन्द्रिय
मनःसंयोगो न भिद्यते । एवं हि स भिद्यते, यदि स्वसंबन्धिवाचकेन व्यपदेशेन
स्वमन्यतो व्यावर्त्यते, न विशेषणेन विशिष्टं 494विशेष्यं ज्ञानमप्यन्यतो व्यावर्तयेत् ।
न त्वस्ति इन्द्रियमनःसन्निकर्षाधाराभ्यामिन्द्रियमनोभ्यां प्रत्येकमस्य व्यपदेशो
यथेन्द्रियार्थसन्निकर्षाधाराभ्यामिन्द्रियार्थाभ्यां व्यपदेशो रूपज्ञानमिति चक्षुर्ज्ञान
मिति वा । तस्माद् व्यपदेशाभाव आत्ममनःसन्निकर्षेण साम्यमिन्द्रियमनःसन्नि
कर्षस्य । तस्मात् समानत्वात् नोक्त इति ।


प्रकारान्तरं समानत्वे दर्शयति—अतीन्द्रियाधारता वेति । लक्षणं हि प्रसिद्धं
भवति यथा धूमो वह्नेः । न चातीन्द्रियद्वयाधारसन्निकर्षस्तथा प्रसिद्धो यथे
न्द्रियार्थसन्निकर्षोऽर्थस्य संबन्धिन एकस्य प्रसिद्धत्वात्, इन्द्रियमनसोस्तु द्वयो
रतीन्द्रियत्वात् । आत्मा तु यद्यपि युञ्जानस्य शरीराद्यतिरिक्तः प्रत्यक्षः, तथाप्यस्मदा
दीनां न तथेत्यतीन्द्रिय उक्तः । तदनेनातीन्द्रियाधारत्वं स्वरूपेणोक्त्वा495 तदेवं
विषयावृत्तित्वमनोवृत्तित्वाभ्यामतीन्द्रियाधारत्वं सामान्यमाह—विषयावृत्तित्वं
93 वेति ।
उपसंहरति—तस्मादिति । समानत्वादिति भाष्योक्तो हेतुः चरितार्थत्वादिति
स्वोक्तः ।


आक्षिपति—इन्द्रियार्थसन्निकर्षोत्पन्नमित्ययुक्तमिति । सान्तरग्रहणादिति
हेतुं विभजते—विप्रकृष्टेति । ननु नार्थो विप्रकृष्टः, चक्षुषस्तत्र प्राप्तेरित्यत आह—
न तु496 चक्षुष इति । कस्मादित्यत आह—भूतविशेषस्येति । बाह्यो भूतविशेष
आलोकः । तस्य प्रसाद इन्द्रियाव्यवधायकत्वम् कुड्यादिभ्यो विशेषः 497यः खलु
काचाभ्रपटलादिषु स्वच्छेषु समस्ति । स्यादेतत् । अस्ति कृष्णसारलक्षणो भूतविशेषः
प्रसन्नान्धस्यापि, अतस्तस्यापि रूपोपलब्धिः स्यादित्यत आह—तत्तृष्णापूर्वकेति ।
रूपोपभोगतृष्णा हि तत्साधनं कृष्णसारमपि विषयीकरोति । एतदुक्तं भवति—
भूतविशेषः कर्मापेक्षो 498रूपं चष्ट इति चक्षुरित्युच्यते । कर्मक्षयात् तु प्रसन्नान्धस्य न
रूपं चष्ट इति न चक्षुः । अस्तु गोलकमेव चक्षुः किमेतावतापीत्याह—न चेति ।
विच्छिन्नं हि गोलकमर्थादनुभूयत इत्यर्थः । तदेवं वस्तुनः सान्तरस्य ग्रहणमप्राप्य
कारित्वे हेतुरुक्तम् ।


केचित् तु सान्तरमिति ग्रहणविशेषणं हेतुं 499ब्रुवते, तन्मतमुपन्यस्यति—अपरे
त्विति ।
साध्यविपर्ययादस्य व्यतिरेकं दर्शयति—न हि प्राप्यकारिष्विति ।
पक्षधर्मतामाह—दृष्टं त्विति । यच्चोक्तमप्राप्यकारित्वे साधनं पृथुतरग्रहणादिति,
तद्विभजते—पृथुतरेति । द्व्याश्रयो हि संयोगोऽल्पमेव संयोगिनमनुरुध्यते, न
महान्तम् । न जातु रथादिसंयोगा नभो व्यश्नुवते, मा भूत् सर्वत्र रथादीनां
तत्संयोगादीनां चोपलब्धिः । तेन यावन्मात्रं राष्ठ्रवनादेर्गोलकेन व्याप्तं तावन्मात्रस्य
ग्रहणप्रसङ्गंः । हेत्वन्तरमाह—दिगिति । अस्यापि व्यतिरेकमुखेन गमकत्वं दर्शयति—
यदि प्राप्यकारीति । अपरमपि हेतुमाह—सन्निकृष्टेति । यद्यपि गतिक्षणानां प्रत्येकं
स्वाश्रयस्य देशान्तरविभागसंयोगोपजननं प्रति क्षिप्रतया न विशेषः500 स्वाश्रयप्रत्या
94 सत्तौ चाविशेषः तथाप्या चापादानविभागात् आ च प्रापणीयदेशप्राप्तेरन्तरालवर्ती
यावान् गतिक्षणप्रचयः पूर्वापरीभूतो गतिरिह विवक्षितः । तस्य सान्तरत्वं मन्दत्वं
विलम्बः । नैरन्तर्य तु501 पाटवं क्षिप्रता । तामिमां गतिमभिन्दद् नैरन्तर्येण कुर्वदपि
सन्निकृष्टमाशु प्राप्नोति । न विप्रकृष्टेन तुल्यकालम्, किं तु विप्रकृष्टं चिरेणेति । यथोक्तं
दिग्नागेन

सान्तरग्रहणं न स्यात् प्राप्तौ ज्ञानेऽधिकस्य च ।

बहिर्वर्तित्वादिन्द्रियस्योपपन्नं सान्तरग्रहणमिति चेत् अत उक्तम्—
अधिष्ठानाद् बहिर्नाक्षं

किं त्वधिष्ठानदेश एवेन्द्रियम् कुतः ?


502तच्चिकित्सादियोगतः ॥

सत्यपि च बहिर्भावे न शक्तिर्विषयेक्षणे ।

यदि च स्यात् तदा पश्येदप्युन्मील्य निमीलनात् ॥

यदि च स्यात् उन्मील्य निमीलितनयनोऽपि रूपं पक्ष्येत्, उन्मीलनादस्ति
बहिरिन्द्रियमिति ॥


तत्र वार्त्तिककारः सान्तरग्रहणादिति हेतुं विकल्प्य दूषयति—यत् तावदिति ।
सान्तरता खल्वप्राप्तिसाहचर्यात् । अप्राप्तिं लक्षयति—हेत्वर्थस्य प्रतिज्ञार्थेनाक्षिप्त
त्वात्
अभेदेन । तदुक्तम्—न प्रतिज्ञार्थाद् भिद्यत इति । हेतुप्रतिज्ञापदवाच्यत्वेन
भेदमुपचर्याक्षेप्याक्षेपकभावो द्रष्टव्यः । तस्य व्यवधायकत्वादिति । रूपवतोऽ
प्रसादस्वभावस्य कुड्यादेरित्यर्थः । यत् तु प्रसादस्वभावं तेजः तन्न गृह्यते, किं तु
तस्य रूपमात्रं विस्फारिताक्षेण दृश्यते । तदाश्रयं च द्रव्यं साधयिष्यते । न च गुणो
द्रव्यस्यान्तरम् । मा भूद् गन्धादिभिरन्तरं द्रव्यस्य, मा न भूतां च निरन्तरे द्रव्ये,
स्वगुणाभ्यामन्तरितत्वात् । न चापातजन्मालोचनं वा विकल्पो वा द्रव्यानुमानं
प्रतीक्षते येन रूपज्ञानानुमितं द्रव्यमिन्द्रियार्थयोर्द्रव्ययोरन्तरं स्यात् । अपि च
95 रूपमात्रमगृह्यमाणे द्रव्ये स्वतन्त्रं गन्धादिवद् गृह्यमाणं कथमन्तरा स्वाश्रयम
नुमापयेत्, आकाशादीनामाश्रयाणामग्रहणात् ? तस्माद् 503विषक्तावयवतेजोद्रव्या
प्रत्यक्षत्वसमारोपमात्रेण दूषणं वक्ष्यमाणं त्वन्यथासिद्धत्वदूषणं पारमार्थिकं द्रष्टव्यम् ।
अथाभावोऽन्तरशब्दवाच्य इति, नास्माकं मूर्तद्रव्याभावादन्यदाकाशमस्तीति
भावः । दूषयति—स स्वतन्त्रश्चक्षुर्विषयो न भवति । इन्द्रियं चार्थं चान्तरा अभावो
ग्राह्यः, तेन सहार्थस्य ग्रहणं सान्तरग्रहणम् । न चेन्द्रियार्थयोर्मध्ये कस्यचित्
संयुक्तस्य वा समवेतस्य वा ग्रहणमस्ति, यत्तन्त्रोऽयमभावो गृह्येत इति भावः ।


स्यादेतत् । मा भूदान्तरालिकं संयुक्तं वा समवेतं वा विशेष्यं गृह्यमाणमेव तु
रूपादि विशेष्यमिति । तत्तन्त्रोऽयमभावस्तद्विशेषणत्वेन निरूपयिष्यते । ततश्च
सान्तरग्रहणमुपपत्स्यत इत्यत आह—तेन सहोपलब्धाविति । प्रतीयते हि त्वगादि
भिरपीन्द्रियैः प्राप्यकारिभिरौष्ण्याभावविशेषणं शिशिरतरं पाथः । न चेन्द्रियाणाम
त्राप्राप्यकारिता, तस्मादनैकान्तिकम् । अन्वयाभ्युपगमेनैतदुक्तम् । अन्वयाभावे तु
विरुद्धमिति भावः । न च तैजसं रूपमन्तरम्, येन सान्तरग्रहणं स्यादित्याह—
चान्या गतिरिति ।
यथा चैतत् तथोपपादितमधस्तात् । ये तु सान्तर इति ग्रहणमिति
हेतुमाहुः, तान् प्रति दूषणमाह—यैरपीति । अन्यथासिद्धत्वे हेतुमाह—शरीरेति ।
शरीरावच्छिन्नाः खल्वात्मानः शरीरायतनाः शरीरमेवात्मानमभिमन्यमाना
अर्थाननुभवन्ति । तत्र य एव शरीरासंबद्ध इत्यनुभूयते, तमेव सान्तर इति मन्यते ।
इन्द्रियसंबन्धो भवतु, मा वा भूत्, शरीरसंबन्धेन तस्य स्पर्शादौ न सान्तरत्वाभिमान
इत्यर्थः । हेत्वन्तरं दूषयति—यदपीति । संबन्धमात्रेणेति । मात्रग्रहणं संबन्ध
चतुष्टयव्याप्त्यर्थम् । तद् यथा इन्द्रियेणार्थस्य संबन्धः, इन्द्रियावयवैरर्थस्य,
अर्थावयवैरिन्द्रियस्य, इन्द्रियावयवैरर्थावयवानाम् । न चैतत् निर्यता विना पृथ्वग्रतां
भवतीति पृथ्वग्रता सूचिता । यथा वर्त्तिदेशे पिण्डितमपि तेजः प्रसर्पत् प्रासादोदरं
व्याप्नोति तत् कस्य हेतोः ? पृथ्वग्रत्वादिति । स्वभावतः प्रसरदपि न स्वपरि
96 माणानुविधायिनं प्रत्ययमाधत्ते, किं तु विषयभेदानुविधायिनम् । विषय
निरूपणाधीननिरूपणा हि प्रत्यया नेन्द्रियनिरूपणाधीननिरूपणाः । तदिदमुक्तम्—
विषयभेदानुविधायी प्रत्यय इति ।


अपरमपि हेतुं दूषयति—यत् पुनरिति । देहमर्थं चान्तरावस्थितस्य पृथिव्यादेः
संयुक्तसंयोगाल्पीयस्त्वं भूयस्त्वं चापेक्षमाणस्येति । खगानां चोपर्युपरि संचरतां
दूरान्तिकभावो बहुलतमालोकावयवभागानां संयुक्तसंयोगाल्पत्वभूयस्त्वाभ्याम
वगन्तव्यः । स च तादृगालोकावयवी प्रत्यक्षोऽन्यथा न रूपमात्रेण तदनुमानं
शक्यमित्युक्तम् । न च खगानामुपर्युपरि संचरतां दूरान्तिकप्रत्ययः स्यात् । न च पतति
पतत्रिणीह प्राप्तो नेहेति भवेत् । तस्मादन्यथासिद्धिरेव सहान्तरेण ग्रहणादितिवदत्रापि
दूषणमिति द्रष्टव्यम् ।


अपरमपि हेतुं दूषयति—यत् पुनरिति । युगपद्ग्रहणमसिद्धम् । तदभि
मानस्त्वन्यथासिद्धः । अचिन्त्यो हि तेजसो लाधवातिशयेन वेगातिशयो
यदुदयगिरिशिखरमारोहत्येव मार्तण्डमण्डले भवनोदरेष्वालोक इत्यभिमानो
लौकिकानाम् । तादृशं चाक्षुषमपि तेज इति क्रमेणापि गच्छद् युगपत्तत्र तत्र प्राप्तमिति
लक्ष्यते । न चैकस्मादेव कर्मणो युगपद् दूरान्तिकसंयोगा भवन्तीति युक्तम् । तद्धि
स्वकार्ये जनयितव्ये स्वाश्रयप्रत्यासत्तिमपेक्षते । अन्यथा मधुरास्थस्य देवदत्तस्य कर्मं
पाटलिपुत्रेण देवदत्तं योजयेत् । वेगाख्यसंस्कारजमपि कर्म न सहसा शरमन्तरालदेशेन
च लक्ष्येण च योजयति । तस्मात् मिथ्यैव यौगपद्याभिमान इति । चोदयति—कथं
पुनरिति ।
अस्ति हि शाखाचन्द्रमसोर्ग्रहणे यौगपद्याभिमानः । न 504चायमसति बाधके
मिथ्येति वक्तुं 505शक्यः । सोऽयमबाधितो 506बोधोऽवबोधयत्यप्राप्यकारितां चक्षुष
इत्यर्थः । परिहरति—इदमिति । इन्द्रियं यद्यगत्वानागतमर्थं गृह्णीयात्, किमस्य
कुड्यकटाद्यावरणमपकुर्यात् येन तदावृतं न गृह्णीयात् । गतौ तु स्पर्शवता प्रसादरहितेन
सैवास्य प्रतिबद्धेति न प्राप्नोति विषयम्, अप्राप्तं च न गृह्णाति । प्रयोगस्तु, चक्षुःश्रोत्रे
97 प्राप्य स्वविषये कार्यं कुरुतः, जनकत्वे सति तदप्राप्तावजनकत्वात् । यज्जनकं सद्
यदप्राप्तौ यन्न जनयति तत् तत्प्राप्तावेव तज्जनयति, यथा कुम्भजनकः कुम्भकारो
मृदोऽप्राप्तावकुर्वन् कुम्भं तत्प्राप्तावेव करोति । तथा चैतत् । तस्मात् तथेति ॥


युक्त्यन्तरमाह—दूरान्तिकानुविधानमिति । दूरे नोपलभ्यते, अन्तिके
चोपलभ्यते । अप्राप्तेरविशेषेण दूरेऽप्युपलम्भः स्यात् । अनुपलम्भे वा अन्तिकेऽपि
507 स्यात् । प्राप्तौ तु दूरं गच्छत् प्रक्षीणं सत् प्राप्तमर्थं न गृह्णाति अतैजसम् ।
तैजसमप्यभिभूतं न गृह्णाति यथोल्काप्रकाशं मध्यान्दिने । अनभिभूतं तु मार्तण्डमण्डलं
गृह्णात्येवेति । चोदयति—विषयीभावादिति । योग्यो हि तादृश इन्द्रियक्षणः
स्वकारणादुपजातः परिणतो वार्थक्षणश्च, ययोरप्राप्तयोरेव ग्रहणग्राह्यभावः ।
व्यवहितविप्रकृष्टौ च न तौ तादृशौ । तत् किमप्रतीयमानप्राप्तिकल्पनयेत्यर्थः ।
परिहरति—तच्च नैवमिति । निषेत्स्येते हि क्षणभङ्गपरिणामौ भावानाम् । तेन
स्थेमभाजां भावानां स्वरूपयोग्यता वा महत्त्वादिर्विषयीभावः सहकारिसाकल्यं वा
ज्ञानोपजननं प्रति परिशिष्यते । तत्र स्वरूपयोग्यतामात्रं चेदास्थीयेत, तदा यदेवाव्यवहितं
सन्निहितं सद्508 अजनयद् विज्ञानं विप्रकृष्टमपि व्यवहितमपि तदेवेति तथैव तेन ज्ञानं
जनयितव्यम् । अस्ति हि तस्य तदापि स्वरूपयोग्यतेति सहकारिसाकल्यं तु प्राप्तिरेव ।
तस्मात् न संबन्धमन्तरेण विषयीभाव इति सूक्तम् । सन्दिग्धः पृच्छति—अथ
प्राप्यकारित्व
इति । अयमभिसन्धिः—कुलालादौ प्राप्यकारिणि दृष्टं यथा विप्रकृष्टो
व्यवहितश्च न करोतीति अप्राप्यकारिणि चायस्कान्तादौ दृष्टं यथा विप्रकृष्टो
व्यवहितश्च लौहं 509मणिराकर्षति, तस्मात् तत्र प्रमाणं वक्तव्यमिति । उत्तरम्
इन्द्रियत्वमेव प्रमाणम् । तदेव पञ्चावयवोपपन्नमाह—प्राप्यकारीति । यदि तु
कश्चित् दृष्टान्तस्य साध्यविकलत्वमुद्भावयेत् त्वगादीनामप्राप्यकारित्वादिति, तं
प्रत्याह—अथ 510पुनर्न किञ्चदिति । पृच्छति—अथेति । योग्यतयैव हि कारणानि
स्वकार्यं कुर्वन्ति, प्राप्तिस्तु स्वरूपयोग्यताप्रयुक्तां व्याप्तिमुपजीवति, न त्वस्याः
98 स्वाभाविकं व्यापकत्वमिति भावः । उत्तरम्—सोऽपीति । सहकारिसाकल्यं तावत्
न प्राप्तेरतिरिच्यत इत्युक्तम् । केवलं स्वरूपयोग्यता वक्तव्या । सा च व्यस्तानामप्यस्तीति
यत्र तत्र व्यवस्थितेभ्योऽपि कार्योत्पादप्रसङ्गः । अयस्कान्तमणेरपि चक्षुष इव
वृत्तिभेद एषितव्यः, अन्यथा व्यवधानविप्रकर्षयोरपि लौहाकर्षणप्रसङ्गात् । न च
व्यवधानविप्रकर्षाभावसहितो लौहमाकर्षति, व्यवधानविप्रकर्षयोस्तु तदभावाभावे
511नाकर्षति सांप्रतम् । प्राप्तेरेव तत्र तत्र कार्योत्पादं प्रति उपयोगस्य विदितत्वात्512
योग्यतामात्रस्य चोपाधेरपाकृतत्वात् । यथा च द्रव्यातिरिक्तस्तद्धर्मः प्राप्तिस्तथाग्रे
निवेदयिष्यते । तस्मात् सर्वमवदातम् । उपसंहरति—तस्मादिति । यदपि कृष्णसारा
नुग्रहोपघाताभ्यां दर्शनादर्शनादिति तत्रोच्यते, 513तदधिष्ठानमिन्द्रियमित्यधिष्ठा
नानुग्रहोपघाताभ्यां तस्यानुग्रहोपघातौ । यथा कूष्माण्डलतासेचनच्छेदनाभ्यां
तत्फलस्यानुग्रहोपघातौ । अत+एव 514बहिर्निःसृताप्यच्छिन्नमूला दृष्टिः515 कार्याय समर्था
न छिन्नमूलेति सिद्धम् ।


पृच्छति—अथ ज्ञानेति । प्रत्यक्षसमाख्यातलक्षणानुवादेन लक्षणे विधीयमाने
ज्ञायत एवैतज्ज्ञानमेवेति लोके साक्षात्कारिज्ञानहेतोः प्रत्यक्षत्वादिति भावः ।
उत्तरम्—सुखादिव्युदासार्थम् । तदेव हि लक्षणवाक्यमुच्यते, यस्य लक्ष्यानपेक्षोऽ
तिव्याप्त्यव्याप्तिव्युदासो लक्षणपदेभ्य एव प्रतीयते । लक्ष्यानुरोधेन तु लक्षण
व्यवस्थापनेऽन्योन्याश्रयत्वमगतिर्वेति भावः । सुखादीनां विज्ञानाभिन्नहेतुजत्वेन
विज्ञानत्वादशक्यं व्यावर्तनमिति चेत्—न, अभिन्नहेतुजत्वादिसिद्धेः । न खलु यैव
चन्दनस्पर्शज्ञानस्योत्पत्तौ सामग्री सैव सुखस्यापीति । अस्ति हि शीतार्तस्यापि
चन्दनेन्द्रियसंयोगात् शीतस्पर्शज्ञानमिति तद्वदेवास्य सुखमपि भवेत् ।
अवान्तरसामग्रीभेदेऽपीन्द्रियार्थमनस्कारजत्वात् ज्ञानजातीयत्वमिति चेत्—न,
किञ्चित्कारणाभेदेऽपि कार्यभेदस्यानाकस्मिकत्वोपपत्तेः । तदर्थत्वाच्च कारण
99 भेदानुसरणप्रयासस्य । न चोपादानाभेदादभेद इति युक्तम् । भिन्नानामपि ज्ञानानामेक
समनन्तरप्रत्ययोपादानत्वस्य भवद्भिरभ्युपगतत्वात् । अपि चोपादानाभेदश्च कुतश्चित्
कारणभेदात् कार्यभेदश्चेति को विरोधः ? अत एवास्माकमभेदेऽप्युपादानस्य
पिठरस्यौष्ण्यापराख्यस्य च वह्निसंयोगस्य पूर्वरूपादिप्रध्वंसानां कारणानां भेदाद्
भिन्नजातीया जायन्ते गन्धरूपरसस्पर्शा इति सिद्धान्तः । तस्मादर्थप्रवणेभ्यो
ज्ञानेभ्यस्तदप्रवणतया भिन्नजातीयाः सुखादयो यथास्वमनुकूलवेदनीयत्वादि
भिर्लक्षणैरन्योन्यमपि भेदवन्तस्तीव्रसंवेगतया प्रमित्सानपेक्षमानसप्रत्यक्षप्रवेदनीया
इति रमणीयम् ॥


स्यादेतत् । असत्यपीन्द्रियार्थसन्निकर्षे ज्ञानमात्रादेव सुखदुःखयोः स्वप्नान्तिके
दर्शनात् यत्रापीन्द्रियार्थसन्निकर्षस्तत्रापि ज्ञानमस्तीति तदेव सुखदुःखयोः कारणं
कॢप्तसामर्थ्यात् । इन्द्रियार्थसन्निकर्षस्य तु ज्ञानमात्रोपयोगादन्यथासिद्धौ भावाभावा
विति । तदयुक्तम्, स्वप्नान्तिके सुखदुःखोत्पादस्यासिद्धेस्तज्ज्ञानस्यार्थज्ञानस्येव
मिथ्यात्वात् । यथा हि तत्र कामिनीस्मृतिविपर्यास एवमुपलब्धचरतज्जन्मसुख
स्मरणविपर्यासः । सुखदुःखबुद्ध्यूत्पाद एव 516चात्र धर्माधर्मोपयोगो न तु सुख
दुःखोत्पादे । न चासतीन्द्रियार्थसन्निकर्षे ज्ञानमन्यन्मनोरथादि वा तादृशं सुखभेदं
विधत्ते यादृशो विषयोपभोगजन्मा । सतीन्द्रियार्थसन्निकर्षे ज्ञानमात्रमेव तस्य हेतुः ।
ज्ञानहेतुस्तु सन्निकर्ष इत्युक्तमिति चेत्—न, विषयासन्निधाने विषयस्मृतिमतः
तादृशस्य सुखभेदस्यानुत्पादादित्यप्युक्तमेव517 । विषयसाक्षात्कारस्तदुत्पादहेतुर्न
विषयज्ञानमात्रमिति चेत् ? हन्त, ईश्वरस्याप्यस्ति तत्रभवतो योगर्द्धिसंपन्नानां च
महाधियां समस्तवस्तुसाक्षात्कार इति तेषामपि सुखदुःखोत्पादप्रचयः प्रसज्येत
असत्यां प्रतिपक्षधारणायाम् । तस्मादिन्द्रियार्थसन्निकर्षोऽपि सुखदुःखोत्पाद
हेतुरेषितव्यः । स च सत्यप्यर्थसाक्षात्कारे नास्ति सिद्धानामिति न तेषां सुख
दुःखोत्पादः । अपि च चरमभावि कारणं गृहीत्वा पूर्वभाविनामकारणत्वापादने
100 तन्त्वादीनामपि पटादीन् प्रत्यकारणत्वप्रसङ्गः । संयोगभेदादेव तादृशपटात्पत्तेः
तन्त्वादीनां च संयोगभेद एवोपयोगात् । तत्सहितस्य तु तत्कारणत्वं518 सनिनिकर्ष
स्याप्यालोचनसहितस्येति समानम् । यथाहुः पदार्थविदः स्रगाद्यभिप्रेतविषय
सान्निध्ये सतीष्टोपलब्धीन्द्रियार्थसन्निकर्षधर्माद्यपेक्षादात्ममनसोः संयोगात् यदनुग्रहा
भिष्वङ्गनयनादिप्रसादजनकमुत्पद्यते तत्सुखम्519 इति । तस्मात् सुष्ठूक्तं सुखादि
निवृत्त्यर्थं ज्ञानग्रहणमिति ।


इह द्वयी प्रत्यक्षजातिरविकल्पिका सविकल्पिका चेति । तत्रोभय्यपि
इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यभिचारीति लक्षणेन संगृहीतापि स्वशब्देनो
पात्ता, तत्र विप्रतिपत्तेः । तत्राविकल्पिकायाः पदम् अव्यपदेश्यमिति, सवि
कल्पिकायाश्च व्यवसायात्मकमिति । तत्र व्यपदेशो विशेषणमुपलक्षणं वा
नामजात्यादि, तत् कर्म व्यपदेश्यं विशेष्यमिति यावत् । तद्यथा डित्थोऽयं गौरयं
शुक्लोऽयं कमण्डलुमानयं गच्छत्ययमिति सर्वं हि सविकल्पकं विशेषणविशेष्य
भावेन वस्तुषु प्रवर्तते । अविद्यमानं व्यपदेश्यं यस्मिंस्तदव्यपदेश्यं जात्यादि
स्वरूपावगाहि, न तु जात्यादीनां मिथो विशेषणविशेष्यभावावगाहीति यावत् ।


तत्र नामरहितमविकल्पकं नास्तीति ये विप्रतिपद्यन्ते तन्मतमपाचिकीर्षुरुप
न्यस्यति भाष्यकारः यावदर्थं वै नामधेयशब्दाः । सर्वेऽर्थाः सर्वथा सर्वदा सर्वत्र
नामधेयान्विताः । नास्ति सोऽर्थो यः कदाचित् क्वचित् कथञ्चित् नामधेयेन वियुज्यते ।
तदनेन नामधेयतादात्म्यमर्थानां प्रतिजानीते । अत्र हेतुमाह—तैरर्थसंप्रत्यय इति ।
अर्था हि प्रतीयमाना नामधेयैरुपेतास्तत्सामानाधिकरण्येनावगम्यन्ते, गौरित्यर्थोऽश्व
इत्यर्थ इति । न चोपायतया सामानाधिकरण्यं घटते । न हि चक्षुरादिसामानाधिकरण्यं
रूपाद्यनुभवति । नापि ज्ञायमान उपाय उपेयसामानाधिकरण्यमनुभवति । न हि भवति
धूमोऽयं वह्निरिति, किं तु धूमोऽयं धूमत्वात् वह्निमानिति । अपि चाशब्दोपायेऽनुमे
यादौ न शब्दसंभेदेनाधिगमो भवेत्, अस्ति तु । तस्मात् तैर्नामधेयैः सह समाना
101 धिकरणस्यार्थस्य प्रत्ययो यत इति । तस्मात् नामधेयात्मानोऽर्थाः । किं च गवादिषु
520षड्जादिषु च शब्दापकर्षेऽर्थप्रत्ययापकर्षात् तदुत्कर्षे त्वर्थप्रत्ययोत्कर्षात् प्रत्ययस्य
च प्रत्येतव्योत्कर्षाधीनोत्कर्षत्वात् नामधेयोत्कर्षेणार्थस्योत्कर्षोऽर्थस्य तादात्म्यं
521गमयति । तदिदं समः प्रयोजनं संप्रत्यय इति समधिकः प्रत्यय इत्यर्थः । अस्त्यर्थ
संप्रत्ययो नामधेयसामानाधिकरण्येन, न त्वेतावता नामधेयात्मता सिध्यति । अस्ति
हि पुरोवर्तिद्रव्यसामानाधिकरण्येन522 रजतप्रत्ययो न चैतावता शुक्ती रजतात्मिका
भवतीत्यत आह—अर्थसंप्रत्ययाच्च व्यवहारः । ततश्चाविसंवादात् प्रमाणं
सन्नामधेयतादात्म्यं साधयत्यर्थानामित्यर्थः ।


तदेवं सामान्यतोऽर्थानां नामधेयतादात्म्यं व्युत्पाद्य प्रकृते योजयति—तत्रे
दमिन्द्रियार्थसन्निकर्षादुत्पन्नं विषयज्ञानं रूपमिति वा रस इति वा
एवं रूपा
द्यर्थसामानाधिकरण्येन भवति । भवतु, किमेतावतापीत्यत आह—रूपरसशब्दाश्च
विषयनामधेयम् ।
किमेतावतापीत्यत आह—तेन व्यपदिश्यते ज्ञानम् । उक्तमपि
व्यपदेशं सव्याख्यानमाह—रूपमिति जानीते रस इति जानीते इति । तथा चार्थानां
नामधेयात्मकत्वात् तद्गोचरमालोचनमपिनामधेयगोचरमित्यर्थवत् नामधेयेन
व्यपदिश्यमानं शाब्दं प्रसज्यत
इति । न शब्दप्रमाणकतया शाब्दम्, अपि तु शब्दे
जातं शाब्दम् । शब्दश्चात्र विषयत्वेन जनकोऽर्थतादात्म्यात् । तथा च नाविकल्पकं
शब्दरहितमस्तीति तात्पर्यार्थः । तथा चाहुः,

न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते ।

अनुविद्धमिव ज्ञानं सर्वं शब्देन गम्यते ॥
वाक्यपदीयम् १॑१२३
बालमूकादीनामपि ज्ञानं शब्दानुव्याधवदेवानादिशब्दभावनावशात् । यदवोचत्,
आद्यः करणविन्यासः प्राणस्योर्द्ध्वं समीरणम् ।

स्थानानामभिघातश्च न विना शब्दभावनाम् ॥
वाक्यपदीयम् १॑१२२
102 इति । तदस्य निराकरणं लक्षणगतेनालोचनज्ञानावरोधार्थेनाव्यपदेश्यपदेन सूचित
मिति परीक्षापर्वणि वचनार्हमपि सुभाषितरुचितया तद्विलम्बमसहमानो भाष्य
कारो
लक्षणावसर एवाह । अत एवाह—अव्यपदेश्यमिति । तेन सूचितेऽप्यर्थे
अव्यपदेश्यपदं योजयति—यदिदमनुपयुक्ते शब्दार्थसंबन्धेऽर्थज्ञानम्, न तत्
नामधेयशब्देन व्यपदिश्यते ।


अयमभिसन्धिः । सामानाधिकरण्येन शब्दात्मकत्वं रूपादीनामभिधीयमानं
शब्दब्रह्मात्मकत्वं वोच्येत श्रूयमाणगौरित्यादिपदभेदात्मकत्वं वा ? न तावदाद्यः
कल्पः । न खल्वस्मदादिसमस्तदर्शनपथातिवृत्तेन शब्दब्रह्मणा रूपादीनामस्ति
सामानाधिकरण्यप्रतीतिर्लौकिकानाम् । श्रूयमाणशब्दसामानाधिकरण्येन तु
तादात्म्यप्रसाधने अनुपयुक्तशब्दसंबन्धस्य बालमूकादेः रूपादिज्ञानेषु नास्ति श्रूय
माणशब्दगन्धोऽपि, प्रागेव तु तत्सामानाधिकरण्यम् । न च तेषामपि प्राग्भवीय
शब्दभावनानुगमेन तत्सामानाधिकरण्यमिति सांप्रतम् । न खलु रूपाद्यात्मनः शब्दस्य
रूपादिवैशद्येनावैशद्यं संभवति । युगपद् वैशद्यावैशद्यरूपविरुद्धधर्मयोगेन भेद
प्रसङ्गात् । वैशद्ये तु व्युत्पन्नवदव्युत्पन्नोऽपि शब्दैर्व्यवहरेत्, न तु संबन्धग्रहणम
पेक्षेत । न च तादात्म्यादन्यद् वाचकत्वं शब्दानां यत्र संबन्धग्रहापेक्षा भवेत् । न च
तादात्म्येऽपि कल्पितभेदानां वाच्यवाचकभावः । तथा सति न सामानाधिकरण्यं
स्यात् । न ह्यस्ति संभवो भेदकल्पना च सामानाधिकरण्यप्रथा चेति । तस्मादव्यु
त्पन्नानामस्ति शब्दरहितं रूपादिषु निर्विकल्पकं प्रत्यक्षमिति । न केवलमव्युत्पन्ना
नाम्, व्युत्पन्नानामप्यस्तीत्याह—गृहीतेऽपि च शब्दार्थसंबन्धे इति । अर्द्धोक्त एव
सामानाधिकरण्यनिरासाय संबन्धग्रहणस्वरूपमाह—अस्यार्थस्य सास्नादिमद्रूपस्य
अयं गकाराद्योकारो नामधेयमिति । इतिकरणो ज्ञानपरामर्शप्रधानः । तथा च यो
डित्थो नानादेशकालावस्थासंसृष्टः पिण्डभेदः सोऽयमिति सन्निहितदेशकाल
इत्यर्थः । न त्वयं पिण्डो डित्थशब्द इति प्रत्ययः । औत्सर्गिकं हि शब्दानामर्थ
परत्वं क्वचित् पुनरित्यादिभिः शब्दैस्तदपोद्यते । यत्रापि संबन्धप्रतिपादनमभेदेन
103 523अयं डित्थ इति, तत्रापि शब्दो वाच्यत्वपरो524 न स्वरूपपरः । यथा गौर्वाहीक इति
लक्ष्यमाणगुणयोगपरः । न च तन्मात्रेण वाहीकस्य गोत्वं भवति । तस्माद् भिन्नयोरेव
शब्दार्थयोः संबन्धग्रहात् तन्मूलत्वाच्च शब्दव्यवहारस्य न शब्दपुरःसरमपि ज्ञानं
525शब्दसामानाधिकरण्यमात्मनोऽर्थस्यावगमयति । यत्तु शब्दानुपायेऽपि ज्ञाने शब्दः
पूर्वं भवति तद्गृहीतसङ्केतस्य प्रथममिन्द्रियार्थसन्निकर्षादालोचनेन शब्दसंसर्ग
रहितेनालोचितेऽर्थमात्रे तस्यार्थभेदस्य526 शब्दभेदेन संबन्धात् शब्दविषयः संस्कारः
प्रबोध्यते । स प्रबुद्धः शब्दस्मृतिं जनयति । तेन व्युत्पन्नस्य निर्विकल्पकात् पराञ्चः
प्रत्ययाः शब्दानुपाया अपि शब्दपुरःसरा जायन्ते । यथाहुः,

यत् संज्ञास्मरणं तत्र न तदप्यन्यहेतुकम् ।

पिण्ड एव हि दृष्टः सन् संज्ञां स्मारयितुं क्षमः ॥

तस्माद् व्युत्पन्नस्यापि नामधेयस्मरणाय पूर्वमेषितव्यो विनैव नामधेयमर्थप्रत्ययः ।
तदिदमुक्तम्—गृहीतेऽपि च शब्दार्थसंबन्धे अस्यार्थस्यायं शब्दो नामधेयमिति ।
यदा तु सोऽर्थो गृह्यते
नामधेयरहितो नामधेयस्मरणात् पूर्वमविकल्पेन तदा
पूर्वस्माद् अव्युत्पन्नावस्थायाम् अर्थज्ञानात् न विशिष्यते इति । यतो न विशिष्यते
तस्मात्527 तदर्थज्ञानं तादृगेव भवति । ननु परप्रतिपादनादिलक्षणव्यवहाराय स्वरूपेण
ज्ञाने व्यपदेष्टव्ये यदर्थव्यपदेशेन व्यपदिश्यते तदवगच्छामोऽर्थव्यपदेशाकारमिति ।
कथं चार्थाकारं भवति ? यद्यर्थव्यपदेशयोर्नाभेदः, तस्मात् पुनरपि तादात्म्यं
प्रसक्तमित्यत आह—तस्य त्विति । अर्थाकारमेव तु ज्ञानमर्थव्यपदेशेन व्यपदिश्यते
अन्यथा अशक्यत्वादित्यर्थः । प्रतीयमानं परेण । उपसंहरति—तस्मादिति ।
तदेवमर्थज्ञानकाले स न समाख्याशब्दो व्याप्रियते
प्रतीयमानतया व्यवहार
काले
परप्रत्यायनकाले तु व्याप्रियते कारणतया । तदनेन गोपालाविपालादीनां
संज्ञानिवेशनं तासु तासु व्यक्तिषु व्यवहारोत्कर्षहेतुः नार्थोत्कर्षहेतुरित्यपि सूचितं
104 भवति । तस्माद् अविकल्पकप्रत्यक्षावरोधार्थेनाव्यपदेश्यपदेनास्यैवाविकल्पकस्य
शब्दानुव्याधरहितता सूचिता इत्याशयवान् उपसंहरति—तस्मादिति ।


तदेतद् भाष्यं वार्त्तिककारः तात्पर्यतो व्याचष्टे—तच्चेन्द्रियार्थेति ।
विषयभेदानुविधायि ज्ञानमिति
शब्दात्मतामपाकरोति । चाक्षुषं हि रूपज्ञानं रूप
एव नियतं न शब्दे प्रवर्तते । एवं श्रौत्रमपि शब्द एव नियतं न रूपादौ प्रवर्तते । यदि
पुनरिदं शब्दात्मकं रूपादि भवेत् श्रोत्रजं ज्ञानं शब्दग्राहीति रूपादावपि प्रवर्तेत ।
अप्रवर्तमानं वा विधुरयति रूपादीनां शब्दात्मताम् । अपि च श्रूयमाणशब्दात्मत्वे
रूपादीनाम्, तेषामपि श्रवणग्राह्यत्वमित्यन्धोऽपि रूपं गृह्णीयात् । अस्ति हि तस्य
श्रोत्रं च शब्दज्ञानं च । एवं बधिरोऽपि शब्दं गृह्णीयात् । अस्ति हि तस्य लोचनं च
रूपज्ञानं च । अशब्दोऽभाव इति च विवक्षितविपरीतापत्तिः शब्दाभावस्यार्थस्य
शब्दत्वात्, अशब्दत्वे वा स एवास्यार्थः शब्दाद् भिन्नः प्रसज्यते । एवमभावोऽप्यर्थ
इति शब्दः स्यात् । तथा च नाभावः, शब्दस्य सत्त्वात् । तथा चार्थानुविधायि विज्ञानं
न भवेत् । अस्ति च । तस्मात् न शब्दात्मानोऽर्था इति । तदुत्पत्तिकाल इति प्राथम्येन
शब्दानुव्याधं व्यावर्तयति ।


एकदेशिव्यारव्यानमाह—अपरे त्विति । इन्द्रियार्थसन्निकर्षेण हि लिङ्गेन
यदिन्द्रियगतिज्ञानं तदपि प्रत्यक्षलक्षणोपेतमिति प्रत्यक्षं प्रसज्यत इति 528तन्निवारणाया
व्यपदेश्यपदम् । अपदेशो हेतुवचनम् । तदेव तदाभासेभ्यो विशिष्टं व्यपदेशः । तस्य
कार्यं हेतुप्रत्यायनद्वारा अनुमेयज्ञानं व्यपदेश्यम् । न व्यपदेश्यमव्यपदेश्यम
लिङ्गोद्भवमित्यनुमानं व्यावर्तितमित्यर्थः । तदेकदेशिमतं दूषयति—तच्च नैवमिति ।
नन्विन्द्रियगतिज्ञानमपि इन्द्रियार्थसन्निकर्षाल्लिङ्गादुत्पन्नमित्यत आह—न ह्यनुमेय
स्येति ।
नैतदिन्द्रियार्थसन्निकर्षादुपजायते, किं तु तज्ज्ञानात् । अत+एवातीतेऽपि धूमादौ
लिङ्गे तत्स्मरणमात्रादेवानुमेयज्ञानं भवति । न च सन्निकर्षपदस्य मुख्यत्वे संभवति
105 ज्ञानलक्षणा युक्तेति भावः । उपसंहरति—अत इति । इमं च वार्त्तिकग्रन्थमबुध्यमाना
इन्द्रियगतिज्ञाननिवृत्त्यर्थमिन्द्रियविषयेष्विति पदं सूत्रेऽध्याहरन्तीति ।


क्रमप्राप्तस्याव्यभिचारिपदस्य तात्पर्यं ब्रुवाणो भाष्यस्यापि तात्पर्यमाह—ग्रीष्मे
मरीचय
इतीति । यद्यपि सामान्यलक्षणेनैव व्यभिचारिणो निरस्ताः प्रत्ययास्तदपेक्षं
च विशेषलक्षणम्, अन्यथा अनुमानादिपदेष्वप्यव्यभिचारिपदमुपादेयं स्यात्, तथापि
सिद्धे सत्यारम्भो नियमार्थः । द्वयी हि प्रमाणानां गतिः । किञ्चित् सत्तामात्रेण
प्रमासाधनं यथा प्रत्यक्षम् । न हि चक्षुरादीनां ग्रहणं प्रमायामुपयुज्यते, अपि तु सत्तैव ।
अनुमानादीनि तु स्वज्ञानेन प्रमासाधनानि न खल्वगृहीतं लिङ्गं वा शब्दो वा
आगमसहितं सादृश्यं वा यथाविषयम् आदधाति प्रमाम् । तत्रानुमानस्य प्रमोप
जननात् प्रागेवार्थाव्यभिचारग्रहणमपेक्षते नान्यथा । ततः प्रमा सिध्यतीति । शब्दादौ
तु यद्यपि प्रमोपजननं प्रति नार्थाव्यभिचारग्रहापेक्षा, तथापि शक्यमतिरोहितार्थ
मन्त्रमध्यपतितस्य द्रागित्येव प्रतीयमानार्थस्यापि
सृण्येव जर्भरी तुर्फरी तू
इत्येवमादेर्मन्त्रस्याप्तप्रणेतृकतया सामान्यतोऽर्थाव्यभिचारित्वं ग्रहीतुम् । औत्सर्गिकं
हि शब्दानामर्थपरत्वम् । अत+एव निगमनिरुक्तव्याकरणसहायास्ततोऽर्थम
वधारयन्ति । एवं यथा 529मुद्गस्तम्बस्तथा मुद्गपर्णीति आप्तवाक्यश्रवणादेव 530मुद्गस्त
म्बसादृश्यज्ञानस्यानुपजनितफलस्यापि शक्यं तदर्थाव्यभिचारित्वं निश्चेतुम् ।
प्रत्यक्षस्य तु प्रमाणस्यात्यन्तपरोक्षस्वरूपोपलम्भ531 एव तावत्532 प्रमोपजननात् प्राग्
दुर्लभः, प्रागेव तु तस्यार्थाव्यभिचारित्वम् । यद्यपि च संवेदनप्रामाण्यपक्षेऽपि
तत्संवेदनं मनसा सुलभम्, तथापि न तन्मात्रं प्रमाणम् । अपि तु असाधारणेन्द्रियार्थ
सन्निकर्षसहायमिति तत्सहायस्य तस्य परोक्षत्वमेव । तेन प्रत्यक्षस्य प्रमाणस्य
फलाव्यभिचारेणैवाव्यभिचारज्ञानम्, न स्वरूपत इत्येतत्533 प्रमाणान्तरेभ्यो व्या
106 वृत्तमसाधारणं प्रत्यक्षस्य 534रूपमादर्शयितुमव्यभिचारि पदोपादानम् । अथवा
प्रत्यक्षाव्यभिचार एवानुमानाद्यव्यभिचारे कारणम् । न ह्यस्ति संभवोऽव्यभिचरित
प्रत्यक्षगृहीतपक्षधर्मताकं535 तर्कसहायप्रत्यक्षगृहीताविनाभावं 536चानुमानं व्यभिचरतीति ।
यत्तु बाधितविषयं 537सत्प्रतिपक्षितं चानुमानम् तदपि यद्यपि प्रथमं व्याप्तिग्रहणदोषेण
न खण्डितम्, तथापि खण्डनोत्तरकालं सोऽपि प्रतीयते । तथा च व्याप्तिग्राहि प्रत्यक्षं
तत्रापि 538व्यभिचारीति । एवमागमोऽपि साक्षात् क्वचित् पारम्पर्येण प्रत्यक्षपूर्वक
स्तद्व्यभिचारेणैव व्यभिचरति । 539आगमव्यभिचारेणैवोपमानव्यभिचारो व्या
ख्यातः । तदेवं प्रत्यक्षाव्यभिचारे540 प्रमाणानामव्यभिचारोऽस्तीति प्रत्यक्षस्यैव विशेषणम्
अव्यभिचारिपदं चकार, नेतरेषां प्रमाणानाम् । न ह्यस्ति संभवस्तन्मूलं प्रत्यक्षम्
अव्यभिचारि, तानि च व्यभिचारीणीति । सोऽयं विशेषः प्रमाणान्तरेभ्यः प्रत्यक्षस्य ।
यथाह मीमांसावार्त्तिककारः,

प्रत्यक्षाव्यभिचारेण स्वलक्षणबलेन च ।

प्रसिद्धाव्यभिचारित्वान्नानुमानं परीक्ष्यते ॥

इति । तस्मात् सुष्ठूक्तं ग्रीष्मे मरीचय इति भाष्यम् । तत्प्रतिषेधार्थमिदमुच्यते—
अव्यभिचारीति ।


पृच्छति—किमिदमिति । उत्तरम्—यदतस्मिन्निति । एतच्चोपपादितं द्वितीयसूत्रे ।
पुनः पृच्छति—किं पुनरत्रेति । एकदेशिमतेनोत्तरम्—एके तावदिति । तदेतद्
दूषयति—तच्च नैवमिति । पृच्छति—कस्मात् ? उत्तरम्—अर्थस्येति । तदेव स्फोर
यति—यत्तदिति । अत्र च न निर्विकल्पकं भ्रान्तम्, किं तु सविकल्पकमित्याह—
तांस्तु मरीचीनिति । इन्द्रियेणालोच्य मरीचीन् उच्चावचमुच्चलतो निर्विकल्पकेन
गृहीत्वा पश्चात् तत्रोपघातदोषाद् विपर्येति, सविकल्पकोऽस्य प्रत्ययो भ्रान्तो
जायते इति । तस्माद् विज्ञानस्य व्यभिचारो नार्थस्येति । यथाहुर्निरुक्तकाराः,


107

नैष स्थाणोरपराधो यदेनमन्धो न पश्यति । पुरुषापराधः स भवतीति ।
निरुक्तम् १. १६


अव्यभिचारिपदेनैव संशयज्ञानमपि 541व्युदस्तम् । नो खलु संशयज्ञानं विकल्प्य
मानवस्तुगोचरं तद्रूपं वस्तु प्रापयति । अप्रापयच्चोपदर्शितं कथं संवादकम्, असंवादकं
च कथमव्यभिचारि ? तस्मादव्यभिचारिपदेनैव संशयज्ञाने निरस्ते सविकल्पक
प्रत्यक्षावरोधार्थमुपादीयमानं व्यवसायात्मकपदं 542संशयज्ञानप्रत्यक्षतापा
करणमन्वाचिनोति । तद्यथा एधानाहर्तुमरण्यं गच्छ, शाकमप्यानेष्यसीति शाका
नयनमन्वाचीयते । न च तदेवास्य प्रेषितुर्विधित्सितम्, तथेहापि । व्यवसायात्मकपदं
साक्षात्सविकल्पकस्य वाचकम् । तथा हि व्यवसायो विनिश्चयो विकल्प
इत्यनर्थान्तरम् । स एवात्मा रूपं यस्य तत् सविकल्पकं प्रत्यक्षम् । तदेतदतिस्फुट
त्वात्543 शिष्यैर्गम्यत एवेति भाष्यवार्त्तिककाराभ्यामव्याख्यातमपि अस्माभिः,


त्रिलोचनगुरून्नीतमार्गानुगमनोन्मुखैः ।

यथान्यायं544 यथावस्तु व्याख्यातमिदमीदृशम् ॥

स्यादेतत् । न व्यवसायात्मकं प्रत्यक्षं भवितुमर्हति । अभिलापसंसर्गायोग्य
प्रतिभासं हि तत् । न चेन्द्रियार्थाभ्यां लब्धजन्म विज्ञानमर्थावभासं शक्यमभिलापेन
योजयितुम् । न ह्यर्थे शब्दाः सन्ति, अर्थात्मानो वा, तथा सत्यव्युत्पन्नस्यापि
व्युत्पन्नवद् व्यवहारः स्यादित्युक्तम् । न चाभिलापोऽर्थसंस्पर्शो संवेदनधर्मः, अर्थेषु
तन्नियोजनात् । तस्मादर्थादुपजायमानं ज्ञानमर्थमेवादर्शयेत् नाभिलापम् । न हि रूपात्
जायमानं प्रत्यक्षं रससहितमेतदादर्शयति । तस्मादभिलापसंसर्गानपेक्षमभिलाप
संसर्गिणमादर्शयद् विकल्पविज्ञानं विकल्पवासनोत्थापितमनियतार्थग्राहि
मानसमात्मीयमुत्प्रेक्षालक्षणं व्यापारं तिरस्कृत्यानुभवप्रभवतया अनुभवव्यापारं
दर्शनं पुरस्कृत्य प्रवर्तमानमनुभवतया अभिमन्यन्ते प्रतिपत्तारः । तत् सिद्धमेतत्,
108 यदर्थसामर्थ्यलब्धजन्म, न तत् शब्दकल्पनानुगतम्, यथा निर्विकल्पकम् ।
545अर्थसामर्थ्यलब्धजन्मानश्च विवादाध्यासिता विकल्पा इति 546प्रसङ्गसाधन
विरुद्धव्याप्तोपलब्धिः । शब्दकल्पनानुगतत्वस्य हि प्रतिषेध्यस्य विरुद्धं तदननुगत
त्वम्, तेनार्थसामर्थ्यजत्वं व्याप्तम् । तस्योपलब्धिस्तदननुगतत्वमुत्थापयन्ती तदनु
गतत्वं विरुणद्धीति । अथैषां प्रत्ययानां प्रत्यक्षमभिलापानुगतत्वमशक्यापह्नवम् ?
हन्त भोः, नार्थसामर्थ्यजत्वमिति प्रसङ्गविपर्ययः । तथा हि यदभिलापकल्पनानुगतं
न तदर्थसामर्थ्यजं यथेश्वरप्रधानादिविकल्पविज्ञानम् । तथा चैते विवादाध्यासिता
विकल्पा इति व्यापकविरुद्धोपलब्धिः । निषेध्यमर्थसामर्थ्यजत्वं तदभिलाप
कल्पनाननुगतत्वेन व्याप्तं तद्विरुद्धं च तदनुगतत्वमिति । न च सन्दिग्धव्यतिरेकिता,
अर्थसामर्थ्येन हि तदुत्पद्यमानमर्थरूपमनुकुर्याद् न शब्दरूपम् । न ह्यर्थे शब्दाः सन्ति
तदात्मानो वेत्युक्तम् । असंबद्धरूपानुकारे तु विज्ञानस्य सर्वरूपानुकारेण
सर्वसर्वज्ञतापत्तिरिति । सङ्केतवशात् शब्दानामर्थसंबन्धेनार्थोपलब्धौ तत्स्मरणात्
तत्संसृष्टवेदनमिति चेत् ? यत्र तर्हि ते कृतसङ्केताः547 तदेव स्मारयेदेतान् । तत्रैव च ते
कृतसङ्केता यदनुगतं सामान्यम् । न च तद्दृष्टम्, किं तु स्वलक्षणं दर्शनगोचरः । तदेव
हिपरमार्थसद्विज्ञानस्य548 कारणम्, न तु सामान्यम् । सर्वसामर्थ्यरहितं हि तत्,
अलीकत्वात्549 । तस्माद् यद् दृष्टं न तेन शब्दानां संबन्धः, येन च संबन्धो न तद्
दृष्टम् । अपि च दृष्टस्य शब्दवाच्यत्वे दर्शनादिव वह्निरुष्ण इति वाक्यादपि प्रतीयेत ।
तथा च शब्दादपि तस्मिन् प्रतीते शीतापनोदनप्रसङ्गः । सामान्यविषयौ लिङ्गशब्दौ
वस्तुभूतसामान्यवच्च स्वलक्षणम् । तादृशं च तद्दर्शनस्य कारणमिति निर्विकल्पकेन
प्रथमाक्षसन्निपातजन्मना जातिमद्वस्तुवेदनात् तत्रोपलब्धचरसंबन्धस्य550 शब्दस्य
स्मरणम् । तथा च तच्छब्दाभिधेयजातिविशिष्टद्रव्यावगाहीन्द्रियार्थसन्निकर्षजन्मा
विकल्पप्रत्ययो गौरयमित्येवमाकारो जायत इति चेत् ? यथाहुः,551
109

निर्विकल्पकबोधेन द्व्यात्मकस्यापि वस्तुनः ।

ग्रहणम् श्लो. वा. प्रत्यक्ष. ११८

तथा


ततः परं पुनर्वस्तु धर्मैर्जात्यादिभिर्यया ।

बुद्ध्यावसीयते सापि प्रत्यक्षत्वेन संमता ॥

श्लो. वा. प्रत्यक्ष. १२० इति । तन्न, पिण्डविवेकेन जात्यादेर
विकल्पकेनाग्रहणात् । न हि जातिजातिमन्तौ वा क्रियाक्रियावन्तौ वा गुणगुणिनौ वा
तत्समवायो वा विवेकेन चकासति । न च विवेकेनाप्रतिभासमानाः शक्या मिथो
योजयितुं क्षीरोदकवदतद्वेदिना । तस्मादेकमविभागं स्वलक्षणमनादिविकल्प
वासनासमारोपितजात्यादिभेदं तथा552 विकल्प्यत इति युक्तमुत्पश्यामः । अपि च
परमार्थसद्वस्तुद्वयवेदनेऽपि कुतो विशेषणविशेष्यभावः ? न ह्यङ्गुल्यावेकविज्ञान
विषयौ मिथो विशेषणविशेष्यभावमापद्येते । विशेषणं खलूपकारकम्, उपकार्यं च
विशेष्यम् । नान्यथा तयोस्तद्भावः । न चैकविज्ञानसमारूढयोर्ज्ञाप्यज्ञापकभावो वा
कार्यकारणभावो वा संभवी, समानकालयोस्तयोरुभयोरपि पौर्वापर्यनियमात् । अपि
च वस्तुनिवेशे जात्यादीनामुपाधीनामेकस्य वस्तुनः सत्त्वं च द्रव्यत्वं च पार्थिवत्वं
च वृक्षत्वं च शिंशपात्वं चोपाधय इति दूरादेकोपाधिविशिष्टस्य ग्रहे
सर्वोपाधिविशिष्टग्रहप्रसङ्गः । तथा ह्याधाराधेयभाव उपकारगर्भो भवति । पतन
धर्मणो हि बदरस्योत्तरस्य553 कुण्डमधरं प्रत्यासन्नमपतनधर्मकं बदरं विदधद्
आधारः । तद्वदिहापि 554जात्यादीनामुपाधीनामुपकर्तव्यम् । न च शक्त्यन्तरैरुपकरोति ।
शक्त्यन्तरोपकारेऽपि शक्त्यन्तरकल्पनायाम् अनवस्थापातात् । तस्मात् स्वभाव एव
स्वकारणाधीनजन्मा द्रव्यस्य स तादृशो येन बहूनामुपाधीनामुपकरोतीति वाच्यम् ।
तथा च सत्त्वोपकारसमर्थे तस्मिन् द्रव्ये गृह्यमाणे 555द्रव्यत्वाद्युपकारसमर्थोऽपि स
एवास्य स्वभाव इति तत्स्वभावावच्छिन्नाः सत्त्वविकल्पकेन परमार्थसद्द्रव्यावगाहिना
110 सर्व एव द्रव्यत्वपार्थिवत्वृक्षत्वशिंशपात्वादयो विषयीकृता इति विकल्पा
न्तराणामानर्थक्यम् । यदाह,

यस्यापि नानोपाधेर्धीग्राहिकार्थस्य भेदिनः ।

नानोपाध्युपकाराङ्गशक्त्यभिन्नात्मनो ग्रहे ।

सर्वात्मनोपकार्यस्य को भेदः स्यादनिश्चितः556

एकोपकारके ग्राह्ये नोपकारास्ततोऽपरे557

दृष्टे तस्मिन्नदृष्टा ये558 तद्ग्रहे सकलग्रहः ॥

इति ।


अस्माकं तु अनादिविकल्पवासनोपादाना विकल्पा यच्च गृह्णन्ति,
यच्चाध्यवस्यन्ति तयोरुभयोरप्यन्यनिवृत्तिरूपतया अवस्तुत्वात् मनागपि न परमार्थ
सद् वस्तु 559गाहन्ते, पारम्पर्येण तु वस्तुप्रतिबन्धात् तत्र प्रवर्तयन्तः प्रापयन्तश्च न
विसंवादयन्ति लोकम् । अतो वस्तुसद्भावाविनिवेशाद् विकल्पानां न पौनरुक्त्यमस्ति ।
अपि चालोचिते वस्तुनीन्द्रियेण तदनन्तरोत्पन्नं शब्दस्मरणव्यवहितव्यापार
मिन्द्रियमर्थश्च न सविकल्पिकामपि धियमुपजनयितुमर्हतः । यथाह,

अर्थोपयोगेऽपि पुनः स्मार्तं शब्दानुयोजनम् ।

अक्षधीर्यद्यपेक्षेत सोऽर्थो व्यवहितो भवेत् ॥

न च यदेवालोचनमजीजनदिन्द्रियं तदेव स्मरणसहकारि विकल्पप्रत्ययमाधत्ते । न
च स्मृतिर्व्यवधायिका स्वाङ्गमव्यवधायकमिति न्यायात् । यतो


यः प्रागजनको बुद्धेरुपयोगाविशेषतः ।

स पश्चादपि । इति

नो खल्वतीतं भवति गोचरोऽक्षस्य । न चागोचरे सहस्रेणाप्युपायैरेतत्
560प्रवर्तितुमर्हति । न च स्मृतिरतीतविषयाननुभूतपूर्वं वर्तमानं गोचरयितुमर्हति ।
तद्गोचरत्वे चान्धानामपि रूपसाक्षात्कारप्रसङ्गः । यथाह,
111

तेन स्यादर्थापायेऽपि नेत्रधीः ।

इति । तदेवं नामजातिगुणकर्मकल्पनाः प्रत्यक्षत्वेन परास्ताः । द्रव्यकल्पनापि दण्डीति,


विशेषणं विशेष्यं च संबन्धं लौकिकीं स्थितिम् ।

गृहीत्वा सङ्कलय्यैतत् तथा प्रत्येति नान्यथा561

न चैतावन्तं व्यापारकलापं विचारकनिर्वर्तनीयमिन्द्रियज्ञानं सहते, तस्य
सन्निहितविषयबलेनोत्पत्तेरविचारकत्वात् । 562जातिगुणक्रियावतां चैतन्न संभवत्येव,
रूपविवेकसंबन्धयोरप्रतिभासनेन563 घटनायोगात् क्षीरोदकवदतद्वेदिनेत्युक्तम्564 । तस्मात्
565तद्विकल्पं प्रत्यक्षमिति ।


अत्रोच्यते । यत् तावदुक्तमर्थसामर्थ्यजत्वाभिलापसंसर्गायोग्यप्रतिभासत्व
योर्विरोध इति, तत्र ब्रूमः । स्याद् विरोधो यदि स्वलक्षणमेवार्थः, न त्वेतदस्ति ।
उपपादयिष्यति हि566 परमार्थसन्तं जात्यादिमन्तमर्थं स्थेमभाजमभिलापसंसर्गयोग्यम् ।
तेन तज्जनितं ज्ञानमर्थसामर्थ्यजं चाभिलापसंसर्गायोग्यप्रतिभासं चेति न विरोधः ।
तथा च प्रसङ्गसाधनस्य सन्दिग्धव्यतिरेकिता । न च द्रव्याद्यभिन्नं जात्यादि भिन्नं
कल्पयन्तो विकल्पा नार्थसामर्थ्यजन्मान इति सांप्रतम् । द्रव्यादपि हि भेदः
साधियष्यते तेषाम् । यथा च भेदेऽपि तेषां तद्वाचकानां सामानाधिकरण्यं तथोप
पादितमधस्तात् । न च भिन्नेन शब्देन डित्थोऽयमित्यभेदकल्पनादर्थस्य विकल्पा
नामनर्थजत्वमिति युक्तम् । उक्तमेतद् अव्यपदेश्यपदव्याख्यानावसरे यथा न
शब्दाभेदेनार्थयोरेकेन्द्रियज्ञानसंसर्गिता567 किं तु प्रथममालोचितोऽर्थः सामान्यविशेषवान्
568संङ्केतग्रहणसमयवर्तिनीमात्मनोऽवस्थां स्मारयन् तत्कालभाविनं शब्दमपि
स्मारयत्यवर्जनीयतया । न त्विन्द्रियजविकल्पोत्पादं प्रत्यस्त्युपयोगः कश्चि
च्छब्दस्मरणस्य । अन्यथा बालमूकादीनां नेन्द्रियजः स्याद्विकल्पःशब्दस्मरणाभावात् ।
सङ्केतसमयवर्त्यवस्थास्मरणं तूपयुज्यते, वस्तुनस्तदानीन्तनेदानीन्तनावस्थाभेदवत
112 एकस्येन्द्रियजेन विकल्पेनाकलनात् । शब्दस्तु संपातायातो न निवेशयत्या
त्मानमिन्द्रियजे विकल्पे । यथाह,


देवदत्तादिशब्देन हृदयस्थेन यः स्मृतः ।

चक्षुषापि स एवायं पिण्डः संप्रति दृश्यते ॥

अनेन हि पिण्डस्य पूर्वापरावस्थावर्तिनीमेकतामिन्द्रियजविकल्पगोचरत्वेन
दर्शयति, न तु शब्दनिवेशनमपि । तथा,

संज्ञा हि स्मर्यमाणापि प्रत्यक्षत्वं न बाधते ।

संज्ञिनः ।

कुतः ?
सा तटावस्था569 न रूपाच्छादनक्षमा ॥

नार्थेन्द्रियव्यापारं व्यवधत्ते इत्यर्थः । न च प्रागवस्थास्मरणसापेक्षतया नेन्द्रियार्थ
सन्निकर्षः कारणं विकल्पस्येति सांप्रतम् । यतो,


न किञ्चिदेकमेकस्मात्570 सामग्र्याः सर्वसंभवः ।

प्र. वा. ३. ५३ इति भवन्तोऽप्याहुः । अन्यथालोकमनस्कारसापेक्षमर्थेन्द्रियं
निर्विकल्पकमपि न जनयेत् । यत्तु प्रथमं नाजीजनत् तत् स्मरणसहकारिविरहात् । न
हि नाजीजनत् कुशूलस्थं बीजमङ्कुरमिति न समवहितक्षित्यादिसहकारिग्राम
मप्यस्याजनकं भवति । न च जनकत्वाजनकत्वलक्षणो विरुद्धधर्मसंसर्गो भेदहेतु
रित्युपपादयिष्यते क्षणभङ्गभङ्गे571


स्यादेतत् । अतीतावस्था नेन्द्रियगोचरस्तस्य वर्तमानार्थे नियमात् । न च
वर्तमानोऽर्थः स्मरणगोचरः स्मरणस्यानुभवजनितसंस्कारोद्बोधजन्मनः
पूर्वानुभवगोचरं प्रति नियमात् । तस्मात् भिन्नविषयतया नेन्द्रियसहकारिता स्मरणस्य ।
न हि रूपविषयाः सहस्रमपि नयनप्रदीपादयः शब्दविषयस्य श्रवसः
सहकारितामापद्यन्त इति । तत् किं भवतां यत्र गन्धज्ञानानन्तरं572 चाक्षुषं रूपज्ञानं
113 जायते तत्र573 गन्धज्ञानम् न समनन्तरप्रत्ययः ? तत्रापि हि चक्षूरूपविषयं न
गन्धविषयस्य ज्ञानस्य सहकारि भवितुमर्हति, भिन्नविषयत्वादेव । अथान्वय
व्यतिरेकनिबन्धनः कार्यकारणभावो न समानविषयत्वमनुविधीयते इत्युच्येत,
तदस्माकमपि समानम् । नन्वतीतावस्थाविशिष्टत्वमस्य नेन्द्रियसन्निकृष्टमिति कथं
प्रत्यक्षम् ? तत् किं यदिन्द्रियसंबद्धं तत् प्रत्यक्षम् ? तथा सत्याकाशपरमाण्वादयोऽपि
तत्संयुक्ता इति तेऽपि प्रत्यक्षाः प्रसज्येरन् । तस्माद् यदेवेन्द्रियजस्य ज्ञानस्य
गोचरस्तत् प्रत्यक्षम् । 574न त्विन्द्रियसंबद्धम् । नन्वसंबद्धमिन्द्रियं575 कथं तत्र ज्ञानं
जनयति ? तच्च ज्ञानं कथं प्रत्यक्षम् ? प्रत्यक्षं चेत्, कथमिन्द्रियार्थसन्निकर्षोत्पन्नमिति
लक्षणं प्रत्यक्षं व्याप्नोति, अस्यैव प्रत्यक्षस्य लक्षणेनाव्यापनात् ? मा भूदर्थस्य
पूर्वकालवर्तिता इन्द्रियगोचरः, तथापि स्मरणसहकारिणा संस्कारसहकारिणा
वेन्द्रियेण यज्जनितं ज्ञानं तेन तद्576 विषयीक्रियत एव । न च यत् स्मरण
सहकारिणेन्द्रियार्थसन्निकर्षेणोपजनितं तदिन्द्रियार्थसन्निकर्षोत्पन्नं न भवति । तथा
च नाव्यापकमस्य लक्षणम् ।


ननु पूर्वापरावस्थापरामर्शि ज्ञानं कथमेकम्, विषयभेदात् पारोक्ष्यापारोक्ष्य
लक्षणविरुद्धधर्मसंसर्गाच्च ? तथा हि तदिति 577पारोक्ष्यम्, इदमिति च साक्षात्कारः ।
न च विरुद्धधर्मसंसर्गेऽप्येकत्वम्, त्रैलोक्यस्यैकत्वप्रसङ्गात् । विषयभेदश्च
पूर्वदेशकालापरदेशकालसंबन्धयोरेकस्य विरोधात् । यथा ह्येकस्मिन् पद्मरागमणौ
गृह्यमाणे तदभावो व्यवच्छिद्यते, यदि 578पुनर्न व्यवच्छिद्येत तदा भावो न परिच्छि
द्येत, तस्य स्वाभावव्यवच्छेदरूपत्वात् । तदभावाविनाभाविनश्च पुष्परागादय
इति तेऽपि सर्वे व्यवच्छिन्ना भवन्ति । यदि पुनर्न व्यवच्छिद्येरन्, स एव पुष्परागा
द्यात्मेति तदविनाभावी पद्मरागाभाव इति, स एव तदैव पद्मरागाभावः पद्मरागश्च
स्यादिति दुर्घटमापद्येत । एवं तस्यैव पूर्वदेशकालसंबन्धे गृह्यमाणे तदभाव
114 व्यवच्छेदक्रमेणापरदेशकालसंबधो व्यवच्छिन्नः पूर्वदेशकालसंबन्धा
भावाव्यभिचारी । तथा च न परदेशकालसंबन्धस्वभावः । तथापि यद्यसौ
तद्देशकालसंबन्धादन्यस्वभावो भवेत् । तथा सति स एव भवेत् न भवेच्चेति
दुर्घटमापद्येत । तस्मात् पूर्वदेशकालसंबन्धादन्योऽपरदेशकालसंबन्ध इति सिद्धो
विषयभेद इति ।


अत्रोच्यते । यदि पारोक्ष्यापारोक्ष्यधर्मभेदात् पूर्वापरावस्थापरामर्शिज्ञानं भिद्येत,
हन्त भोः, तदित्यपि विकल्पो भिद्येत । सोऽपि हि परोक्षश्चापरोक्षश्च विकल्प
श्चाविकल्पश्च । अर्थे परोक्षो विकल्पश्च स्वात्मनि त्वविकल्पोऽपरोक्षश्च ।
तस्माद् विषयभेदादविरोध इति579 चेत्—न त्विहापि तदेकं ज्ञानं तस्यैवैकस्य वस्तुनः
पूर्वदेशकालसंबन्धे परोक्षमपरोक्षं वा परदेशकालसंबन्ध इति580 को विरोधः ? योऽपि
कालदेशसंबन्धभेदेन विषयभेद उक्तः, सोऽपि अयुक्तः । यतो युक्तं यत्
पद्मरागस्वरूपग्रहे तदभावो व्यवच्छिद्यत इति, स्वाभावव्यवच्छेदात्मकत्वेन भावानां
तदव्यवच्छेदे स्वरूपाग्रहणप्रसङ्गात् । कस्मात् पुनः पुष्परागादयो व्यवच्छिद्यन्ते,
पद्मरागाभावाविनाभावादिति चेत् ? अथैतदभावाविनाभावज्ञानं कुतस्त्यम् ? तयोः
कदाचिदपि तादा581त्म्येनानुपलम्भादिति चेत् ? यत्र तर्हि तादात्म्यमुपलभ्यते न582 तत्र
तदभावाविनाभावः, तथा च पूर्वापरदेशकालसंबद्धस्तादात्म्येनानुभूयमान इन्द्रियजेन
विकल्पेन पद्मरागो न भिन्नो भवितुमर्हति । तस्मात् पूर्वापरदेशकालौ तत्समबन्धौ 583वा
कामं भिद्येयातां परस्पराभावाविनाभावात्, तयोरेकदापि तादात्म्येनाप्रतिभासनात् ।
न तु तदालिङ्गितस्वभावः पद्मरागमणिः, तस्य ताभ्यामन्यत्वात् । न चान्यस्य
भेदोऽन्यस्य भेदमापादयति, अतिप्रसङ्गात् । न चेन्द्रियार्थसन्निकर्षाभावेऽपि
584पूर्वापरावस्थापरामर्शात्मनो विकल्पस्य भावादनिन्द्रियजत्वमिति सांप्रतम्, तथा
सत्यविकल्पकमपि कामातुरस्य कामिनीं भावयतः तद्विषयमिन्द्रियार्थसन्निकर्षं
115 विनापि दृष्टमिति नीलाद्यनुभवात्मानोऽपि अविकल्पका अनिन्द्रियजाः प्रसज्येरन् ।
यदि तु नीलाद्यनुभवानां कामिन्यनुभवात् कथश्चिद् विशेषं ब्रूयात्, तदा
अस्माकमप्यनिन्द्रियजेभ्यो विकल्पेभ्य उत्प्रेक्षाव्यापारेभ्योऽस्तीन्द्रियजानां
दर्शनव्यापाराणां भेदः । न च विकल्पगतो दर्शनव्यापारोऽनुभूयमानः सति संभवे
निर्विकल्पकोपाधिरिति युक्तम् । सर्वा एव हीन्द्रियजा 585बुद्धयो विकल्पिका
अविकल्पिका वा धारावाहिन्योऽहमहमिकया परस्परानपेक्षा एकमर्थमवगाहमाना
उदयन्ते व्ययन्ते च । न त्वमूषामन्योन्यमनुगम्यानुगन्तृतामीक्षामहे । तस्मात् इन्द्रिया
र्थसन्निकर्षलब्धजन्मानो विकल्पा दर्शनव्यापारा 586नान्य इति युक्तमुत्पश्यामः । न च
शब्दप्रत्यक्षयोर्वस्तुगोचरत्वे सत्यपि प्रत्ययाभेदः, कारणभेदेन पारोक्ष्या
पारोक्ष्यभेदोपपत्तेः । न च वह्निसंयोगजन्मा शीतापनोदो वह्निज्ञानाद् भवितुमर्हति । न
चैकोपाधिना सत्त्वेन विशिष्टे तस्मिन् गृहीते उपाध्यन्तरविशिष्टतद्ग्रहप्रसङ्गः ।
स्वभावो हि द्रव्यस्योपाधिभिर्विशिष्यते, न तूपाधयो वा तैर्विशिष्टत्वं वा तस्य
स्वभावः । न च यत् स्वभावसंबन्धि स स्वभावः । तथा सत्यसंबन्धित्वमेव । न हि
तदेव तेन संबध्यते । अपि च रूपज्ञानं विषयग्रहणधर्मं नानापरमाणुविषयं न
परमाणुस्वभावः । तत्स्वभावत्वे वा तेषां सर्वान् प्रत्यविशेषात् सवैरेव ते परमाणवो
विदिताः स्युः । न चासंबद्धा एव स्वज्ञानेन रूपपरमाणवो विषयास्तस्येति वाच्यम्,
असंबद्धस्य विषयत्वेऽतिप्रसङ्गात् । स्वभाव 587एवार्थज्ञानभेदयोः संबन्धो यदर्थो
विषयो ज्ञानं च विषयीति चेत् ? हन्तोपाध्युपाधिमतोरपि स्वभाव एव संबन्धोऽस्तु
तथापि विज्ञानार्थवन्न स्वरूपाभेदः । क्षणभङ्गपरिणामनिराकरणे588 तु स्वभावातिरिक्तं
संबन्धमुपपादयिष्यामः । तस्मात् नैकोपाध्यन्वितग्रहणे सकलोपाध्यन्वितप्रत्यय
प्रसङ्गः ।


यच्चैकविज्ञानगोचरयोर्न विशेष्यविशेषणभाव इति, तत्र ब्रूमः । भिन्नज्ञान
गोचरत्वेऽपि नासौ संभवीति । न हि विशेषणज्ञानं विशेष्याविषयं विशेष्यमवच्छेत्तुमर्हति ।
116 एवं विशेष्यज्ञानमपि विशेषणाविषयं केन589 स्वविषयमवच्छिन्द्यात् ? तयोः परस्पर
वार्तानभिज्ञत्वात् । ताभ्यां वासना, ततो मानसप्रत्ययो विशेषणविशेष्यभावाकार590
उत्पद्यते । न त्वस्ति विशेषणविशेष्यभावो वास्तव इति चेत् ? अस्तु तावद्
वास्तवावास्तवचिन्ता, करिष्यते हीयमुपरिष्टात् । यस्तु भवतामस्य मानसत्वे
प्रयासः, स वरमिन्द्रियजत्व एव भवतु, तथा सति दर्शनव्यापारत्वमस्य साक्षात्
समर्थितं भवति । इतरथा हि निर्विकल्पकोपधानं कल्प्येत ।


नन्वविचारकमिन्द्रियज्ञानं कथं विशेषणविशेष्यादि सकलं समाकलयेत् ?
हन्त भोः किं मानसमपि ज्ञानं संकलयितुमर्हति ? संकलयति मनसस्तत्कारणस्य
सर्वविषयत्वादिति चेत् ? यदि पूर्वकं विज्ञानं मनः, कथं तस्य सर्वविषयता ?
अस्माकं तु मनः सर्वाविषयमपि अचेतनतया न विचारकम् । तस्मादात्मैव
सकलज्ञानतज्जनितवासनाधारः स्मर्ता च प्रतिसन्धाता च । यथाह,


आत्मन्येव स्थितं ज्ञानं स हि बोद्धात्र गम्यत591

स्मरणे चास्य सामर्थ्यं सन्धानादौ च विद्यते ॥

श्लो. वा. प्रत्यक्ष १२२ स खल्विन्द्रियार्थसन्निकर्षादालोच्य जातिमन्तं
संमुखमर्थम् उद्बुद्धसंस्कारसमुपजातपूर्वपिण्डानुस्मृतिसहायः प्रागेव चक्षुषा
विकल्पयति, गौरयमिति । यथाह,

करणं चेन्द्रियं बुद्धेः कर्ता चात्मा स चेतनः ।

स च स्मृतिसमर्थत्वात् सर्वार्थान् कल्पयिष्यति ॥

तेनैकविज्ञानवेद्यत्वे यद्यपि ज्ञाप्यज्ञापकभावरूप उपकार्योपकारकभावो नास्ति,
तथापि तदर्थलोचनानुगतस्मरणयोर्विशेषणविशेष्यभावावगाहि विज्ञानं प्रत्यु
त्पादकत्वमेवोपकारकत्वमस्ति । अर्थौ हि रूपरूपिभावेन स्थितावपि नापातजन्मना
ज्ञानेन तथा गृहीतौ, अपि तु स्वरूपमात्रेण, न हि यावदस्ति तावद् ग्रहीतव्यम् । तेन
तदेकदेशग्रहेऽपि नाप्रमाणता । सविकल्पकं तूक्तसामग्रीजन्म जात्यादिरूपतया द्रव्यं
117 च रूपितया कल्पयत्592 पश्चाज्जायमानमपीन्द्रियार्थसन्निकर्षप्रभवतया प्रत्यक्षं भवत्येव ।
अक्रमस्यापि च क्रमवत्सहकारिभेदसमवधानवशात् क्रमेण कार्यकरणमुप
पादयिष्यते593 । तत् सिद्धमेतद् विवादाध्यासिता विकल्पाः स्वगोचरे प्रत्यक्षा
अव्यभिचारित्वे सति इन्द्रियार्थसन्निकर्षजत्वात् । यो य एवंभूतः स सर्वः प्रत्यक्षो
यथालोचनम् तथा चैतत् । तस्मात् तथेति ।


तस्मात् सविकल्पकप्रत्यक्षावरोधार्थं व्यवसायात्मकपदमिति सिद्धम् । तदस्य
सविकल्पकप्रत्यक्षावरोधार्थस्यान्वाचीयमानो व्यवच्छेदः । तद्व्यवच्छेद्यप्रतिपाद
नार्थं भाष्यमनुभाष्यान्वाचीयमानमेव व्यवसायात्मकपदस्यार्थमाह—दूराच्चक्षुषेति ।
न चैतन्मन्तव्यमिति भाष्यं
व्याचिख्यासुश्चोदयति—न संशयस्येति । ननु
सतीन्द्रियार्थसन्निकर्षे पुरोवर्तिनि द्रव्ये धूम इति वा रेणुरिति वा ज्ञानमुत्पद्यमानं
कथमनिन्द्रियजमित्यत आह—न हीति । कस्मान्मानस इत्यत आह—संशीतिरिति ।
संपूर्वो हि शीङ् भावप्रत्ययान्तो विशेषापेक्षे विमर्शे वर्तते । स चैकाधिकरणौ594
स्मर्यमाणौ मिथो विरुद्धौ धर्मावारोपयन् 595अन्यतरन्नावधारयति । तथा चाधिकरण
मात्रसमर्पणमिन्द्रियव्यापारः । मनसा तु स्मरणसहकारिणैव पुरुषः संशेते । अत एव
विस्फारिताक्षः सौदामिनीसंपातात् सकृदालोच्य कञ्चित् 596समानधर्मवन्तं धर्मिणं
समन्धकारे सन्दिग्धे, तस्मान्मानस एवैष संशयो न त्विन्द्रियज इत्यर्थः । तदेतत्
परिहरन् न चैतदित्यादि भाष्यं व्याचष्टे—तच्च नैवम् । कस्मात् संशयस्येति—उभयं
त्विति ।
तुशब्दो मनोमात्रनिमित्तत्वं व्यवच्छिनत्ति । तदनेन चक्षुषा हीत्यादि भाष्यं
व्याख्यातम् । पश्यन् समानधर्माणं धर्मिणं नावधारयति । विशेषतः सन्दिग्धे
तस्मिन्नित्यर्थः । इन्द्रियेणोपलब्धं सन्निकृष्टं सन्निकर्षपूर्वकत्वादुपलब्धेः मनसो
पलभते जानीते चक्षुःसहायेनेत्यर्थः । अत्र भाष्यं यच्च तदिन्द्रियानवधारण
पूर्वकं मनसानवधारण तद्विशेषापेक्षं विमर्शमात्रं संशयः, न पूर्वमिति ।

118 अनवधारणशब्दोऽयं 597संशयज्ञानवाचकः स्वकारणेन्द्रियार्थसन्निकर्षे प्रयुक्त उपचारेण ।
उपरतेन्द्रियव्यापारस्य हि संशयज्ञानदर्शनात् । 598सत्यपीन्द्रियव्यापारे संशयो नेन्द्रियज
इति चोदकोऽभिमन्यते । तदनयोः संशयज्ञानयोर्मध्ये यत् तदिन्द्रियानव
धारणपूर्वकमिन्द्रियार्थसन्निकर्षपूर्वकं मनसानवधारणं संशायज्ञानमित्यर्थः । न पूर्वम्
यदुपरतेन्द्रियव्यापारस्य संशयज्ञानं दृष्टान्ततया हृदि स्थितं शङ्कितुरित्यर्थः । तदेतद्
भाष्यं व्याचष्टे—तत्र यदिन्द्रियार्थेति । इन्द्रियार्थसन्निकर्षश्चासावनवधारणं चेति
कर्मधारयः । तत्पूर्वकं मनसानवधारणं संशयज्ञानमित्यर्थः ।


ननु स्मरणव्यवहितव्यापारमस्य कारणं नेन्द्रियमित्यत आह—तस्य हीति ।
उपपादितमेतदधस्तात् यथा स्मरणं नेन्द्रियव्यापारं व्यवधत्त इति । पूर्वं त्विति ।
दृष्टान्ततया पूर्वत्वम् । स्यादेतत्, मन एवेन्द्रियानपेक्षं बाह्ये प्रवर्तते इत्यभ्युपेयम्,
अन्यथा घटमहं जानामीति ज्ञानं निर्निमित्तं स्यात् । न तावदिन्द्रियजम्, आन्तरे ज्ञाने
चक्षुरादीनामप्रवृत्तेः । नाप्यनुमानादिष्वन्तर्भवति, लिङ्गाद्यभावात् । तस्मान्मानसमेवेदम् ।
यदि च घटादौ बाह्ये न मनः प्रवर्तेत, कथं घटमिति भवेत् ? जानामीत्येव स्यात् । न
चार्थनिरूपणमन्तरेण ज्ञानरूपनिरूपणम्, तस्माद् बाह्याभ्यन्तरविषयं मनः, तथा च
सर्व एव संशयो मानस इत्याशङ्क्याह भाष्यकारः, सर्वत्र च प्रत्यक्षविषये इति ।
यद्यप्ययमीदृशोऽनुव्यवसायो मानसस्तथाप्यन्धबधिरादीनामभावात् 599तत्पूर्वं
व्यवसायोत्पत्तौ चक्षुराद्यपेक्षणीयम्, अन्यथा अन्धबधिराद्यभावप्रसङ्गः । तथा च
संशयज्ञानोत्पादेऽपीन्द्रियार्थसन्निकर्षोऽपेक्षणीय इति भावः । तदिदं तस्य हीत्यादिना
वार्त्तिकेन व्याख्यातम् ।


अव्यापकत्वेन लक्षणाक्षेपपरं भाष्यम् आत्मादिषु इत्यादि । तद्
व्याचष्टे—इन्द्रियार्थेति । चोदयति—कथं पुनरिति । परिहरति—इन्द्रियेति । मा
भूदिन्द्रियसूत्रे पाठः । तद्धि बाह्येन्द्रियलक्षणम्, आन्तरं च मन इत्यत आह—पृथक्
चेति ।
न च सुखादौ प्रमाणान्तरमस्ति । तस्मात् पारिशेष्यात् सिद्धं प्रत्यक्ष
119 त्वमित्याह—प्रत्यक्षाश्चेति । ननु नैते प्रमेयाः स्वसंवेदनसिद्धत्वात्, तत् किमत्र
प्रमेयार्थेन प्रमाणेनेत्यत आह—न च तेषामिति । ननूक्तं स्वसंवेदनतया न प्रमा
कर्मभाव एषामित्यत आह—न चान्या गतिरिति । संवेदनत्वेन हि तेषां स्वसंवेदनता,
न चैते संवेदनमित्युक्तमधस्तादिति भावः । आक्षेपमुपसंहरति—तस्मादिति । भाष्ये
चात्मादिषु सुखादिष्विति नित्यानित्याभिप्रायं वर्गद्वयम् । आत्मखदुःखत्वादयो
नित्याः, अनित्याश्च सुखदुःखादय इति । तदिदमुक्तं दिग्नागेन


न सुखादि प्रमेयं वा मनो वास्त्विन्द्रियान्तरम् ।

न च तत् संभवति, घ्राणादिसूत्रेण विभागपरेण निषेधादिति भावः । समाधि
भाष्यम् इन्द्रियस्य वै सत इति । तद्व्याचिख्यासुर्गूढाभिप्रायः पृच्छति—कश्चैवमिति ।
आक्षेप्तुरुत्तरम्—इन्द्रियार्थेति । समाधाता आह—नैष दोष इति । आक्षेप्तुरनुशय
बीजमुद्धाट्य दूषयति—यत्तु सूत्रे इति । नेदं विभागपरं घ्राणदिसूत्रम्, अपि तु
लक्षणपरम् । तत्र चेन्द्रियमपि मनो न लक्षितम्, वैधर्म्यादित्यर्थः । वैधर्म्यमाह—
वैधर्म्यमिति । तत्र प्रमाणयति—सर्वविषयं त्विति । वैधर्म्यान्तरं दूषयति—भौतिकेति ।
कार्यस्य हि विशेषौ भौतिकत्वाभौतिकत्वे, भूतकार्यं भौतिकम् । यद् भूतकार्यं न
भवति तदभौतिकम् । भूतकार्यत्त्वप्रतिषेधश्च तदन्यकार्यत्वं गमयति, विशेषनिषेधस्य
600विशेषान्तराभ्यनुज्ञानहेतुत्वात् । इतरथा तु अकार्यमेवोच्येत, न त्वभौतिकमिति ।
तस्मादकार्यस्य मनसोऽभौतिकत्वं कार्यधर्मो विरुद्धमित्यर्थः । अपि च वैधर्म्यात्
मनोवत् श्रोत्रमपि न वक्तव्यमित्याह—श्रोत्रे चेति । शङ्कते—स्वार्थ इति । भूतानि हि
घ्राणादीनि श्रोत्रान्तानि, मनस्तु न भूतमिति वैधर्म्यमित्यर्थः । निराकरोति—तच्च
नेति ।
दर्शयिष्यति हि वार्त्तिककारो यथा स्वार्थिको न कश्चिदपि प्रत्यय
इत्यर्थः । आक्षेपहेतुमनुभाषते—यत् पुनरिति । दूषयति—न नास्तीति601 तदनेन
सति चेन्द्रियार्थसन्निकर्षे इत्यादि भाष्यं व्याख्यातम् । यच्चापरं वैधर्म्यं घ्राणादिभ्यो
मनस उक्तं भाष्यकारेण तदपि सिंहावलोकनेन602 दूषयति—सगुणानामिति ।
120 घ्राणादीनि यथा स्वस्वगुणेन गन्धादिना बाह्यं गन्धादि बोधयन्ति, नैवं स्वगुणेन
शब्देन श्रोत्रं बाह्यं शब्दं बोधयति, तन्मनोवत् श्रोत्रमपि घ्राणादिसूत्रे न पठितव्य
मित्यर्थः । भाष्योक्तेषु मध्येऽभिमतं वैधर्म्यमुपसंहरति—तस्मादिति । भूतत्वा
भूतत्वलक्षणं वैधर्म्यं न भौतिकत्वाभौतिकत्वग्रहणेन शक्यं 603वक्तुमित्यवधारणाभि
प्रायः । ननु युगपज्ज्ञानानुत्पत्तेर्ज्ञानकरणं604 मनोऽस्तीत्यवगम्यते न पुनरस्येन्द्रियत्व
मपि । तद्भावानवगमे च नेन्द्रियार्थसन्निकर्षजं सुखादिज्ञानं शक्यं वक्तुमित्यत
आह—तन्त्रान्तरेति । तन्त्र्यते व्युत्पाद्यते अनेन तत्त्वमिति तन्त्रं शास्त्रम् । तदनेन
मनसश्चेत्यादि भाष्यं व्याख्यातम् । एतद्दूषितं दिग्नागेन

अनिषेधादुपात्तं चेदन्येन्द्रियरुतं वृथा ।

इति । तद्दूषयितुमुपन्यस्यति—न शेषेति । तद्दूषयति—न तन्त्रयुक्तीति । सर्वस्य
तन्त्रान्तरे लोके च सिद्धत्वादवक्तव्यतायां स्वमतमपि नास्ति । वचनलिङ्गं हि मतज्ञानं
न चाननुमते निषेधमात्रं शक्यं वक्तुम् अभावस्य भावनिरूपणाधीननिरूपणत्वादिति
भावः । सिद्धमर्थमुपसंहरति—तस्मदिति । प्रकृतमुपसंहरति—तदिति ॥


तदेवं लक्षणपदानि व्याख्याय विमृशति—समस्तमिति । अभिमतमाह
समस्तमित्याह भाष्यकारः । हेतुमाह—यस्मादिति । इन्द्रियार्थसन्निकर्षोत्पन्नं
ज्ञानमव्यभिचारीति हि प्रत्यक्षलक्षणमनवयवेन समानासमानजातीयेभ्यो व्यावृत्तं
शक्यमेव लक्षयितुम् । न खल्वयमसावश्व इति ज्ञानमिन्द्रियजं शब्दजं संभवति ।
तद्धि द्रव्यगोचरं वा उच्येत, वाच्यत्वगोचरं वा, वाच्यत्वविशिष्टद्रव्यगोचरं वा । तत्र
द्रव्यमैन्द्रियकमेव न शाब्दमित्यशक्यं हि ज्ञानं605 व्यवच्छेत्तुम्, अनभिमतं च ।
वाच्यत्वगोचरं तु ज्ञानं शाब्दमेव, अन्यथा ह्यश्रुतशब्दोऽप्यारण्यकोऽश्वमेवे
न्द्रियसन्निकर्षादश्वशब्दवाच्य इदि गृह्णीयात् । वाच्यत्वविशिष्टद्रव्यज्ञानमपि शाब्दमेव,
वह्निविशिष्टधूमज्ञानमिवानुमानिकम् । अन्यथा तदप्यैन्द्रियकमिति न तन्निराकरणाय
121 606यत्नान्तरमास्थेयम् । अथ न वाच्यत्वं नाम मीमांसकानामिव किञ्चिदतीन्द्रियम्,
अपि तु सङ्केतमात्रमेतदस्मादिदं607 प्रत्येतव्यमिति । तथापि तव्यार्थः शब्द एव ।
अथायमप्यैन्द्रियक एव, तत्र गुरूपदिष्टा गाथा पठितव्या,

शब्दजत्वेन शाब्दं चेत् प्रत्यक्षं चाक्षजन्मतः ।

स्पष्टग्रहणरूपत्वाद् युक्तमैन्द्रियकं हि तत् ॥

इति । तस्मात् नोभयजज्ञाननिवारणायाव्यपदेश्यपदम्608609व्यवसायात्मकपदेन तु
सविकल्पके ज्ञानेऽवरुद्धे निर्विकल्पकस्याप्रत्यक्षता मा प्रसांक्षीदिति तदवरोधार्थे
नाव्यपदेश्यपदेन निर्विकल्पकेऽपि शब्दसंभेदनिराकरणमन्वाचितमिति शाब्देत्युक्तम् ।
एवमव्यपदेश्यपदेन निर्विकल्पकेऽवरुद्धे सविकल्पकस्येन्द्रियजस्याप्रत्यक्षत्वं मा
प्रसांक्षीदिति तदवरोधार्थेन व्यवसायात्मकपदेन संशयज्ञानप्रत्यक्षत्वनिराकरणम
न्वाचितमिति संशयेत्युक्तम् ।


अन्वयं दर्शयित्वा व्यतिरेकमाह—यदीति । उपसंहरति—तस्मादिति ।
हेयास्त्रिंशत्कोटीर्गणयति—तत्रेति । द्विपदपरिग्रहेण दश—इन्द्रियार्थसन्निकर्षोत्पन्न
पदं ध्रुवं कृत्वा ज्ञानाद्येकैकपदसंबन्धेन चतस्त्रः कोटयः, ज्ञानं च ध्रुवं कृत्वा
अव्यपदेश्याद्येकैकपदसंबन्धेन तिस्रः, एवमव्यपदेश्यपदं ध्रुवं कृत्वा अव्यभिचार्या
द्येकैकपदसंबन्धेन द्वे कोटी, अव्यभिचारिव्यवसायात्मकसंबन्धे दशमीति । त्रिपद
परिग्रहेणापि दशैव ।
इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमिति ध्रुवं कृत्वा अव्यप
देश्याद्येकैकपदसंबन्धेन तिस्त्रः कोटयः, ज्ञानमव्यपदेश्यमिति ध्रुवं कृत्वा अव्यभि
चार्यादिपदसंबन्धेन द्वे कोटी, अव्यभिचार्यव्यपदेश्यपदयोस्तु व्यवसायात्मकपदसंबन्धे
कोटिरेका, इन्द्रियार्थसन्निकर्षाव्यपदेश्यपदध्रौव्ये अव्यभिचार्याद्येकैकपदसंबन्धे
कोटिद्वयम्, अव्यभिचारिव्यवसायात्मकपदयोस्तु ध्रुवयोरिन्द्रियार्थसन्निर्षोत्पन्नपदेन
ज्ञानपदेन च प्रत्येकं संबन्धे कोटिद्वयम्, इति त्रिपदपरिग्रहेण दश कोटयः ।
122 चतुष्पदपरिग्रहेण पञ्च । इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यपदेश्यमिति ध्रुवं कृत्वा
अव्यभिचार्याद्येकैकपदसंबन्धे द्वे कोटी, अव्यपदेश्यपदं त्यक्त्वापरकोटिः, ज्ञानपदं
त्यक्त्वा चापरा, इन्द्रियार्थसन्निकर्षोत्पन्नपदं त्यक्त्वा तु पञ्चमी । पृच्छति—कस्मात्
पञ्चपदपरिग्रहेणैकत्रिशंत्तमकोटिपरिग्रहेणेतराः कोटयो व्यवच्छिद्यन्ते ? न ह्यत्र
तद्व्यवच्छेदवाचकः कश्चिदस्ति शब्द इत्यर्थः । उत्तरम्—विशेषेति । विशेषप्रति
विधानप्रस्तावे शेषनिषेधोपन्यासो दृष्टान्तलाभाय । एकदेशाभ्युपगम एकत्रिंशत्कोटिषु
एकत्रिंशत्तमी कोटिरेकदेश इत्यर्थः । शेषविधानं वेति । वाशब्द इवार्थः ।


तदेवं प्रत्यक्षलक्षणं समर्थ्य वासुबन्धवं तावत् प्रत्यक्षलक्षणं दूषियतुम्
उपन्यस्यति—अपरे पुनरिति । लक्षणं व्याचष्ट—ततोऽर्थादिति । यत्तदोर्नित्यसंबन्धाद्
यस्यार्थस्य यद्विज्ञानं व्यपदिश्यते, यदि तत एव तद्भवति नार्थान्तराद्
610व्यपदेशासंबन्धिनः तत् प्रत्यक्षम् । अत एव व्यपदेशासंबन्धिनोऽर्थान्तरात् 611शुक्तिरूपात्
रजतेन व्यपदिश्यमानं शुक्तिज्ञानं न प्रत्यक्षम् 612व्यपदेशकानुत्पत्तेः, व्यपदेशकस्य
रजतस्य तत्रासंभवात् । एतस्य प्रत्यक्षाभासस्य व्यावृत्तिः सुप्रसिद्धेति तामु
पेक्ष्यानुमानव्यावृत्तिमाह—एतेनेति । कुतः ? न हि तत एव व्यपदेशकादेव वह्नेः,
तद् विज्ञानमनुमानं भवति । किं तु यत्र वह्निरस्ति तत्र । ततश्च यत्र तु दृष्टमात्र एव
वह्नेरुपरमादुपरतो धूमः तत्रान्यतश्च तद्भवति स्मर्यमाणाद् धूमादसति व्यपदेशके
वह्नौ । ततोऽर्थादित्यत्र हि अर्थविशेषणं तत इति । तत्संगतश्च एवकारोऽयोगव्यवच्छेदे
वर्तते, यथा चैत्र धनुर्धर एवेति । तेन यत्रैव तदयोगः तदप्रत्यक्षमित्यर्थः । तदेतल्लक्षणं
दूषयति—अत्रार्थग्रहणमनर्थकम् । न हि ज्ञानव्यपदेश आत्मना वा इन्द्रियेण वा
संभवति । शङ्कते—अवधारणार्थ इति । अयोगव्यवच्छेदेनैतदवधारणम्, विशेषणं
च तत इति613 । विशेषणसंगतश्चैवकारोऽयोगं व्यवच्छिनत्ति । असति चार्थपदे कस्येदं
विशेषणमिति विशेषणसंगतो नैवकारोऽयोगं व्यवच्छिन्दादिति भावः ।
123 निराकरोति—तन्नेति । तत इति सर्वनाम्नः सन्निहितविशेष्यापेक्षत्वात् । अन्यथा
अभिधानापर्यवसानाद् यस्य तद् व्यपदिश्यत इति व्यपदेशसंबन्धी विशेष्यः प्राप्यत
एवेति सिध्यत्येव विशेषणत्वम् । अभ्युपेत्य त्ववधारणमात्रेऽप्यदोष614 इति
मन्यमानेनाब्भक्ष इत्युदाहृतम् । अन्यव्यवच्छेदेऽपि हि615 तदेवान्यद्व्यवच्छिद्येत
यद्विरोधि, न पुनरन्यमात्रम् । यथाहुः,

नियमस्तद्विरोधाच्च616 कल्पते नाविरोधिनः ।

इति ।


स्यादेतत् । तत इत्युच्यमाने यतस्ततः स्यात्, तथा चानुमानाद्यपि लिङ्गज्ञानादेस्तत
उपजायते इति प्रत्यक्षं प्रसज्येतेति तन्निवृत्त्यर्थमर्थादिति वक्तव्यम् । न हि तदर्थात्
जायते । अपि तु प्रत्यक्षमेव, इत्यत आह—एतेनेति । यस्य तद् व्यपदिश्यते इत्यपेक्ष्य
ततःशब्दसामर्थ्ये नानुमानादिव्युदासोऽपि प्रत्युक्तः । यच्च ततःशब्दस्य
व्यावर्त्यान्तरमुक्तम्, तदपि दूषयति—यत्पुनरेतदिति । यदि यस्य व्यपदिश्यते ज्ञानं,
तत् प्रत्यक्षं ततो घट इत्यपि ज्ञानं प्रत्यक्षं प्रसज्येत, तदपि हि घटस्य व्यपदिश्यते,
न तु ततो घटाद् भवति । तस्य विचारासहतया परमार्थसत्त्वाभावेन संवृतिसतो617
विज्ञानं प्रति कारणभावाभावात्618 । तेन 619तन्निराकरणाय तत इत्युक्तम् । तदेतत् न
बुध्यामहे कथमपक्षिप्तमिति । शङ्कते—यदीति । रूपादिपरमाणव एव निरन्तरोत्पादाः
परमार्थसन्तो भिन्नाः स्वविज्ञानस्याविकल्पकस्य जनकाः । तेषां तु नानात्वं स्वेन
रूपेण संवृण्वती निर्विकल्पकपृष्ठभाविनी घट इति विकल्पिका बुद्धिस्तानेव
रूपादीन् एकोदकाहरणादिक्रियाकारिणो भेदिन इव दर्शयन्ती 620संवृतिरित्युच्यते ।
निराकरोति—न हि रूपादिभ्य इति । अनुशयबीजमुद्धाटयति—अथापीति ।
निराकरोति—मनोमोदकेति । भवन्तु व्यतिरिक्ताः किमेतावतापीत्यत आह—सर्वं
चेति ।
यत्संवृतित्वेन भवतामभिमतं ज्ञानं यच्चाविकल्पकं तत्सर्वं स्वविषयाद्
124 भवति । तस्मात् ततोग्रहणम् संवृतिनिवृत्त्यर्थम् अनर्थकम् । मा भूत् संवृतिनिवृत्त्यर्थम्,
मिथ्याज्ञाननिवृत्त्यर्थं भविष्यतीति चोदयति—ननु च मिथ्याज्ञानमतस्मादपि भवति ।
यथा पुरोवर्ति द्रव्यमिदमिति व्यपदिश्यते रजतमिति च, न तु शुक्तिरिति, तेन यद्यपि
सामान्यरूपेण तस्य व्यपदिश्यते ज्ञानम्, ततश्च तद्भवति, तथापि येन विशेषारूपेण
तस्य व्यपदिश्यते न ततस्तद्भवति इत्यतस्मादपीत्युक्तम् । तस्मात् तत एव यद्
भवति तत् प्रत्यक्षम्621 न चैवं मिथ्याज्ञानम् । तद्धि ततश्चाततश्च भवतीत्यर्थः ।
परिहरति—न ह्यतस्मात् आरोपिताद्रूपात् तत्रासतः तत् मिथ्याज्ञानं भवति, किं
तु ततो भवति । यस्य सामान्यरूपस्य व्यपदिश्यत इदमिति तत एव । समारोपितं तु
रजतमस्य विषयो दृश्यमानाकारतया । तदिदमुक्तम्—अतस्मिंस्तद् भवतीति । एवं
च लक्ष्यपदमात्रावशेषात् लक्षणाभाव इत्याह—ततो ग्रहणमिति । तथा चाति
व्याप्तिरित्याह—तथा चेति । अभ्युपेत्य दूषणान्तरमाह—यद्यप्येतदिति । यतो भवति
ज्ञानं स ग्राह्योऽर्थः कारणम्, ग्राहकं च विज्ञानं कार्यम्, तयोरयुगपद्भावात्
वर्तमानाभं ज्ञानमतीते मिथ्येति न प्रत्यक्षं स्यात्, तत्समानकालयोस्तु कार्यकारण
भावाभावात् । ततोऽर्थादिति नास्तीति भावः । शङ्कते—नाशोत्पादाविति । क्षणिकत्वाद्
भावानां कारणस्य नाशः कार्यस्योत्पाद इत्येकः कालः, तथापि कारणस्य ग्राह्यता
भिन्नकालस्यापि, स्वसदृशज्ञानजनकमेव हि तस्य तज्ज्ञानं प्रति ग्राह्यत्वम्, नान्यत् ।
यथाह,


भिन्नकालं कथं ग्राह्यमिति चेद् ग्राह्यतां विदुः ।

हेतुत्वमेव 622युक्तिज्ञाः ज्ञानाकारार्पणक्षमम् ॥

प्र. वा. २. २४७ इति । न चैतावता मिथ्यात्वम्, अर्थाहितस्य नीलाकारस्य
ज्ञानवर्तिनो वर्तमानत्वादिति भावः । निराकरोति—तच्च नेति । पूर्वापरकाल
कलाविकललक्षणा623 क्षणिकता न क्वचिदपि । विद्युज्जालादेरप्याशुविनाशिनो
द्वित्रादिक्षणावस्थानादित्यर्थः । पूर्वोक्तश्चानुयोगस्तदवस्थ एवेत्याह—विनष्टश्चेति ।
125 अनहङ्कारास्पदमसातादिरूपं विज्ञानाद् भिन्नं नीलाद्यनुभूयते, न तु विज्ञानात्मकम् ।
तथा च यदि विच्छेदग्रहो मिथ्या, तथा सति ज्ञानमेतस्मिन् मिथ्येति कथं प्रत्यक्षम्,
सम्यग्ज्ञानभेदस्य तथाभावात् । न चार्थाहिताकारवेदनमर्थवेदनम्, भाक्तत्वप्रसङ्गात् ।
न च गौणमुख्यलक्षणा गिरां गतयो ज्ञानेषु शक्या नियोजयितुम्, भिन्नप्रस्थानत्वात् ।
तस्मात् निराकारं ज्ञानमर्थमात्मनो भिन्नं गोचरयतीति वाच्यम् । स च624 कारणं
विनष्टस्य प्रत्यक्षतेति स्यात् । तथा च वर्तमानाभमवर्तमानं गोचरयतीति मिथ्या
त्वमप्रत्यक्षत्वं च स्यादिति भावः । यौगपद्येऽपि नास्त्युदाहरणम्, सर्वस्य क्षणिक
त्वपक्षनिक्षेपादिति चोदयति—तुल्यमिति चेत् । निराकरोति—तच्चेति ।


संप्रति दिग्नागस्य लक्षणमुपन्यस्यति—अपर इति । दूषयितुं कल्पनास्वरूपं
पृच्छति—अथ केयमिति । लक्षणवादिन उत्तरम्—नामेति । यदृच्छाशब्देषु हि
नाम्ना विशिष्टोऽर्थ उच्यते डित्थ इति । जातिशब्देषु जात्या गौरयमिति । गुणशब्देषु
गुणेन शुक्ल इति । क्रियाशब्देषु क्रियया पाचक इति । द्रव्यशब्देषु द्रव्येण दण्डी
विषाणीति625 । सेयं कल्पना यत्र ज्ञाने नास्त्यर्थतः स्वरूपतो वा तत्कल्पनया अपोढं
प्रत्यक्षम् । तदिदमाह—यत् किल न नाम्ना अभिधीयते अर्थतः स्वरूपतश्च
जात्यादिभिर्व्यपदिश्यते ।
अव्यभिचाराय विषयकारणत्वमाह—विषयस्वरूपानु
विधायीति ।
प्रमाणत्वमाह—परिच्छेदकं व्यवस्थापकम् । ज्ञानतामस्य दर्शयति—
आत्मसंवेद्यं स्वसंवेदनादेव तस्य 626कल्पनारहितत्वमपि । यथाह,

प्रत्यक्षं कल्पनापोढं प्रत्यक्षेनैव सिध्यति । प्र. वा. २. १२३

इति । तत् प्रत्यक्षमिति । तदेतल्लक्ष्यलक्षणपदतत्समुदायव्यापारनिरूपणेन दूषयति—
इदमिति । 627अथ नेति ।
विकल्पयोनयो हि शब्दास्तद्गोचरमभिनिविशन्ते । यद्
विकल्पा गृह्णन्ति, यच्चाध्यवस्यति तदुभयमप्यन्यव्यावृत्तिरूपमवस्तु, तस्मान्ना
विकल्पकं ज्ञानं तद्गोचरं वा परमार्थसद् गोचरयन्ति विकल्पाः शब्दाश्चेत्ययमभि
सन्धिः । अपि चास्यावाच्यत्वे भवदभ्युपगतप्रामाण्यागमविरोध इत्याह—
126 अनित्यादीति । शङ्कते—अथेति । स्वमसाधारणं रूपं व्यावृत्तमिति यावत् । 628ततो
निराकरोति—सर्वेऽर्था इति । न हि यथा सम्यग्ज्ञानमधिकृत्य प्रत्यक्षादिलक्षणं कृतं
कीर्तिना तथा दिग्नागेन येनाधिकारात् ज्ञाने व्यवतिष्ठेत कल्पनापोढमिति
भावः । ननु यदि स्वरूपतो नाभिधीयेतानभिधेयं तर्हि वस्तु प्रसज्येत । तथा
चावास्तवः स्यात् शाब्दो व्यवहार इत्यत आह—सर्वस्य चेति । सामान्य
विशेषतद्वद्भेदाद् वस्तुत्रयम् । तत्र तद्वद्वस्त्वधिकृत्योक्तम्—द्वावाकाराविति ।
सामान्येनैवाकारेणाभिधीयते
सामान्यान्वितमित्यर्थः । ब्राह्मण इति । मनुष्य
त्वजातिमानित्यर्थः । विशेषमाकारमभिप्रेत्य स्वरूपतो न व्यपदेश्यमित्युक्तम्, न तु
सर्वथेति भावः । प्रकृते योजयति—एवमिति । आशङ्क्य पूर्वोक्तमतिप्रसङ्गं
स्मारयति—629यदि चेति । अथाश्वकर्णवदव्युत्पन्नः कल्पनापोढशब्दः प्रत्यक्षस्वरूपस्य
वाचक इति शङ्कते—अथेति । निराकरोति—एवमपीति । भवतु कल्पनापोढ
शब्दोऽव्युत्पन्नो मा वा भूत्, अवाच्यं तु प्रत्यक्षमेषितव्यम् । अन्यथा विकल्पस्य
प्रत्यक्षत्वप्रसङ्गात् । तथा च व्याघात इत्यर्थः ।


जैमिनिप्रत्यक्षलक्षणं दूषयति—सत्संप्रयोग इति । यथाश्रुतस्यातिव्याप्तिः
संशब्देनापि प्रयोगस्य समीचीनता प्रतिपाद्यते । सा च मिथ्याप्रत्ययेऽपि तुल्या ।
व्यत्ययेऽपि बुद्ध्या बोद्धस्योपस्थापनात् तद् इति बोध्यं परामृशति । अस्ति च
मिथ्याज्ञानेऽपि बोध्येन संबन्ध इन्द्रियाणाम्, बोध्यं हि पुरोवर्ति द्रव्यम् । अथ यथा
बोध्यं तादृशो नास्ति संबन्ध इन्द्रियाणाम्, रजतत्वस्य प्रकारस्यासन्निधानात् ।
हन्ताव्यापकत्वं लक्षणदोषः । प्रत्यभिज्ञायां तत्ताप्रकारस्य इन्द्रियेणासंबन्धात् । अपि
प्राभाकरे दर्शने अनुमानादिज्ञानमात्मनि प्रत्यक्षं न भवेत्, न हि तत् सत्संप्रयोगजम् ।
तस्मादेतदपि परिभावनीयं सूरिभिरिति ।


वार्षगण्यस्यापि लक्षणमयुक्तमित्याह—श्रोत्रादिवृत्तिरिति । पञ्चानां
खल्विन्द्रियाणामर्थाकारेण परिणतानामालोचनमात्रं वृत्तिरिष्यते । सा च संशया
127 दिव्यापकत्वादलक्षणमिति । तत् सिद्धमिन्द्रियार्थसन्निकर्षोत्पन्नमित्येतदेव लक्षणमिति
प्रत्यक्षलक्षणं समाप्तम् ॥ ४ ॥


अथ तत्पूर्वकं त्रिविधमनुमानं पूर्ववच्छेषवत्सामान्यतोदृष्टं च ॥ १ । १ । ५ ॥


प्रत्यक्षलक्षणानन्तरमनुमानलक्षणपरं सूत्रं पठति—अथ तत्पूर्वकं त्रिविधम
नुमानमिति ।
अत्रानुमानमिति सिद्धवत् प्रमाणविशेषरूपलक्ष्यानुवाद एव नाप्रत्यक्षं
प्रमाणमित्यप्रामाण्यमनुमानस्य सुदूरं प्रतिक्षिपति । दृष्टप्रामाण्याप्रामाण्य
विज्ञानव्यक्तिसाधर्म्येण हि कासांचिद् व्यक्तीनां प्रामाण्यमप्रामाण्यं वा विदधीत ।
दृष्टसाधर्म्यं चानुमानमेवेति कथं तेनैव तस्याप्रामाण्यम् ? अपि चानुमानमप्रमाणमिति
वाक्यप्रयोगोऽज्ञं विप्रतिपन्नं सन्दिग्धं वा पुरुषं प्रत्यर्थवान् । न च परपुरुषवर्तिनो
देहधर्मा अपि सन्देहाज्ञानविपर्यासा गौरत्वादिवत् प्रत्यक्षमीक्षन्ते । न च तद्वचनात्
प्रतीयन्ते, वचनस्यापि प्रत्यक्षादन्यस्याप्रामाण्योपगमात् । पुरुषविशेषमनधिकृत्य तु
वचनमनर्थकं प्रयुञ्जानो नायं लौकिको न परीक्षक इत्युन्मत्तवदनवधेयवचनः स्यात् ।
परिशिष्टं तु परीक्षापर्वणि निवेदयिष्यते630 । तस्मादकामेनापि प्रमाणमनु
मानमुपेक्षितव्यमिति । लक्ष्यं प्रमाणभेदमनुमानमनूद्य तत्पूर्वकमिति लक्षणं विधत्ते ।
अथेत्यानन्तर्ये । उक्तं प्रत्यक्षमनुमानस्य हेतुः । 631अथेदानीमनुमानं हेतुमद्व्युत्पाद्यते
इत्यर्थः । लक्षणसूत्रतात्पर्यमाह—अनुमानेति । तदेव स्फुटयति—अनेनेति ।
समानजातीयानि प्रमाणतया प्रत्यक्षादीनि, असमानजातीयानि चानुमानाभासादीनि,
यथा क्षणिकत्वादिषु साध्येषु सत्त्वादीनि । स्यादेतदतिव्यापकमेतत् तत्पूर्वकत्वम् ।
तदिति हि प्रत्यक्षं परामृशत्यानन्तर्यात् । तथा च प्रत्यक्षपूर्वकत्वमनुमानस्येवागम
स्मृतिसंशयविपर्यासानामप्यस्तीति तान्यप्यनुमानं प्रसज्येरन् । अनुमानादिपूर्वकं
128 चानुमानं न प्रत्यक्षपूर्वकमिति नानुमानं स्यात्, अनुमानलक्षणेनाव्याप्तत्वात्632
तस्मादव्याप्त्यतिव्याप्तिभ्यामलक्षणमेतदित्यत आह—तत्पूर्वकमिति । तत्पूर्वक
मित्यावृत्त्या विग्रहत्रयप्रदर्शनम् । तत्र प्रथमे विग्रहे तानीत्यनन्तरं सूत्रम् उल्लङ्घ्य
विभागसूत्रगताः प्रत्यक्षादयः संबन्धनीयाः योग्यत्वात् । यथाहुः,

यस्य येनार्थसंबन्धो दूरस्थस्यापि तस्य सः ।

इति । तदनेन लक्षणस्याव्याप्तिः परिहृता । तदिदमाह—यदा तानीति । नन्वेवं
प्रत्यक्षपूर्वकमिति भाष्यविरोध इत्यत आह—पारम्पर्येणेति । पारम्पर्येण हि
प्रत्यक्षपूर्वकत्वमुक्तं भाष्यकृता, तस्मान्न विरोध इति । अतिव्याप्तिनिरासाय द्वितीयं
विग्रहं विवृणोति—यदापीति । ते इति विग्रहे अनन्तरसूत्रगतमेव प्रत्यक्षपदं
संबध्यते । तथा च द्वे प्रत्यक्षे पूर्वे यस्य प्रत्यक्षस्य लिङ्गपरामर्शज्ञानस्य प्रत्यक्ष
फलस्य । तदिदं तत्पूर्वकं प्रत्यक्षम्, तद्धि633 स्वविषये प्रत्यक्षमप्यनुमेयार्थप्रत्ययं
कुर्वदनुमानम् । तदिदं तदित्युच्यते । अत्रापि प्रत्यक्षग्रहणमुपलक्षणार्थम्, अनुमाने
इत्याद्यपि द्रष्टव्यम् । स्यादेतत् । संबन्धग्रहणसमये 634पदतदर्थगोचरं प्रत्यक्षं प्रथमम्
अथ तदर्थविषये द्वितीये प्रत्यक्षे सति या तत्पदविषया स्मृतिरुत्पद्यते सापि
प्रत्यक्षद्वयपूर्वा । एवं लिङ्गाल्लिङ्गिसंबन्धस्मृतिरपि प्रत्यक्षद्वयपूर्वेति तदवस्थैवाति
व्याप्तिरित्याशयवान् पृच्छति—कतरे द्वे इति । उत्तरम्—लिङ्गेति । सर्वसन्देहे
ष्विदमुतिष्ठते । व्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्देहालक्षणमिति भावः । न च
द्वितीयलिङ्गदर्शनं व्याप्तिस्मरणसमये विनश्यदवस्थमप्यस्ति, व्याप्तिसंस्कारो
द्बोधसमयजन्मना स्वजनितेन संस्कारेणास्य व्याप्तिस्मरणसमये विनाशात् ।
विनश्यदवस्थस्य द्वितीयलिङ्गदर्शनस्य व्याप्तिस्मरणेन सह यौगपद्येऽपि तयोः
परस्परवार्तानभिज्ञतया मिथो घटनायोगः । न चात्मा 635ते घटयतीति युक्तम् । वृत्त्या
खल्वयं घटयेत् न स्वरूपतः । तस्माद् उभाभ्यामुत्पन्नं परामर्शज्ञानमिन्द्रियार्थसन्निकर्षजं
129 तृतीयं प्रत्यक्षम् एषितव्यम् । 636बुभुत्सावतो द्वितीयादिति । बुभुत्साप्यनुमानज्ञानोत्पत्तौ
कारणमिति दर्शयितुं बुभुत्सावत इत्युक्तम् । लिङ्गलिङ्गिसंबन्धदर्शनमाद्यं
प्रत्यक्षमित्यत्र संबन्धपदेनानुमानाङ्गं संबन्धं विवक्षन् परोक्तान् संबन्धविकल्पान्
अनुमानानङ्गभूतान् प्रतिक्षिपति—प्रत्यक्षमिति च तस्य प्रमाणमाह । तथा हि
केचिदविनाभावं तादात्म्यतदुत्पत्तिनिबन्धनमनुमानाङ्गमाहुः । द्विविधो ह्यर्थः, प्रत्यक्षश्च
परोक्षश्च । तत्र यो बुद्धौ साक्षादात्मीयं रूपं निवेशयति स प्रत्यक्षः । स हि स्वविषयाया
बुद्धेः जनक इति तमन्तरेण बुद्धिरात्मानमनासादयन्ती तस्य सत्तां निश्चाययतीति
युक्तम् । परोक्षस्तु बुद्धौ साक्षात् स्वरूपोपधानसामर्थ्यरहितोऽयुक्तप्रतिपत्तिरेव । न
चान्यदर्शनेऽन्यकल्पनायुक्ता, अतिप्रसङ्गात् । नान्तरीयकतया त्वन्योऽप्यन्यं गमयेत् ।
स हि प्रतिबद्धस्वभावो यथाविधे सिद्धः, तथाविधसन्निधानं सूचयति । स च
प्रतिबन्धो 637न दर्शनमात्रादवसेयः, तथा सति स श्यामो मैत्रतनयत्वात् परिदृश्यमान
मैत्रतनयस्तोमवदित्यप्यनुमानं स्यात् । इहापि हि स्तो दर्शनादर्शने । तस्मात्
तादात्म्यतदुत्पत्तिनिबन्धन एव प्रतिबन्धः । यदाह,


कार्यकारणभावाद् वा स्वभावाद् वा नियामकात् ।

अविनाभावनियमोऽदर्शनान्न न दर्शनात्638

तथा च लिङ्गविकल्पं विना न लिङ्गिविकल्पः । न लिङ्गविकल्पो लिङ्गानुभवं
विना । न लिङ्गानुभवो लिङ्गं विना । न चाविनाभूतं लिङ्गं विना लिङ्गिनमिति
लिङ्गिस्वलक्षणाप्रतिभास्यपि पारम्पर्येण तत्प्रतिबन्धात् 639तत्राविसंवादकोऽ
नुमानविकल्प इति । कार्यकारणभावश्चेदम् । अस्मिन् सति भवति सत्स्वपि
तदन्येष्वस्मिन्नसति न भवत्येवमाकारो नान्वयव्यतिरेकाभ्यामतिरिच्यते । तौ च
प्रत्यक्षपृष्ठभाविना विकल्पेनावसीयेते । तथा हि सत्यग्नौ धूम इति प्रत्यक्षमेव
विकल्पानुगतव्यापारमध्यवस्यति । असति चाग्नौ न धूम इत्यपि प्रत्यक्षमेव । न
130 ह्यग्निधूमानुपलम्भावन्यौ । अतस्तद्विविक्तवस्तूपलम्भात् नाप्यनयोर्व्यतिरेकोऽन्य
स्तद्विविक्ताद् वस्तुनः । एवं तादात्म्यमपि विपर्यये बाधकप्रमाणोपपत्त्या निश्चेतव्यम् ।
यथा सत्त्वस्य क्षणिकतया सह तादात्म्यं विपक्षेऽक्षणिके क्रमाक्रमयोर्व्यापकयो
रनुपलम्भान्निश्चीयते । तस्मात् तादात्म्यदुत्पत्तिभ्यामेव प्रतिबन्धो नान्यत इति ॥


अत्रोच्यते । सत्यं यत् किञ्चित् क्वचिद् दृष्टम्, तस्य यत्र प्रतिबन्धः तद्विदस्तस्य
तद्गमकं तत्रेत्यनुजानीमः । स एव तु प्रतिबन्धो न तावत् तदुत्पत्त्या संभवति । का
पुनरियं तदुत्पत्तिर्धूमस्य ? किं वह्न्यनन्तरं भावः ? स तादृशोऽस्ति रासभस्यापीति
तत्प्रतिबद्धोऽपि धूमः स्यात् । अथ तदनन्तरमेव भावः । न च रासभानन्तरं भवन्नपि
तदनन्तरमेव भवति, तस्मिन् सत्यप्यसत्यग्नौ तदभावात् । असत्यपि तस्मिन्
सत्यार्द्रेन्धनवति वह्नौ तद्भावात् । अथ यद्यपि धूमस्य वह्निभावाभावानुविधानं
तत्रोपलब्धं तथापि देशान्तरादिषु तद्भावोऽस्य कुतस्त्यः ? तथा हि भूयो भूयो रासभे
दृष्टे धूमो दृष्टः, तदभावे चादृष्टः । न च स तत्कार्यः । तज्जातीयस्यैव धूमस्य रासभं
विना सति वह्नौ भावात् । एवं सत्यप्यग्नौ पिशाचेन जनितो धूमः क्वचित् देशादौ
तज्जातीय एव रासभवद् वह्न्यभावेऽपि पिशाचादेव भविष्यतीति ।

अवश्यं शङ्कया भाव्यं नियामकमपश्यताम् ।

न च सति भावमात्रं नियामकम्, तस्य 640रासभादिष्वप्यविशेषात् । तदनन्तरमेवेति
चावधारणस्य 641शङ्कापनयनमन्तरेणासंभवात् । अवधारणेन तु शङ्कापनये परस्प
राश्रयप्रसङ्गः ।


स्यादेतत् । यो यो धूमो दृष्टः स सर्वस्तावदार्द्रेन्धनसहितवह्न्यनन्तरमेव न
पिशाचानन्तरम् । स च कादाचित्कतया निमित्तमपेक्षमाणो यदनन्तरमेव गम्यते
तदेवाप्रतीतव्यभिचारं 642निमित्तीकरोति, न तु प्रतीतव्यभिचारं रासभादि । नापि सर्वथा
अनुपलब्धपूर्वपिशाचादि । यदि 643तु तन्निमित्तं कस्मात् विनापि वह्निं क्वचिद् धूमो
नोपलभ्यते ? अथासौ सर्वथा वह्निसहितः, तथा सत्यार्देन्धनवत् कथं वह्निरपि न
131 कारणम् ? कारणं चेत् कथं तदन्तरेण धूमभावशङ्का ? अकारणस्य हि कार्यस्य नित्यं
सत्त्वमसत्त्वं वा स्यादनपेक्षत्वात् अनपेक्षत्वात् न कादाचित्कत्वम् । नाप्यनेक
कारणकमकारणकत्वप्रसङ्गादेव । 644वह्न्यनन्तरमेव भाव इति हि धूमस्य वह्निकार्यत्वम् ।
स चेदयमवह्नेरप्यनन्तरं नैवकारार्थः स्यादिति न वह्नेः कार्यम् । एवमन्यस्यापि न
कार्यम् । न हि अन्यानन्तरमेव भवति, वह्नेरप्यनन्तरं भावात् । ततश्चाहेतुको धूमः
स्यात् । तथा च कादाचित्कत्वव्याहतिः ।


सत्यम्, तत्कार्यत्वसिद्धौ स्यादेवम् । तदेव तु तदनन्तरमेव भाव इत्येवंरूपं
645नास्ति । यद्यपि च विना वह्निं नोपलब्धो धूमो यद्यपि च पिशाचानन्तरं नोपलभ्यते
तेषामनुलब्धेः, तथापि पिशाचकार्य एव धूमस्तत्र तत्र वह्निः कुतश्चित् स्वहेतो
रुपनिपतितो रासभ+इव न तु धूमस्य जनकः । तेन तदभावेऽपि तज्जातीय एव
कारणभेदजन्मा कदाचित् कादाचित्को धूमः स्यादिति अनिवृत्तिरेव शङ्कायाः । न च
दृष्टसंभवे नादृष्टं कल्पयितुं युक्तमिति शक्यं भवद्भिर्वक्तुम्, अनुपलब्धिलक्षणप्राप्तस्य
अशक्यनिराकरणत्वात् । न चानुपलब्ध्यन्तराण्यपि तन्निषेधे प्रभवन्ति । तस्मात्
अनन्तरमेवेत्यवधारणाभावात् 646नैवंरूपं कार्यकारणभावावधारणं युक्तम् । न च यद्
यदन्यसहितानन्तरमुपलब्धं तत् तदन्यरहितात् तस्माद् भवद् भिन्नजातीयं भवति ।
उक्तं हि रासभसहिताद् वह्नेर्यादृशो धूमः तादृश एव तद्विरहिताद् वह्नेरिति ।
तस्मादेवंविधा शङ्कापिशाची स्वनिवारकं तदुत्पत्तिनिश्चयमास्कन्दन्ती न शक्या
निवारयितुम् । अपि चास्तु तदुत्पत्तिनिश्चयः, तथापि कस्मात् कारणमन्तरेण न कार्यं
भवति ? तथा च सत्यनपेक्षतया कादाचित्कत्वविहतिरिति चेत्—यथाह,

नित्यं सत्यमसत्त्वं वाहेतोरन्यानपेक्षणात् ।

अपेक्षातो हि भावानां कादाचित्कत्वसंभवः647

इति । अस्तु तर्हि संबन्धः स्वाभाविकतया अन्यानपेक्षोऽव्यभिचारी गमकाङ्गम् । स
132 च यो वा स वा भवतु, कृतं कार्यकारणभावावधारणायासेन । यथा चैतत् तथात्रैव648
प्रदर्शयिष्यामः ।


अपि च कार्यात् कारणमनुमीयमानं ततः पूर्वमेवानुमीयेत, न तु वर्तमानकालम् ।
न हि हेतुसत्ता कार्यकाला कार्योत्पादाङ्गम्, अपि तु तत्पूर्वकाला । न हि नदीपूरभेदः
स्वसत्तासमयवर्ति वर्षं गमयत्यपि तु तत्पूर्वकालम् । तत्कालं तु न तस्य कारणम् ।
अत+एव साधकबाधकप्रमाणाभावेन तत्कालवर्तिनि वर्षे सन्दिहाना न तदर्थिनः
प्रवर्तन्ते । एवं धूमादप्यग्निः तत्पूर्वकाल एवानुमीयेत, न तु वर्तमानकालः । तथा च
सति न तदर्थिनस्तत्र निःशङ्कं प्रवर्तेरन् । अपि च रसादन्यद्रूपं रससमान
कालमनुमिमतेऽनुमातारः । न चानयोरस्ति कार्यकारणभावः तादात्म्यं वा । यद्युच्येत
तत्पूर्वेभ्यो रूपरसगन्धस्पर्शक्षणेभ्यो रसक्षणो जायते, स स्वकारणं
पूर्वरूपक्षणमनुमापयन् यादृशा तेन जनितः, तादृशमेवानुमापयति । स चानुमाप
करसक्षणसमानकालरूपक्षणान्तरजनक एव स्वकारणमिति तादृशमेव गमयति ।
तथा च कार्यसमानकालरूपानुमानसिद्धिः । एतेन धूमानुमानं व्याख्यातम् । यथाह,

एकसामग्र्यधीनस्य रूपादे रसतो गतिः ।

हेतुधर्मानुमानेन धुमेन्धनविकारवत्649

इति ।


अत्रोच्यते । योऽयं गमकरससमानकालो रूपक्षणः, स किं तज्जनकस्य
रूपक्षणस्य स्वभाव उत तत्स्वभावावच्छेदकोऽस्वभावभूतः ? न तावत् स्वभावः,
एकस्मिन्नभिन्ने जन्यजनकभावानुपपत्तेः, तस्य भेदाश्रयत्वात् । तदस्वभावभूतः कथं
तदनुमाननिवेशी ? तदवच्छेदकत्वादिति चेत् ? ननु नैतावताप्यस्य650 तुल्यकालस्य
रूपस्य कारणभाव इति कथं कार्यहेतोर्गम्येत651 ? विशिष्टेन कारणस्वभावेना
स्वभावोऽप्यसावाक्षिप्यते विशेषणतयेति चेत् ? नन्वाक्षिप्यते ज्ञाप्यत इत्यनर्थान्तरम् ।
133 652स किं कारणानुमितेः 653प्रागथानुमितिसमये पश्चाद् वा ? न तावत् प्राक् न हि
सत्तामात्रेण कारणं तद्गमयत्यतिप्रसङ्गात्, किं तु स्वज्ञानेन । न च कार्यमस्य गमकम्,
अकारणत्वादित्युक्तम् । अत+एवानुमितिसमयेऽप्यगमकम्, स्वज्ञानेन गमकत्वात् ।
उभयोश्च ज्ञानयोः सह भवतोः सव्येतरविषाणवत् कार्यकारणभावाभावात् । तथा
च रसात् कार्यात् तत्कारणं रूपमनुमातव्यम् । ततश्चानुमिताद् रूपात् कारणात्
तत्कार्यं रससमानकालं रूपमनुमातव्यम् । तथा च कारणात् कार्यानुमानं
तादात्म्यतदुत्पत्तिभ्यामन्यत इति654 नाभ्यामेव प्रतिबन्धसिद्धिः । लौकिकानां चेदं
रसाद् रूपानुमानम्, न चैते पिशितचक्षुषः क्षणानामन्योन्यभेदमध्यवस्यन्ति । न
चानध्यवस्यन्तः 655प्रवृत्तरूपोत्पादनसामर्थ्यं रसहेतुं रूपमनुमातुमुत्सहन्ते । न च
656लक्षणानुरोधेन लक्ष्यस्यान्यथाकरणं युक्तं परीक्षकाणाम् । अतिपतितलोकमर्यादानां
तेषां तत्त्वानुपपत्तेः । यथाहुः,

सिद्धानुगममात्रं च कर्तुं युक्तं परीक्षकैः ।

न सर्वलोकसिद्धस्य लक्षणेन निवर्तनम्657

इति । अपि चाद्यतनस्य सवितुरुदयस्य ह्यस्तनेन सवितुरुदयेन, चन्द्रोदयस्य च
समानकालस्य समुद्रवृद्ध्या, मध्यनक्षत्रदृष्ट्या चाष्टमास्तमयोदयस्य, न
कार्यकारणभावस्तादात्म्यं वा । अथ च दृष्टो गम्यगमकभावः । अपि च तादात्म्येऽपि
कथं गम्यगमकभावः ? न हि तदेव कर्म च कर्तृ चेति युक्तम्, तस्य भेदाश्रयत्वात् ।
यद्यपि च वृक्षत्वशिंशपात्वे परमार्थतो न भिन्ने तथापि भेदान्तरप्रतिक्षेपाभ्यां
कल्पितभेदयोर्गम्यगमकभाव इति चेत्-न, वास्तवमेव वृक्षत्वशिंशपा
त्वयोर्भेदमुपपादयिष्यामः । अपि च काल्पनिकमपि रूपं विचार्यमाणं न यथा
भिन्नमेवमभिन्नमपि न भवति, वस्तुनोऽपि तुच्छत्वप्रसङ्गात् । काल्पनिकस्यावास्तवत्वेन
134 तत्त्वानुपपत्तेः । तस्मात् कल्पनारूढयोर्न वस्तुतादात्म्यम्, नापि परस्परम् । तथा सति
सद्द्रव्यपार्थिववृक्षशिंशपादिविकल्पानां शब्दानां च पर्यायत्वप्रसङ्गात् ।


स्यादेतत् । कल्पनाभेदविरहिणां भेदमुल्लिखन्त्यपि परस्परमेषामभेदमप्यवगाहते
सामानाधिकरण्याकारत्वात्, अभेदानुल्लेखे तदनुपपत्तेः । तथा च तादात्म्यं सिद्धमिति ।
658तदयुक्तम् । उक्तं हि यथा सामानाधिकरण्यं न भावानामभेदसाधकम्, जात्यादिशब्दा
हि जात्यादीन् निमित्तीकृत्य द्रव्ये वर्तन्ते । तच्चाधिकरणमेकमिति सामानाधि
करण्यमश्नुवते । न पुनर्जात्यादीनपि मिथो मिश्रयन्ति । शब्दसमानविषयाणां
विकल्पानामपीयमेव गतिः । तस्माद् यत्र गम्यगकभावो न तत्र तादात्म्यम्, यत्र
तादात्म्यं न तत्र गम्यगमकभाव इति सिद्धम् । यत्तु विदितशिंशपाव्यवहारम
विदितवृक्षव्यवहारमुच्चायां हि शिंशपायां वृक्षशब्दः प्रयुक्तः, तस्मादुच्चत्वमेव
वृक्षशब्दप्रवृत्तिनिमित्तमिति मन्यमानं मूढं प्रति शिंशपात्वेन वृक्षव्यवहारमात्रं
साध्यते । वामनायामपि शिंशपायां वृक्ष इति व्यवहर्तव्यम्, शिंशपामात्रानुबन्धित्वाद्
वृक्षत्वस्येति । तत्रापि चेद् व्यवहारः साध्यः स शिंशपाया भिन्न इति, न तादात्म्यम् ।
व्यवहारयोग्यता चेत् ? सा शिंशपाया अभिन्नेति न गम्यगमकभावः । व्यावृत्तिभेदे
चोक्तम् । तस्मात् तादात्म्यतदुत्पत्तिभ्यां प्रतिबन्ध इति मनोरथमात्रम् ॥


यश्च वैशेषिकैः चतुष्प्रकारः संबन्ध उच्यते, अस्येदं कार्यं कारणं
संबन्ध्येकार्थसमवायि विरोधि चेति लैङ्गिकम् वै. सू. ९॑२॑१॑ इति, अत्रापि
संबन्धिपदेनैव सर्वोपसंग्रहात् शेषाभिधानं व्यर्थम् । न च संबन्धिपदोपात्तस्याति
प्रसक्तिः शेषपदैर्निवार्यते । तथा सति शेषपदान्येव सन्तु कृतं संबन्धिपदेन, तेभ्य एव
संबन्धिभेदानामधिगतेः । न चैवं चातुर्विध्यं संबन्धस्यानुमानाङ्गस्य । तच्चेष्यते । तथा
च संबन्धिपदस्य 659संबन्धिमात्रावरोधेऽतिव्याप्तिः । अपि च 660भूतं वर्षम् अभूतस्य
वाय्वभ्रसंयोगस्य कथं विरोधि ? तद्धि तदनुकूलमेव । एवम् 661अभूतम् वर्षं भूतस्य
135 वाय्वभ्रसंयोगस्याप्रतिकूलम् । एवं 662भूतो नकुलजयो न भूतस्य सर्पपराजयस्य
विरोधी । नापि 663अभूतोऽसौ अभूतस्य विरोधी येषां पुनर्विरोधः, तेषामन्य
तमदन्यतमस्य न लिङ्गमपि तु प्रतिक्षेपकमेव ।


एतेनैव,

मात्रानिमित्तसंयोगिविरोधिसहचारिभिः ।

स्वस्वामिवध्यघाताद्यैः सांख्यानां सप्तधानुमा ॥

इत्यपि पराकृतं वेदितव्यम् ।


तस्माद् यो वा स वास्तु संबन्धः केवलं यस्यासौ स्वाभाविको नियतः, स एव
गमको गम्यश्चेतरः संबन्धीति युज्यते । 664तथा हि धूमादीनां वह्न्यादिसंबन्धः
स्वाभाविकः, न तु वह्न्यादीनां धूमादिभिः । ते हि विनापि धूमादिभिरुपलभ्यन्ते । यदा
त्वार्द्रेन्धनादिसंबन्धमनुभवन्ति, तदा धूमादिभिः सह संबध्यन्ते । तस्माद् वह्न्यादी
नामार्द्रेन्धनाद्युपाधिकृतः संबन्धो न स्वाभाविकः, ततो न नियतः । स्वाभाविकस्तु
धूमादीनां वह्न्यादिसंबन्धः, तदुपाधेरनुपलभ्यमानत्वात् । क्वचिद् व्यभिचारस्या
दर्शनादनुपलभ्यमानस्यापि कल्पनानुपपत्तेः । अतो नियतः संबन्धोऽनुमानाङ्गम् । न
चादृश्यमानोऽपि दर्शनानर्हतया साधकबाधकप्रमाणाभावेन सन्दिह्यमान उपाधिः
665संबन्धस्य स्वाभाविकत्वं प्रतिबध्नातीति सांप्रतम् ।


अवश्यं शङ्कया भाव्यं 666नियामकमपश्यताम् इति दत्तावकाशा खल्वियं
667लौकिकप्रमाणमर्यादातिक्रमेण शङ्कापिशाची लब्धप्रसरा न क्वचित् नास्तीति नायं
क्वचित् प्रवर्तेत । सर्वत्रैव कस्यचित् कथञ्चिदनर्थस्य शङ्कास्पदत्वात् । अनर्थशङ्कायाश्च
प्रेक्षावतां निवृत्त्यङ्गत्वात् । अन्ततः स्निग्धान्नपानोपयोगेऽपि मरणादिदर्शनात् । तस्मात्
प्रामाणिकलोकयात्रामनुपालयता यथादर्शनं शङ्कनीयम् । न त्वदृष्टपूर्वमपि ।
विशेषस्मृत्यपेक्षो हि संशयो नास्मृतेर्भवति । न च स्मृतिरननुभूतचरे भवितुमर्हति ।
136 तस्मादुपाधिं प्रयत्नेनान्विष्यन्तोऽनुपलभ्यमाना नास्तीत्यवगम्य स्वाभाविकत्वं
संबन्धस्य निश्चिनुमः ।


स्यादेतत् । अन्येनान्यस्य सहकारेण चेत् स्वाभाविकः संबन्धो भवेत्, सर्वं
सर्वेण स्वभावतः संबध्येत । तथा च सर्वं सर्वस्माद् गम्येत । 668अथान्यस्य चेदन्यत्
कार्यम्, कस्मात् सर्वं सर्वस्य न भवति, अन्यत्वाविशेषात् । ततश्च स एवाति
प्रसङ्गः । यद्युच्येत, न भावस्वभावाः पर्यनुयोज्याः, तस्मादन्यत्वाविशेषेऽपि किञ्चिदेव
कारणं कार्यञ्च किञ्चिदिति । नन्वेष 669स्वभावानामनुयोगो भिन्नानाम
कार्यकारणभूतानामपि स्वभावप्रतिबन्धे तुल्य एव । तस्माद् यत्किञ्चिदेतत् । कः पुनः
प्रमाणेन स्वाभाविकः संबन्धो गृह्यते ? प्रत्यक्षसंबन्धिषु प्रत्यक्षेण, यथाह
लिङ्गलिङ्गिसंबन्धदर्शनमाद्यमिति । यदा तावत् प्रथमं वह्निधूमयोः सहार्द्रेन्धनयोः
संबन्धं पश्यति तदा द्वयोरपि किं स्वाभाविकः संबन्ध औपाधिको वा । अथ
धूमस्यौपाधिको वह्नेः स्वाभाविकः वह्नेर्वौपाधिको धूमस्य तु स्वाभाविक इति न
शक्यं निर्धारयितुम् । तत्र वह्नेरनार्द्रेन्धनस्य विनाधूममयोगोलकादौ दर्शनाद्
आर्द्रेन्धनोपाधिः । अस्य धूमेन संबन्धो न तु स्वाभाविक इति निश्चीयते ।
धूमविशेषस्य तु विना वह्निमनुपलम्भाद् उपाधिभेदस्य चादृश्यमानस्य कल्पनायां
प्रमाणाभावाद् विशेषस्मृत्यपेक्षस्य च संशयस्यानुपलब्धपूर्वे अनुत्पादात्, उत्पादे वा
अतिप्रसङ्गात् प्रेक्षावतां प्रवृत्त्युच्छेदात् स्वाभाविकः संबन्धोऽवधार्यते । तदिदमव
धारणं न मानसम्, अनपेक्षस्य मनसो बाह्ये प्रवृत्तावन्धबधिराद्यभावप्रसङ्गात् ।
भूयोदर्शनसापेक्षस्य च प्रवृत्तौ प्रमाणान्तरापातात्, न हि मनो निमित्तमित्येव मानसं
प्रत्यक्षं भवति । तथा सति न किञ्चिदमानसम्, प्रत्ययमात्रस्य मनोनिमित्तत्वात् ।
तत्तदसाधारणकारणापेक्षया तु तत्प्रमाणव्यपदेशे अत्रापि भूयोदर्शनमसाधारणमिति
प्रमाणान्तरं जातम् । तस्मादभिजातमणिभेदतत्त्ववद्भूयोदर्शनजनितसंस्कारसहाय
मिन्द्रियमेव धूमादीनां वह्न्यादिभिः स्वाभाविकसंबन्धग्राहीति युक्तमुत्पश्यामः ।


137

एवं मानान्तरविदितसंबन्धिषु मानान्तराण्येव यथास्वं भूयोदर्शनसहायानि
स्वाभाविकसंबन्धग्रहणे प्रमाणमुन्नेतव्यानि । स्वभावतश्च प्रतिबद्धा हेतवः स्वसाध्येन
यदि साध्यमन्तरेण भवेयुः स्वभावादेव प्रच्यवेरन्निति तर्कसहायानिरस्त
साध्यव्यतिरेकवृत्तिसन्देहा यत्र दृष्टाः तत्र स्वसाध्यमुपस्थापयन्त्येव । न च श्यामादिषु
मैत्रतनयादीनां स्वाभाविकप्रतिबन्धसंभवः, अन्नपानपरिणतिभेदस्योपाधेः श्यामताया
मैत्रतनयसंबन्धं प्रति विद्यमानत्वेन मैत्रतनयत्वस्यागमकत्वात् । एनेन पक्वान्यस्य
वृक्षस्याग्रवर्तीनि फलानि एतद्वृक्षप्रभवत्वात् पतितफलवदित्यादयोऽप्यौपा
धिकसंबन्धा व्याख्याताः । तस्मात् सर्वमवदातम् ॥


नन्वन्तिमप्रत्यक्षमतीताभ्यां प्रत्यक्षाभ्यां कथमनुगृह्यते इत्यत आह—स्मृत्या
चेति । चो
हेत्वर्थे । यद्यपि स्वरूपतो लिङ्गदर्शने अतीते, तथापि तज्जनिता
स्मृतिरनुगृह्णाति यस्मादतस्ताभ्यामनुगृह्यते । अनुग्रहश्च करणमेव । संबन्ध
स्मृतिसहकारिणेन्द्रियेण स्वसाध्याविनाभूतलिङ्गविज्ञानं यदुपजन्यते तत् परामर्श
इत्याख्यायते । तथाभूतलिङ्गगोचर एव चतुर्थो वाक्यावयव उपनय इत्याख्यायते ।
अत्र पृच्छति—कः पुनरिति । अनुमानशब्दस्यार्थो न तावदनुमितिः । न खलु लिङ्ग
परामर्शोऽनुमितिः, प्रत्यक्षफलत्वात् । तस्मादनुमीयते अनेनेति करणार्थो
वक्तव्यः । स च लिङ्गविषयः क्रिया च लिङ्गिविषयेति विषयवैषम्यात् न
क्रियाकरणभाव इति भावः । उत्तरम्—अनुमीयत इति । तेनैवाभिप्रायेण पृच्छति—किं
पुनरिति ।
उत्तरम्—अग्नीति । प्रष्टा स्वाभिप्रायमुद्धाटयति—कथं पुनरन्यविषयमिति ।
एकदेशिन उत्तरम्—नानियमादिति । वृक्षोद्देशेन प्रवर्तितः परशुः कर्त्रा न
तदवयवोद्देशेन, तस्माद् वृक्षविषयः परशुर्न तवदयवविषयः । द्वैधीभावश्चावयवेषु
न वृक्षे, तस्य ततो विनाशादिति भावः । क्वचित् पुनर्यद्विषयमिति । औष्ण्यापेक्षो
वह्निसंयोगः करणं तण्डुलेषु । रूपादिपरावृत्तिरूपः पाकः तेष्वेव । तण्डुलेन पिठरं
लक्षयति । न केवलं समानविषयत्वानियमः कर्तुः करणं भिन्नमित्यपि नियमो
नास्तीत्यनियमाभिघानप्रसङ्गेनाहक्वचित् पुनरिति । स्थितिः सावयवेषु समवायो वा
138 प्रदेशविशेषे संयोगो वा । एवमनियमं दृष्टान्त उक्त्वा दार्ष्टान्तिके योजयति—
एवमन्यविषयस्येति । धूमविषयस्य प्रमाणस्याग्निविषया क्रिया प्रमितिः । यदा
अग्निविषयमेव ज्ञानं प्रमाणं तत्राह—क्वचित् पुनरिति । आक्षिपति—किं पुनरिति ।
अत्र हेतुमाह—प्रमितत्वात् । उत्तरम्—प्रमीयते । 670तद्विभजते—हेयत्वेनेति ।
अनियमवादिन एकदेशिनो मतं नियमवादी दूषयति—तन्नेति । हेतुमाह—
प्रमाणफलयोरिति । यदि अन्यविषयं करणमन्यविषया क्रिया भवेत् ततश्छेदने
खदिरं प्राप्ते पनसादावपि च्छिदा स्यादित्यतिप्रसङ्गः स्यात् । यद्यपि वृक्षोद्देशेन कर्त्रा
परशुः प्रयुक्तस्तथाप्ययं वृक्षमिव तदवयवानपि प्राप्त इति तद्विषयो भवति । तेन
तदवयवद्वैधीभावमुखेन वृक्षविषयामपि द्वैधीभावक्रियां जनयतीति न वैयधिकरण्यं
करणफलयोः । एवं यद्यपि लिङ्गविषयं प्रत्यक्षफलतया लिङ्गज्ञानम्, तदनुबद्धस्य
तस्य मानसप्रत्यक्षगोचरत्वात्, लिङ्गनिरूपणमन्तरेण तदनिरूपणात् । न तु लिङ्गज्ञानं
लिङ्गिनं विना न निरूप्यते । तस्मात् प्रतिपत्त्यनुबन्धितया विषयो न लिङ्गज्ञानस्य
लिङ्गी, किं तु लिङ्गमेव । तथापि लिङ्गिविषयप्रतिपत्तिजनकत्वात् लिङ्गज्ञानं भवति
लिङ्गिविषयम् । न चातिप्रसङ्गः, स्वाभावितकसंबन्धशालित्वात् लिङ्गस्य लिङ्गिनि ।
तस्माद् द्विविधो विषयभावः 671प्रतिपत्त्यनुबन्धिता, प्रतिपाद्यता च । तत्र पूर्वः फलस्य,
उत्तरस्तु प्रामाण्यस्येति 672विवेकः । तस्मात् सुष्ठूक्तम्—प्रमाणफलयोर्विषय
भेदानभ्युपगमादिति ।
स्थितौ तु भेदो दर्शयिष्यते कर्तुः करणस्य चेति । तदेवं तानि
ते इति विग्रहद्वयं परस्परापेक्षमुपपाद्य तानि तदिति विग्रहद्वयं परस्परा
पेक्षमुपपादयति—यदा पुनरिति । लिङ्गलिङ्गिसंबन्धदर्शनं च अनन्तरलिङ्गदर्शनं
च तत्स्मृतिश्चेति
विग्रहः । अत्रापि सर्वसन्देहेष्विदमुपतिष्ठते, व्याख्यानतो
विशेषप्रतिपत्तिर्न हि सन्देहादलक्षणमिति भावः ॥


ननु यदि प्रमाणफलयोरेकविषयत्वं तर्हि परामर्शज्ञानविषयीकृत एवार्थो
विषयीकर्तव्यो नान्यः । स च प्रत्यक्षप्रमाणविषय एवेति कृतमनुमानेनेत्याशयवान्
139 पृच्छति—किं पुनरिति । तैविशिष्टेन लिङ्गपरामर्शेनेत्यर्थः । उत्तरम्—शेषोऽर्थः ।
प्रत्यक्षप्रमितात् लिङ्गादन्यो लिङ्गी तद्विषयत्वं च लिङ्गपरामर्शस्योक्तमिति । पृच्छति—
अनुमानमित्यत्र किं कारकम् ? अनुमीयतेऽनेनेति करणकारकमेव युक्तं तस्यैव
लिङ्गदर्शनद्वयस्मृतिपूर्वकत्वात् न त्वनुमितिरनुमानं 673प्रमाणव्यापारत्वेनातन्निमित्तत्वात्
करणकारकादन्यत्वाद् अतत्पूर्वकत्वाच्चेति भावः । उत्तरम्—भावः करणं वा ।
ननूक्तं न भावः कारकमित्यत आह—यदेति । न द्रव्यादीनामेव कारकत्वम्, अपि
तु व्यापारस्यापि । अन्यथा कर्मनामधेयेषूद्भिदादिशब्देषु न करणविभक्तिः श्रूयेत,
उद्भिदा यजेत दर्शपौर्णमासाभ्यां यजेतेत्यादि । संभवति हि तस्यापि सिद्धस्य
फलभावनायां निमित्तत्वम् । एवं वह्निप्रमायाः सिद्धायाः संभवति हानादि
बुद्धिनिमित्तभावः । एतस्मिंश्च कल्पे तत्पूर्वकमित्यत्र तदा हानादिसंबन्धावधारण
समये 674प्रथमं वह्नित्वस्य लिङ्गस्य दर्शनम्, अथानुमानिकं द्वितीयम्, अथ संबन्धस्य
स्मृतिरिति त्रयमेकीकृत्य परामर्ष्टव्यम् । तत्पूर्वको हि तथा चायमनुमीयमानो
वह्निरिति लिङ्गपरामर्शः । तस्माद् दाहपाकादिकारित्वादुपादेयो वह्निरिति ज्ञानमनु
मानस्य फलम् । ततश्च तत्पूर्वकत्वमपि सिद्धं भवतीति भावः । करणकारकपक्षे
फलमाह—यदा करणमिति । अत्र विमृशति—लिङ्गेति । तत्पूर्वकत्वानुमिति
निमित्तत्वसमानधर्मदर्शनात् संशयः । अत्राचार्यदेशीयमतमाह—एके तावदिति ।
सत्स्वपीतरेषु स्मृतेरभावादनुमितेरनुत्पादेन स्मृतिरेवानुमानम् इतरे तु तदनुग्राहका
इत्यर्थः । मतान्तरमाह—अपर इति । सत्स्वपीतरेषु लिङ्गपरामर्शं विना अनुमित्यनु
त्पादात्, लिङ्गपरामर्श एवानुमानमितरैरनुगृहीत इत्यर्थः । स्वमतमाह—वयं त्विति ।
अन्वयव्यतिरेकाभ्यामशक्यो गुणप्रधानभावो विवेक्तुम्, तयोः सर्वत्र तुल्यत्वादिति
भावः । तत् किमिदानीं नास्त्येव गुणप्रधानभाव इत्यत आह—प्रधानेति ।
675नान्वयव्यतिरेकावत्र प्रभवतो न तु न्यायान्तरमिति भावः । पृच्छति—कः पुनरत्रेति ।
उत्तरमाह—आनन्तर्येति । नेहास्ति तिरोहितं किञ्चित् ॥


140

अतिव्याप्तिं चोदयति—यदीति । ननु भवतु प्रत्यक्षद्वयपूर्वकः संस्कारोऽनुमानम्,
तेनापि शेषोऽर्थोऽनुमास्यत इत्यत आह—स्मृतिहेतुर्नानुमितिहेतुरित्यर्थः ।
परिहरति—नैष दोष इति । विशिष्टज्ञानं विज्ञानं विशेषश्च स्मृतेरन्यत्वम् । न
हीन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानं स्मृतिः । तस्याः संस्कारमात्रप्रभवतया अन्यस्माद
नुत्पत्तेः । तेन च ज्ञानेन स्वकारणं विशेषितम्, प्रत्यक्षसूत्रे यत इत्यध्याहारात् ।
तस्मादिहापि स्वकारणविशेषकं स्मृतेरन्यद् विज्ञानमधिकृतम् । न च संस्कारः
प्रत्यक्षपूर्वोऽपि ताद्दशज्ञानकारणमिति न तस्य प्रसङ्गं इत्यर्थः । निर्णयेऽनुपजनितफले
प्रसङ्ग निवारयति—676निर्णय इति । विभागसूत्राक्षिप्तप्रमाणसामान्यलक्षणपूर्वकं
विशेषप्रमाणलक्षणं तदपेक्षं प्रवर्तमानं नानुपजनितफलेऽप्रमाणे निर्णयमात्रे
प्रवर्तितुमर्हति, जनितफलस्तु निर्णयः प्रमाणमेवेति भावः । स्वविषय परिच्छेदकत्वात्
फलं
परिच्छेद एव परिच्छेदकः, स्वार्थिकः प्रत्ययः ॥


त्रिविधमिति 677सूत्रावयवमर्थगौरवादराद् वार्त्तिककार उद्भाष्यं व्याचष्टे—
त्रिविधमितीति । अन्वयव्यतिरेकिणं लक्षयति—तत्रेति । विवक्षितोपपत्तिः
पक्षधर्मता, तज्जातीयोपपत्तिः अन्वयः । विपक्षावृत्तिः व्यतिरेकः । अन्वयिमात्राद्
व्यतिरेकिमात्राच्च व्यावृत्तोऽन्वयव्यतिरेकी दर्शनीय इति हेतुत्रयसाधारणे
अबाधितविषयत्वासत्प्रतिपक्षत्वे सती 678अपि हेतुरूपे न दर्शिते । 679विवक्षित
प्रत्ययमन्तरेण चान्वयव्यतिरेकयोः तज्जातीयातज्जातीयवृत्तिव्यावृत्त्योरशक्य
प्रतीतित्वाद् विवक्षितोपादानम् । तत्प्रसङ्गेन च 680तद्धर्मता हेतुत्रयसमानापि दर्शिता ।
तस्योदाहरणमाह—यथेति । प्रत्यक्षत्वादिति हेतुरात्मनि नित्येऽस्तीत्यत
उक्तम्—बाह्यकरणेति । तथापि 681सामान्यविशेषैर्घटत्वादिभिर्व्यभिचार इत्यत
उक्तम्—सामान्यविशेषवत्त्व इति । तथापि 682परमाणुभिर्बाह्यकरणप्रत्यक्षैर्योगिनां
व्यभिचार इत्यत उक्तम्—अस्मदादीति । तथा चायं नित्येभ्य आकाशादिभ्यो
141 घटादिषु चानित्येष्वन्वित इति भवत्यन्वयव्यतिरेकी । अन्वयिनं लक्षयति—अन्वयीति
विपक्षहीन इति ।
विपक्षाभावेन ततो व्यतिरेकाभावं दर्शयति । सद्भ्यामभावो
निरूप्यते नैकेन 683सतेत्युक्तम् । तेन हेतोर्यतो विपक्षान्निवृत्तिः स एव नास्तीति कुतो
निवर्तताम्, पक्षादन्यस्य सर्वस्यैव सपक्षत्वात् ? न निवर्तत इति चेत् ? अस्तु 684तर्हि
हेतोस्तत्र वृत्तिः 685निवृत्तिनिषेधरूपत्वाद् वृत्तेरिति चेत् ? यस्याभावाधिकरणत्वमपि
न संभवति निरुपाख्यस्य तस्य भावाधिकरणत्वशङ्केति सुभाषितम् । न खलु
मुमुर्षोस्तोयाभ्यवहारेऽप्यसमर्थस्य686 शष्कुलीभक्षणं शङ्कते चेतनः । तत् किमिदानीं
भावाभावौ न परस्पराभावात्मानौ यदेकनिषेधेनान्यविधिः स्यात् ? सत्यम्, यदेकतर
एतयोर्निषिध्यते विधीयते च687 तत्र तदितरविधिर्निषोधो वावश्यं भवेत् । न त्विह
परमार्थतः कस्यचित् निषेधः । 688न चात्र निरुपाख्यो हेतोर्व्यतिरेको निषिध्यते, न
निरुपाख्यो निषेधाधिकरणमिति च वचः स्वचरितविरुद्धम् । न चैतत् तत्त्वतोनिरुपाख्ये
हेतोर्व्यतिरेकं 689वा हेतुं वा व्यासेधामो नाप्यन्वयं विदध्मः । नो खल्वयं
सकलप्रतिपत्त्यभाजनं क्वचिदप्युपयुज्यते । उपयोगे वा निरुपाख्यो न भवेत् ।
कस्तर्हि न निरूपाख्ये हेतोर्व्यतिरेक इत्यस्य वचनस्यार्थः ? अथ निरूपाख्ये
हेतोर्व्यतिरेक इत्यस्य भवद्भाषितस्य कोऽर्थः ? अहृदयवाचां खल्वहृदया एव
प्रतिवाचो भवन्ति । यक्षानुरूपो बलिरिति हि लौकिकानामा—भाणकः । न
चात्यन्तादृष्ट पूर्वाणां 690कल्पनाजालगोचरत्वमिति चोपपादितमन्यथाख्याति
निरूपणावसरे691 । कल्पितगोचरश्च व्यतिरेकोऽपि काल्पनिक इति नानुमानाङ्गम् ।
स्वाभाविकरूपसंपन्नं हि प्रमाणं तत्त्वज्ञानरूपफलाय कल्पते न कल्पितरूपसंपदा,
तस्याः सर्वत्र सुलभत्वादिति । तत्त्वविषयत्वं चानुमानस्योपपादयिष्यते । तस्मादनुपाख्ये
विपक्षे हेतोर्व्यतिरेकनिवृत्तौ वा व्यतिरेके वा 692हेतुप्रवृत्तौ वा सहृदयानां मूकतैवोचिता ।
142 न चैतावता हेतोरगमकत्वम् । न हि व्यतिरेकोऽस्तीत्येव गमको भवति । मा
भूदसाधारणस्यापि गमकत्वम्, किंतु स्वसाध्येन सह स्वाभाविकसंबन्धशालितया ।
सा चान्वयव्यतिरेकाभ्यामिवान्वयमात्रेणाप्युपाधिरहितेन शक्या ज्ञातुमिति कृतमत्र
व्यतिरेकेण । विपक्षसंभवे तु तत्रापि हेतुवृत्तिशङ्कानिराकरणाय व्यतिरेकग्रहण
मुपासनीयमिति सर्वमवदातम् ।


उदाहरणमाह—यथेति । स्वमते त्वभिधेयो विशेषः प्रमेयत्वात् सामान्यवत् ।
परमाण्वाकाशादयः कस्यचित् प्रत्यक्षाः प्रमेयत्वात् 693घटवदित्यादयो द्रष्टव्याः,
विश्वस्यैव सदसत्प्रभेदभिन्नस्य यथास्वं पक्षसपक्षयोरन्तर्भावेन विपक्षाभावादिति ।
व्यतिरेकिणं लक्षयति—व्यतिरेकीति—तमिमं व्यतिरेकिणं हेत्ववयवलक्षण
व्याख्यानावसरे694 वार्त्तिककृद् उपपादयिष्यातीति695 नेहोपपादितः । तदेवं
त्रिविधमित्यवच्छिद्य व्युत्पाद्य संप्रति पूर्ववदित्यादिना एकवाक्यतया व्याचष्टे—
अथवा त्रिविधिमिति । तिसृष्वपि विधासु साध्यवचनस्य पूर्वमुपपादनात् पूर्वं
साध्यं
तद् यस्यास्त्यधिकरणतया तत्पूर्ववत् । तथाप्यनित्याः परमाणवो गन्धवत्त्वाद्
घटवदित्यपि हेतुः स्यात् । अस्ति हि साध्यं तस्यापि, पार्थिवानामप्यणूनामनित्यत्वेन
सिषाधयिषितत्वादित्यत आह—व्याप्त्येति । अस्ति गन्धवत्त्वस्य साध्यं न तु
व्याप्त्या, पृथिवीमात्रवृत्तितया चतुर्षु परमाणुषु तदभावात् । साध्यस्योपयुक्तत्वात्
ततोऽन्यस्तज्जातीयः शेषः, साध्यसामान्येन समान इति यावत् । तदिदमाह
साध्यतज्जातीय इति ।


पदानि विभज्यार्थमाह—पूर्ववन्नामेति । सामान्यतोऽदृष्टमिति नञमन्तर्भाव्य
व्याचष्टे—सामान्यतश्चेति । तथा च बाधितविषयं प्रकरणसमं चानुमानं स्यादित्यत
आह—चशब्दादिति । वार्त्तिके चशब्देनासत्प्रतिपक्षत्वमपि सूचितम् । तेन 696सूत्रस्थेन
चशब्देनाबाधितविषयत्वमसत्प्रतिपक्षत्वमपि रूपद्वयं समुच्चितमित्युक्तं भवति ।
नन्वेवं त्रिविधोऽपि हेतुः पञ्चलक्षणः स्यादित्यत आह—एवमिति । एतदुक्तं भवति
143 अबाधितविषयमसत्प्रतिपक्षं पूर्ववदिति च ध्रुवं कृत्वा शेषवदित्येका विधा,
सामान्यतोऽदृष्टमिति द्वितीया, शेषवत्सामान्यतो दृष्टं चेति तृतीया । तदेवं
त्रिविधमनुमानम् । तत्र चतुर्लक्षणं द्वयम् । एकं पञ्चलक्षणमिति ।


तदेवं स्वमतेन सूत्रं व्याख्याय भाष्यकृन्मतेन व्याचष्टे—अथ वेति । आक्षेप्तुं
स्वरूपतो व्याचष्टे—तत्रेति । पूर्वं कारणं कार्यात् । तद् यस्यास्ति विषयतया
परामर्शज्ञानस्यानुमानस्य तत् पूर्ववदित्यर्थः । विकल्प्य आक्षिपति—यदि तावदिति ।
सर्वत्रानुमानप्रसङ्गादिति भावः । अतिप्रसङ्गभिया कल्पान्तरमातिष्ठते—अथ पुनरिति ।
दूषयति—एतदपीति । दूषणान्तरं समुच्चिनोति—कारणदर्शनाच्चेति । नासिद्धाश्रयो
हेतुर्गमक इत भावः । परिहरति—नेति । द्वयमपि नाभ्युपेयत इत्यर्थः । किं तर्हि
अभ्युपेयते इत्यत आह—कार्यं त्विति । एनं प्रकारमन्यत्राप्यतिदिशति—एवमिति ।
पृच्छति—कथमिति । उत्तरम्—द्वयोरिति । पूर्वशब्देन कारणाभिधायिना
प्रतिसंबन्धितया कार्यमप्युपक्षिप्तम् । अतो द्वयोरप्युपक्षिप्तयोः कारणस्यो
पयोगादनुमानभावेनेति योजना । उदाहरणमाह—उदाहरणमिति । यद्यपि कारणमात्रं
व्यभिचरति कार्योत्पादम्, तथापि यादृशं न व्यभिचरति तत्र निपुणेन प्रतिपत्रा
भवितव्यम् । अन्यथा धूममात्रमपि 697वह्निसत्तां व्यभिचरतीति न धूमविशेषो गमको
भवेत् । रसाद्रूपानुमाने तु वैनाशिकानामापादितं कारणात् कार्यानुमानम्
अस्माभिः । अपि चान्त्यतन्तुसंयोगानन्तरं पटो जायते तत्रापि शक्यं कारणात्
कार्यानुमानम् । यदा खल्वयमन्यत एवोद्बुद्धसंस्कारो व्याप्तिस्मृतिमान् 698अविचलेष्वितरेषु
तन्तुषु अन्त्यतन्तावुत्पन्नायां क्रियायामिन्द्रियसन्निकर्षात् प्रथममेव परामृशति तथा
चेयमिति, तदैव क्रियातो विभाग इत्येकः कालः । अथ यदा विभागात् पूर्वसंयोग
विनाशः, तदा परामर्शात् तस्मादवश्यंभाविपटविशिष्टेयं क्रियेत्यनुमानोत्पाद इत्येकः
कालः । अथान्त्यस्य तन्तोः तन्तुसंयोगः, अथ पटोत्पादः, तत्र रूपाद्युत्पादः, अथ
प्रत्यक्षदर्शनम् इत्यनुमानोत्पादस्य परस्ताच्चतुर्थे क्षणे प्रत्यक्षम् । यदि तु
144 क्रियोत्पादानन्तरमालोचनमिष्यते, तथापि तृतीये क्षणे प्रत्यक्षस्य उत्पाद इति
नानवसरमनुमानम् । अपि च बधिरो मुरजमुखमभिहत्य 699स्वपाणिनाभिघातादेव
शब्दकारणात् तत्कार्यं शब्दं निःशङ्कमनुमिमीते । एवमन्यान्यपि कारणात् कार्या
नुमानान्यूहनीयानीति ।


शेषवदुदाहरणमाह—नद्या इति । चोदयति—कथं पुनरिति । परिहरति—नेति ।
अनुमीयतेऽनेनेति अनुमानं नदीपूरः, न तु वृष्टिरनुमीयमाना पूरविशेषात् नातीता
शक्यानुमातुम् । अनुमानसमये तदत्ययस्याशक्यनिश्चयत्वात् । नापि वर्तमाना
तदत्ययस्यापि तदानीं संभवात् । एवं भविष्यन्त्यपि साधकबाधकप्रमाणाभावेन
सन्दिग्धैव । तस्मात् त्रैकाल्यस्याशक्यनिश्चयत्वात् अनुपपन्नमनुमानमित्यत आह—
भविष्यतीति । कारणस्य हि कार्यात् पूर्वकालता शक्या निश्चेतुम् । कार्येण लिङ्गेन700
तु न अतीतत्वादिसन्देहः क्षतिमावहति । यः कश्चिदिति योग्याभिप्रायम् । स च
कार्यस्य पुरस्तात् ततो निश्चयव्याप्त इत्युक्तम्701


सामान्यतोदृष्टोदाहरणं भाष्यकारीयं दुरवबोधम्, शेषवदुदाहरणान्तर्गतं च ।
अत्रापि कार्येण सवितुर्देशान्तरप्राप्त्या तत्कारणस्य व्रज्याया अनुमानात् । न चैतावता
अनुमानस्य त्रैविध्यं भवति, उदाहरणमात्रस्यानन्त्येनानन्त्यप्रसङ्गात् । तस्माद् भाष्य
कार
व्याख्यानमरोचयमानो वार्त्तिककृत् अन्यथा व्याख्यायोदाहरणान्तरमाह—
सामान्यतोदृष्टं नामेति । साध्यधर्माविनाभाविना विशेषणेन साधनधर्मेण विशिष्यमाणो
धर्मी गम्यते गमकत्वेन । हेतुविशिष्टो हि धर्मी गमकः, जिज्ञासितधर्मविशिष्टश्च
गम्यः । यथाहुः,

स एव चोभयात्मायं गम्यो गमक इष्यते ।

असिद्धेनैकदेशेन गम्यः सिद्धेन बोधकः ॥

इति । अविनाभावित्वं स्वभावप्रतिबद्धत्वं सर्वेषामेव हेतूनां 702सामान्यम्, ततोऽत्र
धर्मधर्मिणोरभेदविवक्षया हेतुरेव सामान्यमुक्तः । सामान्येनाविनाभाविना हेतुना
145 703अवच्छिन्नं दृष्टं धर्मिरूपमनुमानं सामान्यतो दृष्टमनुमानम् । तृतीयायास्तसिः । तदेतत्
पूर्ववच्छेषवतोरपि प्रापकमपि तत्पदसन्निधानात् गोबलीवर्दन्यायेन ते परित्यज्यान्यत्र
निविशते । तदिदमुक्तम्—अकार्यकारणभूतेनेति । उदाहरणमाह—यथा
बलाकयेति ।


भाष्यकारीयमुदाहरणमुपन्यस्याक्षिपति—अपरे पुनरिति । तदिति गतिमानिति
परामृशति—उपलब्धिलक्षणप्राप्तत्वादिति । कर्मणो हि महत्त्वरूपविशेषैकार्थ
समवाय उपलब्धिलक्षणप्राप्तिः प्रत्यक्षोपलब्धियोग्यता । समाधत्ते—नैवेदमिति ।
देशान्तरप्राप्तिमानादित्यः द्रव्यत्वे सति क्षयवृद्धिप्रत्ययाविषयत्वे च प्राङ्मुखो
पलभ्यत्वे च तदभिमुखदेशसंबन्धादनुत्पन्नपादविहारस्य परिवृत्य तत्प्रत्यय
विषयत्वात्,
मण्यादिवत्, तत्प्रत्ययविषयत्वादित्युच्यमाने पुरःस्थितेन स्थाणुना
व्यभिचारः, सोऽपि हि प्रत्यभिज्ञाविषयो भवति तत्रैव स्थितः । तन्निवृत्त्यर्थं
परिवृत्येत्युक्तम् । तथापि गुणादिभिर्व्यभिचारः । तन्निवृत्त्यर्थं द्रव्यत्वे सतीति विशेषणम् ।
तथापि 704प्रदीपादिभिराशुतरविनाशिभिर्व्यभिचारः, तन्निवृत्त्यर्थं क्षयवृद्धिप्रत्ययाविषयत्वे
सतीति विशेषणम् । तथापि पृष्ठतोऽवस्थितया स्थूणया व्यभिचारः, तन्निवृत्त्यर्थं
प्राङ्मुखोपलभ्यत्वे सतीति विशेषणम् । उपलभ्यता च उपलब्धिकर्मता । सा
चेहातीता विवक्षिता, अन्यथा पूर्वापरजलधिवेलावगाहिना तुहिनशैलेन व्यभि
चारः । यद्यप्ययमपि 705परिवृत्य तत्प्रत्ययवतोऽतिपतितोपलम्भकर्मभावः, तथापि
तदा नरान्तरस्योपलभ्यः । मार्तण्डमण्डलं त्वस्ताचलचूडावलम्बि न प्राच्यां
कस्यचिदुपलम्भगोचर इति वैषम्यम्, तथापि यदि द्रष्टैव पुरोऽवस्थितस्य
पश्चिमाभिमुखस्य प्रासादस्य स्वयमुपनिपत्य पृष्ठतो भवति, तदोक्तलक्षणस्य
हेतोरस्ति व्यभिचारः । तन्निवृत्त्यर्थम् अनुत्पन्नपादविहारस्येति विशेषणम् ।
तदभिमुखदेशसंबन्धादिति ल्यब्लोपे पञ्चमी । स्वाभिमुखदेशमुद्दिश्यानुत्पन्नः
पादविहारो यस्य स तथोक्तः । तमुद्दिश्य खल्वयं पद्भ्यां संचरमाणः प्रासादस्य
146 पृष्ठतो भवतीति भावः । देशान्तरप्राप्तौ साधनान्तरमाह—देशान्तरेति । सत्यविनाश
इति च द्रष्टव्यम् । ये त्विमामनुमानपरम्पराम् अमृष्यमाणा दिशः प्रत्यक्षतामिच्छन्ति,
विप्रतिपन्नं चानुमानेन बोधयन्ति, 706तन्मतमुपन्यस्यति—एके त्विति । दूषयति—तच्च
नेति ।
अरूपमात्मसुखाद्यपि प्रत्यक्षमिति शङ्कमानेन बाह्यकरणेत्युक्तम् । पृच्छति—कथं
तर्हीति ।
उत्तरम्—दिग्देशेति । अन्यथासिद्धतया अङ्गुल्या निर्देशस्य दिक्प्रत्यक्षत्वेन
न स्वाभाविकः प्रतिबन्ध इत्यर्थः ।


स्यादेतत् । अप्रत्यक्षायां दिशि दिग्देशसंबन्धिष्वित्येतदेव कुत इत्यत
आह—आदित्येनेति । तद्विभजते—प्राचीत्ययमिति । तत् पुनरिदं प्रत्यक्षम् आ
चोदयात् आ चास्तमयाद् देशाद् देशान्तरं सञ्चरणं मार्तण्डमण्डलस्य 707अनाकलित
द्रव्यत्वे सतीत्यादिदण्डकानुमानानामिन्द्रियव्यापारानन्तरमुपजायमानत्वात् । तत्र मा
भूवन्नाकाशदिगादयः प्रत्यक्षाः, तथापि परितो विनिष्पतदतिविशदमयूखजाल
मध्यवर्तिनो हेलिमण्डलस्य त एव मयूखभागभेदाः 708प्रत्यक्षदेशा इति तेषां
प्रत्यक्षाणां प्रत्यक्षेण सवितृमण्डलेन संयोगविभागाः प्रत्यक्षा भविष्यन्तीति
युक्तम् । इदं त्वतिस्फुटतया नाभिधाय शिष्यव्युत्पादनायाक्षुण्णं मार्गान्तरं दर्शितमिति
मन्तव्यम् । तदेवं रूपेण स्पर्शानुमानम्, शिंशपात्वेन श्रुतेन वृक्षत्वानुमानमित्यादि
सामान्यतोदृष्टेन संगृहीतं वेदितव्यम् ।


स्वमतेन व्याख्यान्तरमाह—अथवा त्रिविधमिति । तद्विभजते—प्रसिद्धमिति ।
पक्षैकदेशे सदपि सिद्धम्, पक्षव्यापकं तु प्रकर्षेण सिद्धमित्यर्थः । यद्यप्यविनाभावः
पञ्चसु चतुर्षु वा रूपेषु लिङ्गस्य समाप्यते इत्यविनाभावेनैव सर्वाणि लिङ्गरूपाणि
संगृह्यन्ते, तथापीह प्रसिद्धसच्छब्दाभ्यां द्वयोः संग्रहे गोबलीवर्दन्यायेन तत्
परित्यज्य विपक्षव्यतिरेकासत्प्रतिपक्षत्वाबाधितविषयत्वानि संगृह्णाति । अत्रापि
यथासंभवं चतुर्णां पञ्चानां वा रूपाणां 709लिङ्गेषु संबन्धः । तदनेन प्रबन्धेनानुमान
147 वादिनां स्वरूपसंख्याफलविप्रतिपत्तयो निराकृताः । तत्र तत्पूर्वकमिति स्वरूप
विप्रतिपत्तिः । अनुमानमिति समाख्यानिर्वचनसामर्थ्यात् फलविप्रतिपत्तिः । त्रिविध
मिति न्यूनाधिकसंख्याव्यवच्छेदेन संख्याविप्रतिपत्तिर्निराकृता । संप्रत्यान्तर्गणिकभेदा
नन्त्येनानन्त्याद्710 अनुमानस्याशक्यलक्षणत्वमिति यदि कश्चिदनुमन्येत, तन्निराकरणाय
त्रैविध्यमनुमानस्य उच्यते इति त्रिविधपदस्य तात्पर्यान्तरमाह—अथ वेति । त्रिविधत्वेन
यतो नियतमतः शक्यलक्षणमित्यर्थः । अनित्यः शब्दः कृतकत्वादिति सपक्षे सदेव ।
अनित्यः शब्दोऽस्मदादिप्रयत्ननान्तरीयकत्वादिति सपक्षे सदसत् । तदेतदन्वय
व्यतिरेकि द्विविधम् । एवमन्वय्यपि द्वेधा । तत्र सपक्षे सदेव, यथा परमाण्वादयः
कस्यचित् प्रत्यक्षाः प्रमेयत्वाद् घटादिवदिति, तथा सपक्षे सदसद् यथा तत्रैव साध्ये
सत्त्वाद् घटादिवदिति । कालभेदः त्रैकाल्यम् । प्रतिपन्नोऽप्रतिपन्नः सन्दिग्धो
विपर्यस्तश्चेति पुरुषभेदः । पूर्वं सिद्धवत् पूर्ववदित्यनूद्य तस्योदाहरणमुक्तम् । संप्रति
प्रश्नपूर्वकं तदर्थाभासनिराकरणेन तात्त्विकमस्यार्थमाह—पूर्ववदित्युक्तमिति ।
711भाष्य
व्याघात इत्यर्थः । पूर्ववदित्यस्य व्याख्यानं शेषवदित्यत्रापि योजयति ।
सामान्यतोदृष्टे च ज्ञानमतिदिशति—एवं शेषवदादिष्विति । अथ वा पूर्ववदिति
भाष्यम्,
तस्यार्थः, पूर्वेण तुल्यं वर्तते इति पूर्ववत् । क्रिया तुल्यतायां च वतिरिति
क्रियातुल्यता दर्शिता । यत्रेति । पूर्वमन्यतरदर्शनेन सहान्यतरदर्शनं दृष्टान्तधर्मिणि,
यथापूर्वं प्रत्यक्षभूतयोरिति प्रमाणमात्रोपलक्षणम् । एवं साध्यधर्मिणि 712अन्यतर
धर्मदर्शनेन साधनधर्मदर्शनेनान्यतरस्य साध्यधर्मस्यानुमानमनुमितिदर्शनमिति भवति
क्रियातुल्यता । तदेतद्भाष्यमनुभाष्य व्याचष्टे—अथ वेति ।


अत्र दिग्नागेन धूमादग्निरूपधर्मान्तरानुमानम् अग्निदेशयोः संबन्धानुमानं च
दूषयित्वा अग्निविशिष्टदेशानुमानं समर्थितम् । तथा चाह—

केचिद् धर्मान्तरं मेयं लिङ्गस्याव्यभिचारतः ।

संबन्धं केचिदिच्छन्ति सिद्धत्वाद् धर्मधर्मिणोः ॥

148
लिङ्गं धर्मे प्रसिद्धं चेत् किमन्यत् तेन मीयते ।

अथ धर्मिणि तस्यैव किमर्थं नानुमेयता ॥

संबन्धेऽपि द्वयं नास्ति षष्ठी श्रूयेत तद्वति ।

अवाच्योऽर्थ713गृहीतत्वान्न चासौ लिङ्गसंगतः ॥

न हि संबन्धधर्मतया लिङ्गं 714प्रमीयते, अपि तु देशसंगतमित्यर्थः ।
लिङ्गस्याव्यभिचारस्तु धर्मेणान्यत्र 715दर्श्यते ।

तत्र प्रसिद्धं तद्युक्तं धर्मिणं गमयिष्यति ॥

इति । तत्र दिग्नागदूषितान् कल्पान् अन्यांश्च विकल्पान् दिग्नागसमर्थितं च
कल्पमुपन्यस्य दूषयति—अन्ये पुनरिति । धर्मधर्मिभावानुपपत्तेरिति । धर्मेण हि
धर्मी प्रतिपत्तव्यः, अन्यथा अतिप्रसक्तेरिति भावः । देशस्य च स्वरूपेणेत्यर्थः ।
शङ्कते—अथापीदमिति । निराकरोति—तच्च नैवमिति । यः कश्चिद् वा देशोऽग्निमान्
साध्यो, धूमवान् वा देशभेदः ? तत्र पूर्वस्मिन् कल्पे निराकरणमाह—अतद्धर्मत्वादिति ।
यः कश्चिदग्निमत्तया देशः 716साध्यते न तस्यावश्यं धूमो धर्म इत्यर्थः । न चैतत् साध्यं
सिद्धत्वादित्याह—न चाग्नेरिति । द्वितीयं कल्पमाशङ्कते—अयमिति । निराकरोति—न,
तस्येति ।
शङ्कां विभजते—देशेति । निराकरणं विभजते—न ह्ययमिति । न ह्ययमेवंवादी
दिग्नागो धूमाधारं देशविशेषं पश्यति । न ह्यस्य मते पर्वतो नाम कश्चिदवयवी
यदाधारो धूम उपलभ्येत, किं तु परमाणवः परमसूक्ष्मा अतीन्द्रियाः पर्वतः । एवं
धूमोऽपि तादृश एव । यथा वक्ष्यति—सर्वाग्रहणमवयव्यसिद्धेः २॑१॑३४ इति ।
येषामपि देशभेदोऽवयवी दर्शनार्हः, तेषामपि वियद्वर्तिनीं धूमलेखामभ्रंलिहा
मुपलभ्यानुपलब्धदेशानां नानुमानसंभव इति भावः । शङ्कते—अविनाभावेनेति ।
तदेव विभजते—अथापीति । निराकरोति—तन्नेति । विकल्पयति—अग्निधूमयोरिति ।
कार्यकारणभावमालम्बते—अस्त्विति । दूषयति—तन्नेति । धूमेन हि वह्निरनुमीयते, न
च कार्यसत्ता निमित्तकारणसत्तया व्याप्ता । न हि यदा यत्र वा पटः, तदा तत्र वा
149 कुविन्दः । नाप्यसमवायिकारणसत्तया, न हि यदा यदा संयोगस्तदा कर्म । तस्मात्
समवायिकारणाविनाभावः कार्यस्य वक्तव्यः । तत्रेदं दूषणम्—अतद्वृत्तित्वादिति ।
एकार्थसमवायमविनाभावं दूषयति—नैकेति एकार्थसमवाय इति हि द्वेधा, एक
स्यार्थस्य समवायः, एकस्मिन् वार्थे समवाय इति । तत्र प्रथमं कल्पं दूषयति—
ताभ्यामिति । यदि हि वह्निधूमाभ्यामेकोऽर्थः कश्चिदारभ्येत ततोऽसौ तयोः
समवेयात्, न त्वेतदस्तीत्यर्थः । द्वितीयं कल्पं दूषयति—न च ताविति । तत्
किमसंबद्धावेव वह्निधूमौ, तथा च प्रतीतिविरोध इत्यत आह—संबन्धमात्रमिति ।
संयोग इत्यर्थः । तदेव तर्ह्यवधार्यतामित्यत आह—तदपीति । पृच्छति—कथमिति ।
उत्तरम्—यदि तावदिति । कुरुते प्रयोगम् । अस्ति संबन्धोऽग्निधूमयोर्धूमादिति ।
दूषयति—तन्नाप्रतीतत्वात् । तदनेनानैकान्तकत्वं दर्शयति । संबन्धान्तरम् आशङ्कते—
रूपस्पर्शवदिति । न हि बौद्धराद्धान्ते द्रव्यं नाम किञ्चिदस्ति यत्र रूपस्पर्शौ
समवेतौ, किंत्वेकसामग्र्यधीनतया नियतसाहचर्यौ, तथा वह्निधूमावपि इत्यर्थः ।
दूषयति—नोभयोरिति । उभयसाहचर्यनिराकरणेन यत्र धूमस्तत्राग्निरित्यपि पराकृतम्,
तस्यापि साहचर्यविशेषत्वादित्याह—यत्र धूम इति । गत्यन्तराभावादुपसंहरति—
चेति ।
शङ्कते—लोक इति । निराकरोति—नास्तीति । यत्र तावत् पर्वतनितम्बवर्तिनी
धूमलेखा सन्ततमुद्गच्छन्ती दृश्यते, तत्रासौ देश एव तद्विशिष्टोऽनुमीयते इति
लोकप्रसिद्धमेवेति किमत्र वक्तव्यम् । यत्र तु भूयिष्ठतया तस्य धूमस्य दूरत्वेन देशो
न दृश्यते, धूम एव त्वभ्रंलिहो 717लिम्पन्निवाभ्रमण्डलमवलोक्यते तत्र देशानु
मानप्रयासालसतया दृश्यमानो धूमविशेष एवाग्निमत्तया साध्यते धूमत्वैकार्थसम
वायिभिः तद्गतैः संतत्यूर्ध्वगमनादिभिरित्याह—धूमविशेषेणेति । विशिष्यतेऽनेनेति
विशेषः संतत्यूद्र्ध्वगमनादिः । तेन धूममात्राद् वह्निव्यभिचारिणो वह्न्यविनाभावी
धूमो विशेष्यत इत्यर्थः । शेषमतिरोहितार्थम् ।


150

शेषवन्नाम परिशेषः । द्रव्यत्वकर्मत्वयोः शब्दे निराकार्यत्वेन उपयुक्तत्वात्
ताभ्यामन्यद् गुणत्वं शेषः । स यस्यास्त्यनुमानस्य प्रतिपाद्यतया, तच्छेषवत् । तत्र
द्रव्यं
शब्दः एक द्रव्यत्वात् । द्विविधमेव हि द्रव्यम्, अद्रव्यमनेकद्रव्यं च । अद्रव्यं
परमाण्वादि, अनेकद्रव्यं च घटादि । शब्दस्त्वेकद्रव्यः । तस्मात् न द्रव्यं रूपादिवत् ।
न कर्म, शब्दान्तरहेतुत्वादिति । तदेतद् भाष्यमाक्षिपति—न कर्मेति । परिहरति
नेति । अन्यमस्यार्थं दर्शयति—समानजातीयारम्भकत्वादिति । यत् समानजातीया
रम्भकं न तत् कर्म, यथा रूपादय इति । कार्यत्वात् तावत् शब्दः समवायिकारणवान् ।
तत्र च पृथिव्यादिनिषेधात् नभोऽस्य समवायिकारणम् । न चैष नभोव्यापकः सर्वत्र
उपलम्भप्रसङ्गात् । तस्मादव्यापकः । 718कर्णशष्कुल्युपसन्निहितं च नभः श्रोत्रम् ।
ताल्वादिसंयोगोपधानेन च नभःप्रदेशे शब्दः समवेतः । प्राप्यकारि च श्रोत्रम् । न च
वक्तृवक्त्रावरुद्धं नभःप्रदेशं तत् प्राप्नोति । न चाद्रव्यं शब्दो गत्वा श्रोत्रेण संबध्यते ।
तस्माद् वीचीतरङ्गरीत्या स्वदेशानन्तरदेशे शब्दान्तरारम्भणपरम्परया श्रोत्रदेशोत्पन्नं
शब्दं गृह्णातीति सिद्धं सजातीयारम्भकत्वादिति । इदं तु परिशेषस्य उदाहरणं
नादरणीयम् । व्यतिरेकिणो हि नामान्तरमिदं परिशेष इति । एष पुनरन्वयव्यतिरेकी
द्रव्यकर्मान्यत्वे सति सदाद्यभेदस्य सपक्षे रूपादौ सत्त्वाद्, विपक्षे 719सामान्यादावभावात् ।
तस्माद् आत्मतन्त्रतासाधनमिच्छादीनां परिशेषोदाहरणं द्रष्टव्यम् । तच्चानन्तरमेव
वक्ष्यतीति ।


सामान्यतोदृष्टं नामेत्यादि भाष्यम् अनुभाष्याक्षिपति—सामान्यत इति ।
कथं तर्हि अनुमानमत्र प्रवर्तते
इति । नित्यपरोक्षेण सह कस्यचित् लिङ्गस्य
संबन्धादर्शनादित्यर्थः । व्याहतं चेति । स खल्वत्यन्तापरिदृष्टः स्वरूपतो वा साध्येत,
दृष्टधर्मिविशेषणतया वा ? तत्र पूर्वस्मिन् कल्पे नानुपलब्ध इति व्याघातः ।
उत्तरस्मिन् सन्दिग्ध इति, विशेषस्मृत्यपेक्षो हि संशयो 720नात्यन्तानुपलब्धपूर्वधर्मवत्तया
क्वचिद् भवितुमर्हति । न खलु सप्तमरसवत्तया केचिद् द्रव्ये 721संशेरत इति
151 भावः । समाधत्ते—न विशेषणभूतस्येति न तावत् स्वरूपेणानुमीयते येन नानुपलब्ध
इति व्याहन्येत, किं तु दृष्टस्य धर्मिणो विशेषणतया । न चैवं सर्वानुमानाविशेषः ।
साध्यधर्मिण्यस्यास्मदादिभिः कदाचिदपि प्रत्यक्षेणानुपलम्भात् । तज्जातीयेन तु
दृष्टान्तधर्मिणि दृष्टेन प्रत्यक्षतो वा मानान्तराद् वा साधनधर्मस्य स्वाभाविकप्रतिबन्ध
ग्रहसंभवादित्यर्थः । उदाहरणमाह—यथेच्छादिभिरात्मा । तदेव विभजते—
इच्छादयः खलु धर्मिणो भवन्ति मानसप्रत्यक्षदृष्टाः, तेषाम् आत्मा विशेषणम्
कुतः ? गुणभूतोऽवच्छेदकतया यतः, तस्मादात्मविशिष्टा इच्छादयः साध्या इत्युक्तं
भवति । साधनधर्मं तद्वर्तिनं दर्शयति—इच्छादीनां गुणत्वमिति । ननूक्तमनु
पलब्धचरेण साध्यधर्मेण न संदेहविषयत्वम्, अनुपलब्धचरश्चात्मेति कथं तद्विशिष्टा
इच्छादयो न्यायविषया इति शङ्कामुरीकृत्य प्रयोगं सूचयति—परतन्त्रा इति । मा तत्र
सैत्सीदात्मपारतन्त्र्यम्722, पारतन्त्र्यमात्रं तु सिद्धमित्यर्थः । तेन सामान्यतोदृष्टस्य
पारतन्त्र्यमात्रविषयता, न पारतन्त्र्यमिच्छादीनाम् अनुमेयात्मवादिनां कदाचिदप्यस्मदा
दिप्रत्यक्षगोचरः परस्य तदाश्रयस्य नित्यपरोक्षत्वादिति । तदेवं सामान्यतोदृष्ट
मुदाहृत्य परिशेषोदाहरणं पारमार्थिकं प्रश्नपूर्वकमादर्शयति—पारतन्त्र्येति । इच्छादीनां
हि बाधकैरपनीते द्रव्याष्टकगुणत्वे गुणत्वमेव व्यतिरेकी हेतुरात्मपारतन्त्र्ये प्रमाणम् ।
यद्यपि चायं स्वरूपेणात्मा न प्रसिद्धः, तथापि द्रव्याष्टकव्यतिरेकादिशब्दैरदूरवि
प्रकर्षेण परामृष्टः, शक्नोति विशेष्टुं धर्मिणि च न्यायप्रवृत्त्यङ्गं संशयमापादयितुमिति
निरवद्यम् ।


अत्र भाष्यं विभागवचनादेव त्रिविधमिति सिद्ध इति । तस्यार्थः, त्रिविधमिति
विभागवचनादेव त्रिविधे पूर्ववदादौ सिद्धे किमर्थं पूर्ववदाद्युपादानं सूत्रेणेति । तत्र
समाधानं त्रिविधवचनं त्रिविधस्य पूर्ववदादेर्वचनमुक्तिः । महतः त्रिविधस्य
महाविषयस्य अतीतानागतवर्तमानविषयस्य लघीयसा सूत्रेण तत्पूर्वकमित्ये
तावतैवोपदेशे परं वाक्यलाघवं मन्यमानस्यान्यस्मिन् वाक्यलाघवेऽनादरः
723 152 सूत्रकारस्येति शिष्यान् व्युत्पादयिषोः । अत्रैव724 निदर्शनम् तथा चायम् । अस्य
समाचारः—इत्थं भूतेन वाक्यविकल्पेन वैचित्र्येण प्रवृत्त इति योजना ।


एवं तावत् लक्षणभेदादनुमानं भिन्नं प्रत्यक्षाद् दर्शितम् । भाष्यकारस्तु
विषयभेदादपि भेदमाह—सद्विषयं च प्रत्यक्षं सदसद्विषयं चानुमानम् । चो
विषयभेदं समुच्चिनोति । सदिति वर्तमानम् । असदित्यतीतानागते । प्रत्यक्षं हि
लौकिकं वर्तमानविषयमेव । अनुमानं तु त्रैकाल्यविषयम् । यद्यपि प्रत्यक्षमप्यतीता
नागतयोः संप्रति निषेध्ययोर्निषेधे प्रवर्तमानमसद्विषयं तथापि न प्रतिषेध्ययोः
प्रवर्तते इत्येतावता सद्विषयमुक्तम् । अनुमानं तु तयोरपि प्रवर्तते इत्येतावता
असद्विषयमुक्तम् । तदेतदाक्षिपति—सद्विषयं चेति । न ह्यनुपलब्धसामान्ये इति
सामान्यत उपलब्धो विशेषतश्चानिर्णीतो धर्मो न्यायप्रवृत्तावधिक्रियते । न त्वनुपलब्ध
सामान्य इत्यर्थः । न चासतः स्वतन्त्रस्य 725सामान्येन दर्शनमस्तीति । द्वितीयं
कल्पमाशङ्कते—अथेति । एतद्दूषयितुं धर्मत्रैविध्यमाह—धर्मा इति । तद्विभजते—
तत्रेति । पृच्छति—कथं पुनरिति । यदि हि स्वतन्त्रः समवायः, न तर्हि कस्यचिद्
विशेषणम् । तथा च न विशेषणतया गृह्येतेति भावः । उत्तरम्—समवायान्तराभावात् ।
न विशेषणत्वं स्वातन्त्र्येण निराकुर्मः, किं तु वृत्तिमस्येत्यर्थः । कस्मात् पुनरस्य न
समवायान्तरमभ्युपेयत इत्यत आह—अथेति । पृच्छति—किमिदमिति । अनवस्था
प्रसङ्गो हि नाम तर्कः । नैष प्रमाणमन्तेरण निर्णयाय पर्याप्त इत्यर्थः । उत्तरम्—
संदेहः,
किं त्वस्त्येव न्यायः । तमाह—पञ्चेति । अयं पञ्चपदार्थवृत्तिशब्दो बहुव्रीहिणा
परमाणौ वर्तते, षष्ठीसमासेन तु समवाये । न च कथञ्चित् शब्दाभेदमात्रमनुमानाङ्गम्,
मा भूद् गोशब्दसाम्येन वागादीनामपि विषाणित्वमित्यपरितोषात् न्यायान्तरमाह—
अनाश्रितः समवाय इति । इह बुद्धिनिमित्तत्वं कारणत्वम् । संयोगेनानैकान्तो मा
भूदित्यत उक्तम्—व्यापकत्वे सतीति । 726सत्युपलब्धिकारणान्तरसमवधाने
सर्वत्रोपलभ्यता व्यापकत्वम् । तच्चेह प्रत्ययकारणे आत्मनि727 च समवाये चावि
153 लक्षणमिति । न्यायेतिकर्तव्यताभूतं728 तर्कं पृच्छति—यदि पुनरिति । उत्तरम्—
कार्यमिति । उक्तमनवस्थाप्रसङ्गमवतारयितुमनाधारत्वप्रसङ्ग उक्तः ।


स्यादेतत् । भवतु वृत्तेः प्रागनाश्रितं कार्यं पश्चात् समवैष्यति, तुरीसंयुक्तेभ्य
इव तन्तुभ्य उत्पद्य पटः पश्चात् तुर्या इत्यत आह—समवायश्चेति । अनवस्थाप्रसङ्गः
पूर्वोक्त इत्यर्थः । शङ्कते—प्राप्तित्वादिति । 729प्रमाणवत्त्वात् प्राप्तसमवायस्य वृत्तिर्न
शक्या अनवस्थाभिया परित्यक्तुमित्यर्थः । विमर्शपूर्वकं शङ्कां निराकरोति—
किमियमिति । संयोगे प्राप्तित्वस्य निवृत्त्या स्वाभाविकः संबन्धः कार्यत्वस्योपाधेः
तत्प्रयोजकस्य विद्यमानत्वादित्यर्थः । अथ प्राप्तिधर्मोऽपि कस्मात् न भवतीत्यत
आह—यदि पुनरियमिति । न न्वियमनवस्था कस्माद् बीजाङ्कुरादिष्विवेहापि
नाभ्युपेयते इत्यत आह—न चैनामनवस्थामिति । अनिदंप्रथमेष्वनादित्वात् शक्या
प्रतिपादयितुमनवस्था प्रमाणेन, न त्विदंप्रथमेष्वादिमत्त्वेन तस्याशक्यनिश्चयत्वात् ।
तदिदमुक्तम्—प्रमाणाभावादिति । शास्त्रविरोधश्च समवायान्तराभ्युपगम
इत्याह—समवायश्चेति । तत्त्वमेकत्वं समवायस्य भावेन सत्त्वया व्याख्यातमिति
शास्त्रमाह, तदनकेत्वमुपपादयता बाध्येतेत्यर्थः । चोदयति—संबन्धिनिवृत्ताविति ।
तथा च विनश्यति, विनष्टे च तस्मिन् यो दृश्यते स ततोऽन्य उत्पन्न इति सिद्धं
समवायस्य नानात्वमित्यर्थः730 । परिहरति—न नास्तीति । ख्यातिरुपलब्धिः । कस्मात् ?
अकृतकत्वात् । अकृतकत्वमेव कुत इत्यत आह—अकृतक इति । कार्यं
स्वोपादानेनाकृतकसंबन्धवद् आधारवत्त्वादिति व्यतिरेकी हेतुः । व्यतिरेका
व्यभिचारमाह—यद्ययमिति । उत्पद्यमानः खल्वयं समवायः सह कार्येण न
कार्यस्य । न हि सहोत्पन्नौ रूपस्पर्शौ मिथः संबध्येते । एकार्थसमवायस्तु तयोः ।
सोऽपि समवाये नास्ति । सन्नप्यसौ न कार्यमाधारवत् करोति । तस्मात् सहोत्पादे
कार्यमनाधारं स्यादिति । शङ्कते—अथेति । कार्यात् पूर्वमुत्पन्नः समवायः
पश्चादुत्पद्यमानं कार्यमुपादानाधारकं करिष्यति कार्यहेतुबलादित्यर्थः ।
154 निराकरोति—तथापीति । त्रिभ्यो हि कारणेभ्यः कार्यं भावरूपं जायते । कार्यकारण
समवायस्य च कार्यकारणे समवायिकारणे वक्तव्ये, कार्यात् प्राग् जातस्य च
समवायस्य न कार्यं कारणम् । न च निमित्तकारणमात्रादस्य जन्मेति सांप्रतम्,
भावोत्पादस्य सर्वत्र कारणत्रयपूर्वकत्वनियमात् । तस्मात् समवायस्य
समवाय्यसमवायिकारणाभावात् न कार्यात् प्राग् उत्पाद इति सुष्ठूक्तम्—तथापि
कस्येति वाच्यमिति ।
शङ्कते—अथेति । दूषयति—कार्येति । न च पटतुरीसंयोगवत्
समवायस्य पश्चात् कार्यकारणसमवाय इति युक्तम् । संयोगजस्य संयोगस्य
कारणत्रयसंभवाद् अस्य तु समवायान्तरमन्तरेण कारणत्रयायोगात् । 731अन्यथानवस्था
प्रसङ्गादिति भावः । उपसंहरति—तस्मादिति । ततश्च न ज्ञायते किमभिप्रेत्या
सद्विषयमित्युक्तमित्याक्षेप इति । समाधत्ते—तत्र प्रतिषिध्यमानेति । अतीतानागते
संप्रति प्रतिषिध्यमाने तद्विषयमनुमानम् असद्विषयमुक्तम् । तन्निषेधस्तु भवतु
प्रत्यक्षगोचरः, तथापि सिद्धो विषयभेद इत्यर्थः । अत्र चैष धर्मत्रैविध्यक्रमो द्वेधा
तावत्, विधीयमानः प्रतिषिध्यमानश्च । 732विधीयमानोऽपि द्वेधा, परतन्त्रः स्वतन्त्रश्चेति ।
स्वतन्त्रस्य च धर्मत्वं विशेषणत्वमात्रविवक्षया द्रष्टव्यम् । ननु विधीयमानोऽप्यसन्
प्रत्यक्षश्च क्वचित् । यथा व्याप्रियमाणे कुलाले जायमानो घटः । विस्फारिताक्षो हि
तदा घटो भवतीति प्रत्येति । न चासौ तदा सन्, सतो भवनं प्रत्यकर्तृकत्वात्,
गमनवदिति शङ्कते—भवतीति । निराकरोति—न, जायमानेति । जायमानस्यार्थस्य
विधिविषयस्य सत्तयासत्तया वानभ्युपगमात् । निषेधविषयतया तु तस्यासत्त्वमभ्युपेयत
एवेति । कस्तर्हि भवतिशब्दस्यार्थ इत्यत आह—भवतीति । घटो जायत इति तु
लौकिकः प्रयोगो घटशब्दं घटार्थेषु तावदवयवेषूपचर्य तेषां च सिद्धतया
कर्तृत्वादुपपादनीय इति । उपसंहरति—एवं तावदिति ।


स्वलक्षणं समाधाय परेषामनुमानलक्षणं दूषयितुमुपन्यस्यति—अपरे त्विति,
तस्यार्थमाह—अस्यार्थ इति । दूषयति—अत्रेति । यथासंभवं समासं विकल्प्य
155 दूषयति—नान्तरीयकार्थ इति चेति । सत्त्वं विधिविषयज्ञानगम्यत्वम्733, न तु
सामान्यम् । 734सत्त्वादिभिरनित्यत्त्वानान्तरीयकैस्तन्नान्तरीयककृतकत्वधर्मैरनित्य
त्वानुमानं स्यात्, न च शक्यम्, तेषामाकाशादिषु नित्येषु व्यभिचारादित्यर्थः । तथा
प्यसमर्थः समास
इति । पूर्वमर्थातिरेकमात्रं दूषणमुक्तम् । संप्रति त्वर्थातिरेकेण
हेतुना विशेषणसमासानुपपत्तिरित्यपौनरुक्त्यम् ।
विशेषणं विशेष्येण बहुलम् पा. २. १. ५७
इत्यत्र विशेषणपदोपादानमात्रेण वा विशेष्यपदोपादानमात्रेण वा अन्यतरस्यार्थात्
प्राप्तेरुभयपदोपादानस्यैतत् प्रयोजनम्—यत्रोभयोः प्रत्येकं व्यभिचारः समुदाये
त्वव्यभिचारः, तत्र समासो यथा स्यादिति । स चात्र नास्तीति समासानुपपत्तिरि
त्यर्थः । सामर्थ्यं प्रयोजनाभिसंबन्धः । चोदयति—एकपदेति । परिहरति—अत्रापीति ।
प्रधानं व्यक्तिर्विशेष्यत्वात् । अङ्गं जातिर्विशेषणत्वात् । पृथिवीत्युक्ते भवति
संशयः, किं पृथिवीत्वं सामान्यमस्य विवक्षितं यथा पशुना यजेतेति किं वा तद्विशेष्यं
द्रव्यम्, ग्रहं संमार्ष्टीति । अत्रेदमुपतिष्ठते—द्रव्यमिति । तद्धि पृथिवीत्वात्
सामान्यविशेषात् पृथिवीं व्यवच्छिनत्ति । एवं द्रव्यमित्यप्युक्ते द्रव्यत्वं वा सामान्यं
व्यक्तिर्वेति विमर्शे पृथिवीत्येतदुपतिष्ठते । न द्रव्यत्वं सामान्यं किं तु पृथिवी । न च
द्रव्यत्वपृथिवीत्वयोः सामानाधिकरण्यमस्ति । न हि भवति पृथिवीत्वं द्रव्यत्वमिति ।
तस्मात् सामानाधिकरण्यसंभवात् प्रधानैकव्यक्तिलाभः । इह त्वर्थो नान्तरीयकत्वं
व्यभिचरति । नान्तरीयकत्वं तु नार्थम् । न ह्यस्ति संभवो नान्तरीयकश्च स्यात् न चार्थ
इति, नान्तरीयकशब्दवाच्यस्यानभिधेयत्वासंभवात् । वस्तुवचनत्वेऽप्यर्थशब्दस्य
लक्ष्यासंभवाद् अविषयं लक्षणम् । न हि 735दिग्नागस्य मते किञ्चिदस्ति वस्तु
यन्नान्तरीयकं सद्धेतुर्भवति । यथाह—


सर्वोऽयमनुमानानुमेयभावो बुद्ध्यारूढेन धर्मधर्मिभावेन न बहिः सदसत्त्वम
पेक्षते इति ।


156

अव्यापकं च, न हि वस्त्वेव नान्तरीयकमसतोऽपि नान्तरीयकत्वादिति
भावः । दूषणान्तरमाह—तद्विद इति चेति । नान्तरीयकदर्शनमित्युच्यमाने
शब्दसामर्थ्यादेव लभ्यते नान्तरीयकत्वविशिष्टार्थदर्शनमिति, सति संभवे
शब्दार्थपरित्यागाभावात् । 736अतस्त्रिरूपलिङ्गदर्शनस्य सिद्धेः किमपरमवशिष्यते
737यदवरोधाय तद्विद इत्युपादीयत इत्यर्थः । एतदेव व्यतिरेकमुखेन निरूपयति—
हीति ।
एतल्लक्षणदूषणं लक्षणान्तरेऽप्यतिदिशति—एतेनेति । पृच्छति— इति । न
ह्यस्मिन् लक्षणे तद्विद इत्यस्ति, येन तदतिरिच्यते इति भावः । उत्तरम्—यथेति ।
तेषामुदाहरणं दूषयति—उदाहरणमिति । तदनेन दिग्नागस्य लक्षणं दूषयित्वा
अन्येषां लक्षणं दूषितम् ।


संप्रति दिग्नागस्य स्वकीयलक्षणप्रपञ्चार्थं वाक्यम् अनुमेयेऽथ तत्तुल्य
इत्याद्युपन्यस्य दूषयति—अपरे त्विति । अनन्तरलक्षणकारमपेक्ष्यापर इत्युक्तम् ।
चोदयति—अनुमेय इति । न हि योऽनुमेये संश्चासंश्च स शक्यः सन्निति
वक्तुमित्यर्थः । समाधत्ते—नाप्रसङ्ग इति । यद्येवं स्याद् यो विपक्षे द्वेधा स
विपक्षावृत्तिरिति हेतुरेव स्यात् न सव्यभिचार इत्यर्थः । पुनश्चोदयति—न कर्त्तव्य
इति । कुतः ? अवधारणात् निवृत्तेः । अनुमेये सद्भाव एवेत्यवधारणेनानुमेये
सद्भावस्य738 नियतत्वात्, कुतः पक्षैकदेशवृत्तेः प्रसङ्ग इति भावः । एतन्निराकर्तुं
यथासंभवं विकल्पयति—अनुमेये इति । तत्र पूर्वकल्पस्य तात्पर्यं विकल्पयति—किं
पुनरनेनेति । असंभवः अत्यन्तासंभवो निराक्रियते, यथा नीलं सरोजं भवत्येव
नात्यन्तं न भवतीति गम्यते739 । न तु नीलमेव सरोजं नानीलमिति, नापि सरोजमेव
नीलं नान्यदिति । अथ संभव इति । अन्वयपरो न व्यतिरेकपर इत्यर्थः । एतद्विकल्पद्वयं
दूषयति—उभयथा चेति । दूषणान्तरं चाह—न चैकदेशवृत्तिरिति । न ह्यत्यन्तायोग
157 व्यवच्छेदेनायोगो व्यवच्छिन्नो भवति, नापि संभवमात्रविधानेनासंभवो व्यवच्छिन्नो
भवति । ततश्चायोगाव्यवच्छेदादेकदेशवृत्तिरनुमानाभासो न व्यवच्छिन्न इत्यर्थः ।


स्यादेतत् । विशेष्यसंगतोऽयमेवकारोऽनुमेय एव संभवति । यथा पार्थ एव
धनुर्धर इति । न चायमन्योगव्यवच्छेदो विनैवकारं लभ्यते । तस्मात् न
व्यर्थमवधारणमित्यत आह—उत्तरपदबाधा च । न ह्यस्ति संभवोऽनुमेय एवास्ति
740तत्तुल्ये चेति । तस्मात् तत्तुल्य इत्यस्य बाधा । चकारो नैकदेशवृत्तिर्निराकृत इति
दूषणं समुच्चिनोति ।


अनुमेय एव सद्भाव इति पक्षं यथासंभवं दूषयित्वा अनुमेये सद्भाव एवेति
द्वितीयं पक्षं दूषयितुमुपन्यस्यति—अथोत्तरमिति । तस्य प्रयोजनं दर्शयति—तस्य
व्याप्तिरर्थः ।
सद्भाव एवेति किल विशेषणसंगतमवधाऋअणमयोगम् अव्याप्तिं
व्यवच्छिन्दत् व्याप्तिं दर्शयति । तथा च व्याप्तिरस्यार्थ इत्यर्थः । दूषयति—तथा
प्यनुमेयमवधारितं
संभवस्य व्याप्त्या न धर्मः सद्भावः । हेतुमाह—यत एवकार
करणं ततोऽन्यत्रावधारणमिति ।
मा वधारि सद्भावोऽवधार्यतां चानुमेयम् ।
किमेतावतापीत्यत आह—संभवव्याप्त्या चेति । अनुमेयं खल्ववधारितं सद्धेतुसंभवं
परित्यज्य नान्यत्र वर्तते, ततश्चानुमेयं हेतुसंभवव्याप्त्यावधारितं भवति, हेतुसंभव
स्त्वनवधारितः सर्वत्रैव तत्तुल्ये च विपक्षे च प्रसृतः । स च कश्चित् तत्तुल्यविपक्षौ
व्याप्नोति, कश्चित् तदेकदेशवृत्तिः । तदस्य हेतुसंभवस्य विपक्षेऽपि प्रसक्तस्य
प्रतिषेधाय युक्तमसति नास्तीति । तत्तुल्ये तु प्रसक्तमप्रतिषिद्धमनुमतमेवेति तत्तुल्ये
सद्भाव इति व्यर्थमित्यर्थः ।


स्यादेतत् । तुल्ये हेतुसद्भावसिद्धावपि तत्तुल्ये व्याप्त्या हेतोः सद्भावो
भवत्वित्येतदर्थं तत्तुल्ये सद्भाव इति वचनमित्यत आह—तत्तुल्ये चेति । यदि
पुनर्व्याप्तिर्विवक्ष्येत कृतकत्वे साध्ये प्रयत्नानन्तरीयकत्वं न हेतुः स्यात् । न ह्ययं
सपक्षव्यापक इति भावः । देशयति—अथ तत्तुल्ये इति । दूषयितुं विकल्पयति—किं
158 पुनरत्रेति ।
पूर्वस्य विरोधाद् बाधनम्, उत्तरस्य पौनरुक्त्यादिति । पूर्वपदेन सह
विरोधे निदर्शनमाह—न हि भवतीति । अनुमेये सद्भाव इत्यनेनानुमेये वृत्तौ
हेतोर्लब्धायां तत्तुल्य एव सद्भाव इति समुच्चीयमानावधारणं विपक्षमात्राद् वृत्तिं
व्यवच्छिनत्ति, न त्वनुमेयात् ।


नरं च नारायणमेव चादौ स्वतः सुतौ द्वौ जनयांबभूव इति यथेति चेद् अत
आह—तथेहापीति । समुच्चीयमानावधारणे हि तत्तुल्येन यथान्योगव्यवच्छेदेनैवकारः
संबध्यते तथानुमेयेनापि संबध्येत । तथा चानुमेयैकदेशनिवृत्तिरपि हेतुः स्यात् । न
खलु नरं च नारायणमेवेति निपातो नारायणेन सहान्ययोगव्यच्छेदेन संबध्यते, नरेण
चायोगव्यवच्छेदेनेति भावः । अथावधारणस्यावैचित्र्येण संबन्धमिच्छतानुमेये
यथायोगव्यवच्छेदः, तथा तत्तुल्येऽयोगव्यवच्छेदेन संबन्ध उच्येतेति शङ्कते—अथ
तत्तुल्य
इति । निराकरोति—तत्तुल्य इति । एतदेव विस्फारयति741 इति । ते तव
दर्शने इत्यर्थः । न च यस्यानुमेये सद्भाव एवेत्यनूद्य तस्य तत्तुल्य एव सत्त्वमिति
विधातुं शक्यम् । न ह्यनूद्यमानं शक्यं विशेष्टुम्, तथा सति तद्विशेषणाय प्रयत्नान्तरा
स्थाने सति वाक्यभेदप्रसङ्गात् । यथा


यस्योभयं हविरार्त्तिमार्च्छेदैन्द्रं पञ्चशरावमोदनं निर्वपेत् । इत्यत्र हि यद्यपि
स्वरूपेणार्तेरशक्यप्रतिपत्तित्वेन हविषा विशेषणं मृग्यते, तथापि न शक्यं हविरुभयत्वेन
विशेष्टुं विना 742प्रयत्नान्तरादिति वाक्यभेदभिया प्रतीयमानमप्युभयत्वम् अविवक्षितम्,
एवमत्राप्यनुमेय इत्यविवक्षितम् । अथ तद्विवक्षयैव वाक्यभेदमभ्युपेत्य पश्चाद्
वाक्यैकवाक्यतया अभिमतार्थसिद्धिरास्थीयते । न च विरोधाद् वाक्ययोरेक
वाक्यताविरहः । तत्तुल्य एवेत्यन्ययोगव्यवच्छेदस्य विपक्षमात्रविषयत्वेनाप्युपपत्तौ
विरोधासिद्धेः । तस्मात् अन्यापोहार्थत्वात् पदानां विरोधो वक्तव्यः । तथा हि अनुमेये
सद्भाव इत्यत्रानुमेय एव नाननुमेये, सद्भाव एव नासद्भाव इति पदार्थः । तथा च
तत्तुल्यविपक्षयोर्हेत्वभावो दर्शितः । एवं तत्तुल्ये सद्भाव इत्यत्रापि तत्तुल्य एव
159 नातत्तुल्ये । सद्भाव एव नासद्भाव इति पदार्थः । तथा चानुमेयेऽसद्भाव इत्युक्तं
भवति न चानुमेयम् । तत्तुल्यपदार्थयोः परस्परपरिहारवतोः समुच्चयसंभवः । द्वयोरपि
विपक्षव्यावृत्तिमात्रपरत्वात् परस्परसमुच्चयसद्भाव इति चेत्—न, वृक्षो गौरित्यनयोरपि
हस्त्यादिनिवृत्तिमात्रपरत्वेनाभिन्नार्थयोः सामानाधिकरण्यप्रसङ्गात्, तस्माद् विरोधात्
समुच्चीयमानावधारणं न युक्तमिति । न च समुच्चीयमानावधारणं दिग्नागो मेने,
यदेवमूचे वैशेषिकलक्षणदूषणावसरे—


यदि रूपमेव चाक्षुषं ततो न द्रव्यं चाक्षुषं स्यात् । तथा च महदनेकद्रव्यसमवायाद्
रूपाच्चोपलब्धिः वै. सू. ८. १. ६ इति द्रव्यचाक्षुषत्वाभिधानं व्याहन्येतेति ।


अत्र हि743 रूपवद्द्रव्यसहितं रूपमेव चाक्षुषं न गन्धरसादीति शक्यं समुच्चीय
मानावधारणम् । तस्मात् समुच्चीयमानावधारणाभिधानं कीर्तेः स्वातन्त्र्येण ।
तच्चायुक्तमिति कृतं विस्तरेण ॥


असति नास्तितेति दूषयति—असतीति । कस्मात् ? यदसत् तत्तुच्छं स्वयमेव
नास्ति, तन्न सदिति शक्यं व्यवहर्तुम् असदिति वा । भवतु, तथापि कस्मात् तस्मान्न
हेतोः व्यावृत्तिर्भवतीत्यत आह—न ह्यसदिति । यथा चैतत् तथा अन्वयिहेतू
पपादनावसरेऽस्माभिरुक्तम्744 । स्वरूपेण दूषयित्वा एतद्गतमवधारणं दूषयिष्यन्न
नूद्य विकल्पयति—किमवधार्यत इति । प्रथमं कल्पं दूषयति—यदि तावदिति ।
तत्तुल्य एव सद्भाव इत्यनेन गम्यत इत्यर्थः । द्वितीयं कल्पं दूषयति—अथ पुनरिति ।
गौरयं विषाणीत्वादित्ययं हेतुर्विपक्ष एव नास्ति, पक्षसपक्षव्यापकत्वात् । न तु
नास्त्येव, विपक्षैकदेशे महिषादौ वृत्तेः । अतो विपक्ष एव नास्ति इत्ययमपि हेतुः
स्यादिति । तदेवमवयवार्थं दूषयित्वा समुदायार्थं दूषयितुमुपन्यस्यति—यदप्ये
कद्विपदपर्युदासेनेति ।
तत्रैकपदपर्युदासेन त्रयः पक्षाः, द्विपदपर्युदासेनापि त्रय इति
षट्कम् । तत्पर्युदासेन सप्तिकापरिग्रहः । यथानुमेये सद्भाव इत्युच्यमाने 745यस्य तत्तुल्ये
नास्तिता विपक्षे च वृत्तिः सोऽपि हेतुः स्यात् । यथा नित्यः शब्दः कृतकत्वादिति ।
160 तत्तुल्येऽस्तीत्युच्यमाने विपक्षवृत्तेरपक्षधर्मस्य च हेतुत्वं स्यात्, यथा नित्यः शब्दः
चाक्षुषत्वात् सामान्यवदिति । नास्तिता सतीत्युच्यमाने योऽपक्षधर्मस्तत्तुल्ये च नास्ति
स हेतुः स्यात् यथा नित्यः शब्दोऽसत्त्वात् । अनुमेये तत्तुल्ये चेत्युच्यमाने, अनित्यः
शब्दः प्रमेयत्वादिति विपक्षवृत्तिर्हेतुः स्यात् । अनुमेयेऽस्त्यसति च 746नास्तीत्येता
वत्युच्यमाने नित्यः शब्दो जातिमत्त्वे सति श्रावणत्वादित्ययं 747तत्तुल्यवृत्तिहीनोऽपि
हेतुः स्यात् । तत्तुल्येऽस्ति, असति च नास्तीत्येतावत्युच्यमाने अनित्याः परमाणवः
कृतकत्वादित्ययमपक्षधर्मोहेतुः स्यात् । तदेतत्सर्वं मा भूदिति समुदायोपादानप्रयोजनम् ।
तदेतद् दूषयति—एतदपीति । सपक्षव्याप्त्व्याप्तिभ्यां द्विरूपयुक्तस्यान्वयिनो द्वित्वम् ।


संप्रति सांख्यीयमनुमानलक्षणं दूषयति—एतेनेति । संबन्धोऽविनाभावः
साधनस्य साध्येन । तस्मात् प्रत्यक्षाद् दृढतरप्रमाणावधारितात् । तथापि यत्राविना
भूते लिङ्गे भवत एकस्मिन् धर्मिणि विरुद्धाव्यभिचारिणी, तयोरपि हेतुत्वं प्रसज्ये
तेत्यत उक्तम्—एकस्मादिति । शेषस्य अनुमेयस्य सिद्धिः । अनुपपन्नत्वमात्र
साम्येनोक्तमेतेन न748 प्रयुक्तमिति । अनुपपत्तिं पृच्छति—कथमिति । यथासंभवम
नुपपत्तिमाह—न हीति । यदि प्रत्यक्षशब्दो ज्ञानवचनः ज्ञानं चैकत्वेन विशिष्यते,
तदैतद् दूषणम् । अथ संबन्धविशेषणमेकस्मादिति, प्रत्यक्षशब्दश्च ज्ञेये न तु ज्ञाने
तदेतदुपन्यस्य दूषयति—अथ संबन्धादिति । शङ्कते—अथेति । संबन्धस्य
प्रत्यक्षतोक्ता पूर्वम्, न त्वनुमानकाल इत्यर्थः । दूषयति—तथाप्युपलब्धसंबन्धस्य
पूर्वमनुमानकाले चानुपलब्धलिङ्गस्यानुमानं प्रसज्येतेति ।
स्यादेतत् । संबध्यते
इति व्युत्पत्त्या संबन्धो लिङ्गम् । तेनाविनाभूताद्धेतोः प्रत्यक्षादेकस्माद् अनुमेय
सिद्धिरिति । तथा च गृहीताविनाभावात् लिङ्गात् संप्रति प्रत्यक्षादित्युपपन्नमित्यत
आह—न चान्या गतिरस्ति । अत्रापि व्याख्याने एकस्मादिति व्यर्थम् । तथा हि
अन्वयव्यतिरेकमात्रसंपत्तिरविनाभाव इत्युच्यते, सर्वरूपसंपत्तिर्वा ? तत्र प्रथमे
कल्पे मा भूद् विरुद्धाव्यभिचारी, बाधितविषयस्तु हेतुः स्यात् । द्वितीये तु कल्पे 749
161 सर्वरूपसंपन्नो हेतुर्विरुद्धाव्यभिचारी संभवतीत्येकस्मादित्यतिरिच्यते । तस्मात्
सुष्ठूक्तम्—न चान्या गतिरस्तीति । अव्यापकत्वं लक्षणदोषमाह—रूपेण चेति ।
न तावदनयोः तादात्म्यम् भिन्नेन्द्रियग्राह्यत्वाद् भिन्नबुद्धिबोध्यत्वाच्च । न चातदा
त्मनोरनयोः संबन्धः कश्चिदुपलभ्यते । न च प्रतिक्षणपरिणामवादे कुण्डवदरादीनामपि
कश्चिदस्ति संबन्ध इत्यपि द्रष्टव्यम् । शङ्कते—अथेति । निराकरोति—सोऽपीति ।
न हि सांख्यानां बौद्धानां वा राद्धान्तेऽस्ति संबन्धः समवायो नाम । नापि तदाश्रयो
द्रव्यम् । अतः स्वदर्शनव्याघात इत्यर्थः । यद्युच्येत प्राधानिकत्वाद् रूपादीनां प्रधान
मेकमाश्रयः, तथा च यत्र रूपं तत्र स्पर्श इत्यत आह—यत्र रूपमिति । कुतः ?
क्वचिदिति ।
न हि प्रधानमाधारः कार्याणाम् अपि तु प्रधानात्मकत्वमेषामिष्यते, तथा
च यत्र तत्रेत्यनुपपत्तिः । न च तादात्म्यमित्यप्युक्तम् । न च भेदाभेदावेकत्र संभवतो
विरोधादिति भावः । शङ्कते—परस्परेति । यथा ह्यासन्दिकाङ्गानि भिन्नान्यनौत्तरा
धर्यव्यवस्थितान्यपि परस्पराश्रयतया न पतन्ति, एवं रूपस्पर्शावपि परस्पराश्रया
वित्यर्थः । निराकरोति—परस्पराधारभावेऽप्यन्यत्रासन्दिकाङ्गादौ, नासौ रूप
स्पर्शयोः । कुतः ? न रूपं स्पर्शे न च स्पर्शो रूपे इति । 750परस्परसंयोग
भेदप्रतिबद्धगुरुत्वानि आसन्दिकाङ्गानि 751अपतन्ति स्थितानि परस्पराधारत्वेनाप
दिश्यन्ते । रूपस्पर्शादीनां तु स्थितिर्न परस्परहेतुका, अपि तु भोगापवर्गलक्षण
पुरुषार्थहेतुकेति भावः । एतेन सांख्यानां सप्तविधः संबन्धः प्रत्युक्तः । शेषं
सुबोधम् ॥ ५ ॥


प्रसिद्धसाधर्म्यात्साध्यसाधनमुपमानम् ॥ १ । १ । ६ ॥


विभागसूत्रे अनुमानानन्तरमुपमानस्योद्देशाद् यथोद्देशं च लक्षणादनुमान
लक्षणानन्तरमुपमानलक्षणमाह—अथोपमानमिति भाष्यम् । सूत्रं पठति—प्रसिद्ध
162 साधर्म्यात् साध्यसाधनमुपमानम् ।
अत्रापि यत इत्यध्याहार्यम् । सिद्धिः साधनम् ।
तदेतद् भाष्यकारेण व्याख्यातम् । प्रज्ञातेन प्रसिद्धेन । गवा साधर्म्यात् सामान्याद्
गवयस्य । साधर्म्यं च सामान्यमभिदधता न सामान्यातिरिक्तं सादृश्यं 752नाम
पदार्थान्तरमस्तीत्युक्तं भवति । साधर्म्यं चाप्रसिद्धं न 753साध्यसाधनायालमिति साधर्म्य
प्रसिद्धिरपि द्रष्टव्या । सा च यथा गौस्तथा गवय इत्याप्तवाक्यात् । तदिदमुक्तम्—यथा
गौरिति ।
साध्यसाधनपदव्याख्यानम्—प्रज्ञापनीयस्य गवयशब्दवाच्यतया प्रत्यक्ष
दृश्यमानगोसादृश्यस्य गवयत्वसामान्यविशेषवतः पिण्डस्य प्रज्ञापनमुपमानम् ।
पिण्डस्य हि गवयशब्दवाच्यतां पुरुषोऽतिदेशवाक्यस्मरणसहकारिणः प्रत्यक्षाद्
गवयगताद् गोसादृश्यात् प्रजानन् तेन प्रज्ञाप्यत इति प्रमाणस्य व्यापारः
प्रज्ञापनमुक्तमिति । तत्र वार्त्तिककारः प्रथमं तावत् सूत्रतात्पर्यमाह—सूत्रार्थः
पूर्ववत् । समानासमानजातीयव्यवच्छेद इत्यर्थः । साध्यसाधनमित्युच्यमाने
प्रत्यक्षादिसाधनेषु754 सुखदुःखसाधनेषु प्रसङ्गः । अत उक्तं प्रसिद्धसाधर्म्यादिति ।
यद्यपि प्रसिद्धसाधर्म्यमुपमानमित्युच्यमाने प्रमाणविशेषाभिधाय्युपमानपद
सामानाधिकरण्यात् 755करणत्वलाभः, तथापि तदाभासनिराकरणाय साध्यसाधन
पदोपादानम् । तेनोपमानाभासमपाकृतं भवतीति ।


अवयवार्थं विभजते—प्रसिद्धेति । वार्त्तिककारेण बहुव्रीहिद्वयसंभवो
दर्शितः, न तु तृतीयासमासो भाष्यकारीयो निरस्तः । भाष्यकारेण हि संज्ञितया
756गवयप्रतिपत्तिः फलं साध्यसाधनपदवाच्यमुक्ता, आक्षिप्तप्रयोज्यव्यापारत्वात् ।
प्रयोजकव्यापारस्य प्रज्ञापनस्य पश्चात् निष्कृष्याभिधानं कृतम्—समाख्या
संबन्धप्रतिपत्तिरुपमानार्थ
इति । एतदेव साध्यसाधनपदार्थतया वार्त्तिककारो
व्याचष्टे—समाख्यासंबन्धप्रतिपत्तिरुपमानार्थः फलम् । साध्यशब्देन757 समाख्या
संबन्ध उच्यते । तस्य साधनं सिद्धिः प्रतिपत्तिरिति । ननु प्रतिपद्यतामयं गोसादृश्य
163 युक्तं गवयम् । समाख्यासंबन्धप्रतिपत्तिस्तु कुतस्त्या ? न हि यो यत्सदृशं यं
प्रतिपद्यते स तस्य समाख्यामप्यवगच्छतीत्याशयवान् पृच्छति—किमुक्तं भवति ।
उत्तरम्—आगमेति । आगमानुभवाहितात् संस्कारात् स्मृतिः । एतदुक्तं भवति, न
केवलं सारूप्यज्ञानं समाख्यासंबन्धप्रतिपत्तिहेतुः, अपि त्वागमार्थस्मृत्यपेक्षमिति ।
नन्वसत्यागमानुभवे कुतः स्मृतिरित्यत आह—यदा ह्यनेनेति । प्रसिद्धसाधर्म्या
दित्यत्र प्रसिद्धिरुभयी 758श्रुतमयी प्रत्यक्षमयी च । श्रुतमयी यथा गौरेवं गवय इति ।
प्रत्यक्षमयी च यथा गोसादृश्यविशिष्टोऽयमीदृशः पिण्ड इति । तत्र प्रत्यक्षमयी
प्रसिद्धिरागमाहितस्मृत्यपेक्षा समाख्यासंबन्धप्रतिपत्तिहेतुः । यद्यपि यथा गौरेवं
गवय इत्येतस्मादपि गोसादृश्यस्य 759गवयशब्दः समाख्येति शक्यमवगन्तुम् । न खलु
प्रत्यक्ष एव संज्ञाकर्म, समानजातीयव्यवच्छिन्ने हि तद्भवति । तच्च यदि मानान्तरेणापि
तथावगम्यते, कस्तत्र760 संज्ञाकर्म निवारयेत् ? गोसादृश्येन चोपलक्षितः पिण्डो य इति
सर्वनाम्ना पररामृष्टः शक्यो घटादिभ्योऽसमानजातिभ्यो 761महिषादिभ्यश्च
समानजातीयेभ्यो व्यवच्छिन्नोऽवगन्तुं गवयः, तथापि यावदयमसौ गवय इति
साक्षात् प्रतीते संबन्धिनि संज्ञां न निवेश्यति तावदयं परिप्लुतमतिः प्रमाता 762कच्चित्
खलु द्रक्ष्यामि तादृशं पिण्डं यत्र गवयसंज्ञां प्रतिपत्स्य इति प्रमोत्सुक एवोदीक्षते ।
न चासौ वाक्यमात्रसहायोऽप्रत्यक्षीकृतगोसदृशगवयत्वजातिमत्पिण्डोऽसौ763 गवयाख्य
इति प्रतिपत्तुमर्हति । न च वाक्यं विना प्रत्यक्षमात्रात् । तस्मादागमप्रत्यक्षाभ्यामन्यदेवेदम्
आगमस्मृतिसहितं सादृश्यज्ञानमुपमानाख्यं प्रमाणमास्थेयम् ।


ननु यदोदीच्येन क्रमेलकं निन्दतोक्तम्, धिक् करभमतिदीर्घवक्रग्रीवं प्रलम्बोष्ठं
कठोरतीक्ष्णकण्टकाशिनं कुत्सितावयवसन्निवेशमपसदं पशूनामिति, तदुपश्रुत्य
दाक्षिणात्य उत्तरापथं गतस्तादृशं वस्तूपलभ्य नूनमसौ करभ 764इति प्रत्येति, तत्
कतमदेतेषु प्रमाणम् ? न तावदुपमानं साधर्म्याभावात् । नापि पञ्चमं प्रमाणमुपगम्यते ।
164 यद्युच्येत निन्दापरं वाक्यं करभस्य तादृशत्वे न प्रमाणम् । न ह्यन्यपरात्
शब्दादन्यस्यावगम इति । यत्र तर्हि तादृक्त्वे पर्यवस्यति वाक्यं तत्र का गतिः ? अथ
तत्रापि तादृक् करभ आगमावगतः प्रत्यक्षेण प्रत्यभिज्ञायते, करभशब्दवाच्यता तु
तस्य तत्पूर्वं तादृक्करभपरत्वेऽप्यागमस्य प्रयोगमात्रादवगता अनुमानात् । यो हि यत्र
प्रयुज्यते शब्दोऽसति वृत्त्यन्तरे स तस्य वाचकः यथा गोशब्दो गोत्वे । प्रयुक्तश्चायं
तादृशि । तस्मात् तस्य वाचक इति । तदिदं प्रागेव प्रयोगानुमितं वाचकत्वमस्य
प्रत्यक्षसमये केवलं स्मर्यते इति । समानमेतत्765 उपमानवाक्येऽपि । तत्रापि वाक्यादवगतः
साधर्म्यवान् पिण्डः प्रत्यक्षेण प्रत्यभिज्ञायते । प्रयोगानुमितं च 766गवयपदस्य वाचकत्वं
स्मर्यते इति न फलान्तरमवशिष्यते यत्रोपमानं प्रमाणमिति767


अत्रोच्यते । न तावदाकाशादिशब्दवदेष गवयशब्दः साक्षात् पिण्डस्य
वाचकः, किंतु गवयत्वं निमित्तीकृत्य पिण्डे वर्तते इति परमार्थः । न च यथा गौरेवं
गवय इति वाक्याद् गवयत्वमवगतम्, न ह्यनवगतसंबन्धं 768गवयपदमेतदवबोधयति ।
ततस्तदवगमात् तु संबन्धवेदने परस्पराश्रयप्रसङ्गः । न च गोसादृश्येनोपलक्ष्यते
गवयत्वम् । न खल्वनुपलब्धचरेण गवयत्वेन गोसादृश्यं संबद्धं दृष्टम् । न
चादृष्टसंबन्धमुपलक्षकम् । न हि पुरुषेणादृष्टसंबन्धो दण्डः पुरुषमुपलक्षयितुमर्हति ।
तस्मात् 769संबन्धिनो गवयत्वस्य सर्वथानुपलब्धेः कुतो वाक्याद् वा अनुमानाद् वा
वाच्यवाचकसंबन्धावसायः770 ? कुतस्तरां च संबन्धस्मृतिः ? गवयत्वसामान्यविशेषवति
तु पिण्डे प्रत्यक्षे युक्तः संबन्धावगमः, संबन्धिनो गवयत्वस्य प्रत्यक्षत्वात्
771वाक्यार्थस्य च स्मर्यमाणत्वात् । तथापि किं गवयत्वजातिमान् पिण्डो वाच्यः, उत
गोसादृश्यवानिति772 कुतो विनिगमनेति चेत् ? वाक्यार्थस्मरणसहकारि गवयत्व
जातिमतः पिण्डस्य गोसादृश्यदर्शनमेव तर्कसहायं गवयत्वाभिधाने प्रमाणम् ।
तर्कश्च गोसादृश्यविशिष्टपिण्डाभिधाने कल्पनागौरवप्रसङ्गः । तथा हि सादृश्यविशिष्ट
165 पिण्डाभिधाने नाप्रतीतं सादृश्यं पिण्डं विशिनष्टीति तत्प्रतिपत्तव्यम् । न च
शब्दादन्यतस्तदवगम इति शब्दस्य तत्र वाचकत्वं कल्पनीयम् । न चाविशिष्टं
सादृश्यमपि पिण्डविशेषे गवयपदमवस्थापयितुमर्हति, यस्य कस्यचिद् येन
केनचित् सह सादृश्यादिति तदपि गवा विशेषणीयम् । न चान्यतो गोत्वस्यापि
प्रतिपत्तिरिति तदपि गवयपदेनाभिधातव्यमिति कल्पनागौरवम् । गवयत्वजाति
मत्पिण्डाभिधाने तु लाघवमिति तदनुजानाति । साधर्म्यग्रहणं च धर्ममात्रोपलक्षणमिति
करभसंज्ञाप्रतीतिफलमप्युपमानमेवेति नाव्याप्तिः । नापि पञ्चमप्रमाणाभ्युपगमः । अत
एव बहून्युदाहरणान्युक्त्वाप्याह स्म भगवान् भाष्यकारः, एवमन्योऽप्युपमानस्य
लोके विषयो बुभुत्सितव्य
इति । तस्मात् सर्वं चतुरस्रम् ।


तदीदृशमुपमानफलमविद्वान् सादृश्यविशिष्टवस्तुज्ञानं चोपमानफलमिति भ्रान्तो
भदन्तो दिग्नाग आक्षिपति—प्रत्यक्षेति । पृच्छति—कथमिति । उत्तरम्—यदा
ताविति ।
उपलक्षणं चैतत्, उभौ प्रत्यक्षेण पश्यतीति । यदा तु गवयमेकं प्रत्यक्षेण
पश्यति, स्मरति च गाम्, तदापि गोसादृश्यं गवयस्थं प्रत्यक्षमेव । गोस्थमप्रत्यक्षम्,
अप्रत्यक्षत्वाद् गोरिति चेत् ? हन्त भोः किमभिमतं सादृश्यमायुष्मतो यदप्रत्यक्षायां
गवि न प्रत्यक्षम् ? सामान्यबाहुल्यं जात्यन्तरवर्ति जात्यन्तरस्य । यथाहुः,

सामान्यान्येव भूयांसि गुणावयवकर्मणाम् ।

भिन्नप्रधानसामान्यवृत्ति773 सादृश्यमुच्यते ॥

इति चेत् ? तत् किमिदानीं कर्णत्वादिसामान्यं गोगवयगतकर्णादिभेदेन भिन्नमित्यपि
वक्तुमध्यवसितोऽसि ? तस्माद् यथा कालाक्ष्यां गवि गोत्वमीक्षितवतः स्वस्तिमत्यां
प्रत्यभिज्ञायमानं तदेवेदमिति, एतदेव तदित्यवगतं भवति, तथेहापीति न
फलातिरेकः । तस्मात् न सादृश्यप्रतीतिफलमुपमानं प्रत्यक्षाद् वाक्याद् वा व्यतिरिच्यत
इति सूक्तत् । भदन्तभ्रान्तिमुद्धटयति—गवेति । गवयसत्तां सादृश्यविशिष्ट
मित्यर्थः । अर्थतत्त्वमुक्तं स्मारयति—गवयेति । उपसंहरति—तस्मादिति । प्रयोगस्तु,
166 प्रत्यक्षादिभ्यः प्रमाणान्तरमुपमानम्, तज्जन्यप्रमाविलक्षणप्रमाजनकत्वात् । यदि तु न
तेभ्यो विलक्षणमभविष्यद् न तद्विलक्षणां प्रमामकरिष्यत्, यथा तान्येव । न चैतत्
तथा । तस्मात् तथेति ॥ ६ ॥


आप्तोपदेशः शब्दः ॥ १ । १ । ७ ॥


अथ शब्द इति भाष्यम् । उपमानानन्तरं शब्दोद्देशात् उपमानलक्षणानन्तरं
शब्दस्य लक्षणमित्यर्थः । लक्षणसूत्रं पठति—आप्तोपदेशः शब्दः । अत्र शब्द इति
लक्ष्यपदम् । आप्तोपदेश इति लक्षणम् । उपदिश्यतेऽनेनेति उपदेशो वाक्यज्ञानं वा
तदर्थज्ञानं वा अभिधीयते । तत्र वाक्यज्ञानप्रामाण्यपक्षे तदर्थज्ञानं फलम्,
पदार्थस्मृत्यादयस्त्वान्तरालिका इतिकर्तव्यताः । तदर्थज्ञानप्रामाण्यपक्षे तु हानादि
बुद्धिः फलम् । यद्यपि विधिरुपदेशः प्रवर्तनमित्यनर्थान्तरम्, यद्यपि चायं नियोज्य
प्रयोजने प्रवृत्तिनिवृत्ती विदधदाज्ञाध्येषणाभ्यामतिरिच्यते, ते हि नियोक्तृप्रयोजने
प्रवृत्तिनिवृत्ती विधत्तः, तथापि भूतार्थपरोपनिषदादिशब्दव्यापकत्वात् परप्रयोजन
वद्वचनमात्रविवक्षयोपदेशपदं व्याख्येयम् । यद्यपि
सदेव सोम्येदमग्र आसीद्
इत्यादि वचनं क्वचित् न प्रवर्तयति, कुतश्चिद् वा न निवर्तयति पुरुषम्, तथापि
पुरुषश्रेयोऽभिधत्ते इत्युपदेश इत्युच्यते । तथाप्यतिव्याप्तिः, चैत्यवन्दनादिवाक्या
नामप्येवंलक्षणत्वात् । अत उक्तम्—आप्तेति । आप्तानां ऋष्यार्यम्लेच्छानामुपदेशः
शब्दो न त्वनाप्तानां मायामोहनिर्मितानां बुद्धर्षभादीनां प्रमाणविरुद्धक्षणिकसर्व
धर्मनैरात्म्यवादिनामिति । तदेवाह वार्त्तिककारः—न शब्दमात्रमिति सूत्रार्थः ॥


सूत्रस्थाप्तलक्षणपरं भाष्यम्—आप्तः खलु साक्षात्कृतधर्मा । सुदृढेन
प्रमाणेनावधारिताः साक्षात्कृता धर्माः पदार्था हिताहितप्राप्तिपरिहारप्रयोजना येन स
तथोक्तः । तथापि तत्त्वं विद्वान् अकारुणिकतया 774वा अलसतया वा अनुपदिशन्,
167 मत्सरितया वा विपरीतमुपदिशन् नाप्तः स्यादित्यत आह—यथादृष्टस्यार्थस्य
चिख्यापयिषया प्रयुक्तः ।
यथादृष्टस्येति मत्सरितया विपरीतोपदेशो निवारितः ।
चिख्यापयिषयेति अकृपास्वार्थकामत्वे775 निराकृते । प्रयुक्तः उत्पादितप्रयत्नः
इत्यलसत्वम् । तथापि स्थानकरणपाटवाभावेन वर्णनिष्पादनासामर्थ्येनाप्तः प्रसज्येत,
इत्यत आह—उपदेष्टा स्थानकरणपाटववानित्यर्थः ।


आप्त इति प्रकृतिप्रत्ययसमुदायात् प्रकृतिं निष्कृष्य तदर्थमाह—साक्षात्करण
मिति ।
अनेन 776यथोक्तरूपसंपदुपलक्षिता । प्रत्ययार्थमाह—तयेति । आप्तलक्षणस्य
व्यापकत्वमाह—ऋषीति । दर्शनाद् ऋषिः । करतलामलकफलवत्777 साक्षात्कृतत्रै
काल्यवर्त्तिप्रमेयमात्रः, आराद् यातः पातकेभ्य इत्यार्यो मध्यमो लोकः, म्लेच्छः
प्रसिद्धः । म्लेच्छा अपि हि 778परिपथमवस्थिताः पान्थानामपहृतसर्वस्वानां मार्गाख्याने
हेतुदर्शनशून्या भवन्त्याप्ताः । तदनेन,

779आप्तिं दोषक्षयं विदुः ।

इति परेषामाप्तलक्षणमव्यापकमित्युक्तं भवति ॥


तदेतद् भाष्यम् आक्षेप्तुमनुभाषते—आप्तःखल्विति । आक्षिपति—स्वर्गेति ।
आक्षेप्ता भाष्यम् आक्षिप्य सूत्रं समाधत्ते—तस्मादिति780 आप्तः प्राप्तो युक्त इति
यावत् । अपौरुषेयो वैदिक उपदेशः स्वर्गापूर्वदेवतादिविषयः स्वतः प्रामाण्ये सिद्धे
निर्दोषतया युक्त उपपन्नः । लौकिकश्चार्यम्लेच्छानां प्रमाणान्तरमूलो युक्तः ।
मानान्तराभावे त्वनाप्तोऽयुक्तः इत्यर्थः । समाधत्ते—न ब्रूम इति । पौरुषेयत्वं वेदानां
द्वितीयाध्याय781 उपपादयिष्यते । तस्मात् पुरुषस्यैवाप्तस्योपदेशः आप्तोपदेश इति साधु
व्याख्यानं भाष्यकारीयमिति भावः ।


पृच्छति—कः पुनरिति । अस्ति हि स्वर्गादीनामप्रत्यक्षत्वे न्यायः, योगिप्रत्यक्षं
न स्वर्गादिविषयः प्रत्यक्षत्वात् अस्मदादिप्रत्यक्षवदिति भावः । उत्तरम्—ब्रूमो
168 न्यायम् । तमाह—सामान्यविशेषवत्त्वात् कस्यचित् प्रत्यक्षा इति । अत्र यावति
पक्षे यो हेतुः सिद्धः, तस्य तन्मात्रं पक्षीकार्यम् । योगजे च प्रत्यक्षे सिद्धे तत्साधका
देव प्रमाणात् तस्य स्वर्गादिविषयत्वमपि सिद्धमिति धर्मिग्राहकप्रमाणविरुद्धं
मीमांसकानाम् अनुमानं नोदेतुमप्युत्सहते प्रागेव तद् बाधितुम् । असिद्धे तु योगजे
प्रत्यक्ष आश्रयासिद्धो हेतुराभासः । अस्माकं तु सम्यञ्चो बहवश्च न्याया इति
भावः । अनित्यत्वं हेतुमाक्षिपति—असिद्धमिति । परिहरति—नेति । नित्ये चापूर्व
इति । अत्र त्रयः कल्पाः, किमेकमपूर्वं सर्वपुरुषसाधारणम् आहो असाधारणम् ?
यदाप्यसाधारणं तदापि किं प्रतिपुरुषमेकैकमपूर्वम्,782 आहो प्रतिपुरुषमनेकमिति ?
तत्र प्रथमं कल्पं दूषयति—यदि साधारणतेति । न हि कदाचिदप्ययमपूर्वं पश्यति
लौकिकः पुरुषः । योगिनस्त्वनभिव्यक्तमपि पश्यन्तीति भावः । द्वितीयं कल्पं
दूषयति—एतेन प्रतिपुरुषमिति । उत्कर्ष आधिक्यमवयवोपचय इति यावत् ।
शङ्कते—व्यञ्जकेति । एकमपि व्यञ्जकभेदात् उत्कर्षनिष्कर्षवद् दृष्टम् । तद् यथा
महति दर्पणतले महन्मुखम्, तदेव कनीनिकायाम् अण्विति भावः ।
783वक्ष्यमाणेनाभिप्रायेण निराकरोति—न ह्येकमिति । शङ्किता स्वाभिप्राय
मुद्धाटयति—ननु चेति । स्वाभिप्रायेण निराकरोति—न दृष्ट इति ब्रूम इति । शङ्किता
पृच्छति—किं पुनस्तत् यदि न दृष्टम् ? तत्र यदि 784भेदेन न दृष्टम्, दृष्टिर्नास्ति । किं
पुनस्तत्, यद् भेदेन भेददर्शनमिति785 भासते ? समाधाता स्वाभिप्रायमाह—मिथ्याप्रत्यय
इति । न भेददर्शनमपजानीमहे किं तु पारमार्थिकं भेदम् । न च कल्पितोऽपूर्वभेदः
पारमार्थिकाय कार्यायालमिति भावः । उत्कर्षापकर्षकर्तृत्वं वेति कर्मण इति
शेषः । तृतीयं कल्पमातिष्ठते—प्रतिपुरुषमनेक इति । दूषयति—अनिवृत्त इति ।
अथोत्तरकालमिति । अश्वमेधक्रियया तावत् तदपूर्वं स्वकाल एवाभिव्यक्तं
फलादानाभिमुखीकृतम्, अभिव्यञ्जकसमानकालत्वादभिव्यक्तेः, प्रदीपादिषु
169 दर्शनात् । तथापि फलं तावत् न दत्ते, यावत् क्रिया न निवर्तते । निवृत्तायां तु फलं दत्ते
इत्यर्थः । दूषयति—असतीति । तत् खलु 786पूर्वं सदपि फलं नाकार्षीत् चरमभाविन्याः
क्रियायाः तज्जन्याया वाभिव्यक्तेरनुत्पादात् । उत्पन्नायां तु क्रियायामभिव्यक्तौ वा
कस्मात् न करोति ? न हि क्रियाया विनाशस्य 787कश्चिदुपयोगः । तस्मादकामेनापि
त्वया असत्या788 एव क्रियाया व्यञ्जकत्वमनुग्राहकत्वं चाङ्गीकर्तव्यम् । तच्चैतदुभय
मपि चित्रमित्यर्थः । अपि च सासती चेत् क्रियाभिव्यनक्ति, तथा सति असत्तायाः
सर्वत्र सुलभत्वात् न किञ्चिदपूर्वं नाभिव्यक्तमिति, क्रियाविलोपः प्रयत्नविलोप
इत्यर्थः ।


अत्र शब्दं प्रमाणान्तरमसहमानो दिग्नागः तल्लक्षणं विकल्प्याक्षिपति—
आप्तोपदेश इति । अन्यस्मादन्यस्य निश्चयो न तावदसंबन्धादतिप्रसङ्गात् । न च
शब्दोऽर्थात्मा, नाप्यर्थकार्यः । विनाप्यर्थं पुरुषविवक्षामात्रादेव तदुत्पादात् । तस्मात्
न साक्षात् शब्दादर्थनिश्चयः, विवक्षाकार्यतया तु विवक्षां गमयेत् । सा चार्थाभिप्राय
पूर्वा । अभिप्रायश्च कश्चिन्मनोमात्रयोनिः, अपरस्तु प्रमाणमूलः । तत्र यः
प्रमाणनिश्चितमर्थं विवक्षति, यथाविवक्षं चोच्चारयति स आप्तः । तस्य वचनात्
कार्यात् कारणं विवक्षा अनुमीयते । तस्याश्च कारणमर्थज्ञानम् । तत
श्चार्थज्ञानस्यार्थकार्यत्वादिति प्रमाणगतिः । तत्राप्तोपदेश इत्यत्रोपदेशक्रियया उप
देष्टार उपस्थापिताः । ते च प्रायेण विसंवादका दृष्टा इत्याप्तग्रहणेन तेषामविसंवा
दित्वम् । ततश्च उपदेशादर्थविनिश्चयो भवत्वित्येतदर्थं यद्युच्येत इत्याह—यद्या
प्तानामिति ।
उपदेष्टट्टणामित्यर्थः । इमं कल्पं दूषयति—तदनुमानात् । अविसंवा
दित्वमुपदेष्टुरानुमानिकम्, तादृशस्य वचनमर्थविनिश्चये अनुमानमेव । तथा हि यद्
यन्निर्दोषसत्त्वीयं वचनं तत्सर्वमर्थवत् यथा बुद्धस्य क्षणिकनैरात्म्यादिविषय
उपदेशः, तथा चायं विवादाध्यासित उपदेश इति । यथोक्तं भदन्तेन
170

आप्तवाक्याविसंवादसामान्यादनुमानता ।

इति । द्वितीयं कल्पमातिष्ठते—अथार्थस्य तथाभावः । अत्र हि उपदिश्यत इत्युपदेश
इति व्युत्पत्त्या अर्थ उच्यते । आप्तः प्राप्त उपदेशो यस्मात्789 स तथोक्तः । एतदुक्तं
भवति यस्मात् शब्दादवगम्यार्थं प्रवर्तमानः प्राप्नोति तमेवार्थं स आप्तोपदेशः शब्दः
प्रमाणम् । एवं च यथा शब्देन योऽर्थो दर्शितः, तस्याप्त्या तथाता दर्शिता भवति ।
तदिदमुक्तम् अथार्थस्य तथाभाव इति । दूषयति—सोऽपीति । तदेव स्फुटयति—
यदा हीति । आप्त्या हि तथात्वं विनिश्चिन्वन् अर्थस्य नाप्रतिपन्नतया निश्चेतुमर्हति ।
प्रतिपत्तिश्च प्रायेण प्रत्यक्षेणेति प्रत्यक्षत इत्युक्तम् । तमिममाक्षेपमपाकरोति—
तन्नेति । नाप्तत्वसहायः शब्दोऽर्थं बोधयतीति सूत्रार्थः । नापि शब्दार्थप्राप्त्या
शब्दार्थतथात्वमिति । कस्तर्हि इत्यत आह—अपि त्विति । इन्द्रियसंबद्धा
संबद्धेष्विति
दृष्टादृष्टेष्वित्यर्थः । यथोक्तं स द्विविधो दृष्टादृष्टभेदादिति, एतदुक्तं
भवति नाप्तत्वहेतुकमविसंवादित्वमनेन सूत्रेणागमार्थतया प्रतिपाद्यते । नाप्यर्थतथा
त्वम् आगमार्थतया प्रतिपाद्यते । नाप्यागमः प्रत्यक्षानुमानाभ्यां न भिद्यते । किं तु
उपदेशः शब्द इत्युक्तम् । उपदेश इति च कारकपदम्, उपदिश्यते ज्ञाप्यते
प्रयोजनवानर्थोऽनेनेति । तथापि वातिकाद्युपदेशोऽपि शब्दः स्यादित्यत उक्तम्—
आप्तेति । तेनोपदेशपदादेवागमस्य वाक्यार्थप्रतिपत्तिः फलमुक्ता । तदिदमुक्तम्—या
शब्दोल्लेखेन
पदार्थस्मरणावान्तरव्यापारात् शब्दादेवार्थं प्रत्येमीत्यनेनोल्लेखेन
790प्रतिपत्तिः सागमस्यार्थः फलमिति । आप्तत्वं च न वाक्यार्थं प्रत्याययति अपि
त्वागमस्याव्यभिचारिताम्791 । न च यतः प्रामाण्यमवगम्यते ततः प्रमेयमपि । तथा च
सति प्रामाण्यज्ञानहेतोरनुमानादेव प्रत्यक्षादिप्रमेयावगतिरिति प्रत्यक्षादीनामप्रामाण्य
प्रसङ्गः । 792तथा सति कस्यानुमानमपि प्रामाण्यमवधारयेत् । न चाप्तवाक्यं कार्यं 793सद्
वक्तृज्ञानानुमानद्वारेणार्थेऽप्यनुमानमेव, न त्वर्थस्य प्रत्यायकमिति सांप्रतम् । यदि
171 हि नार्थं प्रत्याययेत् ज्ञानमात्रमनुमापयेत्, तथा च नार्थविशेषसिद्धिः । न च ज्ञान
स्यार्थादन्योऽस्ति कश्चिद् विशेषः । तस्मात् वक्तृज्ञानविशेषणाय पूर्वं शब्दादेव
केवलाद् वाक्यार्थज्ञानमेषितव्यम् । एवं च कृतं वक्तृज्ञानानुमानेनार्थप्रतिपत्त्यर्थेन
केवलं प्रामाण्यज्ञानाय तदुपयोग इति । न चाविनाभाव एव संबन्धो येन
शब्दार्थयोरसंबन्धेन गम्यगमकत्वं न स्यात् । अस्ति हि सांकेतिकः संबन्धोऽ
नयोरिति वक्ष्यते794 न चाविनाभाव एव प्रत्यायनाङ्गम् । चक्षुरादयो नीलादिभेद
व्यभिचारिणोऽपि दृष्टाः तत्प्रतिपादका इत्युक्तम् । तस्मात् पदानि कृतसंकेतानि
स्वार्थान् स्मारयन्ति । आकांक्षायोग्यतासत्तिसध्रीचीनानि अदृष्टपूर्वं वाक्यार्थं बोध
यन्ति, न संगतिग्रहणमपि प्रतीक्षन्त इति दूरेऽनुमानाद् भवन्ति । यथा चैतत् तथोद्देशे
लेशत उक्तम् । उपपादितं च तत्त्वबिन्दौ । तस्मात् सर्वमवदातम् ॥ ७ ॥


स द्विविधो दृष्टादृष्टार्थत्वात् ॥ १ । १ । ८ ॥


स द्विविधो दृष्टादृष्टार्थत्वात् इति सूत्रस्य तात्पर्यमाह—नियमार्थम् ।
तद्विभजते—अनेकधेति । दृष्टादृष्टार्थत्वादिति भाष्यमतेन व्याचष्टे—प्रत्यक्षेति ।
आप्तप्रणीतत्वलिङ्गानुमितप्रामाण्यशब्दैकविषयता795 स्वर्गयागादिसंबन्धा
दीनामनुमानविषयता । यथाह भाष्यकारः यस्यामुत्र प्रतीयते सोऽदृष्टार्थ इति ।
अदृष्टा र्थोऽपि प्रमाणमर्थस्यानुमानादिति । तेन दृष्टोऽर्थो यस्यागमस्य स तथा ।
एवमितरोऽपीति । तदेवं भाष्यमतेन व्याख्याय स्वमतेन व्याचष्टे—वक्तृभेदेनेति ।
दृष्टोऽर्थो येन स दृष्टार्थः प्रवक्ता, एवमदृष्टोऽर्थोऽनुमितो येन स तथा । तत्र दृष्टार्था
ऋषयोऽस्मदादयश्च । अनुमितार्था अस्मदादय एवेति । एवमपि शब्दद्वैविध्यसाधने
मा भूदपक्षधर्मतेति प्रवक्तृपदेन पूरयति—दृष्टादृष्टार्थप्रवक्तृकत्वादिति । अदृष्टार्थः
प्रवक्ता यस्यागमस्य स तथोक्तः । अस्यार्थमाह न विग्रहं करोति प्रत्यक्षत इति । शेषं
796 172 सुबोधम् । स न मन्येत दृष्टानां वाक्यानां प्रामाण्यम् । इति । विप्रकृष्टो नास्तिकः
परामृष्यत इति भाष्ययोजनिका । परिशिष्टं तु परीक्षापर्वणि निवेदयिष्यते ॥ ८ ॥


॥ इति प्रमाणलक्षणप्रकरणम् ॥

प्रमेयलक्षणप्रकरणम्


आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखाप
वर्गास्तु प्रमेयम् ॥ १ । १ । ९ ॥


इह प्रमेयं हेयोपादेयभावेनावस्थितं मुमुक्षुणा प्रतिपित्सितम् । तच्च
परीक्षितस्वप्रमाणविशेषाधीनप्रतिपत्ति । लक्षणं चास्य प्रमाणविशेषः । न चावान्तर
प्रमाणसामान्यप्रत्यक्षादिलक्षणमन्तरेणात्मादिप्रमाणावतारः कर्तुं शक्यः, तस्य प्रत्यक्षा
दिसामान्यविशेषत्वात् । अतः प्रत्यक्षादिलक्षणानन्तरं तदवतारः । अपरीक्षितं च न
तत्त्वनिर्णयाय पर्याप्तमिति परीक्षा विधायिष्यते797 । तत्परिकरश्च संशयादय इति युक्तं
तेषां पश्चाल्लक्षणम् । तदिह प्रमेयलक्षणाय तद्विभागोद्देशसूत्रमवतारयितुं भाष्यकारः
पृच्छति स्म—किं पुनरनेन प्रमाणेनेति । जात्यभिप्रायमेकवचनम्, प्रकृते प्रमेये
यथायथं प्रमाणानामुपयोगात् । तदेतद् भाष्यम् अनूद्य वार्त्तिककार आक्षिपति—किं
पुनरिति ।
प्रमेयनान्तरीयकत्वं प्रमाणानां सामर्थ्यम् । समाधत्ते—नेति । प्रत्यक्षा
दिलक्षणसामर्थ्यात् प्रमेयमात्रं सिद्धम्, विशिष्टं तु प्रमेयमद्यापि न सिध्यतीति तदर्थं
प्रश्नः । स च विशेषो यथावदिति798 दर्शित इति । अयमेव च सूत्रार्थ इति । येषां
तत्त्वातत्त्वज्ञानाभ्यामपवर्गसंसारौ भवतः, त एतावन्त799 एव न न्यूना नाधिका
इत्यर्थः । प्रथमसूत्रव्यवस्थानमतिदिशति—अत्रापीति । उक्तमर्थमनाकलयन्नाक्षि
पति—उभयेति । दिगादीनामिति । द्रव्येषु दिक्कालपरमाणूनामनभिधानात् ।
वृक्षस्तिष्ठतीति । इतिशब्द आद्यर्थे । तेन वृक्षं 800पश्यति, वृक्षेण चन्द्रमसं पश्यतीत्या
173 दयो वेदितव्याः । समाधत्ते—न सूत्रार्थापरिज्ञानादिति । न प्रमेयपदं प्रमेयमात्रे
प्रवर्तते, किं तु यत् तत्त्वतो ज्ञायमानमपवर्गसाधनं तस्मिन्, तच्चात्माद्येव नान्यदिति
युक्तोऽन्ययोगव्यवच्छेद इत्यर्थः । अयेगव्यवच्छेदेऽपि न दोष इत्याह—प्रमेयमेवेति ।
नन्वस्मिन् पक्षे न कदाचिदपि प्रमाणता स्यादित्यस्ति दोष इत्यत आह—किमुक्तं
भवतीति ।
नास्य पुरुषमात्रं प्रति प्रमेयत्वं विधीयते, अपि तु मोक्षमाणशिष्यं प्रति
विधीयते । अनूद्यत इति प्रमाणान्तरमूलकत्वेन विधानस्य दार्ढ्यं दर्शयति ।
उपसंहरति—तस्मादिति । कौशलमात्रमात्मनः ख्यापयितुमभ्युपेत्य समाधानान्तर
माह—उपेत्येति । प्रवृत्तिसंस्कारकत्वमस्ति दिक्कालयोः,

प्राङ्मुखोऽन्नानि भुञ्जीत ।

प्राचीनप्रवणे वैश्वदेवेन यजेत ।

पौर्णमास्यां पौर्णमास्या यजेत ।

अमावास्यायाममावास्यया यजेत ।

इत्येवमादिश्रवणात् । कौशलमात्रमिदं न तु समाधानमित्याह—न पुनरिदमिति ।
विहितविधानादिति ।
प्रमाणविधानसामर्थ्येन विहितमित्यर्थः । न केवलं प्रमाण
विधानाक्षिप्तम्, अपि त्वाद्यसूत्रगतप्रमेयपदादपि लब्धमित्याह—आद्येन चेति ।
801एतस्मिंश्चार्थे सूत्रकारस्य अनुमतिमाह—एन चार्थमिति । भाष्यम् सर्वस्य
सुखदुःखसाधनस्य द्रष्टा, सर्वस्य सुखदुःखस्य भोक्ता, यतः सुखदुःखसाधनं
सर्वम्, सर्वं च सुखदुःखं जानाति, अतः सर्वज्ञः । न चाप्राप्तान्येतानि जानातीत्यत
आह—सर्वानुभावी । अनुभवः प्राप्तिः । तदेतद् वैराग्योत्पादायोक्तम्, एवमुत्तरत्रापि
बोद्धव्यम् । आत्मन्ययं विशेषो यदनेन रूपेण हेयः, कैवल्येन802 चोपादेयः । शरीरा
दीनि तु हेयान्येव । अपवर्गस्तूपादेय एवेति । अविद्यमानं पूर्वं शरीरं यस्य तदपूर्वं
शरीरम् । तन्निषेधति—नास्येदमिति । प्रमेयतत्त्वमविदुष आत्मन अविद्यमानमुत्तरं
शरीरं यस्य तद् अनुत्तरम् । तदपि निषिद्धं 803चेन, नेत्यनुकर्षणात् । ननु यथा पूर्वेषां
174 शरीराणाम् अनादिता 804एवमुत्तरेषामप्यनन्तता, तथा च मोक्षमाणानां प्रवृत्तयश्च
तदर्थानि शास्त्राणि चानर्थकानि प्रसज्येरन्नित्यत आह—उत्तरेषामिति ।
प्रमेयतत्त्वावगमादित्यर्थः । ननु सुखेऽप्युपदेष्टव्ये दुःखमात्रोद्देशः किं सुखं प्रत्याचष्टे ?
तथा चानुभवविरोध इत्यत आह—नेदमिति । तदेतद् भाष्यं वार्त्तिककार
आक्षेपसमाधानाभ्यां व्याचष्टे—सुखं पुनरिति । न चान्यत आत्मादिपदात्, उप
लब्धिः, अस्मादेव
आत्मादिभ्यो भेदेन प्रत्यात्ममुपलभ्यमानत्वादेव । निर्विद्यते
इत्यस्य व्याख्यानम्—अनभिरतिसंज्ञेति उपेक्षाबुद्धिः । निर्विण्णस्य वैराग्यम्
इत्यस्य व्याख्यानम्—तां चोपासीनस्य तथैव विरोधिगुणेन तृष्णा विच्छिद्यते ।
सुखानभिधानेन दुःखपक्षनिःक्षेपं सूचयति । तथा च सुखेऽस्य वैराग्यं भवतीति
तात्पर्यार्थः ॥ ९ ॥


इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्यात्मनो लिङ्गम् ॥ १ । १ । १० ॥


अपवर्गस्याप्यात्मार्थत्वेन805 प्रमेयेष्वात्मनः प्राधान्यात् प्रथममात्मलक्षणसूत्रम्
इच्छे
त्यादि । तदवतारार्थं भाष्यम्—तत्रात्मेति । अहमिति ज्ञानं गौराद्याकारं
शरीरावभासं806 न शक्यं घटादिज्ञानवद् द्रागात्मनि प्रमाणयितुमित्यभिप्रायः,
परदेहवर्त्यात्माभिप्रायं वा । 807तदत्र वार्त्तिककारः सूत्रतात्पर्यमाह—समानेति ।
समानजातीयं शरीरादि, असमानजातीयं प्रमाणसंशयादि । सत्येवास्मिन् प्रयोजने
प्रयोजनमन्वाचिनोति—आगमस्येति । ततश्चाप्तोक्तत्वानुमानसिद्धमपि प्रामाण्यं
शब्दस्य अनेन तदर्थसंवादकेनानुमानेन दृढतरं भवतीत्यर्थः । प्रयोजनान्तरं
चान्वाचिनोति—प्रमाणसंप्लवस्येति । द्वावपि वाशब्दौ चार्थेऽन्वाचये द्रष्टव्यौ ।
तदनेन वार्त्तिकेन अनुमानाच्च प्रतिपत्तव्य इति भाष्यं व्याख्यातम् । इच्छाया
आत्मलिङ्गत्वकथनपरं भाष्यं यज्जातीयस्येति, यज्जातीयस्येति व्याप्तिस्मृतिकथनम् ।
175 तज्जातीयं पश्यन्निति पक्षधर्मोपनयः । तस्मादयं सुखहेतुरित्यनुमायादातुमिच्छति ।
सेयमीदृशीच्छा व्याप्तिग्रहणतत्स्मरणपक्षधर्मताग्रहणानुमानेच्छादीनामेककर्तृत्वं
सूचयति, भेदे प्रतिसन्धानाभावेन तदनुपपत्तेः । तदिदमुक्तम् एकस्येति ।
यश्चासावेकोऽनुभविता च स्मर्ता चानुमाता चैषिता च स आत्मा । न च शरीरमेवं
भवितुमर्हति, 808तस्यापि बाल्यकौमारयौवनवार्द्धकभेदेनान्यत्वात् । नेन्द्रियम्
इन्द्रियान्तरगृहीत इन्द्रियान्तरेणाप्रतिसन्धानप्रसङ्गात् 809यमहमस्प्राक्षं तं पश्यामीति ।
नापि मनः, मनसः करणत्वेनैवानुमानात् । वक्ष्यति ह्येतत् सर्वं

ज्ञातुर्ज्ञानसाधनोपपत्तेः ।

३॑१॑१७ इत्यत्र सूत्रे ।


स्यादेतत् । असत्यपि आत्मनि 810ज्ञातरि सत्यपि च बुद्ध्यादीनां भेदे,
तत्सन्तानाभेदेन प्रतिसन्धानव्यवस्थोपपत्स्यत इत्यत आह—नियतविषये इति ।
नियतविषय इति बुद्धिभेदस्य प्रतिसन्धानमपाकरोति । मात्रग्रहणेन च संतानं
संतानिव्यतिरिक्तमपाकरोति । तदभ्युपगमे वा स एवात्मेति सिद्धं नः समीहितम् ।
तदेतद् भाष्यम् अनुभाष्य वार्त्तिककारस्तात्पर्यमस्याह—यज्जातीयस्येति । तत्र
विचारमारभते—तत्रेति । पूर्वपक्षमाह—कथमिच्छादीति । परिहरति—स्मृत्येति ।
नन्वेकविषयाणां स्मृत्यादीनां नानाकर्तृकत्वे को विरोध इत्यत आह—न हीति ।
नानाविषयत्व उदाहरणमाह—811न हि भवति यद्रूपमिति । नानानिमित्तत्व
उदाहरणमाह—नापि भवतीति । यद् यस्मात् निमित्तात् त्वगिन्द्रियात् स्पर्शमहमस्पार्क्षं
तत् तस्मात् निमित्तात् चक्षुषो रूपं पश्यामीति । नानाकर्तृकत्व उदाहरणमाह—न हि
भवति देवदत्त
इति । तदेतत् किल प्रतिसन्धानं कर्तृभेदाद् देवदत्तयज्ञदत्ता
देर्व्यतिरेकबलेनैककर्तृकत्वं साधयतीत्युक्तम् ।


तदेतदनुपपन्नम्, भिन्नकर्तृकत्वाद् व्यतिरेकस्योपाधिसंभवेन स्वाभाविक
प्रतिबन्धविज्ञानवैकल्यात् । अस्ति हि देवदत्तयज्ञदत्तविज्ञानानां भिन्नकर्तृकत्वम
176 कार्यकारणभावश्च । तत्र किमकार्यकारणभावात् प्रतिसन्धानस्य व्यतिरेक उत
भिन्नकर्तृकत्वादिति सन्दिग्धव्यतिरेकत्वादसाधनाङ्गं प्रतिसन्धानमित्याशय
वांश्चोदयति—कार्यकारणभावादिति । तदिदमुक्तम्—तदिदंप्रतिसन्धानमन्यथा
भवदिति ।
गूढाभिप्रायः परिहरति—812न नानात्वस्येति । चोदक आह—अकार्येति ।
गूढाभिप्राय एव परिहारवाद्याह—तदयुक्तमिति । अनैकान्तिकत्वं सन्दिग्ध
व्यतिरेकिता । चोदक आह—तुल्यं भवतोऽपीति । सिद्धान्ती गूढाभिप्राय एवाह—
अभ्युपगमादिति । चोदक आह—नासाधनादिति । असिद्धार्थता अन्यथासिद्धार्थता
हेतोः हेतुवचनस्येत्यर्थः । संप्रति समाधाता स्वाभिप्रायमाविष्करोति—न,
हेत्वर्थापरिज्ञानात् । 813तदेव विभजते—न भवतेति । कः पुनरसौ हेतुविशेष इत्यत
आह—विशेषितं चैतत्प्रतिसंधानम् । तत् कथयति—स्मृत्या सह पूर्वा
परप्रत्यययोरेकविषयत्वेन प्रतिसंधानम्
यज्जातीयं 814चन्दनवनितादि सुखहेतुं
प्रतीतं स्मरामि तज्जातीयमिमं प्रत्येमीति प्रतिसन्धानम् । तदनेन शालिबीजाङ्कुरस्य
परम्परया शालिबीजान्तरजननलक्षणात् प्रतिसंधानात् कार्यकारणभावनियमाद्
व्यवच्छिनत्ति ।


नन्वियं पूर्वापरप्रत्ययसंहिता815 स्मृतिरपि कार्यकारणभावादेवोपपत्स्यते,
कृतमेकेन कर्त्रेत्यत आह—सा च स्मृतिर्भवत्पक्षेऽनुपपन्ना । पृच्छति—कस्मात् ?
उत्तरम्—अन्येन निमित्तेन अनुभूतस्य अन्येन निमित्तेन अस्मरणात् । न हि भवति
येनैव चक्षुषा घटमद्राक्षम्, तेनैव त्वगिन्द्रियेण तं स्पृर्शामीति । निमित्तभेदे
प्रतिसंधानाभावमुक्त्वा विषयभेदेऽप्याह—न ह्यन्येन स्वभावेन घटत्वादिनानु
भूतस्यान्येन वृक्षत्वादिना स्मरणम् । न हि भवति यमहं घटमद्राक्षं सोऽयं वृक्ष इति ।
कर्तृभेदे प्रतिसंधानाभावमाह—न ह्यन्येन देवदत्तेन अनुभूतमन्यो यज्ञदत्तः स्मरति ।
न हि भवति योऽहं देवदत्तोऽद्राक्षं सोऽहं यज्ञदत्तः 816पश्यामीति । न चेदं सत्यपि भेदे
कार्यकारणभावात् प्रतिसंधानं भवितुमर्हति । न हि यत्र स्फुटतरः कार्यकारणभावः
177 तन्तुपटयोर्घटकपालयोर्वा दृश्यते तत्र प्रतिसंधानं भवति, ये तन्तवः स एव पट इति
वा, यो घटक्षणः स एव कपालक्षण इति वा । वस्तुतः कार्यकारणभूतानामगृहीत
भेदानां प्रतिसंधानहेतुभावः सभागेषु क्षणेषु तथा दर्शनादिति चेत् ? तन्न,
आमलकफलस्यैकस्यापनयने तत्रैव स्थाने आमलकान्तरावस्थापने भवति प्रति
संधानम् । न च तयोरामलकयोरस्ति कार्यकारणभावः । पूर्वापरप्रत्यययोः स्मृत्या
सहैकविषयत्वं कर्तरि कार्यकारणभावनिबन्धनं न कर्मणीति चेत् ? हन्त
नैरात्म्यसाक्षात्कारसात्मीभावेऽप्यस्ति विज्ञानानां कार्यकारणभाव इति तन्निबन्धनं
प्रतिसंधानं पूर्ववदेव प्रसज्येत । सैव चात्मदृष्टिर्दोषाणां निदानं परमिति व्यर्थो
नैरात्म्यसाक्षात्कारसात्मीभावप्रयासः । अथासदपि प्रतिसंधानं 817कार्यवशादाहरति
तथागतो नट इव रामत्वमात्मनः, यदि तत् कार्यकारणभावनिबन्धनम्, कथमसत्818,
कथम