३. प्रत्यक्ष-परिच्छेदः
168 169२ प्रत्यक्षपरिच्छेदः593
१. प्रमाणसंख्या
१. संख्याविप्रतिपत्तिः
594एवं सामान्यलक्षणमभिधाय विशेषलक्षणमाह । प्रत्यक्षमनुमानञ्च प्रमाणे(।) तत्र
प्रमाणमविसम्वादाद्(।) अविसम्वादश्चार्थादुत्पत्तेरर्थाव्यभिचारतः ।
ननु तदेवाव्यभिचारित्वं अर्थे कथमवगन्तव्यं । प्रत्यक्षानुमानत्वाच्च प्रामाण्यं ।
नान्यतः । शाब्दादित्वादित्यर्थं: ।
ननु शब्दादीनामर्थप्रतिबन्ध एव नास्तीति कुतः । यस्माल्लक्षणद्वयं प्रमेयं । प्रमेया
व्यभिचारतः प्रामाण्यं । न च प्रमेयमन्तरेण प्रमेयाव्यभिचारः । प्रमेयञ्च प्रत्यक्षानुमान
प्रतिपाद्यादपरं नस्ति । यदाह । नहि स्वसामान्यलक्षणाभ्यामपरं प्रमयेमस्ति । स्वलक्षण
विषयं प्रत्यक्षं । सामान्यलक्षणविषयमनुमानमिति प्रतिपादयिष्यामः । एतदेव प्रतिपादयति ।
प्रत्यक्षानुमानभेदेन द्विविधमेव प्रमाणं प्रतिपत्तव्यं । अन्यथा मेयप्रतिपत्तेरयोगादिति
प्रतिपादयिष्यते ।
प्रत्यक्षत्वानुमेयत्वमेवावितथाप्रमेयत्वप्रतिपत्तिर्नापरा । 82b2 सामान्यविशेषरूपादपरस्य
प्रतिपत्तिप्रकारस्याभावात् । विषयस्य चैकस्यैव द्वैविध्यं प्रतिपत्तिप्रकारस्य द्वैविध्यात् ।
प्रतिपत्तिभेदश्च प्रमाणभेदः । स एव च विषयभेदः(।) ननु प्रतिपत्तिभेदो विषयभेदः कथं ।
न ह्यन्यस्मिन् भिन्नेऽन्यस्य भेदः । सत्त्यमेतत् ।
।। २ ।।
यदा साक्षाज्ज्ञानजननं प्रति शक्तत्वेन प्रतीयते । तदासौ स्वेनरूपेण लक्ष्यमाणत्वात्
स्वलक्षणं यदातु पारम्पर्येंण शक्तत्वात् तस्यैव प्रतीयते । तदा सामान्यरू
पेण लक्षणमिति
सामान्यलक्षणं ।
पारम्पर्येण शक्तिरेवाशक्तिः पर्युदासवृत्त्या न शक्त्यभाव एव । केशादेस्तु तैमिरिको
पलब्धस्य शाब्दाभ्युपलब्धस्य च नार्थतत्त्वं साक्षात् पारम्यर्येण वा शक्तत्वेनाप्रतीतेः ।
अर्थाधिमोक्षाभावात् अधिमोक्षाभाव
त्वबाधकप्रमाणप्रवर्त्तितः । इतश्च प्रमेयद्वैविध्यं ।
यत् कथञ्चि(त्) सदृशरूपेण प्रतीयते । तत्सामान्यलक्षणमन्यथा विशेषलक्षणं600 ।
ननु पुरोव्यव
स्थितं गवादिसदृशरूपेण प्रतीयते । तत् किं सामान्यलक्षणं तथोप
मानेन प्रतीयमानमयं स गवय इति । नैतदस्ति ।
सदृशेनैव रूपेण यदुपलक्ष्यते
तत्सामान्यं, अत्र तु विशेषप्रपिपत्तिः । सदृशरूपतातु
प्रतीयत इति चेत् । न(।) तद्रूपस्य व्यतिरेकेणाप्रतीतेः । कथं सदृशोऽयमित्यध्यवसाय
इति चेत् ।
नखलु सदृशमिदमिति प्रतीत्या सादृश्यमपरं वस्तुव्यतिरेकेण वेदयितुं शक्यं । नहि
व्यवस्थितार्थोल्लेखमपहायापरा प्रतीतिरर्थस्य । तस्मादत्रार्थप्रतीत्यभावादनालम्बनैव सा
दृश्यप्रतीतिः । अनुमानप्रतीतौ तु दृष्टान्तः दृष्टरूपाध्यारोपः
सादृश्यं । यद्येवं शब्दादि
विषयोपि सामान्यमत्रोक्तमुत्तरं । नार्थोऽनर्थाधिमोक्षत इति । एवमन्यत्रापि द्रष्टव्यं ।
शब्दस्य विषयः सामान्यलक्षणमविषयः स्वलक्षणं ।
ननु यदि शब्दस्य विषयः सामान्यलक्षणं शब्दोपि
तर्हि प्रमाणं सामान्यविषयत्वात्(।)
नैतदस्ति ।
न तु ।। ७ ।।
शब्दस्यैव विषयः सामान्यं । नतु शब्दस्य यो विषयस्तत् सामान्यमेव । अविषयोपि
न स्वलक्षणमेवापि त्वविषयं एव स्वलक्षणमित्यर्थो विवक्षितः । तेन नायं दोषः । तस्मात् शब्द
विषयोपि किं तत् सामान्यं कश्चिदनर्थः । तथाऽविषयोपि किञ्चित् 83b स्वलक्षणं कश्चिदनर्थं: ।
अन्यनिमित्तानाञ्च विषयादन्येषां समयाभोगादीनां भावेपि धियः सत्त्वं यत्र तत्सामान्यं ।
यत्र तु धियोऽन्यनिमित्तानां चक्षुरादीनां भावेपि न भावस्ततत्स्वलक्षणं । अत्रापि पूर्वंवद् वक्तव्यं ।
अथवान्यनिमित्तानां भावे यत्रधियः सत्त्वं तत्स्वलक्षणं यत्र न सत्त्वं धियोऽन्यनि
मित्तभावे तत्सामान्यलक्षणमनुपलभ्यमानस्य स्वरूपेण लक्षयितुमशक्यत्वात् । परोक्षं
तत्सामान्यञ्च । तत्र स्वरूपेण लक्ष्यमाणं स्वलक्षणमन्यथा सामान्यलक्षणं परोक्षं ।
ननु प्रत्ययक्षपरोक्षलक्षणो विषयभेदः केन प्रमाणेन प्रतीयते । किं प्रत्यक्षेणानुमाने
न प्रमाणान्तरेण वा ।
तस्मात् प्रमेयद्वैविध्यमसिद्धं साधनं कथं विरुद्धं वा 84a यद्यपि नाम प्रमेयद्वैविध्यन्तथापि
प्रमाणेनापि तावता भवितव्यमिति कुतः ।
अत्रोच्यते । विषयद्वैविध्यम्प्रत्यक्षत एव सिद्धं । सादृशासदृशप्रतीतिर्हि प्रतीतेरेव
धर्मः स च स्वसम्वेदनप्रत्यक्षसिद्धः । न च प्रतीतिः स्वरूपेभ्रान्तिसङ्गता । तत्र भ्रान्ति
शङ्कायामव्यवहारएव भवेदनवतारहेतुर्वा वादिप्रतिवादिप्राश्निकवचनस्य । तथाहि ।
व्यवहारतः
प्रवृत्तिनिवृत्तिलक्षणात्प्रामाण्यं सामान्यलक्षणेनैव605प्रथमपरिच्छेद एव
प्रसिद्धं । भेदव्यवहारमात्रकमेवेदानीं साध्यमापन्नं तत्र सविकल्पकमेकमेवेदम्प्रत्यक्षं यदुताग्नि
रयमस्याभिप्रेतार्थक्रियाकारीति यो वदेत्तम्प्रति द्वितयमेतदिति । प्रतीत्याकारभेदात्प्रतीतिभेदे
न च वाह्या अपि भावा भेदवत्वेना
वगम्यन्ते । किम्पुनः प्रमाणं यत्तद्रूपमेव वस्तुतः । तत्र
स्वरूपम्भास्वराकारम्प्रत्यक्षत एव सिद्धं । साक्षात्करणात्तद्धि प्रत्यक्षमपरोक्षविषयत्वात् ।
पूर्व्वार्थक्रियाकारणसाधर्म्म्यन्तु समानाकारतया प्रतीयमानम्परोक्षत्वात्प्रमाणान्तरविषयः ।
अथ प्रत्यक्षमेव प्रवर्तकन्नापरन्तत्तु मनोऽन्तरम्भवदपि606 न प्रमाणं । नहि सह
तेन यावद् भवति
तावत्प्रमाणं । शरीरभूतलादीनामपि प्रामाण्यप्रसङ्गात् । अत्रोच्यते ।
अथ केवलमध्यक्षन्तदभावेत्यन्ताभ्यासात्प्रवर्तकन्दृष्टन्नानुमानं सादृश्यग्रहणाकारं ।
तदप्यसत् । नाध्यक्षप्रतीतिः केवला प्रथमम्प्रवर्त्तिका दृष्टा । मा भूत्पूर्व्वम्पश्चाद्
भविष्य-तीति चेत् । तदेतत्तौताख्यानं607 ।
यतः प्रथमम्प्रवर्तना भवेत् सैवाभ्यासिकी पश्चात्तनी प्रवृत्तिः कुतः । एतदेव पश्चात्त
नस्य पश्चात्तनत्वं यः पूर्व्वकमन्तरेणाभावः । तस्मात् प्रत्यक्षेतरापि608 प्रतीतिः प्रवर्त्तिकैवान्यथा
प्रवृत्त्यसम्भवात् । किञ्च ।
यथैवात्यन्ताभ्यासात्परोक्षप्रतीतिमन्तरेणापि प्रत्यक्षादेव प्रवर्तनं । तथा प्रत्यक्षप्रतीति
मन्तरेण धूमाद् वह्न्यादौ प्रवर्तनमिति तदपि प्रवर्तकमध्यक्षन्न ।
अथापि स्यात् ।609
अत्रोच्यते ।
तस्मात् प्रत्यक्षानुमानयोर्द्वयोरपि स्वविषये (न) प्रामाण्यमिति611
स्थितमेतत् । एवमेव
लोकस्य प्रतीतेः ।
अथ तद प्रमाणमेव । न(।) विशेषाभावात् । तथा हि ।
न च प्रवर्तकत्वादपरम्प्रामाणं ।
ततोऽध्यक्षेतरयोर्द्वंयोरपि(तुल्यं)612 प्रामाण्यन्न वा कस्यचित् ।
अथापि स्यात्(।) प्रत्यक्षं तत्रापि प्रवर्तंकङ्कार्यलिङ्गादिविषयमनध्यक्षन्तु सत्तामात्रेण
सन्निहितन्न तस्य प्रवर्तने व्यापारः ।
तदप्यसत् ।
एवं प्रतीत्यभावात् नहि तत्र प्रत्यक्षमेव प्रवर्तकमिति कस्यचिदवसायः । न च
प्रत्यक्षस्यापि सत्तामात्राद् परं प्रवर्तकत्वं । अन्वयव्यतिरेकमात्रेण सर्वस्य कार्योपयोगात् ।
प्रतीत्यसमुत्पादमात्रकमेवेदमिति सिद्धान्तात् परमार्थतः(न)५ कस्यचित्क्वचित्सव्यापारता ।
सम्वृतिरेव सव्यापारता न परमार्थः613 । एतच्च पश्चात्प्रतिपादयिष्यते । अपि च ।
यद्यग्न्यादिविषयं लैङ्िग/?/कं ज्ञानन्न प्रमाणं । भवतु तेनैव लिङ्गज्ञानेन प्रत्यक्षभाव
मनतिक्रम्य वर्तमानेन लिङ्िग/?/नो लिङ्गस्य च विषयीकरणम्परलोकादेरिति न काचिन्नः क्षतिः ।
173
अनुमानस्याप्रमाणतायान्तद्विषयस्य परलोकादेरसिद्धिरिति नास्तिकतामाशङ्कमानै
रस्माभिरनुमानप्रतिक्षेपः प्रतिक्षिप्यते । नान्येनाभिप्रायेण । स चेदनुमानविषयः परलोका
दिरप्रत्यक्षेपि प्रत्यक्षेण विषयीक्रियते किमस्माकमनुमानस्य प्रामाण्यसाधनेन ।
अनायाससाध्येर्थ एकेन प्रकारेण कः प्रकारान्तरमायाससम्भवभाजनञ्जनः प्रेक्षावाना
श्रयेत् । अनुमानेन साध्योर्थो यदि प्रत्यक्षमात्रात्प्रसिध्यति किमस्माकमनुमानेन दीयते ।
किञ्च ।
न खल्वसम्बन्धा614त्प्रतीतिमन्तरेणा परमनुमानयनुमानवादिभिरपीष्यते । तस्मात्स
दृशरूपेण यत्प्रतीयते तत्सामान्यलक्षणमेवतत्त्वसंवेदनप्रत्यक्षप्रसिद्धं । अनेन कार्यहेतोर्विषयः
प्रदर्शितः ।
शब्दविषयत्वमपि शाब्दप्रत्ययगम्यमेव स एव शाब्दः प्रत्ययः स्वप्रतिभासिनो विषयत्वं
प्रतिपादयति । अनेन स्वभावहेतोर्विषयस्य दर्शनं(।) तथाहि ।
तथाहि । अनेन सदृशोसौ तेन सदृशोयमित्येक एवार्थः । तदनुकारव्यवहारश्च
द्वयावलम्बी न च प्रत्यक्षेण द्वयं प्रत्येतुं शक्यमतः शाब्दप्रत्ययगोचर एव सादृश्यस्वभाव
हेतुना प्रतीयते । अनेन सदृशोऽसावेतदाकारस्य तत्रापि दर्शनात् । सादृश्यव्यवहारमात्रस्य
साधनात् । आकारद्वयस्य तु तथाभूतप्रत्ययनिबन्धनस्य पूर्वापरप्रत्यक्षाभ्यामेवोपलम्भात् ।
तस्माच्छब्दविषयो न स्वलक्षणं । शब्दग्रहणेन च विकल्प एवोपलभ्यते615 । विकल्पविषय
इति यावत् ।
अन्यनिमित्तानाम्भावे धियो यत्र न सत्त्वमिति चानुपलब्धेरुपक्षेपः । यत्र धियो
न सत्वं तस्याभावः । तत्र616 क्वचित्प्रवर्तमानं ज्ञानमन्यत्राहन्न617 प्रवृत्तमिति नियताकारत्वा
त्प्रत्याययति । नहि तत्सर्वत्र प्रवृत्तिमात्मनं उपलभते । तस्माद् भेदवादिनः प्रत्यक्षत एव
द्विधाभावावगमः प्रतीतेरन्यगत्यभावात् । इदञ्च सदृशासदृशत्वादि सकलमेव परोक्षेतर
प्रत्ययविषयस्तच्चार्थक्रियायां शक्त्यशक्त्तित इति ज्ञायते । एतत्पश्चात्प्रतिपादयिष्यते ।
तत्र यदुच्यते । परोक्षे प्रत्यक्षन्नास्ति । तदयुक्तं ।
174
यदि परोक्षोऽर्थः प्रत्यक्षेण ज्ञातो भवेत्तद्धर्मः प्रतीयेत धर्म्मस्य तत्स्वभावत्वात् । अतत्स्व
भावस्य तद्धर्मत्वायोगात् पदार्थान्तरवत्620 । तत्सम्बन्धात्तु तद्धर्मतेति चेत् । आयातन्तस्य
तर्हि 621
प्रत्यक्षेण परिज्ञानं । तेन परोक्षतासम्बद्धं वस्तु प्रतियताऽध्यक्षेण नियमेन परोक्षमपि
वस्तु प्रत्येतव्यन्ततः परोक्षाभिमतस्य वस्तुनोऽपरोक्षतैव प्रसक्ता । ततो नानुमानावतारः ।
नहि प्रत्यक्षगृहीतमेवानुमानविषयः । अत्रोच्यते ।
द्वयप्रतिपत्तौ हि सम्बन्धप्रतिपत्तिः । न च तद् द्वयमेकेनैव प्रमाणेन प्रत्येयं । तत्र
स्वसम्वेदनेन परोक्षतार्थस्य धर्मः प्रतीयते । परोक्षन्तु धर्म्मि622
प्रत्यक्षान्तरेणेन्द्रि (य)
विज्ञानेन प्रतीयते । ततः सम्बन्धप्रतिपत्तिः। ततः प्रत्यक्षेण परोक्षताप्रतीतावपि व्रस्त्व
नुमानेन प्रतीयत इत्यनुमानावतारः । किञ्च ।
विधिरूपो हि धर्म्मोऽव्यतिरिक्तो वस्तुनः सधर्म्मिणा सहैकप्रमाणग्राह्यः । परो
क्षत्वन्तु प्रतीतिविरहोऽध्यक्षेण । स न धर्मिग्रहणसापेक्षः ।
अथ परोक्षे प्रत्यक्षस्याप्रवृत्तौ कथमनुमानवृत्तिः । न किञ्चिदेतत् । यतः ।
नह्यनुमानेन वस्तुतः परोक्षता साध्यते येन तत्र प्रत्यक्षवृत्तिरिष्यते । अपि तु परोक्षता
स्वसम्वेदनप्रत्यक्षत एवास्य प्रसिद्धेत्युक्तमेतत् । सत्यान्तु प्रत्यक्षप्रसिद्धायाम्परोक्षतायामर्थ
क्रियासमर्थमग्न्यादिरूपमे623
वार्थस्य साध्यतेऽनुमानेन तत्र च प्राक्प्रत्यक्षम्प्रवृत्तमेव ततोनुमा
नप्रवर्तनाव्याघातः । किञ्च ।
अनुमानस्य हि तत्स्वरूपप्रवर्तना सामर्थ्यमेवाप्रकृता । सा च तदैवास्य भवति । ततो
न प्राक्तत्र प्रत्यक्षवृत्तिरपेक्ष्यते624 । न च परोक्षतया कश्चिदर्थी येन तत्र प्रत्यक्षवृत्तिम
वेक्षेत । अनिष्टावपि सा भवति । अनेन प्रामाण्यप्रसाधनमपि निर्ण्णीतं ।
वस्तुसम्बन्धितामात्रं ज्ञाने प्रामाण्यमुच्यते ।
परिशिष्टन्तु प्रागेव प्रत्ययादीति नोच्यते ।
ननु प्रमेयद्वैविध्यम्प्रमेयमेवा द्विधा प्रमेयञ्च कारणम्प्रमाणद्वैविध्यङ्कार्यं । तत्कथङ्कार
णात्कार्यस्य सिद्धिः । अत्रोच्यते ।
175
यद्यपि नावश्यं कारणानि कार्यवन्ति भवन्तीति न्यायस्तथापि कारणात्कार्यस्य
सिद्धिरेवात्र । नहि सर्वदा प्रमाणद्वितयम्प्रमेयद्वितयात्साध्यते । अपितु सामग्रीसम्भवादिति
वयम्ब्रूमः । सामग्रीसम्भवञ्च पश्चात्प्रतिपादयिष्यामः । अवश्यञ्च प्रमेयद्वितयसिद्धिः
प्रमाणद्वितयं साधयति । यत एव सिद्धिर्निंश्चयलक्षणाऽस्य तदेव प्रमाणं । न चैकस्माद् द्वितय
सिद्धिरिति प्रतिपादितं । यदा त्र्यादिप्रमाणविनिवृत्त्यर्थमिदं तदापरविषयाभावात् प्रमा
णान्तरविनिवृत्तिर्व्यापकाभावात्साध्यते626 । नहि प्रमेयरहितं प्रमाणमस्ति । स्वरूपस्य पर
रूपस्य वा प्रमेयस्याभावे ज्ञानमेव नास्तीति किम्प्रमाणम्भवेत्(।)आत्मास्तीति चेत् । तस्यापि
स्वपररूपप्रमेयाभावेऽभाव एव प्रसक्त इति न प्रमाणन्नाम । तस्मात्स्वरूपेण प्रतीयमानम्ब
स्त्वेको विषयः । तत्र परन्तु पर इति व्यवस्थितम् ।
२. सत्त्यद्वयचिन्ता
—इत्यन्तरश्लोकः ।
ननु न किञ्चिदर्थंक्रियासमर्थं कथमर्थक्रियासामर्थ्यं परमार्थसल्लक्षणं । तथाहि ।
अर्थक्रियासमर्थत्वङ्कस्य केन प्रतीयते । नहि मानस्य मेयस्य627 प्रतीतेः सम्भवस्तथा ।। ५० ।।
न नित्यस्य नानित्यस्य । न ज्ञेयस्य न ज्ञानस्यार्थक्रियाकारित्वम्प्रतीयते628
प्रत्यक्षे
णानुमानेन वा । तथा हि ।
न खलु नित्यस्य सर्वदेशव्यापिनः क्वचित्कार्ये व्यापारविरहिणः सामर्थ्यन्नाम ।
मा भूद्व्यापिनो अव्यापिनो भविष्यति । मा भूत्सदास्थायिनः कालान्तरस्थायिनो भविष्य
तीति चेत् । तदसत् ।
देशाव्याप्तिः कुतस्तस्याप्रतीतेर्नित्यता कुतः ।
अनित्यस्यापि भावस्य क्षणिकत्वात्क्रिया630 कुतः ।
न खलु क्षणिकस्य कार्यस्य तदभावेपि पुनर्भवनसम्भवः । तदैव तस्य भावात् । अन्यदा
कदाचिदप्यभावात् । अथ सन्तानः कार्यं कारणञ्च ततोऽयमदोषः । न (।) सन्तानस्य
176
तद्व्यतिरेकिणो भावात् । भावे वा तस्यैव स कार्यकारणभावः क्षणानामसामर्थ्यादसत्त्वप्रसङ्गः ।
तत्सम्बन्धिनः कार्यकारणत्वे तेषामपि स कार्यकारणभाव631
इति चेत् । न । व्यतिरेकिणोः
कार्यकारणभावादपरस्य सम्बन्धस्याभावात् । सन्तानः सर्वक्षणानन्तरभावीति सर्वस्य सन्तानो
भवेत् । तस्य च नित्यताक्षणिकत्वयोः प्राग्भाव्येव दोषः । आह च632 ।
अपि च ।
638
177
तस्यापि नानुमानस्य प्रत्यक्षेणाप्रवेदनें । वस्तुनोर्वृत्तिरस्तीति640 पूर्वमेवोपपादितं ।। ८२ ।।
सालम्बनतायां ज्ञानस्य वस्तुप्रसिद्धिः यदा तु वस्त्वेव न सिद्धन्तदा कस्य कार्य
कारणभावः । सालम्बनत्वस्य कथमसिद्धिरिति चेत् । उच्यते ।।
विनापि वालम्बनेन चक्षुरादिवेदने नीशीथिनीनाथद्वयाकारमुपजायमानमीक्ष्यते ।
तत आलम्बनकारणमन्तरेणाप्युपजायमानम्व्यभिचारतो नालम्बनकारणकार्यम्विज्ञानमिति
युक्तं । एष हि कार्यकारणभावः परस्परं भेदे सति व्याप्यव्यापकभावो यः । कारणमन्तरेण
कार्यस्य भावे न तत्तस्य कार्यन्नापि कारणन्ततो निरालम्बनत्वात्सकलवस्त्वसिद्धिः कुत एव
कार्यकारणभावः ।
अथापि स्यात् ।
न कारणत्वेनालम्बनमपि तु ग्राह्यत्वेन्, तदप्ययुक्तं । यतः ।।
अथापि स्याद् भ्रान्तमेव सकलं सम्वेदनमिति । नास्त्येतत् । यतः ।।
अत्राप्युच्यते ।
यदि कार्यमर्थक्रियाभिमतन्नास्ति तदेवासत्कारणमप्यसीदिति कुतः । नान्यस्यासत्त्वेऽन्य
दसदतिप्रसङ्गात् । यदि नाम कार्यस्याभावे कार्यकारणसामर्थ्यमेव643 न भवति । न तु
स्वरूपमसत् । अथ ज्ञानमर्थक्रिया । तत्रापि द्वयी गतिः । तद्वा ज्ञानमपरम्वा । तदेव
644 178
ज्ञानं पुनरुत्पद्यमानमर्थक्रिया चेत् । भ्रान्तेपि पुनः पुनरुत्पद्यत एव भ्रान्तविज्ञानन्न ह्येक
क्षणभाव्येव भ्रान्तम्विज्ञानं । अथ स्पर्शादि विज्ञानं । तदप्यसत् ।
यथा खलु चक्षुर्विज्ञाने निरालम्बनता तथा स्पर्शविज्ञानेपि, द्वयोरपीन्द्रियज्ञानत्वा
विशेषात् । तिमिराद्युपघातसम्भावना द्वयोरपि समानोभयत्र दर्शनात् । (अ)पितु ज्वरोप
धातादुष्णसम्वेदनात्परितोषादिता चेत् । हिमसमयेपि तु ज्वरोपघातादुष्णसम्वेदननेपि
किन्न परितोषः । अपि च ।
यदि सम्वेदनम्प्रमाणन्तत एवार्थसिद्धिः किमपरम्परितोषः करिष्यति ।
सम्वेदनादपरस्य परितोषस्य क उपयोगः । अथ साधनञ्चेत्कथमन्येनान्यस्य सिद्धिः ।
सम्बन्धाच्चेत् । सम्बन्धः केन सिद्धः । परितोषतश्चेत् तत्रापि सम्बन्धसिद्धिरपेक्षणीयेत्यन
वस्था । सम्वेदनाच्चेत्तत एवार्थसिद्धिरिति वृथा परितोषः । तत्र च स एव दोषः । यदि
सम्वेदनादर्थसिद्धिः किन्न पूर्वसम्वेदनात् । अनेनार्थाधिमुक्तिरपि प्रत्युक्ता । तथाहि ।
अर्थाधिमुक्तिः सम्वित्तेरन्या नार्थस्य साधिका ।
अनेनाभिलाषस्मृतीच्छाद्वेषादयोपि व्याख्याताः । किञ्च । सम्वेदनादभिलाषादयो
न तेभ्यः सम्वेदनमिति यत्किञ्चिदेतत् ।
अथापि स्यात् । भवतु645 सर्वसम्वेदनानां सालम्बनता न काचिन्नः क्षतिः । प्रमाणा
प्रमाणविभागः कथमिति चेत् ।
असाधारणमलौकिकमितरदन्यथा चेत् यत्किञ्चिदेतत् । तथाहि ।
ममैतत्प्रतिभाति परस्य वेति नात्रावतारः प्रत्यक्षस्य । अनुमानात्सम्वेदनमिति चेत् ।
सम्बन्धग्रहणाभावेऽनुमानस्योदयः कुतः ।
यत्र मया चक्षुर्निवेशितन्तत्रैवानेनेति व्यवहारादेकतेति चेत् । तैमिरिकोपलब्धके
शादावपि समानमेतत् । तत्रापि तैमिरिकयोरेकार्थाभिनिवेशः समानः । किञ्च । यथा
तैमिरिकोपलब्धे केनचित्संवेदनं । तथापरत्रापि सर्वेण सम्वेदनञ्चेत् स्तम्भादौ646
नात्र प्रमाणं ।
न च तैमिरिकेन स्तम्भस्य वेदनं । उपहतेन्द्रियत्वादसम्वेदनेपि647
न दोष इति चेत् । ननूप
हतेन्द्रियत्वङ्कुतो ज्ञायते । असत्यार्थसम्वेदनादिति चेत् । सोऽयमितरेतराश्रयदोषः ।
सत्युपघातेऽसत्त्यत्वमसत्त्यत्वे चोपघातः । तस्मात्परेण न किञ्चिदुपलभ्यते ।
ननु नोपलभ्यत इत्यपि नास्त्येवाप्रत्क्षेणैवान्योपलभ्यरूपविविक्तोपलम्भात्मना परो
पलभ्यमानताप्रतिषेधः । तथा विषयत्वात्तस्य648
परप्रत्यक्षस्य न प्रतिषेधः । कथन्तर्हि
तेनोपलभ्यते परोपलभ्यरूपं । अथोपलभ्यते तद्रपम्परेणोपलभ्यमानता नोपलभ्यत इति
चेत्(।) किन्तद्रूपादपरापरोपलभ्यमानता । अथ तद्रूपमेव । तद्रूपत्वे कथमनुपलम्भः ।
पररूपत्वे कथम्परेण तदुपलभ्यतेत्युपलभ्यमानता । परेणोपलभ्यते न स पदार्थ इति कथमसौ
परेणोपलब्धः । यस्य ह्युपलभ्यमानतोपलभ्यते स एवानुपलब्धः । तथा च स पदार्थः न
केनचिदुपलब्धः । स्वस्वोपलभ्यमानतया एव परस्परव्यावृत्ततायाः स्वपराभ्यामुपलम्भ इति
न साधारणता नामोपलभ्यस्य कस्यचित् । न चोपलभ्यमानताव्यतिरेकेण पदार्थ इति
स्वसम्वेदनाग्रहाकारवत्सम्वेदनमात्रकं । न बाह्यपदार्थोनाम । यस्य सामर्थ्यलक्षणं सत्त्व
ञ्िचंत्यते ।
649
अथ सम्वेदनानामेव परस्परङ्कार्यकारणभावात्सामर्थ्यलक्षणम्परमार्थसत्त्वम्प्रतिपाद्यते ।
तदप्यसत् ।
किञ्च ।
180
यावदस्य प्रागभावेन सम्बन्धो नास्ति न तावदुत्पत्तिः । यावच्च नोत्पत्तिस्ताव
त्प्रागभावस्य तत्त्वन्नास्ति । कारणस्य कार्यशून्यता प्रगभाव इति चेत्तदप्यसत् ।।
प्रागभावेन सम्बन्धे हि कार्यता । स च प्रागभावः कार्यशून्यम्पदार्थान्तरं । तच्च
कारणाभिमतादन्यदपि प्रगभावस्वभावम्भवेत् । तेन च सम्बन्धे तत्कार्यतापि भावस्य
कार्यभूतस्य स्यात् । तदन्वयव्यतिरेकाभावान्नेति चेत् । उक्तमत्रोत्तरं । न च
प्रागभावो नाम प्रत्यक्षादिप्रमाणग्राह्यः । स्वरूपमात्रमेव कार्यकारणयोर्गृह्यते । कारणस्व
रूपमेव प्रागभाव इति चेत् । कार्यस्यापि स्वरूपन्तथा स्यात् । भवत्येव तस्यापि कार्या
न्तरापेक्षया चेत् । कारणाभिमतापेक्षयापि किन्न भवति । तथा प्रतीत्यभावादिति चेत् ।
अनपेक्षितवस्तुनः प्रतीतिमात्रात्कः सम्प्रत्ययः ।
न खलु नीलादिना कार्यत्वेन च वस्तु ग्रृह्यते केनचित् । नीलादिव्यतिरेकिणः
कार्यत्वस्याप्रतिपत्तेः । पूर्वापरभावे च प्रत्यक्षस्याप्रवृत्तेः कुतः प्रागभावादिग्रहणं ।
अथापि स्यात् । सत एव कार्यत्वं कारणानां हि सति कार्ये व्यापारस्य सम्भवात् । असति
तु निर्विषयः कथम्व्यापारः । अत्रोच्यते ।।
दृष्ट्वा श्रुत्वाऽथ विज्ञाय हेतुः कार्यङ्करोति किं ।
जडत्वात् कारणाधीनः स्वभावः652 स तथा मतः ।। ११९ ।।
ईश्वरस्य च हेतुत्वे स हेतूनान्नियोजकः653 । न चासतो न विज्ञानं स ह्यध्यक्षधियो654 यतः ।। १२० ।।
तत्र सत्कार्यवादः किङ्िक/?/म्वा कारणमीश्वरः ।
किं सांख्यमतमवलम्व्य सर्वं सर्वत्र विद्यते ।। १२१ ।। इति
सदेव दृश्यते न कार्यकारणभावो नाम । किम्वाऽसदेवोपलभ्य कारणेन जगतामी
श्वरेण कारणानाम्प्रतिनियमेन नियोगः । सत्सकलञ्चेत् सर्वदोपलभ्यत इत्याकुला जगतः
स्थितिः स्यात् उपलम्भकानाम्प्रतिनियमान्नैवमित्यपि यत्किञ्चित् । उपलम्भकानामपि सर्वत्र
सर्वदा भाव इति कः प्रतिनियमो नाम । किञ्च ।
असतः कारणात्कार्यमिति साध्वी व्यवस्थितिः ।। १२२ ।।
कोहि प्रध्वंसाभावात्यन्ताभावयोर्विशेषः । आसीत्तेन655 हेतुरिति चेत् । यदासीत्तदा
न हेतुरन्यदा हेतुरिति सुभाषितं । यत एवमपि स्यात् ।
व्यापारेण च हेतुत्वे स व्यापारः कुतो भवेत् ।
181
व्यापारो यदि तत्रापि सोऽर्थो व्यवहितो भवेत् ।
तथा च चिरनष्टेपि तस्मिङ्कार्योदयो न किम् ।
अथापि स्यात् । ज्ञानस्यार्थः कारणमिति प्रागनुमानेन प्रतीयते । तदप्यसत् ।
यद्यपि नामानुमानेन प्रतीतस्य प्रागभाविता गतिः । प्रत्यक्षस्य सम्वेदनस्य तत्कारण
मिति केन प्रतीयते । नह्यनुमानमिदन्तत्प्रत्यक्षदृष्टं वस्तु प्रत्यक्षस्य कारणमिति प्रतीतिमत् ।
न खलु सम्वेद्यमाने एवानुमानम्प्रवर्तते । परोक्षविषयत्वादस्य । नापि प्रत्यक्षमनुमेये प्रवर्ततेऽ
परोक्षविषयत्वात् । न च प्रतीयमानमेव परोक्षं । प्रतीयमानमेव परोक्षतया परोक्षमिति चेत् ।
नैतदस्ति । यतः ।
यदि656 स पदार्थः स्पष्टास्पष्टद्वयरूपः । तदा तस्य प्रत्यक्षानुमानाभ्याम्वेदनेपि प्रत्यक्ष
रूपतैव भवेत्स्तम्भादेरर्वाक्परभागग्रहणवत् । अथ स्पष्टास्पष्टते उपाधिवशान्नीलतैव
पदार्थस्वरूपं ।
अथ नीलादिसम्वित्तिरिति प्रत्यक्षतोच्यते ।
इन्द्रियवियोग एव हि न सिध्यति । तस्यानुमानेन स्वरूपस्य वेदनात् । अर्थाभावा
न्नेन्द्रियसंयोगः । कथम्प्रतीयमानमप्यस्तु स्वरूपग्राहिणानुमानेनासत् । असच्चेत्कथम्वस्तु
स्वरूपग्रहणमनुमानात् । अथ नानुमीयत एवेन्द्रियसम्बन्धः ।
उपयोगार्थी हि पदार्थेंऽनुमिते प्रवर्तते । प्रवर्तकञ्च प्रमाणमतोऽप्रवर्तकतायामप्रमाण
मेव स्यात् । अथ पश्चाद्भाविनोऽनुमानमिन्द्रियसम्बन्धस्य तेन तदानीमिन्द्रियसम्बन्धाभावाद
प्रत्यक्षता । तदसत् ।
न खलु वर्तमानत्वमन्यदेव तदा स्वरूपेण प्रतिभासात् । स्वरूपप्रतिभासमानतैव वर्त
मानता । अतीतादिरूपतया657 प्रतिभासमानत्वादवर्त्तमानतेति चेत् । नन्वतीतरूपताऽनुमानेन
कथम्प्रतीयते प्रत्यक्षप्रतिपन्नेऽनुमानप्रवत्तेः । प्रत्यक्षञ्च नातीतरूपतायाम्प्रवृत्तं । न यदासौ
प्रत्यक्षेण दृश्यते तदाऽतीतरूपता प्रतीयते । इदानीमतीतरूपतेति चेत् । अन्यदेव तर्हि जातं । तत्र
च न प्रत्यक्षमिति कथमनुमानं । यदपि पश्चात्प्रत्यक्षम्भविष्यति तस्यापि न भाविरूपता प्रत्यक्षे
तेनानुमानावतारस्तत्रेति समानं ।
नन्वेतदुभयोरपि समानं । परस्यापि न प्रत्यक्षतस्तथा प्रतीतिरिति कथन्तदुल्लेखतः
प्रख्या । न, तस्य वासनाबलायातस्तथा प्रत्ययस्ततश्च ।
इति वक्ष्यते । न पारम्पर्येण तत् ज्ञानमर्थादुत्पन्नं वासनासमागमतोऽन्यथा कारणमपि
यथा भवति द्विचन्द्रादिदशनं तिमिरादेः । तेनातीतकालरूपादागतं ज्ञानमतीताध्यवसायन्ततोऽ
तीतकालतया ग्रहणादतीतमेव (?) तन्नत्वस्ति । नहि तस्येदानीन्तनत्वे प्रमाणं ।
कथन्तर्हि तस्य प्राप्तिः । अस्तित्वादेव । कथमस्तित्वं(।) तेन दृश्यमानेन लिङ्गेन
व्यवस्थापनात् । तद्द्वारेण ज्ञानमपि तत्र प्रवर्तकमिति समाप्तो व्यवहारः ।
ननु ज्ञानमर्थमप्रतियत्कथम्प्रवर्तकं । अव्यभिचारादेव । ननु केवलोपि धमो व्यवस्था
पकः स्यात् यथा व्यवस्थापको दृष्टस्तथा व्यवस्थापयति नान्यथेति कस्योपालम्भः । किञ्च ।
तस्मात्पूर्वरूपतया प्रतीयमानमिदानीमस्ति तदिति न ज्ञानेन प्रतीयते । इदानीन्तद्रु
पमस्ति तन्न दृश्यत एवातोऽदृश्यमानमेव परोक्षं । अप्रतीतिरेव परोक्षताप्रतीतिः परोक्षमे
तदिति ।
तस्माद्यनुमानमर्थग्रहणरूपरूपञ्चक्षुरादिसम्बन्धोप्यनुमीयमानोस्त्येवेत्यध्यक्षतैवार्थस्यानु
मेयस्येति प्राप्तं ।
२.३. सामान्यनिरासः
658न चैवम्, यतो न परोक्षवस्तुविषयं ज्ञानमर्थग्रहणरूपमतो नानुमानेन प्रतीतस्य कारण
भावः । तस्मान्न कार्यकारणभावः । अतएवाह ।
अशक्तं सवमिति चेत्;
अत्राह ।
बीजादेरङ्कुरादिषु ।
दृष्टा शक्तिः;
इति ।
183तथा हि ।
यत्र हि पश्याम्येतदिति प्रतीतिस्तदेव प्रतीतं । अस्ति च कार्यकारणभावे दृष्टो
यम्ममेत्यधिमुक्तिरतोऽबाधिताधिमुक्तिसम्भवान्नान्यथाभावः शङ्कनीयः । तथाहि ।
न तावत्प्रत्यक्षेण स्मरणस्याप्रत्यक्षत्वात् । स्वसम्वेदनन्तु स्वरूपमेव स्मरणस्य साक्षा
त्करोति न वस्तुसम्बन्धं । नापि पूर्वकं प्रत्यक्षं स्मरणे प्रवर्तते कुतः सम्बन्धवेदनं ।
अस्ति चानन्यथाभावी स्मराम्येतदिति प्रत्ययः । तस्मादधिमुक्तिरेव सर्वत्र साधिका सर्वव्यव
स्थानां । अत्रोच्यते ।
अभिप्रायः । प्रमाणवस्तुतत्त्वव्यवस्थितिमन्तरेण यदधिमुक्तिमात्रमनादिव्यवहारभा
वनातस्तत्सम्वृतिमात्रमेव । अपि च । न प्रतीत्यर्थोहि सम्वृत्यर्थः । यथैव हि क्वचि
द्देवदत्तादावदृष्टेपि दृष्टाभिमानः । स परामर्शान्निवर्तते । तथाचासौ न परमार्थतः । तथा
सकलोपि लोकव्यवहार एवमेवेति । सम्वृतिमात्रकं सकलं । प्रमाणमन्तरेण हि प्रतीत्य
भिमानमात्रं सम्वृतिः । तथाहि ।
अन्वयव्यतिरेकयोः प्रत्यक्षेण केवलेनाग्रहणात् । प्रत्यक्षानुपलम्भसाधनः कार्यकारण
भाव उच्यते । तदेतदसङ्गतं । इतरेतराश्रयदोष प्रसङ्गात् । प्रत्यक्षेणान्वयो न गृह्यते ।
एतत्सद्भावे भवत्येतदिति नैवम्प्रकारव्यापारः प्रत्यक्षं । द्वयग्रहणमात्रव्यापारात् । एतद
नन्तरमेतद् दृष्टमतस्तु भवतीति नैतदस्ति । यतोऽत एव भवत्यतो भवत्येवातोपि भवतीती
यदेवात्र विकल्प्य त्रयमपरस्यार्थंस्यासम्भवात्659 । यद्यत एव भवति अन्यतो न भवतीति साम
र्थ्यदयमर्थः स्यात् । तत्रापि विकल्पद्वयमिदानीमन्यदा वेति । यदीदानीमत एवेति मतिः ।
अन्यदा तर्हि भवत्यन्यत इति स्यात् । इदानीमपि देशान्तरेण भवत्यन्यत इति कुतः । न
चैवङ्कार्यकारणभावो नियमाभावात् । नाप्यतो भवत्येवेत्यवधारणं । कालान्तरे कदा
चिन्न भवत्येवेत्यतोनान्वयव्यतिरेकगतिरध्यक्षात् । अतोपि भवत्यन्यतोपीत्यत्रपक्षे स्वयमेव
व्यभिचाराभ्युपगमान्न कार्यकारणभाव इति प्रतिपादितं, अतो नायमपि पक्षः ।
अथैतदभावे न भवतीत्यनुपलम्भतः प्रतीयते । तथा सति पुनरितरेतराश्रयदोषः ।
तथा हि ।
यदि प्रत्यक्षमेवानुपलम्भः स एव प्रत्यक्षे उदितो दोषः । अथानुमानं । तदन्वय
184
व्यतिरेकप्रवर्त्तितप्रतिबन्ध इतीत्यनुमानाभावे नान्वयव्यतिरेकग्रहणं । तदभावे च नानुमाना
वतारः । अनवस्था चानुमानानाम्भवेत् ।
अथाभावेन प्रमाणेन तदभावे भावपरिग्रहः । तदप्ययुक्तं । सन्निहितस्यैव देशका
लयोस्ततोप्यभावप्रतीतेः । अपरः प्राह । तर्कप्रमाणगम्यः कार्यकारणभावः । अदृष्ट
सम्बन्धात्परोक्षप्रतीतिस्तर्क इति लक्षणं । तथाहि तद्भावभाव उपलभ्यते न कार्यकारणभावो
नियमलक्षणोऽग्निधूमयोः । न च तेन सम्बन्धस्तद्भावभावेन कार्यकारणभावस्योपलभ्यते ।
प्रतियन्ति च लौकिकाः यस्मादतो भवति तस्मादेतत्कार्यमेतत् । तस्मादेतत्कार्यप्रतीतिस्तर्कतः ।
अथवाऽर्थापत्त्या तत्कार्यप्रतीतिः । यद्येतत्कार्यन्न स्यादतो भवनमेवास्य न घटते इत्यदृष्टा660
र्थं
परिकल्पनादर्थापत्तिः । तदयुक्तं ।
यदि हि कार्य्यकारणभावः प्रतीतिविषयमवतरेत्तस्य प्रतीतिस्तर्कतोऽन्यतो वा स्यात् ।
न चायन्ततो भावादपरेण रूपेण निरूप्यते प्रयत्नवतापि । न च नियमेन ततो भाव इति कुत
श्चित्प्रतीतिः । तावत्कालस्यैव तद्भावस्य ग्रहणात् । न चासौ कार्यकारणभावः ।
अथ तर्कादर्थापत्तेर्वा प्रतीयते नियमः । यत इदानीमेतदनन्तरमुपलभ्यते । ततोऽ
न्यदाप्यत एवैतदित्यन्यथैव तदेव न भवेत् । तदप्ययुक्तं ।
यदि नामेदानीमत उपलभ्यते । अन्यदपीति कुतः । प्रतीतिरेवमेवेति चेत् ।
घटोपि तर्हि पटानन्तरमुपलभ्यते(।) तत्राप्येवम्भवेत् । दृश्यतेऽत्र व्यभिचार इति चेत् ।
अनेनैव तर्हि तत्राप्यनाश्वासः । अनाश्वासप्रतीतेर्नास्त्येवेति चेत् । अदीर्घदर्शिनाम्भूयो
दर्शनादेतत् । लोकव्यवहार एवमेवेति चेत् ।
अथ कालान्तरे तदेवेदन्तत्कार्यमिति प्रत्यभिज्ञानात् पूर्वमेव कार्यताप्रतीतिः । अन्यथा
प्रत्यभिज्ञैव न स्यात् ।
तदयुक्तं ।
अथ स्मरणतः । तथाहि ।
न च स्मरणम्प्रमाणं । स्मरणेन च सिद्धं सम्वृतिसिद्धमेव । एतदाशङ्क्याह ।
मता सा चेत् सम्वृत्याऽस्तु यथा तथेति । एवमेवलोकव्यवहारोऽनान्कुलो लोकव्यवहारे
परमार्थ उपयुज्यते लोकव्यवहारप्रलोपप्रसङ्गात् अधिमुक्तिविभागमात्रेण सिद्धिः । स्वप्न्
नियतव्यवहारवत् । अनादिवासनानियम एवावशिष्यते लोकव्यवहारहेतुयोनिरन्यथा सालम्बन
निरालम्बनञ्चानादिविभाग एव न सिध्येत् । यः पुनराह अथ केयं सम्वृतिः । किञ्च
सम्वृतिसत्यं ।
सत्यञ्च सम्वृतिरिति व्याहतं । अत्रोच्यते । सम्वृतिर्नाम विकल्पविज्ञानमधिमुक्ति
माह(।)अनादिवासनातः । ततोऽयमर्थः । अनादिवासनाबलायातः प्रतिभास एव केवलः ।
नीलादयोहि स्वप्नप्रतिभासवदसत्त्या न च तद्वयतिरेकेण विज्ञानन्ततो न तत्त्वं । न च लोक
व्यवहारोच्छेद इत्युपयोगतः सत्यं । एवञ्च सम्वृत्तिसत्त्यमिति न विरोधः । ततः परमार्थेन
सर्वात्मविवेकः । नहि बाह्येन पदार्थेन सहान्वयव्यतिरेकावनुगम्येते । वासनायास्तु कारणत्वं
स्वप्नप्रतिभासे प्रतीयते । तज्जातीयत्वेन परत्रापि तत्स्यात् । अथवा । उत्पादादिस्वभाव
एव सम्वृत्तिः प्रमाणेनापरिच्छेदात् । तदा सम्वृत्योत्पाद इति प्रमाणेनापरिच्छिद्यमान
तयैवोत्पादापिः ।
अथ सम्वृत्तिरित्यसामर्थ्यं सर्वात्मविवेकत्वादुत्त्पाद इति सामर्थ्यं । तदेतद्विरूद्धम् ।
तदप्यसत् । सम्वृतिरिति परमार्थेनासामर्थ्यन्तेन चोत्पादो नास्त्येवोत्पाद इति
सामर्थ्यंप्रतीतिमात्रेण प्रमाणरहितत्वात् तेन चोत्पादोऽस्त्येव । न चोत्पादेन उत्पाद इति
दोषः । येन रूपेणोत्पादस्तेनैव सामर्थ्यं । केन रूपेणोत्पादः(।) सम्वृत्या न परमार्थत इत्यर्थः ।
तथा च सम्वृत्तिरिति न नामकरणमात्रं । प्रमाणाप्रतिपन्नत्वस्य662 तथाभिधानात् ।
यदपि समानकालता कार्यकारणयोरित्यत्र दूषणं । कारणात् कार्यस्य द्वितीये क्षणे
उत्पत्तिरिति ।
तदप्यसत् । अत्तत्वस्य चिरातीतादविशेषात् । चिरातीतस्योत्पत्तिकालेऽसत्त्वात् ।
अनन्तरातीतस्य विपर्ययादिति चेत् । कोयमुत्पत्तिकालः । यदि भवनकालस्तदा भवनम्भवितु
र(ि/?/)भन्नमिति सैव कार्येण समानकालता कारणस्य ।
अथ भावनाकाले विद्यते । सेयम्भावना भावयितुर्व्यापारस्ततश्च भावनाकाल इति
कारणकाले सत्तेति स्यात् तदा । ततश्च व्यवहितस्यापि स्यात् कारणत्वं । स्वकाले तस्यापि
भावात् । सर्वेषाञ्च भावक्षणानान्तदा भावादिति कारणताप्रसङ्गेऽतिप्रसङ्गः । भिन्नसन्तानत्वा
न्नेति चेत् । सोयमितरेतराश्रयदोषः । सत्यकारणत्वे भिन्नसन्तानत्वं सति भिन्नसन्तानत्वेऽकारण
त्वमिति । कारणञ्च भिन्नसन्तानञ्चेति विरोधः ।
यदप्युक्तम् । अविचारप्रतीत्यर्थ इति । विचारप्रमाणमुच्यते । न विकल्पकम्विज्ञानं ।
ततोऽप्रमाणप्रतीत्यर्थ इत्यर्थः । मायार्थोप्यथयमेव लोकप्रतीत्यर्थ इति । अविचारितरमणीया
लोकप्रतीतिस्ततो न दोषः । शास्त्रकारप्रतीतिस्तु न व्यावहारिकीति न सा गृह्यते । तथा
चोक्तम् । तत्र कतमत् सम्वृत्तिसत्त्यं । यावान् लोकव्यवहारः । प्रमाणाप्रमाणविभागेपि
सम्वृत्येव । तथाहि ।
प्रमाणमविसम्वादि(२।१)
अविसम्वादश्लोपदर्शितेऽर्थे प्राप्तिः । प्राप्तिरपि सम्वेद्यमानतैव । यद्यर्थः सम्विदितः
स एव पश्चादिति मिकर्थम्प्राप्त्यर्थी भवति । ततः सर्वा बुद्धिः प्रमाणं स्यात् । अथ
186
पश्चादन्यगतिः प्रदर्शितोऽसौ न तेन तत्प्राप्त्या भवतु प्रमाणम्663 । एवं सर्वस्य भवेत्
प्रमाणत्वं ।
अथोपदर्शितेपि किञ्चदनुपदर्शितमस्ति(।) ततस्तत्प्राप्त्या प्रमाणत्व ।
तदप्यसद्(।)अनुपदर्शिते प्रमाणाभावाद् । इति यत्किञ्चिदेतत् ।
तस्मान्न परमार्थतः किञ्चिदस्तीत्यस्तु यथा तथा सम्वृत्या एतावताऽपि प्रमाणाप्रमाण
व्यवस्थितिर्न काचिन्न: क्षति(।)अभिप्रेत एव भवत्पक्षोऽस्माकमिति न वस्तुतत्त्वमतिक्रम्य
वर्त्तितुं शक्यं ।
(१) सामान्यचिन्ता
नन्वसम्वृत्या यद्यर्थक्रियासामान्येपि सम्भवत्यतोऽतिव्याप्तिलक्षणं दोष इति । आह ।
यथा चक्षूरूपादिबुद्धीनामन्वयव्यतिरेकानुविधानमालम्बनाधिपतिप्रत्ययविषयं । न
तथा सामान्यवुद्धीनां । पूर्वदर्शनाभोगमात्रतः सामान्यबुद्धिसम्भवात् । नैवं रूपादिबुद्धय
श्चक्षुराद्यान्तरकारणमात्र भाविन्यः । तथाहि ।।
यदि विषयनिरपेक्षश्चक्षुर्म्मात्रभावीभूतस्तम्भसम्भारप्रतिभासः यत्र यत्र चक्षुः प्रवर्त्तते
तत्र तत्र भवेत् । तैमिरिककेशादिप्रतिभासवत् । न च भवति(।)तद्वियुक्तप्रदेशे तत(ः)स्तम्भादेः
प्राग्भाव इति । ततोऽन्वयव्यतिरेकसङ्गमात् घटादिबुद्धय उदीयमानाः पटादीनां सामर्थ्यमव
गमयन्ति । नैवं सामान्यबुद्धयः । आन्तरकारणमात्रेण भावात् । यत्कार्यं यत्सामग्रीमात्र
भावि तत् तद्व्यतिरिक्तभावसामर्थ्यमात्मनि बोधयति । श्रोत्रस्य चक्षुरादिमात्रभावि
चक्षुश्चित्तं ।
ननु गोत्वबुद्धिर्नाश्वे भवति तत्कथन्न व्यतिरेक इति चेत् ।
न सदेतत् । तथाहि ।
गोत्ववासनाप्रबोधकारी असावश्वो नेति न तत्र गोत्वबुद्धिः । तत्रैव गौरिति श(?स)ङ्के
तप्रतिपत्तेः (।) न गोत्वाभावाद् अपितु तादृशसंस्कारस्यासत्त्वात् न च व्यक्तिव्यतिरेकेण
समानाकारता तत्र प्रतीयते येन सास्ति नेति वा व्यवस्थाप्येत । तस्मात् प्रत्ययमात्रमेवा
विचारितरमणीयं सामान्यन्न परमार्थतः ।
ननु यदि न परमार्थं कथङ्गोत्वाश्वत्वयोः परस्परव्यावृत्तिः । कल्पनानामेव परस्पर664
व्यावृत्तित्वम्व्यक्तीनाम्वा । यदि व्यक्त्यभावेपि समयाभोगमात्रतः सर्वत्र सामान्यबुद्धिर्न
स्यात् तदा व्यतिरेकतो न सामान्यमसमर्थं भवेद् व्यापि सामान्यन्तेन सर्वत्र665 सामान्य
बुद्धिरिति चेत् ।
तैमिरिकोपलब्धानामपि केशादीनान्तथात्वे प्रसङ्गः । अन्यैरदर्शनान्नेति चेत् ।
सामान्यमपि तदाभोगादिरहितैर्नैव प्रतीयते । तत्रापि दोषः । तद्भाव उपलभ्यत एवेति
न च युक्तं । केशादयोपि तिमिरे सति किन्नोपलभ्यन्ते परैः । तिमिरस्योपघातादतत्त्वोप
लम्भकत्वमिति चेत् । किमिदमतत्त्वन्नाम । उपहतेन्द्रियोपलभ्यत्वं । किमुपहतत्वं । अतत्त्वोप
लम्भकत्वं । सोयमितरेतराश्रयदोषः ।
अपि च । सामान्यमपि विपरीतसंस्कारप्रबोधत एवोपघातादन्तः कारणस्योपलब्धि
मदिति समानमेतत् ।
तस्मान्न सामान्यमर्थक्रियासमर्थं ज्ञानमात्रेप्यसामर्थ्यात् ।
रूपरसगन्धस्पर्शानामधिष्ठानङ् धटोऽवयवि द्रव्यं । उत्क्षेपण्ङ्क्रिया । संख्या गुणः ।
इह बुद्धिः समवायविषया । तद्ग्राह्यः समवायः । तेषु या बुद्धयस्ता अपि समयाभोगा
द्यान्तरकारणमात्राधीना न विषयान्वयव्यतिरेकावनुविदधति । तथाहि ।
रूपादय एव चक्षुरादिबुद्धिभिरूपलभ्यन्ते । ततस्तावन्मात्रोपलम्भात् प्रबोधितानादि
वासनालक्षणान्तरकारणादेवायङ्घट इत्येकाभिनिवेशिनी मतिरूपजायमाना जनेनानुभूयते नापरः
परतो निरूप्यमाणो घटादिद्रव्यस्वभावोस्ति ।
ननु दर्शनेन परिच्छिद्यतेऽवयवी स्पर्शनेन च । द्विविधन्द्रव्यं दार्शनं स्पार्शनञ््च ।
तदप्ययुक्तं । यतः ।
अथ घट इति बुद्धिर्न रूपमिति तत्कथन्न भेदवेदनं । तथाहि ।
रूपमात्रसम्वेदने हि तत्कुत इत्येव भवेन्न घट इ(ि)त ।
188तदप्यसत् ।
इत्यन्यत्र विचारितमेतत् ।
अथ यद्यवयवी नास्ति रूपादयश्च केवलाः । कथं यत्रैव रूपन्तत्रैव स्प्रर्श इति मतिः ।
तदपि यत्किञ्चिदेव ।।
यत्र सेनायां हस्त्यादयस्तत्र पुरूषा इति किन्न भवति व्यपदेशः । तथा यत्र वने
पलाशादयस्तत्र खदिरादय इति च । न च पुरुषादिव्यतिरिक्ता सेना नापि च धवादि
व्यतिरिक्तम्वनमिति । तस्मादेकसामग्र्यधीनतयैककार्यत्वेन च परस्परमवियोगताभाजो
जनैरेवम्व्यपदिश्यन्ते । एवन्तर्हि परस्परमव्यतिरिच्यमानशरीरा रूपादय एवावयवी । नहि
स्तम्भकुम्भवृक्षादिवत् परस्परं रूपादीनाम्व्यतिरेक इति ।
न च वनादिवद् व्यपदेशमात्रमवयवी । तस्यावयवा अन्वयव्यतिरेकतः कल्पनया तथा
व्यवस्थाप्यन्ते । तथाहि । यदेव पश्यामि तदेव स्पृशामीत्यादि अभिन्नदेशता प्रतीयते । न
रूपदेशपरिहारेण स्पृश्यता अस्वाद्यता वा प्रतीतिमती ।
तदप्यसत् ।
नहि तदेवान्यद् भवति प्रतिभासाभेदप्रसङ्गात् । अथैकमेव तद् भिन्नेन्द्रियगृहणाद्
भेदवत्प्रतीतिः । चक्षुरिन्द्रियेण प्रतीतौ रूपता स्पर्शनेन स्पृश्यता रसनेन च रसता ।
तदसत् ।
न तावदेकमेवेति प्रमाणम् । नह्येकमेव ग्रहणभेदाद् भेदवत् प्रतीयते भ्रान्तताप्रसङ्गात् ।
अथान्यथा ग्रहणस्यासम्भवादगत्यैतदेवाभ्रान्तमुच्यते ।
अथापि स्याद्(।)यदि भेदः कथमेकदेशताऽवियोगश्च । तदपि सुगमं यतः ।
न देशो नामापरो रूपादिभ्यः (।) सोपि च तेभ्यो भिन्नो भेदप्रतिभासादेव न देश
भेदादनवस्थाप्रसङ्गादप्रतीतिरेव भवति । स्वरूपेण भेदे रूपादीनामपि भेद एव । न च
स्वरूपप्रतिभासमानरूपादपरं । प्रतिभासस्य च भेद एव । नहि रूपप्रतिभासनमेव रस
प्रतिभासनं । इन्द्रियान्तरवैकल्यप्रसङ्गात् । अभेदप्रसङ्गाच्च । इन्द्रियभेदाद्भेद इति चेत् ।
तदसत् । नहीन्द्रियभेदेप्यभिन्नम्भिन्नम्प्रतिभाति । तथा चेत्परोक्षते वा भिन्नस्य स्यात् ।
इति रूपादिमात्रमेवावयवीति प्रसक्तं । यदि चेन्द्रियसामर्थ्यादन्यथार्थोन्यथा प्रतीतिः
भ्रान्तिरेव भवेत्कामलिनः शङ्खे पीतप्रतिभासवत् । अथापि स्यात्(। सम्वादादभ्रान्तता ।
तदप्ययुक्तं । सम्वादेपि प्रतिभास एव (।) सोपीन्द्रियभेदादेव तथाप्रतिभासप्रकारः । ततो
सावपि भ्रान्त एवेति कथमसिद्धमसिद्धेन साध्यते । सम्वादस्यान्यस्य च प्रतिभासस्येन्द्रिय
कृतत्वान्नार्थान्वयव्यतिरेकानुबन्धिनी प्रतीतिरिति नार्थोत्र नामास्तीति साध्ववयविसाधनं । नह्य
वयविसाधनमर्थाभावसाधने तस्यार्थविशेषत्वेनाभिप्रेतत्वात् । तस्मान्नेन्द्रियव्यापारादेकमनेकतया
प्रतिभाति । अपि त्वनेकमेव रूपादि । तत एकप्रत्यय आन्तरकारणाधीन एव ।
उत्क्षेंपणप्रत्ययेपि चापरापरदेशोत्पत्तयो हस्तादिक्षणा उत्क्षेपणमिति तत्समुदाय एव कल्पनारूपं
कारणादान्तरादेव न विषयबलायातः । एवन्तर्हि पूर्वापरक्षणव्यङ्ग्यङ्क्रियात्वमुत्क्षेपणप्रत्यय
विषयः । न । व्यक्तिव्यङ्ग्यात् सामान्यस्य । क्रियात्वञ्च सामान्यङ्क्रियाव्यक्त्याभिव्य
ज्यते नार्थक्षणव्यक्त्या । न च हस्तादिक्षणव्यक्त्याश्रिताऽपरा क्रिया व्यक्तिरन्यथा चोप
लभ्यते । न चान्यव्यक्तिव्यङ्ग्यता सामान्यस्य । अथ हस्तादिक्षणव्यङ्ग्या क्रियार्थजातिः ।
तदप्यसत् । एकैकक्षणव्यङ्ग्यत्वाभावात् । नह्येकक्षणव्यङ्ग्या उत्क्षेपणादयः प्रथमक्षण
एव प्रतीतिप्रसङ्गात् । अथायुगपत्कालैरेवाभिव्यज्यते क्रियाजातिः । नहि वै या कर णै
र वश्यम्परसिद्धान्तोनुगम्यते । एषैवास्माकन्दर्शनस्थितिः ।
त***दसत् । प्रत्येकमनभिव्यक्ता यदि जातिस्समुदाये न तर्ह्यभिव्यज्यते । प्रकारान्त
रासम्भवात् । अभ्यासादेकेनाप्यभिव्यज्यत इति चेत् । अभ्यास एव तर्हि कारणमान्तरमिति
न विषयबलायातन्तज्ज्ञानं । एवं संयोगविभागप्रत्यया अपि वाच्याः । तथा चोक्तं ।
नन्वर्थक्रियायामसमर्थमिति सामान्यलक्षणन्ततः केशादयोप्यर्थक्रियायामसमर्थत्वात्
सामान्यं प्रसक्ताः ।
तदप्यसत् । यतः ।
अर्थ एव हि सामान्यरूपतया स्वलक्षणात्मा प्रतीयमानः सामान्यं । यद्यसौ स्वलक्षण
मर्थक्रियाकारित्वात् कथं सामान्यमनर्थक्रियाकारित्वे च कथमर्थः । अर्थक्रियाकारित्वेना
र्थत्वात् । न च द्वयमेकत्रार्थक्रियाकारित्वमितरच्च । नैतद् दुर्घटम् ।
सामान्यमर्थाध्यवसायेनार्थः । परमार्थतोऽनर्थ एव । उपचरितमर्थत्वमस्य परम्परयार्थ
कार्यत्वात् (अन्यार्थत्वात्)667 कथन्तर्हि शब्दस्य विषयःसामान्यं । नहि नद्यास्तीरे शर्क्करा668 -शकटमित्यर्थक्रियापारम्पर्येणापि ।
नैतदस्ति । माभूत् तत्समान्यङ्का नः क्षतिः सुतरामेव शोभनं शब्दस्याप्रामाण्यसा
धनात् । तथाहि । सामान्यमस्माभिः प्रमाणविषय इष्यते । यदि चायमपि प्रमाणविषयः ।
शब्दः प्रमाणम्भवेत् । कथन्तर्हि शब्दस्य विषयः सामान्यमुक्तं । न शब्दस्य विषयः सामान्यमेव ।
669
190
किन्तर्हि(।)शब्दस्य सामान्यम्विषय एव न विषयः । शब्दविषयत्वेन चानुगताकारता लभ्यते ।
तथाऽविषयः स्वलक्षणमिति न केशादयः स्वलक्षणं कस्यचिदविषयस्य शब्दानां स्वलक्षणत्वात् ।
अत्रापि नाविषयः स्वलक्षणमेव(।)किन्तर्हि(।)अविषय एव स्वलक्षणन्न विषयः । केशादिविषय
ञ्चाप्रमाणमेव विज्ञानं । तथाहि(।)प्रमाणमविसम्वादि ज्ञान (प्र॰वा॰१।१)मिति सामान्य
लक्षणे कृते विषयभेदेन तद्भेद उपपाद्यते ।
यद्यर्थ एव सामान्यमभावस्यार्थता शून्यत्वादसामान्यता । न चासावविषयः । अनुप
लम्भविषयत्वात् सामान्यभावेपि प्रागभावः प्रध्वंसाभाव इत्यादिभेदव्यापकत्वात् । घटाद्य
भाव इदानीमभाव इति च व्यक्तिव्यापनात् ।
अत्रापि परिहारः । ज्ञेयत्वेन ग्रहणात् । अभावोपि हि केनचिदाकारेण ज्ञेय एव ।
अन्यभाव एवाभाव इति सिद्धान्तः स चार्थक्रियाकार्येण । अथवाऽसावपि प्रमाणेन परिच्छिद्यत
एव । प्रयोजनवत्वाच्चासावर्थः । अभावेनापि हि प्रयोजनमेव निःशङ्कगमनार्थत्वात् ।
ततस्तत्राप्यर्थाधिमोक्ष इति, अर्थ एवाभावः स्वेन रूपेण, न पुनः केशादिः, भ्रान्तविज्ञेयतया
परिच्छेदात् ।
ननु केशादयोपि यदेवम्भूतङ्केशाद्यसदिति जायते सत्त्यकेशसदृशम्वेति तदा तत्रापि
स्वानुरूपमसत्यतानिबन्धनम्प्रयोजनमस्त्येव निर्विबन्धगमनादिकं । ततस्तेषामपि प्रमाणविषयता
भवेत् । अथ तथा परिच्छेदे सामान्यरूपतैव तथा सति स्फुटाभता न स्यात् । स्फुटाभ
तया चार्थत्वे स्वलक्षणमेव । तज्ज्ञानमनर्थकन्न भवतीति न भ्रान्तम्भवेदित्याह ।
यदि केशदयोपि तैमिरिकोपलब्धा असत्त्यतया परिच्छिद्यन्ते तदाऽसत्त्या इर्ति कोर्थोऽर्थं
क्रियाज्ञानेन नोपलभ्यते पुरुषान्तरेण वेति । तदुपलभ्यत्वाभावपरिच्छेदादभावप्रमेयतै
वेत्यभावतया प्रमेयत्वस्य सामान्यरूपताया अप्रतिषेध एव ।
यदपि670
सदृशमेतदन्येन केशादिना तदाज्ञानरूपे सदृशव्यवहार इति स्वभावहेतु
विषयत्वात् प्रमेयतैव केशादेः । कथं तर्हि स्फुटप्रतिभासता सामान्यस्य । ज्ञानरूपेणार्थत्वात्
स्वलक्षणमेव तत् । प्रत्यक्षविषयस्तर्हि भवेत् । भवत्येव । स्वसम्वेदनप्रत्यक्षविषयत्वात् । कथं
सामान्यरूपता । विकल्पज्ञानेनापरेण पूर्वकेशादिसमानतया विषयीकरणात् । तथा हि ।
नहि सत्त्यताविपर्ययः सदृशता पूर्वरूपानुसरणमन्तरेणेति विकल्पपरिच्छेद्यतैव सादृश्या
सत्त्यत्वयोः । न च पूर्वापररूपे प्रवृत्तमविकल्पकमिति प्रतिपादयिष्यते । तेन परोक्षतया
सामान्यं । अनर्थत्वात्तर्हि कस्य ज्ञानस्येति चेत् । केशप्रतिभासमिन्द्रियज्ञान671 मनर्थकं । अयमभि
प्रायः । स्वसम्वादने प्रत्यक्षङ्केशादिरूपे विकल्पज्ञानमनुमानमिन्द्रियज्ञानमनर्थकमिति विभागः ।
नन्विन्द्रियज्ञानन्तदेव च स्वसम्वेदनं । नहि स्वसम्वेदनविज्ञानादपरमिन्द्रियजं ।
इन्द्रियाश्रयेण तस्य स्वसम्वेदनस्योत्पत्तेः ।
यदन्तरेणापि यत् न तत्तस्य कारणं ।
ननु परिस्फुटा स्वसम्वित्तिर्नैवाक्षमन्तरेण । तदप्यसत् । स्वसम्वित्तिः सर्वैव परि
स्फुटा स्वेन रूपेण । यद्यत्र स्वेन रूपेण साक्षात्करणाकारेण प्रतिभाति तत्परिस्फुटं । स्वञ्च
रूपं सर्वस्य ज्ञानस्य साक्षात् प्रतिभाति । नहि स्वरूपमेव परोर्क्षं स्वरूपाभावप्रसङ्गात् ।
तस्मात् परोक्षमेव सकलमस्पष्टं । स्वप्नज्ञानञ्चेन्द्रियमन्तरेणापि स्पष्टरूपं । तस्मादिन्द्रि
यमर्थ एव प्रवर्त्तते तदभावेऽनर्थकं तत् स्यात् । केशज्ञानमनर्थकन्न तत्र केशप्राप्तिः । ततोऽ
र्थापेक्षयाऽनर्थकमिति निश्चयः ।
ननु ज्ञानरूपतयापि यद्यर्थता सामान्यमपि स्वलक्षणम्प्रसक्तं स्पष्टावभासि चेति विरोधः ।
न विरोधो यतः ।
ज्ञानरूपतया स्वलक्षणता परिस्फुटाकारता च सामान्यस्य विद्यत एव । तथाभूतैव
हि तस्य स्पष्टता । अर्थस्तु भवत्यस्पष्टप्रतिभासोऽन्यस्य स्पष्टाभासस्य भासनादन्यतः१ ।
ज्ञानस्य तु स एवाकारः किमपेक्षया तदस्पष्टमुच्यतां । तस्मात् स्वरूपस्य साक्षादवभासनात्672
अस्पष्टता कुतः । एतदेव स्पष्टत्वं यः सर्वाकारप्रतिभासः । अर्थस्य तु स्वरूपमन्यदिति
तदप्रतिभासने न स्पष्टताप्रतिभासः ।
कथन्तर्हि सामान्यन्तदस्पष्टप्रतिभासञ्चेत्याह । अर्थस्य बाह्यस्य रूपेण समानता ।
रूपणं रूपोनिरूपणमित्यर्थः । अर्थनिरूपणेन समानता । अस्पष्टता चार्थस्य । तत्र
परोक्षतयाऽस्पष्टता सामान्याकारता च यतः ।
सर्वत्र हि तीक्ष्णमन्दतीव्रचान्दनादौ समरूपता । समत्वेन तस्य प्रतिपत्तेरेकाध्यव
सायेन दृश्यविकल्प्यार्थैकीकरणतः । तथाहि ।
शावलेयादिसकलव्यक्तिनिष्ठतया सामान्याकारस्य । सम्वृत्या तदध्यवसायेन
सामान्यरूपता ज्ञानाकारविशेषस्य । तत्र चाध्यवसायस्य तत उत्पत्तिर्वासनाविशेषश्च
निबन्धनमित्यनवद्यं । तद्व्यावृत्तिसमाश्रयेण तस्योत्पत्तेः । पारम्पर्येण हि व्यावृत्तपदार्थाश्रयणेन
तस्योत्पत्तेः । व्यावृत्तेषु पदार्थेंषु प्रवर्त्तनाच्च । तच्च व्यावृत्तत्वं समानं सर्वेषामिति व्यावृत्ति
रेव सामान्यं । व्यावृत्तिसम्बन्धाच्चाकारस्यापि673 व्यावृत्तिरूपत्वादिति ।
ननु कस्मादाकारः सामान्यं । रूपादय एवाविशेषेण सामान्यमनुमानगोचरं । व्यक्त्य
674 192
न्तरापरित्यागे हि व्यक्तय एव सामान्यमुच्यन्ते । सकलव्यक्तिपरित्यागे तु अनुमानमप्रमा
णम्प्रसक्तं । तस्मादवश्यमनुमानस्य प्रामाण्यमभ्युपगच्छता व्यक्तिविषयताऽभ्युपगन्तव्या
लक्षितलक्षणेन । नाकारमात्रपर्यवसानं । अप्रवर्त्तकत्वप्रसङ्गात् । केवलसामान्यग्रहणेप्ययमेव
दोषः । तस्मात् ततोपि ज्ञानकारादनुमानम्व्यक्तीनामिति व्यक्तिविषयं सामान्यानुमानं
(बौ द्ध ती र्थि का नां)675
सामान्यवादिनां ।
ननु सामान्येनापि व्यक्तेरनुमानन्नास्ति । तत्रापि सामान्यप्रतिभासनात् अप्रवर्त्तनमेव
पुनरपीत्यनर्थकमनुमानं । न चेयती सामान्यपरम्परा । सामान्यात् सामान्यानुमानन्ततोप्यप
रसामान्यानुमानमित्यनवस्था । तस्मात् पर्यन्तेपि व्यक्तयोऽवगन्तव्या इति व्यक्तयः सामान्यं ।
तदप्यसत् । यतः ।
नहि रूपादय एव सामान्यं सामान्यज्ञानेन प्रतीयमानाः । रूपादयो हि व्यस्ताः
समस्ता वा सामान्यज्ञानेन प्रतीयेरन् । यदि समस्ताः सामान्यज्ञानेन प्रतीयन्ते676
तदा शब्दा
दुत्पद्यते यत्सामान्यज्ञानन्तेन सकलव्यक्तिस्वरूपप्रतिपत्तेरक्षसंहतेर्वैकल्यप्रसङ्गः । व्यक्ति
प्रतिपत्यर्थं हि चक्षुरादेरक्षसंहतिरिष्यते । सा च व्यक्तिरपगतेष्वपि चक्षुरादिषु प्रतीयत
इति किमक्षैः । सुखार्थमिन्द्रियाणीष्यन्त इति चेत् ।
यदि सुखोदयः स्वरूपेण प्रतीयमानोपि न तथा । तथा सत्यन्यत्रापि प्रतीतौ कः
समाश्वासः । प्रतीयमानतैव हि सत्ता ।
अथ विफलाप्यक्षसंहतिः कर्मवशादुपजायते ।
जायतान्नाम सा तु विफलत्वेन प्रतीयेत नष्टेपि चक्षुषि रूपदर्शनेन । न चैवमिति न
व्यक्त एव शब्दतः प्रतीयन्ते । तस्मादरूपादिरूपं677 सामान्यं । एवन्तर्हि नामादिरूपम्भवि
ष्यति । नाक्षसंहतेर्वैफल्यात् ।
तदप्ययुक्तं ।
नहि वक्तृश्रोतृसङ्गतनामनिमित्तप्रतिपादनेऽस्य प्रतीतिरिति अप्रतीतेर्थे कथम्प्रवर्तनं ।
अप्रतीतेपि प्रवर्त्तने सर्वत्र प्रवर्त्तनप्रसङ्गात्, प्रतिपत्तिवैयर्थ्यप्रसङ्गाच्च नैतद् युक्तं । अथापि
स्यात् । यन्निमित्तं यश्चार्थस्तयोः सारूप्यादेकप्रतिपादनेप्यन्यत्र वृत्तिर्यथा यमलकयोरेकचोदने
चित्राङ्गदचित्रवीर्ययोः नहि तत्रान्यत्र न वृत्तिः । तदप्ययुक्तं ।
193
भ्रान्तिस्तत्रेह न भ्रान्तिर्भ्रान्तिश्चेत् स्यान्न वस्तुवित् ।
यदि नामनिमित्तप्रतिभासिनी सा मतिः कथम्भ्रान्तिः । भ्रान्तिश्चेदनालम्बना । तथा
सति न नामनिमित्तप्रतिपत्तिः । नामनिमित्तस्य स्वरूपेणाप्रतिभासनात् । तत्रापि नामनि
मित्तकल्पनायामनवस्था । तस्माद् यमलकयोरभ्रान्तिप्रतिपत्तौ नामनिमित्तप्रतिभास
नमेवेति असिद्धो दृष्टान्तः । तत्रापि तत्प्रतिपत्तेरेव प्रवर्त्तनमिति तत्रापि चोद्यं कथमर्थे
प्रवर्त्तनमिति साध्यपक्षनिक्षिप्तो न दृष्टान्तः ।
अभ्युपगम्याप्युच्यते ।
यदीयम्बाह्ये वृत्तिरन्यप्रतीतावपि सारूप्योपजनितविभ्रमहेतुका तदा न सर्वदा
भवेत् । नहि यमलकयोरेकप्रतीतावन्यत्रैव सर्वदा वृत्तिस्तत्रापि वृत्तिदर्शनात् । न च
सारूप्यम्मूर्त्तामूर्त्तयोः सादृश्याभावात् । तद्भावे वा न विप्रयुक्तसंस्कारता । रूपादिस्वभाव
त्वेन रूपस्कन्धस्यान्तर्ग्गमात् । किञ्च(।) देशभ्रान्तिश्च न स्यादेतद्देश एव प्रतिपादित इति
नहि तदन्यदेशयोः सारूप्यं ।
अथ देशस्यापि न स्वरूपेण प्रतिपादनं । किन्तर्हि (।) नामनिमित्तत्वेनैव तस्यापि
भ्रान्त्या प्रतीतेः । एवन्तर्हि न देशो नामप्रतिपादित इति न देशविशेषे प्रवर्त्तेत । नह्यदेशे
चित्तचैत्तप्रतिपादने कश्चिद्देशविदेशसङ्गते रूपादौ प्रवर्त्तते । एकत्वाध्यवसायात् प्रवर्त्तत
इति चेत् । कोयमेकत्वाध्यवसायो नाम । नामनिमित्तस्य प्रवृत्तिविषयपदार्थरूपतया
प्रतिपत्तिरिति चेत् । कथमन्यस्यान्यत्वेन प्रतीतिः । न घटः पटरूपेण प्रतीयते । तस्य
रूपन्तत्राध्यस्तमिति चेत् । यत्तर्ह्यध्यस्तन्तदेव प्रतिपन्नम्बाह्येध्यस्ते बाह्यमेव प्रतिपन्नन्न नाम
निमित्तगन्धोपीति । यत्र चाध्यासः तत्रैव प्रवर्त्तनं न बाह्येऽर्थे भवेत् । अथ नामनिमित्तस्य
तत्राध्यासः । तथा सति नामनिमित्तमेवं प्रतिपन्नङ्कथम्बाह्ये प्रवृत्तिः । शुक्तिकायां रजता
ध्यासे कथं शुक्तिकायां वृत्तिरिति चेत् । शुक्तेरपि तत्र सद्भावात् तद्देशस्य च प्रत्यक्षेण
ग्रहणात् । न च नामनिमित्तदेशपरिग्रहः । देशपरिग्रहेऽदेशस्थता न स्यात् । आधार
स्यार्थस्य स देश इति चेत् । न (।) विवेकाभावात् । शुक्तिकाया देशो न रजतस्य ।
तद्वदन्यत्रापीति चेत् । न (।) रजतस्यासत्त्वतो देशाभावात् । न तु नामनिमित्तस्य देशो
भावः । दृष्टस्य च रजतस्याध्यारोपो न च नामनिमित्तदर्शनमस्ति । अध्यारोपकाल एव
तस्य दर्शनात् । तस्मान्नेयमध्यारोपतोऽर्थे वृत्तिः । न च स्खलद्गतिप्रत्ययग्राह्यता माणव
काग्निप्रत्ययवत् । अत्यन्ताभ्यासान्नेति चेत् । कुत एतद् अत्यन्ताभ्यासत इति प्रतीतिः
प्रमाणाभावात् । प्रमाणेन हि प्रतीयमानन्तथाभ्युपगन्तव्यन्नान्यथा । अन्यथा व्यवहारो194
न युक्तस्तेनैवङ्कल्प्यते इति प्रमाणाभाव इति चेत् । न (।) अन्यथापि व्यवहारादिति
प्रतिपादयिष्यते ।
यस्यापि शब्दात् स्वाकारमेव ज्ञानमुत्पद्यतेऽर्थासंस्पर्शितस्यापि कथमर्थे प्रवर्त्तनमिति
चेत् । न (।) ज्ञाने ज्ञानाकारे बाह्ये तुल्यं । भ्रान्ताया बुद्धेरुत्पादात् । तथा वासना
सामर्थ्यादुपजायमाना स्वरूपमेव विशिष्टदेशाधिष्ठानमर्थं मन्यमाना व्यवहारिणम्प्रवर्त्तयतीत्यत्र
न किञ्चिद् व्यहतं । तथाहि ।
नामनिमित्तमर्थम्मन्यत इति द्वयी कल्पना । प्रतिपन्नमप्रतिपन्नम्वा । अर्थाकारतया
ध्यवसीयत इति । यदि शाब्दविज्ञाने नामनिमित्तम्प्रतिपन्नं स्वरूपेण कथमस्यार्थतया
प्रतीतिः । नहि स्वरूपेण प्रतिपन्नमन्याकारतया प्रतिपन्नमुच्यते । न खल्वन्याकारन्तद् भवति ।
आकारभेद एव भेद इति । तस्मान्नामनिमित्तस्यार्थाकारतया प्रतीतिरिति नासावाकारोर्थस्य
तत्रार्थस्याभावात् । नापि नामनिमित्तस्य तदयोगादिति । स आकारो ज्ञानस्यैव । तद् वरं
स एव ज्ञानाकारोऽर्थत्वेन प्रतीयताङ् किमन्तर्गडुना नामनिमित्तेन । ज्ञानस्यार्थाकारता भवति ।
ततः पारम्पर्येणोत्पत्तेरिति युक्तन्नामनिमित्तस्यार्थाकारतेति । कुत एतत् । नहि तस्यार्था
कारतायाम्प्रमाणङ् किञ्चित् ।
अथ नामनिमित्तस्याप्यव्यतिरिक्तोर्थाकारः । स एव तर्ह्यर्थाकार इति नाक्षसंहते
रवैफल्यं । अथाप्यर्थ क्रियाकारि न भवति तदर्थक्रियाकारिग्रहणे नाक्षसंहतेरवैफल्यं ।
तदप्ययुक्तं । अर्थक्रियाकारित्वाग्रहणादप्रवर्त्तनमेव प्राप्तं । अध्यारोपात्678
प्रवर्त्तते(।)
सोध्यारोपो ज्ञानकार एवेत्युक्तं । अन्यथा तत्राप्यपरन्नामनिमित्तं तत्राप्यपरमित्यनवस्या
भवेदित्यपरिहारः तत्रापि भ्रान्ततायाः । न नामनिमित्ते प्रमाणाभावात्679 । नहि भ्रान्तविज्ञाना
दर्थव्यवस्था । स एवाकारोऽर्थस्य व्यवस्थापक इति चेत् । न(।) व्यतिरेकाभावात् । नहि
सौ त्रा न्ति क स्येव नामनिमित्तवादिनः सिध्यति व्यतिरेकः । मनस्कारादिमात्रेण नामनि
मित्तविषयाभिमताया बुद्धेर्भावात् । अर्थाकारे च ज्ञानेभ्युपगम्यमानेऽर्थाकार एव स युक्तः ।
कस्मान्न स्पष्टाकारतेति चेत्(।) न । सामग्रीभेदेनाकारलेशोत्पत्तेः । नहि यतो यदाकारम्भवति
तत्सर्वात्मनैवात्मसदृशपुत्रवत् ।
ननु सकलमेव ज्ञानमनाकारन्तत्रार्थस्य स आकारो यो नीलादिः प्रतिभासः । तत्र सकल
एव नीलादिक आकारोऽर्थंस्य न ज्ञानस्य(।) अतः सकलं ज्ञानमर्थवत् । न स्वाकारङ् किञ्चि
दिति680 कुतो भ्रान्तिः । न च ज्ञानस्यासावाकारो बहीरूपेण प्रतिभासनात् (।) नैतदस्ति ।
195
सर्व ज्ञानमर्थवदिति कुतो व्याप्तिः । न खल्वपुरोवर्त्त्याकारानुभवादेवार्थवत्ता681 ।
तथा चेद् भ्रान्ताभ्रान्तविभागो न भवेत् । सकलस्य सालम्बनत्वात् । सालम्बनत्वेप्यर्थक्रियाऽ
प्राप्तेर्भ्रान्तताव्यवहार इति चेत् । एवन्तर्ह्यर्थक्रियाप्राप्तेरनालम्बनत्वेपि प्रामाण्यव्यवहार
इति किन्नेष्यते । किमत्र तत्त्वमिति चेत् । अनालम्बनत्वमेव । यतः(।) स्वप्नादौ निरालम्ब
नत्वेपि पुरोवर्त्तिग्रहणस्य दृष्टत्वात् तस्य चान्यत्रापि दृष्टत्वात् अयुक्तं सालम्बनत्वं । विपर्ययः
कस्मान्नेति नोत्तरं(।) सालम्बनत्वस्यासिद्धत्वात् । नहि सालम्बनत्वङ् क्वचिदपि सिद्धं ।
जाग्रदवस्थायामिति चेत् । सा तर्ह्यवस्थाऽन्यत्र नास्तीति तत्र ज्ञानमनालम्बनं । तस्मात्
स्वप्नादावनैकान्तिकत्वमन्यथा दर्शनात् । अथ स्वप्नज्ञानमपि नामनिमित्तालम्बनत्वेन
स्वप्नज्ञानमनालम्बमिति न सिद्धं ।
अत्रोच्यते । न नामनिमित्तालम्बनं स्वप्नज्ञानन्नीलाकारालम्बनान्नामनिमित्तस्य तदा
कारताऽभावान्नीलादिकमेव तत्रालम्बनमिति न युक्तं । नीलादिविलक्षणत्वात् तदाकारस्य ।
तस्याप्रतिघता नास्ति सत्त्यनीलादेः । स्वप्ननीलस्य च तद्विपर्ययात् । तथा सम्वृतेपि प्रदेशे
हस्तियूथदर्शनात् । यत्र ह्यवचरके व्यवस्थितः पश्यति तत्र हस्तिपुरोनवकाशत्वाद् बहिरपि
पिहितावचरकान्निर्गन्तुमशक्यत्वात् । हस्तियूथकार्यस्य च विटपभङ्गादेरदर्शनादग्निकार्यस्य
च दाहादेरदर्शनात् । अथ तथाभूत एव नीलादय उत्पन्ना अप्रतिघास्तथा सति सर्व्वः कस्मान्न
पश्यति (।) यस्तत्र जागर्त्ति तस्य तथा भूतसामग्र्/?/यभावात् । निद्रासामग्रीदर्शनकारणस्वप्न
रूपादेः । यदि निद्रासामग्री सर्वस्य दर्शिका स्यात् । न चैवं स्वप्नानामन्यथान्यथा
स्वप्नदर्शनात् तद्देश एव । संस्कारस्य भेदान्यथादर्शनं । तथाहि । यस्य जाग्रदवस्थाभावी यः
संस्कारस्तथाभूतमेव दर्शनं न भवतीति न सर्वस्य सर्वदर्शनमिति ।
ननु संस्कारः संस्कृतविज्ञानसन्ततिव्यतिरेकेण नान्यस्ततस्ततो विज्ञानमुत्पन्नम्विषय
सन्निहितङ् गृह्लातीति सर्वसन्निहितग्रहणप्रसङ्गः । न खलु चक्षुरादेर्विज्ञानमुपजायमानं
सन्निहितेष्वपि किञ्चिद् ग्रहणयोग्यम् ।
तस्मात् स्वप्ने किञ्चिदुत्पन्नम्विभागेन ग्रहणात् । पूर्वरूपदर्शने हि युज्येत विभागः ।
यस्य संस्कारः पूर्व्वदर्शिनः स एव तत् पश्यति, अन्यस्य पूर्वाभावाददर्शनं ।
अस्तु तर्हि विपरीतख्यातिः पूर्वकालमेव दृश्यते तत्कालतया । न (।) तत्कालताऽभावात्
अत एव विपरीतख्यातिरिति चेत् ।
अत्रोच्यते ।
यदि विपरीतस्य ख्यातिर्न तस्य विपरीतता विद्यते । विपरीतता चेत् सर्वस्य तथा
ग्रहणप्रसङ्गः । तेषामपि विपरीतख्यातिरिति चेत् । नेदं साधीयः ।
न खलु परम्भ्रान्तमेवापेक्ष्य तदन्योपि तथाभूत एव भ्रान्त उच्यते । किञ्च ।
स्वप्नदर्शिनो विपरीतख्यातिम्प्रतिपादयिष्यामीति जाग्रताम्विपरीतख्यातेः प्रतिपादनं ।
अथ विपरीतख्यातिः । ख्यातेरेव तर्हि सा विपरीतता नार्थस्येति स्वेनैव रूपेणार्थस्य
दर्शनमिति का विपरीतख्यातिः । ख्यातेरेव तद्रूपं यो विपर्यय इति । न चान्यख्यातिरूपमन्यस्य
येनान्यस्यापि तथा प्रतीतिः स्यात् । भिन्नत्वात् प्रतीतीनां । एवन्तर्हि प्रतीतिरेव तथा प्रतीयत
इति न स्वप्नदर्शनस्य सालम्बनता । तथाहि ।
देशान्तरव्यवस्थितन्दृश्यतेऽन्यत्र देश इति युक्तमप्येतत् । कालान्तरसङ्गतन्तु
तदाऽविद्यमानङ् कथमिव दृश्यते । तस्मात् पूर्वदर्शनाज्ञानमेव तथोत्पन्नं सम्वेद्यते नार्थस्तस्या
सम्भवात् । यद्यन्यकालेपि तत्कालतया दृश्यते सर्वत्र विपरीतख्यातिरस्ति जाग्रदवस्था
यामपि स्तम्भादिदर्शने । न तत्र बाधकाभावात् ।
ननु बाधकाभावो विपरीतख्यातिरेव । अर्थप्राप्तेर्न विपरीतख्यातिरिति चेत् । नन्वर्थ
प्राप्तिरपि विपरीतख्यातिरेव । नन्वर्थस्य विद्यमानत्वे कथम्विपरीतख्यातिः । नन्वर्थस्य
दृष्टत्वे कथमप्राप्तिः । तथाऽभावादिति चेत् । अभावे कथम्वेदनं । अन्यदाकारादिति चेत् ।
कथन्तर्हि न प्राप्तिः । अन्यदेव भावादीदानीमभावात् । कथन्तर्हि तद्दर्शनं ।
(पर आह)682 ! तत्कालस्य रूपस्य प्राप्तिरपि तत्कालस्य किन्न भवति । अशक्यत्वादिति
चेत् । कथन्द्रष्टुं शक्यं । दृश्यत इति चेत् । ननु तदेव न ज्ञायते कस्य दर्शनम् (।) प्रत्य
भिज्ञानात् पूर्वस्य दर्शनमेतदिति निश्चयः । न । स्वप्ने प्रत्यभिज्ञानाभावात् जन्मान्तरदृष्टस्य ।
अन्येन प्रत्यभिज्ञायमानेन साधर्म्म्यादत्राप्यनुमानमिति चेत् । गन्धर्वनगरादिष्वभावात् ।
नहि च तत्र प्रत्यभिज्ञानं । सर्वमेव तर्हि प्रत्यभिज्ञेयम्पूर्वमेव दृश्यते नेदानीन्तनदर्शनमिति ।
अनेन स्मृतिसम्प्रमोषोपि व्याख्यातः ।
अलौकिकमपि व्याख्यातमनेनैव । तथाहि । किमिदमलौकिकं । अन्येन न दुश्यते
असाधारणं ।
अत्रोच्यते । ज्ञानमेव तदन्येन योग्यदेशावस्थितेनाज्ञानाद् ग्राहकाकारवत् ग्राह्य
तया ग्रहणादर्थ एव न ज्ञानं । न तस्य ग्राह्यतया ग्रहणमस्ति । स्वरूपेण ग्रहणात् स्वरूपेण
हि सोर्थो न ग्राह्यतया । ग्राह्यतया चेदर्थः । ग्राह्यता प्रतिभासादन्या नास्ति । स
एवास्तीति नार्थो नाम । ग्राह्याकारतयार्थत्वमुपलभ्यते न त्वसावर्थः । कथमन्येनान्यस्यो
पलम्भलक्षणमिति यत्किञ्चिदेतत् ।
अर्थोऽर्थ इति प्रत्यय उत्पद्यत इति चेत् । न । उक्तमेतत् (।) नार्थोऽनर्थाधि
मोक्षत (वा॰ प्र॰ २।१) इति । एतेन नामादि व्याख्यातं ।
अपि च सर्वमेव पुरोवर्तिप्रतिभासं ज्ञानमत्र विपरीतख्यातिरत्र नेति । अत्रालौकिका
थता । अत्र नेति कुत इत्याह ।
अपि च (।) यैषा चक्षुरादिमतिरविपरीतख्यातिरूपा सार्थवती अर्थसन्निधिजनिता केन
मता (।) किमत्र कारणं । नहि दृश्यमानतायाम्विशेषः । अर्थस्य सामर्थ्यमन्वयव्यतिरे
काभ्यान्दृश्यत इति चेत् । तथाहि (।) सोर्थोन्येन प्राग् दृश्यते स्वयञ्चानुमानेन पश्चात्
प्राप्यते । तेनार्थस्य सामर्थ्यन्दृश्यते । यद्येवमन्यद् यत्रेयं सामग्री नास्ति तज्ज्ञानं प्राप्त
मनर्थकं । तथाहि ।
नास्त्यत्रार्थोऽत्र स्वस्तीति683 मतिः साम्व्यवहारिकी । अविसम्वादिनी चेयम्मतिः(?) ।। १८८ ।।
तथाहि (।) ज्ञानमेव ममोत्पन्नन्नात्रार्थोस्ति पूर्वभावनासामर्थ्यमत्र मयैवम्भावितमिति
न तु तन्मया दृश्यते स्मरणम्वा ममालौकिको वायमर्थः । येन वाधकेनालौकिकत्वम्प्रतीयते
तेनानर्थकत्वमेव । न च लौकिकत्वेन प्रतीयमानमलौकिकन्तत्र विपरीतख्यातिप्रसङ्गात् ।
तदप्यलौकिकमिति चेत् । न (।) अनवस्थाप्रसङ्गात् । अथासाधारणत्वमेव प्रतीयते ।
नहि परेणेदम्प्रतीयत इति मतिः । अर्थविषये तु प्रत्ययेऽनुमानेन परप्रतीयमानता प्रतीयते ।
एवन्तर्हि परो नास्त्यभ्रान्तार्थस्तवैव प्रतीतिरेषाप्रतीतिरेवेयमिति नार्थ इति प्रत्येति तस्मान्ना
मादिप्रतिभासः नेन न सालम्बनत्वम्वक्तृश्रोतृसम्बन्धे सतीति न्यायः ।
यद्यर्थसम्बन्धाभ्युपगमो नामनिमित्तस्य तदाऽप्रवृत्तिरेव । यतोऽर्थेन सह तस्य क्षयः ।
असम्बन्धे सुतरामेवाप्रवृत्तिः(।) यत्रार्थसम्बन्धस्य केवलस्य प्रतीतेरप्रवृत्तिप्रसङ्गस्तत्रासम्बन्धे
सुतरामेवाप्रवृत्तिः । अतीतानागतस्य चार्थस्याभावात् । यद्यपि नामनिमित्तमास्ते तथा684
प्रवृत्तिरेवार्थेऽर्थोल्लेख्याभावात् । न ह्यन्यत्र प्रतीतेऽन्यत्र प्रवृत्तिः । परिशिष्टन्तु व्या
ख्यातं ।
(२) परमते दोषाः
यदि सामान्यं शब्दप्रत्ययगोचरः । तत्सामान्यं केवलमन्यथा वा गृह्येत । यदि
केवलं सामान्यं गृह्यते व्यक्त्यपायेपि भवति प्रत्ययः किन्त्वतीतादिप्रतीतिर्न स्यात् । नहि
सामान्यमतीतादिरूपं । अथ सामान्यमतीतादिव्यक्तियोगादतीतादीति व्यपदिश्यतेध्यवसीयते
वा । तथा सति व्यक्तिरूपसहितमेव गृह्यते । न चातीतादिव्यक्तीनां रूपमस्ति । कथम
तीतादेर्व्यक्तिरूपद्वारेणातीऽतादिरूपताप्रतीतिः । नह्यविषयीकृततद्रूपस्ताद्रूप्येणापरपरिग्रहणे
समर्थः ।
अथ केवलस्यापि सामान्यस्य ग्रहणे व्यवहारः ।
तदाप्यपरो दोषः । तस्य तत् सामान्यन्न भवति तद्व्यङग्यञ्च न भवति । नहि तद्व्य
तिरेकेण गृह्यमाणं स्वतन्त्रन्तस्य तदिति व्यपदेशार्हं । तद्व्यङ्यम्वा । स्वज्ञानेन प्रतीतिर्हि
व्यञ्चकः प्रदीपादिप्रकाशः । व्यक्तिप्रतीतिमन्तरेणापि यदि सामान्यङ्केवलम्प्रतीयते न व्यक्ति
व्यङ्ग्यं (।) तेन नित्योपलब्धिरस्य स्यात् । व्यक्तिशून्येपि प्रदेशे सामान्यमुपलभ्यते । यथा
शब्दात् तद्व्यक्त्यभावेपि तद्देशे । अथ व्यञ्जिकाम्व्यक्तिमन्तरेणेन्द्रियेण न गृह्यते । इन्द्रियेण
ग्रृह्यमाणं सामान्यम्व्यक्तिव्यङ्ग्यं यथा घटादयः शब्दात् प्रतीयमाना न प्रदीपादिकमपेक्षन्ते ।
इन्द्रियेण प्रतीयमानास्त्वपेक्षन्त इत्यदेषः ।
तदप्ययुक्तं । शब्दात् घटादिसामान्यमेव प्रतीयते (।) तत्कथं स दृष्टान्तः पक्षी
कृतत्वात् सामान्यस्य । नहि पक्ष एव दृष्टान्तो दृष्टान्तदोषाभावप्रसङ्गात् । ततो यदि
शब्दात् स्वरूपेण सामान्यम्प्रतीयते किन्तस्य प्रत्यक्षप्रतीत्या ।
ननु प्रत्यक्षग्रहणाभावे कथं शब्दात् प्रतीतिः सम्बन्धग्रहणाभावात् । ननु यः शब्दादा
कारः प्रतिभाति सामान्यस्य किन्तद्रूपं सामान्यमन्यथारूपं वा । यदि तद्रूपन्तदेव तर्हि व्यक्ति
व्यक्तम्प्रत्यक्षेणापि प्रतीयेत तेनैव रूपेण ज्ञानञ्जनयेत् । अथ प्रत्यक्षेण प्रतीयते तत्सा
मान्यस्य रूपं । तथा सति तत्र सङ्केतकरणे कथमन्यत्र प्रतीतिः प्रत्यक्षप्रतिपन्नेनैव रूपेण
भासेत शब्देपि प्रत्यये । न च तत्स्वभावोन्यस्वभावतया प्रत्ययान्तरे प्रतिभासते । नित्यञ्च
सामान्यन्तद्रूपमेव सर्वदो/?/ च प्रतिभासते । यतः ।
यदि शब्दतः केवलसामान्यप्रतीतिः केवलेनैव सामान्याकारेण प्रतिभासितव्यं ।
नीलाद्याकारलेशस्य कुतोऽवकाशः । व्यक्तेश्चेत् व्यक्तेरप्रतिभासने कुतः । व्यक्ति
जनितत्वादिति न युक्तं । सामान्याभावप्रसङ्गात् । तद्व्यतिरेकेणानवभासनात् । अनुग
ताकारतापि नान्या नीलाद्याकारत इत्युक्तं । तत्र च समानाकारतायामर्थानां सामान्यमिति
न स्यात् । उभयोरपि प्रतीतेरिति चेत् । न इन्द्रियग्राह्यता स्यात् । इन्द्रियेण व्यक्ति
प्रतीतेर्भविष्यतीन्द्रियग्राह्यतेति न न्यायः । शब्दात् प्रतीतिर्न सामान्यस्य स्यात् (।) नहि तथाभूतं
सामान्यमस्तीति प्रतीतिः सम्प्रत्ययाभावाद् भिन्नप्रतिभासनाच्च । तस्माद्685 व्यक्तिव्यतिरेकि
किञ्चित् प्रतिपाद्यमिति शब्दाद् व्यक्तिरूपप्रतिपत्तौ नाक्षसंहते साफल्यम्व्यर्थता भवेत्
अर्थस्वरूपप्रतिपत्तेरेव प्रत्यक्षता सा चेदस्ति व्यर्थतैवाक्षाणां । पुरोवर्त्तितया प्रति
पत्तिरव्यक्षता न साक्षादिति चेत् । न । शब्दस्यान्यथा प्रतीतेः तर्हि शब्दः पुरोवर्त्त्येव गृह्यते ।
तस्याध्यक्षता न स्यात् । सर्वात्मना प्रतीतिरिति चेत् । शब्दादपि स एव प्रतीयते सङ्केतस्य
तत्रैव ग्रहणात् परितोषार्थत्वादिति चेत् । न । परितोषस्यापि भावात् । ईदृशस्तव
परितोष इति शब्दश्रुतेरासीदिति प्रयोगान्नेति चेत् । न(।) भवतीत्यतीतेपि प्रयोगस्य सम्भवात् ।
अथापि स्यादतीतानागतयोरेव शब्दः प्रयुज्यते । व्यवह्रिते च वर्त्तमाने । न त्वव्यवहिते
दृश्यमान एवं तत्र प्रयोगवैयर्थ्यात् । न वातीता रूपादयः परितोषकारिणो व्यवहिताश्चा
दृश्यमानाः । तेनेन्द्रियाणां साफल्यमिति चेत् । तदसत् ।
चक्षुरादिनापि दृश्यमानमव्यवहितस्वरूपदर्शनादेव परितोषकारि च । न च व्यवहितेपि
गीतध्वनिः स्वरूपेण प्रतीयमानः परितोषस्य न विधायकः । जलतरङ्गन्यायेनागतेरव्यवहित
एवेति चेत् । नैतदपि सारं ।
दूरदेशोपि प्रतीयमानो यदि संयुक्तः शरीराधिष्ठानैः । रूपादयोपि तथा स्युः । ततः
शब्दाऽनुमानादन्यतो वा विकल्पादर्थप्रतीतौ चाण्डालस्पर्शागम्यागमनादयो भवेयुः । तस्माद्
यदि शब्दार्थस्य स्वरूपेण प्रतिपत्तिरतीतादिता न स्यात् । दृश्यमाना अपि स्वरूपेण प्रतीतित
एवानातीतादयः686 । सम्वादेपि सम्वादादिशब्दादस्त्येव । अथेन्द्रियेण प्रतीतिरेवास्तिता न
प्रतीतिमात्रं । शब्दवैकल्यादयोपि हि विद्यमानताम्विनापि दृष्टवृत्तयः ।
तस्मात् स्वरूपप्रतिपत्तिरेवास्तिताध्यक्षताऽव्यवहितता चेति न विशेषः शाब्देन्द्रियप्रत्य
ययोरिति प्रत्यक्षप्रत्ययप्रयोजनता न युक्तिमत्पक्षाणामतो वैफल्यमेव । इतश्च सामान्यमवस्तु ।
जातिमद्वा वस्तु जातिरुच्येतान्यद्वा । तत्र न तावद् वस्तुव्यक्तिरूपमेव जातिर्व्यक्तयो
येनापराश्रया अमिश्राः प्रत्यक्षेण प्रतीयन्ते । न ह्यन्यथाऽभ्रान्तप्रत्ययेन प्रतीयमानमन्यथा
भवति । तथान्यनिरपेक्षाः शावलेयादयः प्रतीयन्ते केवलकेवलाः । अथ पश्चाद् द्वितीया
दिव्यक्तयः पूर्वपूर्वसापेक्षतया प्रतीयन्ते तत्समानमेतत् तदेवेदमिति वा । तदप्ययुक्तं
(।) कार्यमपि यावदङ्कुरादिकल्पनया सम्बध्यते स्वहेतुना निष्पत्तेरपराधीनत्वात् । तथाहि
यावदनिष्पन्नन्तावदत्र कल्पनैव निष्पत्तिकालेपि तत्सहभावितयाऽपराधीनम्विनष्टम्वा कारणमिति
कल्पनयैव सम्बन्धः कार्याणामपि कारणैः किमङ्ग विपर्यये । तस्मादन्यत्त्वव्यक्त्यन्तराद् व्यक्तेः
सामान्यस्य वा तदसम्बद्धम्(।) अतो निःस्वभावता सामान्यस्य । नह्यसम्बद्धम्प्रतीयमान
200
सामान्यं । अभावोपि तर्हि सत्सम्बद्धतया प्रतीयमानः सामान्यम्भवेत् । निःस्वभावतायाः
समानत्वात् ।
शशविषाणं शशविषाणमिति भवत्येव सामान्यम्व्यक्त्यपेक्षया । अन्यव्यक्तेः कस्मान्नेति
चेत् । वस्तुसामान्यवादिनोपि गोत्वङ् कर्कादिकस्य कस्मान्न भवति । अपेक्षाऽभावात् । नहि
कर्कादिव्यक्त्या तद् व्यज्यते । एवन्तर्हि शावलेयादिष्वपेक्षाभावादेव खरविषाणादिकस्य न
तत्सामान्यरूपता । गोत्वस्य तु तदाश्रयणेन भावात् । तत्र च प्रवर्त्तनाद् भवत्यपेक्षालक्षणः
सम्बन्ध इति न दोषः । न च तद्रूपन्तेषामस्ति(।) नापि तादात्म्यसम्बन्धस्तथापि तथा
भवत्यनादिवासनासामर्थ्यात् ।
न खलु जाते रूपमस्ति(।) केवलं रूपाणामाश्रयेण तत्र687 पारम्पर्येणोत्पत्तिलक्षणमिति
रूपवतीव प्रतीयते । तत एव च तदुत्पत्तेस्तदध्यवसायाच्च तज्जातिप्रतीतौ विशेषेषु
प्रवर्त्तते(।) तेन तद्विशेषावतारार्थैरपि शब्दैः सैव प्रकाश्यते नापराव्यतिरिक्तेत्युपसंहारः ।
भवतु रूपाकारता जातेरेकत्वाध्यवसायस्तु कुतो व्यक्त्येति । रूपं हि दृष्टमदृष्टन्त्वे
कत्वाध्यवसानङ् कथं । अत्रोच्यते ।
न खलु तत्त्वे दर्शनादेव तद्रूपारोपः । भ्रान्तिपरम्परापि भवत्येवेश्वरादिकल्पनावत् ।
अस्फुटावभासेपि स्फुटदर्शनात् कथमिति भ्रान्तिपरम्परैवात्रापि शरणं । तस्मादपरभ्रान्ति
दर्शनायातैव भ्रान्तिः साप्यपरस्मादित्यनादितैव भ्रान्तेः श्रेयसीति न दर्शनेन तद्रूपस्य
प्रयोजनं । अथवा ।
नहि जाते रूपमस्त्यन्यव्यावृत्तिलक्षणायाः । ततो हि विजातीयादनभिमताद् व्यावृत्ति
मेव शब्दाः कुर्वते । व्यावृत्तिश्च ततो वृत्यभाव एव । नहि निवृत्तिमात्रेण कश्चिदर्थी । नहि
घटमानयेति पटादीनामनानयनमेव प्रार्थ्यते । नैतदस्ति । आनयेत्यनानयनम्प्रतिषेध्यते । ततः
स्वयमेवानयनम्भवति । तच्चाघटेपि प्रसक्तमिति तस्य निषेधः । न च निषेधस्य रूपं ।
ननु प्रथमस्य शब्दस्य विधेः शब्दार्थो भविष्यति । न तत्र प्रतिषेधस्सम्भवति प्रसक्त
भावात् । तदपि न ।
अत्रानुद्योग एवानानयनन्तदेव प्रसक्तन्निषिध्यते शब्देन ।
201ननु तस्य निषेधोन्यस्य688 विधानमेव तत्कथं रूपन्नास्ति तस्येति । अत्रेदमुच्यते ।
कथमन्यभाव एवान्यस्याभाव इति चेत् । अन्यप्रतिपत्तौ तत्कल्पनोत्पत्तेः । कल्पनारू
पान्यापोहपक्षे वा तदुक्तिमिति न दोषः । स्वबुद्धिमेव तद्विविक्तामनुभवतो नास्तीति प्रतीतेः ।
ननु सामान्यबुद्धिस्तावदस्ति । तत्र योऽर्थाकारः स सामान्यं सदेव । यदि नाम
तस्यार्थरूपता नास्ति तस्यान्यथाप्रतिभासनात् । व्यतिरिक्तन्तु तत् सामान्यन्न भवतीति न
युक्तं । अत्रोच्यते ।
सामान्यबुद्धौ हि प्रतिभासमानं सामान्यमिष्येत । यद्यरूपता निराकारता सिध्येत् तदा
नियमेन बुद्धेरपरेण तेन भवितव्यमिति सामान्यं स्यात् । तस्य सामान्येन रूपेण दृष्टेः किन्तु
सार्थभ्रान्तिरपि यथैव हि तत्सामान्ये नेक्ष्यते । तथा भ्रान्तिरेषेत्यपि प्रतीयत एव (।) सापि
न स्वरूपेण सामान्यं । स्वाकारनिष्ठतया स्वलक्षणत्वात् अपि त्वभिप्लवादर्थेषु प्लवमानत्वादर्थ
रूपतया तत्त्वेनाभाव इति च प्रतिपत्तेः । नहि सामान्यमिदमर्थेषु विद्यते (।) यथा तन्निष्ठतया
प्रतीयते । अतस्तेन रूपेण सालम्बनत्वेन न रूपिणी न सस्वभावा689 । तथा परीक्षाक्षमत्वात् ।
अन्यथा पीतादयोपि सितशङ्खादिषु भवेयुरेव । तस्मान्न सामान्यम्वस्तु ।
अवाच्यत्वाच्चावस्तु सामान्यं । न खलु सामान्यन्तत्त्वान्यत्त्वाभ्यामवाच्यत्वेपि वस्तु । कुतः ।
यदातु691
तत्त्वान्यत्त्वाभ्यामवाच्यन्तदस्वभावं । अवश्यं हि भवता भावेन तत्त्वा
न्यत्त्वाभ्यामवाच्येन न भवितव्यं । अथ सामान्यान्तरादन्यत्त्वेन वाच्यमेवेति नियमेन भेदे
सति वस्तुना सामान्येन भवितव्यम् । यदि वस्तुव्यक्तेरपि तत्त्वान्यत्त्वाभ्याम्वाच्यम्भवेत् ।
तत एवावाच्यत्वादवस्तु । तत्सम्बन्धादेवावाच्यता तत इति चेत् । व्यतिरिक्तस्य कार्यकारण
भाव एव सम्बन्धः । ततः सर्वकार्याणाङ् कारणापेक्षयाऽवाच्यत्वम्भवेत् । न च धूमोऽग्नेस्तत्त्वा
न्यत्त्वाभ्यामवाच्यः । देशाभेदात् सामान्यस्य व्यक्तेरवाच्यतेति चेत् । न देशो नामास्ति वस्तुतः
पदार्थादपरः । भेदाप्रतिभासे कथम्भेदाभावो न भवेत् । भेदप्रतिभासने केनाभेदः । ततस्तत्त्वा
न्यत्त्वादपरः प्रकारो नास्ति वस्तुन इति कुतश्चिदप्यवाच्यत्वादवस्तु । सामान्यान्तरादपि नैव
तद्भेदेन वाच्यं । सामान्यान्तरस्यापि वस्तुत्वसिद्धेः । अथ परिकल्पितादपि भेदेन वाच्यत्वे
वस्तु । शशविषाणादीनामपि परस्परम्भेदाद् वस्तुताप्रसङ्गः । उपादानभेदात्तेषाम्भेदो न
202
परमार्थतः । शशादिमस्तकभेदोपादानबुद्धिरिवासौ भिद्यते न शशविषाणादय इति चेत् ।
इहाप्येवमुच्यमाने को विरोधः । व्यक्त्युपादानभेदादत्रापि बुद्धिभेद एव न वस्तुभेदः
इति । तदाह ।
यदि च सामान्यं व्यक्तिर्वा वाच्यं शब्दानाम्भवेत् । अतीतानागतम्वाच्यन्न स्यान्न चैवं
यावता ।
यद्यतीतेपि वस्तुन्यनागतेपि वा सामान्यम्प्रतीयेत तत्तर्हि सामान्यमतीतानागतस्यावस्तुनः
सदसतो धर्मः कथम्भवेत् । नह्यसतः सन्धर्मो भवति । सत एव व्यक्त्यन्तरस्य धर्म इति चेत् ।
तद्धर्मतया प्रतीयमानस्य कथमतीतता । अतीतव्यक्तिबलेन हि सामान्यस्यातीतता न स्वतः ।
तेनातीतयोगितया सामान्यस्यातीततेति नियमेन सामान्यमसतो धर्मः (यश्चासतो धर्मः) सन्न
भवति । यथा शशविषाणत्वमभावत्वम्वा । सन् वाऽसतो धर्मो न भवति कार्योत्पादनशक्ति
ददङ्कुरादीनां । को विरोध इति चेत् (।) सम्बन्धाभाव एव । नह्यसता सम्बन्धः शक्यः
प्रतिपत्तुं । तथा चेत् सामान्यमप्यसदेव प्रतीयते यथा व्यक्तिर्विशेषाभावात् । व्यक्तिरपि
तर्हि सत्येव प्रतीयते अतीतानागतस्य सत्त्वात् । यदि सत्कथमतीतं । प्रतिपत्तेरतीतत्वात् ।
सापि प्रतीतिः प्रतीयत एव । अप्रत्यक्षतया प्रतीतिरिति चेत् । न (।) अप्रत्यक्षताया एव
स्वरूपप्रतिपत्तावभावादित्युक्तं । तस्मादसतोऽतीतादेर्न धर्मः सत्सामान्यं ।
असदित्यसिद्धो1 हेतुः । उपचारात् तदिष्टं असद्धर्मत्वन्न परमार्थत इति । असद्ध
र्मत्वमसिद्धो हेतुः । यच्चोपचरितन्तत्तत्र परमार्थतो नास्तीति तत्रातीतानागते सामान्यस्य
परमार्थतः सत्त्वाभावात् सत्त्वमसिद्धो हेतुरित्यभिप्रायः ।
अत्र परिहारः । तत्रातीतादौ सामान्यधर्मस्य चोपचारः । शब्दस्य व्यक्तेर्वेति पक्षाः ।
यदि सामान्यस्योपचारः । तदयुक्तं । वर्तमानघटे यत् सामान्यन्तस्योपचारोऽतीते सम्ब
न्धात् सो दृश्याद्वा । अन्यथा प्रत्यासत्तिरहिते उपचारेऽतिप्रसङ्गः । न चासता सम्बन्धः
सादृश्यम्वा । सत्त्वप्रसङ्गाद् अतीतादेरपि सत्त्वमिति प्रत्युक्तं । अथ शब्दस्योपचारः ।
तदप्ययुक्तं । अर्थमन्तरेण शब्दस्याप्रवृत्तेः । प्रवृत्तौ वाऽभावेपि शब्दाः प्रवर्त्तन्त इति प्राप्तं ।
तच्च सामान्यमतो न वस्तु । अथ व्यक्तेरुपचारस्तत्रापि प्रत्यासत्या भवितव्यं । अप्रत्यासत्ति
कस्योपचारस्यायोगात् । शब्दोपचारेप्येतदेव वाच्यं (।) अथातीतानागतयोरेकत्वाद् रूपसादृश्या
दुपचारस्तदेवातीतमर्थक्रिया तु नास्तीति तत उपचारोर्थक्रियाया इति सामान्यमेव तत्र
प्रतीयते नेतरथा । तथा तर्हि सर्वमस्ति कथमतीतत्वं । अर्थक्रिया नास्ति तेनेति चेत् ।
यदि सा नास्ति सैवातीता कथम्भावः । तद्योगाद् भावोप्यतीत एवेति चेत् । तद्योगः केन
प्रतिपन्नः । प्रतीतावभावस्यापि प्रतीतिः । अपि च ।
अथ सम्वृत्याऽतीतादिता परमार्थतः सर्वमसत्त्येवेति चेत् ।
असद्रूपपदार्थालम्बना हि सम्वृतिस्तत्त्वसम्वरणात् । तत्त्वप्रकाशने तु न सम्वृतिर्नाम ।
अतीतादिकञ्च यदि सम्वृतिर्न परमार्थः । अतीतादिरूपताव्यतिरेकेण भावस्याभावान्न
किञ्चित् तत्त्वमिति स्यात् । वर्त्तमानम्परमार्थञ्चेदतीतादिकं सम्वृतिरपरमार्थ इति सामान्य
मवस्त्विति सिद्धं । नहि वर्त्तमानमात्रभावि सामान्यमिति सकलं सुस्थं । तस्मान्नोपचारो नाम
वस्तुनि वाच्ये । तथायमेवोपचारो यदसत्प्रतिपादनं ।
असच्च सामान्यम्व्यक्तिर्वा । अतीतवस्त्वभिधायिनां शब्दानामर्थः । तथाहि ।
यद् दृष्टन्तदेवाध्यारोप्यते । तदप्यसत् ।
अथातीतादौ प्रवर्त्तमानः प्रत्ययस्तद्देशकालसम्बन्धितया प्रतीयते । ततोऽतीतेपीदानी
न्तदेव पूर्वकृतं रूपमारोप्यते । यथा वा ही के693 पूर्वदृष्टगोत्वारोपः । एवन्तर्ह्यनतीतेपि
तस्मिन् पूर्वरूपारोप एव प्रतीयते नान्यथाऽनुमानेनापि सामान्यम्प्रत्येतुं शक्यं । ततः
सर्वत्रोपचार एव न परमार्थः सामान्यं । सर्वत्रारोपलक्षणत्वात् ।
अथ प्रत्यक्षेण विद्यमानमेव सामान्यङ् गृह्यते तत्परमार्थो भविष्यति । तत्तर्हि नानु
मानादिना प्रतीयत इति तदवस्तु सामान्यं ।
अथ प्रत्यक्षेणापि यत् पूर्वसाधारणमस्पष्टाभं रूपम्प्रतीयते शब्दतोपि तदनुमानतोपि
तथैव प्रतीयते । स्पष्टत्वन्तु तत्र व्यक्तेरेव प्रतीयते । ततो यदि नामविशेषांशे न प्रवर्त्त
तेऽनुमानं शाब्दम्वा सामान्यांशे तु अस्पष्टावभासिनि प्रवर्त्तत एव । तदप्यसत् ।
न खलु पूर्वसाधारणतायामध्यक्षमिति प्रतिपादयिष्यते । नष्टेपि च पूर्वविशेषे तत्सा
धारणता प्रतीयमाना कथम्वस्तु । सदसद्धर्मः कथम्भवेदित्युक्तं ।
अथोभयसाधारणत्वे कथमवस्तुता वस्तुतापि भवेत् । तदप्ययुक्तं । नहि वर्तमानः
प्रतिभासोऽतीतप्रतिभासेन सहैकतया प्रतीयते । अनेकप्रतिभासे च कान्या साधारणता नाम ।
तस्मादतीतादिरूपप्रतिभासनात् असदेव शब्दविषयः न चात्रोपचारः । अस्खलत्प्रत्यय
विषयत्वात् । यतः ।
बुद्धेरेवास्खलिता वृत्तिर्मुख्यारोपितयोर्निबन्धनम्भ (व) त्यन्यथा च स्खलद्गतिर्हि प्रत्ययो
माणवके तेन सिंहत्वमुपचरितं । अन्यत्र सिंह एव तथेति मुख्यन्तत् । अत्र तूभयत्रापि न
स्खलत्प्रत्ययविषयता ततो नोपचारः । असदर्थतयोपचार इति चेत् । यद्यसदर्थप्रत्ययविषयता
तथा सति सामान्यन्तत्त्वादेवावस्त्विति सिद्धं । किञ्च ।
अभावशब्दो ह्यभावेऽस्खलद्गतित्वान्मुख्यः । भाव एवाप्रयोजनत्वादन्यत्र पुत्रादावभाव
शब्दो गौण इति लोकप्रसिद्धिः । तस्मादभावो भावे च समानत्वादप्रतीतादौ न सामान्य
म्वस्तु, अवस्तुग्राहिप्रत्ययसमानाकारग्रहणात् । अथैतदेवोपचरितत्वं यदसति वस्तुनि
प्रवर्त्तनं । समानाकारतायां असति प्रवर्त्तनमिति कुत एतत् । प्रतीतेरेव तथा भावादिति चेत् ।
नन्वविज्ञाननाशे प्रतीतिभेदोपि नास्त्येव । याप्यसौ नष्ट इति प्रतीतिः साप्यनष्टे भवति ।
सन्देहो भविष्यतीति चेत् । सन्देहोपि न स्यादेव यदि वस्तु प्रतिभासेत । प्रतिभासमानेपि
सादृश्यात् सन्देह इति चेत् ।
नन्वभेदेपि नोपलक्षितयोः सादृश्यमिति शक्यम्वक्तुं । अनुपलक्षणे तु भेदस्य तत्त्वमेव
न सादृश्यं । अथ कालभेदाद् भेदः (।) तदसत् ।
यथा भवतः सदर्थत्वेपि पूर्वापरप्रत्यययोः कालभेदस्तथैवासदर्थत्वेपीति कुतः कालभेदात्
सदर्थेतरविभागः । अथानुमानात् सदर्थता ननु694
मानमप्यतीतानागतयोरस्त्येव । लिङ्ग
विशेषादतीतादिविभाग इति चेत् । तथा हि । लिङ्गात् किञ्चिदतीतया किञ्चिद् वर्तमान
तयाऽपरन्तु भावितयेति नास्ति बुद्धेः समानत्वं । तदसत् ।
तस्मात् तत्रापि स आकारः शब्दाकारवत् सन्देहविषयत्वादवस्त्विति युक्तं । नहि
प्रतीयमान एव सन्देहः । आकारान्तरे सन्देह इति चेत् । अत्रोच्यते ।
यदि हि तस्य प्रतीतिः प्रतीतेरेव न सन्देहः । अप्रतीयमानमप्यनाभासमेव कस्तत्र
सन्देहः । यदि ह्यप्रतीयमानतैव सन्देहः सर्वत्रानाभासने सन्दिग्धता भवेत् । अप्रतीयमान
एव सन्देहोऽपरस्य विकल्पस्य चलाचलस्य भावादिति चेत् । यदि प्रतीतिः कथम्विकल्पस्य
चलनं । किञ्च । किं स्वरूपस्य चलनमथ विकल्पस्य प्रमेयस्य । विकल्पस्वरूपस्य चलने
न प्रमेयसन्देहः । अथ प्रमेयस्य चलनन्न प्रतिभासमानस्य चलनाभावात् । अथात्र न सन्देहः(।)
किमिदन्द्रक्ष्यामि न वेति द्रक्ष्यमाणतायां सन्देह इति चेत् । सापि प्रतिभाति न वेति(।)
तदेव पक्षदृयमक्षीणमावर्त्तते । यदि द्रक्ष्यमाणता दृष्टा कथं सन्देहः । न दृष्टा चेत्कः सन्देह
इति । अथ सामान्यप्रत्यक्षाद् विशेषाप्रत्यक्षाद् विशेषस्मृतेश्च सन्देहः । तदप्यसत् । यतः ।
यदि पर्युदासः प्रत्यक्षादन्यत्सम्वेदनमप्रत्यक्षमिति तदाऽन्यदपि सम्वेदनं सालम्बनमिति
कथं सन्देहः । अथ न ज्ञायते किं सालम्बनमथान्यथेति ततः सन्देहः । तत्रापि सालम्बनत्व-
205
म्प्रतिभाति न चेति तदेवावर्त्तते । अथ तन्निरालम्बनमपि सम्भवति विपर्ययेण चेति सन्देहः ।
प्रतिभासमात्रमेव तर्हि नार्थः प्रतिभातीति कथम्वस्तुविपयंयताऽनुमानस्य । सामान्यप्रत्यक्षा
दिति च विशेषणमनर्थकं । अनुमानप्रतीयमानेपि सन्देहात् । यत्र च विशेषेऽप्रत्यक्षता स
किन्तस्यैवान्यस्य वेति विकल्पः । तस्यैव चेत् स्वरूपं कथमप्रत्यक्षता । अन्यस्य चेत् ।
कथन्तद्दर्शनात्तत्र सन्देहः । तदपि तत्र दृष्टमिति चेत् । यदि नाम दृष्टन्तथापि दृष्टमिति
स्मरणमस्तु कथं सन्देहः । कदाचिन्न दृष्टमपीति चेत् । अन्यदा न दृष्टमित्येवमपि स्मरण
मस्तु कः सन्देहः । उभयत्र युक्तमिति सन्देह एवेति चेत् । कथमुभयदृष्टङ् कालभेदेनेति
चेत् । स्मरणमपि तथैवास्तु कथं सन्देहः । इहेदानीन्न दृश्यत इति सन्देह एव । अदर्शनेन
तर्हि सन्देह इति सामान्येत्याद्ययुक्तं । तस्मादनालम्बना प्रतीतिःसम्भवतीति सन्देहसम्भवः ।
अथ सन्देहो नामार्थ एव तथाभूतप्रतिभासमानः । न(।) अर्थत्वेनाधिमुक्तेरभावात् ।
प्रतीतिमात्रकमेतदिति तत्राधिमोक्षः । न चालौकिकस्वसम्वेदनयोर्विशेष इत्युक्तं । तस्मात्
प्रतिभासमन्तरेण सन्देहो नान्यथा । ततो यद्यनुमानविषयो वस्तुसन्देहो न स्यात् । अस्ति
च ततो न वस्तु ।
अथास्ति तावत्तत्र वस्तु तच्चाध्यवसितमनुमानेन (।) ततः कथमनुमानस्य न वस्तु
विषयः । अत्रोच्यते ।
वह्निप्रतीतावपि सत्त्यधूमाद् यदा मशकवर्त्तिरिति विभ्रमोदयस्तदा चलति दहनप्रती
तिरन्या चोपजायते । न तु प्रत्यक्षप्रतीतावेवञ्चलनं । तत्रापि तिमिरोपघातसम्भावनया
समानमिति चेत् । न । स्वरूपाभासस्य तदभावात् । लोचननिमीलने चलतीति चेत् ।
न । कारणाभावादनुत्पत्तिरेव । अनुमानस्यापि कारणस्य लिङ्गस्याभावादनुत्पतिरेवेति
चेत् । न(।) तस्य धूमसद्भावेप्यन्यथा सम्भावनया चलितत्वे दृष्टेः ।
अथानन्यथा सम्भावनमेव कारणमिति कुतः कारणसम्भवः । तदयुक्तं । तस्य
दर्शनेऽन्यथा सम्भावनमेव न भवेत् । तस्मात् ।
प्रत्यक्षे चलनन्नास्ति चलनञ्चेन्न दर्शनम् ।
योहि दृष्टोऽर्थो न तस्य चलनं । न ह्यन्यथा विकल्प्यमानमन्यथा वस्तु भवति ।
अथापि नायम्वह्निरिति दृश्यमाने चलत्येव ।
अग्निरयन्न भवतीति किमिदमेवं रूपन्न भवति । अथोष्णस्पर्शसहचारीदन्न697
भवति ।
भाविसमीहितवेदनविषयम्वेति विकल्पाः । यदीदमेव न भवति तदशक्यं ।698 दृश्यमान
त्वाद् दृश्यमानमपि नेति सर्वत्र भवेत् । अथ रूपस्पर्शसमुदायोग्निस्तेन स्पर्शसहचारीदं रूपन्न
भवतीति विकल्प्यते । न तर्हि तस्य चक्षुषा ग्रहणन्ततोऽदृष्ट एव । तस्माददृष्टेरेव चलनं ।
अनेन भाविरूपताचलनं व्याख्यातं ।
तस्माद् वस्तुसंस्पर्शनिदर्शनमिति न विकल्पो युक्तः । तस्मादनुमानप्रत्ययो न वस्तु
संस्पर्शी ।
अथवानुमानेपि यदि भावि वस्तु न प्रतिभाति किन्तस्य सत्त्यता भवति । भवति तस्य
पुरुषान्तरेण प्रतीतेः ।
ननु सोपि यदि भाविरूपतया नावगच्छेत् कथन्तस्य सत्त्यता । तैमिरिकप्रतिभासवद
सत्त्यमेव भवेत् । पुरुषान्तरप्रतीतावप्यनुमानमेव । कथन्तेनैव तस्य सत्त्यतावगतिः ।
नासिद्धमसिद्धेन साध्यं । भाविरूपतायाश्च सम्भवे तद्विषयावसाय्येवानुमानं । न च तदा
तदस्तीति कथम्वस्तुविषयमनुमानं । प्रत्यक्षस्यापि तत्रैव प्रामाण्यमिति चेत्(।) यतस्तत्रापि
सत्त्यता भाविरूपप्रत्यतीत्येवान्यथा न सत्त्यता । एवमेतत्तथा च प्रतिपादयिष्यते । तस्मा
दनुमानबुद्धिरसत्यपि समाना । प्रत्यक्षबुद्धिस्तु वस्त्वन्तरेण न भवतीति नानुमानम्वस्तुविषयं ।
अथावस्तुविषयतैवामुख्यता । तदप्यसत् । सर्वमेवानुमानेन वस्तुविषयमिति सिद्धत्वात्
न चेदममुख्यलक्षणम्विपर्ययदर्शनात् । तथाहि ।
भावेप्ययोग्यतया योग्यतया वा प्रधानादिश्रुतिम्प्रवर्त्तयति लोकः । त्वन्मत्या तु वस्तु
विषयत्वात् मुख्यता भवेत् । प्रधानपुरुषादौ तु त्वन्मत्या सा ङ् ख्य पुरुषादिशब्दास्तेषामवस्तुत्वा
दमुख्यता व्यपदेशविकल्पयोः । न चैवं ।
अथ पुत्रादावध्यारोपतोऽमुख्यता प्रधानपुरुषादिशब्दानान्न तर्हि भावेतरविषयत्वम्मुख्ये
तरयोर्लक्षणं । अन्यत्रारोप्यमाणन्तत्र तेन रूपेण नास्त्येव । तेनेदमेव लक्षणं । अनुमानेनापि
तर्हि दृष्टान्तं दृष्टमेव रूपं साध्यस्यारोप्यत इति सिद्धमवस्तुविषयत्वमनुमानस्य । तस्मात् ।
सामान्यमात्रग्रहणे हि नातीतादिविभागः । प्रतिपादितञ्च न केवलङ् गृह्यत इति ।
अथ ता एव व्यक्तयोऽविशेषेण गृह्यमाणाः सामान्यन्ततो वस्तुविषयमनुमानं । अत्रो
च्यते । तदविशेषग्रहणं यदि ज्ञानरूपस्यैव न वस्तुविषयोनुमानस्य । अथ वस्तुत एव
सद्रूपं । तदप्यसत् । तथाहि ।
नहि विशिष्ट रुपाणामविशिष्टरूपता । परस्परविरुद्धयोरेकत्वायोगात् । अनुगत-
207व्यावृत्तङ् गौरित्येकमेव प्रत्यक्षत उपलभ्यत इति चेत् ।। केयमनुगतिर्नाम । या गौर्गोरित्य
नुगतत्वेन प्रतीयते । किमनुगतिरस्ति । तथाचेदनवस्था । स्वरूपमेव तत्तस्या इति चेत् ।
किमसौ स्वेन रूपेणोपलभ्यते । यद्युपलभ्यते द्व्याकारः प्रत्ययो भवेत् । पदार्थरुपमेव तस्या
रूपमिति चेत् । रूपस्यानुगमो रूपस्यैकत्वमतो न व्यक्तिभेदस्तथा च न सामान्यं । अथ
तदेकन्न भवति रूपन्तथापि न सामान्यं । अथ व्यक्तय उपलभ्यन्ते गौर्गोरिति चानुगताकार
प्रत्ययोऽन्यथा कथमेतद् भवेत् । अत्रेदमुच्यते ।
यदि प्रत्ययोऽनुगताकारार्थस्य किमायातं । अथास्यानुगतत्वेन तदनुगतिरिति चेत् ।
स एव तथा व्यपदिश्यताङ् किमन्यव्यपदेशेन । नहि नीलादयो ज्ञानस्य व्यपदेशेन तथोच्यन्ते ।
नीलादयोपि तथा व्यपदिश्यन्त एव । तथाहि (।) नीलाकारसम्वेदनान्नीलन्नान्यथा ।
नैतदप्यस्ति । नहि लोक एव व्यपदिशति । अपि तु नीलम्पश्यामीति नीलपीतर्योर्भेद
मेवावगच्छति सुखदुःखयोर्वा । अत्रापि भेदवेदने इदमत्रानुगतमिदमन्यथेति व्यपदिश्येत ।
अव्यपदेश्यमेवैतदिति चेत् । अथ किमिदमी(?) सतो रूपन्न निर्दिश्यते । निर्देष्टुमशक्यत्वात् ।
यदि निर्देष्टुमशक्यङ्कथम्परस्मै प्रतिपाद्यते । अप्रतिपादितश्च परः कथमप्युपगमयितव्यः ।
ननु सुखादीनामपि कथन्निर्देशः । तेपि न स्वरूपेण प्रतिपादनार्हाः । स्वसम्वेदन
प्रत्यक्षत्वादप्रतिपादनेपि न699
दोषः । तव सुखमस्तीति किमनेन प्रतिपादितेन, मम तु दर्शनेन
सुखमिति प्रतिपादनमुपयोगीति चेत् । न । सम्व्यवहारमात्रकमेवैतद् गणिकादिषु
दर्शनात् । अथ रोमाञ्चादिदर्शनात् प्रत्येति तथापि किम्परप्रतिपादनेनेति यत्किञ्चिदेतत् ।
यतोयं रोमाञ्चादिप्रपञ्चस्तत् सुखादीतिप्रतिपत्तिमात्रेण पर्यवसानात् । अत्रापि यतः
पटः पट इत्युल्लेखस्तत् सामान्यमिति चेत् । नैवमनुगताकारम्व्यतिरिवतमितरद्वा साधितं
सामान्यं । केवलमनादिरयम्व्यवहार इति व्यवहारपरम्परायातमेतदव्यवस्थितवस्तुकं ।
व्यवहारवासनैवास्य निमत्तम्प्रधानादिव्यवहारवत् । नहि भिनाभिन्नमप्यनुभूयते ।
अन्वितत्वं सुवर्ण्णञ्चेदन्वितत्वम्परङ् कुतः । अन्वितप्रत्ययादेतत् प्रागेव प्रतिपादितं ।।
तदेतदास्तान्तावत् । अथापि व्यक्तिरिक्तं सामान्यन्तथापि न तस्य सम्बंधः ।
यदि ताभ्यान्तदसम्बद्धमन्यदेव700 तदा न सामान्यम्पदार्थान्तरत्वात् । नहि घटः पटस्य
सामान्यं । असामान्यात्मकत्वान्न सामान्यमिति चेत् । तदसत् ।
तत्सम्बन्धरूपादिति चेत् । तदेतदायतं ।
अनित्यत्वङ् कुतः शब्देऽनित्यत्वाद (?) नित्यता ।
ननु सम्बद्धत्वस्यासिद्धेः कुतः स एव हेतुरन्यथा सर्वस्य सर्वं सिध्येत् । न च सामान्य
रूपतापि नाम सामान्याभिमंतस्य सिद्धा । अथ सम्बन्धः सिद्धः । एवमप्यशेषव्यक्ति
ग्रहणम्भवेदशेषसम्बन्धिरूपत्वात् । न च सम्बन्धिरूपताव्यतिरेकेणापरं सामान्यं । समाना
कारमिति चेत् । समानाकारतेति सम्बन्ध एव तथा व्यपदिश्यते । व्यक्त्यपेक्षया हि
समानाकारता न स्वरूपापेक्षया । स्वरूपस्य सर्वत्र स्वात्मनि व्यवस्थितेः । व्यक्त्यपेक्षया
च समानत्वे व्यक्तिग्रहणमन्तरेणाग्रहणात् । अन्यव्यावृत्तेरपि सामान्यस्यायमेव दोषः ।
न । व्यावृत्तेरदुष्टत्वात् परस्परविशिष्टानामपि परतोऽभिमतात् व्यावृत्तिरविरुद्धा ।
समानव्यवहारोपि तदेकार्थक्रियाकरणात् अविरुद्ध ए व । अलक्षितनानात्वस्य हि समाना
कारता केन वार्यते । असमानेषु कथं समानबुद्धिः । न (।) तत एव समानत्वात् । नहि
समानताऽन्यैव काचिदन्यत्र समानाकारप्रत्ययविषयीकरणात् । तत्रासमानेषु कथं समा
नाक(ा)रबुद्धिरिति पर्यनुयोगस्यायमर्थः । असमानबुद्धिविषयेषु कथं समानबुद्धिः ।
बुद्ध्यविषयत्वञ्च सिद्धं । नहि सामान्यवादिनोपि तत्र सामान्यबुद्धिविषयीकरणमसिद्धम् ।
नहि समानाकारता भ्रान्तप्रत्ययाकारव्यतिरेकेणापरोपपादयितुं शक्या । अथ सामान्या
कारता यथासम्भवं यत्र द्वयन्तत्र तथेति । एवन्तर्ह्यपरापरव्यक्त्युत्पत्तौ परिबर्द्धमानाकारं
सामान्यम्व्यक्त्यन्वयव्यतिरेकानुविधानात् कार्यमेव व्यक्तीनां । तथासत्यनेकता व्यक्तिवदेव
प्रसक्ता । प्रत्यभिज्ञायमानत्वादेकत्वमिति चेत् । सामान्येपि समानाकारतेत्यनवस्था ।
अथ न प्रतीयत एव सामान्ये सामान्यम्व्यक्तावपि नेति समानः पर्यनुयोगः। प्रत्यभि
ज्ञायान्तु सामान्येनानेकान्तः । सामान्येष्वपि प्रत्यभिज्ञानदर्शनात् । नश्वरञ्च सामान्यन्ना
भिमतम्प्राप्नोति च व्यक्तिविनाशे विनाशात् । वस्तुत्वाच्च नश्वरता । वस्तुमात्रानुबन्धी हि
विनाश इति साधयिष्यते । अजन्यतायाञ्च सामान्यस्यासम्बद्धता । अरूपता च । प्रतिनियता
कारपरिग्रहे हि वस्तुत्वं स च सामान्यस्य व्यापिनो न सम्भवति । नहि सामान्यं सकलकालक
लाकलापावलीढम्प्रतिपत्तुं शक्यं । उपलम्भ एव च सत्त्वन्तदभावे कुतः सत्त्वं । सत्तासम्बन्धतः
सत्त्यामिति चेत् । सत्ताया अपि सत्तासम्बन्ध इत्यनवस्था । न च व्यतिरिक्तसत्तासम्बन्धः
सामान्यस्य (।) स्वरूपसत्त्वेनैव सत्त्वात् । न चोपलम्भव्यतिरेकेण तदुपलब्धं । तस्मादसत्
सामान्यं । स्वरूपसत्त्वञ्च खरविषाणस्य कस्मान्न भवति । तवापि किन्नेति चेत् । कारणा
भावात् । तथा चेत् सामान्यमप्यसत् तत्रापि कारणाभावात् । प्रतीयात् सामान्यमिति चेत् ।
उक्तमत्र (।) शशविषाणादयोपि स्वबुद्ध्या प्रतीयन्त एव तेपि सन्तः स्युः । निरूप्यमाणा नेति
चेत् । सर्वं समानं ।
किञ्च । सामान्यमेतत्सङ्केतबलात् प्रतिभासते शाब्द्याम्बुद्धौ । तथात्र न वस्तु ।
तथाहि ।
सङ्केतो हि क्रियमाणः सन्निहितमात्रमवलम्व्य न क्रियते । तदपेक्ष्यश्च प्रत्ययः
समारोपित एव । तथाहि ।
शब्दसामर्थ्यादेव व्यवहारकाले प्रतीतिरिति चेत् । यदि पूर्वापराध्यारोपो न स्यान्न
भवेत् प्रतीतिः । न च शब्दात् सामान्यबुद्धिः सङ्केतमन्तरेण दृष्टा । व्यक्त्यन्तरदर्शनाद्
भवत्येव शब्दमन्तरेणेति चेत् । तत्रापि तदेव लिङ्गन्तद्रूपव्यवहारभावे सङ्केतग्रहणमुप
लक्षणं लिङ्गमपि पूर्व्वाध्यारोपमेव जनयति नाधिकं(।)तथा हू णा दि701
जातिर्द्विजादिजातिश्च
सङ्केतमात्रबलावलम्बिनी न वस्त्वपेक्षते । सङ्केतसहितम्प्रत्यक्षम्प्रमाणन्द्विजादिजातिषु चेत् ।
न(।)वस्तुबलेन यज्जायते न तत्सङ्केतमपेक्षते सङ्केतमात्रापेक्षणेऽन्धपरम्परैव स्यात् ।
प्रत्यक्षमपि सहकारि विद्यत इति चेत् । अत्रोच्यते ।
यदि प्रत्यक्षेण गृहीतङ् किमुपदेशेन तेनैव ग्रहणात् । अथ प्रत्यक्षेण प्रत्येतुमशक्यं
किमुपदेशसहस्रेणापि शक्यम्प्रत्याययितुं । दृष्टे हि पुरुषोपदेशो मयैतद् दृष्टमिति स्यात् ।
अतीन्द्रिये तु द्विजातित्वे नोपदेशस्य सामर्थ्यात् । तदेवाह ।
तत्पुरुषबुद्धिप्रभवमप्रमाणमेव । अथापि स्याद् (।) अनुगताकारा बुद्धिः पदार्थद्वयदर्शने
सङ्केतमन्तरेण भवत्येव । यथा गवादिबिुद्धिः शावलेयादिदर्शनादेव न तत्र सङ्केतो
पेक्ष्यते । एवन्तर्हि ।
ब्राह्यणत्वमजातिः स्यात् तथा तस्याप्रतीतितः ।
गोत्वे यद्यन्यथा बाह्यङ् किं सन्देग्ध्यत्र703 कश्चन ।
प्रत्यभिज्ञानमेकत्व उत यत्रापि सम्भवि ।
210
उदात्तघर्घंरादिभेदो हि इकारादिष्वपि तदनन्ततानिबन्धनमस्त्येव । प्रत्यभिज्ञाना
देकत्वङ् घर्घरत्वादिभेदेपि विद्यत इति समानङ् कर्क्कादिषु । तस्माद गोत्वादावपि गोशब्द
वाच्यता व्यतिरेकेण नापरङ् गोत्वमिति । अर्थप्रत्यासत्तिरेकशब्दवाच्यतैकपरामर्शजनन
ञ्चेति न जातिर्नामास्ति क्वचित् । अथापि स्यात् सैव शब्दवाच्यता (।) एकपरामर्श
जननन्न जातिमन्तरेण । तदप्यसत् ।
न खल्वेककार्यजननलक्षणा प्रत्यासत्तिश्चक्षुरालोकमनस्काराणाञ्जातिमन्तरेणासम्भ
विनी । सहकारिणां सम्भवत्येवेति चेत् । वस्तुद्वयेक्षणेपि सहकारित्वमेव भवत्येकबुद्धिः
समानकारता नास्तीति चेत् । न । प्रमेये समानाकारताया वस्तुद्वयव्यतिरेकेणादर्शनादिति
प्रतिपादनात् । बुद्धिजननमेवावशिष्यते । तच्चक्षुरादिष्वपि समानं । तेषामपि तदेकप्रत्यय
जनकत्वमस्तीति चेत् । शावलेयादीनामप्येकपरामर्शजननात् नापरमिति समानः प्रसङ्गः (।)
तदेव वस्तुभूतमिति चेत् । अन्यथा त एव तत्प्रत्ययञ्चनयन्ति नान्य इति कुतोयम्विभागः ।
जातिरपि तर्हि शावलेयादिषु नान्यत्रेति कुतोयम्विभागः । तत्र विभागकारिणापरेण सामान्येन
भवितव्यन्तस्यापि विभागवृत्तिनिबन्धनेन नापरेंणेत्यनवस्था भवेत् । अथ तथा भूतङ्कारणन्तेषां
येन त एव शावलेयादयो व्यञ्जका गोत्वस्य तदाधेया चेति । एवन्तर्हि जातिमन्तरेणैव
तत्परामर्शजननं स्वकारणवशादिति किम्परिहीयते जातिम्विनेत्याग्रहस्त्यज्यताञ्जातौ ।
न च चक्षुरादिषु सामान्यं ।
नहि चक्षुरादिषु सामान्यङ् कथञ्चिदपि प्रतिभाति । कार्यद्वारेणापि प्रतीयते ।
कार्यद्वारेणापि प्रतीयमानन्तदेककार्यमिति प्रतीयते । तथा च तेषामेकेने कार्येण सम्बन्ध इति
स्यान्न सामान्यं । सम्बन्धोपि सर्वत्रैकः सामान्यमिति चेत् । न । सम्बन्धस्यापि कथञ्चि
दप्रतिभासनात् (।) तदनन्तरङ् कार्यस्योपलब्धिरेव तेन नापरः सम्बन्ध उपलभ्यते । उक्तञ्च
कार्यमपि सम्बव्यते कल्पनयेति । अथ शक्तिरेका सर्वषामित्युच्यते । न शक्तेः शक्तिमतो
ऽव्यतिरेकादिति प्रतिपादितं । न च शक्तिरपि प्रतिभाति । अदृष्टापि शक्तिः कस्मान्न
परिकल्प्यते इन्द्रियादिवदिति चेत् । तदसत् । तत्रातीन्द्रियत्वस्योपगमादस्माभिरनुप
लम्भः । अजाजीपुष्पवदित्यादि705
वचनात् । न च सामान्यमागमैकसमाधिगम्यं । कार्यव्यति
रेकेण च किमपि रुपादिप्रतिभासस्य कारणमस्ति । तत्किङ् गोलकावस्था706 व्यतिरिक्तमथान्यथेति
नात्र विवेकः । तथाहि ।
व्यतिरिक्तङ् किमप्यस्ति विशिष्टङ् गोलकन्तथा ।
यस्य हि वाह्योर्थोऽव्यतिरेकात् कार्यस्य न सिध्यति स किञ्चक्षुरादीनाङ् कार्यव्यतिरेकाद्
व्यतिरिक्तानामनुमानं क्षमते । तस्माद् यथा कथञ्चिदनुमानमनवस्थितप्रमेयमेवतदिति न
तद्द्वारेणोपलम्भः । रूपवत्वेत्वनागम एव । तथा सति ।
अतीन्द्रियस्यैषैव गतीरूपवत्वेनोपगमात् । न तु सामान्यमेवं केवलस्य दर्शनानभ्युपग
मात् । यदि योगिनाङ् केवलं सामान्यमुपलभ्येत(।) न सामान्यं भवेत् । अथ समानाकारा
बुद्धिरुत्पद्यते । तस्या इदन्निवन्धममिति योगिनः पश्यन्ति । नैवम्प्रमाणसिद्धता सामान्यस्य ।
अस्माभिस्तु सामान्यं न दृश्यत एव पृथक् । व्यक्तिव्यङ्ग्यत्वात् सामान्यस्य न केवलग्रहणं
नह्यालोकग्रहणमन्तरेण रूपग्रहः ।
तदप्यसत् । रूपं स्पर्शाद्यव्यभिचारीति गृह्यतेऽनुमाने नालोकमन्तरेणापि । यदि तु न
गृह्येत न भवेदेवालोकाद् व्यतिरेकः । नाप्रसिद्धव्यतिरेकम्व्यतिरेकीत्यभ्युपगमार्हं । सामान्यन्तु
न केवलङ् कदाचिदुपलब्धिविषयः । व्यक्तिरूपानुप्रवेशे तु न विद्यत एव । यदि परङ् गौर्गौ
रिति नाममात्रकं । अथ समानदेशतया न विवेकोपलब्धिः कथं रूपरसादीनान्तेषां
भिन्नेन्द्रियग्राह्यत्वाद् विवेक इति चेत् । अत्र तु पुनरविभागप्रतिपत्तिरत्यन्तसंसर्ग्गात् ।
वस्तुव्यतिरेकेण कुतोन्यो देशः वस्तु चेद् भिन्नं देशोपि भिन्न एव कथन्देशाभेदः ।
यतश्च स्वरूपेण न प्रतिभाति खरादिविषाणवत् ।।
यदेव न प्रतिभाति स्वरूपेण ग्राह्याभिमतं स न भवत्यालम्बनप्रत्ययः । स्वाकारार्प्पणार्थान्न
सत्वाच्चक्षुरादिवत्707
अधिपतिप्रत्ययो भविष्यतीति चेत् । न(।) तत्राप्यन्वयव्यतिरेकाभावात् ।।
यत् पुनः स्वाकारेण प्रतिभासतेऽन्वयव्यतिरेकाम्यामवधृतसामर्थ्यन्तत् परमार्थसत्
स्वलक्षणं स्वेनरूपेण लक्षमाणत्वात्708 । स्वरूपं लक्षणमस्येति ।
न तु स्वरूपेण कथं लक्ष्यलक्षणभावः । न(।) लक्ष्यलक्षणभावस्य काल्पनिकत्वात् ।
इति च वक्ष्यते । स्वरूपमेव लक्षणं युक्तन्नान्यत् । अन्येनान्यस्य परमार्थतो
लक्षयितुमशक्यत्वात् । पररूपेण हि लक्षणम्पररूप
ताध्यारोप एव न स्वरूपलक्षणन्तत् ।
कथन्तर्हि सामान्यलक्षणं । अव्यक्तिव्यापनात् । सत्यमेतन्न परमार्थतः सामान्यन्नाम ।
स्वरूपमेव तदपि ज्ञानस्य । व्यवहारादेवमुच्यते । अनेकव्यक्तिस्वरूपाध्यारोपेण वर्त्तमान
212 त्वात् तत उत्पत्तेश्च । कथमवस्तुत्वे सति, अनुपलम्भकार्यस्वभावहेतुभेदः । प्रत्यक्षानुमान
योर्विषयभेदाद् भे
दः । अनुपलम्भादीनान्तु न विषयभेदः । लिङ्गभेदाद् भेद इति चेत् । ननु
तदेव चोदितन्तदेव परिहार इति कथमेतत् । तथाहि लिङ्गभेद एव न युक्तः । अथ दृश्यते
षड्भेदता तर्हि प्राप्नोति । अथवा द्वौ वस्तुसाधनावेकः प्रतिषेधहेतुरिति वक्ष्यते । कथमवस्तुत्वे
समाने वस्त्ववस्तुविभागः । अत्र परिहारमाह ।
न परमार्थतो भेदः सर्वत्रावस्तुत्वा207b त् । भावाभावोभयाश्रयत्वेन तु कार्यस्य ज्ञानस्य
भेदात् तत्कारित्वेन स्वभावानुपलब्धिकार्यहेतुभेदः । तथाहि । भावोपादानो विकल्पः
स्वभावहेतोरुदयी । अभावोपादानोऽनुपलब्धेः । उ
भयोपादानो विकल्पः कार्यहेतोरिति व्यति
रिक्तसाधनः कार्यहेतुः । भावाभावाभ्यां हि व्य
तिरेको भवति । व्यतिरिक्तञ्च कारणं साध्यं ।
अथवाऽवस्तुत्वेपि भावाभावोपादानतया भेदमुपादानभेदादाश्रित्य709
विषयभेदः । भाव एव
द्विविधो व्यतिरिक्तोऽव्यतिरिक्तश्चेति विषयभेदाद् भेदप्रकारस्त्रिविधस्तत्र710 । (सदसतोः
विषययोरदृश्यानुपलब्धिः)711 । उभयोपादानभेदोऽदृश्यानुपलब्धिर्विषयः ।।
नहि भा
वाश्रयं ज्ञानमित्येव भावे भवति । भावविषयत्वं हि भावस्वरूपग्रहणात् । न
च स्वरूपग्राही सामान्यविषयो विकल्पो वैफल्यादक्षसंहतेः (२।११०) इत्युक्तं ।
अथ भावे सतीत्युच्यते तदासिद्धं । भावमन्तरेणाप्यतीतादिषु दृष्टत्वात् । यदि
सामान्ये तज्ज्ञानम्विशेषे वा(।) नातीतादिविषयता भावस्य स्वरूपेण ग्रृह्यमाणस्याती
तत्वत्यागात् ।
नात्र लोको भावविषयत्वमवगच्छति । भावो नास्ति स्वरूपाभिनिवेशी भवति प्रत्यय इति
भ्रान्तिमात्रकं । उक्तोत्तरत्वादिति च विपर्यये 208a प्रमाणवृत्तिरुपदर्शिता । दृष्टत्वादिति परा
भिमतस्य हेतोरनैकान्तिकोद्भावनं । यदि तर्ह्यभावेपि विकल्पस्य दृष्टिर्भावेपि तदा तर्हि
भावधर्मता हीयते । एवेत्युभयधर्मता स्यात् तदाह ।
वधर्मत्वहानिश्चेद् भावग्रहणपूर्वकं ।
तज्ज्ञानमेव न तत्र किञ्चिदालम्बनं । परोक्षस्य सामान्यस्यामेयत्वात712 । परोक्षं हि
सामान्यन्तच्च स्वरूपेणाप्रतीयमानङ्कथम्मे
यं ।
PV 3.53d
नहि सामान्यन्नाम प्रमेयं । यथाकल्पनमयोगात् । स्वलक्षण
मेव परमार्थतः प्रमेयं । तस्यैव सदसत्त्वेनावबोधस्य प्रयोजनत्वात् ।
ad PV 3.54
कुत एतत् ।
अर्थक्रियाकारिणो हि पदार्थस्य सत्त्वासत्त्वाभ्यामर्थिता प्रेक्षावतां । तदवबोधाय च
प्रमाणमन्विष्यते । अन्यथा प्रमाणपरीक्षणमप्रेक्षापूर्वक्रियैव भवेत् ।713 तस्मादर्थक्रियाकारि
पदार्थभावाभावविषयीकरणसमर्थमर्थवत्प्रमाणं । तस्मात् द्वाभ्यामपि प्रत्यक्षानुमानभ्यां स्व
लक्षणमेव विषयीकर्तव्यं । अन्यथा प्रमाणत्वायोगात् । यदि स्वलक्षणमेव द्वाभ्यामपि विषयी
क्रियते एकविषयत्वात् एकमेव मानम्प्रसक्तं । अथैकविषयत्वेपि714 सामग्रीभेदात् प्रमाणभेद
एवं सति प्रमेयद्वैविध्यादिति विरुध्यते । उक्तञ्चाचार्येण यस्माल्लक्षणद्वयम्प्रमेयमिति ।
सामग्रीभेदेन च प्रमाणभेदे चक्षुरादिविज्ञानानामपि भेदः सामग्र्या इति तावन्ति प्रमाणानि
भवेयुः ।
ननु प्रमेयभेदेनापि भेदेऽनेकनीलादिप्रमेयत्वादनन्तप्रमाणप्रसङ्गः । न(।) सर्वेषां
स्वलक्षणत्वस्य भावात् । तद्विषयमेकमेव प्रमाणमेकविषयत्वात् । सामग्रीभेदेपि सत्य°सति अ°सति अक्ष
जत्वस्य भावात् किन्न सर्वम्प्रत्यक्षमि°म्प्रत्यक्षमि°ཚད་མ་ति चेत्नाक्षनाक्ष°(न) अक्षजत्वस्यालक्षणत्वात् । तथा च प्रतिपाद
यिष्यते । तस्मात् प्रमेयद्वैविध्यादेव द्वैविध्यं । अन्यथाऽनन्तप्रमाणता भवेत् । कथम्प्र
मेयस्यानन्तता नेति चेत् । नान°नान°न(।)अनन्तत्वेपि नीलादित्वे प्रमेय°त्वेनप्रमेय°715त्वेन प्रमेयद्वित्वमेव716 । यतः ।
स्वरूपप्रतिभासनेन नीलादयोऽनन्तभेदत्वेपि स्वलक्षणमेव स्वेन रूपेण लक्षणात् ।
ननु प्रतिप
त्तिभेदेनभेदेन°प्रतिप
पतिभेदेनभेदेन°प्रतिप
त्तिभेदेनाभेदे717 नརྟོགས་པའི་དབྱེ་བ་ཐ་དད་པ་ཡིན་ན་718 पारमार्थिकं स्वलक्षणत्वं । तत्प्रतिपत्यभावेऽन्यप्रति
पत्तिसम्मुखीभावेऽस्वलक्षणत्वात् । तथा तदैवैकमेकस्य स्वलक्षणमपरस्यान्यथा । न च प्रतिप्रतिपत्तृ°प्रतिप्रतिपत्तृ°प्रतिपत्तृप्रमेयभेदः । अपेक्षाकृतस्य भेदस्य काल्पनिकत्वादपरमार्थता । एकस्य च स्वलक्षण
त्वेतरत्वेतदुभयरूपम्प्रमेयान्तरमिति तत्रापरम्प्र
माणमुद्भवेत् । तदेतदसत् ।
अत्रोच्यते ।
न हि स्वरूपोपलभ्यमानतामनासाद्य भावाः सत्तामात्मसात्कुर्वन्ति ।
ननूपलम्भेन ज्ञाप्यते
सत्ता न तु स एव सत्ता । अनुसत्ताअनु°सत्ता (।) अनु°719पलभ्यमानस्य शशविषाणादे
रसत्त्वात् । विपर्ययादुपलम्भः सत्तेति व्यवस्थाव्यवस्थ720व्यवस्था ।
ननु तत्राप्यसत्त्वे721ऽनुपलम्भो न त्वनुपलम्भ एवासत्त्वं । नानुपलम्भव्यतिरेकेणासत्त्वम
परं ।།གལ་ཏེ་དེ་ལ་ཡང་མེད་པས་མ་དམིགས་པ་ཉིད་ནི་མེད་པ་མ་ཡིན་ན། མ་དམིགས་པ་ལས་མེད་པ་ཉིད་གཞན་ནི་མེད་དོ། अनुपलम्भेन यत्प्रतीयते तदसत्त्वमिति चेत् । कोयमनुपलम्भः(।) किमुपलम्भाभावोऽ
थान्योपलम्भः किम्वा नोपलभनोपलभेनोपलभ इति
विकल्पः । यद्युपलम्भाभावःयद्युपलम्भावःयद्युपलम्भाभावःགལ་ཏེ་དམིགས་པ་མེད་པ་མ་དམིགས་པ་ཡིན་ན་ (यद्युपलम्भाभावो ऽनुपलम्भः) कथमतः प्रतीतिः । नाभावः
प्रतीतिः । सो ऽप्यसो ऽप्य°सोप्यभावोन्येनोपलम्भाभावेन°पलम्भाभावेन°पलम्भभावेन प्रत्येय इत्यनवस्था ।
ननूपलम्भस्यापर उपलम्भो नास्तीति नोपलम्भभावेनདམིགས་པ་མེད་པས་722 तस्य प्रतीतिर्येनानवस्था भवेत्
परोक्षत्वज्ज्ञानस्य । यदि परोक्षं ज्ञानङ्कज्ञानङ्क°क्षानङ्कथन्तस्य भावः प्रतीयते । यथा च पदार्थस्यानु
214
पलम्भादभावप्रतीतिस्त°प्रतीतिस्त°प्रतीतेस्तथा ज्ञानस्यापि स्यादिति वैशसतरं723 । अथ तत्रार्थापत्तिरस्ति । अपरोक्षत्वादर्शस्य तेन न प्रमाणपञ्चकाभावः ।
नन्वर्थापत्तिरपि बुद्धिरेव ततो बुद्ध्यन्तरेण बुद्धिः प्रतीयते । ततश्च तत्रापरार्था
पत्तिर्नास्तीति प्रमाणपञ्चकाभावादर्थापत्तिबुद्धिर्नास्तीति प्राप्तं । अथ तत्र प्रमेयप्रतिपत्तिर
स्तीति पुनरर्थापत्तिरनवस्थानादप्रतिपत्तिः ।
ननु प्रतिपत्तिर्दृश्यते । यदि दर्शनमात्रमवलम्ब्यते किमर्थापत्त्या । यथा दृश्यते
तथैवास्तु । अपरोक्षो दृश्यते स तथैवास्तु किमर्थापत्त्या बुद्धिपरिकल्पनया ।
नन्वर्थापत्तिरुत्पद्यते । यद्येवमनवस्थानादप्रतिपत्यध्यवसायोपि भवत्येव स कथमनिष्टः यदायथादायदा चोपलभ्यमानताऽपरोक्षता वा बुद्धेस्तबुद्धेस्तबुद्धिस्तदा तदभावप्रतिपत्तावनवस्था ।
अथ पदार्थानुपलम्भ एवोपलम्भानुपलम्भः । एवं सत्यनुपलम्भमानोप्युपलम्भोऽस्त्येवेति
प्राप्तं । स एवाभाव इति चेत् । यद्यनुपलम्भोऽभाव उपलम्भोपि भाव इति प्राप्तं । अथान्यो
पलम्भ एवानुपलम्भः ।
तदप्ययुक्क्तं । यदि नामान्योपलम्भस्य नाम कृतङ् कथमन्यो नास्ति । तस्योपलम्भा
भावादिति चेत् । दत्तमत्रोत्तरम् । स एवान्यस्योपलम्भोऽन्यत्र न प्रवृत्त इति तदन्यस्यानु
पलम्भः । यदिनामान्यत्र न प्रवृत्तस्तथापि तस्याभाव इति कुतः । अथोपलब्धिलक्षण
प्राप्तस्याभाव724 एव । अन्यथा तत्रापि प्रवर्त्तेत तस्यापि तद्वदेवोपलभ्यमानत्वात् । न
चोपलभ्यते । तस्यानुपलम्भः केन प्रतिपन्नोऽभावलक्षण इति सैवानवस्था । प्रतिनियताकारो
पलम्भादिति चेत् । ननु किमियमर्थापत्तिः(।) तथेति चेत् । अनवस्थोक्ता । प्रतिनियता
कारोपलम्भ एव उपलम्भाभावोऽपरस्येति चेत् । एवन्तर्हि नाभावो नाम कश्चिदन्यत्रापर
भावादतोऽपरो योऽभावोऽन्यापेक्षया स्वापेक्षमभाव इति । तच्च रूपम्प्रतिनियतमुपलभ्यमान
तायामेव । तत उपलम्भः सत्तोच्यते ।
ननु प्रतिनियतत्वे उपलभ्यमानताप्रतिनियमो न तु स एव प्रतिनियमः । नन्वनुपलभ्य
मानतायाङ् कथम्प्रतिनियम इति बुद्धिरुपलभ्यमानताप्रसादादेव । तस्मादुपलभ्यमानतैव सत्ता ।
अथ नोपलभे इति विकल्प एवानुपलम्भः । तदपि नानोपलभे इति विकल्पोनुपलब्धि
मेवानुसरति । सा चानुपलब्धिविंचारिता । तस्मादुपलब्धिः सत्तेति । उपलभ्यमानतैव
प्रमेयतत्त्वं । यदि तर्हि तदेव परमार्थसत्त्वन्न कस्यचिदन्यथा भवेत् । नैतदन्यथा भवति ।
पुरुषान्तरापेक्षयापि तत्तथैव भवति नीलादिवदेव । परोक्षतया कथन्तदेव तत्प्रतीयत इति चेत् ।
तेनैव रूपेण परोक्षतयापि प्रतीयमानन्तत् । यदि तु न केनचित् तथा प्रतीयते नापि प्रत्येष्यते
वृथा तदनुमानं । तदाऽप्रतीयमानङ् कथन्तथेति चेत् । अन्यथापि तद् भवति तदेवेति
कुतः । उपलब्धेरभावादन्यथेति चेत् । ननूपलब्धरेभावादभाव एव । नन्वभावेप्यनुपलब्धिः
स्यात् कथमभावः । ननु भावे प्रमाणभावे सत्येवम्वाच्यं स्यात् । अनुमानम्प्रमाणमिति
चेत् । तदपि दृष्टमेव रूपमनुसरति । पश्चाद्दर्शनात्कथम्पूर्वन्दृश्यमानता । यदि दृश्य
मानता नास्ति कथं सत्त्वं । पश्चादुपलम्भादिति चेत् । पश्चादेव सत्त्वमस्तु कथम्पूर्व्वं ।
ननु पूर्वमविद्यमानङ् कथम्पश्चादुपलभ्यते । उपलभ्यमानतया प्रतीतेरुपलभ्य
मानतया प्रतीतेरुपलब्धमन्यथान्यथेति चेत् । अन्यदापि तद्रूपेणैवाध्यवसीयत इति नान्यथा
सत्त्वम्(।) अन्यथा प्रतिपत्तुमशक्यत्वात् । अनुमानञ्च भाविसत्तायाम्प्रमाणमिति प्रति
पादयिष्यते । कथन्तर्हि मेयान्तरं । तस्यैव पररूपेण प्रतीतेः । तथा प्रतीयमानन्दृष्टान्त
साधारणेन रूपेण मेयान्तरं । प्रतिपत्तिभेदेन तद्रूपारोपान्न परमार्थतः । एवन्तर्ह्यपेक्षाकृतत्वान्न
परमार्थता । सत्यमवस्तुसामान्यमिति प्रतिपादितमेव नेदमपूर्वमुच्यते । वस्तुसम्वादद्वारेण
व्यवहारिभिरलक्षितनानात्वैर्वस्त्विति व्यवह्रियते । तेन तदपेक्षयेदमुच्यते प्रमेयद्वैविध्यं ।
व्यवहारिभिरलक्षितनानात्वैर्वस्त्विति व्यवह्रियते । तेन तदपेक्षयेदमुच्यते प्रमेयद्वैविध्यं ।
अथोभयरूपत्वादुभयग्राहिप्रमाणान्तरम्भवेदिति मतिः ।
तदयुक्तं । उभयरूपतयैकेन प्रतिपत्तुमशक्यत्वात् । प्रतिपत्तौ वा प्रमाणद्वयमेव
तत् । प्रतित्तिभेदे एव भेदात् । अथवा प्रतिपत्तिभेदादपारमार्थिकमेव लक्षणमिति नो
भयरूपताप्रसङ्गः । नीलादितैव हि पदार्थस्वभावः । सा च नापेक्षाभेदाद् भेदवती ।
कथन्तर्हि पारमार्थिकप्रमेयाभावात्प्रमाणत्वं ।
अत्रोच्यते ।
३. अनुमानचिन्ता
(१) अनुमानसिद्धिः
कथन्तर्हि परमार्थस्य विषयीकरणाद् भेदः । स्वरूपसाक्षात्करणे हि प्रत्यक्षतैव भवेत् ।
तदसंस्पर्शे कथन्तद्विषयता । अत्रोच्यते ।
यथासावर्थ इदानीमिह कारणभेदतः भिन्नस्तथासावभिनिवेशो न भवतीति अयथा
भिनिवेशिनी भ्रान्तिरेव । पूर्वदृष्टार्थजनितवासनाप्रबोधबलभावित्वादवस्तुसंस्पशोपितदध्य
वसायात् । यदि तर्हि वस्तुसंस्पर्शाभावः प्रमाणमेव भवति । अविसम्वादात् प्रमाणमेवेति
चेत् । स एव विसम्वादोन्यगतावन्यप्राप्तेर्न्न स्यात् । तदाह ।
यदि पररूपेण गतिः कथन्तस्य गतिः पररूपस्यैवासौ गतिः । तत्रान्यस्य भ्रान्तौ भ्रान्ति
रेव,725
भ्रान्तिश्च न प्रमाणता । परिहारः ।
अन्यत्रापि यथाभिनिवेशः726 कथमवगन्तव्यः । अभिप्रायाविसम्वादादेव । स चात्रा216 स्तीति नायथार्थाभिनिवेशः । इदन्तु वासनाबलाज्ज्ञानम्प्रतिभासभेदतो भेद इति नैवम्व्यव
हारिणो विदन्ति । व्याख्यातृप्रतीतिरेवेयं । स एवाभिप्रायः कथमन्यदर्शनादिति चेत् । न
विकल्पानाम्वस्तुप्रतिनियमाभावात् । अनादिवासनासामर्थ्यमेवैतत् । ततः कथमपरिच्छि
न्नतत्त्वस्तत्र प्रवर्त्तत इति न चोद्यमेतत् । दृष्टे च नानुपपत्तिसम्भवः । प्रत्यक्षेपि कथम्प्रवर्त्तते ।
तत्रापि नैव प्राप्तव्यरूपपरिच्छेदः । सन्निहितमात्रस्य परिच्छेदात् । प्रत्युत (किन्त्वर्थे) प्रत्यक्षमे
वा प्रवर्त्तकं सन्निहितमात्रस्य परिप्राप्तेः । तत्रापि तदेकत्वाध्यवसायादेव वृत्तिर्भाविनि वस्तुनि ।
ततोनुमानेप्येवमेव वृत्तिः कथमसमानतयेक्ष्यते । अथ प्रत्यक्षमेकत्वाध्यवासायरूपन्न भवति
परिच्छेदकमेव सन्निहितस्य । एकत्वाध्यवसायस्तु तदुत्तरकालन्न विना विकल्पेन । तदसत् ।
यथैव हि प्रत्यक्षसन्निहितरूपादिमात्रग्राहि विकल्पान्तरेणैकत्वाध्यासे सति प्रवर्त्तक
न्तथाऽनुमानं सुतरां स्वरूपस्य सन्निहिततरस्य ग्राहकमिति । तत्रापि विकल्पान्तरेणैव भाव्यध्यव
सायात् प्रवर्त्तकत्वं ।
अथ स्वरूपेणैवानुनानमध्यवसायरूपत्वात् प्रवर्त्तकमवस्तुसंस्पर्शि चेत् प्रमाणं ।
प्रत्यक्षस्य तु वस्तुसंस्पर्शितया प्रमाणता । तदप्यसत् ।
येन रूपेण वस्तुसंस्पर्शो न तेन रूपेण प्रमाणं । प्रवर्त्तकत्वाभावात् । अथ तदेव
रूपम्विकल्पजनने यत् प्रवर्त्तकं ।727
अथ किम्विकल्पस्य प्रवर्त्तकत्वमस्ति येन तद्द्वारेण प्रत्यक्षस्य प्रवर्त्तकता । तद्धि स्वयम
प्रवर्त्तकं । अप्रवर्त्तकविकल्पजननेन प्रवर्त्तकमिति केयम्वाचो युक्तिः ।
यदि हि विकल्पजननद्वारेण प्रत्यक्षम्प्रवर्त्तकं । आयातन्तर्हि विकल्पस्य प्रवर्त्तकत्वात्
प्रमाणत्वं । तथासत्यनुमानस्य प्रामाण्यमव्याहतमेव । अनुमानस्यावस्तुग्रहणादप्रामाण्यम
प्रवर्त्तकत्वादिति चेत् । कथन्तर्हि विकल्पस्य प्रत्यक्षोत्तरकालभाविनः । तत्र प्रत्यक्षस्य वस्तु
ग्रहणात् । न विकल्पे भाविनि तस्याप्रवृत्तेः । तत्सन्ताने प्रवृत्तत्वात्प्रवृत्तिरिति चेत् । कथम्
प्रथमक्षणस्य सन्तानता । न चान्यत्र वृत्तमन्यत्र वृत्तम्भवति । तथा चेदनुमानमपि स्वरूपे
बृत्तमर्थेपि वृत्तमेव भवेत् । उपचारमात्रमेतन्न परमार्थसत्येपि नोत्तरं । प्रत्यक्षमपि एकत्र
वृत्तमन्यत्रापि वृत्तमिति नोपचारादेतदन्यत् । प्रत्यक्षन्तज्जातीये वृत्तमनुमानन्तु तत्रापि नेति
व्याहतं । विकल्पस्य प्रत्यक्षोत्तरकालभाविनस्तज्जातीये वृत्यभावात् । तत्र प्रत्यक्षस्य
वृत्तिरिति परिहारेऽनुमानेप्येतदिति समानमेतत् । अनुमानविषयतज्जातीये प्रत्यक्षवृत्तेः ।
महानसदहने हि प्रत्यक्षम्प्रवृत्तमेव । अनुमानविषयेतत्रास्तीति चेत् । सर्व्वं समानं । तथा हि ।
विकल्प्येऽकारणन्दृश्यमनुमानेपि कार्यदृक् ।
यथा विकल्पस्य प्रत्यक्षोत्तरकालभाविनो विषयप्रत्यक्षमप्रवृत्तमपि तत्कारणे वृत्तम्वि
कल्पस्य प्रवृर्त्तकत्वप्रामाण्यम्विदधाति । तथाऽनुमानविषयेऽप्रवृत्तमपि तत्कार्यं प्रवृत्तमनुमानस्यापि
प्रामाण्यम्विदधातु । सम्बन्धविशेषात् । कार्यकारणसम्बन्ध उभयत्र समानः । प्रत्युत्कारणात्728
कार्यगतिरनैकान्तिकीति प्रत्यक्षमेवाप्रमाणम्भवेन्नानुमानं ।
अथ प्रत्यक्षत्वादनैकान्तिकोद्भावनमयुक्तं ।
ननु यत्र प्रत्यक्षता सन्निहितमात्रके न तत्रानैकान्तिकतोद्भाव्यते । भाविनि तु न
प्रत्यक्षमेतत् । तज्जातीये प्रत्यक्षन्तत्रापि प्रत्यक्षमेवेत्यप्यचोद्यं । तज्जातीयताऽनुमानविषयेपि
प्रत्यक्षविषयः । तत्र वृत्तम्प्रत्यक्षमिह तु प्रवर्त्तत इति विशेषः । तत्र व्यक्त्यन्तरे वृत्तमिह
तत्रैवेत्यसामान्यविषयता प्रत्यक्षस्य । न(।) भाविभूतयोरेकत्वाभावात् । अप्रत्यक्षत्वाच्च
सामान्यविषयता समानैव । कथम्वा तज्जातीयता भाविविषयेण नादृष्टस्यावगम्यते । अन्यत्र
तथाग्रहणादेतदिति चेत् । व्यक्त्यन्तरसाधारणतैव तर्हि सर्वत्र सामान्यङ् गम्यते न विशेषः
प्रत्यक्षानुमानयोः । अथावश्यम्भाविता भाविनस्तेन नानैकान्तिकता । यत्र कारणन्तत्रावश्य
म्भाविता यत्र कार्यन्तत्र सुतरामेवावश्यम्भाविता । अवश्यम्भाविनि च कार्यकारणत्वमेवेति
प्रतिपादितं । तस्मान्न भाविनि प्रवर्त्त्ये प्राप्ये प्रत्यक्षानुमानयोर्विशेषः ।
अथ प्रत्यक्षन्तावाद् वस्तुसंस्पशे तेन प्रमाणन्नानुमानमिति चेत् । तदप्यसत् । प्राप्य
विषयताभावे भ्रान्तस्याभ्रान्तस्य च न विशेषः । अथ भावाभावाभ्याम्विशेष इति चेत् । न ।
सम्वादमन्तरेण तस्यवार्थभावेतरत्वस्याधिगन्तुमशक्यत्वात् । अथ प्रत्यक्षे नरान्तरसम्वादाद
सम्वादेपि वस्तुविषयता । तदप्यनुमानगम्यमेवेति न विशेषः । तस्मादभिप्रेतार्थाविसम्वा
दात् प्रमाणान्न वस्तुग्रहणमुपयोगि729 । अन्यथा प्रत्यक्षमप्रमाणमेव भवेत् ।
तत्रैव व्याख्यायते । अन्यथापि गतिदृष्टा । भान्तापि गतिदृष्टा अथवा गतिः
पादविहरणन्तदन्यथापि पररूपेण प्रतिपत्तावपि दृष्टा । कथम्प्राप्तिः । सद्भावादर्थस्य । यस्य
सद्भावः स प्राप्यते । तथाहि । समर्थकारे हस्तपरामर्शतोपि प्राप्तिदर्शनं । नियता
कथमिति चेत् । सम्बन्धबलादेव । अस्तित्वमपि सम्बन्धिसद्भावादेव । कथं सम्बन्धिता
गतिः । प्रत्यक्षेपि कथम्भाविसम्बन्धिता गतिः । एवमेव दृष्टत्वादिति चेत् । समानमु
भयत्रापीत्यविवादः । अत तदेव प्रत्यक्षन्तत्र प्रमाणन्तद्विकल्पजननादिति चेत् । अनुमानजन
नादपि तदेव पूर्व्वकम्प्रत्यक्षं किन्नेष्यते । अतीतत्वात्तस्येति चेत् । विकल्पोदयकालेपि
प्रत्यक्षमतीतमेव । नहि कार्यकारणयोः समानकालतेति प्रतिपादयिष्यते । अथ विकल्पस
मानकालमपि प्रबन्धेन प्रत्यक्षमास्त एवेति विशेषः । नोत्तरप्रत्यक्षक्षणानामप्रमाणत्वात् ।
अथोत्तरेषामपि प्रमाणताऽन्यथा प्रबन्धस्य भाविनोऽपरिनिश्चियात् पूर्वेषान्तर्ह्यप्रमाणता ।
प्राप्यविषयत्वाऽभावात् । पूर्वरेव निश्चयजनने उत्तेरषामप्रमाणता भवेत् । सन्देहे हि न
निश्चित्यानिश्चये वा न सन्देहः । निश्चयेतरयोरेकविषयत्वायोगात् । अथ पूर्वेषामप्रमाणतैव
730
218
तथा सति न प्रवर्त्तत इति कस्यचित् प्रामाण्यं पश्यामि तावत् किमत्र प्राप्तिरुत नेति
प्रवृत्तावनुमानेपि समानमेतत् । तस्माद् गतिरपि प्रत्यक्षाभिमताऽन्यथा दृष्टा पररूपेणैव ।
न काचित् प्रवृत्तिविषये स्वरूपेण गतिः । अन्यत्र तु वस्तुरूपे स्वरूपे वा गतिरुभयोरपीति
भाविवस्तुभि को विशेषः । कथन्तर्हि प्रत्यक्षानुमानयोर्विषयभदः । स्पष्टेऽस्पष्टमध्यारोप्य
तेऽस्पष्टे च स्पष्टमिति । अथवाऽन्यथा ।
यत्रात्यन्ताभ्यासादविकल्पयतोपि प्रवर्त्तनन्तत्र प्रत्यक्षम्प्रमाणं । अन्यथा विकल्पस्य
प्रमाणान्तरता प्राप्ता (।)यदि यत्र विकल्पस्तत्रैव प्रत्यक्षम्प्रवर्त्तकम्प्रमाणञ्चेति ।
अथ प्रत्यक्षमेव प्रमाणन्न विकल्पो गृहीतग्रहणादिति चेत् । विचारितमेतद् यथा गृहीत
ग्राहिता नास्ति । पुनरप्युच्यते । तथा हि ।
यदि विकल्पस्यानुपयोगितैव कथमसौ सहायतयेष्यते प्रत्यक्षस्य । न खलु निरुपयोगि
नापि सहायेन कस्यचिदर्थिता । अथ तेन विना न प्रवर्त्तनं । प्रत्यक्षमप्रमाणम्भवेत् । तेनापि
विना न प्रवर्त्तत इति चेत् । उभयन्तर्हि प्रमाणम्प्रसक्तं । अथाप्रमाणविकल्पः । पदार्थ
रूपासंस्पर्शात् । प्रत्यक्षमप्यप्रमाणम्प्राप्यरूपासंस्पर्शादित्युक्तमिदानीमेव । तस्मात् ।
अथ व्यवहितस्याप्यप्रमाणता तथा सति चक्षुरादीनामपि प्रवर्त्तकत्वे प्रमाणता स्यात् ।
अज्ञानत्वान्नेति चेत् । समनन्तरप्रत्ययस्य स्यात् । अन्यविषयत्वात्तस्य नेति चेत् । समान
विषयत्वे स्यात् । भवत्येवेति चेत् । न । तत्र प्रवर्त्त्येऽज्ञानत्वात् । नहि प्रवर्त्त्यविषयत्वम्पूर्व
क्षणग्राहिणः प्रत्यक्षस्यास्ति तस्मादनन्तरत्वात् प्रमाणाम्विकल्प एव स्यात् । अथापि प्रवृत्ति
विषयो प्रत्यक्षम्प्रवर्त्तेत प्रतिभासमात्रेण । तथापि प्रमाणम्विकल्पः । गृहीतग्राहित्वे कथ
मप्रमाणमिति चेत् । प्रवर्त्तकत्वात् । यथा स्वभावानुमानं । नहि प्रतिभासमात्रेण प्रत्यक्ष
म्प्रमाणं । क्षणिकत्वेपि प्रत्यक्षग्राह्यता स्यात् । भवत्येवेति चेत् । क्षणिकग्राहकमनुमानन्न
प्रमाणम्भवेत् । गृहीतग्राहित्वात् । अथ व्यवहारसाधनात् प्रमाणम्विकल्पोपि तथेति समान
म्भवेत् । तस्मात् प्रत्यक्षविषयप्रवर्त्तकत्वेपि स्पष्टास्पष्टभेदात् प्रमाणद्वितयमेव । तत्पररू
पेणापि गतिरविसम्बादात् प्रमाणमेव । यथा चाविसम्बादेपि न वस्तुस्वरूपग्रहणन्तथा प्रति
पादितमेव । अविसम्वादात् प्रमाणत्वेपि भ्रान्ततान्दर्शयति ।
मणिप्रभायां कुञ्चिकाविवरविहितमणिसंस्थानविशेषायाम्मणिविशेषमनाश्रितायां ।
219प्रदीपप्रभायाञ्च सरसिरुहरागमणिभ्रान्तिः परस्परन्न विशिष्यते । अथ च मणिप्राप्तिकृतो
ऽस्त्येव कस्याश्चिद् विशेषः । तद्वद् अनुमानतदाभासयोरपि तत एव प्रमाणेतरते ।
अदृष्टेपि मणौ प्रदीपप्रभाप्तं मण्यध्यवसायी प्रवर्त्तमान उपलब्ध एव । न च भ्रान्तिरिति
समानता सर्वत्र सामग्रीविशेषतो विशेषात् । नहि ज्ञानत्वात् सकलम्भ्रान्तमितरथा वा ।
तस्माद् भ्रान्तमपि प्रमाणमविसम्वादात् । सामग्रीविशेषाद् विशेषवत् । भ्रान्त्यध्यवसितता
भ्रान्तिरपि सम्बद्धपदार्थजनिता प्रमाणोदयनिबन्धनं भवति समीहितप्राप्तिहेतुः । प्रत्यक्षोदय
निबन्धनानुमानज्ञानवत्732 । न ह्यनुमानम्प्रत्यक्षोदयमन्तरेण प्रमाण । न च प्रत्यक्षमनुमानोदय
म्विनेति प्रतिपादितं । तथा हि ।
अथापि स्यात् । प्रत्यक्षमन्तरेणानुमानं प्रवर्त्ततेऽनुमानन्तु विनापि प्रत्यक्षमिति विशेषाद
नुमानम्प्रत्यक्षेणासमानं ।
तदप्यसत् ।
अथापि स्यात्(।) प्रत्यक्षमनुमानमपेक्षैव भेदेऽर्थे च प्रवर्त्तत । अनुमानन्तु प्रत्य
क्षम्बिनापि(।) तथा हि(।) धमादग्न्यनुमानम्प्रत्यक्षमनपेक्षैवोत्तरकालभावि । तत एव
तस्यार्थस्य प्राप्तेः । नैतदस्ति ।
कुडयादिव्यवहितो वह्निर्न प्रतिनियतदेशतया प्रत्येतुं शक्योऽनुमानेन । कुड्यात्
परदेशे क्वापि वह्निरिति सामान्येनानुमाने प्रत्यक्षात् प्रतिनियतदेशुपरिग्रहः । न चाप्रति
नियतदेशस्य हुतभुजो जन्मप्राप्तिः735 । मणिप्रभायामपि मणिज्ञानस्य प्रतिनियतदेशापरिग्रह एव
दोषः । न च सन्देहविपर्यययोः । प्रतिनियतपदार्थाप्रापकत्वेन विशेषः । अथापि स्यात् ।
विपर्ययप्रत्ययोऽन्यत्र प्रवर्त्तकत्वादप्रमाणं । सन्देहस्तु कदाचित् तत्रापि प्रवर्त्तयतीति भवेत्
प्रमाणं । तदसत् ।
220
संशयो हि विपर्यासादधमः । उमयांशमवलम्बमानो दोलायमानचेतसः कथम्प्र
वर्त्तकः । ततोसौ दोलायमानता प्रत्यक्षादपैति । विपर्यासोपि मणिप्रभायाम्मणिज्ञानल
क्षणोऽनुमानात् पश्चाद्भाविन इति नानुमान्तरात् मणिप्रभायां मणिज्ञानस्य विशेषः प्रमाणत्वेन ।
किन्तु प्रमाणमिति चेत् ।
प्रमाणमविसम्वादि ज्ञानं (१।१)736
इति लक्षणसामान्येन (।) तद्भ्रमे सत्यन्यथा
वेति क्वेदमुपयोगवत् । ननु भ्रान्तत्वे सत्यविसम्बादोपि भवेन्नान्यथा । नैतदपि सत्यं ।
इदम्भ्रान्तमिदमन्यथेति नाविसम्वादनमन्तरेण । अथाबाधितत्वादभ्रान्तिरिति चेत् ।
न (।) अविसम्बादस्यैव तथाभिधानात् । विसम्वादेहि सति सर्व्वो विभ्रम एव (।) अवाधि
तत्वेपि सैव बाधेति चेत् । अविसम्वाद एव तर्हि तस्याबाधितत्वमित्यविसम्वादादेवा
भ्रान्तिरिति सिद्धं । अविसम्वादेपि भ्रान्तिरेवानुमानमित्यपि न मी मां स क स्य मतं । लो
का यत स्यापि न मतं । भ्रान्तेस्सर्व्वस्याप्रमाणत्वेनोपगमात् ।
यदि तर्हि भ्रान्तमपि प्रत्यक्षम्प्राणङ् को विशेषः प्रत्यक्षानुमानयोः(।) प्रतिभासभेदादिति
वक्ष्यते । भ्रान्तत्वेपि प्रतिभासभेदोऽनुमानाभासतैमिरिकज्ञानयोरिव ।
विभ्रमोहि स्वरूपासंस्पर्श एव(।)स च प्रमाणस्य सकलस्य समानः । यथैवानुमानस्य
प्राप्यरूपासंस्पर्शस्तथा प्रत्यक्षस्यापीति विशेषः । तस्मान्मणिप्रभायामपि मणिज्ञानम्प्रत्यक्षमेव ।
(भाविनि विषये) भाव्यनुमानं प्रमाणमिति चेत् । इतरत्रापि प्रत्यक्षे समानमेतत् । तत्र नास्ति
प्रमाणान्तरत्वाभिमानो मणिज्ञाने त्वस्त्येवेति चेत् । नात्यन्ताभ्यासतो मणिज्ञानेपि नास्ति
प्रमाणान्तरत्वाभिमान इति समानं । ननु भ्रान्त्यभिमानः प्रभामणिज्ञाने न तु स्तम्भादिज्ञाने ।
अत्रोच्यते ।
सर्वत्र प्रत्यक्षानुमाने च प्रमाणान्तरमस्त्यभिमानस्तु नास्तीति नैतावता वस्तुभेदः ।
अप्रमाणकाभिमानस्य यथा कथञ्चिद् भाव इति न तत्सदसत्तयोर्विशेषः । तस्मात् ।
अथ मणिस्वरूपस्याग्रहणात् कथम्प्रत्यक्षता । स्तम्भादौ तु यदि नाम भाविस्वरूपा
ग्रहणन्तत्स्वरूपग्रहणन्तु तत्कालभावि विद्यत एव । तदसत् । तथाहि ।
प्राप्यरूपस्य भेदग्रहः । तदपरस्य स्वरूपस्य वा भवतु परिग्रहः पररूपस्य वेति न विशेषः ।
221मणिप्रतिभासस्तु मणौ मणिप्रभायाञ्च समान एव । तत्र क्वचिद् देशभ्रान्तिः क्वचित् स्वरूप
भ्रान्तिः क्वचिदुभयं क्वचिदनुभयं । मणिप्रभायां मणिज्ञानस्य देशभ्रान्तिर्मणावेव प्राप्यस्वरूप
भ्रान्तिः । सामान्यानुमानस्योभयभ्रान्तिः । स्वसम्वेदनस्य नोभयथापीति प्रकारः ।
ततो यदुक्तं (।) या गतिः साम्यरूपेणैव यथा प्रत्यक्षा गतिः ।
यत्प्रमाणन्तदभ्रान्तं यथा प्रत्यक्षं (।) तदयुक्तं । प्रत्यक्षापि गतिर्न स्वरूपेण । न
चाभ्रान्तम्प्रत्यक्षमस्ति । स्वरूपे च यथा प्रत्यक्षभ्रान्तम् (।) तथाऽनुमानमप्यन्ये च भ्रान्ता
भिमताः प्रत्यया इति न तथा भ्रान्तताप्रतिपादनङ् क्वचिदुपयोगि । एवन्तहि कथम्प्रत्यक्षानु
मानयोर्लक्षणभेदः उक्तमत्र (।) स्पष्टेतर प्रतिभासभेदादिति । स एव प्रतिभास भेदस्तथा
कुतो भवति । यस्य स्वतन्त्रङ् ग्रहणन्तस्य स्पष्टप्रतिभासता । यस्यान्यथा तदस्पष्टप्रति
भासमतीन्द्रियं परोक्षं ।
एतदेव कथम्भवति येनैवमुच्यते ।
यस्य हिसाक्षात् प्रतिभासनं स एवार्थोऽनतीन्द्रियःस्वलक्षणं । साक्षात्प्रतिभासश्च बुद्धेरन्व
यव्यतिरेकानुविधानेन तदाकाराया जननात् । यत्तु पूर्व्वदर्शनजनितवासनाप्रवोधतोऽवभा
सबिषयः पूर्वप्रतिपन्नरूपाकारतया737 निश्चीयते तदतोन्यदतीन्द्रियं । नहि तदेन्द्रियव्यापारः ।
तत्सम्भवी वा साक्षात्करणाकारः साक्षात् प्रतीयते । न च तदाकारव्यतिरेकेणापरा तस्य
प्रतीतिः (।) तत् साक्षादेव यस्य च व साक्षात् तस्य नैव प्रतीतिः । अथाक्रमसङ्गत्यभावात्
परोक्षं । स्वरूपेण तर्हि प्रतीयमानमेव परोक्षमक्षव्यापाराभावादिति प्राप्तं । तदेत
दनभिमतं ।
यदि प्रतीयते न परोक्षः (।) न च वस्त्वसंस्पर्शने वस्तुविषयता । सामान्यविषय
तायान्तर्हि कथम्परोक्षविषयता सामान्यन्तत्र साक्षात्कृतमेव वस्तु तु पुनर्न संस्पृष्टमिति कथम्प
रोक्षविषयता सामान्यज्ञानस्य । लक्षितलक्षणेन प्रतिपन्नमिति चेत् । केन रूपेण विशेषस्य
लक्षणं । यदि विशेषेण शब्दादेरेव तस्य प्रतीतिरस्तु किमन्तर्गडुना सामान्येन । सामान्य
रूपेण लक्षणेऽनवस्थेत्युक्तं । विशेषरूपेण च लक्षणे इन्द्रियवैफल्यं ।
अथ सामान्यमेव प्रतिभाति । विशेषः परोक्षो अप्रतिभासनात् । अत्रापि स्वाकार
एव वासनाबलायातः प्रतिभाति साक्षात् । अर्थस्तु परोक्ष इति कथन्तद्विषयता । तत्र
प्रवर्त्तनात् । अप्रतिपन्ने कथम्प्रवर्त्तनं । अप्रतिपन्न एव सर्व्वत्र प्रवर्त्तनमिति प्रतिपादितं ।
अप्रतिपन्नेपि हि देवदत्तरूपे यज्ञदत्तस्य समानस्य दर्शनात् । प्रवृत्तिदर्शनात्तत्र सम्वाद इति
चेत् । न (।) अविसम्वादकारणस्य वक्ष्यमाणत्वात् । सम्वन्धादविसम्वाद इति । यदि
भ्रान्तिरसौ वासनाबलाद् वासनायामेव तर्हि प्रतिपन्न इति कथमर्थस्याध्यवसायः प्राप्तिर्व्वा ।
न (।) वासनाप्रबोधस्यापि कारणत्वात् । तत्सम्वन्धेनार्थस्येति न दोषः । तदेवाह ।
अदृष्टस्वरूपो ह्यर्थोन्यतः सम्बन्धात्738
प्रतीयते । अन्यमात्रात् प्रतीतावतिप्रसङ्गः ।
स्वयम्प्रतीतौ सर्व्वं एव सर्व्वदर्शी स्याद् विशेषाभावात् । तेनाश्रयेण च सोन्यो यदि सम्बन्धी
तदा गमकः । कथमेतत् । एवमेव दृष्टेः ।
ननु स्मरणमेव तत्र सम्बद्धाद् भवति । तच्च सम्बन्धादेरपीति739 स एवातिप्रसङ्गः ।
नाभोगादिजनितायाःस्मृतेरन्यथा भावात् ।
धर्म्मिसाध्यसम्बद्धपदार्थदर्शनाद्धि देशकालनियतः शक्यप्रापणोर्थः प्रतीयते नाभो
गादितः । तथाहि । आभोगः किम्मया दृष्टः किमित्यन्वेषणपरो मानसो व्यापारः ।
तत्र सति तथाभूतदेशकाल एव वस्तुनि स्मरणन्नाधिकव्यपारन्तेनाप्रमाणन्तत् । सदृश
ग्रहणाद् अनेन सदृशोसावित्येतावन्मात्रिका प्रतीतिः । सदृशत्वन्तु न देशकालविशिष्टस्य ।
सर्वदा सदृशत्वात् । अनेकस्य च सादृश्यमितरद्वेति न प्रतिनियतगतिरिति न तत्प्रमाणं ।
तेन तु तत्सदृशेन यत् कर्त्तव्यन्तत् क्रियत इति प्रमाणमेव तत्र प्रत्यक्षं । अन्यथा तु प्रत्यक्षाद्
प्रवर्त्तनमेवेति न प्रमाणमिति प्रतिपादितमेवेति न पुनरुच्यते । एवमेव न सम्बन्धादपि प्रतीति
रनुमानात्मिका प्रमाणं । तथाहि ।
तदेतद् वक्षार्थक्रियाकारि शिशंपात्वं धूमादिकञ्चाग्यादि जनितङ्कार्यत्वेन कारणत्वेन
वा सादृश्यावगतिस्तत्रापि । तदेतत्सत्त्वमनित्यरूपम्पुर्व्वापररुपरहितत्वेन नान्यदन्यस्याप्यानि
त्यत्वस्य रूपमिति सव्वनिमुमानप्रतीतिरेवम्भूते च सन्निहितकारणञ्च धूमस्य रुपम्विशेषेण
केनचिदुपलक्षितस्यासन्निहितकारणञ्च भस्मादेरिति द्वयमपि यथायोगङ् गमकं । तथाहि ।
स्मरणे नान्यथानुगम्यमानन्दर्शनप्रमाणमिति दर्शनस्य स्वतो दोषोऽपि तु स्मरणस्य ।
तदपि हि स्मरणं सादृश्यादन्यथोपजायते । स्मरणपाटवाद् भावादेव ।
तस्मात् स्मृतिविभ्रमकृत एव सर्व्वथा विसम्वादः । तस्मात् परोक्षविषयं स्मरणमेव
सम्बद्धाद् यथादृष्टस्य प्रमाणं । तच्चानुमानमेव नान्यत् । अत एवाह ।
गमकपरतन्त्रा हि गम्यस्य प्रतीतिस्तच्च गमकं सामान्यरूपेण न विशेषेण । तस्य
लक्षयितुमशक्यत्वात् । अलक्षितेनापि रुपेण गमकत्वे सर्व्वाकारसर्व्वकारणपरम्पराप्रतीति
प्रसङ्गः । तच्च धूमादिसामान्यं सर्व्वत्राग्न्यादौ दृष्टं । ततोऽनैकान्तिकत्वान्न ततो विशेषस्य
प्रतीतिः । विशेषोपलक्षणे प्रतीतिरिति चेत् । न (।) अवान्तरविशेषस्य लक्षयितुम
शक्यत्वात् ।
ननु विशेषोपलक्षणमपि कस्यचित् सम्भवत्येव (।) न (।) अत्यन्तम्विशेषस्याशक्यत्वात् ।
विशेषोपलक्षणन्तु तत्रापेक्षाकृतं । या च यावती च मात्रेति । यस्य तु सर्वाकारप्रतीतिस्तस्य
साक्षात्करणात् । अव्यक्तमेव तदिति प्रतीमः । विशेषदृष्टेर्विशेषप्रतीतिरिति चेत् ।
न । तत्रापि सामान्यस्यैव गतिरिति प्रतिपादयिष्यते । एतदेवाह ।
अन्यलक्षणाभावादनुमानलक्षणसम्भवाच्च नानुमानादपरम्परोक्षविषयम्प्रमाणमस्ति ।
ननु प्रमाणान्तरविषयम्प्रमाणान्तरमिति न द्वे एव प्रमाणे । अत्र परिहारः ।
ननु प्रमाणद्वित्वेन प्रमेयद्वित्वमिति युक्तं । प्रमाणस्य सत्तासाधनत्वात् ।
नैतदस्ति । प्रमेयम्प्रमाणेन सिध्यति प्रमाणस्वरूपन्तु स्वसम्वेदनाकारसिद्धेः ज्ञानकार
एव च स्वसम्वेदनः स्वसामान्यतयोपलभ्यमानः प्रत्यक्षानुमानविषय इत्युक्तं । विषयद्वैवि
ध्यादाकार द्वैविध्यादित्यर्थः । स्वाकारद्वयसम्वेदने हि नैकमिति युक्तं । नापि त्र्यादिकं ।
प्रमेयद्वयादपरस्य प्रमेयस्यासम्भवात् । अपरप्रमाणन्नास्तीति प्रतिपादितं ।
इदानीन्द्वितीयस्य प्रमेयस्य सम्भवान्नैकम्प्रमाणन्नापि त्र्यादिकमिति प्रतिपादयिष्यति ।
नहि द्वितीये प्रमेये सम्भवति प्रमाणमेकं । द्वितीयप्रमेय विषयस्यापि प्रमाणस्य भावात् । नैकेन
प्रमाणेन द्वितीयस्यापि सिद्धिः । अथ सामान्यविशेषरूपमेकमेव740 प्रमेयं । अपरस्तु नास्तीति
प्रमेयद्वयसिद्धमित्याह ।
दृष्टमेवैतत् स्वलक्षणादपरम्प्रमेयमसत् । तच्च न प्रमेयं एकमेव तु स्वलक्षणं प्रमेयं ।
तदेव स्वपर रुपाभ्याङ् गतेः सामान्यविशेषलक्षणमिति प्रागुक्तं । किञ्च ।
अभावोपि हि प्रागभावादिलक्षणः प्रमेय इति कथमसदप्रमेय मिति व्याप्तिः । अव्या
प्तिकश्च कथं हेतुरैकान्तिकः । तथाहि (।) प्रागभावाद्यवेदने सर्वमेव मित्यम्भवेत् न कायन्नापि
कारणं । तथा च प्रतिपादयिष्यते । इतरेतरावे च सतिं मिश्रीभवेयुर्द्रव्याणीत्यद्वैत्व सकल
म्भवेत् । तन्निश्चयः प्रमाणम्वा द्वितीयं । यतः नाक्षजामतिः (।)
न खल्वभावो नामेन्द्रियगोचरः । शब्दादिस्वभावस्यैव तत्र प्रतिभासनात् । तदत्र
नास्तीति तु तस्य रूपमसत्तया नाक्षगोचरः । व्यवहितस्यापि तस्यासत्त्वेन व्यवस्थापनात् ।
अथ विविक्तप्रदेशोपलम्भादेव तथा निश्चयः । केयम्विविक्तिता नाम । यदि प्रदेशादि
रूपं (।) तस्मिन्नुपलब्धेऽन्यन्नास्तीति कुतः । तस्य तदभावरूपत्वादिति चेत् । कथमन्योऽ
न्यस्याभावः । तेन सहासङ्गमाच्चेत् । असङ्गमः कुतः । सहावेदनाच्चेत् । सहावे
दनात्तर्हि व्यवस्थाऽभावस्य । तदन्यवेदनमेव तस्यावेदनं । तदन्यत्त्वमेव तस्यावेदने कथङ्
गृह्यते । तस्य प्राग्वेदनादिति चेत् । तदेतन्न वेद्यत इति कथमभावगतिः । तस्मादयम भा व
निश्चयो नेन्द्रियजः । ततो न प्रत्यक्षमेतत् ।
अथापि स्यात् । प्रत्यक्षमेव निवर्त्तमानमभावनिश्चयनिमित्तं । तदप्यसत् ।
प्रत्यक्षस्यैव निवृत्तेरभावनिश्चय इति चेत् । व्याहतमेतत्तच्च नास्ति तेन च प्रतिपत्तिः ।
प्रत्यक्षं हि सम्वेदनात्मतया यत्र प्रवर्त्तते तत्र निश्चयकृत् । अनुभूते निश्चात् । अनुभवाभावे
तु कथन्निश्चयः । तथा हि वक्तारो भवन्ति । न जाने किमस्त्यन्यदथ नास्तीति नात्र समसम्वे
दनामिति741 । कथमनिश्चयहेतोरसम्वेदनान्निश्चयः । अथोपलब्धियोग्यस्यानुपलम्भो न सति
पदार्थे ततोऽभावनिश्चय इति चेत् । न तर्हि परलोकादेरतीन्द्रियस्याभावनिश्चयः । यदि
चानुपलब्धिः सद्भावाद् व्यावृत्ता तदा तद्विपर्ययव्याप्ता सती गमिकेति लिङ्गमन्वयव्यतिरेक
योगात् सिद्धमनुमानमपरं प्रमाणं । लिङ्गादुत्पत्तेः ।
अनेन स्वभावरेतुरनुपलब्धिश्च तदन्तर्गतोक्ता ।
कार्यहेतुमाह ।
नहिं परचैतन्यमात्मन इव प्रत्यक्षतः सिध्यति । न खलु जाने किमस्य चैतन्यमस्ति
न वेति । तदाकारपरिस्फुरणादेव तथा प्रतिपत्तेः । कार्यविशेषेण विशेषस्य द्वेषादेर्निश्चयः ।
भवतु यथा कथञ्चिदयन्निश्चयः स तु प्रमाणन्न भवति । नैष दोषः । तदनुरूपस्य
व्यवहारस्य व्याहारादिलक्षणस्य दर्शनात् । यथाकथञ्चिद प्रमाणिकैव प्रवृत्तिरिति चेत् । न ।
विचार्य परित्यागप्रसङ्गात् । अन्यस्योपायस्याभावादगत्या अपरित्याग इति चेत् । अन्य
स्योपायस्याभाव इत्येषोपि निश्चयः प्रमाणमेव (।) तच्चानुमानमित्युक्तं ।
पराभ्युपगमेनैतदुच्यते । तेनाऽदोषः । न पराभ्युपगतस्य परार्थानुमान एवावतारात् ।
नह्यत्मानमेव पराभ्युपगमेव प्रतिपादयति कश्चित् । गत्यन्तरन्तावन्न प्रतिपद्ये तेनैव महम्प्रवृत्तः ।
परलोकेपि तर्हि प्रतिपत्तिरस्तु परलोकत्यागेपि जीवितुं शक्यं (।) तेन तत्राप्रवृत्तिरिति चेत् ।
एवञ्जीवितुं शक्यमिति कुत एतत् । जीवितार्थ्यपि किमतीतजीवितार्थी अथ वर्त्तमानजीवि
तार्थीति । तत्रातीतार्थी न अतीतत्वादेव । न वर्त्तमानार्थी तस्यापि प्राप्तत्वात् । अना
गतार्थी चेत् । अनागतन्तर्हि जीवितमनेनोपायेन भवति नान्यथेति अन्वयव्यतिरेकतः प्रतीते
रनुमानमेव ।
किञ्च (।) यथाकथञ्चिदयम्व्यवहार इति किम्भवत एवाथान्यस्य । यदि भवत
एव उभयासिद्धत्वात् कथम्परः प्रतिपादितः । अथान्यस्याप्युपायाभाव एव तथा सति परचैतन्य
प्रतिपत्तिरवश्यमिति कथं यथाकथञ्चिदियम्प्रतीतिः । अथेयमपि भवति यथाकथञ्चिदेव ।
एवन्तर्हि भवत एवासम्प्रत्ययः कथम्परस्य प्रतिपत्तिः । मम तावदेवम्परस्य तु कथमिति न जाने ।
अवचनमेव तर्हि प्राप्तं । परस्याप्येवमेव भविष्यतीति चेत् । न (।) प्रमाणाभावादिति
यक्तिञ्चिदेतत् । तस्मादस्ति परप्रतीतिः (।) ततोऽनुमानमभ्युपगन्तव्यम्परेणापि742 ।
अविसम्बादो हि प्रमाणलक्षणन्तदस्त्यनुमानस्येति प्रमाणता । अथ विसम्बादेपि
क्वचिद् दृश्यत इति विपर्ययः । तथाहि स श्यामस्तत्पुत्रत्वादित्यनुमानम्व्यभिचारासङ्ग्यपि ।
तदयुक्तं । अनुमानमेवैतन्न भवति लिङ्गाभासादुत्पत्तेः प्रतिबन्धाभावात् । नहि श्यामता
यान्तत्पुत्रत्वम्प्रतिबद्धं । एकसामग्रयधीनतया समानरूपता चेत् । नैकसामग्रयधीनताऽभावात् ।
कर्माहारकालविशेषस्य सम्भवात् । एकसामग्रयधीनतायां युगपदुत्पत्तिप्रसङ्गात् । तस्मा
लिङ्ग744 रूपतत्त्वानुपलक्षणादहेतावपि हेतुत्वाध्यारोपतो व्यभिचाराभिप्रायः ।
अथापि स्याद् (।) एवम्प्रायमेव सर्व्वानुमानन्नापरम्बिशेषलक्षणमिति कस्याव्यभिचारः ।
तदप्यसत् ।
तादात्म्यतदुत्पत्तिलक्षणप्रतिबन्धसङ्गतं हि लिङ्गङ्गमकं । अन्यस्य तदात्मत्वात् ।
यतश्च प्रतीतिरव्यभिचारिणी साध्यस्य तन्नियमेन तत उत्पन्नं । तन्नियतं तत्त्वस्वभावम्वा
नान्ययाऽव्यभिचारगतिसम्भवोऽतिप्रसङ्गात् । न च सर्व्वतः प्रतिपत्तिः सर्व्वस्योपजायते ।
कादाचित्कतयोपलब्धेः (।) तस्मादियम्प्रतिपत्तिर्नियमेन प्रतिबद्धपदार्थजनिता । प्रतिवन्धश्च
226
द्विविध एव । एकसामग्रयधीनस्यापि तदुत्पत्तिलक्षणं एव पारम्पर्येण प्रतिबन्धः । तत
एवाव्यभिचारः । यतः ।
यस्य च कार्यस्वभावहेतोर्लक्षणं यद् दृष्टमन्यत्रापि तदेव । न च तत्पुत्रादेस्तदस्ति
न तेन सर्व्वत्रानाश्वासः । लक्षणयुक्ते हि बाधासम्भवे तल्लक्षणमेव दूषितं स्यादिति सर्वत्रा
नाश्वासो नान्यथेति न्यायः । न च निमित्तं अभावम्वा विना कस्यचित् सम्भवः (।) तथा
शङ्कायामव्यवहार एव सर्व्वत्र स्यात् । व्यावहारिकप्रमाणप्रस्तावश्चैष नान्यः । तस्मात्
सम्व्यवहारार्थिना नियमेनानुमानार्थिना भाव्यं । अनुपाये कथम्प्रवृत्तिरिति चेत् । न (।)
असिद्धत्वादुपायत्वस्य विचार्यमाणे विशीर्यत इति चेत् । न (।) विचारस्याप्यनुमानात्म
कत्वात् । सोयं यथा गच्छतः स एव विस्मृतः पन्था ।
अनुपलब्धेस्तर्हि कः प्रतिबन्धः । स एव तादात्म्यतदुत्पत्तिलक्षणः प्रतिबन्ध746 इति
दर्शयति । तथाहि ।
यत एवासौ तत्र प्रतिबद्धो अतएव तदभावान्न भवति । अन्यथान्यस्याभावे किमिति
न भवेत् । अतिप्रसङ्ग एवं सति स्यात् । एवं ह्यसौ प्रतिबद्धौ यदि तदभावेन भवेत् । अन्यथा
प्रतिबन्धाभावात् । तस्माद् यत्रोपलब्धि (ल) क्षणप्राप्तस्य कारणस्य व्यापकस्य वाऽनुपल
म्भस्तत्र तयोरभावः । यत्र च तयोरभावो न तत्र कार्यव्याप्ययोः सम्भव इत्यनुपलब्धेरप्य
व्यभिचारः । एवङ् कार्यस्वाभावानुपलम्भलक्षणं त्रिविधमप्यनुमानमस्तीति साधितं ।
यस्मात् ।
यदि हि सामान्यबुद्धेरप्रमाणता तदा परोक्षन्नाम प्रमेयन्नास्तीति प्राप्तं । परलोकव
देव । अथ न सर्वः परोक्षार्थो नास्ति पर्यायेणाक्षैः प्रतीतेः परलोके तु न पर्यायेणाक्षवृत्तिरिति
तथाविध एव नास्ति । यदैव तर्हि प्रतीयते तदैवास्ति प्रागस्तीति कुतः । प्रागप्यन्येन प्रतीयते
तेनास्ति । परलोकोपि प्रागन्येन न प्रतीयते स्वयम्वेति कुतः । परलोकादेरन्योपि वाऽन्येन
प्रतीयत इति कुतः । तथा व्यवहारादिति चेत् । आयातमनुमानस्य प्रामाण्यं । न चाक्षे
योग्यतायाम्वा पर्यायेणाक्षवृत्तिः । कार्यस्वभावहेतुभावानुमानेनैव तयोरवगमात् । तदभावे च
बुद्धेर्जन्म च पदार्थनामनिमित्तकमेव भवेत् । तस्मात् कार्यदर्शनेन कार्यव्यतिरेकेण च योग्यता
चक्षुरादिकञ्चानुमीयमानमस्त्येव । न च पर्यायेण तत्राक्षव्यापारावतारः । ततः परलोका
दिकमप्येवमेव । तस्मात् सामान्यमनुमानमन्तरेण न प्रतीयते । यस्मात् ।
सामान्यावधारणरूपा अपि प्रतिपत्तयो व्यवहारकारिण्यः । न च सामान्यमविकल्प्य
गृह्यते । न च सविकल्पकम्प्रत्यक्षमविचारकत्वात् । तस्मात् सामान्यविषयमनुमानन्न
प्रत्यक्षं ।
यत्तर्हींदमनित्यादिभिराकारैर्वर्ण्णादिगृह्येतैतत्कथं । सामान्यरूपग्रहणमेतत् । प्रमेय
नियमश्च भवतेष्यते ।
नियमो हि नाम प्रमेयस्य स्वलक्षणस्य सामान्यस्य च प्रतिनियतप्रमाणग्राह्यता । मिश्र
प्रतिपत्तिश्चेयम्वर्ण्णाद्यनित्यमिति । स्वसामान्यलक्षणयोः परस्परमिश्रतया प्रतिपत्तेः । तत
उभयरूपप्रतिपत्तिरन्यत् प्रमाणं प्रसक्तं । लिङ्गेन च विना सम्भवादनुमानमेतन्न भवति ।
सामान्यस्य च ग्रहणान्न प्रत्यक्षं । स्वलक्षणस्य च नानुमानमिति तत्प्रमाणान्तरम्विना लिङ्गे
न वृत्तेः सामान्यस्य च प्रतिभासात् । विशेषदृष्टे चानुमानेन सामान्यगतिर्लिङ्गस्य सामान्येन
सम्बन्धस्याप्रतीतेः । तदाह ।
अनित्यमिदम्वर्ण्णादीति न खलु किञ्चनात्र लिङ्गमस्ति । न च तत्प्रत्यक्षं सामान्यस्याप्य
नित्यत्वस्य प्रतीतेः । विशेषदृष्टे च विशेषस्यैव प्रतीतिः । तस्य विशेषस्य लिङ्गस्य सामान्येन
सम्बन्धाप्रतिपत्तेः । तेन तत् त्वन्मतेन प्रमाणान्तरं । न साक्षात् प्रतीतिरिति न प्रत्यक्षन्न
सामान्यविषयमिति नानुमानं ।
किञ्च । सामान्यविशेषोभयभेदेन प्रमेयबहुत्वात् प्रमाणबहुत्वमिति न त्रिसङ्
ख्यानिरासः । अनेकस्याप्रमाणस्यैकत्र वृत्तेः नैकसङ्ख्यापोहः । यथा विशेषदृष्टेन सह प्रत्यक्षस्य
वृत्तिरेकत्र स्वलक्षणे तथा सामान्येपि प्रत्यक्षस्येति । यदुक्तमेकसङ्ख्यानिरासः प्रमेयद्वय
दर्शनादिति स न भवेत् प्रत्यक्षस्यैव सामान्येपि वृत्तिसम्भवात् । विषयनियमे प्रमेयान्तराभावे
च त्र्येकसङ्ख्यानिरासो न चोक्तेन न्यायेनोभयमपीति नाभिमतप्रयोजनसिद्धिः । प्रमाण
सम्प्लवात् प्रमेयबहुत्वाच्च प्रमाणबहुत्वं ।
ननु शक्त्यशक्तित इत्यादिना प्रमेयबहुत्वन्निवारितमेव तत्कथन्तस्योपन्यासः । सत्त्यम् (।)
एतदपि दृश्यत इत्युपदर्श्येते । विरुद्धाव्यभिचार्युपदर्शनम्वा परेण कृतमित्यदोषः । प्रमाण-
228
सम्प्लवोपदर्शनन्तु युक्तमेव । तस्मात् सर्व्वः परोक्षोर्थोविशेषेण न गम्यत इत्येतस्याप्यसिद्धि
मुद्भावयति । तस्मान्न त्र्येकसङ्ख्यानिरासः । अत्रोच्यते ।
वर्ण्णत्वं सामान्यमनित्यत्वेन योजयति अनित्यम्वर्ण्णादीति । तेन सामान्यकरूपमेव
प्रमेयं नोभयरूपमिति न दोषोयम्बिषयानि (य) मादन्यप्रमेयस्य च सम्भवादिति ।
सामान्यविशेषभावे हि स्यादयन्दोषो न सामान्यैकभावे । यद्यनित्यत्वम्वर्ण्णत्वेन सामान्येनैव
योजयति तद्वस्तु धर्म्मो न स्यात् । यत्र हि यो धर्म्मो युक्तः प्रतीयते तस्यैवासौ धर्मः । सामान्य
युक्तत्वे च सामान्यस्य तद्रूपं न वस्तुनः । सामान्यस्य च वस्तुत्वात् तद्धर्मोऽवस्तुधर्म एव स्यात् ।
नैतदस्ति । यतः ।
यदि वस्तुधर्मो न भवति । अवस्तुतत्वेन कल्पितत्वात् सामान्यस्य । तदपि वस्तुना
नित्यत्वादिकम्भवेत् । उभयमपि वस्तुरूपन्नेति चेत् । न (।) वस्तुन एव तथा प्रसिद्धेः ।
योहि विकल्पे प्रतिभाति वर्ण्णत्वानित्यत्वादिकः स स्वलक्षणेपि विद्यत एव । स्वलक्षणानु
भवादेव तद्रूपविकल्पोत्पत्तेः । यदि विकल्पः स्वलक्षणेन न प्रतिबद्धस्तत्र स्वलक्षणस्याप्रति
भासनात् । तत्कथन्तस्यैव तथा प्रसिद्धिः । न पारम्पर्येण सम्बन्धात् । साक्षादप्रतिबन्धेपि
पारम्पर्येण प्रतिबन्ध इति तस्याविकल्पस्याविसम्वादिता ।
ननु वासनाप्रतिबन्धत्वे कथम्वस्तुप्रतिबद्धता । तद्वासनाया वस्तुप्रतिबन्धात् । कथ
मित्याह् ।
यो हि साध्यधर्मः ससाधनस्य हेतुर्व्यापको वा भवेदिति प्रतिपादितङ् कार्यव्याप्यचेतसः ।
कारणम्व्यापकश्च हेतुः । ततोपि चेत् । सा योत्पन्ना लिङ्गधी सा पारम्पर्येंण वस्तुप्रति
बद्धता । ततः ।
न वस्तुप्राप्तिः प्रतिभासादेवाध्यवसायादपि वस्तुप्राप्तेः सम्भवात् । प्रवर्त्तमानो हि
प्राप्नोति । प्रतिभासमात्रात् । प्रवर्त्तनञ्चाध्यवसायादपि दृष्टमन्यथा प्रतिभासादपि न प्रवत्तत
अध्यवसायेन प्रवर्त्तितः प्रथमं अभ्यासात् पश्चात् प्रतिभासात् प्रवर्त्तेतुं (?) क्षमः । तरमात् प्रवृत्ता
वस्तित्वे प्राप्तिः । यथा च प्रतिभासमानस्यास्तिता तथा प्रतिभासमानकारणव्यापकस्यापीति
(।) उभयत्रापि प्राप्तिरस्तु । न च क्वचित् प्रतिभासिनः प्राप्तिरिति प्रागेवेदम्प्रत्यपादि ।
यथा च प्रतिभासनादस्तीति ज्ञायते । तथा प्रतिबद्धप्रतिभासनादपि ।
यदि च प्राप्तिविषयो नास्तीति मतिः प्रतिभासमात्रमेव जगत् स्यात् । भ्रान्ताभ्रान्त
विवेकानवधारणात् । नहि प्रतिभासमात्रे भ्रान्तेरविवेकः । तस्मात् परोक्षगतौ भ्रान्ताभ्रान्त
व्यवस्था 114a नान्यथेति निश्चयः ।
अत्र केचि749दाहः ।लिङ्गबुद्धिर्लिङ्गिप्रतिबद्धतया धूमादेर्बुद्धिर्नहि लिङ्गमिन्द्रियवत्
सत्तामात्रेण गमकं । नापि स्वालम्बनविज्ञानप्रतिभासनमात्रेण । अदृष्टन्तद्रूपन्तत्सम्बन्धस्यापि
प्रतिपत्तिप्रसङ्गात् । तस्मात् प्रतिबद्धतया ग्रहणं लिङ्गग्रहणं । स च प्रतिबन्धो नोभयरूप
संस्पर्शमन्तरेण ग्रहीतुं शक्यः । अन्यथा ग्रहणस्यादर्शनात् । तत्र यथा लिङ्गग्रहणं लिङ्ग
विषयन्तथा लिङ्गग्रहणमपि । केवलम्प्राधान्येतरता । लिङ्गग्रहणे हि लिङ्गम्प्रधानतया लिङ्ग
ग्रहणे लिङ्गी प्रधानतया प्रतीयते । तेन यदुक्तं750
लिङ्गि(न)स्तु न मात्रानुमानन्तस्य
चाविसम्वादेन भ्रान्तते प्रस्तुते751
तत्कोलिङ्गगतेरवसरो येन तस्या अपि विचारः कृतः । अथ
साप्यनुमानात्मिका । तथा सति लिङ्गिप्रतिपत्तिरेवेति न पृथग्निर्देशः । प्रत्यक्षरूपापि लिङ्ग
प्रतिपत्तिर्न्न सा लिङ्गाभासशून्या (।) लिङ्ग्याभासशून्यत्वे च सत्यपि न भ्रान्तता तद
विषयत्वात् । नहि स्तम्भविज्ञानं कुम्भकारशून्यतया भ्रान्तमिति तन्निरा752
कृतं । एकि
विषयत्वाल्लिङ्गलिङ्गिधियोरेप्रत्यक्षत्वाच्च । अत्रोच्यते753 ।।
गृहीतोपि प्रत्यक्षेण तदा स्मर्यते लिङ्गत्वेन धूमादिकः । एवं सति स्मरणमप्रमाण
मेव किमस्यावञ्चकत्वप्रतिपादनेन । नहि तत्तत्र प्रमाणं । प्रत्यक्षानुमानयोरेव प्रमाणत्वेना
विसम्वादसङ्गगमः । अथ स्मरणमपि पारम्पर्येण प्रतिबन्धात् प्रमाणमेव । तदेव तर्हि लिङ्गि
ज्ञानमनुमानञ्चेति किं लिङ्गलिङ्गिनोर्भेदेन निर्देशः (।) अथ तदप्रमाणमेव गृहीतग्रहणादित्युच्यते ।
तथा सति प्रत्यक्षवृत्तम्प्रत्यक्षमेव तत्र प्रमाणं । तच्च तदाभासशून्यन्न भवतीति विरोधः ।
तस्मादन्यथो(प)पत्त्या व्याख्यायते । लिङ्गधीः स्वभावहेतोर्जाता लिङ्गिधीरेव लिङ्ग
लिङ्गिनोः परमार्थतो भेदाभावात् । लिङ्गिधीः कार्यहेतोः कारणविषया । तत्रभेदादसौ न
लिङ्गधीः । न चात्यन्ताभ्यासादस्माद् धमादग्निधीः स्वलक्षणग्राहिण्या धूमधियो नोदेति ।
230
धूमस्य च तत्त्वेन ग्रहणमेव प्रतिबद्धता । तत्त्वञ्च प्रत्यभिज्ञानात् प्रत्यभिज्ञानञ्च तद्रूपदर्शना
दनुमानमेव । तद्रूपदर्शनञ्च प्रत्यक्षमत्यन्ताभ्यासाद् व्यवहारकारणमिति नानवस्था ।
तस्मात् स्वलक्षणग्रहणमेव लिङ्गप्रतिपत्तिः । य (त्) त्वग्निप्रतिबद्धधूमस्य तत्सामान्य
ग्रहणन्तद्रूपदर्शनादुदयमासादयदनुमानमेव लिङ्गिप्रतिपत्तिरूपमिति नान्यथा व्यपदेशः ।
द्विविधं हि साध्यम्वस्तु तत्प्रतिषेधश्च । वस्तुनि साध्ये व्यापकं साध्यं । यतस्तद्व्याप
कम्व्याप्यचेतसो निमित्तं । तच्च व्याप्यस्य लिङ्गस्य स्वभावो कारणम्वा । तच्च व्यापकचे
तसो निमित्तमिति पराम्पर्येण प्रतिबन्धसम्भवात् । प्रमाणमनुपलब्धेः कथम्प्रतिबन्ध इति
दर्शयति ।
(२) अनुपलब्धिचिन्ता
यत्र नाम क्वचित् प्रतिषेधसाधनन्तत्र सर्व्वत्रानुपलम्भत एव । यत्र वस्तुसाधनाय
प्रमाणम्प्रवर्त्तते तत्र वस्त्वेव सिध्यति न तस्य प्रतिषेधः । अतो विपर्ययादेव प्रतिषेधसिद्धिः ।
तथाहि युक्तोपलम्भमनुपलभमानास्तीत्याहुः । अनुपलम्भ एव हि प्रतिषेध इति तन्मात्रा
नुबन्धित्वात्तादाम्यमेव प्रतिबन्ध इति ।
ननु विरोधोपि नाम साक्षात् पारम्पर्येण वा प्रतिबन्ध एव ततोपि वस्तुप्रतिषेधसिद्धि
रुपलभ्यते । यथा नास्ति शीतस्पर्शोऽग्नेर्नास्य रोमहर्षादिविशेषः सन्निहितदहनविशेषत्वा
दिति । तत्कथं साध्यतेऽनुपलम्भतः ।
तत्र परिहारः । अस्त्येतत् किन्तु ।
विरुद्धोपि पदार्थस्तदभावङ्गमयति । न विरोधसम्बन्धादेव । नहि विरोधी प्रमातु
मिष्टः । असद्रूपतयेष्ट इति चेत् । असत्त्वेनैव तर्हि प्रतिबन्धः सम्प्रधार्यों न च तेन सह
विरोधः । यत्रासौ तत्रासत्त्वम्भवतीति चेत् । कुत एतत् । एवमेव प्राग् दृष्टत्वादिति
चेत् । तदसत्त्वम्विरोधग्रहणकाले किमुपलम्भे वस्तुनो चेतरथा । यद्युपलम्भः कथमभावोऽथा
नुपलम्भः755 तदिदमायातमनुपलम्भादेव प्रतिषेधः ।
एकस्य हि सद्भावे यदि परो न भवेत् । सर्वस्य भावे परस्य प्रतिषेधो भवेत् ।
विरोधोपि सहानवस्थानलक्षणो विनाऽनुपलब्घ्या न प्रतीयते । यद्येवम्विरोधोऽनुप
लब्ध्या प्रतीयते । ततो विरोधिनो लिङ्गत् अभावगतिर्नानुपलब्धेः । अथ विरोधसाधिका
नुपलब्धिः प्रागासीत् । तदनुसरणादेव विरोघिनोपि लिङ्गदभावगतिरिति सैव परमार्थतो
ऽभावस्य साधनी । यद्येवम् ।
न । यत एव हि प्रत्यक्षादनुमानस्य सम्बन्धग्रहणन्तत एव साध्यस्याग्नेः सिद्धिरिति
कथमनुमानमपरम्प्रमाणं ।
अथ परोक्षेऽग्नै न प्रत्यक्षम्प्रवृत्तमिति तत्रानुमानं । परोक्षेपि खल्वभावे किमनुपलब्धिः
प्रवृत्ता । यापि प्रवृत्ता सा नोपलब्धिलक्षणप्राप्तानुपलब्धिः । अथ स्मर्यमाणोपलब्धि
लक्षणप्राप्तानुपलब्धिः । तदप्यस्य दुर्नीतम् ।
तस्मादिदमत्रार्थसत्तत्त्वं ।
स चाभावोऽनुपलब्धिरेव । तेनानुपलब्धिरेवानुमानसिद्धा साधयत्यभावव्यवहारं
यथा प्रत्यक्षसिद्धा। यतो वक्ष्यति।
तस्मादनुपलम्भोयं स्वयम्प्रत्यक्षतो गत इति । (प्र॰ वा॰४।२७४)
अत्राप्यनुमानतो गत इत्यवगन्तव्यं । यदा तु रोमहर्षाभावः साध्यते । तदाग्निना
शीतानुपलब्धिस्तया कारणानुपलब्ध्या रोमहर्षाभावः । तत्राग्निरुपेण स्पर्शस्योष्णात्मन एक
सामग्र्यधीनतयाऽनुमानं । स च शीतभावस्वभावः (।) तस्यानुमानोपलब्धिरेव शीतानुप
लब्धिस्तेन कार्यहेतुकारणानुपलब्ध्योरेकत्र प्रवृत्तत्वान्न विरोधिलिङ्गन्तरं । तस्मादनुपलब्धि
रेवानुमानसिद्धाऽभावङ्गमयति । तेनानुमितानुमानमेतत् ।
यद्येवमनुमानेन प्रत्यक्षम्प्रसाध्यते (।) तेन च वस्तुभाव इति न वस्तुविषयम्प्रामाण्य
म्भवेदनुमानस्य । तदपि यत्किञ्चदेव । यतः । प्रत्यक्षमुपलम्भरूपमेवोपलम्भः सत्ता
चोच्यत इति । तेन वस्तुविषयमनुमानं । अनुपलम्भ एवासत्तेति चेत् । भवतु को
दोषः। अग्निनाऽभावः साध्यते नानुपलम्भेनेति महान् दोषः । नन्वग्निरेव शीताभाव इति
स एव तेनैव च साध्यते । यावानेव देश उष्णतया व्याप्यते तावत्येव शीताभाव इति नोष्ण
स्पर्शव्यतिरेकी शीताभावः । स्वभावहेतुरयमिति चेत् । इष्यत एवानुपलब्धेः स्वभाव
हेतुता । तेन नास्त्यत्र सीतस्पर्शोऽग्नेरिति कार्यस्वभावहेतू निर्द्देश्येते ।
विरोधिनो हि वह्नयादेर्यः स्वशब्दस्तेनोक्तापि प्रतिपादितापि सैवानुपलब्धिरन्यभाव
लक्षणा सैवानुपलब्धिरभावस्य साधिका । यस्य सा न प्रमाणन्तेन विरोधिसद्भावेनावाच्यो
निषेधः । न खलु निषेधस्यान्या गतिः ।
प्रतिषेध्यशीतादिविरुद्धस्याग्न्यादेरर्थस्य यत्कार्यन्तत्राप्यनुमितानुमानेनानुपलब्धिरेव
साधिताऽभावङ्गमयति व्यवहारतः । तथाहि ।
धूमादग्निः कार्यभूतात् प्रसिद्धः शीताभावं साधयेत् पूर्व्वयुक्त्या (।)
धूमादग्निरग्नेः शीताभावरूपादुपलब्धिविपर्ययाच्छीताभावव्यवहार इति तस्मात् प्रयो
गवचनविन्यासमात्रमेव विद्यते ।
न खलु वचनं सर्व्ववेदनविरुद्धं । न खल्वतीतेन्द्रियेण संह विरोधसिद्धिः । सम्वेदना
देव वचनम्प्रवर्त्तते कथन्तदभावं साधयेत् । सर्व्ववेदनेन विरुद्धमिति चेत् । केन विरोध
ग्रहणं । यदि हि वेदनोत्कर्षान्वयेऽपचयो दृश्यते वचश्विता (? स्विता) याः सर्व्वं शोभेत सर्व्व
वेदने सकलवचस्विताऽभाव एव । न चैतत् । वक्तारोऽसर्व्ववेदिन उपलब्धा इति चेत् ।
वक्तारो मूर्खा उपलब्धा इति किन्न सर्व्वस्य मूर्खता । वक्तुः पाण्डित्यमुपलभ्यत इति चेत् ।
तदपि नोपलप्स्यत इति कुतः । तथाहि ।
यथाहि मूर्खस्य वचनन्तदभावेपि पाण्डित्यसमये विशेषम्वचनन्तथा यदि सव्व
वेदनावस्थायामपि को विरोधः । नहि सर्व्वम्वेदनोत्कर्षविरोधिवचनम् । अत्यन्तोत्कर्षे
विरोघ्येवेति चेत् । न (।) विरोधस्याग्रहणात् । तादृशस्य वक्तुरनुपलम्भ एवेति नोत्तरं ।
अनुपलम्भस्य द्रश्यविषयत्वेन गमकत्वात् ।
अत्यन्तपरोक्षस्य हि सर्व्ववित्प्रेत्यभावादेरनुपलम्भमात्रादभावनिश्चयात् ।
अथापि स्यात्(।) सर्व्ववेदने सति अभ्रान्तस्य कुतो वचनसम्भवः । विवक्षा हि
पूर्व्वापरपरामर्शतो भ्रान्तोपजायमाना प्रवर्त्तयति वचांसि । नैतदपि सम्यक् ।
न खलु भावनाबलावलम्बिस्पष्टतरपरिमितेतरपदार्थदर्शनसमकालाभ्यासतो विवक्षा
न भवति । विवक्षाभावेपि पूर्व्वावेधतो वचनं । नहि वचनानां सन्निहितैव विवक्षा कारणं ।
पूर्व्वावेधतोन्यमनसोपि पदवाक्यविविक्तपाठदर्शनात् । अनेकपूर्व्वाभ्यस्तक्रियाप्रक्रमदर्शनाच्च ।
अनेन पूर्व्वापरपर्यालोचनमन्तरेणापि सन्निहितप्रतिपत्तृप्रतिवचनङ्कथमिति प्रत्युक्तं ।
शत्रुसन्निधिमात्रेण757 प्रवर्त्तन्तेऽविकल्पतः । प्रगे च तन्निराकारिप्रक्रियाः कायनिर्मिताः ।। २७५ ।।
यथा च पूर्व्वाभ्यासतो झटिति प्रबोधितस्यारिणा प्रहारादिदानेनानुरूप एव प्रक्रमः
शस्त्रोद्धरणादिकस्तथा सर्व्ववेदिनोपि सकलाः क्रिया इत्यविरुद्धं ।
तस्माद् विरुद्धादेवाभावनिश्चयः प्रतियोगिनः ।
शीतोष्णस्पर्शयोः परस्परम्भेदात् सहानवस्थानलक्षणो विरोधः सत्ताजन्मनोश्च
परस्परपरिहारलक्षण इत्यभेदः । न खलु जन्म सत्ताव्यतिरेकेण विरोधश्च । नहि सदेव
जायते । सतो हि सर्व्वनिरासंश (?शंस)स्य को जन्मार्थः । कथमव्यतिरिक्तयोः
परस्परम्विरोधः । परेणाव्यतिरेकेणाभ्युपगमादेवमुच्यते ।
ननु कोयम्विरोधो नाम । निवर्त्त्यनिवर्त्तकभावः । तथाहि ।
अविकलकारणमेकं यदपरभावे यदा भवेन्न भवेत् ।
ननु यद्यन्यस्याभावोऽन्येन क्रियते । तदयुक्तमभावस्य कार्यत्वाभावात् । अथ न क्रियते
तदा स्वयमेव विनश्यतः कः परेण विरोधः। न च क्षणस्य विनाशोऽन्येन क्रियते । उत्पन्ना
नुत्पन्नावस्थयोरयोगात् । अनुत्पन्नमसत् कस्य विरोधो विनाशो वा । उत्पन्नं स्वकाले
विनाशयितुमशक्यं क्षणस्याविकार्यत्वात् । अन्यकाले तु एव नास्ति कस्य विनाशः ।
सन्ततेर्विनाश इति चेत् । न । तद्व्यतिरेकेण सन्तत्यभावात् ।
ननु सन्ततेस्स एवं विनाशो य उत्तरक्षणप्रबन्धविघातः । तदप्यसत् ।
यद्युत्तरक्षणोत्पत्तौ कारणमस्ति कथम्व्याघातः । अथ न कारणन्दैवरक्ताः किंशुकाः ।
अथ कारणवैकल्यमेव विरोधिना क्रियते । तदप्यसत् । यतः ।
कारणस्यापि हि वैकल्यमवैकल्यकारणसद्भावे न शक्त्यभावे तत्कारणस्य स्वयमेब
भवति वैकल्यन्तत्र किम्विरोधी करिष्यति । अत्रपरिहारः ।
सन्निदेधीयमानदहनसहकारी मन्दतरतमादिशीतस्पर्शजनको हि पूर्वकः शीतस्पर्शो यावच्छीतान्तरं
शीतस्पर्शस्याजनकम्भवति । तस्य स्वयमेव निवृत्तेरपरस्य च कारणाभावेनानुत्पत्तिरिति
सहकारित्वेन विगुणशीतकारणजननेन निवर्त्तको वह्निः शीतस्येति व्यपदिश्यते । तत्कृता
तस्य विकलकारणोत्पत्तिरिति ततोऽनुत्पत्तिरेव । तस्य प्रागभावलक्षणा निवृत्तिरिति व्यपदिश्यते ।
उत्पत्तौ हि कारणानि व्याप्रियन्ते न निवृत्तौ । अथवा शीतस्य स्वहेतुनियतः स स्वभावो
येनाग्निसन्निधाने शीतक्षणान्तरं स्वकार्यन्नोत्पादयति । प्रतिनियता हि भावानां शक्तयः ।
एकत्र सन्निधानं विरुद्धयोः कथमिति चेत् । एवमेव विरोधोऽन्यथाऽयोगात् । न च क्षणयो
र्विरोधोपि तु प्रबन्धयोः(।) दृश्यते चैवमुष्णमनुभवतोपि नाद्यापि शीतमपैतीति सम्वेदनं । तथा
न स्वष्टान्धकारमपैतीति । अतिपरिस्फुटालोकसम्भवे तस्मिन्नेव क्षणेऽपैतीति चेत् । न (।)
तत्रापि तत्कारणसहितस्यान्धकारान्तरजननसामर्थ्यादालोक एवोत्पत्तिमान्नान्धकारः । स एव
नष्ट इति चेत् । न । तस्य स्वरूपेणोत्पन्नत्वात् ।
तस्मान्न स एव विनष्टः ।
नन्वदर्शनमेव विनाशः स एव च विनाश (ा) वस्थायामप्रतीतेः759
कथं स इति प्रतीतिः ।
यदा प्रतीयते न तदा विनष्टः (।) यदापि विनष्टस्तदापि न प्रतीयते । तेनैवासौ विनष्टो येन
न प्रंतीयते । अन्यथा प्रतीयमाने को विनाशार्थः । यदि नोपलभ्यमानो विनष्टः । न
प्रदेशो घटोपलब्धिरिति सोपि नष्टो भवेत् । प्राग् दृष्टो नोपलभ्यते यः स विनष्ट इति चेत् ।
सोपि प्राग्दृष्ट एव । यत्र दृष्टस्तत्र तदैव नोपलभ्यमानो विनष्टस्तदैवोपलभ्यते तदैव नोपल
भ्यत इति व्याहतं । कालान्तरे नोपलभ्यतेऽनन्तर इति चेत् । देशान्तरेऽनन्तरेऽनुपल
भ्यमानः कथन्न नष्टः ।
यदि देशान्तरव्यापी न सम्भवत्येव कश्चित् । तेन स एव न नष्टः कालान्तरव्याप्यपि
नैव सम्भवप्ति कथं सोपि नष्टः ।
ननु देशान्तरेऽनुपलभ्यमानेपि देशान्तर उपलभ्यमानः कथम्विनष्टः । देशान्तरवदेव
तर्हि कालान्तरेप्युपलभ्यमानः कथम्विनष्टः । कालान्तरेऽनुपलब्धिरिति चेत् । समानमेत
दुभयत्रापि । तस्माद् (।)
तस्मान्न स एव विनष्टोऽपि तु परो नोत्पन्नः कारणाभावात् । तदनुपलब्धौ स नष्ट
इत्यभिमानमात्रकं । तेनैवम्भूते विषये सहानवस्थानलक्षणविरोधव्यवस्था । परमार्थतः कारण
भावविशेष एव विरोधः । परस्परपरिहारस्थितलक्षणो विरोध एवमेव । यः क्षणिक
ञ्जनयति स नित्यस्वभावञ्जनयितुमसमर्थः । तेन नित्यत्वस्यानुत्पत्तिरेव । यथा
चानित्यत्वमपि(?) तन्नित्यत्वेन२ तथा नीलत्वादयोपि परस्परमिति नानयोर्विशेषः ।
(नानयोः परमार्थतः परस्परं विरोधयोर्व्विशेषः) । ततः परस्परम्विलक्षणत्वमेव विरोधः
कारणवशात् । स च पदार्थस्वरूपमेवान्यथा स्वरूपाभावात् । सा च तयोः परस्वरूपविल
क्षणोपलब्धिरन्यापेक्षयाऽनुपलब्धिरेवेति सर्व्वोऽनुपलम्भत एवाभावव्यवहार इति ।
इति युक्तमुक्तं । अतीन्द्रियाणाञ्च नायम्विरोध इति नाभावसाधिका विरुद्धोप
लब्धिः । नाप्यनुप (ल) ब्धिमात्रं । नोपलभ्यत इत्येतावता नास्तीति न भवति । यस्य हि
दर्श (न) ञ्ज्ञेयसत्ताम्व्याप्नोति स एवम्ब्रुवाणः शोभेत । तदापि स एव सर्व्वज्ञ इत्यप्रतिक्षेपः
सर्वविदः नापि परलोकादेः । सर्व्वदर्शिना नोपलभ्यत इत्यत्र प्रमाणाभावात् । विपर्यये
च प्रमाणमुक्तं । तस्मात् ।
यथा प्रतिबन्धतो वस्त्वेव वस्तुनः साधनं । यथाकथञ्चिन्न वस्तु वस्तुनः साधकम
प्रतिबद्धमेव । तथा वस्तवेव स्वनिवृत्तौ निवर्तकम्वस्तुनः । नहि प्रतिबन्धमन्तरेण वस्तुनिवृत्तौ
वस्त्वपरन्निवर्त्तते । यथा कार्यङ्करणं साधयति व्यापकञ्च व्याप्यन्तथाकारणाभावः कार्यस्या
भावम्व्यापकाभावश्च व्याप्याभावस्येति । अन्यथा स एव प्रतिबन्धो न स्यात् । अयमपि
प्रतिबन्धस्य भावो यावन्वयव्यतिरेकौ नान्यः प्रतिबन्ध इति ।
न हि पक्षासपक्षान्यतरत्वन्नित्यानित्ययोरेकत्रापि प्रतिबद्धं । इच्छाकृतो हि पक्षस्तद
नुसारेण यः सपक्षः सोपि तथैव । तत इच्छामात्रप्रतिबद्धत्वान्न वस्तु गमयति । न ह्यन्यप्रति
बद्धत्वमन्यङ्गमयत्यतिप्रसङ्गत् । नापि व्यापर्त्तते कुतश्चित् येन तदभावङ्गमयेत् । तस्यापि
पक्षत्वमिच्छाकृतमस्त्येव । तस्मात् सपक्षान्यतरत्वमगमकं । तथाऽविपक्षत्वादिक117b ञ्च ।
तस्मात् प्रतिबन्धादेव विधिनिषेधप्रसिद्धिः ।
ननु स्वभावानुपलम्भोपि गमक एव । नैतदस्ति । न तत्र परमार्थतो गम्यग
मकभावः । अभाव एवासौ य उपलब्धिलक्षणप्राप्तस्यानुपलम्भः । ततस्तेन सि
द्धेन व्याप्य
स्याभावसाधनं ।
अयमेवाभावः स्वभावानुपलम्भो नाम । आगोपालाङ्गनाप्रसिद्धमेतत् । सां ख्य स्तु
शास्त्रदृष्ट्या व्यामूढः प्रबोध्यते । एतावन्मात्रनिमित्तकोयमन्यत्राप्यभावव्यवहारः । अन्यथा
सुखादी
नामात्मनाञ्च न भेदसिद्धिः । शास्त्रादेव भेदसिद्धिरिति चेत् । न (।) प्रामाणिकत्वाद्-
236
भेदस्य । शास्त्रस्यापि च परस्परन्न भेदः स्यात् परस्परविविक्तोपलब्धिमन्तरेण ।761 सैव
च विविक्तोपलब्धि762रन्यस्यानुपलब्धिः (।) व्यक्ताव्यक्तयोश्च भेदो नानुपलब्धिमन्तरेण
सिध्यति ।
पलम्भनं ।
त्रिविध एवानुपलम्भ हेतोर्व्यापकस्य स्वभावस्य चेति । तस्य च हेत्वादेरुपलब्धिलक्षण
प्राप्तस्यानुपलम्भो गमको नान्यस्य नान्यथा । तस्मात् कार्यस्वभावानुपलब्धिजनितं लिङ्गज्ञानं
साध्यप्रतिपादकमविसम्वादि । ततस्तेन वस्त्वेव तथासिद्धमि
ति नावस्तुधर्मः ।
नन्वनित्योपम्वर्ण्ण इति स्वलक्षणयोजनाऽनित्यत्वस्य । तत्कथं योजनाद् वर्ण्णसामान्य
इत्यादि । नैतदस्ति ।
स्वसामान्यलक्षणाभ्यां ह्यव्यपदेश्यवर्णत्वाभ्यां वर्ण्णादिगृहीत्वाऽनित्यतया चानित्यम्व
र्ण्णा
दीति मनसा संधत्ते (।) यदुक्तमाचार्येण (।) तत्रायङ्क्रमो वर्णितो योजनाद् वर्णसामान्य (प्र॰वा॰२।७९) इत्यादिना । अनुमानेन वर्ण्णत्वसामान्येऽनित्यता प्रतिपत्तौ प्रमाणान्तरं ।
तत्सामान्धर्मि केन प्रतिपन्नं । अनुमानेन प्रतिपत्तौ अपरस्तत्रापि धर्मीत्यनवस्था स्यात् ।
यदा चालिङ्गज्ञानम्प्रत्यक्षोत्तरकालभावि तदा प्रमाणा
न्तरमेव । स्वलक्षणेन योजनात् ।
उभयत्रापि परिहारः । प्रामाण्यमेव तत्र नास्ति । उभयत्रापि प्रत्यक्षत एव सिद्धत्वात् ।
विकल्पस्य सामान्यग्राहिणो गृहीतग्रहणत्वात् । कथमनित्यत्वम्प्रत्यक्षसिद्धं । यतः ।
न खल्वनित्य118a ता वर्ण्णत्वादि चान्यभावस्वरूपात् । अभावस्वरूपमेव तत्तादृशं ।
तदेव विकल्पस्य तद्रूपग्रहणाशक्तेः सामान्यरूपम्भवति । ग्रहणव्यापार एव न तु सामान्यन्तत् ।
नहि नीलमेतदिति प्रत्यक्षप्रतिभासमानरूपादपरमिदन्नीलमिति विकल्पे प्रतिभाति तदेव
तु तथा व्यवह्नियते । अथ यथाभूतन्तन्नीलन्तथाभूतमेतदिति सामान्यम्पूर्व्वापरप्रत्यया
भ्यामागृहीतमेव गृह्यते । तदप्ययुक्तं । नहि पूर्व्वापररूपव्यतिरेकेणापरं सामान्यमुप
लभ्यते । तदेव तु तेन व्यवह्रियमाणं सामान्यं । व्यवहारस्य च तदेव स्वलक्षणमाश्रयः ।
ननु सामान्यानामनित्यत्वादीनाम्परस्परन्तद्वतश्च भेदो नानात्वं । अत्रोच्यते ।
नानेकरूपो वाच्योसौ स्वलक्षणात्मा विकल्पमात्रस्यानादिवासनासामर्थ्याद् भेदः । विक
ल्पस्य हि व्यावृत्तिभेदादन्वयव्यतिरेककल्पनया भेदाध्यारोपवृत्तत्वात् ।
237
व्यवहारमात्रकं हि सामान्य764
व्यहारविषयस्य च प्रसिद्धौ व्यवहारो नियमेन सामान्या
धिकरण्येनान्यथा वा765
प्रसिध्यति । व्यवहाराप्रसिद्धौ तु निमित्तप्रदर्शनेन स व्यवहारो विस्मृत
व्यवहारनिमित्तस्य निमित्तत्वस्मरणेन स्मरणविषयभावमुपनीयते766 । तस्मादनुमानम्व्यवहार
मात्रकमेव साधयति नापरं ।
ननु कार्यहेतोरनुमानाद् वस्त्वेवासिद्धमग्न्यादिकं साध्यते न व्यवहारः । तदप्यसत् ।
यद्यनुमानादग्न्यादिवस्तु प्रसिध्यति तदा तत्र कीदृशोऽग्नेरयमित्यवान्तरभेदजि घृक्षायां
प्रमाणान्तरमध्यक्षादिकन्न प्रवर्त्तते । तस्य प्रथमानुमानत एव सर्व्वाकारप्रसिद्धेः । प्राग् (?)
सम्भवोऽसम्भवः प्रमाणविरोधश्चेति । कारणात् योग्यात् कार्यमुत्पत्तिमदिति सम्भवः ।
कारणाभावे कार्यानुत्पत्तिरित्यसम्भवः । प्रमाणविरोधोपि शीतोऽग्नेरिति । तत्राध्यक्षेण
सर्व्वाऽकारग्रहणमिति सम्भवः । अनुमानेनासम्भवः । प्रमाणविरोधश्चेति । प्रमाणान्तर
प्रवृत्तेः । तदेतत् तमोविजृम्भितं । यतः ।
यदि तदव्यतिरिक्ताकारपरित्यागोऽसम्भवात् सर्व्वाकारग्रहणस्य प्रमाणान्तरप्रवृत्त
विरोधाच्च तदा वस्तुग्रहणमपि नास्त्येव । कथं हि तद्ग्रहणे तदव्यतिरिक्तापरिग्रहः । न खलु
तदेव गृहीतमगृहीतञ्च युक्तिमत् । तथा ज्ञानमपि तद्ग्रहि तदग्राहि चेत्येषोप्यसम्भवस्य ।
अथापि स्यात् ।
लिङ्गं हि सकलव्यक्तिसाधारणतया परिगृहीतमनैकान्तिकम्प्रतिनियतव्यक्तौ ।
यद्येवम ।
न ज्ञायते कोत्र वह्निरिति वह्निमात्रमेव प्रतीयते । कोप्यत्र वह्निरिति पूर्व्वानेकवह्नि
दर्शनानुसारेण प्रतीतिरेवेयङ् केवला न वस्तुसंस्पर्शः । प्रत्यक्षेण वस्तुसंस्पर्शे किम्भेदसन्देहः
सम्भवी ।
ननु सन्देहे कथम्प्राप्तिः । प्राप्तिरपि सन्देहानुरूपैव । कदाचित्कस्यचिदग्ने प्राप्तेः ।
तेन कार्यहेतावपि व्यवहार एव केवलन्न वस्तुसाधनं ।
ननु स्वभावहेतौ वस्तु दृष्टमिति प्राप्यते (।) कार्यहेतौ तु कथमदृष्टस्य प्राप्तिः ।
न खलु केशादिषु दर्शनमस्ति ।767तथापि तर्दार्थतया भवत्येव वृत्तिः । यत्रास्ति तत्र
प्राप्तिरन्यत्र नेति निर्ण्णयः । न च स्वभावहेतौ प्रत्यक्षे कार्यहेतौ च वस्तु गृह्यते । अगृही
238
तस्यैव सर्व्वत्र प्राप्तेः । भावि हि वस्तु प्राप्यं । न च स्वरुपङ् कथन्तस्य ग्रहणं । भावि
रूपेणैव गृह्यत इति चेत् । न (।) तथाऽप्रतीतेः । अथापि भाविरूपेण प्रतीयते । तथापि
तदन्यथाप्रतीतमन्यथोत्पत्तिमन्न स्यात् । सामान्यस्य प्रतीतिरिति चेत् । सामान्यस्य प्रतीतौ
विशेषस्य कथम्प्राप्तिः । स्थितत्वाच्चेत् । नहि सामान्यं (विशेष) वस्त्वन्तरेण भवति ।
धूमादिकमेव तर्हि लिङ्गम्वस्त्वन्तरेण न भवतीति तत एवास्तित्वमिति किं सामान्येनासामान्य
प्रतीतिमन्तरेण कथम्प्रवर्त्तते । लिङ्गप्रतीतावेव प्रवर्त्तिष्यते । अन्य प्रतीतौ कथमन्यत्र प्रवृत्तिः ।
सामान्यमप्यन्यदेवेति समानो दोषः । नैकान्तेनान्यत्सामान्यं । यद्येवं ।
सामान्यरूपेण ग्रहणन्न विशेषरूपेण (इति) चेत् । विशेषरूपे कथम्प्रवर्त्तते । तदपि
गृहीतमेवेति चेत् । किमर्थम्प्रवर्त्तते । प्रप्त्यर्थमिति चेत् । ननु सापि प्राप्तिः स्वरूपप्रतिपत्तिरेव
सापि यदि जाता किमर्थम्प्रवर्त्तते । केनचिद्रूपेण प्रतिपत्तिः केनचिन्नेति चेत् । येन रूपेण
प्रतीतिस्तेन न प्रवर्त्तते व्यर्थत्वात् । येन च न (।) तेनापि नाशक्तोः । न च प्रतिपन्ने सन्देहः ।
नाप्यप्रतिपन्ने । उभयरूपसंस्पर्शरूपत्वात् सन्देहस्य । सामान्यविशेषयोरेकरूपत्वादप्रति
पन्नेपि विशेषे प्रवर्त्तत इति चेत् । न (।) अविषयीकृतेऽयोगात् । न च प्रतिपन्नेनाप्रतिपन्नस्यै
कत्वमिति प्रतिपादितं । प्रतिपन्नैकत्वम्प्रत्येति नाप्रतियन् । अथापि कालान्तरे प्रत्येति ।
कालान्तरे न प्रत्यक्षन्नानुमानमिति प्रतिपादितं ।
ननु यदि वस्त्वनित्यत्वादेकङ्गृहीतमेव सर्व्वात्मना कथन्तस्यानुमेयत्वं । व्यवह्रिय
माणतया चेत् । कस्मात् स एव निश्चयो न भवति व्यवहारात्मा । नेदमुत्तरं । यतः ।
न खलु मायागोलके भेदस्य न प्रतीतिः । तथापि सदृशत्वात् तदन्तरेण स एवायमिति
प्रतीतेर्न्न भेदव्यवहारः ।
ननु यद्यपि स एवायमिति प्रतीचिर्भ्रान्ता, दर्शनन्तु पुनरभ्रान्तमेव कथन्न भेदप्रतीतिः ।
अथ तिरस्कृता सती प्रतीतिरप्यप्रतीतिरेव कार्यतः । न तिरस्करणन्नामास्ति स्वरूपसम्वेदन
योर्वेदनयोः । परस्परपरिहारेणावस्थानाद् द्वयोर्व्वा परस्परान्तिस्करणमिति प्राप्तं ।
अन्योन्यपरिहारेण व्यवस्थिता चेत् तिरस्क्रिया ।
यथैव विकल्पः स्वरूपसम्वेदनात्माऽनुभवतो भिन्न इत्यनुभवस्य तिरस्कारकारी ।
तथानुभवोपि विकल्पस्य स्यात् । अथैकत्वे समासक्तचेतनस्य भेदे बुद्धिरेव नोपजायते । तथा
सत्यनुभव एव नास्तीति कस्तस्य तिरस्कारार्थः । अत्रोच्यते ।
[ पूर्व्वकम्वस्तुदर्शनञ्च व्यतीतं तदिदानीम्व्यवहर्त्तव्यमेव केवलं । व्यवहारश्च नित्य
तया । ततः कथन्तेनातीतेन दर्शनेनास्य तिरस्कारः विपरीताध्यवसायस्तु तदानीमस्ति । ततः ]
स एव व्यवहारयति लोकं । ततः स एव तस्य तिरस्कारो यस्तदनुरूपव्यवहाराभावः परस्पर-
भेदेनानुपलक्षणात् । ततो मायागोलकस्येव द्वितीयादिक्षणस्य भेदेनानुपलक्षणत्वात् स
एवायमिति व्यवहारः ।
ननु माया गोलकादौ भेदः परिगृह्यत एव निरूपणतो निरूपणैर्न त्वेवं क्षणिकता ।
तदप्यसत् । तथाहि । अतादवस्थ्यम्विनाशोऽनित्यतेति च व्यपदिश्यते । न च प्रदीपादीनान्ता
दवस्थ्यमपि तु परापरतैलोपादानजन्यमाना परापरैव प्रदीपज्वाला केवलन्तु सादृश्यात् समान
सामग्रीतो वा स एवायमिति व्यवहारः ।
नन्वेकदैव तैलजनित एक एवासौ प्रदीपज्वालावितानः । नैतदपि सम्यक् । यतः ।
न खलु प्रथमतैलादिसामग्रीसम्पातमात्रतः सकलकाल (कला) कलापव्यापिनी
प्रदीपादावुत्पत्तिमति ततः परं स्थालभूतलतैलानलजालसमवधानङ्769 कथञ्चिदर्थम्पुष्णाति ।
निष्पत्तेरपराधीनस्वभावत्वात् । अथ निष्पन्नस्यापि कालान्तरव्यापिता तैलाद्यनुवर्त्तमानस्यैव
नान्यथेति चेत् । न (।) कालान्तरस्थायितयैवोत्पत्तेः । अकालान्तरस्थायिनस्तु पश्चात्
तैलादिसामग्र्या न किञ्चित् कर्त्तुं शक्यमिति व्यर्थता स्यात् । अन्यस्योत्पादने सैवानित्यता ।
तथा च यद्यसावुत्पन्नः सर्व्वात्मना गृह्यते । चक्षुरादिना सर्व्वात्मना तस्य ग्रहमिति व्यर्थतैव
चक्षुराद्यनुवर्त्तनस्य (।) अथापरापरदर्शनेन कालान्तरस्थायिता ग्रहणेन वा । तथा सति परा
परदर्शनानां विच्छेदादिकेनापि न कालान्तरस्थानग्रहः । ग्रहणस्य तु कालान्तरस्थानवत्त्वे
सकृदेव तथा ग्रहणमिति तदेव चक्षुरनुवर्त्तनं वृथेति प्राप्तं । तस्माद् दर्शनस्य न पूर्व्वापर
स्वरूपग्रहणमीषदपीति क्षणमात्रकमेव प्रतिभासते ।
अथापि स्यात् (।) स एव पूर्व्वापरहितो वस्तुस्वभाव आयतो भविष्यति । तदसत् ।
यथा यथा दर्शनमपरापरम्प्रबन्धेनोपजायते तथा तथा दीर्घकालाताम्प्रत्येति नान्यथा ।
न च सकृदेव प्रतिपन्नङ् काला (दि) दीर्घतया दीर्घ । तस्माद् दर्शनङ् क्षणिकतामेव प्रत्येति ।
यदि क्षणिकतैव प्रत्यक्षेण परिच्छिद्यते स्वभावभूता, कथम्परिच्छिद्यमानतायामपि व्यामोहः ।
अत्रेदमुच्यते ।
यथा खलु शक्तिः परिच्छिन्नापि न निश्चीयतेऽनन्तरङ् कार्यमदृष्टवता ।
दर्शनेपि सर्व्वाकारतया भावस्य व्यामोहोऽभ्यासवजितस्य । ततो न निश्चयः ।
240
ततो व्यामोहव्यावर्त्तनायानुमानम्प्रवृत्तिमत् । येषान्तु पुनरभ्यासपाटवादयो निश्चयस्य हेतवः
सन्ति ते महामतितमत्र(शक्तः)यः१ अध्यवसायादर्शनमात्रकादेव । तस्मात् सामान्य
माश्रयसिद्धौ सामान्यं सिद्धमेव यत्र न व्यामोहः । यत्र तु व्यामोहोस्ति तत्रानुमानं
कथन्तर्हि वस्तुन एकत्वात् तदनुसारिभिर्विकल्पैरपि नानाधर्मता व्यवस्थाप्यते ।
नहि नीलानुभवानुसारी विकल्पः पीताध्यवसायस्वभावः । अत्रोत्तरं ।
सजातीयवीजातीयव्यावृत्तिभाजो हि जगति जन्मभूतः । ते यतो यतो व्यावर्त्तन्ते
ततस्ततो भेदमवधिभेदोपकल्पितं770
तन्तमुपादानमादाय नानाधर्माणः प्रतीयन्ते । यदि
सर्व्वतो व्यावृत्तिमन्तो भावाः कथमेकयैव हेलया771
सकलव्यावृत्यनिश्चयः । भ्रान्तिकारण
सद्भावादिति ब्रूमः । पूर्व्वदृष्टस्य विस्मरणात् । नहि पूर्व्वदृष्टस्य तथैव विषयीतकणे
व्यावृत्त्यनिश्चयः । तथाहि ।
नानुभूतस्य तथैव स्मरणनिश्चयाभावः । अयमेव निश्चयो यत्तथैव स्मरणं ।
अभ्यासतश्च तथैव स्मरणात् । तस्मादभ्यासवतामीक्षणान्तरमेव निश्चयः । अन्यथा
स्मरणनिवारणायानुमानमिति स्थितमेतत् । अपरः प्राह ।
उदयव्ययानुषङ्गिणो हि सर्वभावाः । उदयः प्रत्यक्षविधिसाधकानुमानसाध्यः व्ययश्चा
भावः । सोऽनुपलब्धिसाध्यः (।) यावान् प्रतिषेधः सर्वोऽनपलब्धिसाध्य इति । नापरः
प्रतिषेधस्य साधनोपायः ।
ननु नित्यताभावस्वभावभूता विधिः साधकेनैव प्रमाणेन प्रतीयते । नेदमस्ति । न
स्वभावमात्रकादेवानित्यता । अपि तु ।
भूत्वा यो न भवति सो (ऽ) नित्यो न भवनमात्रतः772 (।) स चा भावोऽन्यत्राप्यनुपलब्धि
साधकः ।
नन्वस्य वादित उभयान्तव्यवधायिका सत्तेवानित्यता नाभावलक्षणा । उभयान्तत्वञ्च
पूर्वापरान्तयोः (।) सत्ता च नानुपलम्भमाध्या तत्कथमेतत् । अत्राह ।
241
न तावत् सत्तमात्रमनित्यताऽत्मादीनामप्यनित्यताप्रसङ्गात् । रूपवेदनादीनाञ्चा
विशेषेण उभयभूतान्तमध्यमध्यासीना सत्ताऽनित्यता वक्तव्या । न चोभयान्तताऽभावमन्तरेण
काचिदस्ति । अभावसङ्कमे च सोऽभावानुपलब्ध्या गृह्यते नान्येन ।
यदि प्रागभावप्रध्वंसाभावोभयाप्तव्यवधायिका सत्ताऽनित्यता । स एवाभावोऽ
नित्यता किन्नेष्यते ।
यद्ययमभिप्रायो भावस्यानित्यतेति षष्ठ्यादियोगो न भवेद् यद्यभावो नित्यता ।
अभावेन सम्बन्धाभावात् । नहि भावस्याभावस्य च संयोगसमवायादिलक्षणसम्बन्धोऽयोगात् ।
यदि विशेषणविशेष्यभावेपि समवायादिसम्बन्धमन्तरेण नेष्यते । स तर्हि षष्ठ्यादि
योगो विशेषणविशेष्यभावो वान्तयोः सत्तया भावेन वा कथमुपपन्नोऽन्तव्यवधिभूता सत्ता तद्वि
शिष्ठा चेति वचनव्यक्तौ ।
उभयान्तव्यवधिः सत्ता सत्सम्बन्धो वा समवायलक्षणोऽनित्यतेति वचने नियमेन सत्ता
सम्बन्धयोरन्ताभ्याम्विशेषणमभ्यपगतम् । न चेदं युक्तं । द्वयोरपि नित्यत्वाभ्युपगमात् ।
अन्तविशिष्टा हि 774
सत्ता कथम्भवेत् यदि सोत्पादव्ययवती । अथ स तत्र भावे सत्तासम्बन्धो
वा न स्यात् ताभ्याम्विशेषणमेवन्तर्हि स एव भावस्तद्विशिष्टोऽनित्यः किं सत्तया ।
अव्यतिरेकात् षष्ठी न भवेदिति चेत् । सत्ताया अस्तित्व775 मिति कथं । किञ्च । भावस्या
नित्यतेति भावस्य प्रागभावप्रध्वंसाभावौ तावेवानित्यता । ततो व्यतिरेकादस्ति व्यतिरेक
विभक्तिः । अथ कार्यकारणयोरुभयान्तता । कारणमित्येकोऽन्तः कार्यमिति द्वितीयः ।
ताभ्याञ्च कार्यकारणाभ्यां सत्तायाः सम्बन्धस्य वा विशेषणं नोक्तः776 । भावे च कार्य
कारणयोः सम्बन्धः कार्यकारणभावः सत्तायाः समवायलक्षणः777 । अत्र प्रतिवचनम् ।
यस्य हि प्रागभावः स्वकारणेन सम्बध्यते । न च भावस्य प्रागभावेन सम्बन्धोऽभ्युप
गम्यते । तदभ्युपगमे प्रागभावप्रध्वंसाभावावेवानित्यतेति प्रकृतहानिः पक्षान्तरसमाश्रयणं
च । तस्मादसम्बन्ध एव प्रागभावेन भावस्य । प्रागभावोपाधिश्चायं समाख्याविशेषः स
242
तदभावे न स्यादिदङ्कार्यमिति । न च कार्यमन्तरेण कारणं । अथवा नान्येन प्रकारेण
कार्यकारणत्वाभावः । यतः ।
सत्तासम्बन्धकरणेन हि कारणं स्वकारणसम्बन्धकरणेन च । स्वकारणं समवायि
कारणं समवायिकारणसमवेतं हि प्रायशो वस्तूत्पत्तिमत् । न च सत्तासम्बन्धयोः कार्यता ।
भावस्यापि सम्बन्ध एव सत्तया कार्यो नान्यथास्य कार्यता । स्वरूपेणैव कार्यता चेत् । न ।
नहि भावस्य कस्यचिदपि प्रागभावेन सम्बन्धः । यद्यपि नामावस्तुत्वादसम्बन्धस्त
थापि पूवमसावविद्यमान एव । ततः कार्यता भविष्यति ।
ननु यस्याविद्यमानतया सम्बन्धः सोऽविद्यमानः । अन्यथा सर्वमेवाविद्यमानम्भवेत् ।
ततश्चास्ति प्रागभावेन सम्बन्ध इति प्राप्तं । न चाभ्युपगम्यते । ततः सकलमेव नित्यञ्ज
गत् प्रसक्तं कथन्तर्ह्यभावेन सम्बन्धः ।
भिन्नो वा भवत्यभिन्नो वार्थस्तत्र बुद्धिपरिकल्पित एव सर्वत्र सम्बन्धः । वस्तु वस्तुनो
यदि व्यतिरिक्तङ्कः सम्बन्धः । व्यतिरेक एवेति चेत् । यदि नाम व्यतिरिक्तन्तस्य कः सम्बन्धो
व्यतिरेकस्य सर्व्वत्र समानत्वात् असम्बन्ध एव न स्यात् । तादात्म्यतदुत्पत्तिलक्षण इति चेत् ।
भिन्ने का घटनाऽभिन्ने कार्यकारणतापि वा ।
न खल्वभिन्नस्य सम्बन्धो द्विष्ठत्वात्तस्य कार्यकारणभावो न स्यात् (।) तादात्म्यलक्षणस्तु
कथन्न स्यात् । न (।) तत्र सम्बन्धस्य कल्पितविषयत्वात् । कल्पितौ हि तत्र सम्बन्धिनौ
भिन्नत्वे तादात्म्यलक्षणः सम्बन्धो नास्तीति सिद्धमेतत् । कार्यकारणभाव इति चेत् । किमिदं
कार्यकारणत्वन्नाम । अन्वयव्यतिरेकित्वमिति चेत् । न (।) तस्य कल्पितत्वात् । प्रत्यक्षतोऽ
ग्रहणात् । तस्मात् सर्वः778
कल्पनानिर्मित एवायन्न परमार्थः । तस्मादयम्व्यतिरेकविभक्तिर्य
थाकथञ्चित् कल्पितं सम्बन्धमाश्रित्य प्रवर्त्तते नापरः प्रकार इति । प्रागभावादिनापि भावस्य
सम्वृत्या सम्बन्धो न परमाथन कस्यचित् केनापीत्येकान्त एषः(।) तस्माद् योजनाद् वर्ण्णसामान्ये
न प्रमाणान्तरत्वम्प्रमेयान्तराभावात् । न च पुनः पुनरभिज्ञानेऽनिष्ठासक्तेः स्मृतादिवत् ।
पुनरभिज्ञानं हि स्मर्यमाणमेव ।
नन्विन्द्रियव्यापारानुविधानादविसम्वादाच्च779 प्रमाणमेव कथमप्रमाणम्प्रत्यभिज्ञानं ।
न (।) इन्द्रियव्यापारस्य सन्निहितमात्रविषयत्वात् । यदि सन्निहितमात्रविषयत्वङ्कथं स एवाय
मिति कृत्वा प्रवर्त्तते । नैतदस्ति । यस्मात् न स एवायमित्येव प्रेक्षावान् प्रवर्त्तंते ।
समीहितफलप्राप्तिहेतुरित्येव वर्त्तते । यद्यपि स एवासौ तथापि न प्रवर्त्तनविषयः । अर्थक्रिया
साधनविषया हि प्रेक्षवताम्वृत्तयः । न च तेनैव सार्थक्रिया साधनीया स्वकारणाधीनशक्तयो हि
भावास्तामन्याम्वाऽर्थक्रियाङ्कल्पयन्ति नैकत्वभाजनत्वेन । न चार्थक्रियासम्बन्धः प्रत्यक्षविषयः
पूर्व्वदृष्टस्यैव स्मरणात् । तदर्थक्रियाकारित्वेन च स एवायमिति प्रत्ययस्य विषयो न स्वरूपेण ।
पूर्व्वं यदि दृष्टत्वेन च ग्रहणे स्मरणमेव । इह योजने त्वनुमानन्तदर्थक्रियायोग्यत्वमत्रापि ।
तदभेदोपचारादेकत्वव्यवहारः । अविसम्वादोपि नैकत्वविषयोऽनैकत्वेप्यर्थक्रियावाप्तेः । अग
म्यागमनादिकन्तु तत्प्रसूतित्वादेव सन्तत्यपेक्षया ।
तस्मान्न प्रत्यक्षं सामान्यविषयं । नाप्यनुमानस्य विशेषविषयता ।
ननु विशेषदृष्टमनुमानं विशेंषमेव प्रत्यभिजानाति । तदप्यसत् ।
यदा खलु दृष्टो वह्निः पुनरपसृत्य व्यवधानें सति धूमादवसीयते । तदा कालान्तरे स
एव विशेषो न प्रत्यभिज्ञायतेऽपरापरस्य भेदस्य सम्भवात् । भेदे च सत्येकत्वाध्यासेन
प्रतिपत्तिः सामान्यमेव विषयीकरोति । यत्र तर्हि स्थिरे पदार्थात्मनि न भेदसम्भवो विकारा
भावात् । तत्र तस्यैव विशेषस्य प्रत्यभिज्ञानं । तदेतत कथमवगन्तव्यं । न ह्यदृश्यमाने
विकारो न सम्भवतीति निश्चयः । अथान्यत्राप्येवमेव दृष्टस्तथा सति दृष्टसाम्येन व्यक्तय
न्तरेण प्रतिपत्तिर्न्न विशेषविषयत्वं ।
यदि तदेव निदर्शंनं पूर्व्वप्रत्यक्षेण सिद्धत्वात् तथा सति पूर्वकेणैव प्रत्यक्षेंण ग्रहणात्
किम्पुनः प्रमाणेन । नानुमानेनात्र कार्यं । यदि पूर्वकमेव प्रत्यक्षं विशेषदृष्टानुमानकाल
भाविसत्तोपग्राहितेनैव सिद्धत्वात् किमनुमानेन । प्रत्यक्षाविषये हि प्रवर्त्तनमनुमानस्येष्यते
न (।)780 तत्रैव । अत एव विशेषदृष्टमिति चेत् । भवतु विशेषदृष्टं तस्य प्रमाणन्तु न स्यात् ।
अथ दर्शनेन समानकालभाव्येव पदार्थः परिगृह्यते नेतरस्ततो भाविनि प्रवर्त्तमानमनुमानम्प्र
माणमेव । यद्येवमन्यन्निदर्शनं यद्रूपम्पूर्व्वम्प्रतीतम् (। अन्यदा) दार्ष्टान्तिकं यद् उत्तरकाल
मनुमानेन प्रतीयते । अथ गृहीतमेव तत् किन्तु विस्मृतं (।) ततोयमदोष इत्याह ।
विस्मृतस्य तस्य पुनर्लिङ्गद्वारेण781
तथैव स्मरणमिति न व्यर्थताऽनुमानस्य । कथन्त
र्हि विस्मृतस्य दृष्टान्तता । दृष्टान्तद्वारेण हि साधनम्प्रवर्त्तते तस्य चेद् विस्मरणं कथं स
दृष्टान्तः । यदि लिङ्गात् प्रागस्य विकलस्य782
दृष्टान्ततया स्मरणन्तदा किमपरमत्र लिङ्गेन
कर्त्तव्यं । तदेव पुनस्स्मर्यंत इति चेत् । अनवस्था भवेत् । अथ विस्मृतं तदा न दृष्टान्तता ।
अथ दृष्टान्तमन्तरेणैवाकस्माद् धूमादग्निप्रतिपत्तावितरस्य विस्मृतस्य लिङ्गात् प्रतिपत्तिः ।
तदा तस्याविकलकालकलाव्यापिनः पूर्व्वप्रत्यक्षेणैव ग्रहणात् विशेषमप्रतियतः कथम्प्रमाणता ।
244
स्मरणे सति तत्र व्यवहारादिति चेत् । तथा हि स्वभावहेतोर्गृहीतस्यापि सर्वात्मना तथैव
व्यवहारे सति प्रमाणता । न (।) तत्रापरदृष्टान्तसाधर्म्येणैव व्यवहारयोग्यतासाधनात् ।
न त्विह तथा प्रागेवाभावात् । अभ्यासानुत्थानात् । दृष्टमेतदित्यपि न सङ्गतमन्यथा
भावसम्भवात् ।
न खलु गृहीत एव स्मरणमेतदिति सिद्धमगृहीतत्वस्य भावात् प्रमाणं । स्वकालपर्यव
सायि हि रूपम्प्रत्यक्षेण गृह्यतेऽन्यथा मरणावधि गृह्येतेति तदैव मरणं भवेत् । अनुवर्त्तमानेन
मरणावधि गृह्यत इति चेत् ।
यत्तर्हि नानुवर्त्तते न तेन कालान्तरव्यापि परिग्रहः । ततः कथङ्गृहीत एवानुमान
म्प्रवर्त्तते विशेषदृष्टं । कथन्तदेव निदर्शनमित्यसामान्यग्रहणं ।
अथ दृष्टे कालान्तरसम्बन्धेन कालान्तरे यदन्यदुत्पद्यते तस्य तद्भावसिद्धिरिति विशेष
दृष्टमेवैतत् अत्रोच्यते ।
अथ दृष्टमन्यदपि पुनः कालान्तरे तदेवेदमिति साध्यत इत्यभ्युपगमः । स तर्हि तदन्यत्र
तत्वारोपो नियोगत एव विपर्यासः । न हि दृष्टेऽन्यतया तत्त्वन्तत्वतः सम्भवति । अपरि
दृश्यमाने च परिदृष्टरूपाध्यारोप एव शक्यो न तत्त्वग्रहः । तस्य पूर्वदृष्टस्य पूर्वप्रत्यये
नानन्यरूपसंसृष्टस्यैव ग्रहणात् । यद्यपि न गृह्यते तथाप्यनुमानेन तत्त्वेनैव गृह्यते नान्यत्वेनेति
चेत् । नानुमानस्य पूर्वग्रहणानुसारित्वान्न स्मरणमात्रादन्यदनुमानं । अथ वस्तुग्रहणरूपमनु
मानं । तदा ।
यदि प्रत्यक्षमितरच्च रूपमेकमेव तदैकेनैव प्रमाणेन प्रत्यक्षेणेतरेण वा सिद्धत्वादितरद
प्रमाणम्भवेत् विशेषस्य कस्यचिदितरेणाकरणात् । तदा स्पष्टाकारा प्रतीतिरुभयत्रापि
भवेदितरा वा । अथ चक्षुराद्यव्यापारादस्पष्टता । तत्प्रतिबद्धत्वात् स्पष्टतायाः। नैतदस्ति ।
अथालोककृता स्पष्टता तदा सत्यालोके कथमनुमानमस्पष्टावभासि । कादाचित्क
त्वादालोकस्येति चेत् । स तर्हि परमार्थतो विद्यमानोप्यालोको नावधार्यते (।) तत्कथम्वस्तु
ग्रहणम् (।) आलोकरहितस्य वस्तुमात्रस्य ग्रहणाददोष इति चेत् । आलोकसहितस्य
तद्रहितग्रहणमिति साहसं । तथा चेत् तदेव सामान्यग्रहणमिति न विशेषदृष्टमेतत् ।
अपि च । पूर्वदृष्टावुसन्धानमात्रमेतत् । न स्पष्टस्वरूपतया परिग्रहस्तदा स्मृतिरेव ।
नह्येकरूपतायाम्प्रत्यक्षानुमानयोः किञ्चिदधिकम्प्रमीयत इति स्मृतिरेवे यन्न वस्तुग्रहणम् (।)
अथ लिङ्गादुत्पद्यते तत्कथं स्मरणं । नैतदस्ति । न हि लिङ्गतास्य विद्यते त्वन्मत्या
त्रैरूप्याभावादेकत्वाद् दृष्टान्तदार्ष्टान्तिकयोः784
(।) अस्मत्पक्षे त्वनुमानमेवैतत् सामान्यविषय
मिति प्रतिपादितं । यदेव हि पूर्वतयावगम्यते तदेव स्मर्यमाणं न ग्राह्यं (।) गृह्यमाणतयाऽ
प्रतीतेः । नह्यनुमानस्मरणादन्यत् स्मरणमेव लिङ्गादुत्पद्यमानमनुमानं । तस्मादसकृत् तदेव
येन प्रतीयते तत् स्मरणमेव । कथन्तर्हीदानीमस्तीति प्रतीतिः । इदानीन्तनमस्तित्वम्पक्षधर्म
सामर्थ्यादेव गम्यते । तत्प्रदेशवर्त्ती धूमस्तत्प्रदेशवर्त्तिनैव वह्निना जन्यत इत्येवमेव पूर्व
सम्बन्धग्रहणादनादिवासनाप्रबोधतः । एवञ्च सति सकलमनुमानं स्मरणमेवेति स्थितमेतत्(।)
प्रमेयद्वैविध्यात् प्रमाणद्वैविध्यम्प्रत्यक्षानुमानभेदादिति । साक्षादितरप्रतीतिभेदव्यतिरेकेण
प्रकारान्तराभावादिति ।
४. प्रत्यक्षचिन्ता
(१) प्रत्यक्षलक्षणविप्रतिपत्तिनिरासः
तत्र (।)
प्रत्यक्षङ् कल्पनापोढमभ्रान्तं785
विशेषणादिसम्बन्धवस्तुप्रतिभासाप्रतीतिः क ल्प ना । अन्यथा प्रतिभासो भ्रान्तत्वं
(।) तेनोभयेन रहितं प्रत्यक्षं ।
ननु भ्रान्तत्वम्पुनः प्रत्यक्षेणान्यथा दर्शनादवगम्यते । कल्पनापोढता तु कुतः ।
नहि प्रत्यक्षपूर्वकमनुमानन्तदभावेऽवतरणमासादयति । सकलश्च प्रत्ययः शब्दानुरे(ा)
धादेवोपजायते(।) ततः प्रत्यक्षं सविकल्पकङ् कथमात्मनोऽविकल्पतामवगच्छेत् । यस्या
प्यालोचनाज्ञानम्विकल्परहितम्प्रथममुपजायते तस्यापि स्मरणादिसामग्रीसमवधानात् सविक
ल्पकप्रत्ययोदयः । स चाक्षव्यापारतः प्रत्यक्ष एव । तस्यापि कथमविकल्पकत्वसिद्धिः ।
अत्र प्रतिवचनं ।
विकल्परहितम्प्रत्यक्षं स्वसम्वेदनादेव प्रतीयते । विकल्पो हि नाम जनयति नामापि
विकल्पं स नामसंश्रयो विकल्पः प्रत्यात्मवेद्यतयानुभूयते । स्वसम्वेदनेन विकल्पस्यानुभवात् ।
चक्षुरादिना दृश्यस्य ततो विरुद्धधर्माध्यासतो भेद एव विकल्पकेतरप्रत्यययोः । अथापि सर्वंदा
तद्भावादिक एवायम्प्रत्यस्तदपि नास्ति (।) यतः ।
यद्यक्षम्विकल्पसामग्रीविरहि न प्रवर्त्तत एव तदभावे संहृतविकल्पावस्थायामन्यविकल्प
सम्मुखीभावे वा चक्षुषो व्यापारो न, स्यात् पदार्थग्राही । ततस्तस्यामवस्थायामसङ्गतविकल्पः
प्रतिभासमानः प्रत्ययः प्रत्यक्षत एव गम्यते ।
ननु यदि सङ्गतो विकल्पो नास्मिन्निति तदैव प्रत्ययः कथम्विकल्पविरहिणी सावस्था ।
अथ न विकल्प (आधाराधेयाभाव) एव तदानीन्तदा निर्विकल्पकमेतदिति कथम्प्रतीतिः ।
नहि विकल्पमन्तरेण व्यवहारः । न च परमव्यवहारयता परः प्रतिपादितो भवति । अन्यथा
क्षणिकत्वेपि किं स्वभावहेतुना व्यवहारकारिणा । अत्रोच्यते ।
न खलु तदिव तस्य विकल्प उपजायते निर्विकल्पकमेतदिति । अन्यथा विकल्पप्रत्यक्ष
वादिनोपि यावत् सविकल्पकमेतदिति न जायते निश्चयस्तावत् कुतः सविकल्पकत्वव्यवहारः ।
ततः सविकल्पकत्वव्यवहारेपि सविकल्पः पुनरेषितव्यस्तत्राप्यपर इत्यनवस्थानादप्रतिपत्तिः ।
अथ स्वयमेवासौ सविकल्पक इति किन्तत्रापरेण (।) अविकल्पकस्यापि प्रतीतिरूपत्वात्
किम्विकल्पेनेति समानमुभयस्यापि ।
अथ विकल्पके पश्चाद् व्यवहारः सविकल्पकोयमित्यत्रापि पश्चान्निरूपयत एवम्विध
विकल्पपरम्परासीदिति व्यवहारो न संहृतविकल्पावस्थायां । तत्र निर्विकल्पकत्वं ममासी
दित्यव्यवहारत् । अथ तदानीमविद्यमानस्य कथम्विकल्पेन व्यवहारः । मृते कथम्मृत इति
व्यवहारः । अन्यथा सविकल्पकस्यापि कथं सविकल्पकत्वव्यवहारः । पुनस्तज्जातीयस्य दर्शना
दिति चेत् । इहापि संहृतविकल्पावस्थायाम्पुनःपुनर्दर्शनमनिवारितमेव । तेन लक्षणभेदा
दन्योन्यव्यतिरेकेण च भावान्नैकत्वं सविकल्पकेतरयोः ।
अथ सामग्रीसद्भावात् (विकल्पारम्भात्) सविकल्पकोऽन्य एवोत्पद्यते तदभावादवि
कल्पक इति (।) तदसङ्गतं ।
स हि तत्रान्य एव नीलपीतादिसमुदाय उत्पन्नोवान्तरसामग्रीसम्भवात् । अथ
प्रत्यभिज्ञानात् तदेवेदन्नीलं न पुनरपरः समुदाय इति प्रतीतेर्नानात्वन्तयोः सर्वकल्पित
रूपयोरपि समानम्भेदकल्पनं । तस्मादविकल्पकमेव प्रत्यक्षं ।
न चासौ सामग्रीन्द्रियविज्ञानस्य सविकल्पकत्वे स्मरणादिका । इन्द्रियस्यार्थग्रहणप्रवृत्त
त्वात् । न चेन्द्रियग्राह्योर्थः शब्देन योज्यते । शब्दस्य तद्वाचकताऽभावात् । स्वलक्षणे
सङ्केतस्याप्रवृत्तेः । सामान्यस्येन्द्रियाग्राह्यत्वात् । कस्मादेतदिति चेदाह ।
देशकालानन्वयी हि भेदः । यत एकत्र दृष्टः पुनरन्यत्र दृश्यते तेनान्येन वा प्रत्यक्षेण
तस्य कालान्तरवर्तिन्यभावात् स्वकालपरिच्छिन्नो हि भावः प्रत्यक्षतोऽवगम्यते । ततो न
पूर्वम्परत्र न परम्पूर्वत्र प्रत्यक्षं । प्रत्यभिज्ञाय पूर्व्वं स एवायमिति गृह्लातीति चेत् । न (।)
प्रत्यभिज्ञाया अप्रत्यक्षत्वात् तत्रेन्द्रियव्यापाराभावात् । तथा हि ।
नहि कालदेशव्याप्तिरक्षविज्ञानेन गृह्यते । तथा सति सर्व्वः सर्वाकारदर्शी भवेत् ।
अथाक्षाणि यदि नातीतभाविनि वर्त्तन्ते तदाश्रितस्य विज्ञानस्य को विरोधः । यदि तदाश्रि
तस्य विज्ञानस्यातीतादौ वृत्तिश्चक्षुषोपि स्यात् । नहि चक्षुषोन्यावृत्तिः । न च पूर्वापर
ग्रहणे चक्षुर्व्यापारः प्रतीयते । पूर्वापरयोः स्मरणस्य सम्भवानुमानस्य च वृत्तेः । इन्द्रिय
वृत्तिरेव सेति चेत् । अनुमानस्यापि प्रत्यक्षताप्रसङ्ग इति प्रतिपादयिष्यामः । अतो भेदा
नान्नान्वयित्वं । सामान्यमिन्द्रियग्राह्यमन्वयीति चेत् । तदसद् (।) यतः ।
न तस्माद् भिन्नमस्त्यन्यत् सामान्यम्बुद्ध्यभेदतः ।
न व्यक्तीनामन्वयो नापि सामान्यस्याभावादेव । व्यक्तीनाम्भावो न तासामन्वयः ।
सामान्यस्यान्वयो न च तद् दृश्यते । तस्याभावान्नेन्द्रियग्राह्येऽन्वयसम्भवः । नहि सामान्यमत्र
प्रतिभाति । आकारान्तराप्रतिभासनादव्यतिरेके व्यक्तय एव (।) ताश्च नान्वयिन्यः ।
अत एव भिन्नाभिन्नमवाच्यञ्च न सामान्यं ।
नह्यन्वयिनि प्रतिभासमाने सामान्यरूपता । न च विशेषे शब्दानाम्वृत्तिरनन्वयेन
सङ्केतस्यावृत्तेः । सङ्केतो हि देशकालान्तरे व्यवहारवृत्त्यर्थम्व्यवहारिभिरिष्यतेऽतोन्यथा व्य
सनमेव भवेत् । धर्मार्थ इति चेत् क एवम्प्रत्येष्यति । तस्मान्न देशकालप्रतिनियते
सङ्केतवृत्तिः । तेन न विशेषः शब्दविषयः ।
ततः संयोज्यग्रहणन्निर्विशेषस्य । ततो न विशेषग्राही प्रत्ययः सविकल्पकः (।) यश्च
सविकल्पको न स विशेषग्राही । सामान्यस्य शब्देन योजनात् । कस्मादित्याह ।
दृष्टेप्यर्थेऽस्यायम्वाचकोऽस्यायम्वाच्य इति ययोः प्रतिभासः सम्बन्धकारिणि विज्ञाने
तयोरेव वाच्यवाचकलक्षणः सम्बन्धो न च तदेन्द्रियगोचरः कुतः । अस्येदम्वाच्यमिति कोर्थः ।
अस्मादिदम्प्रत्येतव्यं । केन प्रत्ययेन (।) किं सविकल्पकेन परोक्षवस्तुनाऽथ प्रत्यक्षेण साक्षात्का
रिणा । यदि साक्षात्कारिणाऽध्यक्षेण प्रत्येतव्यम् (।) वैफल्यमेवेन्द्रियसंहतेः प्राप्तं । अथ
परोक्षतया तदेन्द्रियगोचरस्यार्थस्य न सम्बन्धो नहि तदेन्द्रियगोचरोर्थोस्तीति । अथ वाच्य
गतेप्यर्थे शब्दे चास्येदम्वाचकमिति सम्बन्धकरणात् । तथाहि ।
इन्द्रियगोचरो ह्यर्थो विशदप्रतिभासः । विप्रकृष्टे चार्थेऽस्पष्टप्रतिभासिता । न च
प्रतिभासभेदेप्येकता । अथ दूरासन्नतया स्पष्टतरप्रतिभासभेदस्यैकविषयतैव ज्ञानानाङ्
कथम्प्रतिभासभेदेन भेदः । अर्थक्रियाभेदेन भेदात् ।
नन्वर्थक्रियाभेदेपि प्रतिभासभेद एव न व्यतिरिक्तकार्यभेदो भेदलक्षणः। नहि
कार्यभेदेन कारणस्य भेदः प्रतिभासभेदविना कृतस्य, प्रतिभासभेदोप्यस्त्येवेति चेत्। तत
एव तर्हि भेदोस्तु किं कार्यभेदेन। यदि च कार्यभेदाद् भेदः कारणस्य कार्यस्य कुतो भेदः।
कार्यभेदान्तराच्चेत् । अनवस्था । प्रतिभासभेदाच्चेत्। कारणेस्यापि तत एव भेदोस्तु किङ्कार्य
भेदेन । अथ क्रियाभेदेनापि भेदे स एव प्रतिभासभेदो भेदकः । स्पष्टप्रतिभासस्यैवार्थक्रिया
करणात् । तस्मान्न दूरदेशव्यवस्थितस्यास्पष्टप्रतिभासो वस्तुविषयः । अविसम्वादादेकविष
यतेति चेत् । अनुमानस्यापि सोस्त्येव तत्रापि प्रतिभासभेदादेव भेदः । तस्मात् प्रतिभास
भेदादेव भेदः ।
यदा तर्हि समुन्मीलितलोचनस्तथाभूताय सङ्केतङ् करोति तदा भविष्यति वस्तु
विषयता शब्दस्य । तत्र निर्ण्णयः ।
यद्यपि नाम चक्षुषः क्षोत्रयोः शब्दघटाद्योः प्रतिभासस्तथापि स्वरूपेण प्रतिभासमात्रेण
न सम्बन्धः । तस्येदम्वाचकमिति यं व्यतिरेकविभक्त्या शंसति स एव त्याज्यते । न च प्रत्यक्षे
विभक्त्यर्थः प्रतिभाति । प्रतिपदिकार्थमात्रस्य प्रतिभासनात् । विभक्त्यर्थस्तु विकल्पप्रतिभास
विषय एव । तथा ह्यस्येति सम्बन्धः । उपकार्योपकारकभावमन्तरेण न भवति । ततः कदाचिद्
बुद्धिविषयाच्छब्दोऽर्थात् कदाचिच्छब्दादर्थो बुद्धिस्थो भवेदिति बुद्धिरूपविज्ञप्त्योः कार्यकारण
लक्षणं सम्बन्धमाश्रित्य विभक्तिर्भवति न च प्रत्यक्षप्रतिभासनमेव सम्बन्धकरणे निमित्तं ।
तदन्तरेणापि भावात् । यदि च स्वलक्षणे चक्षुरादिजनितप्रतिभासिनि सङ्केतः । तदा
तदेव प्रतिभासेत । न चैवं ।
अथापि स्याद् (।) यदि नाम न स्वलक्षणे सङ्केतस्तथापि तदेव वाच्यमिति को विरोधः ।
अथवा स्वलक्षणे यदि सङ्केतः कथं सामान्यप्रतीतिरेवमेवेति चेत् । तत्राह । न
चेत्यादि । तस्मादिन्द्रियज्ञानमवाच्यमेवासम्बन्धम्प्रत्येतीत्यविकल्पकं । कथन्तर्हि सोयङ्गौ
रहिरहिरिति विकल्पप्रत्ययः स्पष्टावभासी प्रतीयते । न च विकल्पः पृथगेवात्रेति शक्यङ्
ग्राहकस्य परस्यानुपलक्षणात् । न च विकल्पस्य परोक्षमत्र ग्राह्यं । स्पष्टेतरप्रतिभासद्वय
प्रसङ्गात् । अथ पूर्व्वमपि तत्प्रतिभासितमविकल्पयतः । न च विकल्पकाले ग्राह्यता
विशेषः । ग्राह्ये च विशेषमनारचयन् कथङ् ग्राहकः । तदप्यसत् ।
नहि प्रतीयमानमेव प्रतिषेधविषयः । विकल्पिका प्रतीतिरसत्येति चेत् । तदसत् ।
249
नहि सविकल्पकमित्येवासत्त्यं । अविकल्पकत्वेप्यसत्त्यत्वप्रसङ्गात् । अविकल्पकत्वा
न्नेति चेत् । सविकल्पकत्वेपि समानमेतदिति न विशेषः । किञ्च । साक्षात्करणङ्कथम
सत्येव अविकल्पके हि निश्चयाभावादसत्त्यत्वम्भवेदपि । निश्चितरूपसाक्षात्करणे तु कथमस
त्त्यत्वाशङ्का ।
अथानुमानिकोऽयन्निश्चयस्तदसत्त्यमपरोक्षविषयत्वेनानुमानत्वासम्भवात् । विषयभेदा
देव प्रमाणभेदस्य साधनात् । प्रमाणसम्प्लवाभावस्य च प्रतिपादनात् । तदेतत् सकलमसत् ।
यतः ।
अस्यायमर्थः । यदि खल्वविकल्पो गौरिति गकारादिवर्ण्णाध्यवसायी स्वलक्षणग्रहण
प्रवणो भवेत् सविकल्पक एक एवायम्प्रत्यक्षप्रत्यय इति युक्तम्भवेत् । यावता वर्ण्णाकारावग्रहो
हि पूर्वदर्शनबलायातवासनाबीजसुबोधादस्पष्टवर्ण्णावभासी प्रत्ययस्ततोन्य एव स्पष्टपुरोवर्त्ति
स्तम्भावभासी तु प्रत्यक्षस्तत्र विकल्पासम्भवात् । स एव प्रत्यक्षः प्रत्ययः । कथन्तर्ह्येकता
ध्यवसायः । नास्त्येव । न तावदयङ्गौरिति प्रत्ययः शावलेयगकारादिवर्ण्णानामेकतामध्य
वस्यति । प्रतिभासभेदेन भेदस्यैव गतेः । गकारादिवर्ण्णविकल्पानामपि क्रमेणोदयमासा
दयतामेकत्वाभावः । न च वर्ण्णावभास एव प्रत्ययः शावलेयावलम्बनस्तदभावेपि शावलेय
प्रतिभासनात् । तस्यापि वर्ण्णावभासस्य चक्षुर्निमीलनेपि प्रतिभासात् । तदभावेपि
प्रतिभासनमनिश्चयात्मकं । ततो निश्चयो विशेष इति चेत् । कोयन्निश्चयो नाम (।)
रूपस्य स्फुटस्य प्रतिभासनमिति चेत् । न (।) प्रागेव प्रतिभासनात् । पूर्वत्वेन प्रतिभासने
तदाकारान्तरमेवास्पष्टं । तत्कथमाकारान्तरप्रतिभासेऽन्यन्निश्चितन्नाम । तदेकतानिश्चया
न्निश्चय इति चेत् । कथम्भेदेन प्रतिभासमानयोरेकत्वेन निश्चयः सत्त्यः । कथन्तर्ह्येकत्व
व्यवहारः । प्रवर्त्तनस्यैकस्य कार्यस्य । भावादेवकार्यतया तदेकत्वाध्यवसायः । कथन्तर्हि
क्रमेण ग्रहणन्न भवति । युगपद्विषयसन्निधानादेव । नहि वर्ण्णविकल्पकाले प्रत्यक्षार्थो न
सन्निहितः । यथा च भवतो लघुवृत्तेर्विषयसन्निधानेन क्रमेण ग्रहणाध्यवसायस्तथा ग्रहणमपि
ममेत्यविशेषः ।
ननु यदि विकल्पोऽन्यत्र एव कथन्तस्य विषयोस्पष्टतया न प्रतिभाति वाच्यरूपः ।
नास्त्येव तस्य विषयोऽपर इति चेत् । यदि तर्हि निर्विषयस्तत्रार्थेप्यसिद्धत्वात् यत्(?) तेन
व्यवधाने790
दर्शनच्छेदः स्यात् । न (।) व्यवधानाभावात् । नहि समानकाले न व्यवधान
सम्भवः । किञ्च ।
यस्य हि सविकल्पकमेवाध्यक्षन्तस्य न विच्छेदः । नहि तेनैव तस्य व्यवधानं ।
निर्विकल्पकवादिनास्तु विकल्पोऽन्य एव ततो व्यवधानमिति चेत् । भिन्नजातीयविकल्पसम्भवे
पदार्थान्तरदर्शनङ् कथन्न विद्यते । न ह्यसौ भिन्नजातीयो विकल्पः प्रत्यक्षप्रत्ययस्वभावः
परस्य, दृश्यमानरूपविकल्पनाभावात् । अथास्त्येवात्र विच्छेदः । किन्तु दर्शनद्वयभावेनान्त
रालवर्त्त्यदर्शनम्बलवता तिरस्कृतं न स्वव्यवहारं लभते । तेनाविच्छिन्नाध्यवसायः । तदन
क्षसमम्१ । यतः ।
यदि भावपक्षो बल (व)ान्२ समानजातीयविकल्पेपि निर्विकल्पकवादिनः समानत्वाद
व्यवधानमेवेति न दोषः । अभ्युपगम्य चैतदुवतं । न च व्यवधान सम्भवः । नहि लाघवाद्
व्यवधानेप्यव्यवधानप्रत्ययः । यतो लाघवाद् वर्ण्णयोरप्याशूच्चारितयोः सकृच्छ्रुतिप्रसङ्गो
न चास्ति । तस्मान्न लाघवमत्र क्रमेप्यव्यवधानप्रतिपत्तिकारणं । अथ तत्र लाघवमेव
नास्ति तेनासकृच्छ्रुतिः अत्र लाघवमस्तीति कुतः । मनसोर्युगपद् वृत्यभावादिति चेत् ।
एतदुत्तरत्र प्रतिपादयिष्यते । यौगपद्यप्रतिपत्तिरेवान्यथा न स्यादिति चेत् । न (।) यौगपद्य
स्यैव भावात् । उत्पलपत्रशतबेधेपि तर्हि यौगपद्यमेवास्तु किङ् क्रमकल्पनया । न । तत्र
क्रमेण देशप्राप्तिरनुमानेन गम्यते । नेह तदनुमानमिति कथङ् क्रमकल्पना । अक्रमकल्पनायाः
किन्निमित्तमिति चेत् । प्रतिभास एव प्रत्यक्षात्मा । न साक्षात्प्रतिभासनादपरमपि साधनम्प
रमीक्ष्यते । यदपि प्रागभिहितं । लाघवमेव वर्ण्णसकृच्छ्रवणनिमित्तन्नास्ति । तत्रोच्यते ।
यस्य मतन्न युगपद् बुद्धय उपजायन्ते । यत्र तु युगपद् भावाध्यवसायो न तत्राशुवृ
त्तेरपरङ् कारणं । लघुवृत्तित्वात् तथाध्यवसायः । तत्रेदमुच्यते । वर्ण्णानान्द्रुतोच्चारणेपि
कथन्न भवति ।
ननु लाघवमेव तथाभूतन्नास्तीति परः । इहापि तर्हि ततोपि न्यूनतरं लाघवं यत्र
पञ्चविषयी समवधानम्विकल्पषाड्गुण्यञ्च(।) यथा सुरभिकमनीयकामिनीबक्त्रसर्वास्वाद
नम्मधुरगीतिमाकर्ण्णयतः । तत्र पञ्चभिरेकैकस्य व्यवधानञ्चेतसः । तत्र तादृशस्य
सुतरां लाघवस्याभावोऽथ च सकृद्ग्रहावभासस्तथा वर्ण्णानामपि स्याद् (।) यत्र हि पञ्चभि
र्व्यवधानेपि लाघवस्य सकृदध्यवसायसाधनसामर्थ्यन्तत्र किम्वर्ण्णविषयक्षणिकज्ञानव्यवधाने न
स्यात् । तस्मात् सकृदेव धियामुदयो युक्तोऽन्यथायाम्विरोधः समर्थयितुमशक्य एव । तत
उपपन्नमेतत् (।) समसोर्युगपद्व्ृत्तेरिति । किञ्च ।
क्वचित् सान्तरं यत्र धीर्जातीयव्यवधानङ् क्वचिदनन्तरम्विजातीयविकल्पाव्यवधा
नेन । ते सान्तरानन्तरे विज्ञाने कथम्भवतः प्रतिभासस्य चेदविशेषः। मनोविकल्पस्य च
यः शुद्धः प्रबन्धस्तत्र प्रतिभासः क्रमवान्न भवेदाशुसम्भवात् ।
ननु यदि युगपद् विज्ञानसम्भवः । सङ्गतेप्यर्थे ग्रहणाभावः कथङ् कदाचिद्
भवेत् । अत्र प्रत्युत्तरं ।
अन्यासक्तिवैगुण्यसम्भवे हि न स प्रत्ययस्समनन्तरप्रत्ययो भवति(।) सकलसन्निहित
विज्ञानोदये । द्वयोरपि समानः पर्यनुयोगः । न समानो मनस एकत्र सक्तेः । तथापि
सकृद् ग्रहावसायो भवतु । यत्रासक्तिर्महती नास्ति तत्र भवत्येवेति चेत् । वयमप्येवम्बूमः ।
यत्रासक्तिस्तत्र क्रमग्रहोऽपरत्र युगपत् । न तु सर्वत्र क्रमग्रह इति प्रमाणमत्र । न चान्यत्
मनः पूर्वकविज्ञानव्यतिरिक्तम्प्रमाणविषयः ।
नन्वलाभे क्रमग्रहणसम्भवेपि युगपत् प्रतिभाससम्भवः । नैतदपि सत्त्यं । नहि तत्र
क्रमप्रतिभासिनां सङ्घटनेन सा बुद्धिः(।) अपि तु युगपत् प्रतिभास एव तत्र । यतः ।
शीघ्रपरिवर्त्तिनां ह्यलातक्षणानामन्वयादुपहतञ्चक्षुरेव चक्रावभासनीन्धियञ्चनयति ।
नत्वसौ मनसः प्रत्ययो भावपक्षस्य बलवत्त्वेन अथात्रापि पञ्चविषयीसन्निधाने भ्रान्तिरेव
युगपत्प्रतिभासः । सर्वत्र तर्हि युगपत् प्रतिभासो भ्रान्त एव । इष्यत एवेति चेत् । न(।)
भ्रान्तत्वे प्रमाणाभावात् । युगपत्प्रतिभासो हि प्रत्यक्षत एवाभ्रान्तात् प्रतीयते । स तथा
प्रतीयमानोपि बाधकमन्तरेणापि यदि भ्रान्तः सकलप्रत्ययानामेष प्रसङ्गः । तस्मात् सकृदुप
लभ्यमानम्बाधकाभावात् विज्ञानपञ्चकं युगपदेवेति सिद्धं । ततो निर्विकल्पकमेव प्रत्यक्षं ।
इदानीम्परमतमुपन्यस्य निरस्यति ।
इन्द्रियजत्वादनुभवाकारप्रवृत्तत्वादमानसत्वादित्यादेरकल्पकम्प्रत्यक्षमित्याहुरन्येबालेन्द्रि
यज्ञानवत् । बालस्य चेन्द्रियविज्ञानमविकल्पकं सङ्केतग्रहणासमर्थत्वात् ।
तेषामेवम्वादिनाम्बालानाम्प्रत्यक्षमेव भवेत् । भवतु बालस्य सकलमेवाविकल्पक
मिष्यत एव । न बालस्यापि स्वार्थक्रियासु पूर्वापरपरामर्शो विद्यत एव (।) अथ नास्ति
तदा पश्चादपि विकल्पेन न भवितव्यं । सङ्केतग्रहणस्योपायस्याभावात् । विकल्पेन हि
सङ्केतग्रहणं स च बालस्य नास्ति । अथ ।
यदि बालानामपि मनोव्यवहारपतितं विचारकम्विद्यते । बालानान्तेन794
सङ्कत
ग्रहणात् पश्चाद् विकल्पकता मनसः । यद्येवमिय (मि) न्द्रियजेपि स्याद् (।) इन्द्रियजमपि
विकल्पकम्भवेत् पश्चात् केन निवार्य । तदपि चेन्द्रियज्ञानन्न सङ्केतग्रहणसमर्थम्बालस्येति
कुतः । इन्द्रियजत्वादेवेति चेत् । न (।) प्रतिबन्धाभावात् । अपि च । यदि नाम
बालस्याविकल्पकमिन्द्रियज्ञानं सर्वत्र तथा भवतीति कुत एतत् । नहि बाधकप्रमाणप्रतिबन्ध
सिद्धिमन्तरेण हेतोर्गमकता दृष्टा दृष्टान्तमन्तरेण । अथेन्द्रियजं यत् तत्सन्निहितमात्रग्रहणात्
पूर्वापरपरामर्शशून्यमिति न सविकल्पकं । तदैव पूर्वापरपरामर्शशून्यत्वमस्य कथं सिद्धं ।
साक्षात्करणस्य पूर्वापरयोरभावादसाक्षात्कारि च न प्रत्यक्षं । एवन्तर्हीन्द्रियजत्वाद् बाल
विज्ञानवदिति च व्यर्थ । प्रत्यक्षप्रसिद्धमेव स्यादविकल्पकत्वं । साक्षात्करणस्य प्रत्यक्षेण
प्रतिनियतस्यानुभवात् । अन्यथा यदि न क्वचित् प्रत्यक्षं साधनमविकल्पकत्वस्य तदनुसारि
कथमनुमानम्प्रवर्त्तेते ।
अथ साक्षात्करणाकारम्बालविज्ञानन्ततोन्यदपीन्द्रियविज्ञानन्तथाभूतमेव । एवन्तर्हि ।
साक्षात्करणस्य परोक्षेऽदर्शनादन्यत्र च दर्शनात् प्रत्यक्षमपरोक्षविषयत्वादविकल्पकं
(इति)795
सामान्येन साध्यतां किमिन्द्रियजत्वादिहेतुना । तच्च साक्षात्करणमविकल्पकत्वेन
कथितं । अविकल्पकत्वस्य सविकल्पकत्वबाधाद्४ यत्साक्षात्कारि तदविकल्पकत्वेन व्याप्तं ।
ततो विरुद्धव्याप्तोपलब्धिरेषा । अथवाऽविकल्पकत्वेन साक्षात्करणं साध्यते । ततोपि
प्रत्यक्षत्वं यद्यविकल्पकत्वेन साक्षात्करणं साध्यते तेन प्रत्यक्षत्वन्द्विचन्द्रादिवेदनानामपि
स्यात् । अभ्रान्तत्वे सतीति वाच्यं ।
ननु भ्रान्तमित्येवास्तु किमविकल्पकत्वेन । न (।) परमतापेक्षत्वाद्विशेषणस्य । तथा
चाह । विशेषणं लक्षणे परमतापेक्षं । सर्व्वेत्वविकल्पका एव । सर्व एवाभ्रान्ताः प्रत्यया
अविकल्पका एव । अभ्रान्तत्वश्चा चा र्ये णापवादद्वारेण प्रतिपादितं ।
अथवाऽक्षम्प्रतिवर्त्तत इति प्रत्यक्षं । तेन साक्षात्करणमुपलभ्यते । तत्सर्वे साक्षा
त्करणाकारप्रवृत्ताः प्रत्यया अविकल्पका एवाथवाऽश्नुते व्याप्नोतीत्यक्षं । विषयस्वरूपव्या
प्तिश्च साक्षात्करणमेव ततः सर्वेऽक्षजा अविकल्पका एव ।
अथवा नास्त्येवाभ्रान्तग्रहणमा चा र्य स्य कल्पनापोढमित्येव लक्षणं । कथन्तर्हि भ्रान्त
विज्ञानविच्छेदः । सर्वस्य साक्षात्करणस्य प्रत्यक्षत्वात् । द्विचन्द्रादिज्ञानस्यापि प्रतिभासमाने
द्वित्वे प्रत्यक्षतैव । तेन यत्र यत् साक्षात्कारि तत्र तत्प्रत्यक्षं । बाह्ये हि तत् भ्राम्तन्तत्र
796 253
च न साक्षात्कारि प्रतिभासमानरूपव्यतिरेकेणापरमस्तीति कल्पनैवेयं । तथा चाह ।
मनोभ्रान्तिविषयत्वाद् व्यभिचारिणः ।
नन्वभ्रान्तमपि बाह्येऽर्थे कल्पनाज्ञानमेव । सत्त्यमेतत् । तथाहि ।
इदम्वस्तुबलायातं यद्वदन्ति विपश्चितः । यथा यथाऽर्थाश्चिन्त्यन्ते विशीर्यन्ते तथा तथा इति वक्ष्यते (प्र॰ वा॰ २।२०९) ।।
(२) सामान्यनिरासः
अपि च ।
संयोज्य ग्रहणं हि कल्पना प्रत्येकञ्च विशेषणादीनां ग्रहणमन्तरेण न संयोजनं । यथा
दण्डीति प्रतीतौ जात्यादीनाञ्च विवेकेनानवधारणात् तद्वता योजना नास्तीति कथम्विकल्पक
मिन्द्रयज्ञानं । तथाहि ।
अभिन्नप्रतिभासे हि तदेकमेव कस्तत्र योजनार्थ उभयापेक्षत्वाद् योजनायाः । अथ
भिन्नप्रतेभासन्द्वयन्तदा परस्परविवेकेन प्रतिभासना नतरां योजनेत्यसम्भवो योजनायाः ।
तस्मान्न पारमार्थिकी योजना ।
भवतु वा (।) यदि प्रत्येकम्प्रतिभासनं विशेषणादीनां । न च जातिजातिमदादीना
मेतत् सम्भवति । न जातिगुणक्रियास्तद्वतो भेदेनावभासन्ते । अत एव संसृष्टप्रतिभासनं
योजनेति चेत् । न । भिन्नयोः संसृष्टप्रतिभासायोगात् । समानदेशकालत्वादेवमिति
चेत् । न । समानदेशकालानामपि स्वरूपस्य भेदात् । भिन्नदेशकालानामपि हि स्वरूप
भेदादेव तथाप्रतिभासो न देशकालभेदात् । यदि हि तत्र न स्वरूपभेदो देशादिभेदेपि न
भेदप्रतिभासनं । देशाभेदेपि परेषाम्वर्ण्णसंस्थानयोरवभासत एव भेदो वातातपयोश्चेति न
देशाद्यभेदादवभासभेदो हीयते ।
अथ समवायसम्बन्धबलादेकलोलीभावेन प्रतिभासनन्तथा सति सर्वत्र तथात्वकल्पना
प्रसङ्गः । सर्व एवाभेदप्रतिभासोऽभेदसाघनन्न भवेत् ।
ननु गौरिति विशिष्टप्रत्ययादेव योजनारूपा बुद्धिरेषा । विशिष्टप्रत्ययो हि न विशेष
विशेषणमन्तरेण क्वचिदुपलब्धो दन्डीति प्रत्ययवत् । इदन्तदिति न निर्दिश्यते । विवेकेना
प्रतिभासनात् । न हि दण्डीत्यपि प्रत्यये दण्डस्य विवेकेन प्रतिभासः । पुरुषमात्रस्यैव तत्र
प्रतिभासनात् । प्रागेव दण्डसम्बन्धात् कस्मान्न भवतीति चेत् । न (।) सा (म) ग्र्यभावेन
विशिष्टत्वस्याभावाद्(।) विशिष्टत्वञ्च नापरम्पुरुषे तस्याप्रतीतेर्दण्ड एव तु विशिष्टत्वं । यथा
वीजस्य सहकारिण एव जलादयः शक्तिः । यदि तु दण्डप्रतिभासोपि भवेद्दण्डपुरुषाविति
प्रत्ययः स्यात् । तदेतत्सकलमयुक्तं । केवलप्रतिभासश्चेत् । अप्रतीतिविशेषणन्न भवेत् ।
प्रतिभासे तु स्याद् दण्डपुरुषाविति । यथैव हि पुरुषप्रतिभासे केवलस्य न विशिष्टताप्रतीति
स्तथा दण्डीत्यपि । अथ विशिष्टप्रत्ययविषयत्वमेव विशिष्टता । अत्राप्युच्यते ।
यदि तावत् स्वगतो विशेषः । प्रत्ययस्य तदा नार्थस्य योजनारूपा कल्पना । न खलु
सुख (ा) दिना स्वगतेन विशेषेण सविकल्पकतेन्द्रियज्ञानस्य । विषयमन्तरेण स एव विशेषः
प्रत्ययस्य नेति चेत् । न । समनन्तरप्रत्ययादपि विशेषप्रसिद्धेरिति प्रतिपादयिष्यामः ।
विषयगते तु विशेषे दण्डपुरुषयोः द्वयोरपि प्रतीतिरिति कथम्पुरुषमात्रविषयता । दण्डि
प्रत्ययस्य द्वयोरपि प्रतीतिरिति व्यवहारमात्रत एतदुच्यते नहि परमार्थतः । विकल्पस्य
निर्विषयत्वादिति द्वयोरपि विषयत्वे कथन्न द्विवचनं । व्यवहारमात्रमेतत् पूर्वपूर्ववासनाविशेष
प्रभवमिति न दोषः । अप्राधान्याद् विशेषणस्य प्रतीयमानमपि तन्न विवक्षितमिति पुरुषमात्र
सङ्ख्ययैकत्वं । यद्यनेन व्यायेन पुरुषमात्रविषयत्वमुच्यते उच्यतान्न तु प्रतिभासनाभावेन ।
अथापि स्यात् ।
तत्रापि समाधिः ।
यदि तावत् पदार्थान्तरसहितताविशिष्टत्वं यथालङ्करणविशिष्ट इति (।) तदेतत्
पूर्वपरादिप्रत्ययप्रतिभासिनि नास्सि । न खलु तत्र दिगपरा प्रतिभाति । अथ विलक्षण
त्वन्तदा पूर्वपरयोर्घटयोर्न विलक्षणता विभाव्यते ।
वैलक्षण्यञ्च स्वरूपमेव पदार्थस्य तत्प्रतिभासने निर्विकल्पकत्वमेव । विशिष्ट
प्रत्ययविषयत्वन्तु प्रत्युक्तं । तस्माद् यदि द्वयोः प्रतिभासने योजना ततः कल्पनेति न्याय
एषः । न च द्वयोः प्रतिभासनमात्रङ् कल्पनाऽपि तु योजनापूर्व्वप्रत्येकदर्शनपूर्व्विका ।
ननु जात्यादयः प्रतिभासन्त एव । अन्वयिप्रत्ययस्योपलम्भात् । तदाह ।
यत् खल्वन्वयि विज्ञानन्तत्तु न सामान्यमपरम्प्रतिभाति । अनुगतरूपम्प्रतिभातीति
चेत् । न । शब्दव्यक्तिव्यतिरेकेणापरस्याप्रतिभासनात् । शब्दात् समानाकारः प्रत्ययः
प्रतिभातीति चेत् । न । यथा दृष्टवर्ण्णसंस्थानतया स्मरणात् । न चात्रानुगमोऽपरः
प्रतिभासते । वर्ण्णसंस्थानाकारमात्रस्य प्रतिभासनात् । नाममात्रसङ्गम एव सर्वेषामनुयायी ।
अयमपि गौरयमपि च गौरिति नाम समानमर्थक्रिया च । अथवा परामर्शप्रत्ययस्यैव
समानता नार्थस्य कस्यचित् ।
अथ स एव शब्दादुपजायमानोस्पष्ट आकारः सामान्यम् । सर्वत्र समानत्वात् । न(।)
तस्यापि प्रतिनियतविकल्परूपत्वात् । गौरित्युक्ते कदाचिच्छाबलेयः कदाचिद् बाहुलेय इत्यादि
प्रतीतेः । न समानाकारताप्रतीतिर्यथानुभवस्मरणात् । अनेन शब्देन सर्वेषाम्प्राक् सम्बन्ध
दृष्टेः । नवस्वर्थेषु गोशब्दवत्797 ।
ननु प्रतिनियतत्वाद्वागादीनान्नावानामर्थानान्तदुपदर्शनेन सङ्केतः सम्भवति क्रियाग्र
हणयोर्विषयः । अप्रतिनियमे तु व्यक्तीनाङ् कथं सङ्केतग्रहः करणम्वा । एतदुत्तरत्र
वक्ष्यामः । तस्यैव वा समानत्वे नेक्षणं नेत्रविषयत्वे । नहि नेत्रविज्ञाने स्पष्टप्रतिभासिनि
मन्दप्रतिभासः स एवायमिति प्रत्ययो भवत्येवेति चेत् । न । स्वष्टास्पष्टप्रतिभासे
एकत्वायोगात् कारणभेदाच्चाचक्षुरादिवासनानिमित्तत्वात् । अतश्चक्षुरादिजनितायाम्बुद्धौ
प्रतिभासद्वयस्याभावः ।
अथ स्पष्टास्पष्टप्रतिभासिनी बुद्धिरेकैवासौ यदि नामाकारहेत्वभेदः । तत्रेदमुच्यते ।
यदि प्रतिभासकारणभेदेपि न भेदो बुद्धीनामन्यत्रापि भेदो दुर्लभः स्यात् । सर्वत्र समानकाल
भाविनी प्रत्यक्षानुमानबुद्धिरेकैव स्यात् ।
ननु समवायसम्बन्धस्य कथमग्रहः । जात्यादेर्हि विवेकेनावधारणन्नास्ति (।) समवाय
सद्भावादेव (।) नेदं सधीयो यतः ।
अतीन्द्रियत्वात् समवायस्य न चक्षुरादिना वेदनसम्भव इति स्वयमेवैतद् व्यवस्थितम्वः ।
अथेह तन्तुषु पर इति व्यवहारात् समवायः । नैतदस्ति (।) यतः ।
न खलु तन्तु(षु)798 पटः श्रृङ्गादिषु गौरिति क्वचिद् बुद्धयः । तदभावात् कथं
समवायगतिः । यतः ।
गवि श्रृङ्गमिति हि बुद्धयः प्रवर्त्तन्ते न च तेऽत्र समवेताः सास्नादयः । यश्च तेषु
समवेत इष्यते स नाधेयतया प्रतीयते । तस्मादियम्बुद्धिर्न समवायाद्(।)
(३) अवयविनिरासः
अपि तु ।
समवायाभावेपीह बुद्धिरुपलभ्यत एव । अस्तमनसमये वृक्षे सूर्य इति यथा । परि
शिष्टाङ्गम्य गोरिति कल्पनायां शृङ्गस्याधेयकल्पनाच्छृङ्गङ् गवीति प्रत्ययः । तथा हि न
श्रृङ्गादिसमुदायव्यतिरेकेणापरो गौरस्ति यस्याधाराधेयभावः(।) कल्पनामात्रमेवैतत् ।
अथापि स्याद् (।) एषु तन्तुषु पट इति भवत्येवायम्प्रत्यय इति । नैतदस्ति ।
256तन्तुशब्दो हि पटप्राग्भाविन्यवस्थाविशेषे वर्त्तते । तदुत्तरकालभावी त्ववस्थाविशेषः
पट इति । ततस्तैस्तन्तुभिरियं शाटीति तदुत्तरकालभावि कार्यम्व्यपदिश्यते । न तु तन्तु
समानकालः । ततः कुत आधाराधेयभावः । नहि भिन्नकालानामाधाराधेयभावः । कार्य
कारणभाव एव केवलोऽसम्बद्धता वा । तस्मादाधाराधेयभावोपि कार्यकारणभावविशेष एव ।
एकसामग्रय/?/धीनतया । एकसामग्रय/?/धीनयोरेव कुण्डतदाधेयाभिमतयोस्तथा व्यवहारात् ।
न खल्वन्या स्थितिस्तत्स्वरूपविशेषात् । तन्तुपटयोः पुनरेषापि कल्पना नास्ति । ततो
यथाकथञ्चित् कल्पनैव केवला न त्वाधाराधेयभावो भेदाभावात् । नहि पटाव१
स्थायान्तन्तवः सन्ति ।
ननु यदि नास्ति भेदः पटावस्थायान्तन्त्वभावात्कथमेते तन्तव इति प्रत्ययोऽयम्पट
इति च । नैतदस्ति । न परमार्थतस्तत्र द्वयमस्ति । यतः ।
तन्तुकार्यो हि पट एव(।) तदानीन्न तन्तवः । तन्तुप्रत्ययस्तु कारणस्वरूपारोपतो
न परमार्थतः (।) तथा हि पूर्वस्मरणे सत्येते तन्तव इति प्रत्ययः । एकापोहेन वा ।
नह्येकैकतन्त्वपोहे पटो नामापरोस्ति । त एव समुदिताः सेनावनादिवत् पटव्यपदेशभाज इति ।
सम्वृतिसन्नेव पटः । तेनाधाराधेयभावः कल्पित एव ।
यदि तर्हि पटो नाम नास्ति कथम्पटशब्दः प्रवर्त्तते । नहि निबन्धनम्विना शब्दाः
प्रवर्त्तन्ते । तत्रोत्तरं ।
पटव्यपदेशस्य निबन्धनमित्युपस्कारः । अत्रोपकार्योपकरित्वं । त एव तन्तवः परस्पर
मु/?/पकार्योपकारकभावेन व्यवथिताः । संयोगविशेषतो वा प्रावरणादिकामर्थक्रियामुपजनयन्तः
पटव्यपदेशभाज इति तेषामुपकार्योपकारकभावः पट इति व्यपदिश्यते । यथा च तन्तवस्तुरिवे
माद्युपकारविरहे विच्छिद्यानायासेन परस्परतो नीयन्ते न तथा पटावस्थाः । ततोसौ विच्छे
दादृष्टिर्निबन्धनमिति न व्यपदेशादेवार्थान्तरङ्कल्पनीयं । प्रमाणं हि पदार्थकल्पनानिबन्धनं ।
व्यपदेशाः पुनरन्यथापि प्रवर्त्तन्ते प्रायशः ।
यदि तर्हि व्यतिरिक्तम्व्यपदेशस्य निबन्धनन्नास्ति तथा सति पटव्यपदेशो न मुख्यः
स्यात् । वा ही के गोव्यपदेशवत् । वा ही के हि निःशौचतादि२निबन्धनोपि ततो
व्यतिरिक्तस्य सामान्यस्य गोत्वस्याभावादमुख्यो गोव्यपदेशः । तथोपकार्योपकारकत्वादिनि
बन्धनोपि पटव्यपदेशः स्यात् । अत्र परिहारः ।
यदादितः सङ्केतविषयन्तन्मुख्यं । आदिसङ्केतगोचरत्वेनास्खलत् (? ञ्) ज्ञानत्वात् ।
799 800 257यत्तु सङ्केतविषयवस्तुसाधर्म्येण प्रवर्त्तते तत्त्वाध्यारोपात् तदमुख्यं । स्खलत् प्रत्ययविषय
त्वात् । ऋजुप्रक्रमाभावे सादृश्यादाधेयान्तरानुसरणेन स्खलनं । तत्सादृश्यं हि न तदनुसर
णम्विना । तस्मान्न मुख्यामुख्यभेदादर्थान्तरन्निमित्तम्पटादिशब्दानां ।
अथाऽनुमानाज्जात्यादिसाधनं । तथा हि ।
समानदण्डनिमित्ता हि विलक्षणेष्वपि पुरुषेषु दण्डीति समाना सम्वित्तिः । शावलेयादिषु
गौरिति बुद्धिर्विलक्षणेषु तत्र गोत्वन्निमित्तन्दण्डवत् । तदनुत्तरं ।
(४) नानुमानतः सामान्यसिद्धिः
यतः ।
यदि साम्वृतन्निमित्तं समानमाश्रित्य गवादिप्रत्ययाः शावलेयादिषु वर्त्तन्ते । तदेतत्
सिद्धसाधनमेव । यतो दण्डीत्यपि प्रत्यये न दण्डनिमित्तता । अन्यथा सर्व एव दण्डिनः
स्युः । अथ सम्बन्धाद् भवति । सम्बन्धोपि सम्बद्ध इति प्रत्ययादेव गम्यते । तत्रापि
सम्बन्धान्तरकल्पनायामनवस्था । अथ सम्बन्धमन्तरेण सम्बन्धीति प्रत्ययः । तथा सति
सम्बन्धोपि कल्पित एव ततः साम्वृतादेव निमित्ताद् दण्डीति प्रत्ययः । स एव सम्बन्धः समानः
सर्वस्य । अथ दण्डसंश्लेषः सत्त्य एव न साम्वृतः । तदप्यसत् (।) तद्वयतिरेकेण संश्लेषा
भावात् । द्वयमात्रे च संश्लेषे यथा दण्डी पुरुषस्तथा पुरुषी दण्ड इत्यापि स्यात् । अथवा
द्वयमात्रप्रतिभासने परस्परं संसृष्टावेताविति भवेत् प्रत्ययो न तयोर्विशेष्यविशेषणभावः । अथ
दण्ड उपकारकत्वादप्रधानन्तथा सति स एवोपकारकभावः साम्वृतस्तत्र निमित्तं । स च प्रत्यक्षे
न प्रतिभाति ततो न तद्विशिष्टप्रत्ययनैन्द्रियकः ।
अथापि स्याद् (।) विशेषणभावः साम्वृतः विशेषणन्तु दण्डः पारमार्थिक एव तथा
गोत्वादिकमपि । न । दण्डस्य पारमार्थिकत्वम्विवेकेन प्रत्यक्षेण ग्रहणात् । परमार्थत्वन्नैवञ्जा
त्यादेः समवायतो न विवेकेन ग्रहणमिति चेत् । समवायस्य कुतो भेदेनाप्रतिभासनं ।
समवायान्तराच्चेत् । अनवस्था । किञ्च ।
यथैव हि दण्डः पारमार्थिकः समानो दण्डीति प्रत्ययनिमित्तन्तथा वाहादयोपि गोत्वादि
निमित्तं शृङ्गादयो वा । शृङ्गादीनाम्भेद इति चेत् । दण्डादेरपि समानो भेद इति
कथन्दण्डीति दृष्टान्तः । तस्माद् भिन्नमेवाभेदेन प्रतीयमानम् ।
अथैव हि ब्राह्मणादिजातिप्रश्ने गोत्राध्ययनादयो व्यपदिश्यन्ते । न तु जातिस्तथा
गोत्वेपि वाहदोहादिव्यपदेश इति नापरा जातिरस्ति प्रमाणविषयस्तस्मात् पारमार्थिकन्नि-
258
मित्तन्नास्त्येव क्वचिदव्यपदेशविषयः साक्षादिति न जातिः परमार्थः व्यपदेशनिमित्तमेव जाति
रिष्यते । स च साम्वृतादेवेति व्यर्थिका जातिः ।
किञ्च । यदि सर्वत्र व्यपदेशः पारमार्थिकन्निमित्तमाश्रित्य प्रवर्त्तते तदाऽनपेक्षता
शब्दस्य न स्याद् (।) दृश्यते च । यतः ।
षट्सु पदार्थेषु801
यो व्यपदेशः प्रासादमालादिव्पदेशश्च यः प्रासादादिषु स नापरन्निमित्त
मपेक्षते । नहि द्रव्यादिपदार्थेषु वस्तुत्वन्नामापरं । न तावद् द्रव्यम्वस्तुत्वन्न हि द्रव्यङ् गुणादिषु
समवेतं संयुक्तम्वा । न च प्रासादोपि द्रव्यं । संयोगो भविष्यति विजातीयानारम्भात् ।
अत्राह । यद्यपि गेहो नाम संयोगो माला तु किं । तदाह ।
न द्रव्यन्न गुणो न कर्म्म द्रव्यस्य गुणेऽभावात् । न गुणस्तत एव । न च कर्म
द्रव्याश्रितत्वात् क र्मणः । न समवायविशेषौ तत्कार्याभावात् । ननु जातिर्माला भविष्यति
जातेर्गुणेपि भावात् । तदाह ।
यथैकोपि वृक्षो धवादिक उच्यते वृक्षजातियोगात् तथा मालैकोपि गेहो जातेरेकैक
व्यपदेशनिमित्तत्वात् । अथ सन्निवेशविशेषो माला । एकदिङ्मुखावस्थितयो हि भावा
युगपद्भाविनो मालाव्यपदेशभाजः । सोपि सन्निवेशो न द्रव्यादिव्यतिरिक्तः । तदभ्युपगमे
सप्तमपदार्थान्तरप्रसङ्गात् । तदन्तर्भावे चोक्तो दोषः ।
यदि च माला जातिस्तदा(।)
मालाबहुत्वे तच्छब्दः कथम्माला एता इति । जातेरजातितः । न हि जातौ जाति
रभ्युपगम्यते । अभ्युपगमे वा जातिरि (ति) तत्राप व्यपदेशो निर्निबन्धनो भवेत् । जाति
निबन्धनत्वे तत्राप्यपरा जातिरित्यसमञ्जसं । तथा हि ।
ततो न मालादिशब्दवृत्तिः सनिबन्धना ।
किञ्च । मालादौ महती मालेत्यादिमहेत्वादिव्यवहारो यः स कथम्भवेत् महत्त्व
गुणस्य द्रव्यसमवायान्न च मालादिकन्द्रब्यं । उपचारादिति चेत् । तदसत् । यतः ।
259
मालादिषु महत्वोपचार इति कुत एतत् । नह्यसावुपचरितत्वेन प्रतीयते । न
चाप्रतीयमानन्तथा तथेति शक्यमभ्युपगन्तुम्प्रतीतिनिबन्धनत्वादुपगमस्य । अर्थान्तरभूतस्य
महत्त्वस्थाभावादिति चेत् । स एवाभावः कुतः । अभावे सिद्धे उपचार उपचारे चाभाव
इति सोऽयमितरेतराश्रयदोषः । मालाया अद्रव्यत्वान्महत्त्वं द्रव्यं धर्मो नेति चेत् । न ।
अद्रव्यत्वस्यैवासिद्धेः । क्रियावद् गुणवत् समवायिकारणन्द्रव्यमिति804
द्रव्यलक्षणमस्ति ।
क्रियावत्वन्नास्तीति चेत् । न(।) समुदितस्यालक्षणत्वात् । नाकाशादीनाङ्क्रियावत्वङ्
क्वचित् क्रियावदादिसमुदायः क्वचित् किञ्चिल्लक्षणमिति । अथ महत्त्वमेव नास्ति परमा
र्थतो विचार्यमाणमिति न द्रव्यं । प्रत्ययस्य भावान्नास्तीति कुत एतत् । अमुख्यत्वात् प्रत्यय
स्येत्यपि न सङ्गतम् । मुख्याविशिष्टत्वात् । यदि मुख्याविशिष्टस्यापि न मुख्यत्वम्मुख्या
मुख्यविभाग एव न स्यात् । तस्माद् विशेषाभावात् सकलम्मुख्यन्न वा किञ्चिदिति न्याय
एषः । तस्मान्न स्वविहितेयन्द्रव्यादिप्रक्रिया परस्य । न च मालाना म काचिद् वृक्षादि
व्यतिरेकेणोपलभ्यते प्रत्ययमात्रमेतदवस्था न विशेषतः । तस्मान्न मालादौ महत्त्वादिशब्द
उपचारितो न मुख्यः । मुख्यस्तावन्नास्त्यर्थान्तरनिमित्तत्वाभावात् । नाप्युपचरित उपचा
रनिमित्तस्याभावात् । यथा हि वनङ् कुसुमितमिति वने कुसुमितत्त्वोपचार एकार्थसमवायतः ।
वृक्षेषु वनस्य कुसुमितत्वस्य समावेशात् ।
यदुक्तम् (।) अन्यहेतुर्मुख्योऽनन्यहेतुस्तदितर इति तदसम्भवि । यतो मुख्यार्थत्वेनापि
येभिमता दण्डीत्येवमादयस्तेष्वपि नान्यो हेतुरिदानीमेव दण्डादेरपि साम्वृतादित्युक्तं । पदार्थं
शब्दश्च प्रवर्त्तमानः कमन्यं हेतुं षट्स्वपेक्षते द्रव्यादिषु । स्वरूपे च प्रवृत्तिनिबन्धने सैवानन्य
हेतुता बलादापतेत् ।
अथापि स्यात् । पदार्थशब्दो निमित्तान्तरेणैव प्रवृत्तः । स तत्र मुख्य इति युक्तं ।
यस्तु पुनर्महदादिव्यपदेशः स गुणनिमित्तको यत्र निमित्तमन्तरेण प्रवृत्तिमान् अवश्यमेव तत्र
गौणस्तस्मात् सदर्थो मुख्यस्तदितरस्तु गौणः । तदप्यसत् । यतः ।
रूढितया निमित्तमन्तरेणान्यथा च प्रवृत्तौ मुख्य एव तेन समानत्वमपेक्ष्य यत्र प्रवृत्तस्त
त्रामुख्यस्तथाभावेपि पुत्रादावभावोपचारदर्शनाद् रूढिरेव मुख्यतानिबन्धनं सदर्थतायामितरथा
चान्यथा च विपर्ययो दृश्यते । निमित्ताभावो ह्यन्यथाभावे निबन्धनमुपचारस्य स्यात् ।
यत्तु पुनरुक्तम्(।) अनिबन्धन एव पदार्थशब्दः स तथैव मुख्य इति । एवन्तर्हि
निमित्तप्रयुक्तता न मुख्यता निबन्धनन्तदभावेपि भावात् । यदभावे हि यद् भवति तत्तस्य
निबन्धनन्न भवति । अन्वयव्यतिरेकलक्षणत्वात् कार्यकारणतायाः । कारणञ्च निबन्धनं ।
अथ सैव रूढिः शब्दस्य प्रवृत्तिनिमित्तमन्तरेण कथं । तदप्यसत् । यतः ।
यत्र सङ्केतवृत्तिः स रुढोर्थः । सङ्केतोपि वक्तुरिच्छानिबन्धनः । नहि शब्दाः प्रवृत्ति
निमित्तमस्तीत्येव वक्तुरिच्छामन्तरेणापि प्रवर्त्तन्ते । प्रवृत्तिनिमित्तमन्तरेणापीच्छयापि प्रवर्त्त
माना उपलभ्यन्त एव । यदा सिंहादिसंज्ञाः पुरुषे प्रवर्त्तन्ते । तस्मादिच्छायाः स्वातन्त्र्यात्
सैव प्रवृत्तिनिबन्धनमिति न्याय्यं । स एव निमित्तमन्तरेण कस्मात् सङ्केतेन शब्दः प्रवर्त्त्यते ।
निमित्तेपि कस्माद् (।) व्यवहारार्थमिति चेत् । सोयम्व्यवहारः प्रवृत्तिनिमित्तमन्तरेणापि
समानः । अर्थक्रियाविषये हि व्यवहारः । न च निमित्तमन्तरेणार्थक्रिया न भवति । निमित्त
मन्तरेण न भवतीति चेत् । नहि ब्राह्मणा जातिमन्तरेणार्थक्रिया समर्थाः । न (।) अत्र
प्रमाणाभावात् । न हि काचिज्जातिरस्तीति प्रमाणं । यावदेव दृश्यते रूपमन्वयव्यति
रेकाभ्यां समर्थन्तावदेवोपयोगवदिति युक्तमन्यथाऽतिप्रसङ्गात् । तस्मान्निमित्तमन्तरेणापि
व्यवहारार्थसङ्केतकरणं । यथा छन्दः शब्दस्य गायत्र्यादिनामसङ्केतः प्रकृत्यादि सङ्केतश्च ।
नहि तत्र किञ्चिन्निमित्तं । गायत्र्यादीनाम्प्रकृत्यादीनाञ्च यथेष्टम्परिकल्पनात् । न हि
वर्ण्णक्रमे किञ्चिन्निमित्तमस्त्यन्यथाऽगृहीतसङ्केतोपि प्रतीयात् । विद्यमानं हि यत् प्रतीयते
किन्तत्र सङ्केतेन । सङ्केतेन व्यज्यत इति चेत् । न (।) प्रतीतिमन्तरेण तस्यैवाभावात् ।
न ह्यप्रतीते सङ्केतः । सङ्केतादेव प्रतीतिरिति चेत् । इतरेतराश्रयदोषप्रसङ्गात् ।
प्रकृत्यादयस्तु न व्यवस्थितरूपाः । तथा हि ।
तस्मादेवम्विधे विषये व्यवहारमात्रप्रयोजन एव सङ्केतो न व्यतिरिक्तनिमित्तप्रयुक्त ।
न च सङ्केत इच्छानुबन्धी निमित्त एव जातिर्भवति । व्यभिचारदर्शनेन व्यभिचारात् तस्माद्
वस्तुप्रासादादिशब्दा न वस्तुभूतव्यतिरिक्तपदार्थनिबन्धनास्ततो व्यपदेशसाम्यसद्भावान्न
सामान्यम्परिकल्पनीयं । कथन्तर्हि बुद्धिशब्दयोरनुगम इत्याह । न वस्त्वन्वयात् प्रत्ययस्या
न्वयोऽपि तु वासनाबीजप्रबोधादन्वयः (।) यथा ऽशोभनेपि वस्तुन्यभ्यासवशाच्छोभनत्वान्वयः ।
तथा हि ।
वस्तुनि हि तथा भूतम्विज्ञानञ्चनयन्ति येन वासनाप्रबोधप्रक्रमेणैकाकारस्सर्वत्रपरामर्श
प्रत्यय उदयमासादयति सुखादिवेदनमिव । न हि सुखादिविज्ञानानां सुखत्वं
नाम पदार्थगत
न्निबन्धनमस्ति । तथात्वे दुखस्यानुदयप्रसङ्गात् । अथ तत्त्वमप्यस्ति । तदोभयरूपप्रतीति
प्रसङ्गो वर्ण्णसंस्थानप्रतीतिवत् ।
अथादृष्टेन निबन्ध(न)ान्नैवं । तथा सत्यदृष्टमेव तथाभूताम्प्रतीतिमेव जनयतीति
किन्नेष्यते । नियमकार्यदृष्टन्न विधानकारीति चेत् । न । प्रमाणाभावात् । विधि
निय
मसम्भवे विधिरेव ज्यायान् । नियमे अनेककल्पनाश्रयसम्भवात् । तथा हि ।
तस्माद् भेदे सत्येव क्वचिदभेदपरामर्शः । तदन्वयादेव सामर्थ्यादर्थसाधनं । किम
न्तर्गडुना सामान्येन । अन्तरकारणनिमित्तन्तु प्रत्ययानाम
वश्याभ्युपगन्तव्यं । अन्यथा
सामान्यतद्वतोराकारद्वयप्रतीतिप्रसङ्गात् । समवायादेकलोलीभाव इति चेत् । न (।)
समवायस्यापि तृतीयाकारप्रतीतिप्रसङ्गात् । तस्मात् प्रतीत्य शक्तिरेव तत्रान्तरकारणा
धीनाम्युपगन्तव्या । तथा ज्ञानान्यपितदेकपरामर्शजननादेवान्वयीनि जातयश्चेति (।)
न (।) अपरजात्यभ्युपगमो युक्तः । शेषः प्रसङ्ग उक्त एव । तेनाभेदप्रत्यवमर्शेन
कार्यत्वात् सामान्यव्यवहारः । तदेव तत्कार्यत्वं सामान्यमिति चेत् । न । स्वरूपव्यति
रेकेण तत्कार्यत्वस्याभावात् । अथापि स्यात् । तथा सति क्षित्युदकादीनामप्यङ्कुरकार्यत्व
सद्भावादेकताप्रतीतिः स्यात् । तत्कार्यत्वप्रतीतिरस्त्येव सामान्यप्रतीतिरितिचेत् । न ।
गोत्वप्रत्ययवदेव स्यात् । तस्माद् भेदानुपलक्षणात् सामान्यप्रतीतिर्नान्यथेति स्थितमेतत् ।
अथ सामान्यमेव तत्र प्रतीयत इति किन्नेष्यते । न वात्र नास्ति सामान्यमिति बाध
कप्रत्ययोदयः । न च विवादायासेन प्रयोजनं । अथैवानेककल्पनायासस्तथा विवादायासोपि
समानः प्रसङ्ग । तदप्यसत् । यतः ।
नहि सामान्यम्विद्यते विचार्यमाणं । विचाराभावादभ्युपगम्यमानम् विचारैकरमणीय
मिति प्राप्तं । एककार्यता तु ।
तदैवैककार्यतालक्षणमतत्कार्येभ्योव्यावर्त्तमानं सामान्यम्विद्यते शावलेयादीनां ।
ततस्तत्प्रवृत्तिनिमित्तप्रयुक्तैव वस्तुनि श्रुतिः प्रवर्त्तंतां ।
कथन्तर्हि विश्लेषस्यानाकारत्वादाकारवती सामान्यबुद्धिः । अत्र परिहारः । आका
रवद् बुद्धिसम्बन्ध एव नियतस्तदन्यविश्लेषः सा च वासनासङ्गमादाकारवती पूर्वपूर्वताभूत
प्रत्ययपरम्परायाता हि सा बुद्धिः । न च गौरयमिति प्रत्यये शावलेयादिव्यतिरिक्तमपर
म्प्रमेययस्ति । प्रमेयाकारप्रतिभासेन च प्रमेयव्यवस्थानं प्रमेयाकारशून्यप्रत्ययमात्रात् । यदि
तर्हि वासनाऽनादितासामर्थ्यादयम्प्रत्ययस्तत्र प्रतिबद्धत्वात् तदविसम्वाद्येवास्तु कथम्वस्तु
सम्वादः । तस्मान्न तत्कार्यव्यावृत्तिपरिच्छेदेन भवितव्यं (।)सा च तत्कार्यता तस्य बाह्यस्य
शक्तिरेव व्यावृत्तिर्वा बाह्यस्वरूपमेव । तस्य चान्वये सैव जातिर्न जातिप्रतिक्षेपः । तस्य च
परिच्छेदे बाह्यमेव परिच्छिन्नम्भवेत् । न बाह्यरूपस्य व्यवच्छेदस्याभावात् ।
(५) अन्यापोहचिन्ता
यद्यपि नाम बाह्यस्वरूपासंस्पर्शी विकल्पः शब्दादुदयवान् । तथापि तद्विकल्पप्रतिबि
म्बकम्बाह्यनिष्ठम्बाह्यद्वारेणोत्पत्तेः पारम्पर्येणोत्पत्तेरर्थासंस्पर्शि बाह्यनिष्ठमपि । तच्च
प्रतिबिम्बकमन्यव्यावृत्तपदार्थजनितमन्यव्यावृत्तमेव प्रतिभाति । तदव्यतिरिक्तैव व्यावृत्तिः
शब्दात्प्रतीयते न बाह्यव्यतिरिक्ता । तेनान्यव्यावृत्ताकारविकल्पजननादन्यापोहकृच्छ्रुतिरुक्ता ।
अन्यव्यावृत्तेषु प्रवर्त्तनाच्च । ततो हि विकल्पादबाह्यसंस्पर्शिनोप्यन्यव्यावृत्तेषु व्यवहारिणां
वृत्तेरन्यव्यावृत्तिर्विषय उच्यते ।
ननु बुद्धिव्यतिरिक्तम्विकल्पस्य ग्राह्यन्तत्कथन्तस्य बुद्धिरूपता । न हि तद्व्यति
रेकेण प्रतिभासमानन्तदेव भवति । भेदप्रतिभासो हि भेदलक्षणन्तदन्यस्य भेदनिबन्धनस्या
भावात् । नाभेदप्रतिभासमात्रस्यातल्लक्षणत्वात् । अभ्रान्तो हि भेदप्रतिभासो भेदलक्षणन्न
तु यः कश्चित् । इदन्तु पुनः ।
यद्यपि वर्ण्णसंस्थानप्रतिभासि तत्तथापि न तद्वस्त्वपि तु तत्प्रतिबिम्बकं । को विरोध
इति चेत् । यतो वासनालक्षणाद्धेतोरुत्पत्तिरस्य तथापि कस्मादवस्तु । आन्तरकारण
मात्राधीनत्वात् तैमिरिकोपलब्धकेशादिवत् । अथ वासनाबलादुत्पद्यमानमपि वस्त्विव ।
नैवम्वस्तु भवतीति वक्ष्यामः ।
तदेव तर्हि बुद्धिलक्षणम्वस्तुशब्देन विधीयते । तदेवान्यापोहो वस्तुभूत इति केचित् ।
अपि नाम शब्दाद् वस्तुलेशप्रतिपत्तिः स्यादिति सङ्केतः क्रियते न बुद्धिप्रतिबिम्बक
मात्रप्रतिपादनाय । अतः सङ्केतक्रियाव्यर्थिका वस्त्ववबोधनार्थत्वात् तस्याः । न तह्यंन्या
पोहोपि शब्दार्थः । ततस्तत्रापि सङ्केतक्रिया न भवेत् । तस्याप्यन्यापोहस्य बुद्ध्या
कारत्वात् । न(।) शब्दार्थाशब्दस्यैवान्यापोहत्वात् । यतः ।
यदि स एवान्यापोहस्तदा तस्य प्रतिपादने नार्थांशताऽन्यापोहस्य स्यात् । अर्थांश
एव ह्यन्यापोहोर्थांशं शब्दः कमाहेति प्रश्ने प्रतिवचनमन्यापोह इति । स चार्थे नास्त्याकारो
बुद्ध्याकारत्वात् । यो हि नार्थेन तत्प्रतिपत्यार्थप्रतिपत्तिस्तैमिरिककेशादिप्रतिपत्तिवत् ।
किञ्च । सामान्यमन्यापोह इतीष्यते (।) यतः ।
शाब्दो हि शावलेयादिष्वन्वयी दृश्यते (।) तस्य चान्वयिनोऽन्वयिनार्थेन प्रयोजनेन
भवितव्यं । स चाकारोऽनन्वयी धियो भेदाभावात् । दर्शनाभ्यासेन जनितत्वाद् बुद्धि
वदेवानन्वयी । न हि कार्यस्यान्वयित्वं युक्तङ् कारणभेदेन भेदात् । तस्मादनन्वयित्वादेव
नापोहः प्रतिबिम्बकं । तस्मान्न वस्त्वन्यापोहो नापि बुद्ध्याकारः । कथन्तर्हि शब्दादर्थप्रतीतौ
सामान्यप्रतीतिः । वस्तुगतव्यावृत्तिप्रतीतौ हि वस्त्वेव प्रतिपन्नन्न च तत्सामान्यं ।
अथ वस्तु न प्रतीयते कथम्वस्त्वशरूपान्यापोहगतिः । अत्राह ।
बुद्धिरूपमेव वस्त्वित्यारोपेण तदेकत्वाध्यवसायात् प्रत्येति न परमार्थतः । तच्चान्य
व्यावृत्तमित्यन्यापोहः शब्दार्थः । तच्च सर्वत्र बुद्धिरूप (बाह्येर्थेनारोप) मध्यारोप्यते ।
ततः सामान्य मन्यापोहो वस्त्वंशश्चेति प्रतीयते ।
मिथ्यावभासत्वान्न वस्तुविषयः । अन्यापोहस्य च सत्त्यत्वान्न हि तत्र बाधकमस्ति(।)
यथा वस्त्वाकारे बाधको हि न तत्र प्रवर्त्तते(।) अन्यव्यावृत्तोयन्न भवतीति । ततो बाधकभावा
भावाभ्यामप्रतिपन्नेतरव्यवस्था सम्व्यवहारतो न परमार्थतः ।
तस्मादबाधितत्वादन्यापोहप्रतिपादनस्य बाधितत्वादितरस्यापोहः शब्दार्थ इत्यव
गम्यते । तेन तमन्यापोहं शब्दार्थमनुयान्ति शब्दा अनिष्टपरिहारेण च वर्त्तयन्तीति
सान्यापोहकारिणी श्रुतिः ।
अथवा विकल्पप्रतिबिम्बकमेवान्यापोहो बाह्यत्वेनाध्यवसितो भवतीति न दोषो न
तु स्वेन रूपेण । तस्मान्न किञ्चित् स्वेन रूपेणाविधेयं शब्दस्येति न विधिः शब्दार्थः ।
ननु स्वरूपे प्रतिभासमाने ज्ञानस्य कथम्वाह्ये प्रवर्त्तते । बाह्यत्वेनाध्यवसायात् ।
कोयमध्यवसायः । तद्व्यवहारविषयतया व्यवस्थानं । कथमन्योन्य810 व्यववहारविषयः ।
तत्रानुरागाभ्यासात् सादृश्याद् गोत्रस्खलनवत् ।
ननु तत्रान्यरूपाध्यारोपोऽध्यवसायः । न (।) अध्यारोपस्यापि ज्ञानान्तरत्वात् ।
यदि तेन तद् वस्तुप्रतिपन्नङ् कोध्यारोपः । अन्यत्र प्रतिपन्नमिति चेत् । किन्तदन्यत्रास्ति ।
तथेति चेत् । नाध्यारोपः सत्त्यत्वात् । अथ नास्ति ज्ञानमेव तर्हि कथमन्यस्याध्यारोपः ।
यत्रापि तदध्यारोप्यते तदपि ज्ञानरूपमर्थरूपम्वा । तदा तत्रारोप इति कोर्थः । तत्र तत्प्रति
पन्नन्तेन सह प्रतिपन्नन्तदा च नाध्यारोपः । अथाविद्यमानमेव विद्यमानतया प्रतीयते ।
264
किमविद्यमानता प्रतिपन्ना । अन्येन प्रतिपन्ना तद्रूपस्यानुपलम्भादिति चेत् । न(।) तस्या
गोचरत्वात् कथमभावः । गोचरीभूतस्य हि वस्तुनोऽनुपलम्भो गमकः । इन्द्रियवैगुण्यात्
तथा प्रतिपत्तिरिति चेत् । अपूर्वप्रतिपत्तिरेव सा, नाविद्यमानप्रतिपत्तिः । तस्य तदैव
विद्यमानत्वात् ।
अथाप्राप्य व्यवहारन्न करोति प्राप्य व्यवहारकरणात् । एवन्तर्हि तदन्यव्यवहार
करणमेव तदन्याध्यारोप इति, तदेवायातमन्यव्यवहारविषयीकरणमध्यारोपः ।
तस्मादन्यापोहः शब्दार्थः । अत एवाह ।
सङ्केतयन्नपि न विधिमुखेन सङ्केतकारः सङ्केतङ् करोति । अपि त्वन्यापोहमुखैनैव
यतः । सङ्केतकालेप्यन्यापोह एव श्रुतौ सम्बध्यते न वस्तु ।
नन्वयन्देवदत्त इति सङ्केते स्वलक्षणमेव सम्बध्यमानमीक्ष्यते । नेदं साधीयः(।)
निर्दिष्टोप्यर्थः प्रतिबिम्बकमेवमोपलक्षयति811 । तथा हि ।
अस्येदन्नामेत्यस्मादिदमन्यदपि प्रतिपत्तव्यं । ततोन्यत् कालप्रत्यतीत्यवस्थाव्याप्तैव
सङ्केतो निय़मेन द्वयोरपि स्वपरयोरभिप्रेतः । ततोन्यापोह एव सम्बध्यते श्रुतौ न स्वलक्षणं ।
अथापि स्याद् (।) अस्येदन्नामेति न व्याप्तिः प्रतीयते(।) प्रतिबिम्बस्य केवलमस्येदन्ना
मेति स्वलक्षणमेव सङ्केतविषयतया प्रतीयते । न(।) अत्यन्ताभ्यासादेवम्प्रतीतेरपेक्षापूर्व
कारित्वाद्वा । विपर्यये तु नियमेनैव प्रतिबिम्बकप्रतीतिः(।) यस्तु पुनर्व्यवहारात् सङ्केत
म्प्रतिपन्नवांस्तस्य नियमेन सङ्केतकालरूपाध्यवसायः प्रतिबिम्बरूपः । तथा हि ।
अथ (।)
अथवा निर्दिष्टोर्थो यः प्राक् प्रतिपादितः प्रतिबिम्बस्वभावः । तेन संयुतोन्यापोहो
व्यावृत्तिरूपः । तस्य च प्रतिबिम्बस्य व्यावृत्तिप्रतिपादनमेव फलन्न स्वरुपप्रतिपत्तिः ।
स्वरूपस्यार्थेऽभावात् । व्यावृत्तेश्च भावात् ।
अन्या सा व्यावृत्तिरिति चेत् । न(।) अपोद्धारकल्पनया तदेकत्वव्यवहारात् ।
अपि च ।
शब्दस्य ह्यन्यत्र तद्विजातीये दृष्टत्वात् क्वचित्तु तज्जातीये दर्शनादपोह एव सङ्केत इति
ज्ञायते । सामान्ये व्यक्तौ वा सङ्केत इति किन्न भवति । न । तथा सति विधिरूपेणैव
सङ्केते सर्वत्र दर्शनप्रसङ्गात् सामान्येपि दर्शनमात्रापेक्षा स्यात् । अन्यत्रादर्शनापेक्षा न
स्यात् । सामान्यस्य सव्यतिरेकस्य प्रतीत्यर्थमिति चेत्(।) स एव तर्हि तदन्यव्यतिरेकोस्तु किं
सामान्यकल्पनया । व्यक्तिरेव हि तदन्यव्यतिरेकवती प्रतीयताङ् किं सामान्येन । व्यक्तेर
प्रतीतिरिति चेत् । न(।) व्यक्तिमन्तरेण सामान्येन प्रतीतेनापि किं । लक्षितलक्षणाद्
व्यक्तिरपि प्रतीयते इति चेत् । किं द्वयमत्रक्रमेण प्रतीयते । प्रतीयत एव प्रथमङ् गोत्वमात्र
म्प्रतीत्या विषयीकरोति पश्चाच्छावलेयादिविशेषं । नैतदस्सि । नहि शावलेयादीनामवा
न्तरविशेषप्रतिपत्तिसम्भवः । ततस्तदपि सामान्यमेव । ततो न व्यक्तीनां सामान्येन लक्षणं
सामान्यस्यैव लक्षणात् । अवश्यङ् केनचिद् विशेषेण भवितव्यमत्रेति लक्षणमेवेति चेत् न ।
शब्दस्यात्र व्यापाराभावात् । प्रतिपन्नमेतत् भवति न वेति नात्र प्रमाणं । न च
सामान्यमपि लक्षणभूतम्प्रतीयते । तेन बुद्धिरेव सा वस्तुरहितत्वात् । कथन्तर्ह्यन्यापोहः
शब्दार्थः । अत एवान्यव्यावृत्तावेव प्रवर्त्तनात् । यदि तु सामान्यम्व्यक्तिर्वा प्रतीयेत न
विसम्वादो भवेत् नहि प्रतिपन्ने विसम्वादः । विसम्वादे सति कथमन्यव्यावृत्तिरपि शब्दार्थः ।
अ/?/यदर्शनेपि तदन्यानयनात् । तत् तावन्नानयति । अन्यत्तु तेनानेतव्यमिति नास्ति नियमः ।
अत एव शाब्दप्रत्ययसमानाकारत्वादनुमानमपि व्यवच्छेदमात्रस्य साधकं ।
अथवाऽन्यत्रावृत्त्यपेक्षत्वादिति व्यवहारेण सङ्केतग्रहणेऽन्यत्रादृष्टमपेक्षते । क्वचिच्च
सजातीये दृष्टमपेक्षते सङ्केतस्य ग्रहीता । ततो यत्र न दृष्टस्तस्य तावद् व्यवच्छेदञ्जानीते ।
यत्र तु दृष्टो व्यवहारस्तदस्ति न वेति विवेकेन न जानाति । तथा हि तथैव सङ्केतग्रहणं ।
यतः । आनयेदम्वस्तु बाह्यस्यानयने व्यापारो नास्तित्वे वस्तुनः । अविद्यमानन्नानेतुं
शक्यमिति चेत् । यदीयं राजाज्ञा तदाऽवश्यमानयति । स तु प्रनाणान्तरात् पर्यालोचय
न्नास्तित्वम्प्रतिपत्त्या विषयीकरोति । अर्थापत्त्या वा । अर्थापत्तिसहितः शब्दोस्तित्वे प्रमाण
मिति चेत् । न(।) अर्थापत्तेरसम्भवात् । अर्भकाभिप्रेतयाञ्चावदेतत् स्यात् । ततः सति
सम्भवे आनीयते नान्यथा । अन्यत्तु नानीयत एव ।
अन्ये तु पुनः सर्वतो विजातीयाद् व्यावृत्तिङ् क्वचिद् विधेये वृत्तिमपेक्षत इति व्यतिरेकि
तात्पर्यमन्वये तु नेति व्यतिरेक एव प्राधान्येन प्रत्याय्यते । तदसत् । यदि नामान्वयव्यति
रेकयोः प्राधान्यमेकस्य तथापि न विधिशब्दार्थव्यतिक्रमः । न चाप्राधान्यमन्वयस्य प्रतिपादयितुं
शक्यं । एकव्यक्तिदर्शनेनापि सामान्यस्य सर्वात्मना प्रतिपांदनात् तदन्वयस्याप्राधान्य
मिति न युक्तं ।
अथवा क्वचिद् दृष्ट्यपेक्षणादिति । अस्येदन्नामेति न सर्वदाऽनेन भवितव्यं ।
शब्दप्रयोगे अस्य तु नाभेदमित्येतन्मात्रमस्मादेतद् व्यवहर्त्तव्यमिति । अन्यत्र तु व्यवहाराभा
वादन्यापोहविषयता शब्दानां । अथ यत्र वस्तु प्राप्यतेऽनुमानेन तज्ज्ञानस्य कथमन्यापोह
विषयता । तत्राप्यन्यापोहविषयतेष्यते एव । न(।) तत्र विशेषे सन्देहादेव हि तत्र प्रतीति
रनग्निस्तावदयन्न भवति । अग्निस्तु किम्भूत इति न ज्ञायते ।
ननु यदि सामान्यन्न परिच्छिन्नङ् कथमग्निविशेषे सन्देहः । प्रतीतिमात्रेण सन्देहात् ।
प्रतीतिस्तावदियमस्ति विशेषो न ज्ञायते किमग्निरस्ति नेति किम्भूतो वात्राग्निः ।
ननु यत्र कार्यहेतुस्तत्र नियमेनाग्निः । न (।) स्पर्शविशेषस्याग्नित्वात् । तत्र च न
266
नियमः कथमग्निप्रतीतिः । उष्णतामात्रस्य प्रतीतेः । सामान्यम्प्रतीयत इति चेत् । न ।
तारतम्यस्यैव भावात् । न च तरतमादिभेदव्यतिरेकेणोष्णसामान्यन्नाम । तत्र च न
प्रतीतिः ।
ननु प्रतीतिरपि तारतम्यमेवालम्बते । आलम्बतान्न त्वेकैव बुद्धिः । कदाचिदेवङ्
कदाचिदेवमित्यपरापरबुद्ध्युत्पत्तेरेकमेवैकदा नानारूपमालम्बत इति चेन्नैकेनासत्त्येन नियमे
न भवितव्यं । तस्मात्तत्रापि प्रतीतिमात्रमेव सत्त्यन्नान्यदित्यन्यापोहमात्रं शब्दार्थोनुमानस्य
च न चैतद् वस्तुनि युक्तं(।) लिङ्गेपि सम्बध्यतेऽपोह इत्यपि द्रष्टव्यं ।
तेन जात्यादीनाम्प्रमाणाभावादसत्वे न जात्यादिसम्बन्धकल्पना द्रव्यसम्बन्धक पनापि
द्वयोः स्वरूपेण प्रतिभासमानयोः कैव । संयोगस्य प्रतिभासनादिति चेत् । न । अकल्पय
तोप्यन्यदर्शनेन (अन्यकल्पनेन) तद्रूपस्य प्रतिभासनात् । तावन्मात्रकेण कल्पनासम्भवः ।
सैव कल्पनेति चेत् । इष्टत्वान्न किञ्चिद् बाधितं । उभयकर्मजोन्यतरकर्मजः । संयोग
जश्च संयोग इति न प्रतीतिरस्ति । स्वरूपमात्रेण प्रतीतिरिति चेत् । न(।) संयोगस्वरूप
स्याप्रतिभासनात् । वस्तुद्वयमेव तथाभूतमुत्पन्नम्प्रतिभासविषयो न संयोगः । तदेव वस्तुद्वयं
संयुक्तमिति तु प्रतीतिरपि न ततोऽपरः संयोगः । न(।) पूर्वेण सहैकत्वप्रतीतेरभावात् (।)
न हि प्रत्यक्षम्पूर्वापरभावे व्याप्रियते । मा भूत् पूर्वप्रतीतिस्तथापि संयुक्तप्रतीतिरस्तीति चेत् ।
न (।)
(६) प्रत्यक्षे शब्दकल्पनानिरासः
815शब्दयोजनापि नास्ति शब्दस्य तत्राभावात् । संकेतकाले शब्द आसीदिति चेत् ।
तेनापि योजनन्नास्ति । यतः ।
अयङ्गौरिति न गोशब्द एवायङ् गोशब्दवाच्योऽयमित्यर्थः । सामानाधिकरण्यन्तु तत्स
म्बन्धाद् यष्टीः प्रवेशयेति यथा । अथवा गौः शब्दो यस्य स गोशब्दः । तत्र यदैकदेशप्र
योगात् गौरयमिति । तत्र गोशब्दवाच्योऽयमिति गोशब्दादयम्प्रत्येष्यते । अयं स गौरिति
तु गोशब्दोऽत्र सङ्केतितः । तच्चैवम्भूतम्वस्तु पूर्वापरपरामर्शशून्यात्मनाऽध्यक्षेण कथङ्
गृह्यते । यत उक्तमेतत् ।
यदि पूर्वापरयोरपि चक्षुराद्यक्षवृत्तिरतीतानागतं सकलम्प्रतीयेत । सर्वं हि कथञ्चित्
केनचित् सम्बद्धम्पूर्वगृहीतं प्रतीयत एवेति चेत् । न(।) सर्वदा प्रतीतेरभावात् । स्मरणे
सतीति चेत् । स्मरणमेव तदिति प्राप्तं । स्मर्यमाणेन सहैकत्वम्प्रत्यक्षेण प्रतीयत एवेति
चेत् । न(।) स्मरणस्याप्रमाणत्वात् । स्मर्यमाणमसदेव कथन्तेनैकता प्रतीतिः सत्त्या ।
अथापि स्यात्(।) स एवायन्तदर्थक्रियाकरणात् । ननु सार्थक्रियेत्यपि स्मरणमेव
तच्छब्दवाच्य इति च । तेनैव चार्थक्रिया कर्त्तव्येति कुतः । तस्माद् व्यवहारमात्रमे
वैतत् । नैकता हि प्रमाणमस्ति । व्यवहाराविसम्वादादेव प्रमाणमिति चेत् । नैकत्वेऽवि
सम्वादोपि त्वर्थक्रियायां । सा चास्त्येव । अर्थक्रियाकारित्वादर्थता तस्य न त्वेकता पूर्वेण ।
अथेदमनुसाधनम्भवि(ष्य) ति स एवायामिति । यदि पूर्वापरयोरेकता नास्ति कोनुसन्धाता
भवेत् । अनुसन्धातुरेकत्वे पूर्वापरग्राहि प्रत्यक्षमनुसन्धातर्याश्रितं । न(।) स्मरणदर्शना
कारव्यतिरेकेणापरस्यानुसन्धानस्याभावात् । प्रत्यक्षञ्च यद्यप्यात्मन्याश्रितन्न तावता तस्य
प्रमाणत्वं । अक्षाश्रयेण प्रामाण्यमात्माश्रयेणैकताग्रहणमिति चेत् । न(।) अक्षानुसारेण तस्य
वृत्तेरक्षस्य च पूर्वापरत्वेऽवृत्तेः । तदनुसारिणो ज्ञानस्यानुवृत्तिरिति चेत् । न(।) तदनुसा
रित्वायोगात् । नहि पूर्वत्र पूर्वज्ञानानुसरणमन्तरेण वृत्तिः । तदन्यानुसारि तदनुसारीति
साहसं । एकत्वप्रतीतिस्तु नाक्षव्यापारमन्तरेण भवति । ततो नैकताप्रतीतिरक्षजा ।
प्रत्यक्षे या सा भवत्येवेति चेत् । नैकताया विशेषाभावात् । स्पष्टतयावशेष इति चेत् ।
ननु स्पष्टतयैकत्वं भवत्वस्पष्टतया तु कथमेकत्वमध्यक्षगम्यं ।
ननु तस्यानेन सहैकत्वमनध्यक्षगम्यं । तेन त्वस्य कथन्न स्यात् न समानत्वात् ।
द्वयोरध्यक्षेणाग्रहणे कथन्तदेकत्वमध्यक्षविषयः । एकत्वमध्यक्षगम्यन्न पदार्थ इति चेत् ।
तत्तर्ह्येकत्वन्न पदार्थगतं । एकत्वस्य स्वतन्त्रस्यासम्भवात् तद्वानाक्षिप्यते । आक्षेपो हि
नामानुमानं । ततः प्रत्यक्षेण स्वतन्त्रस्य ग्रहणेऽनुमानतोऽन्यथा ग्रहणमित्ययुक्तं । प्रत्यक्ष
पूर्वकत्वादनुमानस्य । तस्मात् पूर्वापरपरामर्शाभावादयङ्गौरिति न प्रत्यक्षा प्रतीतिः ।
किञ्चि । मृतेपि पूर्वापरपरामर्शः । सम्भवी तत्कथमस्य प्रमाणता । तस्मात् सन्निहित
मात्रग्रहणमिति प्रमाणं । तत्र च । न योजनेत्यविकल्पकमध्यक्षं । किञ्च ।
न खलु विकल्पयन्नेव रूपादिकमीक्षते येन स्मरणसहकारिता भवेदिन्द्रियस्य । नहि यः
सहकारी यस्य तमन्तरेण स्वकार्यकरणे सामर्थ्यन्तस्य क्षित्यादिविरह इव बीजस्याङ्कुरकरणे ।
अथ कार्यकरणमात्रेण न सहकारिता स्मरणस्यापि तु सविकल्पकजनने । तदप्यसम्यक् ।
(चित्रैकत्वचिन्ता)
यदि सहविकल्पेन परेण वर्त्तत इति सविकल्पकतायान्तथाभूतायां स्मरणं सहकारि
सिद्धमेव साध्यते । अथात्मभूतेन विकल्पेन तदा न युक्तं ।
अन्यदेव तत् सविकल्पकमन्यत् प्रागविकल्पकमिति । तथा सति भवतः प्रत्यभिज्ञा
विशीर्यते । अतिप्रसङ्गश्चेत्युक्तं । तस्माद् यदेकदाऽन्यत्रगतचित्तावस्थायामविकल्पक
मन्यदपि तत्तथैवेति युक्तम्(।) अथान्यविकल्पेनैव सविकल्पकं । तथासति श्रोत्रविज्ञानेनापि
सविकल्पकम्प्राप्नोति श्रोत्रस्यापि सहकारित्वात् ।
अथ पृथगेव तानि ज्ञानानि । समानमन्यत्रापीति न विशेषः । अथान्योपि तदवस्थ
स्यास्ति विकल्पः (।) तदसत् । अनुपलम्भात् ।
अथ व्यवहारादनुपलभ्यमानमपि साध्यते । न ह्यविकल्पयतो व्यवहारो दृष्टः ।
न खल्वनुमानेन शब्दयोजना न प्रतीता भवति । तस्यापि प्रामाण्यात् । अथानेनैव
व्यभिचारः । न (।) पक्षेण व्यभिचारा भावात् । अन्यथा धूमादग्न्यनुमानेपि व्यभिचारः
पक्षेणैव भवेत् । न (।) तदानुमानेनोपलम्भात् । स्पर्शपरव्यवहारादपि प्रतीतेः ।
यद्यनुमीयमानवह्न्यदर्शनमाशङक्ाविषयः । कदाचिदिदानीमेव धूमो वह्निम्बिना
भवेदिति । तत्र स्पर्शविज्ञानेन धूमरूपप्रतिपत्तेर्वितपनव्यवहारेण वा व्यभिचारपरिहारः ।
तदप्यसत् ।
समानत्वानुमितेरनवस्था तथा सति ।
यद्यनुमाने व्यभिचाराशङ्कायामनुमानमेवाव्यभिचारसाधनन्तथा सति समानमेवानुमान
मिति तल्लक्षणे सर्वत्राशङ्का भवेदिति(।) तदिदमसिद्धमसिद्धेन साध्यत इति । न च स्पर्शेन
रूपस्य साधनं । स्पर्शस्य पीतशङ्खाज्ञानविषयेपि सम्भवात् । यत्र च धूमस्य व्यभिचार
शङ्का तत्र वह्निपूर्वकृतानाम्वितपनादिव्यवहाराणां सुतरामेव । तस्मादनुमानेन विकल्पसाधने
यदि पक्षेणैव व्यभिचारः सर्वत्रानुमाने स्यादिति नेयं सध्वी कल्पना । तदसत् ।
अग्न्यनुमानं हि परोक्षविषये प्रवर्त्तमानन्न प्रत्यक्षेण बाध्यते । प्रत्यक्षस्यातद्विषयत्वात् ।
विकल्पसाधने तु विकल्पस्य स्वसम्वेदनप्रत्यक्षविषयत्वान्न दूरादिति सूक्ष्मतापि परोपलम्भा
पेक्षया । आत्मरूपे तु यथा सूक्ष्मतोपलभ्यस्य तथोपलम्भकस्यापीति । न श्वपचः श्वपचाद्
विभेति । स्वसम्वेदनस्यापि चायमेव वा भावो यदसम्वेदन्नाम । न चानुमानम्विकल्पे प्रवर्त्तते
वह्न्यादाविव । तथा प्रतीतेरभावात् ।
ननु विकल्पम्विना व्यवहारायोगात् प्रतिबन्धग्रहण कथन्नानुमानं । न(।) प्रतिबन्ध
ग्रहणस्यैवान्यथा भावात् । तथा हि ।
व्यवहारो हि पूर्वापरपर्यालोचनमन्तरेणानभ्यासस्य नेति प्रतिबन्धपरिग्रहोऽभ्यासे तु
सत्यन्यथापीति नान्यथा ।
प्रतिबन्धग्रहणानुरूपैवानुमानस्य प्रवृत्तिरन्यथानुमाने प्रतिबन्धग्रहणन्नोपयोगी । स च
प्रतिबन्धोऽनभ्यासावस्थायामेव गृह्यते नान्यत्र ।
अन्यथा ।
तस्मात् सङ्केतकालोपलब्धशब्दाग्रहणमन्यविकल्पने परिस्फुटमेवेति तज्जा कल्पनापि
नास्त्येव ।
ननु प्रत्यक्षेण यदि शब्दसम्बन्धो न गृह्यते कथमयं स तस्य शब्दस्य वाच्य इति कृत्वा
व्यवहारः । न(।) भ्रान्त्यापि व्यवहारसम्भवात् । भ्रान्तिरपि च वस्तुसम्बन्धेन प्रमाण
मेव । यथा तरुष्वपिण्डादिग्राहिणः प्रत्ययाः(।) तत्रापि न पिण्डता नामास्ति(।) तथापि
वृक्षव्यवहारोऽविसम्वादी । एवन्न योजनन्नामास्ति तथापि योज्यव्यवहारोऽवितथः । तथा हि(।)
गौरयमिति समानाधिकरणार्था प्रतीतिरन्यस्य गोशब्दोस्य वाचक इत्यर्थः । ततोऽविसम्वा
दिनी प्रतीतिरियमेवम्भूता । एवम्विषयेऽस्य प्रयोगस्य दर्शनात् । यथा वृक्षविषये पिण्ड
प्रतिपत्तेर्भावो नान्यत्रेति प्रतिबन्धादविसम्वादः । यदि तर्हि गोशब्दात् स्वलक्षणन्न प्रतिपन्नङ्
कथन्तद्दर्शने सोयमिति प्रतिपत्तिः । यत्तन्मया प्रतिपन्नमासीदभिधानादिदन्तदिति लोके
प्रतीतिः । न(।) दृष्टे प्रत्यभिज्ञानाभावात् । सोयमिति प्रत्यभिज्ञानन्नायमिति । स इति
च परोक्षाकारा प्रतीतिर्न दर्शनाकारा । ततो न्योन्यविलक्षणत्वात् प्रतीत्योर्नैकविषयत्वम् ।
प्रतिभासभेदो हि भेदक इति । तस्याभेदात्मकत्वेन भेंदो भवेत । अथार्थक्रियाभेदाद् भेदो
न प्रतिभासभेदात् । न(।) प्रतिभासभेदव्यतिरेकेणार्थक्रियाया अभावात् । अर्थक्रिया
विशिष्टप्रतिभासभेदादिति चेत् । यद्यर्थक्रियारहितः प्रतिभासस्तत्तर्हि निरालम्बनविज्ञान
मन्यदेवाक्षजप्रत्ययात् । स इति हि वासनामात्रभावितया नार्थक्रियाकारिवस्तुग्राहि ज्ञानं ।
अतो वस्तुसंस्पर्शाभावात् स एवायमिति प्रत्यययोर्न सामानाधिकरण्यं । अयमित्यपि प्रति
भास इदन्तदिति सकलपुरोवर्त्तिसाधारणरूपाध्यवसायी । साधारणताविरहेण तु निर्विकल्पक
एव । यदि च कल्पनारूपमिन्द्रियविज्ञानन्तदायमपरो दोषः ।
शब्दो हि परोक्षार्थे निवेशितस्तत्र च कल्पनानान्निवेशस्ततो न बाह्यदर्शि स्यादिन्द्रिय
विज्ञानमनालम्वनं शाब्दवदेव भवेत् । नहि परोक्षे प्रवर्त्तमानं सालम्बनं स्वरूपस्यासंस्पर्शात् ।
स्वरूपसंस्पर्शे वर्त्तमानं स्पष्टग्रहणादयमित्येव स्यात् । न स इति । स्मरणस्य वा सकल
स्येन्द्रियज्ञानता विशेषाभावात् ।
न खलु शाब्दाः प्रत्यया बाह्यरूपसंस्पर्शिनः । अथ बाह्येर्थे शब्दनिवेशस्तथा सति
साब्दप्रत्ययो यथेच्छया प्रवर्त्तते तथेन्द्रियजोपि । ततो बहिरर्थाभावेपि प्रवर्त्तमानो निरालम्बनो
भवेद् विशेषाभावात् । अथ यत्रेच्छानुविधानन्नास्ति तत्रार्थानुविधानाद् बाह्यार्थालम्बनता ।
यद्येवमर्थानुविधानम्प्रत्यक्षलक्षणन्तदा निर्विकल्पकमेवेन्द्रियविज्ञानां । शब्दाकारताया इच्छा-
270
पराधीनत्वान्न सा बाह्यार्थान्वयिनी वासनान्वयित्वात् । अथ यद्यपि वासनान्वयः शब्दा
कारस्य तथापि वासनेन्द्रियसामग्रीत एकमेव तदिति सविकल्पकम्प्रत्यक्षं । एवं हि व्यवहा
रोऽन्यथा परामर्शेनाविषयीकृते व्यवहार एव न स्यात् । निश्चिन्वतो हि सुखसाधनमेव
मेतदिति लोकस्य व्यवहारो दृष्टः । तदप्यसदेव । यतः ।
यतः कारणभेदादभेदः । कारणञ्च वासनादिभिन्नमेव शब्देन्द्रियजप्रत्ययार्थाकारयो
र्व्यवहारस्तु नैकत्वेन । सामग्रीमात्रेण प्रत्ययद्वयस्य व्यवहारोपपत्तेरन्यविकल्पनेपि च व्यव
हारसम्भवात् । न ह्यन्यविकल्पसम्मुखीभावे तस्य परामर्शेन विषयीकरणं । न च शब्दयो
जनामात्रेण व्यवहारोऽर्थक्रियायोजनेन व्यवहारादर्थक्रिया च पूर्वानुभूतानुभविष्यते च । न
सेन्द्रियविज्ञानविषयोऽनुमानाभावप्रसङ्गात् । नेक्षेरन् बाह्यमक्षजा इति कोर्थः । नेक्षेरन्
ये बाह्यन्तेप्यक्षजाः प्राप्नुवन्ति विशेषाभावादिति । एवम्व्यवधानादिभावेपि जायेतेन्द्रियजा
मतिरिति । व्यवधानादिभावेपि या मतिः सापीन्द्रियजा स्यात् । यथा स इत्यङ्श इति ।
एतच्च प्रागेव प्रत्यपादि । कथन्तर्हीदम्वस्त्विति निश्चयो वस्तुनः । पुरोवृत्तेनिश्चायकः ।
न ह्यत्र परोक्षविषयता निश्चयस्य । इदञ्च प्रत्यक्षं सन्निहितार्थत्वात् तदसत् । मानसम्प्र
त्यक्षमेतदिति प्रतिपादयिष्यामः । यदि च प्रत्यवमर्शमन्तरेण व्यवहारो नास्ति । नापरामृ
ऽष्टो गृहीतः । तदा ।
सकलसविकल्पकप्रत्ययवादी हि रूपमितीक्षेत रूपन्तद्धियन्तु कथमीक्षते । न हि
तत्र तद्धीरिति विकल्पः । अथानुभव एव नास्ति तथापि व्यवहारोस्ति । तत्रान
नुभूयमानेपि यावद् व्यवहारः सम्वेदने भवन्मते नार्थापत्यादेः सम्भवति । किम्पुन
रविकल्पकत्वेन स्पष्टाकारतयाऽनुभूयमाने । न चानुभववस्तस्या नास्ति । अन्यथा रूपद
र्शनम्ममेदमिति विकलास्य कुतः सम्भवः। सुखादयश्च तदानीमनुभूयन्त एव । न च तत्र
सुखादिकमिदमिति विकल्पकानुभवः । ततोऽविकल्पक एव बुद्धेरनुभवः । अविकल्पकानुभवे
नापि व्यवहारे बुद्धिवद् रूपादिष्वपि व्यवहारोस्तु । अथायमपि विकल्पो रूपदर्शनं ममेदमिति
प्रत्यक्षमेव सविकल्पकं अत्रोव्यते । तत्सविकल्पकम्प्रत्यक्षं रूपदर्शनमेव अथान्यद्रूपदर्शनादिति
द्वयी गतिः । तत्र ।
यदि स एव रूपप्रत्यय आत्मानं विकल्प्य प्रत्येति तदा सकृद् विकल्पद्वयप्रसङ्गः ।
एकस्य क्रमायोगात् । न च दृश्यते । सैव क्रमेण रूपादिस्वरूपानुभवात्मिकेति चेत् ।
यद्येका बुद्धिः क्रमं स्वीकरोति क्रमोप्यक्रमः प्राप्तः । तमपि क्रमेण स्वीकरोतीति चेत् ।
अनवस्था स्यात् । रूपाभिनिवेशावस्थायां स्वाभिनिवेशाभावात् कथमेकता । नह्यभिनिवेश
मन्तरेणापरा बुद्धिः । तस्य भेदबुद्धिरपि भिन्नेति कथमेकस्याः क्रमः । अभिनिवेष्टाऽभिन्न
इति चेत् । तत्रापि स्वरूपाभिनिवेशेऽपरेणाभिनिवेष्ट्रा भवितव्यमिति सैवानवस्था । तस्मात्
तयैवानुभवे सकृदेव विकल्पद्वयप्रसङ्गः ।
तुल्यकालविज्ञानानुभवभावेपि सकृद् विकल्पद्वयप्रसङ्गः । ततश्च तत्राप्यपरेण विकल्पेन
भवितव्यमित्यनन्तविकल्पप्रसङ्गः ।
अयापि स्याद्(।) उतरकालभाविना बुद्ध्यन्तरेणानुभूयते प्रत्यक्षेणार्थापत्त्या वा । न
सदेतद्(।) यतः ।
यद्यतीतं सम्वेदनन्न तत्र प्रत्यक्षम्विद्यमानविषयत्वात् । तदापि विद्यमानमेव सम्वेदन
मिति चेत् । न तर्हि रूपग्रहणस्वभावग्रहो न चान्या बुद्धिः । अत बोधरूपा बुद्धिस्तस्यां यो य
एव सन्निहितोर्थः स एव प्रतिभाति स्फटिकदर्पणादिवत् । तदसत् । अतीतमेव तर्हि तदा
रूपग्रहणम्(।) बोधरूपता तु तदा सत्यपि क्वोपयोगिनी । ततो रूपग्रहणम्ममेतदिति न स्यात् ।
आसीदिति स्यान्न च तथा प्रत्यक्षवृत्तिः(।)अथ रूपग्रहणस्यातीतत्वमप्यस्ति । वर्त्तमानत्वमपि(।)
तथा सति पूर्वमप्यतीतत्वमस्तीति दुर्घटम्भवेत्(।)तथा हि ।
सदैवातीतत्वे ततोपि प्रागस्तीति सर्वदा रूपग्रहणन्न भवेत् । अथ पूर्वम्वर्त्तमानता पश्चा
दतीतता । तथा सति तदेकं ज्ञानमिति न स्यात् । अथैकता । तथा सति सकृदुभयग्रहणम्भवेत् ।
क्रमेण ग्रहणे एक एव न स्यात् । एकत्वङ् क्रमश्चेति विरुद्धं । एकस्य त्यागे परस्यो
पादानमिति क्रमार्थः । एतच्च प्रागेव प्रतिपादितमिति नोच्यते पुनः । तस्मादतीतस्य
ग्रहणाभाव एव । स्मृतिरपि ग्रहणन्नान्तरेणेत्यभाव एव प्रसक्तो रूपग्रहणप्रतिपत्तेः । यदि
च सम्वेदनमतीतन्न सम्वेदनमेतदिति प्रतीतिः । तथा सति न ज्ञायते कस्येदं सम्वेदनमिति ।
अन्यधीप्रतिपत्तितुल्यता भवेदतीतत्वस्मरणस्याविशेषात् । कथमिदम्विज्ञायतेऽन्यधीपरि
च्छेदादिति किमन्यधिया परिच्छेदः । किम्वाऽन्यस्य धियः परिच्छेदः । यदि तावदन्यधिया
परिच्छेदस्तदेतदिष्टमेवास्वसम्वेदनवादिनः । अन्यथाऽन्यस्य धियः परिच्छेदः । तदसत् ।
अन्यधियः परिच्छेदासम्भवात् । अनुमानेन ह्यन्यधीपरिच्छेदः । न चात्मधियामनुमान
म्परिच्छेदकम् (।) अतः कथन्तुल्यता परिच्छेदस्य । अत्रोच्यते ।
यदि हि तत्साक्षात् प्रतीयते तदा रूपादिवदस्य न परोक्षता नाप्यतीत्वं । साक्षात्क्रिय
माणस्य वर्त्तमानत्वादन्यथा वर्त्तमानतैव न स्यात् । तस्मात् परोक्षं सकलमनुमानत एव
प्रत्येयं । तच्च स्मरणरूपमिति समानता बुद्धिसम्वेदनस्य भवेत् ।
अथ पक्षस्याप्यात्मबुद्धिरनुमानादन्येन मानेन मीयते तथा सति सैव समानता प्राप्ता ।
अथ परबुद्धिः परसम्बन्धित्वेन प्रतीयते नात्मबुद्धिस्तस्याः स्वसम्बन्धित्वेनैव प्रतीतिः । न ह्यन्यद
न्यथा प्रत्येतुं युक्तं । तदसत् ।
तदेव दर्शयति ।
272न ह्यतीतप्रतिपत्तौ दृष्टान्तोस्ति प्रत्यक्षाभावात् ततो न लैङ्गिकं ज्ञानमात्मपरसम्वन्धितया
प्रत्येति वेदनं । तथा प्रत्यक्षाभावात् । भावे वातीतता न स्यादित्युक्तम् । ततश्च लिङ्गं
सम्बन्धग्रहणमन्तरेणानुमापकमिति बुद्धिमात्रपरिच्छेदक एव प्रसक्तः । स्वसम्वेदने तु
तदितरत्वकृत एव विभागः । अथ सम्बन्धमन्तरेण यथानुमानन्तथा विभागानुमानमपि ।
नैतदपि युक्तं ।
न चाग्निर्मया कृतो ऽन्येन वेति तत्र विभागः । अथ परदेहसम्बन्धितयाऽनुमीयते सा
परबुद्धिरन्यथान्येति विभागः । तदेतदात्मनि बुद्धेः प्रत्यक्षेण ग्रहणे युक्तं । तथा हि । स्वस
म्विदितं यद्रूपग्रहणन्तदास्तीयमन्यदन्यथेति युक्तो विभागः । अथ यथा सौत्रन्तिकस्य
रूपादयस्तदनन्तरभाविना तद्रूपावभासविज्ञानेन गृह्यन्तेऽतीता एव सन्तस्तथा रूपग्रहणमपि ।
तदसद्यतः ।
नहि रूपादयः पूर्वरूपतयाऽवभासन्ते वर्त्तमानबुद्धिसङ्क्रान्ता वर्त्तमानतयैवावभासिनः ।
तद्रूपबुद्धिग्रहणमेव च रूपग्रहणं । नत्वेवम्बुद्धेर्बुद्धिग्रहणाभावात् । अथ तदा बुद्धिबुद्धि
रपि गृह्यते (।) तथा सति तदपरापि बुद्धिर्ग्राह्येत्यनवस्था । तथा सत्यग्रहणमेव सकलस्य ।
अथ बुद्धिबुद्धेरग्रहणमेव । तथा सति सत्सङ्क्रान्तस्य ग्राह्यस्याप्यग्रहणप्रसङ्गः । यदनन्तर
भाविनी बुद्धिबुद्धिः सैव गृह्येत न ततः पूर्विका । अथ पूर्वबुद्ध्यनन्तरमपि बुद्धिरुत्पत्ति
मतीष्यते । तथा सति निरन्तररूपबुद्धादिग्रहणाभाव इति वक्ष्यते(।)अथैकैव प्रबन्धेन बुद्धि
रुत्पद्यते तदनन्तरं सर्वपूर्वबुद्धिग्राहिका बुद्धिरुदेति । तथापि क्रमवत्सर्वबुद्धिप्रतिपत्तिर्न
स्यात् । अक्रमेण बुद्धिबुद्धावभासनात् । अथ क्रमेणैवावभासनन्तथा सति प्रत्यक्षत एकत्व
प्रतिपत्तिर्न स्यात् । त्रुट्यत्तया ग्रहणात् स्मृतिरेवेति दोषः प्रागुक्त एव ।
यदि नाम स्वरूपं स्वेन गृह्यमाणमविकल्पकेन गृहयते व्यतिरिक्तस्य तु ग्राह्यस्य
सविकल्पकेन ग्रहणे को विरोधः । न कश्चित् । किन्तु ।
तत्तावत् स्वरूपग्रहणङ् कस्मादविकल्पकग्रहणग्राह्यं । तत्रापीदमेवोत्तरं । न हि
स्वरूपेण स्वरूपस्य योजना शब्देनान्येन वा धर्मेण सम्भवति । एवञ्चेद् रूपादिकमपि न
योजयितुमपरेणापरेण शक्यं स्वरूपेण प्रतिभासमानस्य योजनाऽसम्भवात् । न हि स्वरूपेण
प्रतिभासमानमपरेण प्रतिभासमानेन योज्यते । स्वरूपप्रतिभासनव्यतिरेकेण योजनानुपल
क्षणात् । अप्रतिभासमानञ्च स्वेन रूपेण योज्यत इति न परमार्थः । अथायङ् गौरिति
प्रत्ययप्रतिभासेनैव योजना । अत्र प्रतिपादितं । अयङ्गौरिति । न चायङ् गोशब्दस्वभाव
इति प्रत्ययोऽपि तु गोशब्दवाच्योयमेव निश्चयानुभवात् ।
किञ्च । यस्य सामान्यविषया एव मीमांसकस्य शब्दास्तदेकार्था न कल्पना ।
तस्याभावे निर्विकल्पस्य विशेषाधिगमः कुतः ।
अथ तदेकार्था न भवति कल्पना तथा सति न शब्देन योज्यते विशेष इत्ययङ् गौरिति
सविकल्पकः प्रत्ययो विशेषग्राही न भवेत् । अन्योहि योजनाप्रत्ययोन्यश्च विशेषग्राहीति
प्राप्तं । परिस्फुटेतरस्वभावभेदात् । कारणभेदाच्च । तथा हि ।
शब्दाकारता हि सङ्केतसमयानुभूतशब्दभावनाबलादेवोदयमासादयति न चक्षुरादि
कात् । तथा सामान्याकारतापि । तथा हि चक्षुरादिकमन्तरेणापि भवति पूर्वानुभूतवासना
संस्कृतचेतसः । सत्यपि चक्षुरादिके तदनुरूपवासनाविनाकृतचेतस्तदभावाच्चक्षुरादिहेतु
कत्वाभावः ।
अथ चक्षुरादिकारणप्रतिबद्धप्रतिभासपदार्थसमानाधिकरणता न भवत्येव चक्षुरादिक
मन्तरेणेति मतिः । तदपि यत्किञ्चित् ।
न खलु तेन सामानाधिकरण्यमात्रादेव तद्ग्राहि प्रत्ययैककारणाधीनप्रत्ययग्राह्यता ।
प्रत्ययान्तरानुमानादिगृहीतेनापि सामानाधिकरण्यसम्भवात् । न च तदाकारद्वयानुभवव्यति
रेकिणी समा(ना)धिकरणता । कस्तर्हि समानाधिकरणेतरयोर्विशेषः । रूपद्वयानुभवो हि
भिन्नाधिकरणयोरपि पदार्थयोर्नासम्भवी । तदपि सुगमं । यतः ।
व्यवहारस्य यथा कथञ्चित् कारणमात्रतो भावः । अनादिव्यवहारपरंपरायातो
हि सामानाधिकरण्यी/?/दिव्यवहारः परीक्षणाऽक्षम एव(।) यतः परीक्षमाणो विशीर्यत
एव । तथा हि ।
सोयमग्निरिति ज्ञानं द्वयमेवात्र केवलं । तत्स्वरूपावभासान्न समानाधारता परेति ।। ३४० ।। सङ्ग्रहः
कस्मादन्यत्रापि द्वितयप्रतिभासेन सामानाधिकरण्यव्यवहारो वासनानियमेन व्यवहारनि
यमात् । प्रबोधोपि वासनाया एकार्थक्रियाकृतो नियत एव (।) प्रत्ययद्वयप्रतिभासे कस्माद्
भेदव्यवहार एव न भवति (।) वासनानियमादित्युक्तं । तस्मान्न सामानाधिकरण्यतः
सविकल्पकैकप्रत्ययता । अथ सामान्यविशेषयोर्नात्यन्तम्भेदस्तत एकार्थत्वेपि विशेषाधिगति
सविकल्पिका । तदसत् ।
यदि कल्पनायां सामान्यप्रतिभासने तद्भेदाद् विशेषस्यापि प्रतिभासः शाब्दप्रत्ययेपि
प्रतिभासो भवेत् । न्यायस्य समानत्वात् । न खलु न्यायसमानतायां न्यायस्यासमानता ।
274
न्याय्यताऽभावप्रसङ्गात् । अथ चक्षुरादिकारणाभावादप्रतिभासः सविशेषस्य । कथन्तर्हि
तदभिन्नं । नहि तेन सहाननुप्रवेशेऽभिन्नमिति शक्यम्विज्ञातुं । पश्चादनुप्रवेशादिति चेत् ।
तदेव तदानीन्नास्ति । न तु तस्यानुवेशस्तेनैव हि रूपेण तस्य तत्त्वं ।
येन रूपेण स पूर्वन्दृष्टस्तेनैव यद्यवभासमानता कथमनुप्रवेशगतिः पूर्ववत् । न चेत्
तेन रूपेणावभासते तत्त्वमस्य नास्तीति कथन्तस्यानुप्रवेश इति गतिः ।
तस्मादप्रतिभासमानन्नैकन्न च नाना । ततः पूर्वम्भेदेन प्रतिभासितस्य पश्चादनुप्रवेश
इति यत्किञ्चिदेतत् । तेन कारणाभावेनाप्यप्रतिभासितस्यैकत्वेन नानात्वमेव । तस्माद्(।)
अथ कल्पनारूपम्परित्यज्य विशेषाधिगमञ्चक्षुरादिकारणाहितविशेषसम्वेदनात् । तथा
सति तत्कारणाधीनं सविकल्पकमविकल्पकमेव । न खलु कारणभेदमनवलम्व्य भाव
भेदः स प्रमाणको युक्तः । ततस्तज्जातीयकारणासङ्गितज्जातीयमेव न च सविकल्पकेतर
प्रत्यययोः समानकारणता । तथा हि(।)
परस्परपरिहारव्यवस्थितस्वभावसामग्रीबलादुपजाते हीन्द्रियविज्ञानयोजनास्वभावकल्पने
कथमिव स्वभावसामग्रीभावभाजा स्वभावेन संसर्ग्गवती भवेतां । बाह्यानपेक्षसमयस्मर
णबालादेव योजना । बाह्यसापेक्षं समयानपेक्षमिन्द्रियविज्ञानं । न तत्र कल्पनाकारणा
भावात् कल्पनात्वं । नहि कारणमन्तरेण कार्योदयः ।
अथ बाह्यस्य शब्दसामान्यादिसम्बन्धस्य सामर्थ्यादुपजायमानमिन्द्रयविज्ञानं सविक
ल्पकम्भवेत् । तदप्यसत् यतः ।
एवङ् किमत्रापि दर्शने सकलसम्वन्धिप्रतिभासनप्रसङ्गः । अथ यद् यत्र व्यवस्थितं
सामान्यादि तत् तत्र प्रतिभासमानं प्रतिभासत एव । तदप्यसत् । शब्दस्याग्रहणप्रसङ्गात् ।
न हि शब्दः पटादिके विद्यते । अन्यथाऽगृहीतसङ्केतस्यापि पट इति प्रत्ययो भवेत् । न चास्ति
वाच्यतायां सन्देहदर्शनात् । तदर्थसिद्धावपि वाचकप्रभेदस्यानिश्चयात्(।)समानाकारताया
न्निश्चय एवेति चेत् । न(।)प्रथमदर्शनेऽभावात् । न तस्माद् भिन्नमित्यादिप्रतिपादनाच्च ।
अथापि स्याद्(।)गौरित्यादिप्रत्ययसङ्केतस्मरणमपेक्ष्य रूपादिकमेवेन्द्रियसहकारि
सविकल्पकञ्जनयति नानपेक्ष्य, सामग्रीतः कार्यनिष्पत्तेः । शब्दः सामान्यमन्यद्वा विशेषणं
यदा गृहीतम्प्राक् स्मर्यते तदा स्मरणसहायञ्चक्षुरादिकञ्जनयति । तेन गृहीतसङ्केतपूर्व
दर्शनरहितयोर्न भवति तन्न सुनिरूपणं । तथा हि ।
नहि पूर्वानुभूतिमन्तरेण तेन योजना । न च प्रतिनियतस्मृतिमन्तरेण प्रतिनियतशब्दा
दियोजना । न.च प्रतिनियतस्मृतिबीजप्रबोधकम/?/ रेण प्रतिनियतस्मरणं न च दर्शनमन्तरेण
प्रतिनियतप्रबोधकत्वं । तेन दर्शने तस्य तद्वाचकस्मरणं स्मरणे च योजनमिति दृश्यमानस्य
तत्स्मरणे लिङ्गतैव तस्य प्रबोधकस्य दृष्टस्य रूपादेः । ततो योजनाप्रत्ययो लैङ्गिक एव सकलः ।
अथ सामान्यन्न दृष्टमेव कथं लिङ्गात् प्रतीयते । अवयवसमानता हि सामान्यमुच्यते ।
सा च प्रागुपलब्धैव(।) ततः सा स्मर्यते तादृगवयवयोगस्य तत्समानताव्यवहारविषयत्वात् ।
अवयवानामपि समानता तादृशावयवसाम्यात् । यावत् तथाभूतबुद्धिसाम्याद् बुद्धेरपि तथा
भूतपरामर्शादिति । परामर्शोप्यनादिवासनात इति न दोषः । तस्माच्छब्देन सामान्यादिना
च योजना लिङ्गत एव स्मृतिरत्रानुमानम् ।
अथाक्षव्यापारेण योजना प्रत्यक्षमेवोच्यते । तथा सति सकलमनुमानमक्षजमेवेति
प्रत्यक्षं प्रसक्तं । तथा हि ।
अथाग्निमात्रेऽनुमानयोजनायान्तु प्रत्यक्षमेव । तदप्यज्ञानं । यतः । एवमपि शक्यम्वुक्तुम् ।
अनुमानेनैव हि योजना युक्ता दहनेऽक्षव्यापारासम्भवात् । नहि प्रत्यक्षेणागृहीतन्तेन
योजयितुं शक्यं । अप्रतिपन्नन्तेन युक्तम्प्रतिपन्नमिति व्याहतं ।
नन्वनुमानेनापि न योजना स्यात् । यतः ।
यथैव हि परोक्षे हुतभुजि न जायते प्रत्यक्षन्तथा प्रत्यक्षेपि प्रदेशे नानुमानमिति
समानो न्यायः । अनुमेयत्वे च न प्रत्यक्षता(।) नहि प्रमाणसम्प्लव इष्यते ।
प्रत्यक्षानुमानपृष्ठभावी विकल्प एवेदमत्रेति योजनाप्रत्ययः । स चानादितथाभूत
व्यवहारजातोऽनुमानमेव (स्वार्थानुमानं) । ततोऽनुमानेन योजना व्यपदिश्यते । अनुमानमपि
कथं योजनारूपमुत्पद्यते । प्रत्यक्षेण तथा दृष्टेरित्यदोषः ।
तस्मान्न प्रत्यक्षं योजनारूपमिति स्थितं । एतच्च प्रागेव प्रतिपादिते ।
अथापि स्यात्(।) परोक्षेपि प्रत्यक्षम्प्रवर्त्ततं एव स्मर्यमाणे । तेन प्रत्यक्षत एव
योजना । तदप्यसत्यं यतः ।
तस्या अक्षधियः स्मृतिसङ्गमेन स्मर्यमाणे यद्युत्पत्तिरिष्यते(।) तदाऽक्षधीः स्मृतेरेव
276
स्यान्नार्थसन्निधानमपेक्षेत । अथार्थसन्निधानमपेक्षेत तदा नैवासौ स्मृतेर्भवति साक्षात्करणस्य
स्मरणादन्यत्त्वात् । कालान्तरेपि वा स्यात् क्वचिद् व्याक्षेपस्यान्यविकल्पलक्षणस्य तदा
सम्भवात् । ततस्तदपीन्द्रियविज्ञानङ् कालान्तरस्मरणम्भवेत् ।
किञ्च । यद्यसावर्थः प्रथममविकल्पकज्ञानहेतुः सर्वदा तथैव भवेत(।) ततोऽविक
ल्पकमेव प्रत्यक्षम् ।
यद्यसावुभयस्य हेतुः प्रागेवोभयमुत्पत्तिसङ्गतं स्यात् । अथ स्मरणसहायमिन्द्रियं
सविकल्पकञ्जनयेन्नान्यथा । तदसत् । न खलु स्मरणस्य चक्षुः सहायतोपलभ्यते । न हि
सहाय इत्येव सर्व्वः सर्व्वस्य सहायः(।) किन्तु यस्तथा दृश्यते । न खलु स्मरणेन परिस्फुटादिकङ्
क्रियते चक्षुरादिप्रत्ययस्य । अथ निश्चितरूपता क्रियते । तदसारं । यतः ।
यदि पूर्वप्रतिभासित एव रूपनिश्चितत्वं नातिरिक्तं । तत् प्राग्रूपसमानमिति
नाधिकत्वं । निश्चयस्यानिश्चयात् ।
अथाधिकं रूपन्तत्र प्रतिभाति । तत्तर्हि रूपान्तरासङ्गि प्रत्ययान्तरमेव । तत्र रूपे
विशेषणादावक्षव्यापाराभावात् । अथेदमित्युल्लेखस्तत्रैव प्रवर्त्तते (।) तेन साक्षात्करणप्रवृ
त्तत्वादस्य प्रत्यक्षता । तदप्यसत् । यतः ।
सन्निहितरूपादिमात्रसाक्षात्करणात् । पौर्वापर्यार्थक्रियादिसम्बन्धग्रहणरहितत्वाद विक
ल्पकतोऽपरस्यान्न विशिष्यते । न ह्यविकल्पयन्नेव सविकल्पको नाम । तस्मात् स्मर्यमाण
विशेषणादेरस्पष्टाकारादन्यदेवेदमिति स्पष्टाकारन्तत् । तथा सति ।
अथापि स्यात्(।) स्मर्यमाणादाकारादन्य एव स्पष्टाकारोऽक्षबुद्धिविषयः । यद्येवं
स्मृतिस्तत्रापार्थिका । न हि स्मरणन्तत्र ग्रहण उपयोगि स्मरणमन्तरेणापि तस्य तथा प्रतिपत्तेः ।
यदि स्मृतिसहायचक्षुरादिना तद्रूपतोल्लिख्यते तदभावे तत्प्रत्ययो न स्यात् । न भवत्ये
वेदमित्युल्लेख इति चेत् । न । इदमित्युल्लेखाभावेपि तद्रूपावभासनात् । सतापि तेन
विशेषान्तरस्याभावात् कस्तत्रोपयोगः । प्रवर्त्तनमुपयोगश्चेत् । विनापि तेन प्रवर्त्तनमिति
प्रतिपादयिष्यामः । मानसञ्च तत् प्रत्यक्षमिति प्रतिपादयिष्यते ।
अथापि स्यात् । स्मृतिमन्तरेण न प्राथमिकस्यानभ्यासवतः प्रवर्त्तनमिति तदर्थं स्मृति
रिष्यते । अत्रोच्यते । भेदश्चेद् असमित एवासङ्गत एव ग्राह्यः (।) स्मृतिस्तत्र किमपरङ्
करिष्यति । यतः सङ्गतसिद्धयर्थं स्मृतिरिष्यते स चेन्न तथा सिध्यति न तत्प्रतिपत्तौ स्मृति
रुपयोगिनी (।) प्रवर्त्तनन्तु प्रमाणान्तरादनुमानात् प्राथमिकस्य भवेदेव । तस्मान्न विकल्पस्य
स्वरूपग्रहणम्प्रति व्यापारो न प्रवर्तनमभ्यासात्तु निरर्थकोप्येष प्रवर्त्तत एव । न हि प्रयोजन
मित्येव भावा भवन्ति (।) कारणमात्रापेक्षित्वाद् भावभावस्य ।
अथ पूर्वस्मादन्यस्वरूपग्रहणन्तथा सति प्रत्ययान्तरमेवैतन्मानसप्रत्यक्षरूपं । तथा
प्रतिपादयिष्यते (।) अथापि स्यात् । सामान्यमेव तया परिगृह्यते न भेदः पूर्व्वमपरिदृष्टः ।
एवन्तर्हि ।
यदि सामान्यग्रहणमेव चक्षुरादिकात् । तदा परस्य भेदग्राहिणोऽसम्भवात् सामान्य
ग्रहणे सति भेदग्रहणाकांक्षा न भवेत् । भवति च । तथा हि । सामान्यग्रहणे गौरिति
प्रतिपत्त्या किम्भूतो गौरिति दृश्यते लोके ।
स्मरणस्य तत्रानुपयोगात् । चक्षूरूपमात्रत एवोदयमासादयां/?/त नेत्रबुद्धिः ।। तथा हि ।
न ह्यन्यथा प्रतीयमानमन्यथा शक्यङ्कल्पयितुं । न खलु पुरोवर्त्तिरूपमात्रे चक्षुः
प्रवर्त्तनमीक्षमाणं शब्दसामान्यादौ प्रवर्त्तत इति शक्यम्वक्तुं प्रमाणाभावात् । तथा कल्पना
यामतिप्रसङ्गः । तस्मात् ।
न हि स्मरणादुत्तरकालं सुगन्धमिदन्दुर्गन्धमित्यादि ज्ञानम्प्रत्यक्षं । रूपमात्र एव
चक्षुर्विज्ञानस्य व्यापारात् । तस्माद् यदेवार्थे चक्षुरादिसमाश्रयेणोत्पत्तिमत् तदेव प्रत्यक्षं ।
न तदन्यद् (।) अतः शब्दसामान्याद्याकारस्याप्रत्यक्षता । अन्यदपि यत् स्पष्टप्रतिभास
निमित्तन्तदाश्रयतापि गृह्यते तेन मानसादिकम्प्रत्यक्षं ।
अथवा तदप्यक्षमेवाश्नुते व्याप्नोत्यर्थरूपमित्युक्तम् ।
५.६. प्रत्यक्षभेदाः—
819(१) इन्द्रियप्रत्यक्षम्
अथ कस्माद् (वि) षयाधीनायामुत्पत्तौ प्रत्यक्षमुच्यते न प्रतिविषयम् । विषयेण हि
रूपादिना व्यपदेशो युक्तो नेन्द्रियेण(।) न हीन्द्रियेण जनितमित्येव प्रत्यक्षं । विषयस्वरूप
ग्रहणप्रवृत्तन्तु सकलमेव प्रत्यक्षं । अक्षाश्रयन्तु किञ्चित् प्रत्यक्षमपरमन्यथा । व्यपदेशश्च
स तस्य युक्तो योऽव्यभिचारनिमित्तः ।
ननु विषयजनितमपि द्विचन्द्रादि रूपम्भ्रान्तमेव । ततो न विषयादप्युदयमासादयत्
सकलमभ्रान्तं । ननु विषय एवासौ न भवत्याकारार्पणाक्षमकारणत्वात्तस्य । एवन्तर्ह्यक्ष
मेव तन्न भवत्युपहतत्वादनुपहतमक्षं स त्वक्षाभासः । एवन्तर्हि ।
विषयस्याक्षस्य कारणत्वेन समानत्वे कस्माद् विषयेण न व्यपदेशः । नहि प्रेक्षापूर्व
कारिभिर्यथा कथञ्चित् व्यपदेशाः क्रियन्ते त्यज्यन्ते वा । अत्रोच्यते ।
गमकागमकत्वेन ह्युपादानपरित्यागौ । अक्षव्यपदेशे च गमकत्वमस्ति । यदक्षा
श्रितन्तप्रत्यक्षं । उपहतेन व्यभिचारस्तु प्रत्युक्तः । विषयेणापि तर्हि व्यभिचारो नास्ति
तस्याविषयत्वात् । नैतदस्ति ।
विषयो यद्यसौ न स्यात् प्रत्यक्षोन्यस्य किम्भवेति ।
अत एवाह । साधारणेन व्यपदेशो दृष्टो भेरीशब्दो यवाङकुर इति । यवाङ्कुर
इत्युक्तेनायवाङ्कुप्रतीतिः । पृथिव्यङ्कुर इति तु भवति तस्याप्येवमन्यत्रापि ।
अथ प्रतिविषयमिति विषयस्वरूपग्रहणं । तथा (।) सति स्वसम्वेदनमेव प्रत्यक्ष
म्भवेदन्यत्रागमकता स्यात् । अथ लोकप्रसिद्धविषयस्वरूपग्रहणमुच्यते । तथा(।)सति प्रत्यक्ष
मिति लोकप्रसिद्धिरेषैवास्तु किम्व्यपदेशान्तरकल्पनया । वैभाषिकादिमतेन तु मनोविज्ञान
मपि प्रत्यक्षम्प्राप्नोति विषयग्रहणात् । तस्मा (द) पि (प्रत्य) क्षव्यपदेश्यतैव युक्ता । तथा
चाह । विषयो हि मनोविज्ञानान्य सन्तानिकविज्ञानहेतुत्वात् साधारणः । तस्मादिन्द्रियेण
व्यपदेशात् कल्पनापोढता प्रत्यक्षस्य स्वरूपं शक्यं लक्षयितुं । न विषयव्यपदेशात् ।
ननु विषयेणापि शक्यमुपलक्षयितुं । तथा हि(।) अर्थस्य सामर्थ्येन समुद्भवादित्याह ।
तद्धि अर्थस्य सामर्थ्येनोत्पद्यमानन्तद्रूपमेवानुकुर्यात् । न(।) अनेकान्तिकत्वात् । द्विचन्द्रा
कारतया व्यभिचारात् । अथार्थसामर्थ्येन भ्रान्तस्य नोत्पत्तिः । तथा सति निर्विकल्पकत्वमस्य
नानया युक्त्या साधितं स्यात् । तस्मादिन्द्रियमेवात्रार्थस्येति व्यपदिश्यतेऽर्थाभिनिवेशित्वात् ।
अत एवेन्द्रियस्य गमकत्वात् तेनैव व्यपदेशः ।
प्रेक्षापूर्वकारिणो नियोगमेव गमकत्वमाहुः । ततो गमकतायामेतदेवं लिङ्गं ।।
ननु प्रेक्षापूर्वकारिता नियोक्तुः कुतो गम्यते । सत्त्यमेतत् । न पुरुषप्रामाण्याद् वचनस्य
सदर्थता गतिः । लोकव्यवहारादेवमुच्यते । परमार्थतस्तु लिङ्गत्वेन व्याप्यतोच्यते । येन
व्यापकस्य स्वभावस्य निवृत्त्या निवृत्तिमाह ।
ननु प्रतिविषयमिति सविकल्पकस्य लोकप्रसिद्धस्य गमको व्यपदेशः । पूर्वापरभूतश्चै
कविषयः सविकल्पकस्य प्रत्यक्षस्य । इदं हि लोके प्रत्यक्षमिति प्रसिद्धं । तथा हि ।
तदेतदसदेव ।
असाक्षात्करणाकारमनुमानमेवैकम्प्रमाणं । ततो यदि प्रत्यभिज्ञाप्रमाणमसाक्षात्कार
वृत्तन्ततोनुमानमेव । साक्षात्कारितायाः पुरोवर्त्तिवस्तुमात्रवृत्तित्वान्न प्रत्यभिज्ञानं । तेन
साक्षात्करणमिन्द्रियव्यपदेशादेव प्रतीयते नान्यतः । विषयव्यपदेशेन सविषयता नाम स्यात् ।
न साक्षात्कारिताकथनं । न च तद्व्यपदेश्ये प्रत्यक्षता लोकप्रसिद्धा । प्रमाणञ्च प्रत्यक्षन्न च
साक्षात्करणव्यतिरिक्तं सम्वेदनम्प्रत्यक्षमिति स्थितमविकल्पकम्प्रत्यक्षं ।
कथन्तर्हीदमुक्तं ।
न खलु सामान्यगोचरमविकल्पकं सामान्यकल्पनायास्तद्विरोधित्वात् । तदेवाह ।
न खलु बहूनाम्परस्परस्वरूपपरिहारेणावस्थितानान्तथैव ग्रहणे समुदायबुद्धिः । पार
मार्थिकः कल्पितो वा समुदायः स्यात् । न तावत् पारमार्थिकस्तद्व्यतिरेकेण समान्याभा
साभावात् ।
नत्वसौ समुदायः । तथात्वे वात एव परस्परव्यपेक्षया समुदायव्यपदेशभाजो भवन्तु
किमपरेण ।
अथ तेषां रूपन्तिरोधाय परं रूपम्प्रतिभाति तदपि वस्तुनस्तथा भूतस्याभावादध्यारोप
मात्रङ् कथन्न कल्पनाविषयः । कल्पितविषयत्वे च सविकल्पकत्वन्दुर्वारं । अत्रोच्यते ।
अणवो हि परतोऽनुपजातज्ञानहेतुशक्तयः सम्विदमुपजनयितुं न क्षमाः । सूक्ष्मेत
रदृशाः । ततः सर्वैस्सम्विदुपजनयितव्या । न ह्येकनियतन्तु ज्ञाननिर्मितसामान्यविषयमुक्तं ।
परस्पर विवक्ता एव कस्मान्न प्रतिभासन्त इति चेत् । नन्वसंसक्ताः केशादयोपि दूरे नासंस
क्ततया प्रतिभासगोचरीभवन्ति (।) ततः स्वकारणनियतस्वरूपार्पणासक्तेर्यदि न प्रतिभान्ति
कस्यात्रोप(ा)लम्भः (।) न तर्ह्यप्रत्यक्षे भावत्वप्रतिभास इति भ्रान्तता भवेत् । अध्यासेपि
तथावभासने च सविकल्पकत्वमपरसामान्यविकल्पवत् ।
अथ तत्र बुद्धिस्वरूपमेवैकघनस्थूलाकारतया साक्षात्कृतम्प्रतिभाति ततोऽविकल्पता ।
उच्छिन्नमिदानीं सविकल्पकत्वं । सर्वत्र कल्पनाज्ञाने बुद्धिरूपस्यैव प्रतिभासात् । अत्रोच्यते ।
अनुदितप्रबोधप्रभावानामिदानीन्त(न)जन्मिनामिदमभ्रान्तमिति प्रतिभाति । तदपेक्ष
येदमुक्तमभ्रान्तमिति । परमार्थतस्तु सकलमालम्बने भ्रान्तमेव । अतः ।
न हि साक्षात्कारि सविकल्पकं । कल्पनायाम्पूर्वोपगृहीतवस्त्वध्यासात् । न हि साक्षा
त्करणमेवाध्यास उच्यते । तद्विपर्यये तत्त्वप्रसिद्धेः । एवन्तर्हि सामान्यगोचरत्वमसत् ।
लोकप्रसिद्ध्या स्वलक्षणत्वस्य भावात् । उक्तञ्च । आयतनस्वलक्षणम्प्रत्येते स्वलक्षण
विषया न द्रव्यस्वलक्षणं । तदप्यसत् ।
परमाणव एव तथा गृह्यमाणाः सामान्यं । यदप्युच्यते । सर्वमेवाविकल्पकमिति
तत्रापि ब्रूमः ।
मीमांसकादिपरप्रसिद्धिमाश्रित्यानुस्मरणविकल्पतया कल्पनार्थप्रतिपादनं । न च
साक्षात्करणे तदस्तीति विकल्पकेतरविभागं शास्त्रकृत् करोतिस्म ।
ततः पूर्व्वगृहीतार्थाध्यारोपात् सविकल्पकम् ।
सकृद् अनेकपरमाणुग्रहणे हि न पूर्वगृहीतार्थाध्यारोप इति नानुस्मरणविकल्पेन
सविकल्पकत्वं । क्रमग्रहणात्तु दुर्निवारं । न चैकं ज्ञानमेकदानेकग्रहणसमर्थमेकत्र मनसो
व्यापृतत्वे परत्र तदैव व्यापारायोगात् । एकम्वावयविद्रव्यमभ्युपगन्तव्यं सकृद् ग्रहणात् ।
यदि परमाणवो न सकृद् गृह्यन्ते तथा सति पूर्वाध्यारोपात् सविकल्पकत्वमस्माभि
रिष्यत एव । अथ दृश्यन्ते तथा सति साक्षात्करणादविकल्पकत्वं सिद्धं ।
किञ्च । केनेदम्प्रसिद्धमनेकं योग्यदेशव्यवस्थितमेकेन सकृन्न गृह्यते । मनस
एकत्वादिति चेत् । न । मनसो युगपज्ज्ञानोत्पत्तिविरोधिनोऽसिद्धत्वात् । मनस्कार
मात्रकस्यैव मनस्त्वस्य प्रसिद्धत्वात् ।
किञ्च (।) सकृद् ग्रहणप्रतीतिरुपलक्षत एव परस्परमप्तंसर्गेषु तिलतण्डुलदण्ड
कमण्डलुभाण्डकुण्डलेषु । लाघवाद् ग्रहणस्य सकृदवभास इत्यप्यसत् । यतः ।
नहि लाघवात्सकृद् ग्रहणमुपपत्तिमल्लाघवस्याभावात् । प्रत्युक्तत्वात् । कुत
एतत्(।) प्रतिपन्नं लाघवादसकृद् ग्रहणाभिमानः उत्पलपत्रशतवेधवदिति चेत् । न(।)
दृष्टान्तमात्रादर्थासिद्धेः । न ह्येकत्र सिद्धमपरत्रापि तथा । पत्रशतबेधे तु औत्तराधर्ययोगिना
सह बेधासम्भवादनुमानसिद्धः क्रमः । न चैवङ् कल्पनायामतिप्रसङ्गः शक्यो निवारयितुं ।
तस्माद् बाधकाभावान्न सिध्यति भ्रान्तिः । यदि च लाघवात् सकृद् ग्रहणाभिमानस्तेष्वेव क्रमेण
एतत्सु प्रागसत्सु किन्न तथा । लाघवाभावादिति चेत् । अत्रापि तदिति कुत एतत् ।
सकृद् ग्रहाभिमानादिति चेत् । एतदपि कुतः । इतरेतराश्रयप्राप्तेः । यावत्सकृद्
ग्रहस्य भ्रान्तता न सिध्यति न तावल्लाघवसिद्धिः । यावच्च न तत्सिद्धिस्तावद् भ्रान्तताया
अप्रसिद्धिः । अपि च ।
बुद्धिपरिमाणकालं हि प्रमेयप्रतिभासनं ।
ततः सर्व्व एवाक्रमः प्रतिभासो भवेत् प्रमेयस्य । तस्मान्न लाघवकृतः सकृदवभासोऽपि
तथैव सद्भावात् । यत्र तु कारणवैकल्यान्न सकृदवभासस्तत्र विपर्यय इति व्यवस्था ।
तथा हि योगिनां ज्ञानमेवमेवाविकल्पकं ।
तथा च सकृदवभासनमेव पूर्वरूपता ग्रहणाभावात् ।
यदि मनस एकत्र वृत्तेर्न युगपदनेकग्रहणन्ततो न चित्रपतङ्गरूपग्रहणमित्येक एवावय
वीत्यभ्युपगम्यते । तदेतदभ्युपगमनन्तस्मादपि चित्रपङ्गादि विचित्राच्चित्रतरं । यतः ।
चित्रमिति परस्परसंसक्तस्वभावस्य भावात्मनो व्यपदेशोऽन्यथा क इह चित्रार्थः ।
ततो नानारूपरत्नसञ्चयवत् कुतश्चित्रपतङ्गात्मन एकत्वं । अथ मणीनां विभागयोग्यत्वा
दनेकता न पतङ्गस्य । न(।) तत्रापि विभागसम्भवात् । परस्परविभागेन प्रितिभा
सनमेव विभागः ।
अथ सत्यपि विभाग एकत्वं । तथा सति रत्नसञ्चयस्यापि । अन्यस्तत्र विभागो
वियोजनाख्यस्ततोऽवियोजनञ्चित्रमप्येकमेव । तन्न(।) सर्वत्र वियोजनसम्भवात् । तथा हि ।
यदि विभागो वियोजनाख्यः सम्भवति मणिसमूह इति नैकस्तत्रावयवी । तदेत
च्चित्रपतङ्गादावपि किन्न भवति । तत्र यत्नाद् वियोजने छेदादिना विभागोत्पत्तेरवयवि
विनाशस्ततोऽवियोजनमिति823 न दोषः । एतन्मणिसमूहेपि कल्प्यतामिति समानः प्रसङ्गः ।
(अवयविनिरासः)—
ननु नीलादीनाम्परस्परपरिहारेणोपलक्षणेपि स्पर्शस्य तदेकरूपत्वात् परस्पराविच्छे
दाच्चावयवानामेक एवायवी । तदप्ययुक्तं । यतः ।
विजातीयसूत्रसमाहाररूपेषु कृत्रिमचित्रपतङ्गादिषु समान एव नीलादिप्रविभागः
स्पर्शाद्यविभागसहचारी । तत्र तत एकत्रावयवी परत्र नेति कुतोयम्विभागः ।
यदि चित्रपटादिषु कृत्रिमेष्यवयवरूपमेव केवलन्तथोपलभ्यते एकत्वाभिनिवेशेन । तदा
नीलादीनि विभागरूपेण व्यवस्थितानि परित्यज्यान्यच्चित्रमकृत्रिमेष्वपि नास्त्येव । एकत्रा
भिनिवेशस्तत्र शरणं । तच्चावयविनमन्तरेणापि कृत्रिमेषु विद्यते । ततः सापि प्रत्याशा
व्यपगतैवेति नावयविमश्चित्रता युक्तिमती । प्रत्यक्षानुमानयोरसाधकत्वात् । एकाकर्षणेत्व
पराकर्षणमयस्कान्तायोगोलकादीनामुपलभ्यत एव । तत्र चानेकस्य सकृदुपलम्भ इति सिद्धं ।
अथ क्रमेणैव कृत्रिमेषु नीलादीनामुपलम्भस्तदन्यत्र सकृदिति विभागः । तदप्यसत ।
अर्थाकारकालयोः समानत्वेपि धियोरेका नानार्थप्रतिभासा क्रमवत्यपरा तु पुनरेकमेवा
र्थमवयविनं स्वगोचरचारिणम्विदधाना न क्रमवतीति किमत्र निबन्धनं । न खलु सर्वत्र
समानतोपलक्षणे विलक्षणत्वमभ्युपगमविषयः । कृत्रिमाकृत्रिमचित्राभिमतयोश्चेदमभ्युपगम्यते ।
तदेतदप्रमाणकमभ्युपगममात्रकन्न त्राणाय ।
ननु यदि कुतश्चित् प्रमाणबलादयमेकानेकविभागस्तदा क इवात्र दोषः । न युक्त
मेतत्(।)यतः ।
एकानेकरूपप्रतिभासवतीनां धियामेव तद्रूपव्यवस्थापने प्रामाण्यन्नापरः प्रमाक्रमः ।
ताश्च तथाभूतव्यवस्थापनाप्रहतप्रक्रमा अपि धियो यदि साधर्म्म्यमात्रोपनिबन्धनप्रकल्पित
प्रामाण्ययापरधियावधूयेरन्(।) क्व नाम साधर्म्म्यन्न लभ्यमेतदिति न भावव्यवस्थानामास्तीति
सकलमसमञ्जसम्भवेत् तस्मात् ।
नहि प्रत्यक्षपरिगृहीतप्रतिबन्धकमनुमानमपरेणानुमानेन तथोदयमासादयता प्रत्यक्षा-
283न्तरेण वा प्रतियोगितायोगम्विभ्राणेन शक्यन्तिरस्कर्त्तुं । न हि प्रमाणं प्रमाणेन तिरस्क्रियते ।
समानबलत्वे कः तिरस्कारः । प्रमाणत्वञ्च कथन्तिरस्कारकरणे । असमानबलतायाम्वा
अथ प्रमाणमेव तन्न भवति यदनुमानेन वाध्यते(।) अनुमानमेव तन्न भवति यत्प्रक्षेणेति समानः
प्रसङ्गः । अर्थप्रतिभासा यथा कथञ्चित्कारणदोषतो भवन्ति नानुमानं । ततस्तदेव
बाधकमिति । तदप्यसत् ।
क्रमवत्प्रतिभासस्वरूपं हेतुदोषादक्रमम्भवतीति न युक्तं (।) न ह्येकस्य स्वरूपन्नाना
तथा प्रतिपत्तिप्रसङ्गात् । अप्रतिभास एकस्येति चेत् । न (।) स्वभावताऽभावप्रसङ्गात् ।
न खल्वप्रतिभासने प्रतिभासनन्नाम । अप्रतिभासनम्प्रतिभासनस्वभाव इति दुर्घटं । अथ
क्रमभासनमेव नेतरत् । भ्रान्तिमात्रमेवेतरत् । केयम्भ्रान्तिः (।) किमप्रतिभासमथान्यथा
प्रतिभासनं (।) किञ्चातः ।
यदि सर्वा प्रतिभासनम्भ्रान्तिः सुषप्तस्योपलादेश्च भ्रान्तताप्रसङ्गः । यदि चाक्रमस्या
प्रतिभासः क्रम एव तर्हि प्रतिभात्यनुपहतस्ततः कथम्भ्रान्तिः । न हि स्तम्भादेः प्रतिभासनमेव
भ्रान्तिः ।
यद्यन्यस्य विवक्षितात् प्रतिभासस्य भ्रान्तता तदा तर्हि स्वरूपप्रतिभासनमेव तस्य
नास्ति कथं सा बुद्धिरस्ति । अप्रतिभासमानापि यदि बुद्धिरस्ति सर्वदा सर्वस्य सर्वा एव
धियः सन्तीति वक्तव्यं । भ्रान्तिश्च । अथ नास्त्येव सा बुद्धिः । एवन्तर्ह्यविद्यमानैव
क्रमवती बुद्धिरक्रमाभा परोत्पन्नेति कथम्भ्रान्तिः । अथ तस्याः प्रमेयन्नास्तीति भ्रान्तिरसौ ।
नन्वक्रमेषु तिलादिष्वक्रमाया एव बुद्धेः प्रमेयमस्ति । प्रत्युत क्रमवत्याः प्रमेयासम्भवोऽ
न्यथाऽवभासनात् । अथाक्रमम्प्रमेयमेव न भवति तेनैवमिति चेत् । स्वरूपेपि तर्हि नाक्रमा
वभासस्ततो न भ्रान्तियोगः । अथ ।
यदि क्रमवती बुद्धिर्बुद्ध्यन्तरेण गृह्यते । प्रमेयस्याक्रमावभासो न स्यान्मणिमुक्तादेः ।
तद्ग्राहिकाया बुद्धेः क्रमेण प्रवर्त्तनात् । बुद्धिग्राहिकायाश्च न प्रमेये वृत्तिः । न च क्रमोऽ
क्रमेण प्रतिभाति ।
यदि क्रमावभासिनी बुद्धिरुदयवती बुद्धिबुद्ध्यापि तथा भवितव्यं । भ्रान्त्या सकृद्
ग्रहणञ्चेदेकया सकृदनेकग्रहणप्रसङ्गः । न हि पूर्वापरग्रहणानामेकता प्रतीत्यभावात् ।
उत्तरया बुद्ध्यैकतया प्रतीतिरिति चेत् । सापि क्रमवती कथमेकताम्प्रतीयात् । ग्रहणकालो
हि ग्राहिकालानतिपाती । अथाक्रमैवासौ (।) तथा सत्येकयाऽनेकग्रहणं । अत एवासौ
भ्रान्तिरिति चेत् । तथाप्यनेकस्वरूपप्रतिभासनमव्यावृत्तमेव (।) चित्राबुद्धिरेकैव चेत् ।
किन्न मणिमुक्तादयो नीलादयश्च प्रमेयम्विरूपेणावभासमाना अपि यदि बुद्धिरूपा इति
284
सर्व्वस्य प्रमेयस्य तथा प्रसङ्गः । तस्मान्न भ्रान्तावपि प्रतिभासनं युक्तं सकृदनेकस्य ।
तस्माद् यो यथाऽनुभूयते सकृदन्यथा वा स तथैवाभ्युपगन्तव्यः । तथैव विचारक्रमत्वात् ।
अन्यथा प्रमेयस्थित्यभावः ।
नन्वालेख्यादौ चित्रबुद्धिरुपलक्ष्यते । कथमेकता न युक्ता । मणिमुक्तादिषु तु न
चित्रैका बुद्धिस्ततो बुद्धेरेव प्रतिभासविभागादयम्विभागः । न(।)स्वसमयविरोधात् । यतः ।
यदि बुद्धिरनुविधीयते स्वसमयः परित्यक्तो विजातीयानारम्भादिति । विजातीय
सूत्रसंयोगोपजनितस्य हि पटादिरूपस्य न चित्रावयविता ।
भ्रान्तापि हि बुद्धिः प्रवर्त्तमाना सकृदनेकग्रहणे प्रवर्त्तत एव(।)को हि पुरोवर्त्तित्व
प्रतिभासने सत्त्यासत्त्ययोर्विवेकः । अथ बुद्धेरेव तद्रूपं । तदेतदसत् ।
अथापि स्याद् (।)
आत्माबुद्धेस्तेन रूपेण सत्त्यः पीताद्यात्मा बाह्यरूपस्त्वसत्त्यः ।
अथापि स्याद्(।)आत्मरूपे प्रवर्त्तत एकापि बुद्धिरनेकत्र तत्र प्रयासाभावात् । पररूपे
तु महान् प्रयासो मनसो गमनादिलक्षणस्ततो नैकया ग्रहणसम्भवो ग्रहणस्य सकृद् विरुद्ध
देशेष्वसम्भवात् । यदि तर्हि गमने न मनो ग्रहणकारणं (।)
शाखाचन्द्रमसोस्तुल्यकालग्रहणासम्भवः । शीघ्रवृत्तेस्सकृद्ग्रहणावभास इति चेत् ।
न(।)अतिदूरे शीघ्रताऽसम्भवात् । किञ्च(।) किमत्रप्रमाणम्प्राप्यकारि चक्षुरादीति । परः
प्राह । उपलब्ध्यनुपलब्ध्योरनावरणेतरापेक्षणात् दूरेतरापेक्षणाच्च । यदि चक्षुरादिकमप्राप्य
कारि भवेत् । यथाह(।) चक्षुःश्रोत्रमनोऽप्राप्तविषयमिति(।) तदावरणभावादनुपलब्धिरन्यथो
पलब्धिरिति न स्यात् । न हि तत्रावरणम्व्याघातकरणसमर्थं । प्राप्यकारित्वे तु मूर्त्तद्रव्य
प्रतिघातादुपपत्तिमान् व्याघातः । अतिदूरत्वे च गमनाभावात् । तदसत् । अप्राप्यका
रित्वेपि योग्यदेशापेक्षणादयस्कान्तवत् । न खल्वयस्कान्तोऽप्राप्याकर्षणे प्रवर्त्तमानोऽयसः
सर्वस्य समर्थः । अथ तत्राप्ययःस्पर्शोस्त्येव । सूक्ष्मत्वादनुपलक्षितो यथा नायनरश्मिसंस्पर्शः ।
नन्वेतदेवान्येन साध्यते कथन्तदेव साधनं(।)तस्मात् ।
अथापि स्यात्(।)संसृष्टस्याकर्षणन्दृष्टमित्ययस्कान्ताकृष्यमाणस्यापि तत् । न(।)
मन्त्रस्याप्याकर्षकत्वन्दृष्टन्तदा कृष्टस्यापि स्पर्शप्रसङ्गेनातिप्रसङ्गात् । भवतु तत्रापीतिचेत् ।
न (।)शब्दस्य गुणत्वात् । यदि वानैकान्तिकत्वदर्शनविषयेपि स एव धर्म्म आसज्यते । न
क्वचिदनैकान्तिकत्वेन भवितव्यं । स श्यामस्तत्पुत्रत्वादिति व्यभिचारदर्शने गौरपुत्रेण तत्रा
प्यस्ति श्यामतेति प्रसङ्गः । कस्मान्न दृश्यत इति । अदर्शनकारणमत्रमीयतां ।
किञ्च । यदि चक्षूरश्मयोनिर्गत्य संसर्ग्गवन्तः कस्मादतिदूरेपि न दर्शनमव्यवहिते
प्रदीपरश्मिवदिति न दोषः । एवन्तर्हि अतिनिकटग्रहणप्रसङ्गः । न हि प्रदीपरश्मयो
ऽतिनिकटे न प्रवर्त्तन्ते । तस्मादपरो धर्मश्चक्षुरादीनाम्प्रदीपादभ्युपगन्तव्यः । स एव ग्रह
णकारणन्न रश्मिसन्निकर्षः यदि च रश्मयश्चक्षुरादीनामनुकारेपि ग्रहणप्रसङ्ग । अथ मनसः
सा शक्तिर्यतः सा शीघ्रता । सकृद्ग्रहणमेव तर्हि जनयतु किमनया कष्टकल्पनया । न च
मनस्तथाभूतं प्रमाणसिद्धं । मनस्कार एव पूर्वविज्ञानरूपस्तदर्थक्रियाकारी । तस्य विषया
न्तरावधानवैगुण्येऽन्यत्र ज्ञानानुपपत्तेर्युगपज्ज्ञानानुत्पत्तिस्ततश्चान्यथासिद्धित्वात् न मनस्ततो
लिङ्गादवगतिः ।
तस्मादभ्रान्तमेवालेख्यानेकाकारग्रहणं सकृत् । अथ तत्र संयोगश्चित्रो नावयविरूपं ।
तदसत् । संयोगस्य गुणत्वान्न तत्र रूपग्रहणसमवायः । तथा सति गुणवदिति द्रव्यमेव
भवेत् । एवञ्च विजातीयानारम्भादिति समयव्यतिक्रमः ।
अथोपचारेण संयोगस्य चित्रता । तदप्यसत् । एकार्थसमवायेन हि वनङ्कुसुमिति यथा
बुद्धिस्तथेयमपि स्यात् । न चानयोः साम्यं । वनं हि वहुत्वसङ्ख्याया तरुष्वसमवेता यत्र
कुसुमितत्वन्तत एकार्थसमवाय इत्युक्तं । नत्वत्र चित्रत्वमवयवेषु समवेतं यत्र संयोगः । यदाह ।
न खलु प्रत्येकं सूत्रादीनाञ्चित्रता येन तत्समवेतः संयोगोपि तथा भवेत् । अथ
यथाग्नित्वङ् गृहीतमग्नौ तीक्ष्णतासाधर्म्म्यग्रहणोपपादिताऽग्निवासनाप्रबोधस्तस्य स्मरन्न
ध्यारोपयति माणवकेपि पावकतां । तथा क्रमेण गृहीतान्नीलादीनन्यतरग्रहणसमये गृह्य
माणेऽध्यारोपयतीति चित्रप्रतीतिः । तदनुपपन्नं । यतः ।
तत्र हि तीक्ष्णतासादृश्यमध्यारोपनिमित्तमिह तु गृह्यमाणस्प नीलादेः कथमध्यारोपः ।
अथ प्रत्यासत्तिः । सा सकृद् ग्रहण एवोपपत्तिमती । क्रमग्रहणे तु न प्रत्यासत्तिग्रहणं ।
तद्देशे ग्रहणादिति चेत् । तद्देशग्रहणेपि न पूर्वापरयोश्चित्रताग्रहः । अध्यारोपाद् भवतीति
न युक्तं । अस्यैव चिन्त्यत्वात् । अथ स्मर्यमाणङ् गृह्यमाणतया प्रत्यवभासते भेदाग्रहणात् ।
कथमन्यस्यान्यथा ग्रहः । स्मर्यमाणरूपताम्परित्यज्य प्रतिभासने ग्रहणमेव तत् । ततो न
सङ्कलनं । अथ ग्रहणरूपमेव सङ्कलनं । तथा सति अनैकस्यैकया ग्रह एव
प्रसक्तः । न चेष्यते । चक्षुर्व्यापारेण सकलस्य प्रतीत्युपलक्षणात् । तस्मादनर्थममीभिर
निबद्धकल्पनाकलङ्काङि्क/?/तजडजनकल्पितैरित्याह ।
(चित्रैकत्वचिन्ता)—
चित्रप्रतिभासे हि नानानीलदिरूपे नीलमिदमिति विकल्पयन्नपि पर्यन्तवर्तिपीता
दिकम्पश्यत्येव न च युगपदनेकविकल्पसम्भवः । चित्रमिति विकल्पते एवेति चेत् । न (।)
नियमाभावात् । न ह्यवश्यञ्चित्रमित्येव विकल्पितव्यं । एकत्रापि विकल्पदर्शनात् । एवञ्च
सकृत् सकलनीलाद्याकारा बुद्धिरेकैव चित्राकारा । तत्र चोद्यं ।
एतत् प्रतिपादयति ।
यथैव बुद्धिर्भवता चित्राकारोपगम्यते । तथैव यदि बाह्योपि विभागस्तत्र किङ्कृतः ।।
वैश्वरूप्याद् धियां यत्र भावानां चित्ररूपता । तदारूढ़स्य किम्बुद्धेर्न भविष्यति ।।
तस्माद् बुद्धिदृष्टान्ते नानैकान्तिकमेतच्चित्रत्वादेवानेकमिति । तत्रेदमुच्यते ।
यतः ।
अयमर्थः । न खल्वेका सती बुद्धिरपि चित्रा (।) तत्राप्यनेकाकारत्वादनेकैवाकार
लक्षणत्वाद् वस्तुनः । आकारबहुत्वेन नियमेन वस्तुनोपि । ततस्तावत्य एव बुद्धयो यदि
का क्षतिरुत्तरपक्षवादिनः । अथ नानात्वे बुद्धीनां प्रतिपरमाणु तावत्यो बुद्धय इति परमाणु
ग्रहणप्रसङ्गोऽनेकप्रतिपत्यप्रसङ्गश्च । परस्परमप्रतिपत्तेरभावात् । न खलु स्वसम्विदि
तानान्नानात्वप्रतिपत्तिः । सन्तान्तरस्यापि प्रतिभासप्रसङ्गात् । नैतदस्ति । दृष्टत्वात् ।
न हि दृष्टेप्यनुपपन्नता नाम । न तर्हि स्वसम्वेदनम्परस्परस्यापि वेदनात् । न स्वसम्वेदन
मन्तरेण वेदनासम्भवात् । एतच्च प्रतिपादयिष्यते । सम्वेदने तु परसम्वेदनेन प्रयोजनमेव ।
कस्तर्हि बहुत्वम्प्रतिपद्यतां । न कश्चित् । तद्व्यतिरेकेण प्रतिपत्तुरभावात् । तस्मात् ।
तस्माद् यथा यथा वस्तु चिन्त्यते तथा विशीर्यत एवेति किमत्र कुर्मः । तस्मादाह । विज्ञानम्विज्ञानरूपतया शून्यमिति सकलधर्मशून्यतैव न्याय्या ।
अथ प्रतिभासमानङ् कथमेकत्वानेकत्वविकल्पनादेव न भवति । विकल्पमानमपि तत्
प्रतिभासत एव । मायामरीचिप्रभृतिप्रतिभासवदसत्त्वेपि न दोषः । तेषामप्यविद्यमानत्वे
कथम्प्रतिभासः । प्रतिभासश्चेत् कथमविद्यमानता । अर्थक्रियाकारित्वाऽभावादेव । अर्थ
क्रियाकारित्वलक्षणत्वात् सत्त्वस्य न प्रतिभासमात्रेण सत्त्वव्यवहारः । केशादिप्रतिभासे
प्यसत्त्वनिश्चयात् ।
(अर्थक्रिया)—
नन् केयमर्थक्रिया (।) किम्प्रतिभासमानादपराऽथ तदेव । अपरा चेत् । तस्या अपि
287प्रतिभासमानरूपादपरार्थक्रियाऽभ्युपगम्यतेऽनवस्थानादप्रतिपत्तिः । सैव चेत् । सर्वप्रतिभासनां
सत्त्वप्रसङ्गः इति न मायादीनामसत्त्वं । अत्रोच्यते ।
कस्यचिद् व्यतिरिक्तैव कस्यचित् तद्विपर्ययात् ।
न हि प्रतिभासमान इत्येव सर्वोर्थक्रिया । य एवार्थक्रियात्वेन प्रतिभाति स एवार्थ
क्रियास्वभावः । न चार्थक्रियास्वभावस्यासत्त्वव्यतिरेकेण व्यतिरेकेण च सत्त्वव्यवस्थितेः ।
एवन्तर्हि न सर्वप्रतिभासानामसत्त्वङ् कस्यचिदर्थक्रियासम्बन्धात् । न (।) पराभ्युपगमेन प्रसङ्ग
करणात् । अर्थक्रियया हि सत्त्वमभ्युपगच्छन्ति सत्त्ववादिनः । तत्प्रतिभासव्यतिरेकेणार्थक्रिया ।
न हि नीलादिस्वरूपादपरमर्थक्रियात्वमवभासते । यदेव यस्येष्टं सैवार्थक्रिया । एतदनवस्थितमेव
कस्यचित् । किञ्चिदेवेष्टं । पीडानिवर्त्तनमाह्लादनं चार्थक्रियेति चेत् । न(।) पीडाह्लादयो
रप्यनवस्थितत्वात् । भावनावशेन च सर्वस्योत्पत्तेः । भावनाया भावे चाभावादसत्त्वमेव
परामार्थत इति व्यवस्था । यद्येवम्भावनाबलात् ज्ञानमेव तथा भूतन्न त्वसत्त्वं । अविद्या
वशादुत्पनत्वमेवासत्त्वं । तथाभूतस्य स्थितरूपस्यासत्त्वात् । प्रतिभासमात्रेणत्वविचारित
रमणीयेन भावात् सम्वृति सत्त्यतैव ।
अर्थैषु हि परमाणुष्ववयविषु च न स्थूलाभासः । स्थूलता हि दिग्भागभिन्ना दिग्भा
गानाञ्च परापरपरिहारेण स्थानानैकत्वं । अथ बहुषु स्थूलाभासता । तथा हि बहवः
समानजातीयाः परमाणवोऽविच्छिन्नतया प्रतिभासमानाः स्थूलतया व्यपदिश्यन्ते । नैतदपि
युक्तं । बहव एवते स्थूलतायाः प्रत्येकमभावात् । समुदायस्य भविष्यतीति चेत् । कोपरस्तेभ्यः
समुदायः । एकघनश्च प्रतिभासः स्थूलव्यपदेशभाक् । न च परस्परर्विविक्तप्रतिभासे
एकघनतास्त्यन्तरालस्यापि प्रतिभासनात् । अथ न प्रतिभाति न तर्हि ते प्रतिभासिताः स्युः ।
अथ परमाणुप्रलये तत्संयोगादन्य एवावयवी जायते । न तत्र परमणवोऽवयवा वा केचन ।
यद्यन्य एवावयवी उत्पन्नस्तथा सति परमाणवोपि नश्यन्त्यवयवी चापरउत्पन्नो वीजादिवांकुरः ।
ततश्च संयोगसहायाः परमाणवादयोऽवयविनं स्वसमवेतमारभन्त इति समवायिकारणत्वन्तन्त्वा
दीनान्न स्यात् । द्विष्ठत्वात् सम्बन्धस्य । इह बुद्धिश्च निरालम्बना भवेत् । सप्तम्यर्थ
स्याभावात् । तस्य वाऽनवयवस्य ग्रहणे परभागादिग्रहणप्रसङ्गः । परभागे च दृश्यमानेऽपर
स्यापि दर्शनन्तस्याप्यवयवित्वात् । परभागस्येति सर्व्वः सर्व्वदर्शी भवेत् । अथ परभागो न
दृश्यते । परभागस्यैवाभावात् परेण कथन्दृश्यते । अन्य एवासाविति चेत् । न तर्ह्यसाव
वयती । न च स्थूलता । पर्यायेण तस्य दर्शनमिति चेत् । न(।) एकत्र पयीयासम्भवात् ।
न च स एवासाविति शक्यम्प्रतिपत्तुं । स्पृश्यतया दृश्यतया च प्रतीतेरवयवीति चेत् । न ।
प्रमाणाभावात् । परस्परस्वरूपपरिहारेण प्रतिपत्तौ कथमेकत्वं । ग्रहणकृतोयम्परस्परविभागो
ग्राह्यन्त्वेकमेव । सकलस्तर्हि भेदो विशीर्यते । द्वयमेव भवेत् । न च तद्व्यतिरेकेण तस्यापि
प्रतिभासनमिति शून्याः सर्वधर्म्माः । न च यदेव दृश्यते तदेव स्पृश्यत इति प्रमाणमस्ति ।
तस्मान्नावयवी नावयवाः प्रतिभासगोचर(ा)ः । प्रतिभास इत्येवास्तु । यदि तर्हि प्रतिभा
स एवायं स एव वि ज्ञा न वा दः प्रसक्तः । कथं सर्व्वधर्म्मशून्यता । अत्रोच्यते ।
ज्ञानमपि यदीदं स्वसम्वेदनं स्वस्वरूपपर्यवसानात् भेदावभासिता न युक्ता ।
न हि स्वसम्वेदने परसम्वेदनं । ततो न भेदप्रतिभासः । अथ परस्परेणैव सम्वेदनन्तेन
भेदः । तत्रापि ।
प्रत्येकम्प्रतिपत्तौ स्यात् सन्तानान्तरवत् प्रमा ।
यदि ते वेदने स्वञ्च परञ्च वित्तः स्वपरवेदने । द्वयं स्वसम्वेदनमायातं । न हि
स्वरूपसम्वित्परसम्विदमाविशति । अथ स्वसम्वेदनन्नास्ति । परस्यैव सम्वेदनम्परस्प
राभ्यां । तथा सति देवदत्तयज्ञदत्तपरिच्छिन्नमिव न द्वयमिति वेद्येत । मया विदितमेत
दिति च न स्यात् कर्त्तुरस्वसम्वेदनत्वेनावभासनात् । ततश्च ते एव स्वसम्वेदने स्यातां ।
तथा च सन्तानान्तरप्रतिपन्नवदप्रतिपत्तिर्द्वयोः । अत एवात्मा द्वयोः प्रतिपत्तेष्यतेऽन्यथा
यम्प्रसङ्ग इति परः । अत्रोच्यते ।
यदि सम्वेदनरूप आत्मा तस्य तस्य स्वात्मनि निमग्नत्वान्न परसम्वेदनं । परस्यापि
वेदने को विरोध इति चेत् । तेन रूपेण परम्वेत्ति परेण वेत्ति विकल्पयोरेकत्र स्थातव्यं ।
स्वरूपेण वेत्तीति न युक्तं । स्वरूपस्य स्वात्मनि व्यवस्थानात् । स्वरूपे निविष्टं यद् रूपं
स्वाभिमुखमेव तत्कथम्परम्वेत्ति । अन्यमुखञ्चेत् । तेन तर्हि स्वात्मा न प्रतीयते । ततः
सन्तानान्तरवेदनवन्न द्वयं प्रतीतिः । यस्य तदस्ति मुखद्वयं स एक इति चेत् । द्वयमेत
दिति कः प्रतिपत्तिमान् । स एवेति चेत् । पुनराभिमुख्यद्वयेन प्रयोजनमित्यनवस्था ।
ततः स्वसम्वेदनरूपं त्रयं । ततस्तद्वेदनेपर आत्मोपगन्तव्यः । पुनरपर इति महत्यनर्थ
परम्परा । ततो वेदनादेकमेव सम्वेदनमतो ज्ञानस्याभेदिनो भेदप्रतिभास उपप्लव इति
ज्ञानमति स्वरूपेणाप्रतिपन्नमसदेवेति शून्यतैवावशिष्यते । यतः ।
स्यादेतद् (।) एकस्य परित्यागे ज्ञानमात्रम्भविष्यति । प्रतिभासमानपरित्यागे द्वय
मपि तथा न वा किञ्चिदित्येकान्त एषः । अस्तु द्वयमपीति चेत् । न(।) उक्तोत्त
रत्वात् । न स्वसम्वेदनम्परसम्वेदनमिति प्रतिपादनात् । तस्माच्छून्यतैव ज्यायसीति युक्तं ।
इदानीं माध्यमिक-योगाचारबाह्यार्थवादिनयेन च शून्यतार्थम्प्रतिपादयति ।
रूपम्वेदना संज्ञा संस्कार (ो) विज्ञानमित्यादिभावानाम्व्यवस्था सा ।
विजानातीति विज्ञानमिति ।
—इत्यन्तरश्लोकाः ।
ननु बाह्यपदार्थरूपादिदेशना भगवतस्तदन्या च कथमिति वक्तव्यमित्याह ।
ननु यदि परमार्थतः सकलमेव शून्यम् (।) भगवाँश्च तत्त्वदर्शी (।) तत्कथम्बाह्य
पदार्थदेशना भगवतः । न हि तत्त्वदर्श्यतत्त्वन्देशयति । देशने वा कथन्तत्त्वदर्शीति गम्यते ।
अत्रोच्यते । न बाह्यार्थविधानार्थम्भगवतो बाह्यदेशना (।) अपि त्वनुवादार्थम् (।) आत्मनि
षेधस्य तदनुवादेन विवक्षितत्वात् । अनुवादोपि कथं शून्यतादर्शिनस्तदप्रतिभासनात् ।
न (।) लोकबुद्ध्यैवानुवादसम्भवात् । लोकस्य च तथा बुद्धिरनाद्यविद्याभ्यासात् ।
ननु यदि लोकबुद्धिर्भगवतः कथन्तत्त्वदर्शिता । न (।) पूर्ववेधेन देशनासम्भवात् ।
चक्रभ्रमणवत् । तस्मादनेकाकारदेशनावताराय लोकस्य विरुध्यते ।
एवन्तावद् बुद्धेः शून्यतामभ्युपगम्यानैकान्तिपरिहारः कृतः । इदानीञ्चित्रत्वमभ्यु
पगम्य परिहरति । चित्राभासापि बुद्धिरेकैव बाह्यचित्रविलक्षणत्वात् । शक्यविवेचनञ्चि
त्रमनेकमशक्यविवेचनाश्च बुद्धेर्नीलादयः । यतः ।
चित्रविज्ञानात्मभूतो यो नीलादिः केवलोऽशक्यदर्शनस्ततो विवेचयितुमशक्यत्वादेकतैव
बुद्धेश्चित्रायामपि । यदि तर्हि चित्रमप्येकं शब्दादिप्रतिभास्यप्येकः स्यात् । भवतु यदि
विवेचयितुन्न शक्यः । अथ कर्ण्णौ पिधायापि रूपादिकमुपलभ्यते । ततः केवलग्रहणादने
कता । तदप्यसत् । न ज्ञानस्य विवेचनं । तदा पूर्व्वप्रतिभासस्याभावात् । अप्रतिभा
सनात् । अप्रतिभासमानो (?) शब्द आस्ते ततो भेद इति चेत् । नासौ तदा ज्ञानपरोक्षत्वाद्(।)
एवं हि विवेचयन्नर्थ एव पतेदसम्विदितत्वादर्थस्य ।
अथ पूर्व्वकविज्ञानाकारात् सहप्रतिभासमानादिदानींङ्केवलः प्रतिभासमानोन्य इति
विवेचनं । तदप्यसत् । न हि पूर्वतायां ज्ञानम्प्रत्यक्षम्प्रवर्त्ततेऽपि तु ।
इति नाम स्यात् । न त्वनुभतभासीदिति भवति । न हि स्वसम्वेदनप्रत्यक्षम्परोक्षे
प्रवर्त्तते । परोक्षस्यास्वसम्वेदनात् ।
अथ स्मत्वा ज्ञायते । न युक्तमेतत् । स्मृतेरप्रमाणत्वात् । अथानुभवादुत्पत्तिमती
स्मृतिः प्रमाणमेव नानुभवात् स्मृतिरुदयवतीति किञ्चिदत्र प्रमाणमनुभवकाले स्मृतिरभावात् ।
न चास्य स्मृतिरहमनुभवादुत्पन्नेति जानाति । अनुभवस्य तयाऽदर्शनात् । अनुभावानुभवे
वा न स्मृतिर्भवेत् । अनुभव एव तदा स्यात् । तस्मादशक्यविवेचनञ्चित्रमेकमिति न दोषः ।
बाह्यस्यापि तर्ह्यशक्यविवेचनत्वादेकतेति चेत् । न(।) तदैव परेणैकस्य दर्शनात् ।
अथ परेण यद् दृश्यते तदन्यदेव सुतरां तर्हि विवेकः । स्वदृष्टमेवैकमिति चेत् । न(।)
स्वसम्वेदनप्रतिभासाज्ज्ञानमेव तत् ।
न हि ज्ञानत्वम्प्रत्याख्याय विवेचनमस्ति । तस्माद् ग्राह्यग्राहकनीलाद्याकारा चित्रा
बुद्धिरेकैवेति चित्राद्वैतमेव । न वा तच्चित्रमचित्राद् भेदेन व्यवस्थापनासम्भवात् । तस्मात्
सम्वेदनमेव केवलमद्वैतमपरस्याभावादिति स्थितं । एवन्तर्हि भावाभावाभ्याम्विवेकसम्भ
वात् कथमद्वैतं । तथा हि ।
यदि भेदो नास्ति भेदादन्योऽभेव एवास्तीति प्रतीयते । तथा सत्यभावाम्प्रतिपद्यमानो
भावञ्च भावाभावयोर्द्वैतमेव प्रतिपद्यते तत्कथमद्वैतं । तथा हि ।
स्तम्भोत्र कुम्भे नास्तिति प्रतिषेधन्न नास्तितां ।
प्रतिषेधो हि भेदेनान्तरीयक एव सकलस्तत्र प्रतिषेधम्प्रत्येति । प्रतिषेधाप्रतिपत्तौ तु
यथाभूताभ्यनुज्ञानान्न किञ्चित् प्रतिपादितं स्यात् । परञ्च प्रतिपादयता परोभ्युपगन्तव्य इति
कथमद्वैतं । न ह्यात्मानमेव कश्चित् प्रतिपादयति ।
अथ परन्न कश्चित् प्रतिपादयेत् तथा सत्यात्मन एव व्यामोहः कथमद्वैतप्रतिपादनं ।
व्यामोहे वा निवर्त्तमाने पररूपस्योत्पत्तेरद्वैताभावः । कथञ्च पूर्वापरप्रतिप्रत्तिरिति सर्व्व
मसमञ्जसं । अत्रोच्यते ।
न तावत् पूर्वापरयोरयम्भेदः प्रतिभासवान् । प्रत्यक्षस्य पूर्वापरयोरवृत्तेः । यदि
पूर्व्वम्प्रत्यक्षे तदैव प्रतिभासेत । वर्त्तमानतैव तस्य स्यात् । द्वितीयवदेतदेव तस्य वर्त्तमानत्वं
यत्प्रत्यक्षे साक्षात्करणरूपे प्रतिभासः ।
अथ योगिनां साक्षात्करणेनप्रतिभासमानमपि कथमतीतादिकं । अथ नैत्युच्यते ।
कथमतीतादि वेदनं । तदसत् ।
यत्र हि दृश्यमानाभिमतस्यापि प्रतिषेधस्तत्रानागते क इवादरः । इहापि सत्त्यस्वप्न
दर्शिनोतीतादिकम्विदन्त्येव । नोत्थितानामनुपलम्भावस्थायान्तथा व्यवहारात् । तस्मा
न्नातीतम्प्रत्यक्षेण गृह्यते नागतं । ततः कथन्ततो भेदप्रतिपत्तिः । स्मरणमेवातीते तदप्यप्रमाणं ।
अथानुमानेन दृढतादिप्रतिपत्तेः कारणस्य ततो भेदं प्रत्येष्यति । तदप्यसत् । यतः ।
यदि भाव्यर्थेन दृढतायाः कारणस्य च सम्बन्धग्रहणन्तदानुमानं युक्तं । प्रतिबद्धात्
परोक्षार्थप्रतीतिरनुमानमित्यनुमानवादिनः । अथ प्रतिबन्धग्रहणमन्तरेणैवानुमानन्दृष्टत्वादिति
चेत् । अतिप्रसङ्ग एव तर्हि प्रसक्तः । अदृष्टत्वादेव न भविष्यति । न हि दृष्टमितरच्च
शक्यमेकीकर्त्तु । यदि दृष्टत्वात् परिहारम्वदेत्(।) दृष्टत्वमनुमानेन प्रत्यक्षेण वेति चिन्त्यं ।
यद्यनुमानेन(।) तदेवानुमानञ्चिन्त्यते कथन्तेन । अथ प्रत्यक्षेण(।) तदेतदसत् । नहि
प्रत्यक्षेणानुमानं शक्यन्द्रष्टुं । तस्य परोक्षविषयत्वात् । परोक्षे च प्रत्यक्षस्यावृत्तेः कथम्प
रोक्षविषयतयानुमानस्य स्वीकारः । न हि परोक्षमविषयीकुर्व्वता तद्विशेषणमनुमानं शक्य
म्प्रतिपत्तुं ।
अथ तद्विषयतया न गृह्यते(।)तथा सति तदनुमानन्न दृष्टमेव । कथन्दृष्टत्वादिति
हेतुः । स्वरूपसम्वेदनमात्रमेवानुमानं स्वसम्वेदनप्रत्यक्षेण तथा दृष्टत्वात् । अथैवमेव व्यव
हारस्तथा सति । व्यवहारमात्रकमेवास्तु किम्भेदाभिनिवेशेन । भेदाभिनिवेशोपि दृश्यत
इति चेत् । किन्दृष्टमपनेतुमशक्यमेव (।) एवमेतदिति च न सङ्गतं । सर्वस्य व्यामोह
स्यापनेतुं दृष्टत्वेना शक्यत्वाद् व्यर्थक एव भवतामुपदेशदानोद्यमः । भवतामपि व्यर्थक
एवेति चेत् । न (।) अदृष्टे दृष्टाभिमानसम्भवात् तथाभूतत्वकथनार्हत्वात् । तथा सति
भेदाभिनिवेशमन्तरेणैव भवताम्भेदाभिनिवेशाभिमान इति तद्योग एव युक्तः । तथा हि ।
इच्छुविकारनागराभ्यां हि तन्निवर्त्त्यरोगनिवर्त्तनं स्वास्थ्यम्वा कार्यङ् क्रियते । तेन
समुदायव्यपदेशः । इह तु पूर्वापरप्रत्यययोः स्वार्थमात्रप्रतीतिरूपयोर्न कार्यमपरं । प्रतीति
स्तयोरात्मभूते च(।) तस्याश्च भेदे किमपरमभिन्नं यदपेक्षया समुदायता भवेत् । स्मृति
स्तयोः कार्यमेकं पूर्व्वापरग्रहणरूपा(।) न स्मृतिरनुभवाद् भवन्ती तथाभूतरूपानुकारिणी न
चानुभावो द्वयग्राही ततो न स्मृतिरपि । कथन्तर्हि रूपस्पर्शविज्ञानार्थयोर्मानस एष स्मार्त
विकल्पः । भेदग्रहणमभिप्रेत्य तदुक्तं । न चात्र तथा प्रक्रम् । न च स्मृतिरर्थग्रहणे
प्रवर्त्तते येन स्वतन्त्रा प्रवर्त्तेत । स्मृत्या चेद् द्वयङ् गृह्यते । समानकालमेकमेव तदविवेकादिति
प्रतिपादितं । किञ्च ।
तथा हि ।
स्मृत्यभ्यासादितपाटवा तर्हि प्रत्यक्षाद् भेदोपग्रह इति चेत् ।
विवेककरणाशक्तेः स्वयमन्येन भावतः । विच्छिद्य शक्यते नेतुन्न द्रष्टुन्नान्यथा च यत् ३९६ ।।
भिन्नेनापि हि किन्तेत हेमोपादेयता कृतेः ।
ननु स्मृतिरपि यदि प्रत्यक्षप्रत्ययसमानकालजन्मा तेन सहैकतां स्वीकुर्यात् । सवि
कल्पक एव प्रत्यक्षात्मा प्रसक्तः । ततश्च विकल्पकम्प्रत्यक्षमिति प्रस्तुतस्य हानिः । सोपं शुष्के
पतिष्यामीति कर्दमे पातः । न सदेतत् ।
भेदवादिनो हि सकल एव भेदो हेतुभेदेन स्वभावभेदात् । तत्र स्मृतेर्वासनामात्रकादुदयो
न तथेन्द्रियविज्ञानस्य स्मृतिः परोक्षविषया नेन्द्रियजसम्वेदनमतः स्तम्भादिवदेव भेदोऽनयोरिति
बा ह्या र्थ वा दी स्वाभ्युपगमेन प्रबोध्यते । अभेदवादिनस्तु कुतोयम्विभागः ।
न खलु प्रत्यक्षतः पूर्वापरस्तुद्वयग्रहणं । कार्याभिमतग्रहणकाले स्मरणमेव कारणाभिमते ।
यदा स गृह्यते तदा स्वरूपेणैव ग्रहणन्न कारणत्वेन । कार्यस्याग्रहणात् । कार्यग्रहणकाले च
तदतीतं स्मरणगोचर एव । न च स्मरणमननुभूते न च कारणत्वस्यानुभवः कथं स्मरणं(।)
अथ कार्यकालेपि तदनुभूयत इति मतिः । तथा सति पूर्वरूपतानुभवाभावात् समानकालतयाऽ
शक्यविवेचनत्वादभेद एव कुतः कार्यकारणभावः । अथ स्मरणेन पूर्वमपि केवलमेतदनुभतमिति
व्यवस्थाप्यते । ततो विवेचनाद् भेद एव ।
अथ किन्तत् स्मरणम्(।) अनुमानमथ स्मृतिमात्रं । यदि तावदनुमानङ्कथम्प्रत्यक्ष
मन्तरेण । न हि प्रत्यक्षेण प्राक्पूर्व्वतापरिग्रहो वर्त्तमानग्राहि सकलमेवाध्यक्षं ।
अथ यत्प्रत्यक्षेण नियतावधिगृहीतम्प्ररेणामिश्रितन्तदेव परग्रहणापेक्षया पूर्व्वकमिति
व्यवहारः । तदप्यसत ।
पूर्व्वंकं हि प्रत्यक्षं स्वकालं परिगृह्णत् कथम्परापेक्षमात्मानञ्जानीयात् । तथा परमपि
प्रत्यक्षं । तत एषा पूर्व्वापरप्रत्यक्षा न पूर्व्वपरप्रत्यक्षग्राह्या ततः स्मरणमपि कथन्तत्र प्रवर्त्तते ।
अथ सामग्रीबलात् स एवायमिति प्रत्यय एकताग्राही ततो विवेचनं । स एवायमित्यपि
स्मरणानुभवरूपम्प्रत्ययद्वयमेव । ततः केनैकता गृह्यते । दृश्यते ग्रहणमिति चेत् । न ग्रहणा
न्दृश्यते । अपि तु स्मरणग्रहणे । कथन्तर्हि स्मर्यमाणदृश्यमानयोः शकटशाकटवन्न प्रतीतिः ।
एवमेव प्रतीतिर्यदि निरूप्यते, नहि स्मरणप्रत्यक्षाकारयोरेकताप्रतीतिः । तथात्वे तावेव न
स्यातां । तथा च न पूर्वापरयोरेकताप्रतीतिः । न हि स्मरणाकारतयाऽप्रतीयमानम्पूर्व्वमिति
शक्यं । साक्षात्करणे वर्त्तमानतैव न पूर्व्वतेति न्यायः । अथ व्यवहारदर्शनादेकता । तदेत
दन्धकारनर्त्तनं ।
व्यवहारो हि नाम किम्प्रमाणमथाप्रमाणं । प्रमाणञ्चेत् । प्रत्यक्षानुमानयोरन्त
र्भावादसाधकत्वमिति प्रतिपादितं । अथा प्रमाणङ्कथम्भेदसिद्धिरत इति विचार्यतां ।
कथन्तर्हि भेदाभावे व्यवहारः । ननु भेदेपि समानमेतत् न समानं ज्ञानाद् भिन्नस्य प्राप्यस्य
भावात् तदर्थी प्रवर्त्तते । भेदे तु पुनरसङग्तमेव । अत्रोच्यते ।
अनेनैतदपि निराकृतं । अद्वैते कथम्परप्रबोधनाय प्रवर्त्तत इति । स्वपरयोस्या
र्थस्यासिद्धेः । अयम्परोहन्न पर इति स्वसम्वेदमेवैतद् उदयमासादयति । नात्र परमार्थतो
विभागः । अहम्प्रश्नयिता परः कथयति द्वयोरपि स्वाकारोपरक्तप्रत्ययसम्वेदनमेवैतन्न तु
विभागः स्वप्नप्रत्ययवत् । उन्मत्तप्रत्ययप्रलापवच्च । उन्मत्ततर्हि वादी कथन्ततोऽद्वैत
प्रतीतिरपि ।
ननु सर्वप्रत्ययप्रलाप एवायम्प्रवर्त्तते नात्र प्रतीतेरुदयः । किन्तर्हि प्रतिवादिनान्येन
वा कर्त्तव्यं । किङ् क्रियमाणङ्किञ्चिद् दृश्यते । यथा च न दृश्यते तथा प्रतिपादितमेव ।
कथन्तर्हि हेतुमन्तरेण भावः ।
आकस्मिकी तर्हि सत्ता नेयङ्कदाचित् कस्यचिद् विरमेत । तथा ।
नित्यं सत्त्वमसत्त्वम्वा हेतोरन्यानपेक्षणादिति (प्र. वा. ३।३४)
अयमप्यदोषः । यतः ।
भेदवादिनम्प्रति स मार्गः प्रदर्शितः । परमार्थतस्त्वविभागोपि बुद्ध्या नेत्येतदेव भवि
ष्यति । तस्मादेकैव चित्रावभासिनी बुद्धिरिति स्थितं ।
अथ बुद्धिवदेव घटादिरूपमपि चित्रमेकमेव को विरोध इति चेत् ।
यदि पटादिरूपमविवेकि भवति तथा सति बुद्धिरूपमेव तत् । बुद्धिसमानधर्मत्वात् ।
यथा हि बुद्धिर्न परेण दृश्यते । नोत्तरकालन्नापिधाय खण्डशस्तथा बाह्येपि यद्यर्थस्तथा सति
बुद्धिरेव सा । माममात्रमेव बाह्यमिति अथ पिधाने सति तथा भतोन्य एवोत्पद्यते ।
यस्तदर्द्धतादिना दृश्यते । ततश्च ।
अत्र समाधिः ।
न खलु परोक्षतया वस्तु दृश्यते । नाप्यन्यदृश्यतया । न च कारणान्तरश्चक्षुरा
दिकारणत एव तु ग्राहकवदस्य निर्वृत्तिरिति कथन्न विज्ञानता ।
अथ यावदुपलभ्यते सर्व्वोसावर्थ एव । सुखादयोपि न सम्वेदनस्वभावाः ।
वस्त्वेव तदान्तरमिति परः । एतदप्यसत् । यतः ।
उपलब्धिर्वा । अन्यथा केनेदमुपलब्धमिति पर्यनुयोगेवतरति यदि नार्थापत्तिः
परिहार एव न स्यात् । तस्मादर्थापत्त्या विज्ञानस्य सत्ताप्रतीतिस्तदसत् । उपलभ्यताया
विचार्यत्वात् । परेण स्वयमेव चेति ।
अथात्मा स्वबोधकरूपतयोपलभ्यते रूपादिकन्तु परापेक्षतया । मयोपलब्धमेतदन्ये
नोपलब्धमिति व्यपदेशनिश्चयात् ।
अथात्मापेक्षा वेद्यत्वं सिद्धमात्मस्ववेदनात् ।
अथापि स्याद्(।) यथाहमात्मा कर्त्तेति ज्ञातेति च सामानिधिकरण्यन्तथाहङ् कुङ्यङ्घटः
पटः स शकटमिति स्यात् । तथा यथा मम सम्वेदनन्तथा मम रूपं स्पर्शो गन्ध इत्यपि
स्यात् । तदपि यत्किञ्चित् ।
यत्र सामानाधिकरण्यं ।
तथा राहोः शिर इत्यस(ा) मानाधिकरण्येपि न भेदः ।
बाध्यते भेददृष्ट्या चेच्छिरो राहोरिदं यदि ।
यथा । खलु राहोः शिर इति भेदाध्यारोपस्त द्विपर्ययोपलम्भेन बाध्यते । तथा
मम सम्वेदनम्मम रूपस्य दर्शनमिति स्वसम्वेदनमात्रेण बाध्यतां । न हि नीलशरीरमुखा
दिवेदनम्भेदवत् स्वरूपसम्वेदनस्य प्रतिपादनात् ।
कथन्तर्हि पारमार्थिकभेदादर्शने भेदाध्यारोपोपि । न खलु निबन्धनमन्तरेण
किञ्चिदृदयवत् ।
मामन्तरेणापि रूपादिकम्परेण निरूप्यते ।
अनिरुपितमेवास्तु । अन्यत्र वा भवति । ततो देशकालस्वरूपप्रतिबन्धाद् भेद
प्रकल्पनावतारः । न चान्वयव्यतिरेकयोः परमार्थतः सम्वेदनमिति प्रतिपादितं । यतः ।
अवेदनेपि वेदनाभिमानः कस्यचिद्(।) यथा कृतमेतन्मया दृष्टमेतन्मयेति । तत्राती
तत्वादवेदनस्य831
विस्मरणे भवत्यभिमान इति चेत् । किमिदम्विस्मरणन्नाम । विपरीता
ध्यारोप इति चेत् । इहापि समानं । संस्कारक्षय इति चेत् । न(।) संस्कारस्याभावात् ।
न हि संस्कारस्य प्रागभावमन्तरेण क्षयः । न हि भूतं क्षयमुपनेतुं शक्यमिति प्रतिपादितं ।
यदि च संस्काराभावः कारणम्विपरीताध्यारोपस्य(।) भेदाध्यारोपोऽन्वयव्यतिरेकाध्यारोपोपि
तथास्त्विति कोत्र विरोधः । न च परमार्थतोऽन्वयव्यतिरेकप्रतिपत्तिरन्यत्राभिमानात् ।
अभिमानमात्रमेव सकलमिति । तस्माद् विवेकतो ग्रहणेपि पूर्वापरयोरेकताभ्युपगन्तव्याऽन्यथा
ज्ञानमात्रकं । न च साभ्युपगन्तुं शक्या । यतः ।
न ह्यदृश्यमानमस्तीति शक्यमभ्युपगन्तुं । न च तस्मिन्नसत्यवयवाविवेकिनो निर्वि
वेकस्यावयविन इति शक्यप्रतिपादनं । तस्माद् बाह्यमर्थमभ्युपगच्छता सकृदेव ग्रहणमभ्यु
पगन्तव्यं ।
नन्वनेकमेकेन कथन्दृश्यते सकृत् । न हि दर्शनमेकत्र प्रवृत्तमन्यत्र तदैव प्रवर्त्तितुम्प्र
भवति । यद्यनेकदर्शनमेवमेव नान्यथेति प्रतिपादितं । परमार्थतस्तु स्वसम्वेदनमेकमेव ।
नान्येनान्यस्य ग्रहणसम्भवः ।
296
किञ्च । न ग्रहणन्नाम कस्यचिदपि तु तदाकारतया बुद्धेरुत्पत्तिः । न चानेकमेक
स्याजनकं(।) यतः ।
यथैव हीन्द्रियार्थमनस्कारा आत्मेन्द्रियमनोर्थसन्निकर्षा वा सकृदेकमिन्द्रियविज्ञानं जन
यन्ति तथा यदि परमाणवोपि को विरोधः ।
नन्वनित्यत्वेपि परमाणूनाङ् कोतिशयः । न हि परमाणवः सहकारिसन्निधानेपि
महान्तो भवन्ति । सूक्ष्मताञ्चेन्न परित्यजन्ति कथङ् ग्राह्याः । तदप्यसत् ।
यदि परमाणोः स्वरूपानुकारिधीजननन्दृश्यता । सा नास्त्येवेति सिद्धसाध्यता ।
अथ विज्ञानमात्रजननं । तदस्त्येव न विरुद्धं केशादिषु दर्शनात् । यथैव केशा दवीयसि
देशेऽसंसक्ता अपि घनसन्निवेशावभासिनः परमाणवोपि तथेति न विरोधः । तदपि सूक्ष्माः
कथञ्चनयन्ति । केवलवदेवेति चेत् । केवलानामसामर्थ्यात् । असामर्थ्यमेव हेतुभाववि
रोधि न सूक्ष्मता । केशवदेव न चेन्द्रियादीनां स्थूलतादिविशेष उपजायते सामग्र्यव
स्थायां । अथ च सामर्थ्यविशेषादेव जनकत्वं । कथन्तर्हि परेण सन्निहितेन तत्सामर्थ्यान्न
दृश्यते । अदृश्यमानङ्ग कथमस्ति । कथञ्च समानत्वे तदेकस्य कार्यञ्जनयति नापरस्येति
विभागः । दूरदेशतादिसहकारिताविभागात् ।
ननु दूरदेशत्वेनापि त एव केशाः कुतो विभागः । सामग्र्यन्तरानुप्रवेशादिति विचा
रितमेतत् । यदि कारणत्वाद् ग्रहणञ्चक्षुरादीनामपि ग्राह्यताप्रसङ्गः कारणत्वात् । तदाह ।
रूपायतनसामान्येन तदाकारता न परमार्थतः । तथा हि नीलपरमाणुसञ्चयान्नी
लाकारता विज्ञानस्य । परमाण्वाकारता मा भूत् ।
ननु यदि परमाण्वाकारता न प्रतिभाति परमाणूनामियन्नीलाकारतेति कुतः ।
अन्यथाऽयोगादिति न दोषः । यदि च सकृदनेकन्न गृह्यते तदायमपरो दोषः । यदाह ।
गृह्यत एवेति चेत्(।) न ।
यदेव विशेषणत्वेनोपादित्सितं तेनैवाङ्गेन ग्रहणात् सम्पूर्ण्णाङ्गस्याग्रहणं । सर्व्वएव
ते विशेषणमिति चेत् । न ।
न हि विशेषणविशेष्यभावः पारमार्थिकः (।) विशेषणस्यैव परेणान्यदा च तेनैव विशे
ष्यतया प्रतीतेः । तथा हि(।) गोर्विषाणं विषाणी गौः । गौः शुक्लो गौर्वर्त्तुलः परिमण्डलो वा
न भवतीति प्रतिपत्तिवैचित्र्यन्दृश्यते(।) न युगपत््सकलविशेषणग्रहणं । अनेकस्य विशेषणत्वेन
सकृद् गृहीतुमशक्यत्वात् । न चाविकल्पितो विशेषणविशेष्यभावग्रहः ।
अपि च ।
स्वतो हि गौर्न गौर्नागौः (।) गोत्वयोगाद् गौरिति । तथा हि शुक्लो न शुक्लो
नाप्यशुक्लः शुक्लयोगाच्छुक्ल इत्यादि । ततश्च गुणादेर्भेदस्य युगपद् ग्रहात् परापरदर्शनेप्ये
कबुद्धिरेव स्यात् । पश्चाद् गुणस्य केवलस्य ग्रहणमिति प्राप्तं ।
अथ गुणस्य ग्रहणाद् भेदबुद्धिः पश्चाद् भविष्यति । अत्रोच्यते ।
पूर्वमेकतया द्रव्ये गृहीते पश्चाद् विशेषणग्रहणेपि योजनाविवेकेन न भवतीति सङ्कर
प्रसङ्गः । तथा हि(।)एकतया गृहीते पश्चाद् विशेषणमेकत्रैवानेकमपि योजितमित्यनेकमपि
विशेषणमेकस्येति स्यात् । देशाभेदेन भिन्नयोजने नैकमिति चेत् । न(।) देशभेदस्यापि
विशेषणत्वात् सोपि देशभेद एकस्यैवेति स्यात् । तस्मादनेकमेकदा न गृह्यते । पश्चाच्च
विशेषणङ् गृहीतन्न ज्ञायेत कस्येति । भिन्नाभिन्नविशेषणपक्षे तु न भेदः कस्यचिदस्तीति
सुतरां सन्बन्धिसङ्करः ।
साङ्ख्यदर्शने तु ।
पञ्चानान्तन्मात्राणां सन्निवेशविशेषः सकलं घटादिवस्तु त्रिगुणात्मकम्वा । ततः
शब्दादिग्रहणे त्रिगु णग्रहणं तन्मात्रग्रहणम्वा । न च तदग्रहणे तत्सन्निवेशग्रहणसम्भवः ।
नाङ्गुल्यग्रहणे मुष्टेर्ग्रहणं । न च कर्णान्तरमेकमेवोत्पत्तिमत् । सर्वस्य कार्यस्य कारणादभिन्नत्वे
नेष्टत्वात् । परिणामपक्षश्च तैरिष्यते न च कार्यपक्षः । परिणामश्च तत्त्वादप्रच्युतस्य
धर्मान्तरपरित्यागोऽपरस्परोत्पत्तिः । तत्र शब्दपरिणाम आकाशः । शब्दस्पर्शपरिणतिर्वायुः ।
शब्दस्पर्शरूपपरिणतिस्तेजः । शब्दस्पर्शरूपरसपरिणतिरुदकं । शब्दस्पर्शरूपरसगन्धपरिणतिः
पृथिवीत्यनेकता घटादीनां(।) तद्ग्रहणेनेकग्रहणमिति सिद्धिं । शेषः परिहारः पूर्व्ववदेव ।
तस्मात् सकृदनेकग्रहणेपि न सविकल्पकत्वं । निर्विकल्पकमेव प्रत्यक्षमिति स्थितं ।
यद्यविकल्पकं प्रत्यक्षङ्कथन्तर्हि धर्मिधर्मादिग्रहणम्प्रत्यक्षतः । प्रत्यक्षेण चाग्रहणे
298धर्मिणोऽनुमानावताराभावः । धर्मिणोप्यनुमानेन ग्रहणे तत्राप्यधर्मीत्यनवस्थापातः ।
धर्मिग्रहणे चानेकधर्मखचितात्मनस्तस्य ग्रहणमिति कथम्विकल्पकत्वं । अत्रोच्यते ।
न ह्यनेकरूपादिधर्मयोगी कश्चिद् धर्मी गृह्यते । इन्द्रियविज्ञानेनापि तु स्वेनैव सम्वे
रूपेण कर्त्ता च तदेव रूपमध्यक्षस्य विषयः (।) तथा हि ।
न खलु रूपादिधर्मीन्द्रियविज्ञानैरुपलभ्यते । रूपादीनामेव परस्परविवेकिनाङ् ग्रहणा
न्नापर आधारस्तद्गता वा ग्रहणगोचर इति प्रतिपादितमेतत् ।
ननु यदेवाहमद्राक्षन्तदेव स्पृशामीत्यादिगतेर्गम्यत एकाधारतैकता वा । न प्रत्यभिज्ञानं
भवति प्रत्यक्षमिति प्रतिपादितत्वात् । रूपस्पर्शविज्ञानप्रबोधितानादिवासनातः तथा प्रत्ययो
दयात् । तथा हि ।
न चापरेण परस्परसमागमस्तयोरुपलभ्यते । स्पृशन्नेष पश्यतीति चेत् । न(।) रूपे
स्पर्शनिवेशाभावात् । एकता च तथा सिध्यति यद्येकार्थनिवेशप्रतीतिः ।
ननु दृष्टं शुक्लं स्पर्शनेन मलिनीकृतमुपलभ्यते हस्तलग्नञ्च । तत्कथन्नैकार्थ (ा)
भिनिवेशनं । तदेत्तदाकाशावकाशकाशावलम्बनं ।
प्रत्यक्षयोः परस्परङ् ग्राह्यग्राहकयोरनभिनिवेशे प्रत्यक्षेण भेदपरिच्छेदे नानुमानसहस्त्रमपि
सामर्थ्यपथप्रस्थायि । अथ तदेव स्पृशामिति मानस एष प्रत्ययः प्रमाणं । नहीन्द्रियजमेव
प्रमाणमिति प्रमाणमवतरति । इन्द्रिजमप्यर्थाव्यभिचारतः प्रमाणन्नेन्द्रियजत्वात् । मानसज
त्वादित्यपि सम्भवात् । नैतदस्ति । यतः ।
तत्र हि यदि कश्ति् पर्यनुयुंक्ते (।) कथमवगतिर्भवतः प्राग्दृष्टस्य स्पृश्यतेति । तदा
किमेवमेव प्रतीतिरिति नैतदस्ति । यद् दृष्टन्तत्स्पर्शकाले न दृष्टं । ततः कथन्तदेव स्पृश्यत
इति प्रतीतिः । तत्रेदमेवोत्तरं । येन तन्मलिनीकृतं । ततो ज्ञायत एतदित्यनुमानमुपदिशति ।
अस्पृश्यता तर्हि कथम्मलिनीक्रियते । स्पृश्यता तर्हि कस्मान्न प्रतीयते शुक्लमेतदिति स्पृश्य
तायाः शुक्लेतरयोः समानरूपत्वादिति चेत् । न सदुत्तरमेतत् ।
समानमसमानञ्ज वस्त्वेकमिति साहसं ।
यत एव स्पर्शस्य समानताऽसमानता च रूपस्य तेन तयोरेकता न युक्ता विरुद्धधर्मा
ध्यासात् । अत प्रतीयते । तद्विचार्यते । किमेकाकारया प्रतीत्या अथ नानाकारया(।)
नानाकारया प्रतीयमानं कथमेकं । अथैकाकारतया(।) तदसत्यं । रूपमप्रतीयमानं स्पर्शे
प्रतीयमाने कथमेकाकारमतिग्राह्यं । न हि प्रतीयमानमप्रतीयमानञ्च ग्राह्यमप्रतीयमानताऽ
योगात् । तस्माद् न रूपादीनाम्भेदेनावयवी नाम कश्चित् । तस्मात् स्वेनैव रूपेण वेद्यन्ते
रूपादयो न परस्पररूपेण । तथा स्वसम्वेद्यमेव रूपन्न परसम्वेद्यमत शब्देन परस्मै निर्द्देष्टुम
शक्यत्वादवाच्यगोचरमिन्द्रियविंज्ञानं । यदि तर्हि शब्देन न निर्द्दिश्यते इन्द्रियगोचरः कथं
यमहपश्रौषन्तमेव पश्यामीति गतिः । अनिर्दिष्टस्य हि कथमेवम्प्रतीतिः । तस्मादेव हि
निर्देश्य इत्यवसीयते । तदेतदसत् । यतः ।
न तावच्छब्दात् प्रतीतिकाले सोर्थः प्रतिभासते । सन्देह एव शब्दादर्थेऽन्यथा प्रत्यक्ष
प्रतीत इव न सन्देहसङ्गतिः ।
अथ समानः शब्दात् प्रतिभासो भावाभावयोरर्थस्य तेन सन्देहः । प्रत्यक्षेपि कस्मा
देवन्न भवति । तत्र प्रतिभासविशेषोपलक्षणादेवन्न भवति । अत्रापि प्रतिभासविशेषग्रहणङ्
केनापनीयते विशेषाभावादेव । न तर्हि भावस्वभावग्राही शाब्दः प्रत्ययः । प्रत्यक्षविलक्षण
त्वात् । यदि तु स्वरूपप्रतिपादनम्भवेत् । दर्शनमप्रमाणमेव भवेद् गृहीतग्रहणादर्था
भावश्च स्यात् । शाब्दादेव रूपस्वरूपप्रतिपत्तेः । अथ सामान्याकारेण प्रतीयते । कामलो
पहतलोचनोपि तर्हि पीताकारेण शुक्लम्प्रत्येति(।) तदपि प्रायकत्वात् प्रमाणम्प्रसक्तं । भवतु
तदपि प्रमाणमिति चेत् । न । बाधनात् । गामानयेति शब्दः प्रत्ययो न बाध्यत इति
प्रमाणमेव । न(।) अत्रापि बाधनात् । गामानयेति यद्यस्तित्वमाक्षिप्तन्तत्कदाचित् न
भवत्यपि । अथ नाक्षिप्तं । तत आनयनासम्भवात् सुतरामप्रमाणत्वं । अथ यदि सम्भ
वत्यानयेति वक्तुरभिप्रायः । तदा सन्दिग्धानयनचोदनादप्रमाणमेव । सन्दिग्धमेव चोदित
मिति चेत् । सन्दिग्धमेव गृहीतमिति सर्व्वः सन्देहप्रत्ययः प्रमाणम्भवेत् । न चाप्रमाणेन
वस्तु गृह्यते । कथन्तर्ह्यानयनादावव्यभिचारः । नाव्यभिचारसम्भवः । कस्यचिदकरणात् ।
न ह्यवश्यञ्चोदितं करोति ।
किञ्च ।
क्रियायाङ्कारकः शब्दो यदि वा ज्ञापको मतः ।
न हि कारकोऽविसम्वादीति व्यवहारः । आप्तिस्तु कृते सति प्रामाणान्तरात् । ज्ञाप
कत्वन्तु स्वरूपस्य भाविन्याः क्रियायाः भावादसम्भवि । न ह्यविद्यमाना क्रिया स्वरूपेण
गृह्यते । स्वरूपभावे भाविनी न स्यात् । सामान्यं गृह्यत इति चेत् । तत्तर्हि सामान्यङ्
क्रियाऽसम्भवेपीति सामान्यप्रतिपत्तौ क्रियायान्न प्रवर्त्तते । तस्माच्छब्दो न ज्ञापक इन्द्रिया
र्थस्य । तस्मादनिर्देश्यमेवेन्द्रियगोचरः ।
कथन्तर्हि धर्मिधर्मानेकताप्रतीतिः । अत्रोच्यते ।
व्यावृत्तिभेदपरिकल्पितो हि धर्म्यादिव्यवहारः838 । तथा हि (।) प्रथमतरम्प्रतिभा
समानः कनककलशः किम्वर्ण्णसंस्थानादिभ्यो839
भेदेनावभासते । ते वा ततो भेदभासिनः ।
300
अपि त्वेकमेव वर्ण्णाद्यात्मकं साक्षादवभासगोचरः । तत्रेदानीमपरापरानेकाकारपदार्थ (ा) न्तर
व्यावर्त्तनमाश्रित्यापोद्धारपरिकल्पनया भेदमारचयन्ति व्यवहारपद्धतिमध्यासीनाः संसार
सरित्पतिपतिताः ।
यदि वर्ण्णसंस्थानादीनामभेद एव । तदा कलशादनीलान्नीलस्य व्यावृत्ति र्न स्याद्(।)
अनीलेनापि तत्संस्थानात्मना नीलेनैव भाव्यं । संस्थानस्य नीलवर्ण्णादभिन्नत्वात् । भवति
चा नीलमपि संस्थानादेकं (।) तस्माद् भेदस्तयोरिति लोकस्य कल्पनाभेदभासिनी । पारमा
र्थिक एव तर्हि भेद इति चेत् । न कल्पनामात्रेणणोपचरितम्पारमार्थिकं युक्तं । यदि तदेव
सितत्वादिकमसंस्थानात्मना प्रतिभासेत भवेत् पारमार्थिको भेदः । एकार्थसमवायस्या
भेदावभासहेतुत्वादभेदावभासो भेदेपीति चेत् । नन्वेकार्थसमवायेपि रूपरसयोरस्ति भेदाव
भासिता । भिन्नेन्द्रियग्राह्यता तत्रेति चेत् । यद्यभेदेनावभासकरी शक्तिः समवायस्य
भिन्नेन्द्रियग्राह्यता दुर्घटैव । समानदेशत्वादभेदावभास इति रूपरसादिभिरनेकान्तः । एव
ङ्गोत्वादिकाच्छावलेयत्वादयः शावलेयत्वादेः खण्डमुण्डादयो भेदकल्पनया व्यवस्थाप्यन्ते भेदेनेति
स्थितं ।
तत्र क्वचिद् धर्मी रूपादिभ्यो भिन्नः कल्प्यते यथा घटः । यदि घटावयव्येको न स्यात्
क्रमेण रूपरसग्रहणे घट प्रतीतिर्न स्यादिति क्वचिद्धर्मः । यदि गोत्वमभिन्नम्भिन्नाभिन्नम्वा न
भवेत् । शावलेयादीनान्तदभिन्नानाम्भेदो न स्यात् । एवमन्यदपि योज्यं । तस्माद्
व्यावृत्तिभेदमुपादाय भेद उन्नेयः ।
नन्वानुमानिकोपि भेदो मेद एव । सत्त्यं यदि प्रत्यक्षपूर्व्वकं तदनुमानन्न स्यात् ।
यथाग्निः प्रत्यक्षे प्रतिभासितोऽनुमानेन प्रतीयमानस्तथैव भवति । नन्वेवङ्कदाचिदपि धर्म
धर्मिभेदः । यदि प्रतिभाति किमनुमानेनेति चेत् । अग्नावपि समानमेतत् । कालान्त
रादौ चेदनुमानमिहापि तथास्तु ।
अथात्र नित्यानुमेयता । तदप्यसत् ।
अथ घटादयो दृष्टान्तः घटादिभ्यो भिन्नाः । तथा हि (।) ययोरन्वयव्यतिरेकौ तयो
र्भेदो यथा घटशकटयोः । तथा च वर्ण्णसंस्थानयोरीति । नान्वयस्प तत्रापि प्रत्यक्षेणाग्रहणात् ।
न चान्वयव्यतिरेकाभ्यान्तत्र भेदः । कथन्तर्हि युगपद् भेदप्रतिभासनादेव । अथ चित्र
प्रतिभास एवान्वयव्यतिरेकमन्तरेण स्यान्न भेदः । एवन्तर्हि न कुतश्चिद् इत्यद्वैतप्रसङ्गात्
सुतरामेव भेदसाधनमयुक्तं ।
अथवा ।
अन्वयस्तु गोत्वादेर्न प्रत्यक्ष गम्य इति न तस्य भेदोऽनन्वितात् । एकपरामर्शयोगेन तु
त एवान्वयितया व्यवह्लियन्ते । एकपरामर्शगोचर एव तर्हि सामान्यमन्यद् भेदेभ्यः । नैक
परामर्शगोचरस्य भेदेनानवभासनात् । एकपरामर्श एव भिन्नेषु कथमिति चेत् । अत्रोच्यते ।
एकपरामर्शो हि दृश्यमानत्वादुपपन्नः । तद्वदेव त्वदृश्यमानेनाभेदेनाप्युपपत्तिमता भाव्य
मिति नेयं भावना । न च भिन्नेष्वेकपरामर्शस्तस्य स्वरूपमात्रेऽवस्थानात् । न चायमेक
परामर्शः क्वचिदेकतायान्दृष्टः । उपलब्धेर्हि भवति । सा च क्रमवती । न चैकैकक्षण
परमर्शः शक्यः प्रतिपत्तिसम्वेदनाभावात् । तस्मादनेकभाव्येवैकपरामर्शः सर्वत्र । तस्मात्
कल्पनाकृतमेव सकलं धर्मधर्मित्वं (।) तदेव प्रत्यक्षेण गृह्यतामिति चेत् । नैतदस्ति ।
यस्मात् ।।
प्रत्यक्षं हि साक्षात्करणाकारप्रवृत्तन्न तस्योत्प्रेक्षितविषयाकारता युक्ता । अथ भावा
पेक्षितया हि कदाचिदेव प्रत्यक्षप्रतिभासिता । अकादाचित्कास्तु विकल्पितरूपप्रतिभासाः ।
एकाकारञ्च प्रत्यक्षमनेकाकारता च विकल्पस्य (।) विकल्पप्रत्यक्षयोरत आकाराभावादपि
भेदो हेतुभेदादपीति परमार्थः ।
ननु सितादिधर्मभेदा अकल्पिता अपि सन्ति ते भविष्यन्तीन्द्रियगोचरः । नैतदभि
चोद्यं यतः ।
सितं हीन्द्रियेण न धर्मतया धर्मितया वा कस्यचित् परिगृह्यते । भेदेन वा संस्थानात् ।
शब्देन तु भेदेन धर्म्म्यादितयाऽस्पष्टादितया गहणमित्यनिर्देश्यमेव रूपम्प्रतिपत्तीन्द्रियमतयः ।
तस्माज्ज्ञानाकारभेदान्न शाब्दी मतिरिन्द्रियग्राह्येषु वर्त्तते । तस्माद् रूपभेदो न युक्त एकार्थत्वे ।
अथापि स्याद् (।) आश्रयभेदादाकारभेदो भविष्यति । तथा हि । कामलावलेपलो
पितलोचनशक्तिः सितमपि पीतम्पश्यत्याश्रयभेदतः । तैमिरिकः स्पष्टेतरत् । एवमन्य
त्रापीति न दोष एकार्थत्वेप्याकारभेदमभ्युपगच्छतः । नैतदस्ति ।
यदि ह्याश्रयभेदादाकारभेदसम्भवो लुप्ता तर्हि नानात्वव्यवस्याऽकारभेदस्यैकार्थताया
अपि सम्भवात् । शब्दादीनामप्याश्रयश्रोत्रादिभेदादेवाकारभेदः । पीताद्यवभासानाञ्च
भ्रान्तता सा शाब्दादीनामपि प्राप्ता । शक्तिभेदोप्यनेन प्रत्युक्तः ।
य आह । शब्दशक्तिरेवेयमीदृशी येनान्यथात्वप्रतिपत्तिः । भेदेनान्यथा च । अन्यथा
प्रतिपत्तौ भ्रान्तता न विचार्या स्यात् ।
ननु शब्देनान्यथाप्रतिपादितोप्यर्थक्रियाकारी दृश्यते । तत्कथम्भ्रान्ततास्य युक्ता ।
तथा हि । वक्त्रासवादिशब्दैः843 स एव प्रतिपादितः तामर्थक्रियाङ् करोति । नार्थप्रति-
302
बद्धेयमर्थक्रियाऽपि तु भावनाप्रतिबद्धा । यथा गरुडादिभावनाप्रतिबद्धा विषशमनादय इति ।
तस्मादेकार्थत्वे नाकारभेदः सत्यास्याश्रयभेदे । अपि च ।
आश्रभेदो हि ज्ञानस्याभेदमुपजनयेन्न त्वर्थस्य । अर्थस्तु नीलादिक एक एव स
तस्मिन् विज्ञाने एकरूप एव प्रतिभासेत । नह्यविद्यमानस्य प्रतिभासः । प्रतिभासश्चेत् न
तर्हि स प्रतिभासते । नान्यस्मिन् प्रतिभासमानेन्यस्य प्रतिभास इति सम्बन्धः । अथ
तस्य कारणत्वात् तस्य प्रतिभासः । कारणत्वेन तर्हि विषयत्वमिति चक्षुरादीनामपि
विषयताप्रसङ्गः ।
भवतु को दोषः इति चेत् । एकार्थताविरोधः । चाक्षुषोपि विषयत्वात् । विषयत्वे
हि एकार्थत्वे हि बुद्धीनामपि प्रकृतम्व्यारन्यते । न हि विषयत्वे आश्रयभावः । तत एष
बाह्यार्थः । स्यादेकार्थत्वेपि बुद्धीनान्नानार्थतया स चेदिति परस्परव्याहतिः । तस्मात्
प्रतिभास एव स्वेन रूपेण विषयत्वं । नापरः प्रकारः । अथ शब्दाश्रयत्वादिति परिहारः
प्रतीताच्च शब्दात् स्वेन रूपेणार्थप्रतीतिः । न चासावर्थप्रतीतिविषयः प्रतीतत्वात् । अर्थोपि
तर्हि न विषयः । स्वेन रूपेण प्रतीतेः ।
अथ तस्मादर्शस्य प्राप्तिरिति विषयः । तदयुक्तं । तस्य तस्मात् प्राप्तिरिति कः
सम्बन्धः । स्वरूपेण हि संप्राप्यते । कथमन्यतः प्राप्त उच्यते । ततः प्रवृत्तेरिति चेत् ।
प्रवृत्तिरेषा प्रतीतेः कथमिति चिन्त्यं । तस्मादाकारात्तस्य प्राप्तिर्दृष्टेति चेत् । स एवा
कारस्मात् प्रतीयते । ततस्तत्र प्रवृत्तिरित्यानुमानिकी प्राप्तिर्न शाब्दीति स्यात्(।)
ततश्चासावनुमानस्यैव विषयो न शब्दस्येति प्राप्तं । ततश्चानिर्देश्यमेव रूपमिन्द्रियबुद्धेर्विषयः
अनुमानविषयता तर्हि प्राप्ता । नानुमानेपि तस्य स्वरूपस्याप्रतिभासनात् । कथन्तर्ह्य
प्रतिभासिते प्रवृत्तिः । सर्व्वता(? दा) प्रतिभासित845
एव प्रवृत्तिरिति प्रतिपादितं ।
ननु प्रतीतमेतन्मयेति प्रवर्त्तते । सत्यं । तथापि न परमार्थ एषः । अप्रतीते च
प्रतीत्यभिमानतः । सकल एव प्रवृत्तिमा(म) नन्त्येष एव परमार्थः । यत्राभिमानः स
एव विषय इति चेत् पारमार्थिकं शब्दविषयत्वमिन्द्रियविज्ञानार्थस्य वार्यते न साम्वृतमिति
न दोषः । तदेव यदि परेणाभ्युपगम्यते सिद्धमस्त्यत्र समीहितं । यदि तु स एव स्वेन
रूपेण प्रतीयते । पारमार्थिकम्विषयत्वम्प्रतिपादितम्भवेत् । तस्मान्नानाश्रयत्वेपि स्वरूपेणा
प्रतीयमानन्न विषयः । कस्यचित् तद्रूपस्य तत्रानुप्रवेशाद् विषय एवेति चेत् । यदि तर्हि
परमार्थतस्तदयं' शब्दप्रतीत्यनुप्रविष्टं । अन्येनापि स्पष्टरूपग्राहिणा प्रतीयेत । न ह्यनुप्र
विष्टमन्यथा प्रत्येतुं शक्यमिति ।
ननु प्रत्यभिज्ञानादाकारभेदेप्येकत्वन्न विरुध्यते । तदपि न सत्त्यं यतः ।
303
सम्प्रत्येव प्रत्यया(? यो)प्यभिधान847 विकल्पाभ्यान्दृश्यम्वस्तु न स्पृश्यते इति । गृहीत
म्प्रत्यभिज्ञायते । न च शब्दविकल्पाभ्याङ् ग्रहणं(।) तत्कुतः प्रत्यभिज्ञा । कथन्तर्हि स
एवायं यो मम तदाऽनेन प्रतिपादित इति प्रत्ययः ।
नन्वप्रतिपन्नेपि भवति प्रतिपन्नाभिमानः । कथन्तर्हि न बाध्यते(।) बाध्यत एव
परामृशतः(।) प्रतीतिभेदो हि बाधकः स चास्त्येव शब्दविकल्पयोः स्मर्यमाणविषयत्वात् ।
तच्च स्मरणम्पूव्वगृहीतस्य दर्शनमिदानीन्तनस्य(।) यदि पुनर्दृश्यपरामर्श एवाभिधानविकल्पयोः
स्यात् किन्दर्शनेनेति प्रतिपादितं । तस्मात् प्रत्यभिज्ञानमप्यभिमानमात्रकमेव न परमा
र्थतः प्रतिपत्तिः । दर्शनात् तु पूर्वानुसारेण विकल्प एव केवल एकत्व व्यवहार साधको न
परमार्थग्रहणं ।
न ह्यभिधानविकल्पाभ्याम्वस्तुसंस्पर्श इति । न ह्यन्वयः परमार्थतः कस्यचिद् गृह्यतेऽ
भिमानमेतदिति प्रतिपादनात् । यथादृष्टस्यैव स्मरणात् । दृश्ये चासंस्पृश्यमाने दृश्यसम्ब
न्ध्यन्वयि रूपन्न गह्यते । तेन दृश्य सामान्यमस्तीति न प्रतीतिः । कथन्तर्हि स एवायङ्
गौरित्येककल्पना । अत्राह ।
दर्शनानि खलु परापरविविक्तपदार्थोपग्रहभाञ्जि जायमानानि नैकाकारव्यतिरिक्ता
व्यतिरिक्तग्रहसामर्थ्यपथस्थितानि । केवलं स्वभावानुरूपसंस्कारबीजप्रबोधसामर्थ्यपाटवा
टोपसङ्कटप्रविष्टानि गत्यन्तरभावात् प्रत्यभिज्ञानकल्पनामुपजनयन्ति । तदनुरोधतो जात्या
दिकल्पनानर्थपथप्रस्थानं । तस्मादनिर्देश्यविषयं प्रत्यक्षमिति स्थितं ।
२. मानस-प्रत्यक्षम्
मानसञ्चार्थरागादिस्वसम्वित्तिरकल्पिका ।। (प्रमाणसमुच्चये)
मानसमप्यर्थरागादिस्वरूपसम्वेदनमकल्पकत्वात् प्रत्यक्षं । अनुभवाकारप्रवृत्तेः ।
ननु चक्षुरादिविज्ञानमेवानुभवाकारेण वृत्तमुपलभ्यते । चक्षुरादिजनितमिन्द्रिय
विज्ञानमेव । अथ तत उत्पन्नं मानसन्तदा तेन पूर्व्वानुभूतग्राहिणा भवितव्यं ।
न हि पूर्व्वानुभूतमस्मर्यमाणरूपतया प्रत्येतुं शक्यं । अस्मर्यमाणतया साक्षात्करणे
अनुभूतमिति कथं । वस्तुतः पूर्व्वानुभव इति चेत् । कथमवगन्तव्यं(।) प्रत्यभिज्ञानञ्च
प्रतिक्षिप्तं । अथादृष्टङ् गृह्णाति । तथा सति ।
अर्थस्यापि मानसमस्ति । ततस्तस्य सकलार्थग्रहणप्रसङ्गोन्यस्य च । ततोन्धब
धरिद्यभावः ।
क्षणक्षयिणो हि सर्व्वभावास्ततोऽतीतस्य कथङ् ग्रहणं येन गृहीतमेव गृह्णीयात् ।
अथाक्षणिकत्वमभ्युपगम्यते । तदा पूर्वदर्शनगृहीतत्वाद् गृहीतग्रहणमप्रमाणं स्मृतिवदेव (।)
गृहीतग्राहित्वेपि वा प्रमाणं मानसमिति सविशेषणं लक्षणम्वक्तव्यं ।
किञ्च ।
यस्य हीन्द्रियविज्ञानेनैव स्वरूपपरिच्छेदस्तस्य किमपरेण कर्त्तव्यं । तदेव स्वरूपं
परिच्छिद्यत इति चेत् । परिच्छेन्ने कः परिच्छेदार्थः । य एव पूर्व्वः स एव । अपरिच्छि
न्नेपि कः परिच्छेदार्थः । स्वरूपावभासिता । सान्यत्रापि को दोषः ।
नन्वेवन्नित्यन्नित्यम्परिच्छिन्नमेवास्ते (।) तत्किमपरन्तत्र करिष्यति । इदानीमन्येन परि
च्छिद्यते । न नित्यत्वादिदानीमपि तेनैवेति नापरस्य सामर्थ्यं । परिच्छेदकस्य तस्याभावा
दिति न सङ्गतं । परिच्छेदकाभावे नित्ययाऽग्रहणात् । अन्येन ग्रहीष्यते इति चेत् । न(।)
अप्रत्ययत्वात् । कथमन्यः स्वकाल एव प्रतियन् प्रत्येति नित्यतां । तस्मात् तेनैव परिच्छेद
केनासितव्यमिति व्यर्थमपरं ग्राहकं तद्रूपेणैव प्रतिपत्तिरिति ।
तदाकारनिवेशे हि नित्ये प्रवर्त्तमानं सकलमेव विज्ञानं समानकालं किन्न कालत्वे
नित्यैकत्वविषयत्वम्विरुध्यते । आकारभेदात् । अथोत्तरकालकारणान्तरादुपजायते । तदापि
तत्कालाभिनिवेशेनैव भवितव्यमन्यथा तद्ग्रहायोगात् । सत्त्यस्वप्नदर्शनवत् । सत्त्य
स्वप्नदर्शनं हि तत्कालानुयातेनैव ग्राहकमीक्षते । न चानुभवाकारमपरमिन्द्रियविज्ञानात्मा न
समुपलभ्यते । अनुपलब्धेन चोपलम्भ इति न युक्तं प्रमाणाभावात् ।
अन्ये तु ।
मानसेन यदि नोपलम्भनं मानसेन पुनरस्मृतिर्भवेत् ।
यदीन्द्रियविज्ञानेन गृहीतम्मनसा न स्मर्यते (।) भिन्नत्वात् सविकल्पकेनापि गृहीतन्न
स्मर्यते । तयोरपि भेदात् । मानसत्वादिति चेत् । विज्ञानत्वादित्यपि स्यात् ।
मानसमपीन्द्रियविज्ञानेन स्वविषयानन्तरविषयसहकारिणा जनितम्प्रत्यक्षं । नन्विन्द्रिय
विज्ञामसमानकालभावि यदि तद् इन्द्रियविज्ञानेनैव तस्य ग्रहणात् मानसम्व्यर्थं । इन्द्रियविज्ञानो
परमे वा अनुपलब्धमेवापरमिति कस्य लक्षणमेतत् । अत्रेदमुच्यते ।
इदमिति पुरोवर्त्तिनि साक्षात्करणाकारेण प्रवर्त्तमानं मानसम्प्रत्यक्षं । अथ चक्षुर्व्या
पारादुपजायमानञ्चाक्षुषमेव । न रूपप्रतिभासमात्रे चक्षुष उपयोगोऽभिनिवेश तु पूर्व्वाभ्यासस्य
तेन चक्षुषोत्र व्यापाराभावात् । मनसः पूर्व्वाभ्यासलक्षणदुत्पत्तेर्मानसं प्रत्यक्षमेतत् ।
अथापि स्यात् (।) तदाकारस्य चक्षुरादिविज्ञानेनैव ग्रहणात् मानसम्व्यर्थं । न व्यर्थं ।
अधिमुक्तेरधिकायाः सम्भवात् । इदमित्येव कृत्वा प्रवर्त्तते । तेन प्रवर्त्तकत्वात् प्रमाणं ।
इन्द्रियज्ञानन्तर्हि प्रवर्त्तकन्न स्यात् । नात्यन्ताभ्यासादन्यविकल्पनेपि वृत्तेः प्रमाणमेव । तस्मा
देवंभूतं मनः पूर्वगृहीतन्न प्रत्येत्यपि तु तदुत्तरकालभावि । न च गृहीतग्राहिसन्निहिते पूर्व्व
ग्रहणस्यावृत्तेः । आकारद्वयन्तर्हि समानकालम्प्राप्तं ।
नन्वाकारद्वयमेवेदं कथन्तर्ह्येकत्वाध्यावसायः । तैमिरिकद्वयद्विचन्द्रन्यायेनेत्यदोषः ।
सुखादयोपि तर्ह्यभ्यासादुपजायमानः पुरोवर्त्त्याकारग्राहिणो मानसप्रत्यक्षरूपाः प्राप्तास्तत
ऐन्द्रियं सुखमिति लुप्तमेतत् ।
सत्यं (।) लुप्तमेवैतन्नालुतेनानेन किञ्चित् । ऐन्द्रियस्यैव सुखासुखस्योत्पत्तिरिति
विरुष्यत इति चेत् । अत्रापि मूलाचार्यवचनम्विरुध्यते । रागद्वेषमोहसुखदुःखादिषु
स्वसम्वेदनमिन्द्रियानपेक्षत्वान्मानसं प्रत्यक्षमिति । इयन्तर्हिधर्मकीर्त्तेरकीर्त्तिरायता, ऐन्द्रिय
स्यैव सुखासुखस्येति । सुखादिशब्देन न सुखहेतूरसादिकमेवोच्यते । कटु मिष्टम्प्रतिभात्य
विकल्पयतोपीन्द्रियज्ञान इति यावत् । मानसमेव वाऽविकल्पकत्वसाधर्म्म्यात् तथोच्यते
इत्यविरोधः । यदि तर्हि मानसमन्यथाग्राहीन्द्रियज्ञानमन्यथा849
ग्राह्यनेकाकारम्भविष्यतीति
चेत् । न (।) इन्द्रियज्ञानेपि स एव प्रसङ्ग । इन्द्रियविज्ञानमपि यथाभ्यासन्नानाकार
म्प्रवर्त्तमानन्न निवार्यमेव ।
एवं तर्हीदमित्यपि विज्ञानमभ्यासादिन्द्रियजमेव भवतु । न । मानसत्वम्व्यापारा
न्तरस्यापि प्रतीतेः । इदमेवमिति मानस एष व्यापार एवमेव प्रतीतेः ।
कथन्तर्ह्ययम्मानसः प्रत्ययः स इत्यपि परोक्षे न प्रवर्त्तते । नेदं साधीयः ।
साक्षात्कारित्वमेव प्रत्यक्षतार्थः । तदेव मानसङ् क्वचित्साक्षात्करणाकारं क्वचिन्नेति
कुतः । इन्द्रियविज्ञानमपि तर्हि क्वचिद् भ्रान्तं क्वचिन्नेति कुतः । तिमिरस्य सामग्र्यन्तरस्य
भावादिति चेत् । इहापि सामग्र्यन्तरमस्त्येव । यतः ।
स्वार्थ इन्द्रियविज्ञानस्य प्रथमः क्षणः प्रबन्धो वा । तदन्वयो योर्थक्षणस्तदर्थापेक्षमेवे
306
न्द्रियविज्ञानम्मानसञ्चजनयति । यत्तु पुनरनया सामग्र्य नोत्पत्तिमत्तदप्रत्यक्षं । अत एव च
नियतग्राह्यतया न विषयान्तरस्य गतिः । यतो न विषयान्तरेण जन्यते । तेनैव जन्यते
अन्येन नेति किमेतत् । इन्द्रियविज्ञानेपि समानमेतत् । चक्षुर्विज्ञानमपि कस्मान्न शब्देन जन्यत
इति । नियतहेतुफलभाव इति चेत् । अत्रापि न ब्रह्मशाप इति समानमन्यत्रापि ।
ननु द्वितीयेपि क्षण इन्द्रियविज्ञानेनैव गृह्णाति । तथा च दृश्यते । न(।) मानसस्यापि
तत्रोल्लेखस्य सम्भवात् । न च तत् सविकल्पकम्पुरोवर्त्तिस्पष्टाकारमात्रत्वात् । यदि
तर्हीन्द्रियविज्ञानसमानकालभावि मनोविज्ञानं प्रत्यक्षङ्कथमिन्द्रियविज्ञानमस्य समनन्तरप्रत्ययः(।)
पूर्वकस्य हीन्द्रियविज्ञानस्य मनोविज्ञानार्थः स्वविज्ञानकालिकासहकारी न भवति भिन्नकालयोः
सहक्रियाऽयोगात् । अत्रोच्यते ।
न युक्तं । यतः ।
न हीन्द्रियविज्ञानेनासमानकालो मनोविज्ञानार्थः । तरय मनोविज्ञानात् पूर्वकालत्वात् ।
हेतुर्विषयो न च हेतोः फलेन समानकालता । फलेन समानकालतायां हि प्रागसत्त्वं असतश्चा
सामर्थ्यम्प्राक् । पश्चात् कार्यकाले सामर्थ्यमिति चेत् । कर्मकाले कार्यस्य विद्यमानत्वाद्
व्यर्थं सामर्थ्यं । एवं हि स कार्यस्य कालो यदि तदा कार्यस्य सत्त्वं । तस्मात् प्रागेव सत्त्वं
सर्वहेतूना । अतोर्थो हेतुर्न फलभूतस्वग्राहकज्ञानसमानकालभावी ।
ननु प्रतिभासमानमेव स्वेन रूपेण ग्राह्यता न तदाकारविज्ञानजननं । प्रतिभासनञ्च
ज्ञानसमकालमिति कथं हेतुत्वमेव ग्राह्यता । किमिदं प्रतिभासनन्नाम, किमर्थस्वभावोथान्यदेव ।
यद्यर्थस्वभावो नीलादिवत् । नापैति कदाचिदपि तत्स्वभावादिति सर्वदा प्रतिभासप्रसङ्गः ।
ज्ञानाभावान्न प्रतिभासनमिति चेत् । ननु ज्ञानेनापि तदेव कर्त्तव्यन्तच्च प्रागप्यस्तीति कथम्प्रा
गप्रतिभासनं । ज्ञानस्य व्यर्थता चेत् । अयमपरस्तवैव दोषो न तु तत्स्वरूपस्यैव प्रागप्रति
भासनं । तदेवास्ति तदेव नास्तिति व्याहतं । अथ ज्ञाने सति दृश्यते नान्यथेति चेत् ।
किमिदानीं ज्ञानस्य कारकत्वं प्रतिभासनंप्रति । न च कारकत्वं समानकालत्वात् । असत
इत्यादिप्रतिपादनात् । समानकालन्दृश्यते न च ज्ञानमन्तरेणेति किमत्र कुर्म्मः । एवन्तर्हि
चक्षुषस्तदैवोत्पत्तिमत् । ततो नार्थस्वभावः प्रागर्थेसतीदानीमुत्पत्तेः ।
एवन्तर्हि ।
यस्माद् यदीष्यते भिन्नो नीलादिः प्रतिभासतः ।।
३. स्वसंवेदन-प्रत्यक्षम्
सुखादीनामपि स्वसम्वेदनम्मानसं प्रत्यक्षं । नन्वेवम्विकल्पस्य स्वरूपस्याप्रत्यक्षता
प्राप्ता । तथा च परोक्षविज्ञानसमयप्रसङ्गः । न(।) सर्व्वचित्तिचैत्तानामात्मसम्वेदनस्य
प्रत्यक्षत्वात् । सुखादिग्रहणन्तु स्पष्टसम्वेदनदर्शनार्थं ।
ननु विकल्पस्य निर्विकल्पकत्वाभावात् कथम्प्रत्यक्षता । न हि विकल्पस्य स्वरूप
मविकल्पकं । अर्थे विकल्पकत्वमिति चेत् । तदसत् । यतः ।
अत्राह ।
उत्पत्तिमासादयन्नेव सुखाद्यात्मा सम्विदाम्विषयभावम्विभर्त्ति । तदतिरेकेण तत्स
म्विदोऽभावात् । तदा च कोवसरः पूर्वापरभावाभिलापसंयोजनस्य । पश्चात् संयोजन
मिति चेत् । न(।)तदातदभावात् । पूर्वरूपतया हि सम्वेदने परेण तदा तत्सम्वेदनमेव न
स्यात् । न हि पूर्वादिरूपतयान्यंथा वा सम्वेद्यमानाः सुखादयस्संविदिता भवन्ति । परसुख
सम्वेदनवत् । तस्माद् वर्त्तमानतया सुखादीनाङ् ग्रहणे स्पष्टया वा निर्विकल्पकमेव ग्रहणं ।
अथ मानसं सुखं विकल्पग्रहणं ग्राह्यमिति मतिः । तदप्यसद्(।) यतः ।
तदैव चोदिते तस्य850 साक्षाद् वित्तौ न कल्पना ।
सत्त्यमेवैतदुक्तम्भवता ।
सविकल्पकसम्वित्तिरविकल्पा तदैव च।
तस्मात् ।
अत्र ब्रूमः ।
किञ्च ।
अथापि प्रतिभासमान एव प्रबन्धेन सुखादाविदं सुखादीति यदा विज्ञानमधिमुक्ति
रूपमुपजायते तदा कस्मान्न सविकल्पकता । अत्र मानसं प्रत्यक्षमर्थ इवेति वर्ण्णितं ।
तथा हि ।
न हि तत्रापि कथञ्चित् कल्पनावकाशः । तेन तदविकल्पकत्वात् प्रत्यक्षमेव ।
ननु स्वसम्वेदनं मानसञ्च पदद्वयमपि समुदितन्तदा परस्परासंस्पर्शात् कथं न द्वया
कारप्रतीतिः । भवत्येव । तैमिरिकद्वयद्विचन्द्रदर्शनन्यायेन त्वेकार्थाभिनिवेशादेवमव्यवहारः ।
ननु तत्रापि कथं स्वसम्विदितत्वे न भवति तथा व्यवहारः । अनुमानस्य तथा वृत्तेः । तत्र
हि सामान्यरूपकार्यदर्शने तदेकत्वानुमानेन च द्वितीयस्य दर्शनमिति तदेकताव्यवहारः ।
इह तर्हि द्वयोरपि दर्शनात् कथमेकताव्यवहारः (।) न चानुमानमत्र । स्वसम्विदितत्वे
किमनुमानेन । ननु परम्परासम्वेदनात् कथं द्वयं सम्विदितं । पुरुष एकस्तस्य तत् द्वयं
सम्विदितमिति चेत् । न । सम्वेदनव्यतिरेकेण पुरुषस्याभावात् । ताभ्याञ्च न द्वय
सम्वेदनं । अथरूपरससम्वेदनवत् सम्वेदनं द्वयोः । तत्रापि कथं स्वसम्विदितत्वे सतीति
प्रतिपादितं परसम्वेदनेपि प्रसङ्गादिति । तस्मात् स्वसम्वेदनमेकमेव चित्राकारमिति प्रति
पादितमेतत् ।
इदञ्च पुनर्बाह्यार्थमाश्रित्य ग्राह्यग्राहकभावञ्चाभ्युगम्योच्यते (।) परमार्थतस्तु
सकलमेव स्वसम्वेदनमात्रन्नेन्द्रियादिप्रत्ययविभागोस्ति । इन्द्रियव्यापारस्यापि समानकाल
तया वेद्यत्वाद् रूपादिवत् । अथ चक्षुरादीनां व्यवहारतः कारणत्वं । तथा समान
सम्वेदनयोर्मानसेन्द्रियविज्ञानयोश्च भेदः ।
नन्वत्र व्यवहारो नास्ति व्यवहारिकः । आनुमानिकोपि व्यवहार एवेत्यदोषः ।
आत्मादिष्वपि तर्ह्यानुमानिकोपि व्यवहार एवेत्यादीनामपि सत्त्वप्रसङ्गः । न (।) तत्र बाधक
व्यवहारसद्भावात् । तस्मात् सुखादीनामात्मा विशेषरूपो शक्यसमय इति स्थितमेतत् ।
यदपि तावद् विज्ञानं परस्य वेदकन्तस्यापि तावत्स्ववेदनन्नास्ति किमङ्ग पुनः परा
वेदिनां सुखादीनां ।
ननु वेद्यत्वात् स्ववेदनम्भविष्यति सुखादिकमन्यथा वेदनमेव न स्यात् । न(।)
स्वसम्वेदनस्यासिद्धत्वात् । परेण वेदने घटादिवदस्ववेदनं । घटादिवदेव तर्हि बहिर्देशत्व
वेदनप्रसङ्ग इति चेत् । न(।) एकार्थसमवायिना विज्ञानेन वेदनात् । घटादीनां हि
नैकार्थसमवायो विज्ञानेन । तेन तेषां ग्राह्यरूपतया तटस्थत्वेन वेदनं । सुखादयस्तु
पुनरभेदेनैव विज्ञानात्प्रतीयमाना विज्ञानरूपमिवापन्ना ग्राहकाकारतयान्तःसन्निविष्टा वेद्यन्त
इति न घटादिवत् प्रसङ्ग इति केचित् । तेषां ।
न खलु विज्ञानाद् भेदेन प्रतीयन्ते सुखादयः । एकार्थसमवायस्य विरोधिनः सम्भवात् ।
अनुमानम्पुनर्न लिङ्गमन्तरेण प्रवर्त्तते । स्यादत्र लिङ्गं यदि हेतुभेदो दर्शयितुं शक्यः । न ह्य
प्रत्यक्षमनुमानाद् विना प्रत्येतुं शक्यं । हेतुभेदात्तु भेदम्प्रतिपद्यस्व । अवश्यं हि सामग्री
भेदात् कार्यभेदः । कार्यभेदस्तु न भेदं साधयति । कारणादेकस्मादपि कार्यभेददर्शनाद्
भस्मधूमवत् । न च सुखादिविज्ञानयोर्भेदस्य साधकः कार्यभेद उपलभ्यते । तस्मात्कार
णभेद एवोपदर्शयितव्यः स च नास्ति । कस्मादभिन्नहेतुकमभिन्नरूपञ्चोपलभ्यमानम्भिन्न
मिति व्यपदिश्यते किमत्र प्रमाणमिति यावत् ।
अथवा यदि विज्ञानमन्यत् सुखादिभ्यः सुखादीनाम्विज्ञानस्य तत्को हेतुः । चक्षूरूप
मनस्काराः ततश्च सुखादिकमुत्पद्यते एव विज्ञानहेतोश्चशुरादेः । तथा च तत्किम
ज्ञानम्विज्ञानेन कस्मादिव न वेद्यते । नास्त्येवेति चेत् । न(।) विज्ञानहेतुकत्वेनोत्पत्तेः
कथमस्यावेद्यमानता । भवत्पक्षेपि कस्मान्नैवमिति चेत् । न (।) वासनाप्रबोधविशेषस्य
हेतुत्वात् । वासनाप्रबोधविभागबलात् कदाचित् सुखरूपम्विज्ञानं दुःखरूपमन्यथा वेति
नानुपपन्नं । समानहेतुत्वमेवोपदर्शयति ।
न चक्षुरन्तरेण रूपदर्शनमुखं(।) न च मनोहारिरूपमन्तरेण । नापि शोकादिना
मनस्युपहते । विज्ञानजन्मनोपीयमेव सामग्री ततो न हेतुभेदो भेदस्य बोधकः । नापि
हेतावात्ममनस्संयोगे रूपादिसामग्रीतः सुखमुत्पन्नमविज्ञानं युक्तिमत् । अथ तदा नोत्पन्नमेव
सुखं तदवश्यमेवाविद्यमानमविज्ञानं । न ह्यविद्यमानङ् ग्रहीतुं शक्यं । अत्रोच्यते ।
न च खलु चक्षूरूपालो(क)मनस्कारेषु सत्सु सुखादय उदयभाजो येन विज्ञानात्
कारणान्तरं सुखादिकस्य कल्प्येत । ततो विज्ञानकारणमेव सुखादिकारणं । अथ तच्च
तदन्यच्च सुखादीनां धर्मादिकारणं तदेवाधर्मादि । तदपि नास्ति यतः । सत्सु चक्षुरादिष
नाजन्म दृष्टं येन कार्यव्यतिरेकात् कारणान्तरपरिकल्पनावकाशः स्यात् ।
अथ व्यतिरेकमन्तरेणापि धर्म्मादि कारणमेव । इष्टं सुखमनिष्टं दुःखन्तत्रावश्यं
धर्माधर्मयोः कारणत्वं । सर्वप्रवादिप्रसिद्धञ्चैतत् स्थापयित्वा चार्व्वाकमेकं । तदप्यसत् ।
धर्मादिकं हि सुखादिसाधनानि समं श्रयति न सुखादीन्येव । अन्यथा तत्साधनमन्त
रेणापि सुखादिप्रसङ्गः । अथापि स्यात् (।) सत्यपि सुखासुखसाधने रूपादौ शोकादिनोप
हतेन्तःकारणसामथ्यन सुखमुत्पत्तिमत् । ततो धर्म एव कारणन्न रूपादीति गम्यते ।
तदयुक्तिमद् (।) यतः ।
शोकादिसामग्र्येवाधर्मेणोपनीता दुःखन्तस्यास्तु दुःखं स्वयमेवोदयवत् ।
अथवास्तु सुखमेव धर्मादन्यतो दुःखं । तथापि तेन भिन्नं सम्वेदनञ्जनयि
तव्यमिति कुतः । सम्वेदनाव्यतिरेकिसुखजननेपि न धमण भवतः किञ्जिदुपकृतमिति ।
सुखादिना हि भवतः प्रयोजनन्तच्चाव्यतिरिक्तमपि सम्वेदनतो न कटु भवति । अथ कारण
भेदाद् भेदस्तदप्यसत् । यतः ।
धर्मसहिता हि सामग्री तदेव कार्यम्विशिष्टं जनयेन्न त्वत्यन्तं भिन्नमेव । अधिकोप
कारेण तस्या एव विशेषात् । सार्द्रेन्धनत्वे धूमो हि भस्मनो नातिरिच्यते । न हि भस्मनो
त्यन्तमतिरिच्यते धमः श्यामतादिमलिनीकरणस्य तत्रापि सम्भवात् । तस्मान्न धर्मादेरत्यन्त
व्यतिरेकजनने सामर्थ्यावधारणं । अत एवाह ।
यदि विज्ञानसुखादीनां समानहेतुता विज्ञानम्विज्ञानमित्येतावदेवास्तु कथं सुखादि
भेदः । तस्या एव सामग्र्याविशेषात् । क्षीराद्यवसेके धात्री बीजादिसामग्रीवत् । नहि
क्षीराद्यवसेकाधिक्येपि धात्री बीजं जनयति धात्रीविलक्षणमेव कार्यं । अपि तु तद्रपमनतिक्र
म्यापरविशेषाधिष्ठितं । अथ भिन्नमपि कस्मान्न जनयति । न (।) भिन्नमेव जनयतीत्येव
म्वक्तव्यं । एवङ् कारणभेदाद् भेदस्तया प्रतिपादितो भवति । यदि सामग्री भिन्नकार्य
जनिकेति प्रसिध्यति ।
अपि च (।) प्रज्ञादयोपि धर्म्मा आदित एवोत्पत्तिमन्तस्ततस्तेषामपि बुद्धेर्भेद एव
प्रसक्तः । अथाभ्यासादेः प्रज्ञादयो न धर्मादेः । एवं सति सुखादयोपीष्टानिष्टाभ्यासादिति
न धर्मादिहेतुता तेषां स्यात् । इष्टादिसन्निधानं धर्मादिति चेत् । न तर्हि सुखादीनां
धर्मादुत्पत्तिरपि त्वविगणमनस्कारादेरेव । तच्च मनस्कारादेरविगुणत्वं ज्ञानेपि कारणमिति
न भिन्नसामग्रीजन्याः सुखादयः (।)
अथापि स्यात् (।) न प्रज्ञादयः सुखादिहेतुधर्मादिहेतुकाः प्रज्ञासद्भावात् (।) यत् सुख
न्तदेव धर्मादिहेतुकन्तेन सुखादीनां समानकारत्वमसिद्धं । तदपि न सुभाषितं यतः ।
न हि प्रमाणादप्रसिद्धं स्वप्रक्रियाप्रयञ्चप्रकाशनमात्रं परेषाम्परितोषस्य । न च
प्रज्ञादयो धर्मादन्यतोभवन्ति । धर्मम्विनाप्यभ्यासाद् दृश्यन्ते इति चेत् । न (।) धर्ममन्तरेण
तस्यैवाभ्यासस्य सकलत्वायोगात् । जडत्वादेवाकलत्वमिति चेत् । सुखादीनामपि तर्हि
सन्तानविशेषादेव सम्भवः । तथा हि ।
सुखं स्वभावातिशयादेव पूर्वाभ्यासप्रवर्त्तितादसतामपि दुराचाराणान्दर्शनात् । सत्यपि
धर्मे समतादर्शिनोऽभावात् । समताभावनाभ्यासविपर्ययसहायाद् धर्मादेरेवेति चेत् । एव
न्तर्हि न धर्मस्य सामर्थ्यमभ्यासपूर्वकत्वाच्च प्रज्ञादिवद् बोधरूपा एव सुखादयः ।
ननु विषयादिभ्यः सुखादय उत्पत्तिमन्तो विज्ञानन्तु विज्ञानहेतुकाद् भावनाख्यात्
संस्कारादिति हेतुभेदः । तथा हि ।
तदसद् । सुखादिष्वप्यस्य हेतुत्वं । तथा हि भावनावशादेव सुखादयोपि जायन्त इति
प्रतिपादितमेव ।
अथापि स्यात् (।) मानसा एव सुखादयः संस्कारतो भवन्ति नेन्द्रियजाः । एवन्तर्हि
मानसमेव विज्ञानं संस्कारादिति समानमेतत् । अथेन्द्रियजस्यापि विज्ञानस्य पाटवादिविशेषो
भावनाविशेषादेव । सुखादीनामपि तर्हीन्द्रियजानान्तत एव पाटवादिकमिति समानं ।
किञ्च । मानसमेव सकलं सुखादिकमिति प्रतिपादितं ।
ननु गृहीते क्वापि वस्तुनि भावनावशात् तत्रैव वस्तुनि पुनः पुनर्ज्ञानोदयलक्षणात्
पाटवं युक्तिमत् । सुखादीनामपि यद्यनेन ज्ञानेन ग्रहणन्तदा युक्तन्तद् ग्रहणं पटु भवतीति
स्वसम्वेदनपक्षे तु कीदृशी भावना । तथा हि ।
अपरापरस्य सुखसम्वेदनस्योत्पत्तेर्नाभ्यासयोगः । यदि पुनःपुनस्तदेवोपलभ्यते तदाभ्या
सव्यपदेशः । अर्थस्तु पुनरेक एव तत्र भावनाप्रयुक्ता परापरविज्ञानेनानुभवे ।
ननु सुखमप्येकं किन्न भवति । नन्वेकस्य कः पुनः पुनरर्थः । अर्थस्य पुनरेकताया
मप्यनुभवावृत्तिकृतम्पौनःपुन्यं । तदप्यसत् ।
ज्ञानस्य यदि भेदोस्ति विषयेभ्यो गतिः कुतः ।
ननु सुखमेकन्न भवति (।) कथन्तत्र प्रत्यभिज्ञा । विषये तु ज्ञानभेदेपि तदेकत्वाद्युक्ता ।
ननु च विषयभाविनी प्रत्यभिज्ञाऽपि तूपलम्भभाविनी । न च ज्ञानभेद एकस्योपलम्भः ।
ज्ञाने च कथम्प्रत्यभिज्ञा । न परमार्थतस्तत्र प्रत्यभिज्ञा ।
अथैकत्वेन तदेकत्वमारोप्य ज्ञानमेकमिति व्यवह्रियते । अत्र विचार्यते । किमिदं
स्वसम्वेदनं ज्ञानमिति पक्ष उच्यते । अथ ज्ञानान्तरवेद्यमथार्थापत्तिवेद्यं । किञ्चातः ।
स्वसम्वेदनपक्षे हि परिस्फुटे भेदवेदने कथं विषयाभेदेपि तदैव तत्कृत आरोपविभ्रमः ।
ज्ञानान्तरवेदनेपि समानमेतत् अर्थापत्तिवेदने त्वर्थानुरूपा ज्ञानकल्पना ततो ज्ञानमप्यभिन्नमेव
कल्पनीयं । अथान्यथा नोपपद्यत इत्यर्थपत्तिः ।
न ह्यनेकेन विज्ञानेनापरापरकालभाविना स्वकालार्थपरिच्छेदकेन पूर्वापरकालभाव्ये
कोर्थ इति शक्यङ् कल्पयितुमेकस्याव्यापारात् समूहस्य चाभावात् ।
तदेतदसत् ।
भिन्नाभिन्नात्मपक्षेयमदोष इति चेत् । येन रूपेणाभिन्नस्तेन रूपेण न प्रत्यभिज्ञानं ।
ज्ञानभेदेन भिन्नत्वात् । ज्ञानस्याभेदे तदभिन्नस्य भेदस्य । येन तु रूपेण ज्ञानाद् भदेस्तेन
रूपेणैकता ततो नावत्तिः ।
अथाबोधरूप आत्मा तदा न ज्ञानेन बुद्ध्यने तच्च भिन्नमिति कथन्तेनाभेदग्रहणं ।
तस्माज्ज्ञानभेदेनैकत्वग्रहो युक्त इत्येकमेव ज्ञानं परिकल्पनीयमर्थापत्त्या ।
अथार्थापत्त्या ज्ञानभेदः परिगृह्यते तथापि नैकत्वम्विज्ञाने प्रतीयतेऽतः कथं प्रत्यभिज्ञा ।
अथालक्षितनानत्वस्य प्रत्यभिज्ञानं (।) तथा सति सुखादिष्वपीति तदेकत्वस्य सम्वृत्या
सम्भवात् (।) तत्रैव पुनःपुनरनुभव इति भवत्यभ्यासात् सुखादीनाम्पाटवादिविशेषः । अभ्या
साच्च सुखादीनामुत्पत्तिर्बोंधरूपाणामेव ।
नन्वभ्यासाद् गमनादयोपि विकटादिरूपा भवन्ति न च ते बोधरूपाः । अत्रोच्यते ।
प्रज्ञादिवदेव ।
313अथापि स्याद् (।) बोधरूपाभ्यास इति किं स्वसम्वेदनाभ्यासः । अथ बोधरूपगृहीता
र्थाभ्यासोः (।) यदि स्वसम्वेदनाभ्यासस्तम्वेदनमसिद्धं । अथ द्वितीयः पक्षः सोनैकान्तिकसम्भ
वादयुक्त एव । बोधरूपगृहीतगमनाभ्यासेपि गमनादिबोरूपतानुपलम्भात् । अत्रोच्यते ।
अन्तः सम्वेदनरूपा हि सुखादय उपलब्धाः । जडरूपाः सन्त एकार्थसमवायेनोपलभ्यन्ते
तथेत्येतत्तु व सम्वेदनसमासादनोपनतपरितोषं । ततः स्वसम्वेदनरूपमेवाभ्यस्यति (।) ततस्त
थाभूतमेव भावनाप्रकर्षाभ्यासे प्रादुर्भवेत् । प्रथमन्तर्हि स्वसम्वेदनाभावः स्यात् (।) न ।
यज्जातीय इत्यादिना तस्यापि तथाभूतत्वात् । तस्माद् भावनाबलादुपजायमानाः प्रज्ञादिवत्
सम्वेदनस्वभावा एवेति स्थितं ।
अनेनैतदपि निरस्तम् ।
तस्यायमर्थः । परस्परसहकारित्वेन चक्षुर्मनस्कारपुरोवर्त्तिशकटादयः समानसामग्रीका
उपजायमानाः सर्वे बोधरूपाः स्युरबोधरूपा वा । न हि तत्र कश्चित् प्रधानेतरविवेक इति ।
सा हि रूपादिसामग्री बोधाबोधरूपानेककार्यजनेन दृष्टशक्तिका नान्यथा शक्या विधातु ।
तयैवानैकान्तिकत्वमत एवेति चेत् । न (।) अन्यथाहेत्वर्थस्य विवक्षितत्वात् ।
यो हि यथा भूतोभ्यस्यते स तथैव भवतीति प्रमाणार्थः । न च रूपादीनामान्तर
स्वभावाभ्याससम्भवः । यस्य तावदर्थापत्तिगम्याः प्रज्ञादिविशेषास्तेन ते आत्मसमवायिन इति
कथमवगन्तव्यं । केवलमर्थापत्या येन विना यत्नोपपत्तिमत् तदवगम्यते । न चात्मसमवायित्वेन
विनाऽबोधरूपतया च नोपपत्तिमत् किञ्चित् । केवलमपरेणापि केनचिद् भवितव्यं यतो
परोक्षतार्थस्य जाता । ततः कथमात्मसमवायादिगतिः । तस्मात् मयैतदवगतमित्यान्तरत्वमेव
बोधस्याभ्यस्तं जनेन (?) येनातरत्वप्रतीतिरिति परिहारः ।
येपि बुद्ध्यन्तरस्य प्रत्यक्षताम्बुद्धौ वर्ण्णयन्ति तेषामपि सा आत्मसमवायिनी बोधरूपा
च प्रतिभातीत्येवमवश्यमयमभ्युपगमः । अन्यथा पदार्थान्तरमेव भवेत् । ग्राहकत्वस्य तु
प्रसिद्धिरेव । तस्मात् प्रत्यक्षान्तरे तदारूढग्राहकत्वैवासौ प्रतिभाति । तथा च सति तत्रापि
सोर्थः प्रतिभासते । नष्टस्य च कथं प्रतिभासः । केवलाबुद्धिः प्रतिभासमाना कथं ग्राहिकात्वेन
ग्रहणत्वेन वा प्रतिभासेत । तथात्मादयोपीति चोद्ये आत्मसमवेतत्वेन वाध्यारोपोनादिकालिक
314
उपजायत इति परिहारः स्यात् । तथा च सति तथैव भावनाबलादुपजायमानाः । प्रज्ञादयो
वा सुखादयोपि बोधरूपा एव ।
ननु तथापि बुद्ध्यादीनां स्वसम्वेदनरूपतान्नाभ्युपगच्छन्ति परे । नन्वसम्वेदनत्वेपि सति
न प्रत्यक्षता नान्तरत्वमिति प्रतिपादितं । स्वसम्वेदनत्वे पुनस्तथाभूतमेवात्मानञ्चकास
यन्त्यर्थञ्च सा चकास्तीति युक्तमेतदेव ।
अथ भावनावलादपि सुखादय उदयत्यागिना आत्मसमवायिन एव सन्त एकार्थसमवा
यिविज्ञानग्राह्याः ।
अत्रोच्यते ।
यद्भावनाबलादिदमुपजायते इति प्रतिपाद्यते (।) न तत्रापरा प्रक्रिया को समुपजाय
मानोपलभ्यते । एवञ्चैवञ्चेदमिति । अपि तु भावनावलाद् यथैतद् दृश्यते तथैवेतदिति
व्यवहारः । किम्वैकार्थसमवायकल्पनया प्रयोजनं । कस्य तर्हि तत् सुखं यद्यात्मनि सम
वायो नेष्यते । एवन्तर्हि कस्य स आत्मा यद्यन्यत्र तस्य समवायानिष्टिः ।
स्वतन्त्र आत्मा नित्यत्वात् पराधीनः कथं हि सः ।
आत्मा हि नित्यत्वात् स्वातंत्र्यदनाश्रितो युक्त इति युक्तमेतत् । सुखादयस्तु
गुणा अनित्याश्च ततो नियमेन तेषामाश्रितत्वेन भाव्यं । तदेतदसद् (।) यतः ।
यदि गुणत्वं प्रथमं सिध्येत् तदा गुणेनाश्रितेन भवितव्यमिति कल्पनावतारः । न च
तत् सिध्यति पराश्रयत्वात् सिद्धेः । नाश्रयाश्रयिभावः कस्यचिदस्तीति प्रतिपादितमेतत् ।
यद्यप्युक्तन्नित्यत्वात् स्वतन्त्र आत्मा न सुखादयो विपर्ययादिति ।।
यदि तन्नोत्पन्नमेव कथमस्य परायत्तता । अथ कुतश्चिद्धेतोरूपत्पन्नन्ततोपि का तस्य
परायत्तता । स्वकार्यजनने परायत्ततेति चेत् । स्वहेतोरेव कार्यजननन्तस्येति नायाधीनतायोग
इत्यलम्प्रसङ्गेन ।
तस्मात् सुखादय एव स्वतन्त्रा भवन्तु किमाश्रयेणात्मनोपकल्पितेन ।
अस्वसम्वेदने च सुखादीनां कथमर्थग्राहकता । एकार्थसमबायिविज्ञानेन वेदने भविष्य
तीति चेत् । अत्रोच्यते । किमेकार्थसमवायिना विज्ञानेनेन्द्रियजेन वेद्यन्तेऽथान्येन । न
तावदिन्दियविज्ञानेन । यतः ।
सैवेन्द्रियबुद्धी रूपाद्यभिनिपेशिनी कथं सुखादीनेव प्रतिपद्यते या चक्षुरादिना रूपादिषु
नियुक्ता । नहि सुखे प्रवृत्तञ्चक्षुर्ममेति बुद्धिः । अथ सुखाग्राहकम्विज्ञानं रूप एव प्रवृत्तं
वर्त्तयिष्यति (।) तथासत्यतिप्रसङ्ग इति प्रतिपादितं । अनुमानस्यापि चाक्षुषत्वप्रसङ्ग इति ।
अथेन्द्रियज्ञानादपरो ग्राहकाकारो नोपलभ्यते तेन तेनैवेत्युच्यते । विकल्पोपि तर्हि
समानकाल इन्द्रियविज्ञानेनैव गृह्यत इति प्राप्तं । अनुमेयेपि प्रसङ्ग इति निवेदितं । न हि
तत्रापरो ग्राहकाकार उपलभ्यत इति । अथ ग्राह्याकारात् तथा ग्राहकाकारपरिकल्पना ।
विकल्प्येपि शब्दे समानमेतत् । सुखादावपि ग्राहकाकारः किन्न कल्प्यत इति चेत् । न (।)
ग्राह्यत्वेनाननुभवात् । नह्यैकार्थसमवायेपि ग्रहणान्तरेण ग्रहणाद् ग्राह्यता नास्तीति
शक्यम्वक्तुं । एकलोलीभावेन प्रतिपत्तेरिति चेत् । स तर्हि तदात्मा सुखम्बुद्धिर्वा ।
एकस्यापि स्वरूपेणाग्रहणात् सुखाकारमेव केवलं सम्वेदनम् (।) अपरस्याप्यसम्वेदनस्य सुखाभाव
इति चेत् । न (।) परोपधानत्वस्याप्रतीतेः । वृक्षपिण्डाकारप्रतिपत्तिवत् । अथानु
मानात् परोपधानता साध्यते । यत् प्रतीयते तत्परोपधानं पिण्डवत् । न । बाह्यार्थाभाव
प्रसङ्ग्ात् । वासनोपधानस्य सम्भवात् । तस्मात् यद् यथा प्रतीयते तत् तथैवोपग
न्तव्यं । न तु तदनुमानेनान्यथा स्थापनीयं । ततो वाह्यार्थः स्वरूपेण ग्राह्यतया प्रतीयमान
स्तथावस्थाप्यते प्रतीतिमात्रानुबन्धित्वात् स्थापनायाः । सुखादिकन्तु न ग्राह्यतया वेद्यते
ततः स्वसम्वेदनं ।
अथात्ममनोयोगमात्रादुत्पन्नं ज्ञानं सुखादीनां ग्राहकं नेन्द्रियज्ञं । तथा सति युग
पञ्ज्ञानानुदयात् क्रमग्रहणेन भाव्यं । ततश्च ।
क्रमग्रहे ह्यपगम्यमाने न सुखादिबुद्धिरविच्छिन्ना प्रतिभासेत । अयमेव हि क्रमो
यदसहभूतत्वन्नाम । सहैव च रूपादिग्रहणेन सुखादिग्रहणामुपलभ्यते । तत्र च सह
ग्रहणमिति विरुद्धं । न हि विरुद्धयोरेकत्र भावः ।
यदि सुखग्रहणस्य लघुवृत्तेरविच्छेदप्रतिपत्तिः प्रतिपत्तिरेव नान्तराप्रतिपत्तिः ।
तदेतल्लाघवमग्रहणेपि सुखादेः समानमित्यग्रहणमेवाविच्छिन्नं सुखरूपयोः प्रसक्तं । अथा
ग्रहणमप्यविच्छिन्नं प्रतिभात्येव । यतः ।
ततश्च सुखास्याविच्छिन्नमग्रहणम्भवेदित्ययमर्थो रूपोदेर्ग्रहणमविच्छिन्नमिति । तद
स्त्यव एवम्विपर्ययेपि वाच्यं । ततः सिद्धसाधनमेवैतदग्रहणन्न किमिति । अत्रोच्यते ।
न हि स्वरूपेण कस्यचिदसावभावोऽपि तु तद्विविक्तत्वेन । ततश्च रूपग्रहणं सुख
ग्रहणविविक्तमुपलभ्यत इत्यभ्युपगमे तद्विविक्तग्रहणं लाघवेनेति तदविच्छेदस्य सम्भवात्
कथं सुखसम्वेदनं । सुखसम्वेदनस्यापि स एव क्रम इति द्वयोरप्यग्रहणमिति (।)
साधूक्तमग्रह एव न किमिति । न हि परत्राप्युपलभ्यमाने परस्य तद्विविक्तग्रहणं ।
तद्विविक्तग्रहणमेव तत्स्वरूपस्य तत्राप्रवेशादिति855 चेत् । न । परस्परस्वरूपाप्रवेशग्र
हणेऽक्रमग्रहणं समानकालग्रहणेपि सम्भवात् । अवयवावयविनोस्तुल्यकालग्रहणाभ्युपगमात् ।
ननु दूरतस्सान्तरानेककेशग्रहणेनान्तरस्याग्रहणेप्यग्रहणमेव केशरूपस्य । तत्र यथा
निरन्तरकेशरूपग्रहणेन तदन्तराग्रहणम्बाध्यते न तथान्तराग्रहणेन केशग्रहणबाधा । एवम
त्रापि नाग्रहणमन्तरा ग्रहणस्य बाधकं । अत्रोच्यते ।
कस्मादन्तरग्रहणमेव न भवतीति चेत् ।
न च बाध्यं । केवलम्व्यपदेश एव यथाकथञ्चिल्लोके निरूढिमागतः । तत्र तु पुनः
सुखरूपादिग्रहणयोरग्रहणन्नोत्पन्नमिति न युक्तं । तथा सति न क्रमग्रहणसम्भवः । अस्त्ये
वाग्रहणन्तत्र परङ् ग्रहणन्नोत्पन्नमिति चेत् । नैतदस्ति ।
ग्रहणेन हि स्वप्रकाशात्मना भवितव्यं ग्राहकस्य तु कारणात्मनः कर्त्तुर्वा ग्राहकमपर
मिष्यतां । अप्रकाशे ग्रहणे सर्व्वार्थाग्रहणप्रसङ्गः । ग्रहञ्चेत् स्वप्रकाशमिन्द्रियादन्यतो वा
यदि भवेत् किमिदानीमपरेण ग्राहकेणेति चेत् । अयमपरोऽस्यैव दोषः । न त्वप्रकाशं स्वयङ्
ग्रहणन्नाम । अपरेण प्रकाश्यते तच्चेत् । नन्वपरेणापि प्रकाशनम्परोक्षमेव तस्याप्य
परेणेत्यर्थतैवायता सर्वस्य जगत इति प्रतिपादयिष्यते । तच्च प्रतिभासमानम्परस्परकाल
विवेकेनोत्पन्नङ्कथम्परस्परस्य न बाधकमिति यत्किञ्चिदेतत् । अथ सुखग्रहणम्बाध्यत
एव कदाचित् केवलस्य रूपादेर्ग्रहणात् । तथा हि मनोहारिरूपदर्शनेप कदाचिन्न सुखसम्वे
दनमस्ति ततः केशान्तरग्रहणमेव सुखग्रहणमपि नोत्पन्नमिति बाधनमवस्थाप्यते । नैतदपि
सत् । यतः ।
यथा केशग्रहणमन्तरा ग्रहणस्य बाधकं सर्वदैव । एवं रूपादिग्रहणमपि सुखादिग्रहणस्य
स्यात् । न च परमार्थतस्तत्केशग्र (ह) णं केशस्वरूपस्याप्रतिपत्तेः । यदा तु सुखा प्रतिपत्तिः
केवलरूपादिग्रहणे तदा सुखमेव नोदपादि । न तूत्पन्नमग्रहणं केवलमिति व्यवस्था । अनुप
लम्भादनुत्पन्नव्यवहार इति चेत् । उ (ि) च्छन्न इदानीमुत्पादादिव्यवहारस्ततोनुपलब्धि
रपि । तस्माद् यदैव सुखादीनामुत्पत्तिग्रहणस्य तदैव सुखादीनामुत्पत्तिः । तदापि न
रूपादिग्रहणेनाभिभवः (।) भवन्मते केशान्तराग्रहणवत् प्राप्तः । अथैकैवेन्द्रियबुद्धिरथ
सुखादिग्रहणे प्रवर्त्तिष्यते तेनायं क्रमग्रहणदोषो भवेत् । तदसदित्याह ।
यदीन्द्रियबुद्धिरेवार्थसुखादिग्राहीणी युक्तं न चैतदिति प्रतिपादितं । आत्ममनः
संयोगमात्रजेनातिन्द्रियजेन सुखादिकं गृह्यते प्रत्ययेनेत्यभ्युपगमात् । अथ कश्चिदेवमप्यु
पगच्छेत् तदपि न शक्यं (।) सुखाद्यभावेप्यर्थादेव केवलादुत्पादादिन्द्रियबुद्धेः सुखादीनां
कारणत्वानिर्द्धारणात् । यो हि येन विना नोत्पत्तिमान् सत्स्वपि समर्थेंष्वन्येषु तस्य तत्कारण
त्वावधारणं । न च रूपादिसामग्र्यमपि विना सुखादिकमनुत्पत्तिमदिन्द्रिय चेतः ।
अथापि स्यात् (।) नीलं यदा पीतेन सहेन्द्रियवेदने प्रतिभाति न तदा तस्य सामर्थ्य
स्यान्नीलमन्तरेणापि पीतादुत्पत्तेः । अथ च तत्रापि तस्य सामर्थ्य । अथ नीलपीतावभासि
विज्ञानन्न केवलात् पीताज्जायते । एवन्तर्हि सुखरूपावभासस्यापि न केवलाद् रूपादिति
समानो न्यायः । न समानमेतत् ।
अभ्युपगमे वा ।
रूपादेरेव सुखादिरहितादुत्पद्यते तदक्षविज्ञानं । न हि विज्ञानात् पूर्वसुखादिकमस्ति
रूपवत् विज्ञानेन सह तत एव रूरादेस्तस्योत्पत्तेः । अथ समानकालभाविनोपि सहभूहेतुत्व
मिष्यते । तदसत् । सहभूहेतुत्वेन परस्परप्रतिबद्धं द्वयम्भवतु भूतवन्न तु वेद्यवेदकभावः ।
अपि च पृथक् सामर्थ्ये केवलं सुखादि गृह्येत (।) नीलवदेव गृह्यत एवेति चेत् (।) न ।
न हि सुखहेतुरूपादिग्रहणमन्तरेण सुखादिग्रहणं युक्तं । सम्वेद्यमानमप्ययुक्तमेव । न खलु
ललनालालित्यप्रतिपत्तिमन्तरेण सुखेन कश्चिदर्थी । तदैव तत् सुखमिच्छति सकलः कामी जनः ।
न चैवमुपलब्धिः (।) अथ तस्यैव सामर्थ्यम् (।) एवन्तर्हि चन्द्रमसोपि द्वितीयस्य स्यात् ।
अत एवाह । अर्थेनैव सहग्रहे (।)
न ह्यन्वयव्यतिरेकमन्तरेण सामर्थ्यसिद्धिः । न चेष्यते नेष्टैव तदुद्भवा चक्षुरादिबुद्धिः
परेषामिति । अपि च ।
सुखदुःखादिहेतुत्वेन रूपादिकम्प्रतिकूलाप्रतिकूलत्वेन च सत्र्यादिकन्न गृह्येत । केवलस्य
ग्रहणे कारणं किमप्यस्ती (ति) प्रतीतिः स्यात् । सहग्रहणे कारणप्रतीतिरिति चेत् । परस्पर-
न्नीलादीनामपि कारणत्वप्रतीतिः स्यात् । न च भवति । तस्मादनुपपन्नमेतत् । यदि च
सुखं केवलञ्चक्षुरादिना गृहीतुं शक्यं तदा रूपादिग्रहन्नैवोपजायते । यतः ।
बाह्यस्त्र्यादिभेददर्शनमन्तरेण यदि सुखसम्वेदनमेव न भवेत् तदा बाह्यदर्शनन्तन्ना
न्तरीयकत्वात् सुखसम्वेदनस्य । अथार्थग्रहो पीष्यत एवेति मतिस्तदायमपरो दोषः ।
अर्थग्रहणकाले हि यद्यपि सुखमुदयवत् तथापि तस्य ग्रहणसामग्री नास्ति । इन्द्रिया
र्थमनःसंयोगभाविना मनसारूपाद्यर्थस्य ग्रहणं । न चापरम्मनोस्ति युगपज्ज्ञानोत्पत्त्य857 नभ्यु
पगमाद् (।) अतस्तज्जं सुखादिकन्न गृह्येत । अथ युगपद् विज्ञानोदय इष्यते तदाप्यपरो
दोष इत्याह ।
अर्थस्येष्टानिष्टस्य सम्भवे सति युगपत् सुखदुःखादिसम्वेदनं निवारयितुन्न शक्यते ।
ननु दृश्यत एवैतत् । तथा हि शीतकाले शीतोष्णस्पर्शसम्वेदनजन्मनी सुखदुःखे
वेद्येते । तदप्यसत् (।) यतः । सदा स्यातामित्यभिप्रायः । न च रणरसावर्जितचेतसः
स्वामिसम्माननोपकारनिर्देशपराधीनमात्मनं सफलञ्चिकीर्षतः शास्त्रसंस्पर्शदुःखसम्वेदनं (।)
अवश्यञ्च दुःखहेतुसद्भावे तदुत्पत्तिः । ततश्च सुखदुःखसहसम्वेदनप्रसङ्ग ।
अथापरेणाभिभवात् परस्यावेदनं । तदयुक्तमभिभवस्यासम्भवात् । महत्त्वादिनाभि
भव इति न सम्यक् । हस्तिमशक्योर्युगपत् प्रतिपत्त्यभावप्रसङ्गःत् । इष्टत्वेनेत्यपि न
सम्यक् । द्वयोरपि सह दर्शनात् । दुःखसुखयोर्हि युगपदनुभवस्य प्रतिपादितत्वात् । पटसं
स्कारात् क्वाप्यनुभव इति चेत् । न । भावनाव्यतिरेकेण संस्कारस्यापरस्यादर्शनात् ।
भावनाबलेन चेदुत्पत्तिस्तु वः सुखादयस्तदा बोधरूपा एवेति प्रतपादितं ।
अथापि स्याद् ।
इयमप्यलीककल्पना । यतः ।
यद्वस्तुबलतो ज्ञानं जायते तत्र भावनां । नाङ्गीकुर्वन्ति विद्वान्सस्तथाचेदसमंजसं ५०७ ।।
यदि सुखादिकं सन्निहितमेव तद्भावनामन्तरेणापि दृश्यन्त एव । न हि प्रागचिन्तिता
ननुभूता भावा एकदैव नोपलब्धिविषयः । तत्रापि व्यवहिता भावनास्तीति चेत् । किमत्र
प्रमाणं (।) अपि च । ज्ञानस्य भावना नार्थाकारभावनां विना (।) केवलस्य भावयितुम
शक्यत्वात् । भावनाबलेन चेदुदयवज्ज्ञानं किमर्थादिकमपेक्षते । अथार्थेन सहाभ्यासात् तथा
सत्यर्थाकारोपि भावनाबलादेवोपजायते । तथा सति स्वप्नादिज्ञानवदर्थरहितमेव ज्ञानमिति
बाह्यरूपसुखादिविज्ञानात् सिषाधयिषतार्थस्याप्यवाह्यरूपता साधितेति महती परस्य परदूष
णाभिज्ञता ।
अथापि मतिः (।) युगपत्सुखदुःखासम्भव एव यतः ।
यद्युपादानपूर्वकं ज्ञानमपेक्ष्य सुखादि सम्भवति तदा नोपादानमेकं विरुद्धस्य युक्तं
द्वयस्य । किन्तु तदेवायुक्तं विरुद्धानामपि ज्ञानं सुखादीनां दृष्टं । अथ विरुद्धस्योपागानन्न
भवत्येव । तथा सत्यविज्ञानस्य विज्ञानमुपादानं कथम्भवेत् । न चोपादानभावो नाम
आधिपत्यमेव केवलं कारणानां कार्ये (।) तच्च विरुद्धेपि । यथा कौशिकेतरयोरक्ष्णो
रुपधातेतरौ भवत आलोकादेकस्मादेव ।
यद्यबोधरूपाः सुखादयो रूपादिसामग्रीतो विज्ञानसमानकाल एवोदयवन्तस्तदा
सर्वदेष्टानिष्टविषयसंमुखाभावे युगपत् सुखदुःखविदौ स्यातां । तवापि कस्मान्नैवमिति चेत् ।
न (।) वासनाप्रबोधस्य तादृशस्याभावाद् रूपादिविकल्पवत् । कदाचिदेव कस्यचित्
किञ्चिदेव भवति वासनाप्रबोधकारणं । ममाप्येवमिति चेत् । न । यतः ।
ननु स्मृत्यादयोपि न स्वरूपसम्वेदनात्मकास्तत्राप्यर्थस्यैव प्रतिभासनात् । वर्ण्णसं
स्थानात्मकं तत्रार्थरूपमेव प्रतिभाति (।) न चापरन्तत्र विज्ञानरूपं सम्वेदनविषयः (।)
तस्मात् परोक्षैव सकला बुद्धिः ।
न ह्यर्थः स्वेन रूपेण भासमानो प्रत्यक्षो भवितुमर्हति, स्वरूपप्रतिभासस्यैव प्रत्यक्ष
त्वाद्, अन्यस्य प्रत्यक्षलक्षणस्याभावत् । तथा सति न प्रत्यक्षस्मरणयोर्विशेषः । अथ
पूर्वत्वेन परोक्षतया च प्रतिभाति ततोयमदोष इति चेत् । केयम्परोक्षता नाम । न हि
सा प्रत्यक्षेणोपलब्धा ।
न हि स्मरणपूर्व्वार्थविषयं । अथ गृहीतस्यैवार्थस्य परोक्षताग्रहणात् स्मरणं
तदिति मतिः । तदप्यसत् ।
यो ह्यर्थस्य स्वभावः स प्रत्यक्षे प्रतिभाति यथा नीलादिता । शक्तिनियमात् स्मरण
320
एव प्रतिभातीति चेत् । यथा भावाभावात्मके वस्तुनि भावरूपता प्रत्यक्षेण गृह्यतेऽभावरूपता
तु पररूपेण भावप्रमाणगोचरः । तदपि स्वपक्षपातित्वं । तथा हि ।
आकारभेदलक्षणत्वाद् भावभेदस्य । आकारस्य भेदेनाप्यभेदे सकलमेकरूपम्भवेत् ।
अथ भावयोराकारभेदादिनैकता न भावाभावयोः । भावयोरभावतो भेदात् । भावाभाव
योस्तु नापरो भावः । अन्यथानवस्था स्यात् ।
यदि प्रत्यक्षेण भावांशः परिगृह्यते प्रमाणान्तरेणाभावांशस्तथा सति परस्परेणा
मिश्रता प्रतिपत्तेः कथमेको भावाभावात्मको भवतीति प्रतिपत्तिः । यदि चक्षुर्विज्ञानेन रूप
प्रतिपत्तिरन्येन शब्दादेः (।) कथम्मयैव द्वयम्प्रतिपन्नमिति कर्त्तुरेकताप्रतिपत्तिः । अनादि
वासनात एषा प्रतीर्तिर्न तु तत्त्वत इति कस्यात्रोपालम्भः । एवमत्रापीति चेत् । यद्येवमनादि
वासनाबलादेवाभावव्यतिरेकप्रतीतिरपि भविष्यति किमर्थान्तरकल्पनया । प्रमाणमपि तद
भावाख्यं वासनाबलभाव्येव न पारमार्थिकं । ततो विलक्षणत्वादेक ततो व्यावृत्तं किमभावेन ।
वैलक्षण्ञ्च प्रत्यक्षत एव प्रतिभाति । तत इदमत्र नास्तिति तदुत्तरकालभावी तत्सामर्थ्य
भावी गृहीतग्राहित्वादप्रमाणमेव नाभावो नाम प्रमाणान्तरं । अभावेन प्रमाणेन मयाऽभाव (:)
प्रतिपन्न इति प्रतिस्विकोयम्व्यवहारः । लोकस्य तु येन मया नोपलब्धन्दर्शनयोग्यं सत्
तेनेह नास्ति तस्य चात्राभाव इति समानार्थो व्यवहारः । सा चानुपलब्धिः प्रत्यक्षमेवेति
वक्ष्यामः । परमार्थतस्तु नाभावो नाम प्रमाणान्तरन्न च प्रमेयमित्यसिद्धौ दृष्टान्तस्तदात्म
केपि शक्तिनियमे ।
अपि च (।) यथाऽभावः प्रमाणान्तरन्तथा स्मृतिरपि स्यात् । परोक्षत्वे प्रमाणमेव
स्मृतिरिति चेत् । न । प्रमाणलक्षणायोगात् ।
स्यादेतत् (।) परोक्षत्वे ज्ञाने सत्यत्रेदानीम्प्रत्यक्षस्यानवसर इत्यनुमानं प्रवर्त्तयन्ति
प्रेक्षावन्तः (।) तत इदं प्रयोजनं परोक्षत्ववेदनस्येति स्मृतेः प्रामाण्यं (।) नैतद् (।) यतः ।
सम्बन्धग्रहणपक्षधर्म्मसमाश्रयणमात्रकादेवानुमानप्रवृत्तेः । न हि कश्चिद् धूमादिकार्यदर्श
नानन्तरमुपजायमानानुमानवह्निग्रहणे परोक्षतान्ततः प्रागेवावधारयति । अवधारेणे वा
प्रयोजनं । अथ कदाचिदवधारयप्रत्येव कञ्चिदिति चेत् । तदपि यत्किञ्चित् । तथा हि ।
प्रयोजकोऽङशः किं कश्चित् कदाचित्कतयेक्ष्यते ।
प्रयोजको हि कारणमेव । न चान्वयव्यतिरेकव्यतिक्रमे कारणत्वन्तल्लक्षणकत्वात्तस्य ।
अपि च ।
अनुमानकालभावी हि योर्थः स न स्मरणगोचरः (।) अन्यथानुमानस्य वैयर्थ्यमर्थादा
पतति । परोक्षतया तस्य स्मुत्यैव ग्रहणात् । परोक्षतामेव तस्य स्मृतिरवगच्छति न तदा-
तनसत्तामिति चेत् । कस्य तर्हि सा परोपक्षता प्रतीयते । पूर्वगृहीतस्येति चेत् । तत्काला
वधेरेव वस्तुनः (।) तर्हि स्मरणं परोक्षतां वेत्ति नान्यस्येति व्यर्थकमेवं स्मरणं । स्मृत्वा परोक्षता
म्प्रवर्त्तते ततः प्रमाणं स्मरणन्नानुमानप्रवर्त्तनादिति चेत् । स्मृत्वा प्रवर्त्तत इति विचार्यमेतत् ।
किन्तत्कालसत्तायां प्रवर्त्ततेथेदानीन्तन्यामिति ।
इदानीन्तनमस्तित्वन्न स्मृत्या ज्ञायते ततः कथम्प्रमाणता । पूर्वकालेऽर्थे परोक्षता
ज्ञायते स च प्राप्तुमशक्यः । अथवा प्रत्यक्षेणैव परोक्षताग्रहणं । तत्कालावधेर्ग्रहणं यत्
प्रत्यक्षेण तदेवोत्तरकालपेक्षया परोक्षत्वमिति । तदाकारता तु संस्कारबलादस्यात्मभूतैव
स्मरणस्य । तथाभूतार्थ एवासाविति चेत् । नार्थताधिमुक् । अधिमोक्षवशादेव तथा
तत्त्वव्यस्थितिः । स्वरूपं हि स्वसम्वेदनेन प्रतीयम/?/नमर्थ इति वा नर्थ इति वा न व्यवस्था
माप्नोति । तदुत्तरयाधिमुक्त्या तथा व्यवस्था । सा च नास्ति स्मरणाकारे । तथा हि (।) सोर्थो
योर्थो दृष्टः पूर्वमयन्तु पुनराकार ददानीं भावनाबलादेवोदयभागि ति प्रतियन्ति प्रेक्षावन्तः ।
यथास्वसम्वेदनसंस्कारादुपजायामाना स्मृतिरात्मसंक्रान्तार्थाकारस्य साम्विदेका तथा
सुखादयोपि । यतस्तेपि भावनासंस्कारसमुपनतान्तरं स्प्रष्टव्यविशेषस्यात्मभूतस्यैव वेदकाः ।
कथन्तर्हि रूपादिकार्थपेक्षणं तद्द्वारेण तदनुरूपवासनाप्रबोधात् ।
आलिङ्गनसुखसम्वेदनसंस्कारो हि गाढतरमुपजातः पुनस्तादृशरूपदर्शनात् प्रबोध
मुपगच्छँस्तथाभूतमेवान्तरस्पर्शसुखसम्वेदनं जनयति । एतदेव दर्शयति ।
स्वात्मभूत एवान्तरस्प्रष्टव्यविशेषः सुखादिभिरनुभूयते (।) तत्र एवार्थानुभ (व) ख्यातिः ।
अन्यथा परसम्वेदनें तेनेति न सम्बन्धो भवेत् । तथा हि ।
स्वरूपानुभवो युक्तः स्वरूपं हेतुतो यतः । परस्य रूपानुभवः कथं तस्य पृथककृतः ५१९ ।।
यस्य हि यत्कार्यन्न तेन कारणेन तदवगम्यत इति न्यायः । अन्यथावबोधादुपजा
यमानः कायिको व्यापारस्तेन वेदितो भवेत् । तस्मादात्मरूपमेव वेदयितुं युक्तं । अथो
न्मुखीभावाद्धि वेदनं न स्वसम्वेदनात् । तदयुक्तं ।
न ह्यप्रतीयमाने स्वरूपेणार्थे तदुन्मुखताप्रतीतिः प्रतीयते चेदर्थः स्वयं किमिदानीं322
सम्वेदनान्मुख्येन । न खलु सिद्धोपस्थायी तदुपयोगी । तेन विनार्थस्य प्रतिभासनाप्रतीतेरिति
चेत् । तेन तर्हि सहैव प्रतिभासमानतास्तु केवलं न तु ततः परं (।) ततस्तस्य ग्रहणमिति
याचितकमण्डनमेतत् । अपरः ।
नियमेनेति वाक्यशेषः । न हि नीलादिवत् स्वतन्त्रमालम्बनन्नियमेनान्येनैव सह
नीलादिना सुखादि गृह्यत इति कारणमस्ति । अथ सुखदुःखदिरूपप्रधानविपरिणतिरूपा
एते सुखादयः । तथा हि प्रक्रिया । प्रधानान्महान् महतो हंकारो हंकारात् पञ्च तन्मात्राणि859
पञ्चबुद्धीन्द्रियाणि पञ्चकर्मेन्द्रियाणि मनश्च पञ्चतन्मात्रेम्यः पञ्चमहाभूतानीति । एतावदेव
सकलम्विकारजातं । प्रकृतिस्वरूपान्वयी च विकारः । तद्यथा मृद्विकारघटादिकः । अत्रोच्यते ।
सुखादिरूपप्रधानरूपा एव सुखादय इति कुत एतत् । तद्रूपान्वयदर्शनादिति चेत् ।
तथा हि (।) मृद्विकारास्तदन्वयिनो दृश्यन्ते ।
नन्वनैकान्तिकमेतत् । भेरीदण्डसंयोगादुपजायते शाब्दो न च भेरीदण्डरूपान्वयी ।
यद्यपि वायोरणूनां शब्दस्य शब्दत्वापत्तिरिष्यते । तथापि न सिद्धमेतत् । अथ मृद्विकारवत्
समानजातीयमत्रापि कारणं परिकल्प्यते । एवन्तर्हि यत्किञ्चित् कार्यन्तद्रूपं तत्सर्वम्विजातीयाद्
यथा शब्दादि । कार्यञ्च घटादिस्तदपि विजातीयादेव । कुलालादिकञ्च विजातीयं । सत्स
जातीयादेव सकलमुदयवदिति न व्याप्तिः । सजातीयविजातीयाद्वोदयवदिति विपर्ययसिद्धिः ।
नासहायं सजातीयं कारणन्दृश्यते क्वचित् ।
अथ सकलमेव सुखाद्यन्वितं दृश्यते (।) तेन सुखादिस्वभावमेव कारणं मृद्विकाराणां
मृत्पिण्डवत् । उक्तमत्र । सहायस्याप्यपरस्य कारणत्वात् । तत्समानासमानजातीयं
प्रसक्तङ्कारणमिति न प्रधानसिद्धिः ।
अपि च (।) सुखादीनामपि ग्राह्यताद्यन्वयादपरं ग्राह्यं प्रधानं सिध्यति । ततः
पर्यन्ते ग्राह्यतावस्तुत्वमित्यादि कारणं स्यात् । अथ तदपि सुखाद्यात्मकं (।) सुखाद्यात्म
कत्वादन्वयिनः पदार्थादित्वस्य । एवन्तर्हि घटाद्यात्मकत्वात् सुखादीनां घटाद्यात्मकत्वं प्रधान
स्य प्रसक्तं । अथेष्यते एव सर्वात्मकत्वन्तस्य । यदि सर्व एव विकारग्रामः प्रधानात्मनि
तेनैवात्मरूपेण परस्परव्यावृत्तेन वेद्यते क इवात्र प्रकृतिविकारभावः । आविर्भावतिरोभाव
मात्रकमिति चेत् आविर्भावो विकारस्तिरोभावः प्रकृतिः । कोयमाविर्भावो नाम कोयन्तिरो
भावः । व्यक्तिराविर्भावो नाम (।) कोयन्तिरोभावः । व्यक्तिराविर्भावस्तदभावस्तिरोभाव
इति चेत् । केयम्व्यक्तिः (।) दृश्यात्मता (।) तदभावोनुपलब्धिस्तिरोभाव इति ।
ननु सिद्धस्वभावे प्रमाणे न तस्यानुपलब्धिरिति शक्यम् (।) असिद्धौ त्वभाव एवोत्पत्ति
रिति न प्रधानसिद्धिः । यदि चानुपलब्धा घटादयः पूर्वमेवं भूता एव तिष्ठन्ति किम्प्रधान-
कारणपरिकल्पनेन । सुखादिरूपतैवैषां प्रधानमिति चेत् । न । सुखादिरूपताया भेदेन
ग्रहणात् । भिन्नावभासि मनोग्राह्यञ्च कथमभिन्नं । अपि च ।
यदि बाह्यनीलादिरूपा एव सुखादयः । न तर्हि नीलादिवदेव भावनाविशेषतः प्रीति
परितापादिविशेषसम्भवः । न खलु नीलादिस्वरूपनिर्भासो भावनाविशेषतो विशिष्यमाण
उपलब्धः (।) तथा चेद् भावनान्वयमेव सकलमान्तरम्बाह्यञ्चेति भावनाबलप्रभवमतत्त्वमेव
सकलं जगदित्यापतितं । बहीरूपेण च प्रतिभासप्रसङ्गो यदि बाह्यः सुखादयः । भ्रान्तिरिय
मिति चेत् । न । भ्रान्तिकारणादर्शनादबाधनाच्च ।
स्यादयभिप्रायः (।) प्रधानपरिणतिस्वभावा यथा शब्दादयस्तथा बुद्धिरपि । अत
आत्मना बुद्धिरूपसुखादिवेदने नियमेनाबहीरूपवेदनं । भावनातारतम्यतो बुद्धितारतम्ये
सुखादीनामपि तदात्मना तारतम्यं । भावना हि नामाहंकारमनःप्रवर्त्तिता । स चाहङ्कारो
बुद्धावहमिति । मनसश्च सङ्कल्पात्मकत्वात् संकल्पकमन एव भूयो भूयो भावना । ततो
बुद्धिः सात्विकाहङ्कारपराधीनां सुखात्मताप्रतिपन्ना सती तथा प्रकाशते । यद्येवम्बाह्य
रूपाः सुखादय इति कथमवगतिः । बाह्यानामपि शब्दादीनां प्रधानपरिणतिरूपत्वादित्यपि
न सङ्गतः समाधिः ।
यदि शब्दादीनां बुद्धिवत् सुखाद्यन्वयः प्रमाणतोऽवधार्येत तदा कारणान्वयि कार्यमिति
तथाभूतकारणजन्यतां जानीयाज्जगन्निवासी जनः । सुखादिरूपप्रधानविपरिणतेरेव तथा
निश्चय इति चेत् । इतरेतराश्रयणमेवैतत् । तथा हि ।
प्रधानपरिणामित्वे शब्दादीनां सुखाद्यन्वयः (।) सुखाद्यन्वये च निश्चिते प्रधानपरिणति
रूपतेत्येकासिद्धावुभयस्याप्रसिद्धिः ।
अपि च(।) यदि नामाग्निपरिणतिरूपता धूमस्य तथापि किन्तस्योज्ज्वलत्वं प्रसिध्यति ।
प्रत्यक्षबाधितत्वान्नैवमिति चेत् । समानं शब्दादिषु ।
स्यादेतद (।) यदि शब्दादयो न सुखरूपाः स्युस्तेषां ग्राहिका न बुद्धिः स्याद् भिन्न
जातीययोर्ग्राहकताऽयोगात् । अत्रोच्यते ।
न हि पुमान् शब्दादिसमानजातीयस्तस्याप्रधानात्मकत्वात् । सुखादीनान्तु विपर्ययात् ।
भवतु तस्याग्राहकत्वमिति चेत् । न । भोक्तृत्वाभावप्रसङ्गात् । भोक्ता हि पुरुष
इष्यते । न चानुभवादपरं भोक्तृत्वं ।
कुतः(।)
बुद्धिशब्दादिसुखे ग्राह्यग्राहकताया भावादेव । यतो नीलादिः स्वाकारार्पणेन बुद्धि
जननाद् ग्राह्यो नान्यथा ग्राह्यता कार्यकारणताभावात् । ततो ग्राह्यतयैव कार्यकारणता
सिध्यति । सा च ग्राह्यता कार्यत्वदायिका पुंस्यपि शब्दादीनामिति (।) स चापि कार्यन्तेषां
भवेत् । न तथेत्यनेकान्तः ।
अथवा कार्यकारणतानेन प्रत्युक्ता असिद्धत्वादित्याह । अकार्यकारेण बुद्धिसुखे
ग्राह्यग्राहकताया भावात् । न हि यत्र ग्राह्यग्राहकभावस्तत्र कार्यकारणभावः (।) पुरुषशब्दादि
सुखयोरिव ।
अथ बुद्धिसुखादीनां ग्राह्यग्राहकमावादेव कार्यकारणभावः । तत्वादेव तर्हि सा कार्य
कारणता । एवं सति पुंस्यपि कार्यताप्रसङ्ग इत्यनिष्टमनैकान्तिकता वा तेनैव ।
अथवा न कार्यकारणे बुद्धिसुखे ग्राह्यग्राहकताया अभावात् । भावे वा सान्यत्रापि
भवेत् ।
कुतः(।)
बाह्यत्वे प्रमाणाभावादान्तरत्वेनैव सम्वेद्यमानत्वात् ।
न हि यद् रूपं सम्वेदनन्न भवति तत् तस्य वेदनं । न च सुखादीनाम्बाह्यरूपानुरूप
म्वेदनम्(।) अन्यथा वेदनमन्यथा पदार्थ इति न युक्तं । न हि नीलस्य वेदनम्पीतस्येति युक्तं ।
तथा सम्वेदनं स्वविद्रूपतया प्रवर्त्तमाने स्वविद्रूपतामेवावेदयते । न हि परेण प्रतीयमानाः
सुखादयो वेद्यंते । रूपादयस्तु चक्षुरादिवत्या वेद्यन्त इत्यसम्वेदनरूपाः । अथवा निराकारणे
न गृह्यन्ते सुखादयस्ततः सुखाकारेणैव वेद्यन्त इति सुखाकारता विज्ञानस्य सिद्धा (।) तदन्त
र्गतं सुखम्बोधरूपमेवेति सिद्धं । घटादिवदेव तर्हि सुखादयोपि बाह्यास्स्युः । न युक्तमेवं ।
घटाद्याकारस्य विज्ञानात्मभूतस्यापि परोपधानेनोत्पत्तेर्भावनायास्तत्र व्यापाराप्रतीतेः ।
सुखाद्याकारस्य भावनाबलतः प्रकृष्यमाणत्वान्न परोपधानाधीनता ।
ननु भावनाधीनतायामपि न सम्वेदनरूपता सुखादीनामतत्स्वभावेनानुभवेन वेदनात् ।
न हि भावनातः प्रकृष्यमाणा अपि सुखादयः सम्वेदनरूपाः । अत्रोच्यते ।
स्वसम्वेदनत्वे हि सति बोधरूपता सुखादीनान्न परेणात्मनाऽतदाकारेण । अतः कार्य-
860325तापि न भवति पुंसः । तदाकारतोत्पन्नत्वेन तस्य कार्यता भवेत् (।) न चासावस्ति तस्यातदा
कारत्वात् । अतत्स्वभाव एव हि बुद्ध्यन्तर्गतं सुखादिकमनुभवो वेति समवैति वा । ततः
समवायसम्बन्धादेकत्वाभिमानः सम्वेदनस्य बुद्धेश्च ।
केयं बुद्धिः । अध्यवसायः (।) किमिदं सम्वेदनं (।) अनुभवः ।
ननु भेदे प्रमाणे सत्येवमुच्यते । अध्यवसायः सम्वेदनमिति च पर्यायमात्रं । विषया
कारताऽसम्वेदनात्मिका बुद्धिः (।) अनाकारसम्वेदनं बोधरूपमिति चेत् । अनाकारं सम्वेदन
मिति नात्र प्रमाणं । अप्रत्यक्षा सम्वित्तेन प्रमाणाभाव इति चेत् । अनाकारसम्वेदन
मिति नात्र प्रमाणं अप्रत्यक्षा सम्वित् तेन प्रमाणभाव इति चेत् । न (।) अभ्युपगम
स्याहेतुत्वात् । न हि प्रत्यक्षाभावेनुमानमपि (।) ततोभ्युपगम एव न युक्तः । अथापरं
सम्वेदनम्विना सुखादीनामवेदनप्रसङ्ग इति चेत् । स्वसम्वेदनतया वेदने को विरोधः । ताव
तैव च समाप्तो व्यवहार इति व्यर्थमपरं ।
अथापि स्याद् (।) यदि सम्वेदनमपरन्नेष्यते तदा मोक्षावस्थायां ।
न हि स्वात्मा हातुं शक्यं । व्यतिरिक्तास्तु सुखादयो विवेकाध्यारोपगोचरीकृताः
शब्दा एव हातुं यदि नामाभेदेनेदनीन्तनावस्थायाम्प्रतीयन्ते । यदि नामेदमिष्टन्तथापि
प्रमाणाप्रसिद्धन्न सिध्यति । न हीष्टम्मम न सिध्यतीत्यप्रमाणकोर्थो भवति सिद्धविषयः ।
न च कारणानीष्टिमनुवर्त्तन्ते । न चास्यार्थस्य कारणमस्तीति प्रमाणमत्र किञ्चत् । इदानी
मेव भावनाप्तौ लेशस्य हानिदृष्टेः । सम्वेदनान्तरमेवेदानीन्तथा भूतमुपजायते न तु सुखा
देस्सम्वेदनाद् भेदावगमः । एवं मुक्तावस्थायामपीति न विरोधः । तस्मात् (।)
ननु बुद्धिसुखदुखादय इति व्यपदेशभेदादेव भेदोन्यथार्थभेदमन्तरेण कथम्व्यपदेशभेदः ।
न (।) एकमेवेदं हर्षविषादाद्यनेकाकारविवर्तम्यश्यामः । तत्र यथेष्टं संज्ञाः क्रियन्तां ।
अवस्थाभेदप्रत्यायनार्थमेव भेदव्यपदेशः । वीजाङ्कुरपत्रनाडव्यपदेशवत् ।
यदि दृष्टान्तोस्तीत्येतावतैव संसृष्टद्वयमेतदिति प्रमाणमन्तरेणैव कल्प्यते । तथा सति
सर्वत्रैकाकारप्रतिपत्ति के स्तम्भादौ नैकत्वप्रसिद्धिः (।) एकताप्रसिद्धौ च तत्समुदाय रूपस्यानेक
त्वस्यापि न प्रसिद्धिरित्युत्सीदेत् सकलभावव्यवस्था । एकानेकव्यतिरेकेण भावस्याभावात् ।
तथा हि ।
तस्मादेकासिद्धौ द्वयोरप्यसिद्धिः (।) तस्मादभिन्नवेदनमेव तद्विपर्ययादनेकमिति युक्तं ।
सां ख्य स्य तु ।
इत्यन्तरश्चोकः ।
अथापि स्याद् (।) यथा वेदनाचेतानादीनाञ्चैत्तानां महाभूमिकादीनान्न परस्परम्भेद
उपलभ्यते । अथवानुपलक्षणेपि भेद इष्यते (।) तथा बुद्धिसम्वेदनयोरपि किन्नेष्यते ।
अभिन्नवेदनमेकमिति चित्तपरिकरभूतश्चैतैरनेकान्तः । तत्रैदमुच्यते ।
नैवमभ्युपगम्यते । चित्तेभ्यश्चैतसा नान्या इति वचनात् । अभ्युपगम्य परिहारः ।
यद्यप्येकेन पटुतरवृत्तिना चेतनादितिरस्कृतं न पटुतरोपलब्धिविषयस्तथाप्यन्यदोपलब्धिविषय
इति भिन्नमेव वेदनादितश्चेतनादिकम् (।) अन्यदा स्वरूपेणोपलक्षमाणत्वात् । दिनकरनिकर
पराकृतस्वप्रकाशनशक्तिकमिव तारकानिकुरुम्बं न तदा नास्ति । न त्वेवं बुद्धिसम्वेदनयोरे
कदापि विवेकस्य स्पष्टग्रहणं । चैतसानान्तु कदाचित् कस्यचित् प्रकटीभूतस्य ग्रहणं ।
ननु विकल्पप्रत्यय एव निमित्तग्रहणादिकमुपलभ्यते नाविकल्पके । न । तत्रापि
सन्त्येव चैतसाः । तथा हि (।) कदाचिदनुभवानन्तरं निमित्तविकल्पः कदाचिदिदं करिष्यामी
त्यादि विकल्पः । ततोनुभवानुसारिविकल्पतोवसीयते सन्त्यविकल्पा अपि चैता इति ।
तत एषां भेदे युक्तिलेशोपि विद्यते नैषोपि बुद्धिसम्वेदनयोरिति परमार्थः ।। ॰ ।।
(४) योगि-प्रत्यक्षम्
चतुरार्यसत्त्यविषयं योगिनां ज्ञानं प्रागुक्तं । कुतो हेतोस्तद् भवतीत्याह । भावनामयं
भावनाहेतुकं भावनाबलेन च स्पष्टाभं(।) स्पष्टाभत्वादेवाविकल्पकं । ततः प्रत्यक्षं ।
नन्वर्थस्य सामर्थ्येन समुद्भवाद् वर्त्तमानार्थविषयमाविकल्पकमिति युक्तं । अतीतानाग
तविषयस्याविद्यमानविषयस्य च कथम्भावनामात्रादविकल्पकता । भावनाप्येव भूतकार्यसमर्थै
वेति दर्शयति अविद्यमानविषयेपि । अथा हि ।
न ह्यभूतविषयं सम्वेदनमर्थसामर्थ्यत उपजायते । न च तत् सविकल्पकं पुरःस्थितत्वेन
दर्शनात् । तथा च साक्षात्करणकारतयाऽविकल्पकं प्रत्यक्षं । अथ सविकल्पकमपि सत्
स्पष्टाभन्नाविकल्पकमिति चेत् । तन्न ।
विकल्पस्य परोक्षविषयमेव रूपमिति प्रतिपादितं । तच्च यदि न स्यात् तदेव सवि ।
कल्पकन्न भवेत् । स्वप्नेपि विकल्पाः परोक्षविषयाकाराः सम्वेद्यन्ते ।) न च ते स्पष्टावभासिनः
विप्लवबलात्तु स्पष्टतायान्न किञ्चित् स्वप्नादिष्वस्पष्टं भवेत् । दृश्यन्ते च स्पप्नेनुभूत
स्मरणाकारा विकल्पास्तस्मान्न विप्लवाद् विकल्पस्यापि स्पष्टता । ततो निर्विकल्प एव
परिस्फुटाकारः प्रत्ययः ।
अत्र वैभाषिका आहुः । ननु वस्तुनि प्रमाणप्रसिद्धे भावनाबलात् स्पष्टाभतेति
युक्तं । भावनयाऽविद्याकालुष्यापगमे स्वेन रूपेणार्थस्य प्रतिभासनात् । अविद्यमाने तु न
स्वरूपामिति कस्य प्रतिभासः । योगिनान्त्वतीतानागतविषयज्ञानमतीतानागतस्य विद्यमान
त्वात् । अत्राह ।
अतत्त्वमनस्कारत्वादशुभादीनान्नाकाशे पृथिव्यादीनां सम्भवः । अथ पृथिव्यादयोवि
विद्यन्ते योगिप्रत्यक्षणे दृश्यमानत्वात् । न भावनामात्रत एव योगी भवति । अपि तु
श्रुतमयेन ज्ञानेनार्थान् गृहीत्वा युक्तिचिन्तामयेन व्यवस्थाप्य भावयतान्तन्निष्पत्तौ यदवितथ
विषयन्तदेव प्रमाणन्तद्युक्ता योगिनः । तथा च शमथविपश्यनायुगनद्धवाही मार्गो यो ग
इति वचनं ।
तत्र योगिनां यद्यप्यमी प्रतिभासन्ते तथापि कार्यार्थमसावतत्त्वरपैव भावना ततोऽ
तत्त्वरूपेणैव तेषाममी प्रतिभासन्ते । तेन यदि योगिनामतत्त्वरूपतया प्रतिभासतन्ते कथन्तावता
सत्त्वं । तत्स्मादतत्त्वरूपतैव तेषां योगिप्रत्ययप्रतिभासनामपि । न हि प्रतिभासमात्रात् तत्त्वमपि
तु परीक्षातः । न च कल्पनामात्रादुदयमासादयन्ती भावना तत्त्वप्रतिपत्तिहेतुः प्रमाणबलायाता
तु तथेत्येकान्त एषः । तथा हि ।
भावनामात्रतस्तु ।
न हि सदेव भाव्यतेन्यस्यापि भावनागोचरत्वात् । ततो यदि यदेवाभिभाव्यते तत् तत्
स्फुटाकल्पधीफलमेवाभिभावनं । भावनापरिनिष्पत्तौ । न हि भावनान्यथा भवन्ती दृश्यते ।
यत् खलु भावनाबलभावित्वेप्यविसम्वादसम्भवि प्राग्नीर्ण्णीतवस्तु परलोकचतुरार्य
सत्त्यादिकं तद्विषयमेव प्रत्यक्षं । न तु कामादिविषयं । तद्विस्पष्टाभतया निर्विकल्पकत्वेप्यु
पप्लव एव । एतेन स्वप्नादिज्ञानानाम्विसम्वादिनामप्रत्यक्षतैव ।
ननु भावनाबलाज्ज्ञानप्रत्यक्षमिति सकलतीर्थ्यसङ्गतसम्वेदनप्रत्यक्षताप्रसङ्गः । नहि
तेषां भावना नास्तिति शक्यमेतत् । तथाहि ।
ततश्च तेषामपि ती र्थ करान्तराणां भावनाप्रभवप्रत्यक्षप्रसिद्धा स्वप्रक्रिया प्रपञ्चा
न्तर्गताः पदार्थराशयो न भवन्तीति कुत एतत् । ततश्च तदुपदेशतोपि वर्तितव्यं । अनुमाना
दिना बाधनान्नेति चेत् । न ।
अथैतदेव न ज्ञायते तैरिदन्दृष्टमिति (।) यदि पश्यन्ति न बाध्यत एतद् वचनं ।
यद्येवम्भगवतापि व्यज्ञायि सत्यादिकमिति कुत एतत् । तदसत् ।
ननु पौरुषेयम्प्रमाणमप्रमाणमेवातीन्द्रियेर्थे । तत्कथन्तेन साधनम्बाधनम्वार्थस्याती
न्द्रियस्य ।
योगिज्ञानेनापि तेषाम्बाधनमेव । तथा हि ।
तदेतद् विपर्ययेपि तुल्यं । तदसत् (।) यतः ।
तस्मात् परं प्रतिपादयता शक्यपरिच्छेद एवेतरैः प्रतिपादयितव्याः । असम्भवान्नैमिति
चेत् । योगिज्ञानमपि तत्र कुतः सम्भवतीति चिन्त्यमेतत् ।
न खलु सकलदुःखव्यपगमो नोपादेयः । तथा हि ।
इदं । यतः ।
अथ विशिष्टमिष्यते सुखन्तथा सति तदेवास्मदीप्सितमायातं । अथ सर्ववेदनस्य कथं
सम्भवः कथम्वा तत्र सम्वादः । कथम्वा सकलवेदने सकलरागादिपरचित्तसाक्षात्करणेन
रागादितादयो दोषआ इत्याह ।
असङ्ख्येपकल्पतयाभ्यासो हि किन्तदस्ति यन्न प्रापयति । सम्वादस्तु पुनरस्माकं
सर्ववेदनम्प्रति नास्तोतीष्यत एत्रैतत् । तथा चोक्तं ।
नासर्वज्ञः सर्वज्ञं जानीते । तथा (।) मा भिक्षवः पुद्गलः पुद्गलं प्रविणोतु । अहम्वा
प्रविणुयां यो वा स्यान्यद्विध इति ।
सर्ववेदते तु सर्वात्मना परसन्तानरागादिवेदने रागादिमत्त्वमिति न सत् । तथाहि ।
यदैवासौ रागी पररागवेदने तथा परवीतरागवेदने वीतरागोपि । उभयमपि तदैवेति
चेत् । न ।
तथा हि न घटवेदने घटी भवति । एवं रागादयोपि परसन्तानान्तर्गतास्तटस्थतयाव
गम्यमाना न रागित्वन्निर्वर्त्तयन्ति ।
अथ सर्वात्मना वेदने यथा स्वयम्वेत्त्यसौ तथा योग्यपीति न रागित्वहानिः । तदयुक्तं ।
न हि तदात्माननुप्रवेशे पररागादिवेदनं । स एवात्मीयो राग इति । अयमप्यपरो
दोष इति चेत् । तथा हि ।
तदसत्(।) तथाहि ।
वासनासामर्थ्यायातो हि रागो रागितमावहति न परवासनाबलायातः सिद्धोपस्था
(यि) तया सम्वेद्यमानः ।
ननु स्वरूपसम्वेदने रोमाञ्चदिकायविकारोपि कस्मादस्य न भवति वचनविकारश्च ।
न सदेतत् ।
ननु भावनाबलादेव परचित्तवेदनं भावना संस्कारश्च वासना । तत्र भावनासंस्कार
सम्भवे कथन्न वासना नहि भावनावासनायाः कश्चिद्विशेषः । न युक्तमेतत् । तथा हि ।
लिङ्गविशेषोपलक्षणे हि तत्र भावनाव्यापारः । न च तत्रार्थस्य गम्यस्य भावना ।
सत्याम्वा नात्मसम्बन्धितया । ततस्तत्र वासनाऽभावात् प्रतिभासेप्यरागिता ।
अनेनाशुचिरसादिवेदनेपि दोषः प्रत्युक्तः ।
भावनाबलाद् रसनमुत्पाद्य यदि वेदनमदोष एव तदा(।) नहि स्वप्नेऽगम्यागमने
दोषः । असत्त्यता तस्य तेनादोष इति चेत् । सम्वादे सति कथमसत्त्यता ।
तस्मात् परमतमसत् ।
यथा हि शास्त्रार्थः स्वभ्यासत एकक्षण एव मनसि प्रतिभाति(।) तथानाद्यनन्त
वेदनमपि । परिमाणवत्त्वाच्छास्त्रस्येति चेत् । न परिमाणवदिति प्रतिभासनमपि त्वभ्या
सात् । तत् सकलं शास्त्राभिधेयं प्रतिभासितं तेन स्मरणे प्रतिभातीति चेत् । न(।)
अपूर्वस्यापि शास्त्रार्थस्य भासनात् ।
ननु शास्त्रार्थः परस्परं सम्बद्धस्तत्र केनचित् प्रत्यासत्तिनिमित्तेनापरमपि प्रतिभाति
नत्वेवमनाद्यनन्तानामिति कथमपूवस्य प्रतिभास इति सर्व समानं । तथा हि ।
कार्यकारणभावो हि पदार्थानां शास्त्रे प्रत्यासत्तिस्ततो पूर्वस्य प्रतिभासनं । एवं च
व्यवहारेपि तुल्यः । तथाहि । अयमस्य विकार एवंभूतेनास्य कारणेन भवितव्यं ।
तच्च कारणमियत्कार्याणां पारम्पर्येण जनकं ।
इति सकलपदार्थवेदनं सकलनयानवधूय दर्शितं ।
(५)(७) प्रत्यक्षाभास-चिन्ता
865866 यदि भावनाबलतः स्पष्टाकारं प्रमाणङ् कल्पनाज्ञानन्न तर्हि प्रमाणं स्पष्टाकारस्या
भावात् । अथार्थेऽस्पष्टाकारतेष्यतेन्यथा न प्रमाणं । स्वरूपेपि तर्हीष्यतां । न(।)
स्वरूपन्तदेव स्पप्टाकारमर्थस्तु न तथा । ततः स्वरूपे तन्निर्विकल्पकमर्थे तत्सविकल्पकमिति
स्मरणम् (।) अर्थस्मरणं स्वरूपे प्रत्यक्षं । कुत एतत् । स्वरूपे तदभ्रान्तमर्थे भ्रान्तमिति ।
स्वरूपस्यानन्यसम्वेद्यत्वात् । पररूपस्य तु वेदनान्तरेण । ततस्तेन तस्यान्यथा वेदनाद्
बाधा ततो भ्रान्तिः । नहि स्वरूपे स्मरणस्य संभवस्तदैव तस्योत्पत्तेर्वेदनाच्च । यदि च
स्वरूपमपि पूर्वमासीदिदानीं नास्तीति नेदानीं स्मरणम्भवेत् । अथ तेनैवेदानीं स्मरणं
तदिदमायातं मृतेनापि कुक्कुटेन वासितव्यं । अत एवाह ।
कल्पनापि स्वसम्वित्ताविष्टा नार्थे विकल्पनात् ।
तेनैव तस्य ग्रहणे साक्षात्करणसंभवात् ।
अत एव सम्वेदनं प्रत्यक्षमुक्तं । यतः ।
सविकल्पस्येतरस्य च स्वरूपन्न शब्दार्थो न सामान्यन्न परमार्थविषयः । तथा सति
शब्दायोजनाऽभावात् सामान्यसंसर्गाभावाच्चाविकल्पंक । शब्दार्थग्राहि च ज्ञानं कल्पना ।
तस्मादव्यक्तं । स्पष्टाभता कथन्न भवति । स्पष्टमेव तत्किमुच्यते नेति यतः ।
नहि स्वरूपन्त्यक्तुं शक्यं (।) तत्परित्यागे सम्वेदनन्नास्तीत्युक्तं । तथा च न स्वरूपसम्वेदनं
न परसम्वेदनमिति सर्वाभाव एव । अथार्थापत्या वेदनमिति न स्वरूपवेदनं । न (।) अर्थापत्तेरपि
332
स्वरूपं सम्वेदनेनैव गन्तव्यं । अथात्राप्यर्थापत्तिः सापि तथेत्यनवस्था । अर्थसम्वेदने सिद्धे
यद्यर्थापत्तिः किमर्थसंवेदनेऽर्थापत्त्या । अर्थे सिद्धे नार्थसंवेदने सिद्ध इति चेत् । केयमर्थ
स्य सिद्धिः (।) यद्युत्पत्तिः सर्वार्थवेदनप्रसङ्गः । अथार्थज्ञानन्तदायमर्थः । अर्थज्ञानादर्थ
ज्ञानवेदनमिति साध्वी वाचोयक्तिः । अथार्थाज्ज्ञापनादर्थज्ञानवेदनं । किमिदमर्थस्य ज्ञानत्वं ।
ज्ञाने प्रतिभासनञ्चेत । अज्ञाते ज्ञाते ज्ञानप्रतिभासनङ्कथं ज्ञायते । प्रतिभासमानोर्थः
प्रत्यक्ष एवेति चेत् । प्रत्यक्षप्रसिद्धिश्चेत् तथैवास्तु किमर्थान्तरकल्पनया । इदमेव प्रत्यक्ष
मन्यथा घटेत यदि प्रत्यक्षं ज्ञानन्न स्यात् । चक्षुर्व्यापारे सत्येतद् भवत्यन्यथा नेति किं ज्ञानेन ।
श्रोत्रादिवृत्तिः प्रत्यक्षमिति चेत् । केयं श्रोत्रादिवृत्तिः । ज्ञानमिति चेत् । तज्ज्ञानं परोक्षं
कथं ज्ञातं । श्रोत्रादिवृत्तिरेव ज्ञानमिति चेत् । श्रोतादिवृत्तिः प्रत्यक्षा तेन ज्ञायते ज्ञानं तु
कुतः । अन्यथा किं श्रोत्रादिव्यक्त्येति चेत । किं भवतः प्रयोजनमपेक्ष्य भावा भवन्ति ।
यदि नामाश्रोत्रसमन्मखीभतं ज्ञानस्य किमायातं । यदि ज्ञानन्नोदपत्स्यत परोक्ष
एवार्थः स्यात । यदि ज्ञानमत्पन्नमर्थस्य किमायातन्तथापि परोक्ष एव स्यात् । नहि ज्ञान
/?/ प्रत्यक्षता । परोक्षत्वप्रसङ्गात । तस्या परोक्षत्वात । दृश्यते चेत् ।
यथा तर्हि दृश्यते तथैवास्तु । तवापि कथमिति चेत् । तदाकारताज्ञानस्यार्थस्य ज्ञातत्व
न्नाम । सा च स्वसम्वेदनगम्या न तदाकारज्ञानान्तरगम्या येनानवस्था पतेत् । तस्मात्
स्वसम्वेदनमेव ज्ञानस्वरूपसाधनमिति युक्तं ।
यदि तर्हि भावनाबलादुपजातवैशद्यं प्रत्यक्षं स्वप्नज्ञानमपि प्रत्यक्षप्राप्तमविसम्वाद
कत्वमपि तत्रास्त्येव । तत्रापि गमनप्राप्तयः । नैतदस्ति । यतः ।
द्विविधः प्रत्यक्षाभो विकल्पो विप्लवश्च । पुनश्चतुर्विधः । तदाह ।
स एव द्विविधो विकल्पस्य त्रिधा भेदाच्चतुर्विधः । कल्पनापोढं प्रत्यक्षन्ततो विकल्प
स्त्रिविधोपि प्रत्यक्षाभासः । तत्र भ्रान्तिज्ञानं मृगतृष्णादिषु तोयादिकल्पनाप्रवृत्तत्वात्
प्रत्यक्षाभासं । सम्वृतिसत्स्वर्थान्तराध्यारोपात् तद्रूपकल्पनाप्रवृत्तत्वात् । अनुमानतत्फ
लादिज्ञानं पूर्वानुभूतकल्पनयेति न प्रत्यक्षं । प्रभास्वरस्पन्दमानमरीचिनिचयप्रतिभासं
प्रत्यक्षमेव । तोयादिकल्पना तु प्रत्यक्षाभासः । तोयेऽसाक्षात्करणाकारत्वात् । सम्वृतिसत्स्वपि
रूपादिग्रहणमात्रमेव प्रत्यक्षं । अवयविनि तु तत्समवायकारणत्वेनाभिमतेन साक्षात्करणमर्थान्त
रस्य स्पर्शादेः पूर्वदृष्टस्याध्यारोपात् । द्रव्यस्य वा पूर्वपूर्वप्रत्ययेन कल्पितस्य । नावयवी
रूपादिव्यतिरेकेण क्वचित् प्रत्यक्षे प्रतिभासित इति । अनुमानज्ञानं लिङ्गज्ञानं । तत्फलं
लिङ्गज्ञानन्न पूर्वानुभूतिमन्तरेण । एतच्चानुमानज्ञानं क्वचिदप्रत्यक्षं । क्वचित्तु प्रत्यक्षमेव
अकस्माद् धूमादग्निप्रतिपत्तौ । नहि पूर्वानुभूतकल्पनास्ति । अविकल्प्य कथं लिङ्ग प्रति
पत्तिरिति चेत् । तथैव दृष्टेः । न खलु दृष्टमन्यथा भवितुं युक्तं ।
कस्मात् पुनः कल्पनाप्रभेदनिर्देशः । उदाहरणप्रपञ्चार्थत्वादिति चेत् । न (।)
लक्षणस्याभेदात् । प्रपञ्चमात्रनिर्देशे त्वतिप्रसङ्ग । नैतदस्ति । अन्यदस्ति प्रयोजनमिति ।
तथाहि ।
अक्षजमेव तदिति परेषाम्भ्रान्तिर्मृगतृष्णिकाजलज्ञाने । तथाहि । इन्द्रियार्थसन्नि
कर्षोत्पन्नं ज्ञानमव्यदेश्यमव्यभिचारि प्रत्यक्ष867
मित्यत्र लक्षणे मरीचिजलज्ञानव्यवच्छेदायाव्य
भिचारिग्रहणं कृतं । यदि पुनरनिन्द्रियजमेव तत् स्यात् प्रथमपदेनैव व्यावर्त्तनात् किमेतदर्थे
नाव्यभिचारिग्रहणेन । द्विचन्द्रादिज्ञानस्यानर्थसंभतस्य निवृत्त्यर्थमिति चेत् । न (।)
अर्थसन्निकर्षग्रहणेनैव तस्य व्यावर्त्तनात् । इन्द्रियग्रहणेनानिन्द्रियजस्य व्यावर्त्तनं । सम्वृति
सद्विषयस्य त्विन्द्रियजत्वाभिमानः परेषां सविवाद एव । अनुमानादिवचनन्तर्हि व्यर्थं । नहि
तेनानिद्रयजत्वं साध्यते । सिद्धत्वादनुमानादिरनिन्द्रियजत्वस्य (।) अत्रोच्यते ।
न ह्यसिद्धमसिद्धेन साध्यते । किमत्र भ्रान्तिकारणं येन साध्यता पूर्वयोरिति चेत् । आह ।
सङ्केतसंश्रयोवयवी संकेतमात्रस्य तद्व्यवस्थाहेतुत्वात् । अन्यार्थो जलं (।) समारोपो
धिकाध्यारोपः । विकल्पनं स्मरणं जलं हि पूर्वदृष्टत्वात् स्मर्यते (।) न तस्यारोप एव केवलो
दर्शनस्य समतया869
भावात् । अथवा विपर्यय आरोपो जलस्य विकल्पनमवयविनः । उभयत्र
वोभयमिति(।) ते च समारोपविकल्पने प्रत्यक्षस्येन्द्रियजस्यासन्निवृत्ती870
कदाचिदभवत
इतीदमसन्नवृत्तित्वम्वा तत्र भ्रान्तिकारणन्त एव वा तेन भ्रान्तिकारणमिति । अस्मिन्
भ्रान्तिकारणे सति दृष्टान्तद्वारेणानुमानं ।
अनुमादिकल्पना हि सम्बन्धग्रहणापेक्षिणी सम्बन्धग्रहणमेव च समयः । ततस्सम्बन्धात्
परोक्षार्थंप्रतिपत्तिरिति नाध्यक्षतः । साक्षात्करणेन हि सा भवेत् । एवङ् घटादिष्वप्येकेन
केनचिदिन्द्रियेण रूपादिकम्प्रतिपन्नन्ततः परिशेषे रसादौ स्मरणं पूर्वानुसारतः । रसादावेव
स्मरणं नावयविनीति चेत् । न (।) रसादिव्यतिरेकेण तस्यानुपलक्षणात् । यदेतच्छुक्लन्तदेव
कर्कशमित्याद्येकताप्रतिपत्तिविषयोवयवीति चेत् । तथाहि न तावद्वर्ण्णस्य स्पर्शस्य चैकता ।
334
तत एकत्वप्रतीतिरेव व स्याद् यद्यवयवी न भवेत् । यद्यप्यवयवी तथापि कथम्वर्ण्णस्पर्शा
दीनां सामानाधिकरण्यं । नहि तयोरेकता । एकाधिकरणत्वादेकतेति चेत् । उपचार एषः ।
न चात्रोपचारप्रतिपत्तिः (।) प्रतिपत्तौ चोपचारस्य नावयविसिद्धिस्स्यात् । अन्यथाप्युपचारेण
सामान्य धिकरण्यसम्भवात् ।
य एव देशः स्पर्शस्य स एव रूपस्य प्रतीयते तेनैकताध्यवसायः । यदेवोदकादिधारणं
स्पर्शस्य कार्यन्तत्रैव रूपस्यापि व्यापारः । स्पृश्ये मसृणतामापाद्यमाने रूपस्यापि चैकचि
क्यादिता । तत एकमेवेदमिति व्यवहाराध्यवसायाः । यदि पुनरन्यदेवाधिकरणं । रूपा
धिभ्यस्तेषान्तस्य विवेकेन प्रतिपत्या भाव्यम् (।) अप्रतीयमानन्तूपलब्धिलक्षणप्राप्तमसदिति ।
अथावयविनमन्तरेण परस्परस्य कस्मान्न विघटनं ।
समवायस्य नित्यस्य कुत एतद्विचिन्त्यतां ।
यद्यप्यवयवी परस्तथापि त्रितयं जातं कस्मात् त्रयस्यापि परस्परस्य न विघटनं । अथ
समवायो हेतुरविघटनेऽसावपि कस्मान्न विघटते । तस्य स एव स्वभाव इत्यपि नोत्तरं ।
रूपादीनामेव स स्वभावोस्तु किमर्थान्तरकल्पनया । रूपादीनाञ्च स्वहेतोः स्वभाव इति
युक्तिमदेतत् । समवायस्य त्वहेतुकस्य कुतः स्वभावः । समवायाश्रयस्य स्वहेतोस्स स्वभावो
येन समवाय एवमिति चेत् । तत्किमनया परम्परया । तैः स्वहेतोस्तथाभूतैर्भाव्यं येन
समवायस्तेषामविघटनं कुर्यात् । तद्धेतुरेव तदविघटने हेतुरिति किमत्र न्यूनमास्ते यदर्थं
परम्परेष्यते । एवमेतद् दृश्यत इति चेत् । भवतु यदि दृश्यते दृश्यमानस्यान्यथा विकल्प
यितुमशक्यत्वात् । रूपादय एव तु दृश्यन्ते परस्परमवियुक्ता न तु तदधिकमित्येषामेव
स स्वभावः कल्प्यतां । तस्मादवयव्यध्यारोपो न प्रत्यक्षः ।
तदस्य न्यायप्रपञ्चस्य प्रदर्शनार्थन्दष्टान्तदाष्टान्तिकोपन्यासः । सतैमिरिकग्रहणं
किमर्थं । तैमिरमपि सविकल्पकमिति कश्चित् (।) तद्व्यावर्त्तनार्थन्तद्वचनमन्यथा स्मार्त्तादि
ग्रहणेनास्यापि ग्रहणात् पृथगुपादानमनर्थकं । यद्यविकल्पकङ् कल्पनापोढत्वात् प्रत्यक्षम्प्राप्तं ।
न सर्वङ् कल्पनापोढं प्रत्यक्षमपि त्वभ्रान्तत्वे सति । अभ्रान्तङ् कल्पनापोढं प्रत्यक्षं न
सर्वं । यतः (।) प्रकल्प्यापवादविषयं तदपवर्जिते तूत्सर्गः प्रवर्त्तते । कोपवाद इति चेत् ।
त्रिविधाद् विकल्पाच्चतुर्थन्तैमिरग्रहणमपवादः । कल्पनापोढमिति सामान्येन
प्रत्यक्षविधानमतैमिरमिति विशेषे प्रत्यक्षाभासताविधानं । विशेषविहितञ्च सामान्य
विहितस्य बाधकं । किमत्र प्रमाणं । सामान्यप्रतिपत्तिर्विशेषप्रतिपत्त्या बाध्यते । यतः ।
नहि सामान्यतो दृष्टमदर्शनमात्रेण विपक्षस्यानुमानमपरेण प्रत्यक्षेणानुमानेन वा न
बाध्यते । तेन प्रत्यक्षसिद्धः । सामान्यविशेषयोर्विशेषे बाध्यबाधकभावः । तदर्थसूचकयोरपि
वचसोः स एव बाध्यबाधकभावः । आचार्यस्तर्हि सामान्यतो दृष्टानुमानाल्लक्षणं कस्मा
दाह । न आचार्येण विशेषतो दृष्टमेवानुमानमभिप्रेतं तस्य तु योर्थः स एकेन वचसा निर्देष्टु
मशक्य इत्यपवादसहितं नोक्तवान् । किमर्थन्तर्हि कल्पनापोढग्रहणसहितमेवाभ्रान्तग्रहणन्न
कृतं किङ्गजस्नानाङ्गीकरणेन । सतैमिरग्रहणेन चापवादेनाभ्रान्तग्रहणार्थो लब्धव्योन्यथा
वेति को विशेषः । अनन्तरमेव कल्पनापोढग्रहणस्य लभ्यतामिति चेत् । न (।)
विशेषाभावात् ।
अर्थतो ह्यसमानानामानन्तर्यमकारणं ।।
बाध्यबाधकभावश्च प्रमाणविषयः सूचितो यथा स्यादित्येवङ्कारणं । न ह्यवश्य
म्बाधकमनन्तरमेव भवति ।
अभ्रान्तग्रहणमेव कस्मान्न क्रियत इति चेत् । सत्त्यमेतत् । साक्षात्कारि हि प्रत्यक्ष
न्तच्चाभ्रान्तग्रहणेन शक्यन्निदर्शयितुं (।) न ह्यसाक्षात्करणाकारमभ्रान्तं सविकल्पकस्य भ्रान्त
त्वात् । परे तु सविकल्पमपि साक्षात्करणाकारमभ्रान्तमिच्छति (।) तदनुरोधेन द्वयमेतदुच्यते ।
तथा चाह । विशेषणलक्षणे परमतापेक्षं सव त्वविकल्पका एवेति । अथवा (।)
नाचार्याभिप्रायञ्जानाति विशेषोत्राभिमत इति । बाधकदर्शनादवगच्छत्यसावपि
पश्चाद्विशेषं । अपौरुषेये तु वचसि प्रमाणमूलत्वाभावान्न बाध्यबाधकभावः । पौरुषेये तु
पूर्वबुद्धेर्भ्रान्तता ज्ञाप्यते प्रमाणमूलया परया बुद्ध्या । न तु वेदाद् भ्रान्तबुद्ध्युदयः । तथा
वेदप्रमाणता सर्वस्य तथात्वप्रसङ्गात् । अबाधने प्रमाणमेवेति चेत् । न (।) पश्चादपि बाधक
सम्भवात् । पर्यायालोचयतोन्य एवार्थो भवतीति प्रमाणेप्येवमिति चेत् । न (।) प्रमा
णस्य स्थिरत्वात् । तथा च प्रमाणविरुद्ध आगमार्थस्त्यज्यते वेदवादिभिः । अन्यथार्थवाद
व्याख्यानमनिबन्धनं स्यात् । तस्मात् पौरुषेय एव वचसि बाध्यबाधकभावः । तैमिर
मित्येव बाधकन्न कामलादीति चेत् । आँह । सर्वमेव तेनोपघातजमुक्तं । तिमिरं पुनरुप
घातोपलक्षणन्नोपघातान्तराणाम्व्यावर्त्तकं । यतः ।
सा चार्थशून्यता कामलावहलावलेपलुप्तलोचनबलानां विज्ञानस्य न न्यूनाकलयापि
तेनोपलक्षणं सतैमिरग्रहणमिति न्यायवादिभिरवगन्तव्यं (।) तिमिरमशेषोपघातोपलक्षणं ।
अन्ये तु कल्पनापोढग्रहणं प्रत्युदाहरणमेवैतन्नापवादः । तदाह ।
मानसमेवैतद् द्विचन्द्रादिज्ञानं मरीचिकाजलज्ञानवत् । तथा हि मरीचिकासु प्रथममि
न्द्रियज्ञानमभ्रान्तमेवोपजायते पश्चात्तु जलानुभववासनाप्रबोधात् सविकल्पकं जलज्ञानं । स च
प्रबोधो मरीचिदर्शनादेव । सादृश्यभाजो मरीचय एवंधर्माणः । तथात्रापि चन्द्रविषयमभ्रान्तं
प्रथमं ज्ञानं पश्चाद् द्विचन्द्राकारो विकल्पः ।
तत्र केचिदाहुः । "स्तिमिताक्ष्णोर्मध्ये स्थाता स एकः चन्द्र उभयपाश्वे क्रमेणोपलभ्य
मानः कालसौक्ष्म्याद् युगपदेव लक्ष्यते । पार्श्वद्वये च द्वित्वाध्यारोपः" । तेषाङ् ग्रन्थविरोधः ।
त एव हि चक्षुरादिपरमाणवस्तथान्यथा च भवन्तो द्विचन्द्रनीलाद्याभासहेतवः ।
द्विचन्द्रप्रतिभासस्य हि मानसत्वे नेन्द्रियहेतुतोक्तिः समर्था ।
अथ मानसत्वे परम्परया हेतुत्वमिन्द्रियस्य न विरुध्यते । साक्षाद्धेतुत्वमिन्द्रियस्य
मानसत्वेन विरुद्धं द्विचन्द्रप्रत्यये । अत्रोच्यते ।
इन्द्रियज्ञानस्य गोचरः क इति पर्यनुयुक्ते (।) यतः साक्षादिन्द्रियज्ञानमुत्पद्यते तदाकार
तयान्यथा वेति परेण वक्तव्यं । न तावत् तदाकारतया विषयत्वमसम्भवात् । परमाणूना
मेकधनाकारस्थूलत्वाभावात् । अथातदाकारस्यापि यो हेतुः स विषयः । तदप्ययुक्तम् (।)
इन्द्रियवदन्याकारविज्ञानहेतुत्वेप्यविषयत्वं । तत्र यदि पारम्पर्येण हेतुत्वमभिप्रेतमाचार्यस्य
त एव ही त्यादि वचसा तदा परं प्रति नेन्दियस्य विषयतां प्रसञ्जयेत् । साक्षात् परमाणूनां
हेतुत्वे विषयत्वस्य परेणोक्तत्वात् । प्रसङ्ग एव तर्हि न युक्त इति वक्तव्यं (।) किमुच्यते
प्रस्तावो मानसस्येह कीदृश इति । अयमभिप्रायः ।
परः प्राह । विकल्पकस्य विज्ञानस्यैकघनावभासिता । तस्यापि पारम्पर्येण परमा
णवो हेतुत्वाद् विषयः । यथा स्मरणस्यार्थविषयता । आचार्यः प्राह ।
अतदाभतया नास्या अक्षवद् विषयोणवः ।१
यथाक्षाणि परम्परया हेतुत्वेपि न विषयस्तथाणवोपि । अन्यथा भवन्ति ह्यक्षाणि
द्विचन्द्रज्ञानस्य पारंपर्येण हेतुः । अत्रोक्तम् (।) इन्द्रियज्ञानगोचरे विचार्यमाणे प्रस्तावो
मानसस्येह कीदृश इति । न च मानसत्वे विषयनिरूपणा साध्वी निर्विषयत्वात् । तथा
नात्र प्रमाणङ् किञ्चिदिति युक्तमुत्तरमाचार्यस्य न त्वतिप्रसङ्गचोदनं । तदेवोक्तं प्रस्तावो
मानसस्येत्यादिना ।
अन्ये तु ब्रुवते (।) मानसे द्विचन्द्रादिज्ञाने यदेन्द्रियाणां कारणत्वं कथयति तदा मानसमेव
प्रतिविषयत्वचिन्ता स्यात् । ततश्च प्रस्तावः कीदृश इत्युत्तरं । तदयुक्तमिति प्रतिपादितं ।
यदि तावत् मानसमेतद् द्विचन्द्रादिज्ञानमिन्द्रियभावाभावानुरोधि न स्यात् । अथेन्द्रिय-
337भावाभावानुरोध्यपि मानसमेवैतत् (।) तथा सति स्तम्भादिज्ञानेष्वपि मानसत्वप्रसङ्गः । प्रथमं
स्वाकारमेव ज्ञानं पश्चादर्थाकारता मनसि अथ मानसमेवेन्द्रियं प्रसक्तं । ऐन्द्रियस्यापि
विकार एवेति चेत् । द्वयमपि तर्हीन्द्रियजं प्रसक्तं । साक्षादिति चेत् । न (।) अपरस्य
विकारस्यादर्शनात् । एतदनुसारेण तदपि विकृतमेव ज्ञातव्यमिति चेत् । तदपि मानस
मेवेति विकृतत्वादेतद्वदित्यनवस्था । तस्मादेतदेवेन्द्रियजं ।
यदि मानसी द्विचन्द्रादिबुद्धिरक्षविकृतावपि निवृत्तिः । अक्षविकारे हि सर्पभ्रान्तिः
सत्यपि विचारे निवर्त्तते न द्विचन्द्रादिभ्रान्तिः । अथ सर्पादिभ्रान्तिरपि श्यामतादिलक्षणा
न निवर्त्तते (।) समन्धकारे हि प्रदेशे सर्पभ्रान्तिस्तत्र रज्वादेस्तिमिरमन्तरेणापि श्यामतादि
रूपता (।) तिमिरतिस्कारे तु चक्षुषोन्वथाभूतेपि श्यामतादिरूपता (।) सा कथमक्षविकारेपि
निवर्त्तते । ततो निवर्त्तनमसिद्धं कथं साधनं ।
यदप्युच्येत (।) न निवर्त्तेत निवृत्तेप्यक्षविप्लवे इति तदप्यसत् । नहि मनस्यपि
जलभ्रान्तिर्निवृत्ताक्षविप्लवस्य दृष्टा (।) प्रबोधकप्रत्ययस्य आतपोपतप्तत्वस्याभावेऽभावात् ।
न चान्यसन्ताने जलभ्रान्तेरर्पणन्दृष्टं । नासंतप्तस्य परवचनस्यासौ भवति । सर्पाकारतापि
नैव दृष्टस्मरणमपेक्षते श्यामतादितायाः प्रथमतरमेव भावाद् । परिस्फुटप्रतिभासनन्तु मानस्या
अपि भ्रान्तेः स्वप्नादावस्त्येव (।) ततो न भासेत परिस्फुटमिति सकलमेतदयुक्तं । तद्भाव
भाविता तद्विकारविकारिता तु पारम्पर्यादपि कार्ये भवत्येव । अत्रोच्यते ।
अवश्यं हि श्यामतादिप्रतिभासस्तत्रैन्द्रियजस्तद्विकारानिवृत्तौ न निवर्त्तते । परिस्फु
टतापीन्द्रियजन्यतायामेव न मानसत्वे । भावनाबलादातपोपतप्तस्य मानसतायामपीति चेत् ।
परिस्फुटतायामविकल्पिकैवासाविति नेन्द्रियजत्वाद् विशिष्यते । तथा चापवादत्वन्तिमिर
ग्रहणस्य न व्याहन्यते । सविकल्पकत्वं हि मानसत्वादभिप्रेतं परेषान्न मानसत्वमात्रं ।
तथा हि (।) अविकल्पकमेकञ्चेत्येतावन्मात्रमत्र साध्यं (।) द्विविधः प्रत्यक्षाभासो विकल्पो
निर्विकल्पकविप्लवश्च । सा च सविकल्पिका सकलभ्रान्तिस्तदा विघटते नान्यथा
परिस्फुटापि तर्हि द्विचन्द्रादिर्भ्रान्तिर्मानसी भवत्विति चेत् । न (।) मानसीभावानामन्तरेण
भावात् । भावनाबलेन हि मानसी स्फुटतां भजेत तदभावादिन्द्रियजत्वन्न शक्यन्निवारयितुं ।
द्विविधमेव स्पष्टाकारतायाः कारणमक्षं भावना च । अत्रापि भावनाव्यवहिता अस्त्येवेति
चेत् । व्यपगतस्तर्हि बाह्यार्थवाद इत्यत्लम्प्रसङ्गेन ।
का तर्हि सर्पादिभ्रान्तिर्मानसी यस्या दृष्टान्तत्वं जलादिभ्रान्तिश्च । उपघातानुग्राहक
त्वावभावः उपघातानुग्राहकत्वावभासो हि अक्षविकृतावपि निवर्त्तत एव निवृत्तेपि चाक्ष
विप्लवे न निवर्त्तत एव चिन्तयतः । एवमन्यदपि योजनीयं । एवञ्च ।
मानसत्वेन्यथा वोभयथाप्यविकल्पकत्वं स्पष्टतायान्निर्विकल्पकत्वमिति प्रतिपादि
तमेतत्,
विकल्पभ्रान्तताभ्यां द्विधैव प्रत्यक्षाभासता दर्शिताचार्येण (।) इति करणव्यवच्छिन्नाद्
विकल्पवशात् पृथक् तैमिरोपलक्षितस्य विप्ल (व) स्य निर्देशादन्यथा पृथग्निदशस्य प्रयोजना
भावेनाकौशलत्वोद्भावनहेतुता स्यात् ।
कथन्तर्हि तदुक्तं (।) स नो भ्रान्तिविषयत्वाद् व्यभिचारिणः । पराभिप्रायेण तस्यो
क्तत्वाद् (।) यस्य हि इन्द्रियार्थसन्निकर्षोत्पन्नं प्रत्यक्षमिति874 लक्षणन्तस्य मनोभ्रान्तिविषयता
व्यभिचारिणो व्यवतिष्ठते । नहीन्द्रियार्थसन्निकर्षोत्पन्नस्यैव व्यभिचारिता सम्भवति ।
पारिशेष्यात् मनसा यदधिकस्य विकल्पनन्तत्र व्यभिचारः ।
नन्वर्थमन्तरेणेन्द्रियमात्राद् यदुत्यद्यते तस्यापि व्यभिचारिता तत्किं मनोभ्रान्तिविषय
त्वादिति वचनं । न (।) तस्यार्थग्रहणेन निराकृत्त्वाद् विद्यमानमपि तदविद्यमानकल्पमेव ।
तथा चोक्तम् (।)
इन्द्रियार्थोद्भवे नास्ति व्यपदेश्यादिसम्भव इति (।)
व्यपदेश्यादयो मानसा एवेति प्रतिपत्तव्यं ।
ननु न व्यावर्त्तकम्वचनमव्यपदेश्यादि किन्तर्हि स्वरूपकथनपरं तदिन्द्रियार्थसन्निकर्षोत्प
न्नन्तदेवम्भूतम्भवति नान्यथा । न (।) व्यवसायात्मकमित्यनिर्देशप्राप्तेः ।
नहीन्द्रियार्थसन्निकर्षोत्पन्नमेव व्यवसायात्मकमनुमानस्यापि व्यवसायात्मकत्वात् ।
तस्माद् यद् व्यवसायात्मकन्तदध्यक्षमन्यत्तु न भवतीति व्यावर्त्तकतैव युक्ता ।
अथ किञ्चिद् व्यावर्त्तकङ् किञ्चित् स्वरूपकथनमिति तेन यदीन्द्रियार्थसन्निकर्षोत्पन्न
म्व्यवसायात्मकञ्चेत् तदव्याभिचारि भवत्यव्यपदेश्यञ्च ।
तदयुक्तमव्यभिचारित्वङ् कथयितुं युक्तम् (।) एवं हि प्रमाणता । अव्यपदेश्यविषयत्वेन
तु किं । न हि तथा प्रमाण्यमन्यथापि प्रमाण्यात् । ततो यत्किञ्चिदेतत् । स्वरूपकथने
चातिप्रसङ्गः । आत्मादिसत्सन्निकर्षस्यापि कथमप्रसङ्गात् । अथ यत् प्रत्यक्षत्वेऽसाधारण
न्तदेव कथ्यते न त्वसाधारणमात्मादि । एवन्तर्हि व्यावर्त्तकम्विशेषणं न स्वरूपकथनपरं ।
एतेन सत्सन्निकर्षादिकथनं प्रत्याख्यातं । तथाहि (।) लक्षणमेवैतत् स्यात् स्वरूपकथ
नम्वान्यार्थविधानार्थं । तत्र यदि लक्षणं सत्सन्निकर्ष इत्येव वक्तव्यं । सदर्थग्राहि प्रत्यक्ष
मिन्द्रियजम्वा प्रत्यक्षमबाधितं । अथ धर्मं प्रत्यनिमित्तताप्रतिपादनार्थं स्वरूपमनूद्यते । तथा
पीन्द्रियजमित्येव वक्तव्यं किमपरेण व्यर्थजल्पितेन ।
किञ्च (।) अनुवादमात्रमयुक्तं । तथा हि ।
339बौ द्धा दीनां हि लक्षणं प्रत्यक्षस्यान्यथाभिमतं त्वप्रक्रियानुकूलं (।) ततस्तद्व्यवच्छेदाय
नियमेनान्यथा लक्षणम्विधातव्यं । सौ ग ता नाम्विज्ञानवादशून्यतावादानुकूलत्वाल्लक्षणस्या
वश्यमेव तन्निरासाय लक्षणान्तरकरणमेव शोभते (।) नावपतितैरु875
ष्ट्रहरणशक्यं । को वा
लक्षणकरणे दोषः । प्रमाणेनाप्रसिद्धतेति चेत् । तथाहि ।
इतरेतराश्रयत्वादेकस्याप्यप्रसिद्धिरिति न लक्षणकरणं । यद्येवमनुवादोपि नाप्रमा
प्रसिद्धस्य युक्तः । लोकप्रसिद्धितश्चेत् प्रसिद्धिः । यद्येवं धर्मोपि लोकप्रसिद्ध एव भविष्य
त्यकारणं मी मां सा (।) धर्मविप्लवस्य दर्शनादसिद्धिरेव परमार्थत इति चेत् । यद्येवं ।
तस्मात् प्रमाणसिद्ध एवानुवादोपि कर्त्तव्यस्तथा लक्षणमप्यनवद्ये ।
न च सौ ग तै रपि लक्षणं क्रियते प्रसिद्धार्थानुवादात् । यथैव हि धर्मंप्रत्यनिमित्तत्व
प्रदर्शनार्थमनुवादस्तथा निमित्तत्वप्रदर्शनार्थमिति समानमुभयत्रापि । यथा चैतत्तथोपदर्शित
मेव प्राक् । ततोर्थाज्ञानं प्रत्यक्षमिति तु लक्षणमेव । तत इत्यनेनान्यस्य प्रकृतस्याभावाद् योर्थः
प्रत्यक्षेण दृश्यते तत एवेति गम्यते । तेन द्विचन्द्रादिज्ञानपरिहारः । न हि तत्तत एवापि त्वन्यतः ।
कथन्तर्ह्या चा र्यै णोक्तं ।
यदाभासा न सा तस्माच्चित्तालम्बं हि पञ्चकं ।876
नहि (पर) माणुभ्य उत्पद्यमानन्तदाकारञ्चक्षुरादिंज्ञानं । अन्याकारस्यापि विज्ञानस्य
कारणत्वेनालम्बनत्वे चक्षुरादिपरमाणूनामप्यालम्बनत्वप्रसङ्ग । तेपि हि तथान्यथा वा
भवन्तो द्विचन्द्रनीलाद्याभासविज्ञानहेतुरिति । परमार्थमधिकृत्योक्तमेतत् । लोकप्रसिद्ध्या तु
वादविवेचनं । लोको हि न परमाण्वादिकल्पना । एतावत् प्रत्यक्षं लोके प्रसिद्धम्विचार्य
माणन्तु न युक्तं ।
परमाणूनामेव जनकत्वन्तेषामालम्बनत्वे चक्षुरादिभिरनेकान्तः । अथ च त इति प्रति
भासमानमुच्यते तदाऽसिद्धता । नहि तस्य समानकालस्य जननं द्विचन्द्रादिना चानैकान्तिकता ।
अथ समानकालमपि जनकं । तदप्ययुक्तं । अवस्तुत्वात् समुदायस्य । अनैकान्ति
कता च भ्रान्तविज्ञानैरिति । अथ प्राग्भावजनकं तदाप्यसिद्धता ।
लोकप्रतीत्यपेक्षतया न विरुध्यते ।
यदप्युच्यते । श्रोत्रादिवृत्तिः प्रत्यक्षमिति । तदप्यसत् ।
340प्रवर्त्तनकामो हि प्रत्यक्षादिकं प्रमाणमन्विच्छति । श्रोत्रादीनाञ्च वृत्तिरविज्ञाता
कथं लक्षणं । अनुपलक्षितात् कथमयम्प्रवर्त्तेत । अथ प्रत्यक्षतः श्रोत्रादिवृत्तिरुपलक्ष्यते ।
अस्य तर्हि प्रत्यक्षस्य लक्षणं वक्तव्यं । ततः साक्षात्करणाकारं प्रत्यक्षं (।) तत्तु स्वयमेवोप
लक्ष्यत इति परिहारः । तथा सति तदेव साक्षात्करणमभ्रान्तं लक्षणं । भ्रान्तेपि च विज्ञाने
श्रोत्रादिवृत्तिः कथं लक्षणं भवेत् । अर्थेषु वृत्तिरित्यदोषः । अर्थेषु वृत्तिरर्थामिमुख्यत्वं (।)
तदपि भ्रान्ते विद्यत एव (।) अथ तत्स्वरूपसम्वेदनं । तदेव तर्हि स्वरूपसम्वेदनमिति
लक्षणं । तच्च साक्षात्करणमेवाविकल्पकापरनामकं । तस्मादपरमलक्षणमेव ।
(६) प्रमाणफल-चिन्ता
(१) प्रमाणफलव्याख्या
877किम्पुनरस्य प्रमाणस्य फलं । प्रमेयाधिगतिः । उक्तञ्च । प्रमाणाधीनो हि
प्रमेयाधिगमः।878
ननु तज्ज्ञानमेव तच्च फलमिति किमिदानीं प्रमाणं । इन्द्रियार्थसन्निकर्षालोचन
विशेषणज्ञानानीति2 केचित् । तदयुक्तम् (।) अधिगमस्य साधनं तदेव युक्तं यतः स
भवति ।
ननु ज्ञानस्य तावदुत्पत्तिरिन्द्रियादेर्दृश्यते ततोधिगमस्यापि तदेवेति किमकल्पनया ।
नहि दृष्टपरित्यागात् कल्पनान्यत्र युक्तिभाक् ।
नैतदस्ति ।
यद्येकत्रदृष्टसामर्थ्यमित्येव तदेवैकमपरत्रापि साधनायोपकल्प्यते यस्य कस्यचित् साधन
स्योपादानात् सकलसमीहितसाधनमिति सर्व्वञ्जगदल्पायासेन सुस्थं स्यातं । न चैवम् (।)
अतो या क्रिया यतो दृष्टा तदेव तत्र साधनन्नापरं ।
अनुभवो हि सा ङ ख्य स्य नीलपीतादौ समानः सत्तामात्रेण । ततः सर्वं व्यवस्थाप
येत् । अभिमतव्यवस्थापितपदार्थवत् । नवाऽनवस्थापितवद् व्यवस्थापनार्हमपि तस्यावि
शेषात् । तथाहि ।
अव्यापृतावस्थाया हि विशेषमात्मसात्कुर्वाणमिदमत्र व्यापृतन्नेति गम्येत (।) तथापि
किं स्वभावादसो प्रच्यवते । यद्यात्माहं तदात्मभूतोपि न जाने तदा मया सोर्थों न ज्ञात एव
भवति ततो न प्रमाणता ।
पुरुषात्मैव लोकोयं भोग्यं वस्त्ववगच्छति ।
स चात्मा न विजानाति883 साध्वी भोगव्यवस्थितिः ।। ६१० ।।
बुद्धिः सुखनीलाद्यवसायरूपमात्मानन्तथा व्यवस्थापयतीति चेत् । सैंव तर्हि भोक्त्री
किमपरेण सम्वेदनेन । सुखाद्यवसायरूपा सुखाकारवेत्याकार एव प्रमाणं । बुद्ध्यध्यवसि
तमर्थं पुरुषश्चेत् यत इति चेत् । केयं बुद्धिः(।) कोयमध्यवसायः (।) कः पुरुष इति वाच्यं ।
बुद्धिः करणं(।) अध्यवसायः कर्म(।) कर्त्ता पुरुष इति चेत् । पुरुषोर्थमवगच्छति(।) ततः
कर्त्ताध्यवसायस्येति किं बुद्ध्या अध्यवसायस्य बुद्धिः साधनमवगमस्य पुरुष इति चेत् । अवगम
स्याध्यवसायस्य च न विशेषं पश्यामः(।) तदाकारसाक्षात्करणमवगमः । स एव चाध्यवसायः ।
तदाकारतैवाध्यवसायो न साक्षात्करणमिति चेत् ।
तदाकारा यदा886
बुद्धिः साक्षात्क्रियते अर्थ एव तथेति व्यर्थाऽर्थाकारा बुद्धिः । बुद्ध्यढौ
र्थाकारो ढौक्यते ततोऽदूरे देशस्य प्रतिपत्तिः व्यापित्त्वादात्मनोऽदूरदेशकमेव सकलं । न च
दूरदेश इति प्रतिपत्तिः स्यात् । न च तदाकारबुद्धिव्यतिरेकेणार्थ इति च ।
अर्थमन्तरेण तदाकारा बुद्धिः कुत इति चेत् ।
ननु बुद्धित एव तदाकारतार्थानामिष्यते तत्किमयं विपर्ययः । स्वमुखमिव नासङ्क्रान्तं
प्रतिपत्तुं शक्यं । नायोग्यदेशत्वात् मुखस्य संक्रान्तिर्द्दर्प्पणादाविष्यते ।
नैवमन्येषां दर्प्पणस्य चासंक्रान्तस्य कथं प्रतिपत्तिः । तस्यापि बुद्धिदर्प्पणे सङ्क्रान्त
त्वादिति चेत् । बुद्धिरपि तर्हि बुद्धिः दर्प्पणान्तरे चासंक्रान्तिरिष्यतां । बुद्धिरविदितैवास्त्विति
चेत् । आत्मापरोक्षेति व्यर्थं जगत् स्यात् । आत्मनो887
ऽपक्षत्वे तेनार्थ एव वेद्यतां किमत्र
धिया । करणमन्तरेण कथं पश्यतीति चेत् । चक्षुरादयः करणं । अन्तःकरणेन प्रयोजनमिति ।
चेत् । अन्तरन्तःकरणोनापि प्रयोजनमित्यनवस्था । न चानुपकारकं करणं । तैरभिव्यज्यते ।
पुरुषश्चेन्नोदासीनस्येवाभिव्यक्तेरग्राहकत्वं । तस्मादर्थान्तरेणात्मना भवितव्यं ।
दर्प्पण इव तत्राविकारकारिणी तदाकारतेति चेत् । न (।)—दर्प्पणं प्रतीत्य तदाकारा
बुद्धिरुपजायते । तेन 888 विकारोन्यथा कः संक्रमार्थो यदि न विकारः । दर्प्पणेभिमुखाकारा
342
भ्रान्ता बुद्धिरुदयवती । अत्रापि889
विषयाकारा बुद्धिर्भ्रान्तैव न परमार्थतो विषयप्रपञ्च: ।
प्रधानपुरुषमात्रात्मकत्त्वाज्जगतः । 890
प्रधानात्मकत्त्वमपि तर्हि भ्रान्तमेव जगतः घटाद्या मकवत् ।
तथा पुरुषात्मकत्वमपि । एतच्च पश्चात्प्रतिपादयिष्यामोऽन्यथा891
न सां ख्य प्रस्थानेन ।
तस्मादस्य शुद्धस्यानुभवस्य भाव्यन्तेनात्मना, येन कर्म्मकर्म्मप्रतिविभागो नीलमिदं
पीतमित्यादिकः ।
ननु श्रोत्रादिवृत्ति प्रत्यक्षं प्रमाणमित्यक्तं । उक्तमिदमयुक्तं तु । तथाहि ।
अस्य पुरुषस्याभिन्नस्य सर्व्वत्र कर्म्मणि नीलादौ न भेदेन नियामक इन्द्रियादिभेदः ।
स हि तस्य कारकत्वेन ज्ञापकत्वेन वा नियामकः स्यात् (।) कारकत्वेन नियामके न युक्तस्तस्य
नित्यत्त्वात् । साकारताप्रसंगाच्च । अनाकारत्वे स एव दोषः स्वात्मन एव वेदनप्रसङ्ग गात् ।
अथ ज्ञापकत्वान्नियामकः । अपरिज्ञातेर्थे कथं892
ज्ञापकः । ज्ञापकान्नियमज्ञानं नियमज्ञान (ात्)
ज्ञापकमितीतरेतराश्रयदोषः । अ(ा)लोकवज्ज्ञापक इति चेत् । न(।) तेषामपि ज्ञाप्यत्वेऽपरेण
ज्ञापकेन प्रयोजनमित्यनवस्था । न च सर्व्वत्रालोको ज्ञापकः । आलोकेन वा ज्ञापिते किं
चक्षुरादिभिः । तत्र वालोकभूता शब्दादीनामिति चेत् । तथाप्यसौ स्वबोधरूपः कथं वेत्ति ।
स्वरूपेवऽस्थानामिति वक्ष्यामः ।
यतः स्वरूपहेतौ तस्य सम्वेदनस्य इयमस्य नीलस्य पीतस्य चाधिगतिरिति नियमः ।
सापि गतिस्तत्साधनासिद्धा । तन्मात्रकादेव नियमस्यास्य भावात् । तथा चोक्तं ।
भावादेवास्य तद्भावे
न चेयमर्थस्य घटनासारूप्यादतः सम्वेदनस्य(।)यतः(।)
तदाकारं हि सम्वेदनमर्थं व्यस्थापयति । नीलमिति पीतञ्चेति । यथा चाकार
योगिता ज्ञानस्य तथोत्तरत्र प्रतिपादयिष्यामः । अन्यत्र तु साधने तेन कर्मणा स्वार्थो न प्रसिध्यति
सम्विृत्तेः । तदाकारता चेत्परित्यज्यते कथन्तस्य सम्वेदनमिति नियमः । साक्षात्करणादेव
नियमो भविष्यतीति चेत् । किमिदं साक्षात्करणमर्थस्वरूपमथ सम्वेदनं । अथान्यदेव किञ्चत् ।
343
अथ सम्वेदनस्यैव रूपं साक्षात्क्रिया मता ।
तथा हि यदि साक्षात्करणमर्थस्य स्वभावो नीलादिः साधारण इति सर्व्वस्य संविदितः
सोऽर्थो भवेत् । साक्षात्क्रिया चार्थस्य न युक्ता ज्ञानधर्मत्वात् । अथ ज्ञानधर्मोसावर्थविषयः
तेनार्थः सम्विदित उच्यते । अर्थविषय इति को विषयार्थः । अर्थसम्वेदनरूपत्त्वादिति चेत् ।
अर्थस्य सम्वेदनमिति किम् । अर्थरूपत्वात्सम्वेदनस्येति चेत् । (त)स्यैवार्थाकारता सम्वे
दनस्य । अथार्थज्ञातत्त्वादर्थसम्वेदनं । तथासति चक्षुषोपि ज्ञातत्त्वाच्चक्षुः सम्वेदनमिति प्राप्तम् ।
अर्थ पश्यति न चक्षुरिति चेत् । अर्थ पश्यतीति कोर्थः । अर्थम्पश्यन्दृश्यते तेन पश्यतीत्युच्यते ।
केन पश्यति896
स्वरूपेण । यथैव तर्हि स्वरूपं897
सम्वेदनरूपेण पश्यति । तथार्थमर्थरूपेणेत्यर्थ
रूपतार्थस्य सम्वेदनरूपता सम्वेदनस्येति । तदाकारतैव सर्व्वस्य साधिका । नान्यः स्वभावो
भेदको विज्ञानस्यार्थेन घटयति ।
अर्थान्तरफलवादिनां हि सर्व्वं दुर्धटमिति । आत्मभूतैव सम्वेदनस्यार्थाकारता प्रमाणं ।
सम्वेदनन्तदात्मभूतमेव फलं प्रमाणस्य । अर्थाकारतानुभवव्यतिरेकेण नान्यार्थाधिगतिः । नहि
सुखाद्याकारतार्थस्य सम्वेदनं,898
तद्विशेषादर्थविशेषानुभवप्रसङ्गात् । अथ हेतुतयार्थस्यानुभव
इति चेत् । यद्यर्थाकारता न स्यात्सुखमेव केवलमनुभूयेत । अर्थे सुखसम्वेदनमिति चेत् ।
नीले पीतसम्वेदनं कस्मान्न भवति । परस्परस्य वैलक्षण्यादित्यपि स्वपक्षोपघातः । सुख
नीलयोरपि तथेति अलम्पिष्टपेषणेन । स्वरूपमेव तत्तस्य न सम्वेदनव्यापार इति चेत् ।
अत्रोच्यते ।
नहि परमार्थतः कस्यचित्कोपि व्यापारः । स्वरूपमेव पदार्थानान्तस्य तथा भवद
तत्त्ववेदिभिरव्यापारो यतो व्यापार उच्यते । न परमार्थतः । ज्ञानं च पुरुषस्य स्वार्थः ।
सुखज्ञानवत् । ततः सुखज्ञानमुत्पन्नं स्वार्थो न तु सुखज्ञानेन किंचित्क्रियत इति । एवं रूपादि
ज्ञानमपि स्वरूपेणैव स्वार्थः । न तु तेन ज्ञायते । अर्थातु तदुत्पत्तिरिति समाप्तो व्यवहारः ।
एतावता किमर्थे व्यापारेण । न तर्हि अर्थसम्वेदनं फलम् । फलमपि अर्थाकारं सम्वेदनमर्थ
सम्वेदनमिति को विरोधः । कथन्तर्हि अर्थंसम्वेत्तीति भेदव्यवहारः । तामेव दधानमर्थाकारतां
वेत्तीति व्यपदिश्यते । तथाहि चक्षुर्विज्ञानं पीतमपहाय यदा नीलादौ वर्त्तते तदा परित्यागो
पादानलक्षणोस्य व्यापार इव ल यते । यदि नीलसम्वेदनं नीलरूपमेव पीतं न यायान्नन्यस्य स्वरूप-
344
मन्यस्य भ तीति । तेन तत्पृथग्भूतं युक्त्या व्यवस्थाय्यते स व्यपारश्च सा चार्थापत्तिरेव ।
परमार्थतश्च तदतदाकारमपरापरं विज्ञानमेव । न तत्र व्यापारव्यतिरेकौ ।
स जातिपूर्व्वविज्ञानानुभवाहितवासना । व्यतिरेककल्पनाबीजं900 केवलान्धपरम्परा ।। ६१५ ।।
(——) अन्तरश्लोकौ ।
ननु यदि तदाकारं ज्ञानं तेन जन्यते स एवार्थस्तत्र व्यावृतः स्यान्न तु ज्ञानमर्थे तत्कथं
विज्ञानं गृह्णातीति निश्चयः ।
अत्र समाधिः ।
तद्यथा पितृसदृशः पुत्र उत्पत्तिमान् पित्तृरूपं गृह्णातीति व्यपदिश्यते लोके विनापि ग्रहण
व्यापारेण, तथा ज्ञानेपि व्यपदेश इति को विरोधः । तत्र तदाकारता दृष्टा इह तु कथं ।
इहापि दृष्टैव कामशोकादिषु तदाकारा ज्ञानादेव सा तदाकारता नार्थादिति चोद्यं ।
तदाकारा तावत्तदाकारतोपलभ्यते भवन्ती । यदि वासनासामर्थ्यमस्ति दर्शने कारणमनुभवा
त्तदाकारता । अथादृष्टश्रुतपूर्व्वे प्रवर्त्तते तदा वासनासामर्थ्याभावादन्यतस्तदाकारादिति
वाक्यार्थः तदाकारः करणम् ।902
तथा हि (॰)
वासनातो यदुद्भूतं तदैकस्यैव विद्यते । तत्रार्थस्य स्थितत्त्वे तु सर्व्वसाधारणोदयः । ६१६ ।।
तस्मादर्थाकारतैव साधनं ।
केचिदाहुरालोचनाज्ञानं प्रमाणं, ततः परं जात्यादिविशिष्टवस्तुनिश्चयात्मकं फलं ।
ततोपि प्रवर्त्तनं ततः प्राप्तिस्ततः सुखमिति । पूर्व्वपूर्व्वं प्रमाणमुत्तरोत्तरं फलमिति क्रमः ।
आकारबलादेव हि प्रतिनियतार्थव्यवस्था नान्यतः । आलोचनविज्ञानं हि यदि प्रतिनियतमाकारं
नोपाददीत कथमस्येदमालोचनमिति स्यात् । अथापरमपि निश्चयादिविज्ञानमेवमेव तत्त्वव्य
पदेशलाभि पूर्व्वपूर्व्वं तु कारणमुत्तरोत्तरोत्पत्तावेव कारणं न प्रतिनियतार्थव्यवस्थायाः तदाकारतैव
तु यतः तत्र साधनं ।
सा ध त क मं हि क र णं(पाणिनिः १।४।४२)तस्य च सर्व्वकारकोपयोगेपि क्रियायां कथं
प्रकर्षः । नहि क्रियानिर्व्वर्त्तनमेव । भावेपि904
तत्रानन्तर्यं यस्य क्रियां प्रति तदेव साधकतमं ।
तथा हि । सत्स्वपीन्द्रियादिष्वदूरदेशतादिना यदि प्रतिनियताकारता न प्रतिप्राप्येत905 न
345
तदाकारार्थपरिच्छेदव्यवस्था । तदनन्तरभासिनी सा क्रियेति तदेव करणं । नन्वदूरदेशतैव साधनं
नेन्द्रियोपघातेऽदूरदेशतायामपि न नियतार्थव्यवस्था । अनुपघातस्तर्हि साधनं, नेदमप्यस्ति । यतः ।
ननु स एवाकारो व्यवधीयत इति प्राप्तम् तेन ह्याकारेण निश्चितोऽनुपघातः प्रति
नियतार्थव्यवस्थाहेतुः । नेदं साधीयः । यतः ।
नासिद्ध आकारनियमोऽक्षानुयातं साधयति । स चेत्प्रसिद्धः सैवार्थव्यवस्थितिः ।
व्यर्थ एवाक्षानुपघातः । न खलु सिद्धेऽर्थे प्राप्तः साधयति कश्चित्, सिद्धस्य साधनासम्भवात् ।
ततः सिद्धोपस्थानहारी किमपेक्ष्यते । तदाकारतायामपि906
निश्चयोपरः प्रतिनियतव्यवस्था
यामपेक्ष्यत इति चेत् । न(।) प्रत्यक्षप्रामाण्यप्रस्तावात् । अभ्यासमम्भवे हि प्रत्यक्षं प्रमाणं
तदाकारमात्रादेव च तदा प्रवर्त्तननिश्चयमन्तरेणापि । यदा तु निश्चयापेक्षा तदानुमानं प्रमाणं ।
तस्याप्याकारमात्रादेव प्रवृत्तेः । नापरापेक्षा । तस्मादाकारान्नापरं क र णं तथाऽसाधारणमिति ।
तत्र ।
सर्व्वस्य हि नीलपीतादिविषयस्य सामान्येन हेतुत्त्वादक्षं न भेदकं । ननु नीलपीततदु
भयादिविषयमन्यान्यदक्षं भविष्यति, तदभिमुखता हि तत्रान्यैव, ततो धर्मभेदेऽक्षाणामिति
तद्भेदादेव भेदप्रतिपत्तिरिति किमुच्यते सर्व्वसामान्यहेतुत्वादिति । तदसद् । आभिमुख्यस्य
विशेषणाकारभेदमन्तरेण प्रतिपत्तुमशक्यत्वात् । तद्भेदेप्याकाररहितस्य अस्येदमाभिमुख्यं
नीलपीतादिविषयमिति कुतः । नहि नीलादिविशेषप्रतिपत्तिमन्तरेणाभिमुख्यविशेषप्रतिपत्तिः,
सा चेदस्ति किमिदानीमाभिमुख्यप्रख्यानेन । अथवा तद्भेदेप्यभिन्नस्येति तस्य नीलपीतादिवे
दनस्य भेदेपि अभिन्नस्येन्द्रियस्य अस्येदं करणमिति कुतः । आभिमुख्यविशेषाद्विशेष इति
चेत् । नाभिमुख्यत्वस्याकारणविशेषप्रतिपत्तिमन्तरेण विशेषेण प्रतिपत्तुमशक्यत्वादित्युक्तं ।
तत आकारविशेष एव प्रार्थनीयः । स चेदस्ति किमपरेण ।
नन्वाकारोप्यर्थस्यैव न ज्ञानस्य, तस्यार्थतया प्रतिपत्तेः । जडरूपतया हि स आकारः
प्रतीयते वर्ण्णसंस्थानात्मना । ज्ञानन्तु तद्विपर्ययेण बोधरूपतया । नाकारव्यतिरेकेण बोध
रूपतायाः प्रत्येतुमशक्यत्वात् । नीलादिसुखादिकमन्तरेणापरस्य ज्ञानाकारस्यानुपलक्षणात् ।
परोक्षं तर्हि ज्ञानं न चास्तीति प्राप्तं ।
तदसत् । तथा हि(।)
परोक्षं यदि तज्ज्ञानं ज्ञानमित्येव तत्कुतः । परोक्षस्य स्वरूपं कस्तस्य लक्षयितुं क्षमः ।। ६१९।।
एतेनाभावोपि प्रत्याख्यातः ।
346न चापरोक्षताव्यतिरेकेण नीलादितानुभवकालेनुभूयते । ततो नीलाद्याकारा सा ।
नीलन्तु तस्या उपधानमन्यदेव । दर्पणमुखप्रतिविम्बादि च मुखमित्याकार एवासौ न स्वयमर्थः ।
ननु दर्पणप्रतिविम्बमुखयोर्द्वयोरपि प्रतिपत्तिरिह त्वाकारमन्तरेण नार्थस्य । एतदुत्तरत्र प्रति
पादयिष्याम इत्यास्तां तावदेतत् । जडरूपता तु स्वयञ्चकाशतः908
कथं शक्योपपादयितुं ।
यदि चार्थापरोक्षातायः कश्चिदपरोस्ति यत इदमिति साध्यते । तदा वासना भविष्यति ।
वासन बलायातोयमाकारो विज्ञानस्य । न च वासनाबलादर्थः सम्भवति । तदभावप्रसङ्गात् ।
ननु वासनाबलायातोऽर्थशून्यो भवति स्वप्नाकारवत् ।
वासना हि तावदाकारस्य जनिकोपलभ्यते स्वप्नादिषु । तत एषोपि जाग्रदुपलव्धि
विषयभावं गतस्तत एव तज्जातीयत्वात् ।
नन्वाकारत्वमेव तस्यासिद्धमर्थ एवासाविति प्रतिपत्तेः । न (।) व्यभिचारात्ं ।
स्वप्नज्ञानाकारो ह्यर्थ इति प्रतीयत एव । पर्यालोचनतोऽन्यथा प्रतिपत्तिरिति चेत् । अत्रापि
पर्यालोचनन्न काकैर्भक्ष्यते । वासनाविशेषस्तु जाग्रदवस्थाकारः सा ( ? सो) र्थ इति वरं कल्पितं ।
स्वप्नादिप्रत्ययोपि न साकारस्तत्राप्यर्थस्य सम्भवदिति चेत् तदुत्तरत्र प्रतिपादयिष्यामः ।
अथार्थाकारता नापरोक्षः, अर्थ एव नीलादिकोर्थाकारः । सा तु वस्तुप्रत्यासत्या । तथा
लक्ष्यते दर्पणप्रतिविम्बवत् । मुखप्रत्यास्त्या हि दर्पणमनाकरमप्याकारवदिव लक्ष्यते । प्रदीपादि
प्रभावद्वा । प्रदीपप्रभा ह्यनाकारापि घटादिसंक्रान्ता घटाद्याकारेव लक्ष्यते ।
तदसत्त्यं ।
अपरोक्षता हि नीलाकारात्मभूतैव सर्व्वदा निरीक्ष्यते नान्यथा । तत्किमर्थ प्रत्या
सत्यैवं प्रतिभाति यथैवम्भूतैरेवेति किमत्र प्रमाणम् । भवतोप किं प्रमाणमिति चेदभेदोपलब्धिरेव ।
भ्रान्तिरेवेयमिति चेन्न बाधकाभावात् । अर्थप्राप्तिरिति चेत् । (न) । प्राप्तेरप्याकार
लक्षणत्वात् । नहि तदाकारतामन्तरेण प्राप्तिरस्तीति प्रतिपादयिष्यामः । यदि स तथा
भूत आकारो न स्यान्न कश्चित्प्रतिनियतमर्थं व्यवस्थापयेत् ।
आलोचनार्थसन्निकर्षादिः शेषः । अर्थसन्निकर्षोपि नाका (र) मभिपत्य ज्ञायते ।
ततस्तेष (ा) मपि क्रियां प्रत्यसाधकतमत्त्वं, व्यवधानात् विशेषणधियां । पुनस्तदाकारता
भावे विशेषणबुद्धिरेव न सिध्यति । तद्विशेष्यादिबुद्धित्वमिति । न तेषामपि करणत्वं
यदि तावत्कालाविशेषणबुद्धिर्विशेषणमेतदिति कथं ज्ञातव्यं । न हि विशेष्योपारुढरूपमन्तरेण
विशेषणत्वं नाम, नापि तदुपारूढत्वग्रहणं विना विशेषणत्त्वग्रहणम् । तदाकारग्रहणे च विशेष्यमपि
गृहीतमेवेति कथं ततो विशेष्यधीरपरा साध्या/?/ भवेत् । न हि तदैव909 गृह्यमाणं तद्ग्राहकबुद्धिज-
नितग्राहकग्राह्यं तत्कालेपि910
विशेषणस्य प्रतिभास (न) मिति चेत् । पूर्व्वन्तद्ग्रहणं व्यर्थं पूर्व्वमपि
विशेष्यं प्रतिभासत इति न युक्तं साधनत्वाभावप्रसंगादेव । किञ्च विशेषणबुद्धिर्विशेषणे
विशेष्ये तद्व्ुद्धिरिति विषयभेदः क्रियासाधनयोः प्राप्तः (।) भवतु को दोष इति चेत् ।
न खलु पलाशे परश्वादिकरणप्रवर्तनम् । न्यग्रोधे च्छिदा निर्वर्त्तते एकार्थतायां पूर्व्ववत्प्रसंगः ।
व्यर्थता च द्वयोः । क्रमभावश्च सर्वासां तदर्थहेतूनां धियाम्विरुद्धः । एकत्वे क्रमायोगात् ।
आवृत्तिभेदात्क्रम इति चेत् । न (।) आवृत्तिभेदस्य प्रत्यक्षेण प्रतिपत्तुमशक्यत्वात् । यदि
तदेव ज्ञानमावर्तत इति रेवदा (? सदैवा) वृत्तिसंप्रत्ययः स्यात् । न च तदभिन्नस्वरूपग्राहिणां
परस्परं क्रियासाधनभावः क्रमभावेपि पूर्व्वेणोत्तरस्य जनिक्रियैव क्रियते नाधिगतिः पूर्व्वाविशेषात् ।
जनिक्रियापि नापरा तत्स्वरूपादिति प्रतिपादितमन्यत्र ।
—इत्यन्तरश्लोकः
नापि सन्निकर्षः प्रमाणं यतः ।
यदीन्द्रियार्थसन्निकर्षः प्रमाणं तस्य फलमर्थाधिगतिः स सन्निकर्षः संयोगः । संयुक्त
समवायः । संयुक्तसमवेतसमवायः । समवायः । समवेतसमवायः । संयुक्तविशेषणविशेष्य
भावश्चेति । इन्द्रियस्य घटादिना संयोगः । घटसमवेतेन गुणेन संयुक्तसमवायः । गुणत्वेन
सितत्वादिना संयुक्तसम (वे) तसमवायः । श्रोत्रस्याकाशात्मनः शब्देन समवायः । शब्दत्वेन
समवेतसमवायः । प्रदेशे घटाभावेनेन्द्रियस्य संयुक्तविशेषणविशेष्यभावः । तत्र यदि नाम
संयुक्तेन सम्बन्धः । तस्य ग्रहणमिति कुतः । अन्यथा धूमसम्बन्ध (?द्ध) स्य वह्न्यादेरपि
प्रतिपत्तिः स्यात् । अथ समवायसम्बन्धात्प्रतिपत्तिः । एवन्तर्हि एकार्यसमवायिनः स्पर्शदेरपि
चक्षुषा प्रतिपत्तिः स्यात् । समानदेशत्वमेन (?) प्रत्युक्तं । यथा सन्तानस्य एकार्थसमवायिनः
प्रतिपत्तिस्तथा स्पर्शादेरपि । अचाक्षुषत्वादप्रतिपत्तिरिति चेत् । तदेवेदम्
एकार्थसमवायित्वान्न कथमिति चिन्त्यते ।
तस्मान्न सर्व्वात्मनापि सम्बद्धं कैश्चिदेव धर्मैः प्रतीयत इति न युक्तं । यदि हि चक्षुरादि
परमाणवो बहिर्निर्गत्यान्यदेशसंक्रान्त्यार्थग्रहणनिमित्तं तत्संयोगे तथा सति स/?/र्वात्मना सम्बन्धाद
शेषरूपप्रतिपत्तिरिति चक्रशो घटादयोपि धर्माः परिस्फुटं प्रतिभासेरन् । वर्ण्णशश्च न संस्थान
मात्रस्य । तथा शेषजात्याद्यभिव्यक्तिः । दूरादौ करणस्यासामर्थ्यमिति चेत् । यद्यसामर्थ्य
मग्रहणमेव सर्व्वदास्तु । एवम्भूता सामग्री येनैवम्भूता प्रतिपत्तिरिति चेत् । न (।) अभिन्नत्वात् ।
संस्थानस्य वर्णतः ।
न हि वर्ण्णतः संस्थानं भेदेनावधार्यते । अवधार्यते वर्ण्णव्यतिरेकेणापि समर्थ (ा) कार
इति चेत् । तत्रापि श्यामवर्ण्णस्योपलभ्योपलब्धेः । अन्धकारस्यावस्तुत्वान्न वर्ण्णस्योपलब्धिस्
(।) तदप्ययुक्तं । उपलभ्यमानस्यावस्तुत्वायोगात् । आलोकेपि निमीलितलोचनस्य प्रति
पत्तेरिति चेत् । न (।) तस्य भ्रान्तत्वात् । न चैकस्य भ्रान्तत्त्वे सर्व्वत्र भ्रान्तिरित्यति
प्रसङ्गात् ।912
बाह्यार्थाभावप्रसङ्गात् । ततः पुनरिदमेव वक्तव्यं । कश्चित्प्रत्ययो भ्रान्तः
कश्चिन्नेति । तेनालोक एव संस्थानग्रहणं नान्धकारे । निकट एव न दूरे ।
तेन सर्वात्मना ग्रहणमग्रहणम्वा युक्तं । तस्य चार्थस्याभेदेपि भदो यो ज्ञानस्य सम्यग
नीलाद्याकारादेव । न बाह्याकारादिति । तस्मादाकार एव प्रमाणं । अथ संस्थानादना
कारमपि विज्ञानं प्रतिनियतार्थव्यवस्थाकारि भवेत् । अत्राह ।
संस्कारो हि प्रतिनियतव्यवस्थापूर्व्वकः प्रतिनियतमर्थविषयं ज्ञानस्य कुर्यात् स्वयं
प्रतिनियतः । तद्यथा योऽर्थोनुभूतस्तथाभूता स्मृतिर्भवति न चार्थप्रतिनियतोनुभवः । आकारं
विना कुतः । तत्कथं ततः संस्कारप्रतिनियमो येन ततो नियतार्थव्यवस्था । इतरेतराश्रयण
दोषप्रसङ्गात् । सति प्रतिनियमेनुभवस्य संस्कारनियमः । संस्कारनियमे चानुमाननियम
इति नैकोपि स्यात् । यदि साकारं ज्ञानं प्रमाणं तदेव फलमिति क्रियाकरणयोरैक्यं प्रसक्तं ।
आकारस्याधिगमाव्यतिरेकात् । अत्राप्युच्यते ।
यदि परमार्थतः क्रियाकरणयोरैक्यन्न युक्तमित्युच्यते तदयुक्तं । नहि कारकात्मिका
क्रिया कारकात्मनां विरुणद्धि । नहि व्यापारः पदार्थतो भिद्यते। नोत्पतननिपतने पर्शुतो
व्यति (रि) च्येते । तस्यैवापरापरदेशसंगिन्युत्पत्तिस्तथा व्यपदेशवती । न च सा स्वरूपादपरा ।
न च सा स्वरूपेण तदैक्यम्विरुध्यते । अथ व्यावहारिकी क्रिया विरोधिनी कारकैकत्त्वेन
तदेतदिष्यत एव । धर्मभेदाभ्युपगमाद्विकल्पपरिनिष्ठितो हि धर्मभेदोऽभ्युपगम्यत एव । एवं
प्रकारैव तु कल्पितभेदवती क्रियाकारकभेदव्यवस्था । तथा हि ।
देवदत्तस्तावदेक एव प्रत्यभिज्ञाबलाद्व्यवस्थाप्यते । तस्य स्थानगमने प्रदेशबृत्तिनी ।
ततस्तत्र क्रिययोर्भेदः कल्प्यते । यो हि यस्मिन्नभिन्ने भिद्यते स तस्माद्व्यतिरिच्यते । परमार्थ
तस्तु देवदत्त एव । अवस्थाभेदाद्व्यतिरेकी भिद्यते । तेन भावेषु भिन्नाभिमतेष्वपि लोक
349
एकत्त्वारोपेण प्रवर्त्तत इति । तदनुरोधात्क्रियाकारकव्यवस्था न परमार्थतः । एवमाकारोपि
न फलाधिगतिव्यापकः । अधिगतिस्तु सकलाकारव्यापिका । ततो भेदव्यवस्था प्रमिति
प्रमाणयोः । परमार्थतस्त्वाकार एव प्रकाशमानः प्रमितिः । तस्मादाकारः प्रमाणमर्थसम्वेदनं
फलमव्यतिरिक्तमेव फलं प्रमाणात्ततो वा प्रमाणमिति । तथा चोक्तं ।
सव्यापार प्रतीतत्त्वात्प्रमाणं फलमेव सत् ।
२. स्वसंवेदनफलम्
अथवा स्वसम्वित्तिः फलञ्चात्र । उभयाभासस्य विज्ञानस्य स्वसंवेदनमेव फलं ।
नन्वर्थसम्वेदनं फलमर्थार्थी लोत इति । अत्रोच्यते ।
श्रुतो हि परम्परया दृष्ट एव ।
७.९. विज्ञप्तिमात्रता
(१) अर्थसंवेदनचिन्ता
(क) अर्थसंविद्-
ननु नीलादिरर्थः सम्वेद्यत एव । कथमसम्विदर्थस्य । अत्र पर्यनुयोगः ।
यदि प्रतिनियतम्वेदनं914
प्रतिविदितम्वा तदा साकारज्ञानमेवार्थवेदनमिति व्यपदेशमात्रमेव
केवलं । नत्वर्थस्य वेदनं सिध्यति ।
अथ ताद्रूप्यादेवार्थस्य वेदनन्तथाभूतमर्थमन्तरेण ताद्रूप्यस्याभावात् । न । व्यभि
चारात् केशमशकादिषु ।
यद्यर्थसम्बन्धो नास्ति तदा कोसावनुभवः अनुभूयमाननिष्ठत्वादनुभवस्य । कथं
केशाद्यनुभवस्तैमिरिकस्य ।
ननु कश्चिदर्थनिष्ठ एव दृश्यते तदेवेदम्विचार्यते । दृश्यतामर्थस्येति च न दृश्यते ।
अर्थस्यादर्शनात् (।) यदि चोदयमात्रादर्थसम्वेदनं चक्षुषोपि वेदनं तदिति प्राप्तं तत उत्पत्तेः915
(।)
तथैवानुमानात्कार्यदर्शनादनुमीयतेर्थस्तथा916 चक्षुरपि तद्वेदनं तदेव तदाकारं कल्प्यतां । बहिर्देशा-
350
कारेण बहिरेव कल्प्यत इति चेत् । किन्दर्पणमुखाकारेण तद्देशस्य मुखस्य कल्पना । ततः
सकलमेवात्मस्थं मुखवत्प्रतिविम्बरूपेण प्रतिभातीति कल्पनीयं ।
अणव एव यदि विषयस्ततः स्थूलाभासविज्ञानमिति सारूप्याभावात्कथम्बिषयो विज्ञानस्य ।
वृक्षादिपिण्डग्रहणवद् भ्रान्तमे (व) भवेत् । वर्ण्णाकारतया सरूपयन्तीति चेत् । न । वर्ण्ण
व्यतिरेकेण संस्थानाभावात् । वर्ण्णात्मकसंस्थानवत्त्वे स्थूलतैव प्राप्ता । अथ स्थूलता
ग्रहणधर्मः । वर्ण्णस्तु ग्राह्यधर्मः । बहुषु गृह्यमाणेषु स्थूलमिति भवति व्यपदेशः । न स
प्रत्येकं परमाणुषु । नीलादिता तु प्रत्येकमतोऽसौ ग्राह्यधर्मः । यद्येवन्तथा सान्तराणा
मनन्तरत्वग्रहाणद्भ्रान्तिरेव । नाविषयतयान्तरस्यापि प्रतिभासनादिति चेत् । यद्येवं सर्व्व
सामर्थ्योपाख्याविरहलक्षणं निरुपाख्यमिति भाव एवान्तरस्य । ततो निरन्तरमेव वस्तु परि
कल्पनीयं । निरन्तरस्यायोगादिति चेत् । नहि वस्तु सावयवं युक्तं । विज्ञानवत् निरव
यवमेव वस्त्विति परमाणुप्रसिद्धः । न । प्रतिबन्धाभावात् । प्रत्यक्षबाधि (त) त्वाच्च
प्रतिज्ञाया एतदयुक्तं । प्रत्यक्षमन्तरेण चानुमानाभावात् । स्थूलं सूक्ष्मोपचयरूपमेवेति चेत् ।
दत्तमत्रोत्तरं प्रागिति न पुनरुच्यते ।
अर्थरूपता सत्यपि व्यभिचारिणी ततो न भावनार्थसम्वेदनमिति सिध्यति । नहि
व्यभिचरन्नेव साधयत्यव्यभिचारार्थत्वात्साधनार्थस्य । व्यभिचारिणोपि साधनत्वे सर्व्वः सर्व्वस्य
साधनम्भवेत् । अस्तित्वेन व्यवस्थानं साधनं । व्यभिचारस्तु कदाचिदसौ नास्त्यपीति
नास्तित्वं पाक्षिकमाक्षिपति । तदिदमस्तित्त्वमितरच्चैकदकत्र विरुद्धं । तस्मान्नीलादिरूपता
मात्रादेव विज्ञानस्यार्थसाधनता नेत्येकान्तः । अपि च सम्वेदनानामर्थानाञ्च सारूप्यन्न च
तेषां परस्परं सम्वेदनभावः । न हि918
सन्तानान्तरसम्वेदनसरूपमपि वेदकं वेद्यम्वा ।
यदि यत उत्पद्यते सरूपं च तेन तस्य वेदनं तर्हि अनन्तरविज्ञानं तुल्यविषयं विषयः
स्यात् । यदा पूर्व्वकमपि नीलाकारमुत्तरमपि ततः समनन्तरादुदयवत् । तदा पूर्व्वकस्य सरूपकत्वा
दुदयकारणत्वाच्च विषयवत्त्वं प्रसक्तं । अथ यत उत्पत्तिमान्नीलादिक आकारः स तस्याकारवान्
विषयः । समानविषयविज्ञाने तु य आकारः स न समनन्तरादन्यथा नीलाकारसमनन्तरात्पीत
विज्ञानं न स्यात् । ततो लभ्यते (?) भवति नीलाद्याकारः समनन्तरप्रत्ययकृत इति न तस्य
विषयत्वं । अपरे व्याचक्षते । नीलसमनन्तराद्य दा सविकल्पकं नीलाकारमुदयमासादयति
तस्य स पूर्व्वको विषयः स्यादाकारकारित्वात्तस्य । तदप्यसदिष्यत एव स्मरणस्य सम्वेदन-
351
विषयत्त्वमेव विज्ञायते च । तथा हि सकलो लोकः१ स्मरणादर्थवेदनं लक्ष्यते । अनुसर
न्नस्मात्साक्षादर्थान्निरीक्षते । सकलमेव स्मरणमर्थानुभवे प्रवर्त्तमानमुपलक्ष्यते यदा न स्मृति
विप्रमोषः । ततश्चानुभवविषयत्त्वमस्येष्यत एव । न चाभ्युपगम एव दोषाय । किं च ।
निर्व्विषयमेतत्स्मरणमस्य किं विषयचिन्तया । अत्र क्रमः । यद्भावानाबलास्येष्टा (?) तमुपजायते
पूर्व्वकान्नीलानुभवात्तस्य स पूर्व्वको विषयः प्राप्तः । कथन्तस्य समनन्तरमिति चेत् । तादृश
स्यापरस्य समानजातीयस्य सम्वेदनस्यान्तरालभाविनोऽभावात् । कथन्तज्जनकमिति चेत् ।
दत्तमत्रोत्तरं । व्यवहितमपि जनकमिति प्रतिपादितमेतत् । अथवा विकल्पाकार एव भावनातः
स्पष्टाकार एव भावनातः स्पष्टाकारजनको विषयः स्यात् । ततस्तत आकारान्नार्थस्य व्यवस्था ।
भावनाबलादेव समानजातीयादयमर्थाकारो यज्जातीय इति न्यायादवतिष्ठत इति नार्थपरि
कल्पनायां न्यायः तस्मात्समनन्त (र) विज्ञानमेव विषयः । एवन्तर्हि ।
(ख) दृश्यदर्शने प्रत्यासत्तिविचारः—
यदि निश्चयादर्थव्यवस्था निश्चयः किल नार्थादन्यत्र । नहि समनन्तरप्रत्ययादयमिति
निश्च(यः) । अपि त्वविषयोऽयं ममानुभवो न समनन्तरप्रत्ययविषय इति । न ह्यर्थानुभव
मन्तरेणार्थ इति निश्चयो युक्तः । अनुभवानुसारित्वान्निश्चयस्य ।
अत्रोच्यते । अनुभवान्नार्थव्यवस्था किन्तहि तदनुसारिणो निश्चयादिति । तदेतदाया
तमर्थ एकः पन्यानं न प्रतिपद्यते । तेनाकृष्यमाणो द्वितीय इति महदद्भूतं । तथा हि ।
अनुभवानुसारी निश्चयस्ततो निश्चयादेवावगम्यतामर्थानुभवोसौ न स्वरूपमात्रस्येति ।
अन्यथा तथैव निश्चयो भवेदिति चेत् ।
तदेतदसत् । नन्वनुभव एव न ज्ञायते कस्येति कथमनुभवानुसारित्त्वं प्रसिध्यति ।
कुतस्तर्हि निश्चय इति चेत् । अभ्यासादेवेति प्रतिपादितं । सोप्यभ्यासोऽनुभवादेवेति कुतो
विपरीतनिश्चयः । अयमप्यपरिहारः । यत एवं सति न कस्यचिद्विपरितनिश्चयः स्याद्
दृश्यते च । तस्मादयुक्तमेतत् ।
नन्वालोचनमात्रमविवेककारि ततो निश्चयादेवार्थानर्थविवेकः । यद्येवं निश्चयोपि
न विवेककारी स्यात् । नहि द्विचन्द्रप्रत्यय एकचन्द्रनिश्चयकारी । अथाभ्यासान्निश्चयो
विवेकसाधनं । न (।) अभ्यासस्याहेतुकत्वात् । प्रतिनियतानुभवे हि तन्नियतोऽभ्यासः सत्त्यतां
यायात् (?) । अर्थ इत्यपि निश्चयोर्थक्रियाकारित्वाभिप्राय एव । सा चार्थक्रिया प्रतिभासान्तरमेव ।
न च प्रतिभासात्प्रतिभासान्तरस्यानुदयः । तस्मान्न निश्चयादर्थव्यवस्था ।
यदप्युक्तं । अथ सोऽनुभवः क्वास्येति । तत्राप्युच्यते ।
स्वरूपस्य हि पदार्थानां कारणमन्तरेण नोत्पत्तिरिति कारणप्रश्नो युक्तिमान् । तत
एतदिति । क्वायमिति तु कः प्रश्नार्थः । तथा हि ।
क्रीडनकप्रश्न एवम्विध इति चेत् । कस्मात्पर्यवसानस्य दर्शनात् । तथा हि सोर्थः
क्वा भूमौ । सा क्व एवमेव दृश्यते इति न पुनः पर्यनुयोगः । यद्येवमर्थस्यादर्शनादनुभवोपि स्वरूपे
वस्थित एवमेव दृश्यतामिति किमाधारकल्पनया । अनेन षष्ठ्यर्थपर्यनुयोगोपि प्रत्युक्तः । तदाह ।
स च नान्यस्य कस्यचित् ।
कथं तर्हि प्रत्यक्षप्रतिवेद्योर्थो निराकर्तुं शक्यः । तथा हि । प्रत्यक्षेण नीलं पश्यन्ति
तद्वन्तः । नार्थस्यादर्शनादित्युक्तं । तदाकारतैव प्रत्यक्षवेद्या न व्यतिरिक्तोर्थः । तदाकार
एवं नील इति व्यवह्रियते नान्यः । तस्मान्नीलात्मकोऽनुभवो नीलानुभवः शिलापुत्रकस्य
शरीरमिति यथा । न हि षष्ठ्यर्थ इत्येव भेदः । यथाकथञ्चिदस्य भावात् । अथवा स
कथं प्रत्यक्षोनुभवो यदि तस्यापरोनुभवो नास्ति । न स्वरूपगतेनैवानुभवेन सुतरां प्रत्यक्षता ।
पररूपे प्रत्यक्षताऽयोगात् । नहि तद्रूपमन्यस्य । तथा चेत् । अन्य एव भवेत् । अथवाऽ
परोक्षं विज्ञानं यस्यानुभवः सोऽर्थो भविष्यति । यद्येवमात्मा स तस्यानुभवः । अन्यत्रा
वेद्यमानत्वात् । भवतु को दोष इति चेत् । स च नान्यस्य । यद्यात्माऽर्थस्य स्यादन्यस्यापि
तथैव भवेदिति सर्व्वस्तद्दर्शी भवेत् । न चान्यस्य तथा ।
ननु प्रत्यक्षेण वेद्यते नात्मना । न । तदेव रूपं पृथग्व्यवस्थाप्य कल्पनया तथा व्यपदेशः ।
तस्मादनन्यसम्वेद्यो नीलाद्यात्मैवानुभवः । अथवा यद्यर्थो नानुभूयते किमिदं बहिर्देशसम्बद्ध
तयाऽनभवगोचरः । आत्मैवानुभूयते । चित्तमेवानुभूयते । कथं बहिर्देशता । स च नान्यस्य ।
ततोसौ कुतो बहिर्भूतः । अथवाऽऽत्मा स आत्मैवेदमर्थमिति भवतोप्यभ्युपगमात् । तस्य
चानुभवः स च नान्यस्य अपि त्वात्मन एव तद्व्यतिरिक्तभावात् । अथवा तत्स इति चेत् ।
न । प्रत्यक्षप्रतिवेद्यत्वात् । यतस्तदात्मनैव प्रत्यक्षप्रतिवेद्यत्वं नान्यथा ।
नन्वात्मवादः प्रसक्तः । न (।) चित्राकारसम्वेदनात् । अविद्यावशेनोत्पत्तिः सम्वेदनमेव
तत् । नात्मवाद उपयोगी । निरात्मकत्त्वन्तु वा रागादिप्रशमानुकूलमिति न दोषः । एत
देवोत्तरेण दर्शयति ।
बुद्ध्या योनुभूयते स नास्ति परः । यथान्योनुभाव्यो नास्ति तथा निवेदितं । तस्या
स्तर्हि परोऽनुभवो बुद्धेरस्तु । न (।) तत्रापि ग्राह्यग्राहकलक्षणाभावः । परं हि सम्वेदनस्वरूपेऽ
वस्थितं कथं परस्यानुभवः । साक्षात्करणादिकं प्रत्याख्यातं । तत्सम्वेदनानुप्रवेशे च तयो
रेकत्त्वमेव स्यात् । तथा च स्वयं सैव प्रकाशते न ततः पर इति स्थितं ।
कथन्तर्हि योगिनां परचित्तप्रतिपत्तिः । एतदुत्तरत्र प्रतिविधास्यते । तस्मात्स्वयमेव
स्वरूपप्रकाशकत्वात्तथा भवति । एवन्तर्हि स्वरूपानुभव इत्यस्तु कथं नीलानुभव इति ख्यातिः ।
अत्राह ।
(ग) नीलाद्यनुभवप्रसिद्धिः—
नीलरूपत्वान्नीलानुभव न तु नीलस्यापरोनुभवः । शुद्धस्यानुभवस्याभावात् । यो
हि यदव्यतिरिक्तः स तद्रूपेणैव व्यवहारविषयः ।
नीलानुभव इति यथा ख्यातिस्तथैवासौ नीलस्वरूपतयाऽनुभवरूपतया भवतीति युक्तं ।
न च व्यतिरेकव्यपदेशमात्रकादेव भेदः । व्यतिरेकव्यपदेशो हि यथा कथञ्चिद्वासनाबलादपि
भवन्नुपलभ्यत इति प्राक्प्रतिपादितं ।
ननु नीलं कथमात्मरूपं प्रकाशयति । नहि प्रकाश्या घटादयः प्रदीपादिना स्वप्रकाशकाः ।
आत्मनि क्रिया विरुध्यते । न हि सैवासिधारा तयैव च्छिद्यते ।
अत्र परिहारः ।
अवेद्येवेदकाकारा;
स्वात्मनि क्रियाविरोध इति कुतः प्रमाणादवगतं । नहि दृष्टान्तमात्रादर्थस्य प्रसिद्धिः ।
समीहितस्य विपर्ययेपि दृष्टान्तस्य प्रदीपस्य सम्भवात् । यदि घटः प्रदीपेन बाह्यात्मना
प्रकाश्यते । प्रदीपोपि तथाभूतेनापरेणेति न पर्यनुयोगः । न च घटोपि प्रदीपेन प्रकाश्यते ।
अपि तु तथाभूतस्यैव तत उत्पत्तिः । अथ प्रदीपोप्यपरेण चक्षुरादिना प्रकाश्यते । न । चक्षुरादेः
सकलघटादिसाधारणत्त्वेपि चक्षुषि च (स) त्यपि प्रदीपमपेक्षते प्रकाशकं घतस्तथा प्रदीपोपि
स्यात । अथ घट उत्पद्यत एव तथा प्रकाशनन्तु तस्य चक्षुरादिभिः । एवन्तर्हि ।
यथा ततस्तथाभूतरूपोत्पत्तावपि प्रदीपात्प्रदीपाभिव्यक्तो घट इति व्यपदेशः । तथा
चक्षुरादिकादपि तथोत्पत्त्यैव व्यपदेशः । अथ द्वयमपि प्रकाशकं घटादेः, प्रदीपादेस्त्वेकमेव ।
एवन्तर्हि ।
अत्यन्तमशक्तस्य द्वयमपरस्यैकमन्यस्य नैकमपीति वस्तुस्वभाव एष इति का वात्र
क्षतिः । अथ स्वात्मनि क्रियाविरोध इत्युच्यते ।
नहि स्वेनैव रूपेण कस्यचिद्विरोधः, तथा चेत् न किञ्चिद् भवेत् स्वेन रूपेणेति सकल
मस्तंगतं भवेत् । छेदस्तु पुनर्विशिष्टोत्पादनं न च तेनैव तस्योत्पादनं । अयमेवार्थः स्वात्मनि
क्रियाविरोध इति । स्वप्रकाशरूपन्तु तस्य स्वरूपं न तेनैव विरुध्यते । कुतस्तदिति वक्तव्यं
स्वहेतोस्तथाभूतादिति । यदि स हेतुर्न्नास्ति तदा युक्तम्भवेत् नान्यथेति न्यायः । तत
इदम्परेण वक्तव्यं स्वप्रकाशकत्त्वमेव न दृश्यते । तत्र चोत्तरमुक्तमेव सर्व्वस्य स्वरूपेण प्रकाशना
दिति । पुनरप्युच्यते ।
अर्थान्तरभूता बुद्धिः स्वप्रकाशान्यथा वा भवेत् । यदि स्वप्रकाशा स्वरूपेण प्रकाशते
ततोन्यर्थस्तया प्रकाश्यत इति । नाप्रकाशे तस्मिन् व्यपदेशस्तथा भवेत् । प्रकाशते चेत्सोपि
तथैव प्रकाशते तदैवेति कथं तस्य परेण प्रकाशनं । नहि तदा विशेषः प्रकाश्यप्रकाशकयोः ।
क्रमेण तद्व्यापारात्प्रतिपत्तिविशेषस्तस्येति चेत् । तथा हि ।
विशेषः प्रकाशत इति । स्वेनैव रूपेण तस्य प्रकाशनं ततः स्वरूपस्यैव तथा प्रकाशनं ।
ततः स्वप्रकाशनमेवान्तेपि । अथ स्वयं प्रकाशत इति न प्रतीयते । व्यवहार एवम्भूतो न
भवति तत एव उच्यते ।
नन्वनुभवानुरूपो व्यवहारः प्रमाणयितव्यो न सर्व्वः । अथ सर्व्व एव व्यवहारः प्रमाणं
तथा सति न किञ्चित्प्रतिवादिबोधनाय वक्तव्यं । तस्माद्यथा प्रतीयते तथाभ्युपगमः ।
ननु सम्वेदन नाम न परोक्षं युक्तं तथा सम्वेद्यं न सर्व्वदा तथेति922
न्यायः । सम्वेद्यस्य
परोक्षतापि युक्ता । यदि तु सर्व्वदा सम्विदितमेव, ज्ञानार्थयोर्भेदो न गम्यते ।
तदयुक्तं ।
असम्वेद्यमेव प्रतिपन्नमिति व्याहतं । तथा चायमर्थः स्यादप्रतीतं प्रतीतमिति ।
अथाप्रतीयमानं प्रत्यक्षेणानुमानेन प्रतीयते । तदप्यसत् । प्रतीयमानताव्यतिरेकेण नार्थः923
पर इति पक्षो न तु प्रत्यक्षप्रतीततैवेति । अनुमानप्रतीतिरपि स्वरूपे प्रत्यक्षप्रतीतिरेव ग्राह्ये ।
ननु ततः परोपि तत्रार्थोस्ति परेण दृश्यमानोऽन्यथा924
वा । न । प्रतीत्यभावाद
प्रतीयमानमस्तीति कुत एतत् । अनुमानेनैव प्रतीयत इति चेत् । अनुमानतैव तर्हि न स्यादर्थस्य
साक्षात्करणात् । असाक्षात्करणेनेति चेत् । किमिदं तच्च नास्ति तच्चास्तीति युक्तं ।
असाक्षात्करणं प्रतीतिरिति कोर्थः । स्वरूपं चेत्प्रतिपन्नं तदेव साक्षात्करणं न चेदप्रतीत
मेवेति न्यायः ।
355
यदि हि तदा प्रतीयते प्रतीत्यं तद्गतमेव कथमर्थता । अथ न प्रतीयते कथं व्यापकता
प्रतीतिः । व्यापकत्वेन प्राक् प्रतीतमिति चेत् । किमिदानीमनुमानेन । एतत्कालता न
प्रतिपन्ना ततोनुमानं न व्यर्थ । कथन्तर्हि व्यापकताप्रतीतिः ।
पावककार्यो धूमः कथं प्रतीतिमात्रं ।
तदसत् । तथा हि ।
तदिदमितिरेतराश्रयणव्यवस्थितवस्तुकमनुपन्यसनीयमेव ( ) अनेन प्रत्यभिज्ञाज्ञानमव
ज्ञातं । य आह प्रत्यभिज्ञाबलादेव विज्ञानमात्रता निराक्रियते । तथा हि ।
नहि मध्यसत्तार्थस्य प्रत्यभिज्ञया प्रतीयमाना सम्वेदनान्तद्गतापरोक्षतया प्रतीतेरिति ।
तदसत् । तथा हि । परोक्षतयापि प्रतीतिः प्रतीत्यन्तर्गतत्त्वमेव वस्तुनः प्रतीत्यन्तर्गतस्या
प्रतीतेरिति चेत् प्रतिपादितं । अप्रतीत्य मध्यसत्तामन्तरेण कथं प्रत्यभिज्ञति चेत् । पूर्व परयोः
समानजातीयत्वप्रतीतिमात्रकादेव दृष्टा, तथैव भविष्यति किमपरेण, लूनपुनर्जातकेशनख
प्रत्यभिज्ञावत् । अथ तत्र जात्यादिविषयः प्रत्यभिज्ञाप्रत्ययः । जातिरेवँकेति प्रतीयतां ततो
व्यक्तेरेकता न सिध्यति । न च जातिरपि मध्ये विद्यते । प्रमाणाभावात् । प्रत्यभिज्ञा
प्रमाणमिति चेत् । न । स्वरूपमात्रमेव पूर्व्वापरं प्रत्यभिज्ञाया निबन्धनमिति तदेवालम्बनं
प्रत्यभिज्ञायाः । न च तदेव प्रत्यभिज्ञाज्ञानं मध्यरूपालम्बनं, मध्यरूपस्यावेदनात् । न खलु
परोक्षमदृष्टमालम्व्यते । दृष्टत्त्वे च तदपरोक्षत्त्वाद्विज्ञानमेव । ननु परोक्षं चेत्कथं विज्ञानं
यस्यामवस्थायामस्ति तस्यामपरोक्षमेव । इदानीमतीततया परोक्षत्त्वेपि न विज्ञानत्वहानिः ।
यदि स्यादर्थस्याप्यर्थत्वहानिः स्यात् । अर्थस्याप्यतीतत्वेर्थत्वहानिः समस्त्येवेति चेत् । न
तर्हि मध्यसत्तायामर्थत्वं तस्या अप्यतीतत्त्वात् । अतीतत्वेपि परोक्षतायामप्यर्थत्वं नापैति
विरोधाभावात् । सम्वेदनत्वं त्वसम्विदितस्य कथमिति चेत् । अर्थत्वमपि तर्हि कथमनर्थ
क्रियाकारिणः । न ह्यसम्विदितमर्थक्रियाकरणसमर्थ । अनुमानेन तस्य वेदनं प्रत्याख्यातं ।
अन्येन मध्ये वेदने तदेव विज्ञानत्वं न चान्येन विदितत्वं प्रत्यभिज्ञायते । ततस्तेन सहैकता
नास्ति । प्रत्यभिज्ञात एकत्वाप्रसिद्धेः । अनुमानाकारश्च वासनाबलादुत्पत्तरेक एव विज्ञानात्मना
ततो वासनात एव सकल आकारः परिस्फुटप्रतिभासोपि ।
ननु वासनाया एकरूपत्वादाकारभेदो विज्ञानानां कथं । वासनाभेदाद् भेद इति
चेत् । यदि वासना नीलपीताद्यनन्तभेदा विज्ञानस्य जनिका तदाकारताया वाह्यस्यास्याश्च
को भेदः । वासनेति हि नाममात्रमेव ।
तदसत् ।
वासनेति हि पूर्व्व विज्ञानजनितां शक्तिमामनन्ति वासनास्वरूपविदः । अर्थस्तु
पुनर्मुर्त्तरूपः सदोपद्रवदायी ।
नन्वर्थोपि सम्विदितावस्थायामेवोपद्रुतिहेतुर्न्न सदा । ततो वासनाबलादुदयभावी प्रति
भास उपद्रुतिहेतुरर्थो वेति कोनयोर्भेदः ।
तदसत् ।
भावनाबलायातत्त्वे हि विपरीतवासनाविनिवृत्तौ स्व(ा) भीष्टवासनासमागमसमयेऽनभीष्ट
विनिवृत्तिरिष्टस्य च प्राप्तिरिति महानेष भेदः । ततो बुद्धिरूपवासनाकृत एव सकलो भेदा
वभासः ।
ननु वासनाया एकविज्ञानात्मभूतत्वात्प्रबोधके सति सकलवासनाप्रबोधादनन्तप्रतिभास
विज्ञानोदयः स्यादिति महदसमञ्जसं । बाह्याभ्युपगमे तु न दोषः । य एव सन्निहितोऽर्थः
स एव दृश्यते । न । असन्निहितस्यापि दर्शनाभ्युपगमात् । तथा हि ।
येषान्तावत्सर्व्वं सर्वत्र विद्यते तेषां समान एव दोषः । असत्ख्यातावपि सकलास
प्रतिभासनप्रसङ्ग । यस्य तु स्मृतिविप्रमोषः तस्याप्यनेकदर्शनं पूर्व्वं कस्मान्नानेकदर्शनं समान
मेतद्विज्ञानवादेपीति न दोषवान् । विज्ञानं वा पूर्व्ववृत्तं स्मर्येतार्थो वेति को भेदः । विप
रीतख्यातिरपि पूर्व्वदृष्टे प्रवर्त्ततामन्यथा वा किन्न सर्व्वत्रेति समानः पर्यनुयोगः पुनरपि तत्र स
एव वासनानियमो वक्तव्य इति समानं । न च समनन्तरविज्ञानात्मभूता वासनेष्यते । पटुप्रकाशः
पूर्व्वात्मप्रतिभासो हि वासना (।)
तथाभूतात्मसम्वित्तिजनकत्वाद्विना कुतः ।
इदिदमेवात्रेक्ष्यते पूर्व्वविज्ञानमभिमतेतरप्रतिभासं पाटवादिप्रकाराधिष्टितं ततस्दत
नन्तरं कालान्त/?/रे वा तथा भूतम्विज्ञानमुदयवत् । जाग्रद्दृष्टं स्वप्नप्रतिभासं जनयीत यथा । व्यव
हितात्कथमुत्पत्तिरिति चेत् । दृष्टाःस्मृतिः स्वप्नविज्ञानादयो व्यवहितादपीति न दृष्टे926
ऽनिष्टन्नाम ।
ननु नासौ जन(य)त्यथ प्रणिधानादेस्तदेव प्रतिभाति । न । अतीतस्य प्रतिभासा
भावात् । अतीतमपि प्रतिभासमानं दृष्टमिति चेत् । असत्प्रतिभासत इति कोर्थः । तदाकारा
प्रतीतिरित्ययमेव । तस्मादनुभवात्स्मृतिरुदयमासादयन्ती तस्यैव शक्तिविशेषमावेदयति । स
शक्तिविशषो वा स नेति व्यपदेश्यः । अयञ्च कार्यकारणभाव एवम्भूत उपलब्ध एव । ततो न
वासनास्तित्वे पूर्व्वविज्ञानभेदे च प्रमाणाभावोऽनादिवासनाभावस्य पदार्थानादितावदेव सिद्धेः ।
वासनाभेदे किन्निमित्तमिति चेत् । तदसत् ।
पूर्व्वप्रवृत्तज्ञानभेद एव वासनाभेदनिबन्धनं, ज्ञानभेदोपि तत एव वासनाभेदादिति को
दोषः । नन्वेवमितरेतराश्रयणदोषस्तदसद्यतः ।
अपि त्वन्या वासनान्यविज्ञानभेदहेतुरन्यः प्रत्ययोन्यवासनाहेतुः पूर्व्ववासनाभेदजनितः ।
ततो नेतरेतराश्रयदोषः । अन्यथार्थदर्शनेपि समानमेतत् । तथा हि ।
न खल्वर्थभेदोप्यनिमित्त एव ज्ञानभेदनिबन्धनन्तस्यायोगात् । ज्ञानभेदो निमित्त
मितीतरेतराश्रयदोषः । अर्थभेद एवार्थभेदस्य निमित्तमिति सुतरामसङ्गतं । अथान्योर्थ
भेदोन्यस्यार्थ (भे) दस्य निबन्धनमिति सोप्यन्यस्येति वासनायामपि समानमेतत् ।
नन्वर्थभेदः प्रतिभासमानो भिन्न (? न) त्ति विज्ञानमिति युक्तमेतत् । वासना कु कथमिति
कः परिहारः । यदि वासनापि प्रतिभासतेर्थवदर्थ एव सेति नाममात्रकमेव भिद्यते । तत्र वासना
मात्रग्राहके व्याप्रियमाणा ग्राहकभेदमेव जनयेत् । न तु ग्राह्यस्य । तथा ह्यनुभवादुत्पन्ना
वासना स्मृतिमात्रमेव जनयन्ती दृश्यते । अत्र परिहारः ।
अथ तत्रापि देशकालान्यथात्मकं बाह्यमेवालम्वनं सर्वविज्ञानानां स लम्बनत्त्वात् ।
यद्यपि तदा तत्र न प्राप्यते तदैव तत्रैव माभूदन्यदान्यत्र तु नास्तीति कमित्र प्रमाणं । तथा हि
घटो यत्र यदा नोपलभ्यते तदा तत्र नास्ति न तु सर्व्वत्र । अत्रोच्यते ।
यद्यन्यदेशोप्यन्यदेशतयोपलभ्यते नीलाकारोपि तथेति समानमेतत् । अन्याकारे
प्रमाणाभावादन्यथा नेति परिहारेन्यदेशोन्यथेति समा/?/नः परिहारः । आकारे नास्ति बाधनं
देशे तु बाधा तेन स एव देशयोगी नास्ति न त्वाकारः । तत्र तर्हि निरालम्बनं ततः सर्व्वं सालम्बन
मित्यसिद्धं ।
ननु सालम्बनत्वं तत्रापि यतः ।
देशतदाधेयाकार एव तत्र प्रतिभाति तयोश्च सत्त्वे किमनालम्बनं रूपं । नहि योगोऽ
परस्तयोरिति सालम्बनमेव सकलम्विज्ञानमिति ।
यदि नास्ति प्राप्तिस्तथापि सालम्बनम्विपरीतख्यातिरपि तर्हि नास्त्येवेति अभ्युपगम
विरोधः । अपि च विपरीतख्यातिस्तथा सर्व्वमेव भवतु किमन्यथा कल्पनयेत्यादर्शितमेवैतदिति
नोच्यते पुनः । बाधकप्रत्ययाभावान्नैवमिति चेत् । बाधकप्रत्ययाभावोपि विपरीतख्यातिरेवेति
न सत्त्या बाधकता । यत्र च कालान्यता तत्र वासनाया एव व्यापारः प्रतीयते नार्थस्य, पूर्व्वानु
भवादेव तदाकारता नाविद्यमानार्थाकारप्रतिभासनम् । अथ क्षणिकम्विज्ञानं कथं वास्यवासक
भावस्तत्र ।
अनुत्पन्नं न वास्येत अतीतोपि न वासकः ।
सहितयोरपि परस्परमसम्बन्धान्न वास्यवासकभावः । तदसत् । कार्यकारणभावविशेष
एव वास्यवासकभाव इति प्रतिपादनात् । क्षणिकानामेव च स विद्यते न नित्यानामिति क्षणिक
त्त्वादिति विपरीतसाधनमेतत् । ततश्च ।
वास्यवासकभावोयं नापरं कार्यकारणात् ।।
युक्त्योपपन्नां हि सतीं प्रकल्प्य यद्वासनामर्थनिराक्रियेयं ।
तथापि बाह्याभिनिवेश एष जगद् ग्रहग्रस्तमिदं समस्तं ।। ६८२।।
अत एव सर्व्वे प्रत्ययो अनालम्बनाः प्रत्ययत्वात्स्वप्नप्रत्ययविदिति प्रमाणस्य परिशुद्धिः ।
तथा हीदमेवानालम्बनत्त्वं यदात्माकारवेदनत्वं ।
ननु सकलप्रत्ययपक्षीकरणे न दृष्टान्त इति कथमनुमानं । न (।) अर्थापरि
ज्ञानात् (।)
विवादास्पदीभूतजाग्रत्प्रत्यया एव पक्षीकृताः । स्वप्नप्रत्ययानान्तु भावनान्वयव्यतिरेकानु
विधानात्सिद्धमेव निरालम्बनत्वं दृष्टान्तीक्रियते । कथं व्याप्तिसिद्धिः । यज्जातीयो यतः सिद्ध इति
न्यायात् । अन्यथा सकलकार्यकारणभावाभाव एव भवेत्प्रमाणाभावात् । अन्वयव्यतिरेकानु
विधानमेव हेतुफलयोस्तत्त्वमाचक्षते तद्विदः ।
ननु न प्रत्ययत्वादनालम्बनत्वं स्वप्नप्रत्ययानामपि तु बाधकसद्भावात् । तथा हि ।
न चैवं स्वप्नज्ञानवद्वाधको जाग्रत्प्रत्यये । तत्कथं तद्दृष्टान्तः ।
नैतदस्ति । बाधकप्रत्ययो हि कथन्तस्य विषयापहारक्षमः । नहि ज्ञानस्यार्थापनयनं
व्यापारोऽङ्कुरादीनामिव । कस्तर्हि । ज्ञापनव्यापार एव । तथा च नास्य विषयोस्तीति परेण
ज्ञापयितव्यं । अभावञ्चानुपलब्धिरेव ज्ञापयति । एकः प्रतिषेधहेतुरिति वचनात् । विरोध
स्याप्यनुपलब्ध्यैव साधनात् । ततस्तत्प्रमेयशून्यतावबोध एव बाधकेन करणीयः । तदभावश्चान्य
भाव एवेति तदन्यालम्बनतैव बाधकत्वं । तच्च जाग्रत्प्रत्ययेपि927 सकलं सम्भवि ।
ननु जाग्रत्प्रत्ययेनैवं भवति नैतदेवमिति, तत्कथं स बाधितः ।
ननु नैतदेवमेतदेवमिति फलमसम्वेदनेतरयोः ततः कथं फलतो व्यवस्था न सम्वेदनात् ।
फलेन हि व्यवस्था प्रमाणाभावात्सम्वृतिसदेव । सम्वेदनमन्तेरण कथं फलमिति चेत् । अ
सम्वेदने सम्वेदनात् । ततः फलमिवार्थसम्वेदनमपि स्वसम्वेदनमात्रमेव । ततस्तत्रैवार्थसम्वे
दनमिति व्यवस्था । तथा हि ।
तस्मादिदमेव तस्य बाधकं यदन्यरूपग्राहकत्त्वं तच्च सर्व्वप्रत्ययापेक्षया प्रत्ययान्तराणां ।
ननु जाग्रत्प्रत्ययार्थः सम्वादी तत्कथन्तस्यान्येनाग्रहणं । स्वप्नप्रत्ययानामपि तत्स्वप्न
दर्शिना तदन्यस्वप्नप्रत्ययग्रहणादविसम्वादनमेव । तत्कथं बाध्यत्वं । जाग्रत्प्रत्ययेन बाध्यत्वादिति
360
चेत् । जाग्रत्प्रत्ययोपि तेनेपि समानमेतत् । निद्रोपहते मनसि तस्य भाव इति न बाधकत्त्वं ।
यथोपहते चक्षुषि न केशादिदर्शनं तद्विपर्ययस्य बाधकमिति । तदसत् ।
स्वपन् प्रत्येति व्युत्थितो वा । ननु स्वप्नेपि विद्यते सर्व्वमेतत् । तथा हि (।)
स्वप्नेपि प्रबोधादिव्यवहारो दृश्यते । ततोऽयमपि प्रबोधादिव्यवहारोऽलक्षणत्वेनेक्षणात्
कथं संप्रत्ययकृत् । अथ संप्रत्ययसम्वेदनादेवं स्वप्नेप्येवमिति समानमेतत् । अथ स्वप्नेपि स्वप्न
एष इति कदाचित्संप्रत्ययस्ततो नैवं । सत्त्यमेतदिति किं न संप्रत्ययोस्ति । ततः सत्त्यता भवतु ।
अत एवानवस्थितः स्वप्न इति चेत् । अयमप्यनवस्थित एवैश्वर्यादीनामनवस्थानादेव । सहेतु
कमिहानवस्थानं अहेतुकं स्वप्न इति चेत् । तथा हि । झटित्येव स्वप्नदृष्टं नश्यति । वासना
दाढर्यमेतन्नत्वर्थ एवं साधयितुं शक्यः । तथा हि ।
ननु स्वप्नास्वप्नप्रत्यययोर्व्विवेकसाधनं ज्ञानं प्रमाणमप्रमाणम्वेति द्वयी कल्पना ।
यदि प्रमाणं तदा सालम्बनं तदिति तेनानैकान्तः । अथ न प्रमाणन्तदा न पक्षदृष्टान्तप्रसिद्धिरिति
कथमनुमानावतारः । कथं निरालम्बनत्वप्रसिद्धिः ।
तदसत् । प्रमाणमेव तदिति न दोषः । न च सालम्बनं सकलं प्रमाणमनुमानस्य
सालम्बनत्वाभावात् । अनालम्बनत्वेपीह व्यवहाराविसम्वादापेक्षया प्रमाणत्वात् । भेदश्च
यद्यपि तयोः सिद्धः स्वप्नेतरविज्ञानयोस्तथापि न तत्साधकं प्रमाण सालम्बनमिति न सर्व्वसा
लम्बनत्वप्रसङ्गः ।
लोके तावदिदं स्वप्नविज्ञानमिदं जाग्रत इति विभागः प्रतीयते928 । ततस्तदाश्रयेण
साध्यसाधनव्यवहारः । ततः पश्चाद्यदि परामृशतो न किञ्चिदत्र विभागकरणमुपलक्ष्यत
इति साधयत्यभेदं तथा सति कः परस्य दोषः । यदि च दोष एवं स्यात् वेदप्रामाण्यसाधनेपि
दोषो भवेत् । तथा हि ।
वेदो धर्मो कथन्तस्य लौकिकाद्वचनाद्विवेक इति पर्यनुयुक्तेन किम्वक्तव्यं । यद्यप्रमाणं
लौकिकवचनसदृशमिति कथन्तस्य विवेकेन धर्मित्वं । अथ प्रमाणत्वं प्रसाध्य विवेकं कथयेत्
तथा सति किं साधनोपन्यासस्य फलं । तत एव तच्चोद्यं कथं परिहर्त्तव्यं । नत्वन्यत एव
स्वरवर्ण्णानुपूर्व्वीविशेषाद्वेदस्य प्रबन्धभेदसिद्धिः । नान्येषामपि परस्परस्य तथा भेदसिद्धेः ।
अथास्ति तावदेष प्रबन्धः किमयम्वेद उत नेति विचार्यमाणो यदि प्रमाणं भविष्यति वेद एवान्यथा
नानेन प्रयोजनमिति परित्यक्ष्यामः । एवं तर्हि समानमिदमिति परित्यक्ष्यामः । एवन्तर्हि
समानमिदमत्रापि प्रत्ययस्तावदीक्ष्यते ।
यदि पश्चाद्विचार्यमाणं स्वप्नज्ञानमन्यद्वा परस्परं परमार्थतो भिन्नमभिन्नम्वेति भवेत्तथा
ग्रहीष्यामः । तत्र यदि परामृष्यमाणेन भेदे प्रमाणं किमप्यस्तीत्यभेदं प्रतिपत्स्यामहे । ततः
क इवात्र विरोधः । पूर्व्व भेदग्राहकमप्रमाणमिति चेत् । भवतु को दोषः । पक्षादिप्रविभागो
न भवेदिति चेत् । मा भूदिदानीं किं नो विघटितं । इदमेव यदप्रमाणत्त्वमभेदसाधनस्य ।
एवं तर्हि ।
वेदलक्षणप्रमाणाप्रमाणसाधारणधर्मिप्रत्िपत्तिरप्रमाणमेव स्यात्पश्चात्प्रमाणत्वसाधनेन
निवर्त्तनात् । ततो धर्मिसाधनस्याप्रमाणत्त्वात्तद्द्वारेण प्रामाण्यसाधनमप्यप्रमाणं भवेदिति न
वेदप्रामाण्यप्रसिद्धिः । ततः सकल एव साध्यसाधनव्यवहारो विशीर्येत । अथ धर्मिणः साधारणस्य
ग्रहणेपि न तद्ग्राहकमप्रमाणं प्रामाण्यस्याधिकस्य तत्रैव साधनात् । यदि तत्प्रमेयोन्माननं
परेण स्यात् स्यादप्रामाण्यं ।
तदप्यसत् । यतः ।
प्रमाणस्वरूपं हि वेदवचनं तस्य तद्विपर्ययग्रहणे तद्विपर्ययप्रमेयोन्मूलने परेण कृते कथम
प्रमाणता न भवेत् । नहि स्वरूपेणैव कस्यचिदाधिक्यं । अगृहीते तदाधिक्यव्यवहार इति
चेत् । अग्रहणे कथं प्रमाणता(।) कस्यचिद्रूपस्य ग्रहणादिति चेत् । न । भेदाभावात् ।
व्यतिरिक्तधर्माभ्युपगमान्नैवञ्चेत् । न । अनवस्थाप्रसङ्गात् ।
अथापि स्याद् भवतोऽभेदं प्रतियतः कथं विवेकेन पक्षीकरणादिविभागेन साधनप्रवर्त्तनं ।
तदसत् । परप्रत्ययापेक्षयेदमनुवादमात्रकं स्वयमपि पूर्व्वाभ्यासेन साधनप्रयोग इति
न किञ्चिदवद्यं । ममाप्येवमासीदिति परः प्रतिपाद्यते ।
यथा निरालम्बनाः सर्व्वप्रत्ययाः प्रत्ययत्त्वात्स्वप्नप्रत्ययवदिति तथा सालम्बनाः सर्व्व
प्रत्ययाः स्वप्नबाधकप्रत्ययवदेव । अत्रोच्यते ।
यथा स्वप्नप्रत्यत्त्वाविशेषाद्वाधकप्रमाणपरिनिश्चितनिरालम्बनत्वप्रतिबन्धादनालम्बन
त्वसाधनं तथा यदि सालम्बनत्वमपि ततो विरुद्धाव्यभिचारीति नैकस्यापि प्रसिद्धिरिति तदेव
निरालम्बनत्वं । न च सालम्बनत्वे साध्ये प्रतिबन्धः । अनुपलब्ध्या तुद्वयोरपि निरालम्बनत्वं ।
तथा हि ।
नहि जाग्रत्प्रतिभाससम्विदितमपि परेण वेद्यते । प्रत्ययान्तरस्यैव तथा वेदनादित्युक्त
362
मेव तत् । तत्राप्यालम्बनमस्त्येवेति चेत् । तस्मादर्थक्रिया न भवति । यदि नामार्थक्रियाकारि
न भवति प्रतीयमानं त्वस्त्येव । न ह्येकस्याभावेऽपरं न भवति । नहि धूमाभावादग्निर्न भवति ।
सर्व्वादा929 ऽभावात्किंशुकराशिवन्न भवत्येवेति चेत् । एवन्तर्हि तदर्थक्रियाकारि न भवति किंशुक
राशिवत् । स्वेनरूपेणास्तु । किंशुकराशिः स्वेन रूपेणार्थक्रियाकारी भवतु न स्वप्नोपलब्धः ।
नहि स्वप्नभुक्तं पुष्टिकृत् । अथ रूपमेव तत्तथाविधं तेन नेति चेत् । न । स्वरूपसम्वेदना
द्विज्ञानमेव तदिति सूक्तं । अथ स्वरूपत्वे को विरोधः । वासनाबलभावित्वं स्वप्रतीतत्त्वञ्च ।
अर्थ एव तादृशो भविष्यतीति चेत् । नामकरणमात्रकमेतत् । भवतोपि किन्नेति चेत् ।
न(।) अनन्तकारणाधीनस्य प्रतिपादनात् । तेन ज्ञानमेव तत् । तथा च ।
नहि तदर्थान्तरं तस्या एव भवति रूपं । ततोऽप्रवेशे न वेदनं । प्रवेशे नार्थान्तरं ।
ननु यदि बुद्धिस्वरूपमेव तत्तस्य स्वसम्विदितेन नीलादिना भवितव्यं । कथं परेणापि वेदनं(।)
न । भ्रान्तिरेषा तैमिरिकद्वयद्विचन्द्रदर्शनवत् । तत्राप्यर्थ एवेति चेत् । तथा हि ।
यथा साधारणत्त्वेन प्रतीयमानो भ्रान्ताभिमतप्रत्ययार्थस्तथेतरोपि । तदयुक्तं ।
न तावत्प्रत्यक्षेण परवेदनसाधारणता प्रतीयते । अन्यथा लिङ्गमन्तरेणैव सकलपर
प्रतीतिवेदनप्रसङ्गः । अथ परेणापि प्रतीयमानं तादृशमेव तत् । ततः सैव तस्य साधारणतेति
चेत् । यथा मयैतत्प्रतीयते तथा परेणापि योग्यदेशस्थितेन प्रतीयत इति हि लोकप्रतीतिः ।
न । तैमिरिककेशादिषु स्वप्नदृष्टेषु चैवं प्रतीतेरभावात् । तत्रापि भवत्येवेति चेत् । इदमेव रूपं
स्वप्नावस्थायामपि ततस्तत्समानत्वादसावपि बाह्य एव । न । भावनादावात्मप्रतिभास
एव तादृशो न तु परः तत्रास्तीति लोकस्य प्रतीतिः एवं एतदवस्थापीति समानं । परमार्थतस्तु
स्वरूपप्रतिभासमात्रकभुभयत्रापीति न सालम्बनता ।
ननु स्वप्ने व्याकुलत्त्वमयत्ननिर्व्वर्त्त्य सकलं तत् कथं समानता प्रत्ययानां । तदसत् ।
नीलपीतादिप्रतिभास एव केवलः कुतोऽपरा तत्र व्याकुलताऽयत्नोपनतिश्च । स्वप्ने
प्रयत्नमन्तरेण भावो वृक्षादिस्थाने झटित्येव तद्रागादेरिति चेत् । ननु प्रयत्नमन्तरेण भाव
इति केन परिगृहीतं, कार्यभाविना प्रत्ययेन कार्यमेव कारणभाविना तु कारणं । इदमतो भवतीति
क्रमः । इदमन्तरेणेदमित्यपि क्रम इत्यध्यवसायः । न प्रत्यक्षमत्र नानुमानं । आकुलमेत
दित्यपि न केनचिद्वेद्यते । भावनाविशेषाच्च निराकुलतादिभावः स्वप्नेपि । तथा जाग्रद
वस्थायामपि । अरिष्टादावाकुलतादर्शनं । अरिष्टदोषादेव चेत् । न । अरिष्टानरिष्ट
योर्व्विशेषाभावात् । तत्राप्यपरेण विवेककारिणा भवितव्यं । तत्राप्यपरेणेति नैवं भूतोस्ति
यतो विवेकः । स्वयमेव विवेक इति चेत् । न । स्वरूपनिष्ठितामात्रत्वादस्य । नहि
स्वरूपनिष्ठस्य परसम्वेदनं । स्वरूपमात्रवेदनं त्वाकुलानाकुलसमानं । दीर्घकालानुबन्धि-
व्यभिचाररहितमनाकुलमिति चेत् । न । प्रत्यक्षेण दीर्घकालानुबन्धाग्रहणात् । ततः परो
विकल्प एवावशिष्यते । तेन च नार्थप्रतिपत्तिः । ततोपि न व्यवस्था तस्यापि स्वरूपे प्रत्यक्ष
त्वात् । वस्त्वनुभवेन जनितो विकल्पः संवादीति चेत् । न । प्रतिबन्धाग्रहणात् । यदा
वस्त्वनुभवो न तदा विकल्पः, स यदा न तदानुभव इति कुतोऽत्र सत्त्यार्थग्रहणं । विकल्पेनेति
चेत् । अयमपि न प्रमाणम् । तस्यापि प्रतिबन्धसापेक्षत्त्वादपरो विकल्प इत्यनवस्था ।
एवन्तर्हि वासनयापि कथं सम्बन्धग्रहणं । न । परमार्थतस्तयापीति पक्ष एवायमिति प्रति
पादितं ।
वासनाजन्यतामन्तरेणापि विज्ञानमात्रकमेतदिति प्रतिपादितमेवेति न दोषः । ननु
वासनाभाविता न जाग्रद्विज्ञाने प्रतीयते । स्वप्नावस्थायां न स्वप्नप्रति (भा)सनमिति समान
मेतत् । उत्थितस्य भवति जाग्रदवस्थायां तु न तथेति चेत् । तदपि यत् किञ्चित् । तथाहि ।
प्रबुद्धोहमिति स्वप्नेपि भवत्येव । ततः कथं प्रबोधप्रतिभासतो व्यवस्था । अन्येन
प्रबोधेन सापि स्वप्नत्त्वमापादितेति चेत् । इयन् तु न केनचिदपीति । अतएव पदार्थ
व्यवस्था यद्यपि न तथा तथापि तत्समानत्वान्न प्रत्ययस्थानं । अनुमानकालभाविनो हि धूमस्य
नाग्निपूर्वकत्त्वसिद्धेरनुमानकत्वमपि तु तल्लणक्षत्त्वेन । एवमस्या अपि जाग्रदवस्थायास्तल्लक्षण
त्त्वादेव तद्रूपता ।
ननु न तत्र भावनाव्यापार उपलक्ष्यते जाग्रदवस्थायां कथं स्वप्नतुल्यता । तदाह ।
यथा रजनीस्वाप तथा मरणरजन्यामपि ।
पूर्व्वदिनदृष्टं यथा रजनीस्वप्नदर्शनस्य हेतुस्तथा पूर्व्वपूर्व्वदिनदृष्टमपररजनीव्यवहित
दिनस्वप्नदर्शनमेवेति महतीयं स्वप्नपरंपरा । अपूर्व्वस्यापि दर्शनमिति चेत्, स्वप्नाभिमते
प्येवमेवेति सर्व्वं समानं ।
व्यवहाराभावादिति चेत् अनेनैवानुमानेन विदुषां व्यवहार इति किन्न पर्याप्तं । यथा
कार्यकारणव्यवहार आनुमानिकः तथायमपीति समानं । क्षणिकत्त्वे च न व्यवहार इति किं
तेन न भवितव्यं । तदपि नेति चेत् । एतत्प्रतिपादयिष्यामः ।
ननु निद्रोपघातात्स्वप्नदर्शनमसत्त्यार्थंमिति युक्तं । ननु परिस्फुरन्नेवासौ कथं स्वप्नः ।
प्रारम्भे तु स्वप्नत्वं नोपयुज्यते । तदेव तस्य प्रतिभासस्य कारणञ्चेत् । न । भावना
विशेषात्प्रतिभासविशेषदृष्टेः । समानेपि स्वापप्रारम्भे कश्चित्कथञ्चित् स्वप्नदर्शी भवति ।
तदभावेऽभावादिति चेत् । भवतु निमित्तमात्रत्वं तथापि न तस्य प्रतिभासविशेषकारणत्त्वं ।
अयमपि स्वापानन्तरमेव प्रतिभासः ततः समानता स्वप्नेन प्रबोधे सतीति चेत् । न ।
प्रतिभासव्यतिरेकेण प्रबोधाभावात् । प्रबुद्ध इति प्रत्ययात् प्रबोध इति चेत् । न । स्वप्नेपि
स प्रत्यय इत्युक्तं । तस्मान्न स्वप्नेतरयोर्विशेषः । ततो यो विशेषदर्शनात् सालम्बननिरा
लम्बनत्वभेदमाह तस्य तद्विशिष्टत्त्वमसिद्धमिति दूषणं । नत्विदानीं सालम्बनत्त्वसिद्धिः प्राप्ता
जाग्रत्प्रत्ययाविशेषादिति विपर्ययसिद्धिः । न । विपरीतादिख्यातेरभावप्रसङ्गात् जाग्रत्प्रत्यय
वदेव तथा चाभ्युपगमबाधः । किञ्च ।
बाधकप्रत्ययो ह्यनुपलब्धिलक्षणो विपर्ययोपलब्धिरूपः प्रत्यक्षरूपो नानुमानेन प्रत्यय
त्वादिना बाधितुं शक्यः । यदि धूमादग्न्यनुमाने पश्चाद्विपर्यये प्रत्यक्षवृत्तिः किमनुमानं प्रमाणं ।
ननु प्रत्यक्षवृत्तावपि यदि द्विचन्द्रविषयेनुमानं बाधकं किन्तत्प्रत्यक्षमिति समानो न्यायः ।
न । तत्रापि प्रत्यक्षस्यैव बाधकत्वं । पूर्व्वमेकस्य दर्शनात् । अन्यथानुमानमेव न स्यात् ।
न तु प्रत्यक्षमनुमानपूर्व्वकं । यदि तु स्यात् । अनुमानमेव तत्रापि बाधकमिति
भवेदनुमानबाधायां प्रत्यक्षमप्रमाणम् । तथा च परस्परव्याघातान्न किञ्चिद् भवेत् । ततः
प्रत्यक्षमूलमनुमा
नं । न त्वनुमानमूलं प्रत्यक्षं ।
नन्वनुमानमूलमेव प्रत्यक्षमिति व्यवस्थितं । तथा
अनुमानेन हि सम्बन्धग्रहणेऽर्थक्रियया प्रत्यक्षस्य प्रवर्त्तकत्त्वं ततोऽनुमानात्प्रत्यक्षं प्रमाणं
प्रत्यक्षादनुमानमिति समानं परस्परबाधनं । यद्येवमितरेतराश्रयणदोष एव स्यान्न तु
प्रामाण्य
मेकस्यापि । उक्तमेतत्स्वरूपस्य स्वतो गतिः । प्रामाण्यं व्यवहारेण व्यतिरिक्ते प्रवृत्तिविषये
र्थात्मनि । तच्चानादिव्यवहारान्धपरम्परया । तच्च सम्वादात्प्रमाणं सम्बादश्च भाविनि ।
भाविनि च सम्वेदनमेव । ततः कथमर्थविषयं प्रामाण्यं ।। अनुमानमपि स्वरूपविषये प्रत्यक्ष
मन्तरेणैव चेत् । न । तत्र तस्य प्रत्यक्ष
तैवेति । ततोनुमानेन प्रत्यक्षं व्यतिरिक्ते930 बाध्यते ।
तस्या931नुमानविषयत्वात् । परोक्षत्वात्तस्य । कथं परोक्षे932 प्रत्यक्षं प्रमाणमिति चेत् । प्रवर्त्तक
त्त्वेन । न ग्रहणेन । ग्रहणं चेदप्रवर्त्तकमेव भवेत् । तथा हि ।
तत्र चानुमाने च न(?) बाध्यते यदि सुतरामस्मत्समीहितसिद्धिः । तथा हि ।
व्यतिरिक्तेऽर्थेऽनुमानेन प्रवर्त्यते प्रत्यक्षं । स च परोक्षत्वादनुमानस्य विषय इति तत्रैवानुमानेन
बाधा प्रत्यक्षस्य । तत्र चानुमानबाधायामनुमानमेवानुमानेन बाधितं भवेत् । तच्चान्ध
परम्परायातमनुमानं । तस्यानुमानेन बाधने प्रत्यक्षेण वा न कदाचित्क्षतिः । प्रत्यक्षतत्स
मुल्थापितानुमानयोस्तु नानुमानेन बाधा न प्रत्यक्षेणेति न्याय एषः ।
365
ननु प्रत्यक्षमपि द्विचन्द्रविषयमेकचन्द्रावभासिना तदुत्तरकालभाविनान्येन वा बाध्यत
एव । तस्याप्रत्यक्षत्वादिति चेत् । कस्माद्वाध्यमानत्वात् । परस्परपरिहारेणावस्थितयोः
कथं बाध्यबाधकभावः । एवमेतदिति चेत् । द्वयोरपि बाध्यबाधकभाव इति । न प्रापक
त्वादेकस्य बाधकत्वमेव । तथा ह्येकत्राभिप्रेतप्रापकत्वं नापरस्य । एवन्तर्हि तदेव पारम्पर्ये
णानुमानस्य बाध्यत्वमायातं । ततो निरालम्बनाः सर्व्व एव प्रत्ययाः स्वप्नप्रत्ययवदिति कोर्थः(।)
स्वरूपालम्बनाः । तत्र च प्रत्यक्षन्तत्समुत्थापितं चानुमानमनुपलब्धिरूपं । तच्च नानुमानेनान्ये
न वा बाधितुं शक्यम् । व्यतिरिक्तालम्बनसाधनं तु न प्रत्यक्षं नापि तदुत्थापितमनुमानमन्ध
परस्परायातत्वात् । तत्र चानुमानं प्रत्यक्षं वा भवति बाधकमित्येकान्त एषः । ततः सर्व्वे
सालम्बना जाग्रत्प्रत्ययवदिति न प्रतिप्रमाणमूलत्वात् । स्वप्नादीनां सालम्बनत्वबाधिका
बुद्धिरनालम्बना । तथा सति तद्दृष्टान्तेन कथं सालम्बनत्वसिद्धिः ।
ननु च निरालम्बनत्वं प्रत्ययान्तरगतं तदनया बुद्ध्या साध्यते । तच्च व्यतिरिक्तं ।
ततोन्योपि प्रत्ययो व्यतिरिक्तसाध्यविषय एव प्रत्ययत्वादिति कथमप्रतिप्रमाणम् । यदि नाम
प्रत्यक्षपूर्व्वकत्त्वादस्या933व्यतिरिक्तालम्बनत्वं । तद्विपर्ययबुद्धेस्तु विपर्ययग्रस्तायाः किमायाँत
येन सापि तथेष्यते । न चासौ व्यतिरेकं साधयति, व्यवहारमात्रप्रसाधनात् । अपरं व्यतिरिक्ते
तरालम्बनं सम्वादयति । स च सम्वादस्तदनुभवाभिनिवेशी तत्काल एव । ततो नेदानी
न्त934दत्र प्रतिभाति मयि । अहन्तु स्वाकारपर्यवसितैवेति तदात्मानमनालम्बनमेव प्रतिपादयति
ततो नानया935 सालम्बनया परापि सालम्बना साध्यते ।
(घ)(ग) ग्राह्यग्राहकाकारप्रतिभासव्यवसायः—
ननु यदि तद्रूपं न विषयीकरोति कथमनया तत्साधितम् । तत्र सम्बादादित्युक्तं ।
सम्बादाद्विषयीकृतमिति ज्ञायते । अत एवाह ।
अवेद्य एव वस्तुनि वेदकाकारा केशादौ प्राप्य, न हि तत्र केशादौ प्राप्ये बुद्धिर्वेदिका तस्या
सत्त्वात् । भ्रान्तैस्तु प्राप्य वेदिकेति प्रतीयते । अतश्च प्रतीयते यत्प्रवर्त्तन्ते । तत्रेदानीं प्रवृतानां
प्राप्तिर्नास्ति तत्रानालम्बनत्वं स्फुटमेव । तेनापरमनालम्बनं साध्यते । समानरूपोपलक्षणाद्वि
लक्षणस्यानुपलक्षणात् । सालम्बनत्वन्तु न क्वचिदुपलक्षितं ततः कथं तत्समानत्वात्सर्व्व
सालम्बनत्वप्रसिद्धिः । नहि प्राप्य रूपप्रतिभासि तदुपलक्षितं प्रवृत्तेरेवान्यथा तस्य प्रतिभास
नादप्रवर्त्तनं स्यादित्युक्तं । प्रतिभासितेपि पुनः प्रतिभासनार्थं प्रवर्त्तत इति चेत् । पुनः प्रति
भासमानत्त्वन्तर्हि न प्रतिभासितं । तस्यापि प्रतिभासमानत्वेन प्रवत्ततेत्यनवस्था । पुनः
366
प्रतिभासनञ्च किमर्थं । सुखार्थ ग्रहणार्थम्वेति चेत् । तदर्थं तर्हि प्रवर्त्तते । तच्चाप्रति
भासितमेव । तस्मादप्रतिभासमान एव सर्व्वत्र विषयत्त्वमित्यनालम्बनं सकलं सम्वेदनमिति
कथन्ततो विपर्ययसाधनं । कथनतहर्यविषयीकृते प्रवर्तते ।
तदसत् ।
स्वसम्वेदनप्रतिपत्तेः प्रतिपत्त्यनन्तरम्भवति स्वहेतुसामर्थ्यादहेतुतो वा । यथा दृष्टं
तथाभ्युपगम्यतामत एवोक्तं (।) निर्व्यापाराः सर्व्वधर्मा इति । अथवा व्यतिरिक्तस्य
पूर्व्वमप्रतिपत्तेः प्राप्यस्य पश्चाच्च भेदप्रमाणाभावात्कथं व्यतिरिक्तप्रतीतिः । एतेनार्थक्रिययापि
सहकार्यकारणभावः प्रत्युक्तः । पूर्व्वापरयोर्भेदाप्रतीतेः समानकालस्य चाजन्यत्वात् स्वरूप
मेवार्थक्रिया सा च स्वप्नेप्यस्तीति समानं । ततो बुद्धिरवेद्यवेदकाकारैव । विभक्तलक्षणौ
ग्राह्यग्राहकाकारौ विप्लव एव ततः । ततः स्वरूपमात्रसम्वेदनापरो विकल्प एव केवल
मुदेति पूर्व्वानुबोधात् । ततस्तथा व्यवस्था न परमार्थस्तत्र तथात्वं । तथा हि केशज्ञाने
सति पूर्व्वानुस्मरणादेवंभूतप्रतिभासानन्तरं प्राप्तिरासीत् । ततो विकल्पो ग्राह्यग्राहकोल्लेखेनो
त्पत्तिमान् । सोपि स्वरूपे ग्राह्यग्राहकरूपरहित एवापरेण तथा व्यवस्थाप्यते । न तस्यापि
स्वतो व्यवस्था ।
अन्येन वेदनञ्चैतत्कुतोऽवसितमात्मना । तत्कार्यदर्शनान्नैतत्कार्यत्वस्याप्रसिद्धितः ।। ७२०।।
नहि कार्यकारणभावः प्रसिध्यतीति निवेदितमेतत् । अनुमानस्य सामान्यविषयत्वस्य
वर्णनात् ।
सम्वित्तिपरिहारेण स्थितमेकं कथञ्च तत् ।
यदि तदेकमेवाद्याप्यनुवर्त्तते कथमस्य परोक्षता । परस्परसम्वेदनपरिहारेण च व्यवस्थितं
कथमेकमिति चिन्त्यमेवैतत् । यदि च साधारणत्वं प्रतिभाति त्वया दृष्टं न वेति किमिति
प्रश्नः । प्रमाणान्तरसम्वादार्थ । यदि प्रत्यक्षान्न प्रत्येति वचनादपि नैव प्रत्येष्यति । तदपि
स्वप्रतिभासमेव सूचयति त्वत्प्रतिभासितं मम प्रतिभातीति तेनापि वृथैवं ज्ञातव्यं । तत इतरे-
तराश्रयदोषः । यच्च प्रत्यक्षेण न प्रतिपन्नं तत् कथं वचनात्प्रत्येतव्यं । नहि प्रत्यक्षेर्थे परोपदेशो
गरीयान् । किञ्च ।
तस्माच्चक्षुरादिकरणाधीनस्वसम्वेदनत्वाद्विज्ञानमेव नीलादिकमित्यवेद्यवेदकाकारा बुद्धि
रूपा बुद्धिः । तथैव कृतव्यवस्थेयं बुद्धिः । तथैव वेदनादिति परमार्थः । ततः स्वसम्वेदनमेव
फलमर्थ इति च निश्चयस्तत्रैव । नार्थसम्वेदनन्नामास्तीति । ततो यदुक्तं न ग्राह्यस्य
स्वरूपग्राहकत्वे दृष्टान्तः कश्चिदस्तीति । तत्र विपर्ययाभावेऽनुपलब्धिसाधिते कथमदृष्टान्तता
शशविषाणादिरनुपलभ्यमानो दृष्टान्तः प्रत्यक्षप्रसिद्धे वा किं दृष्टान्तेन । ततो यदि शक्ष्यामो
विस्पष्टं स्वाङ्शग्राह्यनिवारणम् । तदा शुद्ध एव ते पक्षो विशेषणरहित एव ग्राह्य
निवारणो भवेत् । तस्य च पक्षस्य प्रत्यक्षेण बाधनं । यतः प्रत्यक्षादेः प्रत्ययवर्गस्य बाह्यमे
वालम्बनमवशिष्यते । स्वाङ्शग्राह्यनिवारणात् इति यदुक्तं परेण, तदसङ्गतं । प्रत्यक्षस्य
बाह्यविषयत्वाभावस्य प्रतिपादनात् स्वनिश्चयेनैव तेषां जाग्रत्प्रत्ययानां बाधकरहितत्त्वेनाव
लम्बनत्त्वमिति चेत् । न ।
प्रतिभासस्मरणातिरेकेण न निश्चयो नाम । न तावत्प्रतिभासनमर्थस्य प्रतिभासाभावे
च न स्मरणं । ततोऽपरस्य निश्चयस्याभावात् निश्चयो बहिरर्थ इति वचनमात्रकमेवैतदिति
व्यर्थ ।
936 दुष्टज्ञानगृहीतेर्थे प्रतिषेधो हि युज्यते । अगृहीतग्रहग्राहनिषेधः किन्न युक्तिमान् ।। ७३२ ।।
गृहीतमात्रबाधे तु स्वपक्षस्या937 स्त्यसिद्धता । अगृहीतस्य सत्वन्तु भवता कथमुच्यते ।। ७३३ ।।
अग्राह्यत्वाच्च भेदेन विशेषणविशेष्ययोः । अप्रसि938 द्धोभयत्वं वा वाच्यमन्यतरस्य वा ।। ७३४ ।।
चक्षु939 श्श्रोत्रोश्च यञ्ज्ञानं विशेषणविशेष्ययोः ।
अपि च ।
940 368
उक्तमेतद्व्यावृत्तिभेदकल्पितेन रूपेण विशेषणविशेष्यभावो निरालम्बनत्वं कल्पित
बाह्यालम्बनभेदेन पृथगिवव्यवस्थाप्यते । तथाभूतस्वरूपबोधनाय न परमार्थतो भेद प्रतिपाद्यतेऽ
भेदप्रतिपादतस्य वस्तुत्वात् । अवस्तुनि कल्पना कथमिति चेत् । अत एव । अन्यथा
941 अथ प्रत्यय इत्येष कर्मभावादि वा भवेत् । भावादिषु विरोधः स्यात्कर्म चेत्सिद्धसाधनं ।। ७४३ ।।
कर्म न उच्यते प्रत्यय इत्येष धर्मिरूपोऽन्यः कर्मव्युत्पत्या वा स्यात् प्रत्याय्यत इति
प्रत्ययः । अथवा प्रतीतिः प्रत्ययः । प्रत्याययति प्रत्याय्यतेऽनेनेति वा प्रत्यय इति ।
भावकर्तृकरणरूपता वा स्यात् सर्व्वमेतदनुपपन्नं । यदि प्रतीतिः प्रत्ययः सा प्रत्याय्येन विना
न भवति । एवं कर्त्रादिकमपि । ततश्च प्रत्यय इति बाह्यार्थापेक्षः । निरालम्बन इति
तदभाव इति परस्परविरोधिता ।
तदसत् । यदि प्रतीतिः प्रत्ययः सा स्वात्मनिष्ठाऽन्येन विना न भवतीति कुत एतत् ।
अन्यस्य तस्यामदर्शनात् । स्वरूपमेव च तत्र प्रत्याय्यं भविष्यति किमन्येन । तथा च प्रति
पादितं । प्रत्याययति प्रत्याय्यतेऽनेनात्मैवेति किम्विरोधगतमत्र । कर्म चेत् कर्मत्वं नाम
नावगम्यते । स्वरूपेण हि नीलादिकं प्रतिभासते न तु तस्यापरा कर्मता नाम । यद्यसावन्येन
कर्त्रा स्वव्यापारेणार्थ्यमान उपलभ्येत तदेवालम्बनमन्यस्य तच्च निराक्रियते यदि कथं सिद्ध
साधनम् । किंत्वसावर्थ्यमान एव न सिध्यति । ततः कथं कर्मतया तस्यालम्बनभावः ।
स्वरूपेण तदा लभ्यते चेदिदमिदानीं सिद्धसाधनम् ।
नन्वालम्व्यमान आत्मना अहं नीलं प्रत्येमीति प्रतीयते । तदसत् ।
न हीन्द्रियादिभ्योऽपरमात्मानमहं प्रत्ययालम्बनत्वेनोपलभामहे ।
यत्तूक्तं ।
तदत्यन्तमसत् । यतः ।
369
व्यतिरिक्तालम्बनत्वेन तु निरालम्बनता विज्ञानात्मकत्वेनैव सुतरामिति प्रतिपादितम् ।
यत्पुनरभ्यधायि ।
कर्त्तृत्वे करणत्त्वे वा पक्षत्त्वं शब्दयोरपि (।)
तदतिसुभाषितं । यतः । ताभ्यामपि किल प्रत्याय्यते निरालम्बनप्रत्ययशब्दाभ्यां ततः
तयोरपि प्रत्ययत्वं । तदनालम्बनत्वेन कश्चित्प्रत्यक्षः शब्दगतमात्रकमेव केवलं ।
नहि शब्दगोचर एव पक्षः । साधनविषयत्वात्तस्य944 । साधनञ्च प्रत्यक्षलक्षणोऽनु
पलम्भः945 । तेन स्वाकारालम्बनता साध्या सा पक्षः । कथं पक्षाभावः । प्रत्यय इति चात्र
ज्ञानं प्रकरणादवगतं तत्कथं शब्दद्वारकदूषणावसरः । नहि यावद्वयुत्पत्त्या विषयीक्रियते स
शब्दप्रतिपाद्योपि तु प्रकरणायात एवान्यथा न शब्दादर्थगतिः । सामान्यशब्दानामपि प्रकर
णाद्विशेषवृत्तिनोपलभ्यते, सैन्धवमानयेति यथा । भोजनबेलायां लवणस्यैव प्रतीतिः । इदम
प्येकफू्त्कारेणैव गतं । यदाह ।
प्रत्याय्येन च वाक्येन946 विना कर्त्राद्यसम्भवः ।
यदि न प्रत्यायपयति किञ्चित्प्रत्याय्यते वा न तेन, कथमसौ तथा, प्रत्ययविषयाभावे
वा किम्विषया प्रतीतिरिति । यतः ।
अबाह्यनिमित्तौ च प्रत्ययशब्दार्थो न स्ववचनबाधः ।।
रूढ़िरूपेणापि प्रतीतिनिरपेक्षः प्रत्ययशब्दो व्यतिरिक्तस्यैव वस्तुनः सिद्धः प्रत्यय इति ।
ततः सिद्धमेव लोकप्रसिद्धया बाह्यवस्तुविषयत्त्वं । नहि लोकप्रसिद्धमन्यथा शक्यविधानं ।
तदसत् ।
यदप्युच्यते ।
370
तमभ्युपेत्य950 पक्षश्चेद अभ्युपेतं विरुध्यते ।
तादृशे वस्त्वन्तरप्रत्यायके तवासिद्धिर्विशेष्ये प्रत्ययेऽस्माकमन्यथाभूते । तथा ।
आत्मधर्मस्वतन्त्रत्वकल्पनेपि तथा भवेत् (।)
तथा हि । यदि व्यतिरिक्तसाधनत्वमभ्युपगम्य प्रत्ययः पक्षीक्रियेत स तथाभूतो
धर्मी न भवतः सिद्धः । नहि बौद्धस्यैवमभ्युपगमः । अथ विपर्ययाभ्युपगमोऽव्यतिरिक्त
साधनत्वं तथासति प्रतिवादिनामस्माकमसिद्धः । न हयव्यतिरिक्तसाधनः प्रत्ययोरस्माभि
रभ्युपगतः, एवमात्मधर्मत्वं बौ दधा ना मसिद्धं । स्वतन्त्रत्त्वं च मी मां स का नां । न च
प्रत्ययमात्रमस्ति । यस्य धर्मित्त्वमुभयपक्षव्यतिरेकेण निरूपयितुमशक्यत्वादिति । तद्यथा
कथञ्चिन्मुखमस्तीत्युक्तं । यतः उक्तमेतत् ।
य एव हि व्यतिरिक्तसाधनधर्मः प्रत्यय धर्मिणो विशेषणत्त्वेनासिद्ध इति तदसिद्धि
द्वारेण विशेष्यासिद्धयुद्भावानांर्थ भवता स एव विवादास्पदीभूतः भवता साध्यः, तेन च विशेषणे
नासिद्धत्वमिष्यत एव धर्मिणः । साधनकाले यदि तु स एव सिद्धः किमिदानीं सिद्धोपस्थायिनां
साधनेन । नत्वसिद्धविशेषणः पक्षो दुष्ट एव यथा सां ख्यं प्रति विनाशी शब्द इति ।
तदसत् । यतः ।
यदि पक्षे न सिद्धो निराम (= स्वनाशः) इति दोषः । तदसत् । तत एव साध्यते ।
ततोऽप्रसिद्धविशेषणत्त्वमेव पक्षस्यादोषः कथमसौ दोषः । नहि स्वरूपमेव दोषः । अथ
दृष्टान्तेऽसिद्धिस्तदा दृष्टान्तदोषो हेतुदोषो वेति न पक्षदोषता ।
न चात्मधर्मताऽसिद्धौ धर्मानप्रत्ययो भवेत् ।
श्रोत्रग्रहणमात्रेणैव तस्य धर्मित्वं । अन्यथा न कश्चिद्धर्मी भवेत्प्रतिवाद्युपक्षितस्य
धर्मस्य सर्व्वत्रासिद्धत्वात् । तस्मादयमदोष एवेति यत्किञ्चिदेतत् । तत एवापरमपि
परोदितमयुक्तं ।
शब्दार्थ952 मात्ररूपेण यथान्येषां953 निरूपणं ।
तथापि954 भवतो न स्याद्वाद्यभेदमनिच्छत ।। ७६८ ।। इति955
371
वाचकाद्वाच्यन्तरेभ्यश्च भेदानभ्युपगमाद्यस्य च वादिनः शब्दार्थमात्ररूपेणापि निरूपणम
शक्यं सामान्यानभ्युपगमेव धर्मादिविकल्पने सति परवादिना तेन प्रत्यवस्थातुमशक्यमिति ।
तदसत् । प्रत्यय इत्यविशेषणं शब्दार्थमात्रं विज्ञानमिति योऽर्थः प्रतिभासनमिति
यस्य पर्यायः तस्य सिद्धत्वात् । असदेतत् । द्विचन्द्रादिप्रत्ययेन्यत्र च यत्प्रत्ययत्वं । तदेका
कारपरामर्षविषयः सिद्धमेव । तस्य तु पुनः किन्तत्त्वमित्यपरं सकलं विचार्यत्वात्साध्यमध्यम
ध्यासीनमसिद्धमिति किमयुक्तं । अत्रासिद्धता पश्चादाक्षिप्य निराकरिष्यते । अन्यदुच्यते तावत् ।
सर्व्व एव प्रत्ययो निरालम्बनः साध्यः । को दृष्टान्तस्तत्र । अथ जाग्रत्प्रत्ययस्त
थाप्यसिद्ध एव दृष्टान्तः । स्वप्नप्रत्ययस्यापि सालम्बनत्वात्कथञ्चित्तत्कालान्यकालवस्त्वा
लम्बनत्वात् । अथ तत्कालालम्बनाभावः । तदा
यथा यस्य यदालम्बनन्तत्कालमन्यकालादि वा तथा तत्सालम्बनमभ्युपगन्तव्यं ।
तथाप्यनालम्बनत्त्वे रसज्ञानमपि रूपेणानालम्बनमिति प्राप्तं तच्चेष्यत एवेति सिद्धसाधनं ।
ग्राहकाङ्शो हि ज्ञानस्य नार्थाकारता । किन्तर्हि ज्ञानाकारतैवेति भवतामभ्युपगमः ।
तत्रेदानीं ज्ञानस्य ग्राह्याभावः प्रसक्तोऽनिष्टश्च । तत्र ग्राह्यात्मनालम्ब्येन भाव्यं अथ बाह्य
न्नालम्बनं ।
तदसत् ।
अत्रापि बहिर्घट इति बुद्धिस्तत्रापि न घट एवालम्बनं । अपि तु बहिर्विषय एव ।
तत्सामानाधिकारण्यात्तु घटे तथा प्रत्ययः ।
द्विचन्द्रादिषु तुल्यञ्चेदिन्द्रियाप्राप्तितो हि सः ।
इद्रियेण चक्षुरादिना प्राप्तं गृह्णाति बुद्धिरित निरालम्बनतोच्यते । द्विचन्द्रादिबुद्धेः ।
न तु तदालम्बनमेव । एकचन्द्रप्रतिपत्तिरासीदस्य प्रागिति तेन सम्प्रयोगेण इन्द्रियेण द्वयस्ये
त्यनालम्बना । न तु सर्व्वदाऽर्थ एव नास्ति । एकचन्द्रदर्शने सति तद्विपर्यये नालम्बनत्व
मिति कारणमनालम्बनत्वप्रतिपत्तेः । एतदेव दर्शयति ।
372
निरालम्बनाः प्रत्यया इति । तदेतदलीककल्पनामलमलीमसञ्चेतः परेणाहङ्कारमावि
ष्कृतमिति महती मोहस्य महीयस्ता । तथा हि (।)
परपरिकल्पितयाक्षग्राह्यालम्बननिषेधेन स्वांशालम्बन एवायं शब्दः प्रयुक्त इति प्रकर
णादितः प्रतीतिः । अन्यथा शब्दादर्थप्रतीत्यभावात् । तत्र शब्दादयमर्थः प्रतीयते लोके
कथमस्य निरूपणमशक्यं ।
ननु न तस्यापि वाचकाद्वाच्यान्तराच्च भेद इति कथं शब्दार्थमात्रस्य धर्मित्वमित्युक्तं ।
सत्त्यमुक्तमयुक्तन्तूक्तमिति किन्तेन । नेदमिदानीमेवाद्वैतमायातं यतो962
भेदो न स्यादपि
तु भिन्न एव प्रत्ययान्तरेभ्यः परस्परञ्च । तत्र घटशब्दादन्यः प्रत्ययोऽन्यश्च घटः शब्दादित्यादि ।
शब्दाश्च गृहीतमेवार्थं प्राक् स्मरणविषयतामुपनयन्ति । तत्र ये ते प्रत्यया नीलाद्यालम्बनत्वेन
भवतः प्रतीतिगोचरास्ते निरालम्बना इति परमवबोधयतः किमयुक्तं । यदि कश्चिदनग्निकमेव
धूमं प्रत्येति स किमेवं न वक्तव्यः, त्वयाऽनग्नित्वेन यः प्रतीयते धूमः स तथा न भवतीति ।
कुतो वा दोषसम्भावना वक्तुः । अथ साग्नित्त्वेन पूर्व्वदृष्टेन स बोधयितुं शक्य इह तु कथं ।
इहापि निरालम्बनं तैमि (रि) कज्ञानं सिद्धमेव बाह्यस्यासम्भवात् । तत्रापि गगनमालम्बन
मिति चेत् । यथा तर्हि केशालम्बने गगनमालम्बनं तथा गगनालम्बनेपि अन्यदेव । प्रतिभास
मानस्यालम्बनत्त्वाभावात् । प्रतिभासमानमेव गगनप्रत्यये आलम्बनमिति चेत् । इहाप्यस्तु
केशप्रत्यये सर्व्वत्र विपरीतख्यातिस्मृतिसंप्रमोषः । लौकिकेष्वादिकल्पना न वा क्वचिदिति
एकान्त एवः ।
अथ सालम्बनमेकचन्द्रज्ञानमुपलब्दवतो द्विचन्द्रविज्ञानं निरालम्बनमिति युक्तं । एक
चन्द्रविज्ञाननन्तु कथं । तदपि तज्जातीयत्वादिति प्रतिपादितं । बाधितत्वादिति चेत् । तत्रापि
बाधितत्वमिति प्रतिपादितम् । च चाप्रतिभासमानमालम्बनमिति प्रतिपादयिष्यमाः । ज्ञानत्वञ्च
नीलादेः प्रतिपादयिष्यते । यथा च केशादिज्ञानं काशादिनासालम्बनं तथा नीलरूपं ज्ञानं पीतम
धुरादिना सालम्बनमिति प्राप्तं । कथं रसाद्यनालम्बनत्वेन सिद्धसाधनं रूपज्ञानस्य । अथ
रश्मितप्तोषरमन्तरेण न भवति जलज्ञानं रसादिकमन्तरेणापि किम्भवति रूपविज्ञानं । भवति
च सत्त्यजले तप्तोषरमन्तरेणापि जलज्ञानं । विशेषस्तत्रेति चेत् । परस्परस्य विशेषाद्
द्वयमप्यनालम्बनमन्यथा वेति प्राप्तं । भवतु द्वयमपि सालम्बनमिति चेत् । यदि प्रतिभास
मानेन963
रश्मितप्तोषरमित्यादि न वक्तव्यम् । अप्रतिभासमानमालम्बनं कार (ण)त्त्वेनेति964
चेत् । वासना भविष्यतीति सिद्धमस्मत्समीहितं । प्रतिभासमानमेव तर्हि भवतु किमन्येनेति
चेत् । प्रत्यक्षानुमानयोर्भेदाभावप्रसङ्गात् प्रतिभासमाने सकलं प्रत्यक्षमेव ।
प्राप्तेः सालम्बनत्वञ्चेत् प्राप्तिर्न्नास्तीति साधितं ।
373
सर्व्वदा नास्ति सर्वत्र सर्व्वदा नेति965 दृश्यते । क्षणिकत्वात्
प्रत्यभिज्ञानिरस्तैव ततः सर्व्व समंजसम् ।
तस्मात्प्रत्यक्षानुमानाभ्यां प्रतीतेः सकलमनालम्बनं । उक्तः शेषः ।
एवं परपरिकल्पितं विशेषणमनूद्य यदि तन्निराक्रियते क इवात्र दोषः । अनेनेदमपि
निराकृतं । यदाह ।
तथा हि (।)
बहिर्भावाप्रसिद्धत्वात्तेनानालम्बना मतिः । कथञ्च साध्यते नैष पक्षो हि ज्ञायते यदा966 ।। ७८१ ।।
मत्वर्थस्य साध्यत्वमिति स्थापयिष्यत इति ।
तदेतदसदेव । येनैव बाह्यमालम्बनमसिद्धं परमार्थतः । परेण केवलमभ्युपगंत । तत
एव निषिध्यते । भ्रान्तिनिरासाय साधनप्रवृत्तेरित्येतत्पश्चात्प्रतिपादयिष्यते । प्रमाणप्रसिद्धस्य
तु कथमभावः साध्यः स्यात् । प्रमाणस्य बाधनद्वारेणेति चेत् । न । प्रमाणस्य प्रमाणेन
बाधनायामनाश्वासेन प्रमाणतोच्छेदप्रसङ्गात् । न विरुद्धाव्यभिचारी नाम सम्भवतीति
प्रतिपादयिष्यामः । देशकालादौ दृष्टस्यान्यत्र निषेध इति चेत् । न प्रागभावात् ।
अथ कुतश्चिच्छास्त्रादन्यतो वा प्रमाणाभावादन्यत्र कल्पना । नहि भ्रान्तयो न
दृश्यन्ते । एवन्तर्हि ।
या हि कदाचिद् भ्रान्तिः सा निवर्त्त्यते । या तु पुनरत्यन्तं सा किन्ननिवर्त्तयितव्या ।
तन्निवर्त्तने महान् पुरुषकारः ।
ननु साऽन्यत्र बाधकप्रमाणोपदर्शनेन निवर्त्त्यते । या तु सदा भ्रान्तिरेव सा कथन्नि
वर्त्तयितव्या । बाधकाभावाच्च कथं सा भ्रान्तिरित्युच्यते । तदप्यसत् । यतो बाधको नाम
नास्त्येव । तथा हि ।
बाधकः किन्तदुच्छेदी किम्वा ग्राह्यस्य हानिकृत् ।
यदि बाधको बाध्यप्रत्ययाभावं करोति तदालम्बस्य वा । तदा तज्जातमजातं वा ।
374
यदि जातोसौ भावः केन तस्याभावः क्रियते । दैवरक्ताः किंशुकाः क एनानधुना
रञ्चयति ।
अथ जातः कारणात्तथा सति यथा जातः तथास्ति कथं विनाशावेशः । तथा सति
तदेव नष्टं तदेव सदिति महदसमञ्चसं । अथ यथा न जातस्तथा विनाश्यते । तथा सति ।
न च तस्य तद्रूपमिति त एव दैवरक्ताः । तेन च
नाशकेन परं कार्यं किमस्येति निरूप्यताम् ।
एतदालम्बनविनाशेपि समानं। तथा हि ।
अथालम्बनाभावं ज्ञापयति बाधकः ।
तदप्यसत् ।968
एवं तर्हि
कथन्तर्हि बाध्यबाधकभावप्रतीतिः ।
तथा हि कालान्तरस्थायिता सकलस्य भावस्य । तत्कालमध्य एव यदाऽपरस्वरूपनि-
375रूपणापरः प्रत्ययो भवति । तदा तेन विच्छिन्नं पूर्व्वकमालम्बनं प्रत्ययो वाऽध्यवसायविषयः ।
तेन स बाधको व्यवस्थाप्यते । तथा हि यद्ययं न स्यात्तदाऽविच्छिन्नमेव पूर्व्वकविज्ञानालम्बनं
भवेदन्यकालवत् । ततो ऽन्वयव्यतिरेकाभ्यां बाधकेन विच्छिन्नमिति गम्यते । एवं विनाश्य
विनाशकभाव आलम्व्य आलम्बनभावश्च । तथा हि ।
तथा
अपरोक्षस्तावदस्तीति कुतश्चिदागमादनुमानतो वावसितः स्वच्छञ्च विज्ञानं । यदि न
स्यादयमर्थः परिप्लवेतैव केवलं किमस्ति किमत्र नास्तीति । परिदृष्टे चार्थात्मनि प्लवमान
इव तीरमासाद्य स्थिरीभवति तेन तदालम्बनमिति व्यवस्थाप्यते । तथा हि ।
दृष्टश्रुतविस्मृतं हि विकल्पयन् किं किं दृष्टं तत्र प्रपञ्चकथायां श्रुतम्वेति पर्यन्वेषणपरो
यदा यथाश्रुतादिकमभिमुखीकरोति तदाभिमुखीभते स्थिरत्त्वेन तत्र प्लवमानतापरित्यागनि
मित्तमालम्बनतया व्यवस्थापयतीति लोकव्यवहारः ।
न तावत्परोक्षस्य सत्ता प्रत्यक्षेण प्रतीयते । तदभावादनुमानमपि नेति कुतः ।
सति परोक्षप्रतीतौ सद्भावे तदालम्बनता प्रत्यक्षस्य सिध्येत् । सालम्बनतायाञ्च प्रत्यक्षस्य
वस्तुसम्बद्धं सिध्यति । ततोनुमानं तत्प्रतिबद्धवस्तुलिङ्गोदयाद्वस्तु गमयति ततोऽनुमानप्रसि
द्धवस्तुविषयत्वात्सालम्बनं प्रत्यक्षं ततो वस्तुसम्बन्धोऽनुमानस्य ततो वस्तुगतिरित चक्रकम
व्यवस्थापि भवेदिति न वस्तुप्रतिपत्तिसम्भवः ।
यदा हि भ्रान्तिसम्भवे स्वयं परामर्शवतः पुनरसौ निवर्त्तते नेदं रजतमिति तदा
किमात्मनः पर्यनुयोगं कश्चित्करोति (—) कथमहमप्रतिपन्ने रजते तद्विशेषणमभावं प्रतिपाद्ये
विशेषणे चाप्रसिद्धे कथन्तद्विशेषणे चाप्रसिद्धे कथन्तद्विशेषणं परोक्षं जानीयां । येन मम
पक्षदोषो न भवेत् । परप्रतिपादनेप्येवमेव ।
ननु तत्र सत्त्यरजतदर्शने सम्भवति भ्रान्तिरिह पुनर्न्न किञ्चिद् दृष्टमिति कुतो भ्रान्तिः
एतदुत्तरत्र प्रतिपादयिष्यामः । अपि च । भ्रान्तिश्चेत्परमार्थेन कथञ्चिदवगता किमिदानीं
भ्रान्तिकारणान्वेषणप्रयासेन । यदि कारणं नास्ति भ्रान्तिरेव न भवेत् ।
नैतदस्ति ।
न कारणमस्तीत्येव भ्रान्तिः । अन्यथा सर्व्वा भवेद् भवतो भ्रान्तिः । अभ्रान्तावपि
पर्यनुयोगेन भवितव्यमेव कुत इयं भ्रान्तिः । तथाप्रतीतेरिति चेत् । भ्रान्तावपि969
समान
मेतत् । अभ्रान्तिपूर्व्विका भ्रान्तिश्चेत् । यदि कथञ्चिदभ्रान्तिर्न्नाम नास्त्येव कारणाभा
वात्किन्नु भ्रान्त्या भवितव्यम् । भवतु कथं प्रत्येतव्या । अभ्रान्तिविपर्ययेण हि भ्रान्तिरिति
व्यवस्थाप्यते । समानमितरत्रापि भ्रान्तिविपर्ययेणाप्यभ्रान्तिरिति । अथ विधिरूपेण
भ्रान्तिन्नं तु भ्रान्तिविपर्ययेण । भ्रान्तिस्तु बाधके सति । ततो विपर्ययादेवाभ्रान्तेर्भ्रान्तिरिति ।
तदप्यसत् ।
अथ यत्र कारणं सा भ्रान्तिरिति नोच्यते970 । या भ्रान्तिः सा कारणम्विना न
भवतीति । एवन्तर्हि सविशेषणो हेतुः ।
भ्रान्तिकारणसद्भावाद् भ्रान्तिर्भवति नान्यथा ।
सविशेषणे हि हेतौ भ्रान्तिः प्रथमं ज्ञातव्या पुनः सापि भ्रान्तिः कारणादिति अनवस्था ।
तस्माद्येन रूपेण सा भ्रान्तिस्तद्रूपविज्ञानादेव व्यवस्थाकारणं भवतु मा वाभूत् । स्वरूपेण
हि भावो भवति न कारणरूपेण । तत्स्वरूपं कुत इति चेत् । किमनेन । इयमपि
भ्रान्तिस्वरूपप्रतिपत्तिर्भ्रान्तिर्न्न भवतीति कुतः । यथेयं प्रतिपन्ना तथा यदीयमपि भवतु को
दोषः । पूर्व्विका न भ्रान्तिरिति चेत् । तदप्यसत् ।
विपर्ययस्यासद्भावं कस्तदा प्रतिपादयेत् ।
अत्रोच्यते ।
यदि विपर्ययवित्तिरथान्यथा कथमिवाभवनस्य विनिश्चयः ।
तस्मादनुपलब्धिरेव बाधकं प्रमाणं नापरमिति न्यायः । सा चात्राप्यस्तीति कथं
सालम्बनम्विज्ञानमिति । ततोऽवेद्यवेदकात्मबुद्धिः ।
यत्पुनरुक्तं मत्वर्थनिरासः साध्यत इति तदप्यत्यन्तमयुक्तं ।
निरालम्बनं विज्ञानमिति । आलम्बनत्वस्याभावः साधयितुं प्रस्तुतो येन कथन्तस्य स
एव साध्य इत्युपरि निक्षिप्यते । इच्छया हि विषयीकृतः पक्षः स कथमन्यथा क्रियेत । यो
यः साधयितुमिष्टः स एव पक्षः । अथ स तथाभूतः साधयितुमशक्यः । तथा सति हेतुदोषः
एवासौ न पक्षदोषः अभाववत्त्वेन साधने मत्वर्थ एव ।
न तु पारमार्थिकमत्वर्थसाध्यतायां प्रमाणमस्ति । कल्पितस्य धर्मिधर्मभावस्याश्रयणात् ।
अन्यव्यावृत्तिद्वारेण स्वभावभूत एव धर्मो व्यतिरेकेण व्यावस्थाप्योऽर्थवत्तया कल्प्यते तत्र यद्यपि
नामायं संवृत्या व्यवहारः तथापि न तावता क्षतिः । ग ज नि मी ल ने न तावदयं व्यवहारः
प्रवर्त्त्यताम् । पुनरयमपि निरूप्यमाणो विशीर्येत एव ।
ननु केयं सम्वृतिः । यदि वस्तु तदेव वक्तव्यम् । किन्तत्र नामान्तरेण । अथ
नास्ति किञ्चित्तदा सम्वृतिरिति किन्नामान्तरेण ।
तत्त्वसम्वरणात्सम्वृतिः प्रतिभासमानं हि रूपमसदिति न तावता युक्तं । विचार्यमाण
तायां पुनरसत्त्वादभावनिश्चयः । ततः परमार्थपेक्षया संवृतिरुच्यते । संवृत्यास्तीति भ्रान्त
जनापेक्षयास्तीति । न च भ्रान्तस्य बाधकोदय इति सत्त्यतयाऽभिमानात्संवृतिसत्त्यन्तदुच्यते ।
तत इदमपि वक्तुमेव ।
अभावे भ्रान्तता केयं भावश्चेद् भ्रान्तता कथम् ।
प्रलापः केवलस्तस्मादन्या नास्त्येव वञ्चना ।
तदास्तान्तावदेतत् । अन्यदुच्यते । यदत्रैव प१रेणोक्तं ।
प्रमेयत्वेन व्यतिरिक्ततैव नास्ति सम्वेदनात्सर्वस्य जगतः । व्यतिरिक्तस्यालम्बनस्या
भावात् । सिद्धमेव साधनं ।
सम्यक्त्वं पुनरेतस्यास्त्वं नेच्छसि कथञ्चन ।
बुद्धयुत्पादनशक्तिश्चेद्वार्या साध्यन्न सिध्यति ।
न चाभिधास्त्यसम्बद्धादृते भेदाच्च नास्त्यसौ ।
इति सकलं यत्किञ्चिदेतत् । यतः (।)
यद्यापि ज्ञेयत्वादिनाऽस्य धर्मेण तद्धर्मत्त्वमभे (द ?) स्तथापि ज्ञानत्वस्याभावाद्वयतिरक्त
एवासौ । नहि मनुष्यत्वयोगेपि ब्राह्मणादव्यतिरिक्तो भवति चण्डालः । ततो विज्ञानमात्म
व्यतिरेकिणालम्बनेन न सालम्बनमिति ज्ञानत्वरहितेनेति प्रकरणाद् गतिः । प्रमेयत्वञ्च
यथाव्यतिरिक्तं प्रमेयात्ततो विज्ञानादस्य भेद इति कुतः सिद्धसाधनं ।
यदि केनचिदप्याकारेण भेदः सर्व्वदा भेद एव भिन्नाभिन्नस्य द्रष्टुमशक्यत्त्वात्ततो
भिन्नस्यात्यन्तं भेद एव तदालम्बनत्वे स्वांगालम्बनत्वमेवे केवलन्ततः कथं सिद्धसाधनता ।
ज्ञानाकारतया चाभेदे ग्राह्यस्य भवत्ववान्तरभदः, तथापि तदव्यतिरिक्ताल बनमेव ।
यथा सुखदुःखयोः तत्त्वभेदो बोधत्वादभेदेपि तथा सितसातात्मतयापि भेदे को
विरोधः । ग्राह्यग्राहकाकारात्मता तु न प्रतिभात्येव । नहि सितसातादिव्यतिरेकेण
ग्राहकादिता प्रतिभासमानोपलभ्यते ।
तस्माद् ग्राहकादिव्यपदेशो दुरात्मभिः स्वमनीषिकाविप्रणष्टैरुपाक्षिप्तः ।
सर्व्वा बुद्धिर्न्निरालम्ब्या सर्व्वोत्पत्तिमती तथा ।
यदाहि निरालम्बना सर्व्वा बुद्धिरुदयवती साध्यते । तदार्थतो निरालम्बनतैव धर्मभता
साध्यते । तथा सति सालम्बनता भ्रान्तिवशादभ्युपगम्यमाना निराक्रियत एव । कथं
साधनोपन्यासो व्यर्थः । प्रत्ययशब्दे तु प्रत्ययशब्दो न वर्त्तत एव प्रकरणादिति प्रतिपादितं ।
ततः सिद्धसाधनता कथमसम्वेदनात्मत्त्वाच्छब्दस्येति । बुद्ध्युत्पादनशक्तिनिषेधस्तु नाभिप्रेत
एव । येन साधनव्यर्थता भवेत् । नहि बुद्धिरेव नोत्पत्तिमती । निरालम्बनवादस्यायमर्थः ।
ननु यदि बुद्धिरुदयवत्यपि निरालम्बना किन्तयोत्पन्नयापि । अथ सालम्बना तदा
तयैवानैकान्तिकत्त्वं (।)
तदप्यसत् ।
अन्यापोहस्य साध्यत्वात् व्यावृत्तिः परवञ्चिते ।
निरालम्बना सकला बुद्धिरिति प्रमाणेन केनचित्प्रतिपत्तव्य एषोऽर्थः । कथमन्यथा
साधनोपन्यासः । ततश्च साधनानिरालम्बनबुद्धेरपि निरालम्बनतैव साध्यते । तस्या
निरालम्बनत्वे कथं निरालम्बनत्वसिद्धिः । नानुमानस्य सम्वादेन प्रामाण्यात् न सालम्बनत्वेन ।
सालम्बनता नास्तीति कथं सम्वादः । आलम्बनस्यानुपलब्धेः । नास्तीति बुद्धेः कथं सम्वादो
यदि दृश्यानुपलब्ध्या पश्चात्तदासौ पदार्थो नोपलभ्यते । एवञ्चेदनालम्बनापि बुद्धिस्तत्त्वनि
श्चयनिबन्धनम् । ततोन्यापोहबोधक एव साधनप्रयोगो नाबोधकः । ततोन्यापोहेपि शब्दार्थे
सम्बन्धोस्त्येव पदार्थानां । भेदोपि काल्पनिकः । पक्षश्च सावयवः संवृत्त्या भवत्येव भेदग्रह
णविषयः । वादिप्रतिवादिनोर्भेदग्रहणं किं प्रथममेव विशीर्यते । तदपि च पश्चात्स्वप्नवदेव
निरालम्बनन्तदा च निर्वृत्ते कार्ये किमिदानीमसिद्धतादिचोदना करिष्यति । अपि च ।
प्रतिपादितमेव तत्पुरस्तादिति किमनेन चोदितेन ।
स्त्रीशूद्रविस्मापनमेव दुष्टैस्तत्त्वानभिज्ञर्गदितम्वराकै (।)
तस्मादभ्युपगम्यापि भेदप्रपञ्चपक्षादिकं ग ज नि मी ल ने न पुनः परामर्शप्रक्रमेण
तदभावसाधनेन दोषः ।
नन्वहं स्वप्रतिभासमेव केवलं प्रतिपद्ये इति प्रतिपादयन्परप्रतिपत्ता बाध्यते परेण तदपि
प्रतीयत एव । ततः कथं स्वांगालम्बना सिध्यति बुद्धिः ।
तदसत् । परेण प्रतीयते इति नात्र प्रमाणमिति प्रतिपादितं । प्रा श्नि का नामपि
स्वांशमात्रकादपरत्र नास्ति प्रतीतिः । इति निरालम्बनवचनादस्त्येव प्रतीतिस्ततः कुतः
प्रमाणादेषा तव प्रतीतिर्भेदग्रहणमन्तरेण प्रा श्नि का नां न साधनवृत्तिरिति । अथ ये
भेदप्रतीतिमन्तो न भवन्ति ते न प्राश्निका इति ।
तदसत् ।
प्राश्निकानां यदा पक्षवादिप्रतिवादिषु भेदबुद्धिः । तथापि यद्यसौ वादिवचनाद्विपर्येति
प्रमाणबलायातन्न तत्र तैर्व्विरोद्धव्यम् । स्वबुद्ध्या निरूपयतां तेषां यदि तत्परिशुद्धं भवति
कस्मात्रानभ्युपगमे हेतुः । ततः पूर्व्वाभ्युपगमेन यथा कथञ्चिदस्य वाचा ।
नन्वनेन प्रमाणबलिनापि पूर्व्वस्येति किमिदमनलसमप्युच्चैरुच्यते ।
यत्र सत्त्याभिमानोस्ति सा निरालम्बना मतिः ।
अथापि स्यात् ।
धर्मा973 धर्मादिबोधे च नासिद्धे परमार्थतः । शिष्यात्मनोश्च धर्मादेरुपदेशोऽवकल्पते ।। ८६४ ।।
सर्व्वलोकप्रसिध्या च भवेत्पक्ष974 स्य बाधनम् । कृत्स्नसाधनबुद्धिश्च यदि मिथ्येष्यते ततः ।। ८६६ ।।
सर्व्वाभावो यथेष्टम्वा न्यूनता975 द्यभिधीयते । तेषां सालम्बनत्वे वातैरनैकान्तिको भवेत् ।। ८६७ ।।
तदन्यस्य प्रतिज्ञा चेत् तदन्यप्रत्ययो मृषा । पक्षा976 द्यनन्तर्गमना977 त्तस्य पक्षादिता नहि ।। ८६८ ।।
तन्मिथ्यात्वप्रसङ्गेन सर्व्वं पूर्व्वं न सिध्यति । साध्य978 साधनविज्ञानभेदो नहि तदा भवेत् ।। ८६९ ।।
यावद्यावत्प्रतिज्ञैव979 न्तदन्येस्येतिभाष्यते । तावत्तावत्परेषां स्यान्मिथ्यात्वा980 दाद्यबाधनम् ।। ८७० ।।
सापि मिथ्येति चेद्ब्रूयात्स्वप्नादीनामबाधने । न स्या981 त्साधर्म्यदृष्टान्तो भवतः साधनेधुना ।। ८७३ ।।
विज्ञानास्तित्त्वभिन्नत्त्वक्षणिकत्वादिधीस्तथा । सत्त्या982 चेदभ्युपेयेत तदानैकान्तिको भवेत् ।। ८७४ ।।
तन्मिथ्याप्रतिप983 त्तौ वा पक्षबाधः प्रसज्यते । तथा च बद्धमुक्तादिव्यवस्था न प्रकल्पते ।। ८७५ ।।
तदेतदसत् । यतः ।
इष्टसाधनस्य धर्मत्वं तदन्यस्य धर्मत्वमिति भेदमसौ संसारी निश्चिनोत्येव तस्य भेदवा
सनानपगमात् । यदा च तस्य मुक्तता तदा न केनचिदपि तस्य प्रयोजनम् । नहि बालक्री
डाविषयेष्टसिध्यर्थं परमार्थवित्प्रवर्त्तते (।) यतः ।
381
तदयुक्तं यतो ज्ञानं क्षणिकं बाह्यवर्जितं ।
विज्ञानरूपक्षणिकत्त्वसिध्या साल (म्ब) नासौ क्षणिकत्वबुद्धिः ।
बाह्यालम्बनाः प्रत्यया न भवन्ति स्वप्नबुद्धिवत् । इति विशिष्य पक्षः कृतः । क्षणिक
त्त्वादि बुद्ध्यानेकान्त इति चेत् । न, क्षणिकत्त्वं यो गा चा र दर्शने विज्ञानात्मभूतमेव साध्यं
ततो विज्ञानात्मसालम्बनता दृष्टान्तेन तथाभूत सालम्बनतैव भेदवत् । अथ व्यतिरिक्तमाल
म्बनं तावत्सिद्धं । न व्यतिरिक्तालम्बना क्षणिकत्त्वबुद्धिः । तथा हि ।
अविसम्वादितमात्रान्न सालम्बनता विदाम् ।
अविसम्वादो हि योनुमानेन स प्रत्ययान्तरेण व्यवहितः । ततः प्रत्ययान्तरं तथाभूत
मुत्पादयदनुमानं प्रमाणम् । न स्वाकारमात्रग्रहणात् । प्रत्ययान्तरञ्च प्रत्यक्षमेव । साक्षा
त्करणे हि वस्तुग्रहणाभिमानः । तच्च साक्षात्करणं ज्ञानरूपस्य क्षणिकस्य स्वरूपं सम्वेदनेनैव
न तदात्मभूतं तदन्यसम्वेदनेन ग्रहीतुं शक्यम् । अथ स एव स्वसम्वेदनपक्षो न सिध्यति
प्रतिप्रमाणे सति ।
नीलादेरपि नीलत्ववृत्तिर्वेदनतो न किम् ।
यथैवात्मनो द्रव्यरूपतान्या सम्वित्या वेद्यते तथा नीलादेरपि किन्नाभ्युपगम्यते ।
नीलस्यापि स्वबोधरूपताऽन्या द्रव्यरूपतान्या भविष्यति । आत्मवत्स्वबोधरूपा नीलादयोपि ।382
अथोभयरूपता बौ द्ध स्यासिद्धा (।) सा भी नां स कस्याप्यसिद्धिः समानैव । न ह्येकमुभयरूपं
नाममात्रकेण शक्यम् ।
देशभेदेन भेदो हि रूपाभेदे कथं भवेत् । तथा च सति देशादिभेदः स्याद्व यापिभेदकः ।। ९०१।।
तस्मात्स्वसम्वेदनमन्तरेण वेदनमेव न सिध्यतीति सकलमनालम्बनमेव वेदनम् ।
मोक्षादियत्नोपि न पारमार्थिकीं स्थितिन्दधानः क्वचिदस्ति लोके ।
यथा स पारमार्थिको न भवति यत्नस्तथा भेदोपि बद्धमुक्तादिष्विति समानमेतत् ।
किञ्च ।
विकल्पयन्नेव बाह्यमान्तरं साधारणमवासनानिमित्तादिकं व्यवस्थापयति । अविकल्पकेन
तु साक्षात्करणरूपेण स्वरूपमेव प्रतीयते न पररूपमिति पुरः प्रतिपादितमेतत् तत एतन्नि
राकृतम् ।
985 विकल्प्योत्पद्यमाना च ज्ञानास्तित्वादिधीर्यदि ।
प्रमाणाभावतस्तेन ज्ञानास्तित्वादि दुर्लभम्986 ।
निर्व्विकल्पकं किल बहिरर्थरूपमेव । बाधोर्थापत्तिगम्यः । सा चार्थापत्तिर्व्विकल्प
रूपा बौ द्ध स्य च न विकल्पकं प्रमाणमिति ज्ञानाद्यस्तिता प्रमाणाभावादवशीर्येत (।)
तदसदेतत् । यतः ।
ननु विकल्प एव सम्वृतिः सा चेद्व्यवहारनिमित्तं ततः स एव परमार्थः व्यवहारावि
सम्वादात् ।
तदप्ययुक्तम् ।
एतत्तु वक्ष्याम: ।
383सर्व्वञ्चाप्यस्मदादीनां मिथ्याज्ञानं विकल्पनात् ।
इदं सन्निधानम्भगवतः । ततो देशनाधर्मस्य विपर्ययश्चैतयोः । इदं सदिदमसदिति
किल दुर्ल्लभमसत्यत्वादेतत्साधकस्य विकल्पात्मनः । तदेतद्वासनाबलनियमादसदपि परमार्थतः
सदेव ।
बौ द्ध द र्श न988 एकस्मिन् पक्षपातोपि युज्यते । मृषात्वेपि च बुद्धीनां बाधो नैवोपलभ्यते ।। ९१२ ।।
प्रतिपादितमेतत्प्राक् न पुनः पुनरुच्यते ।
यदि वासनाबलादेव परवशस्य प्राणिनो भवतः सत्त्यासत्त्यावभासौ । तौ च बाधितु
मशक्यौ किमिदानीम्विवादेन परवादिबोधनेन वा । यदि तस्य वासना प्रबोधाभिमुखी
स्वयमे (व) प्रतिपत्स्यते । अथ न (नगं) वचनशतादपि ।
तदसत्यम् ।
ततो यदुक्तं ।
मृषात्त्वं यदि बुद्धेश्च वाधः किन्नोपलभ्यते ।
न चान्यः प्रतियोग्यस्ति जाग्रज्ज्ञानस्य शोभनः ।
तदपि पराकृतम् । यद्यपि वासनाप्रबोध एव सर्व्वस्य भवन्नवबोधो व्यामोहो वा
तथापि परावबोधाय वचनं प्रवर्त्तयितव्यमेव । तथा हि स एव वासनाप्रबोधोऽनेन प्रकारेण
मम जात आसीदन्यस्याप्येवमेव भविष्यतीत्यवबोधाय वचनप्रवृत्तिः प्रतिनियतवासना
प्रबोधार्थं । तथाभतवासनाप्रबोधार्थितामवधार्य. ततो न व्यर्थता । ततो यदि बुद्धेर्मृषात्त्वं
किन्न बाधोपलब्धिः । तथाभूतवासनाप्रबोधाभावात् । कथन्तर्हि मृषात्त्वपरिज्ञानं वासना
प्रतिबद्धत्वज्ञानादेव । द्विविधं हि मृषार्थत्वमसदर्थत्वं विसम्वादित्वञ्च । विसम्वादित्त्वं
विपरीतवासनाप्रबोधतोऽविपर्यासवासनाप्रबोधतश्च सम्वादित्वमिति ।
ननु सम्वादश्चेदस्ति कथमसदर्थत्त्वं । अविसम्वादाकारस्यापि वासनाप्रतिबद्धत्वात् ।
न हि सम्वादिप्रतिभासेप्यर्थान्वयव्यतिरेकानुविधानमस्ति । एतदेवासदर्थत्वं (।) ततः स्वप्ना
दिप्रत्यसमानत्वादसदर्थता । न हि बाधकप्रत्ययात्स्वप्नादिप्रत्ययानामसदर्थता, येन तदभावात्
जाग्रत्प्रत्ययसत्यत्वं भवेत् ।
384
तदसत् ।
यत्समानं कथञ्चित्किं सर्वथा तत्समानता । मनुष्यत्त्वे समानेपि990 ब्राह्मणेतरता कथम् ।। ९२१ ।।
तदसत् ।
अलौकिकत्त्वादुभयात्मयोगात्स्मृतिप्रमोषाद्विपरीतवित्तेः ।
अलौकिकोसवार्थसम्वादप्रत्याद्यगोचरत्वात् । अथवा तस्य सत्त्वस्यासत्त्वञ्च ।
ततो दृश्यतेपि बाध्यतेपि । अथवा स्मर्यमाणोऽसदर्थो देशान्तरस्थः प्रत्यक्षतया प्रतिभाति न
तत्रस्थ एव । ततोऽप्राप्तिस्तत्र (।) एवं विपरीतख्यातावपि योजनीयम् । तदेतदप्रमाणवृत्तम् ।
पूर्व्वदर्शनमन्तरेण हि न भवति रज्ज्वां सर्प्पबुद्धिः । पूर्व्वदर्शनादिदम्वेदनमत्रार्थो
नास्तिति सकललोंकनिश्चयः । अन्यथा सकलकार्यकारणभावोच्छेद एव । प्रतिभासमात्रेणाश
क्यग्रहणात् प्रतिभासमात्रे हि स्वसम्वेदनमेव केवलं हेतुरहितमिति प्रतिपादितं । तस्मात्त
न्निश्चयादेव कार्यकारणभावः । नात्र विपरीतादिख्यातियोगप्रतीतिः । अथापि स्यादेषापि
विपरीतादिख्यातिरेव नात्रार्थो विद्यत इति ।
निरालम्बनवादोयमत एव विराजते ।
अत एवेदमपि निरस्तम् ।
योगिनां जायते बुद्धिः बाधिका प्रतियोगिनी ।
385
अवश्यं हि प्रमाणपरिशुद्धार्थभावनाबलात् योगिनां प्रमाणभूतप्रत्यक्षं ज्ञानमुदेति विपर्य
यबाधकम् । तेन (।)
इह जन्मनि केषाञ्चिन्न तावदुपलभ्यते । तामवस्थां993 गतानान्तु न विद्मः किम्भविष्यति994 । ९३५ ।
इति निरस्तम् । यतो विदितमेव भावनायाः सामर्थ्यम् । ततोऽवश्यमेव स प्रत्ययो
भावीति कस्मान्न विद्मः । तत इदमत्यन्तसम्बद्धमेव । यदुच्यते (।)
योगिनां चास्मदीयानां त्वदुक्तप्रतियोगिनी ।
इति । यतः ।
ईदृक्996 त्वे योगिबुद्धिनां दृष्टान्तोस्तीति साधितम् ।
तत(:) स्तम्भादिबुद्धीनां भवेत्सप्रतियोगिता ।
यथाकथञ्चिद्वदतस्तदेतज्जात्ड्यजृम्भितं ।
नहि प्रतियोगित्वमात्रं विवक्षितमपि तु बाधकप्रतियोगित्वं । तेन प्रतियोगित्वमात्रं
साधनमसम्बद्धम् ।
बाध997 कश998 चाप्यनैकान्तस्तदन्यत्त्वञ्च पूर्व्ववत् ।। ९४२ ।।
तथाहि ।
तत्र विपरीतादिख्यातित्वादसौ इहापि वासनादार्ढ्यभावाभावाभ्यां बाध्यबाधकभाव
इति न दोषः ।
386
ननु बु द्ध स्य भगवतो बुद्धिर्योगित्वरागादिक्षयनिमित्तवती तस्य च विशेष्यबाधना
द्विरुद्धः । तथा हि ।
स्तम्भादिप्रत्ययबाधके बुद्धादिज्ञाने यावन्तो विशेषा रागादिक्षयनिमित्तत्वादयस्तेषां
बाधनाद्विरुद्धतापि हेतोर्भवेत् । तथा हि मिथ्याधीप्रतियोगित्त्वं यदैव स्वप्नादिज्ञानानां
साधितं । तदा ताथागतमपि ज्ञानं प्रतियोगित्वान्मिथ्याप्रसक्तम् । स्वप्नबाधकस्तम्भादि
ज्ञानवदेव । अत्रोच्यते ।
यदि विशेषविरुद्धतया क्षतिर्ननु न हेतुरिहास्ति न दूषितः ।
निखिलहेतुपराक्रमरोधिनी न हि न सा सकलेन विरुद्धता ।। ९४९।।
यथा स्वप्नबुद्धिर्मिथ्यास्तम्भादिबुद्धिप्रतियोगिनीति साध्यते । तथा प्रतियोगिबुद्धि
प्रतियोगित्त्वमपि बुद्धित्वात्स्वप्नबुद्धिवदेव । एवं यथा धूमोग्निं साधयति । तथा इहेदानी
मग्न्यसम्भवमपि साधयतीति न हेतुरेव कश्चित्साध्यसाधनः स्यात् (।) किं च । बुद्धित्वात्प्र
तियोगित्वमात्रमेव साधयति । न विशेषप्रतियोगित्वं तथा यथा कृतकत्वमनित्त्यत्वं साधयति
शब्दस्य तथाकाशगुणत्वविपर्ययमपि साधयतीति प्राप्तं । न चाकाशगुणत्वमपि शास्त्राङ्गी
करणात्साध्यम् । इष्टः सा ध्य इति वक्ष्यते । तस्मान्न विशेषविरुद्धता हेतुदूषणम् ।
ननु (।)
महाजनबाध्यबुद्ध्यभावादिदानीन्तनबाधकबुद्धिवत् स्तम्भादिबुद्धिः सत्या विवादास्प
दीभूतस्तम्भादिबुद्धिरबाध्या । तद्विषयत्वेन महाजनस्य बाधकबुध्यनुत्पादात्स्वप्नादिबाधकबु
द्धिवत् ।
तदप्रतिरूपं । तथाहि ।
न च स्वप्नाबाधबुद्धिरबाध्या परमार्थतः । प्रत्यक्षस्यैव बाधकस्य दर्शनात्संवृत्या
त्वबाध्यत्त्वं स्तम्भादिबुद्धेरपि न काचिन्नः क्षतिः ।
किञ्च ।
जाग्रद्बुद्धिर्न सत्त्यत्वाद्धाधते स्वप्नदर्शनं ।
प्रतिपादितमेतन् (।) न बाधको नाम स्वाल (म्ब)नसत्त्यतया बाधकोऽपि तु तदनु-
387पलब्धितः । सा चानुपलब्धिरुपता विपर्ययोपलब्धिरूपतयैव । सा च स्वांशसम्वेदनत्वेपि
न परिहीयते । तथाहि ।
मेयान्तरं स्वरूपं वा सर्व्वोसौ तद्वियर्ययः ।
नन्वियमपि यदि भ्रान्तिः तदा किमवष्टम्भादसौ बाध्या स्वप्नबुद्धिः ।
तदप्यसत् ।
नन्वपरमुच्यते ।
बोधनं बुध्यति बुध्यते वानेनेति वा विकल्पाः । तत्र च पूर्व्ववद्दोषाः साध्याभेदेन
प्रतिज्ञार्थेकदेशत्वेनाबाध्यत्वात्प्रत्ययत्वस्य हेतोर्नोभयसिद्धता ।
ननु प्रत्ययविशेषो धर्मी सामान्यं साधनमिति न प्रतिज्ञार्थैकदेशता ।
तदाह ।
सामान्यं प्रत्ययत्वञ्च भिन्नाभिन्नन्न विद्यते । भवतोत्यन्तभिन्नञ्च प्रत्यक्षेपि1003 न किञ्चन ।। ९५७ ।।
सारूप्या1004 न्यनिवृत्ती च नेत्येतद् गमयिष्यते ।
न युक्तमेतद्यतः ।
तत एव परामर्शयोगात्प्रत्ययः प्रत्यय इत्यर्थस्य हेतुना पारम्पर्येण वस्तुसम्बन्धात् ।
प्रत्यय इति1006
कोर्थः सम्वेदनमात्मरूपसम्वित्तिमात्रं । ततोऽसिद्धमेतद् ।
विशेषयोश्च हेतुत्वं पक्षतत्तुल्यसंस्थयोः । न स्यादन्वहीनत्वादतद्धर्मतयापि च४ ।।९६० ।।
तथा इति ।
सर्व्वमेतत्प्रागेव परिकृतं । तस्मादसदेतत् । तत एतदनवद्यं सर्व्वे प्रत्यया निराल
(म्ब) नाः प्रत्ययत्वात्स्वप्नप्रत्ययवत् ।
388
(ङ) बाह्यार्थनिरासः—
तेन निरालम्बनत्वे सर्व्वप्रत्ययानां ।
स्वसम्वेदनमेव फलं । विज्ञानं स्वयमुदयत्स्वरूपमेवावभासयति नार्थम् । अर्थप्रति
पादने तस्य सामर्थ्याभावात्। अदर्शनाच्चार्थप्रतिपादनस्य । अत्रोच्यते ।
किमनया सूक्ष्मेक्षिकया बाह्यन्नानुभूयत एव । अस्य प्रयासस्य किं फलं । यथा
लोकव्यवहाररस्तथास्तु । न चानालम्बनत्वप्रतिपादेनेऽन्यथा व्यवहारो न च व्यवहारादपरमिह
फलमस्ति ।
तदप्यसदेव ।
न खलु यदनादिव्यवहारोन्यकृतः । पौरुषेयत्वेतरतया सिद्धो येन तदभावेन तद् भवेत् ।
अथ स एव विचार्य क्रियमाणः सदर्थः । तथा सति विचार्यतामपरमपि । अथ पौरुषेयत्वे
प्रमाण्यमेव न स्यादेतदपरस्यापि समानम् । अपौरुषेयत्वेपि प्रामाण्याभावात् (।) किञ्च ।
तत्त्वनिरूपणे हि रागादिदोषक्षयः । स च परः पुरुषार्थ इति प्रतिपादितं । ततस्तत्त्वं
निरूप्यते । बाह्यार्थस्यानुभवो नास्ति । तथा हि । बाह्योऽर्थोनुभूयत इति कोर्थः । किमनु
भूतिप्रवेशसद्भावादनुभूयत इति व्यपदेशोर्थाप्रवेशनादेव । तत इदमाह ।
तदाकारा दुद्धिरिति कोर्थः । नीलाद्याकारा । नन्विदमिदानीम्विचार्यते । तदाकारेति
कुतः । ततस्तदाकारा बुद्धिरिति परिज्ञानार्थं स पुनर्द्रष्टव्यः । तत्रापि दर्शने तदाकारतैवेत्य
नवस्था । अथ निराकारेण दृश्यते । तदा तदेव दर्शनं किमाकारपरिकल्पनेन । अथ तदाकारेति
तन्निरूपणाकारात्तद्दर्शनाकारेति । तदा तदेवोच्यते । तन्निरूपणन्तद्दर्शनमिति कोर्थः । अथ
द्वयमपि दृश्यते । तथा सति स्वरूपेण द्वयं दृश्यते । ततः परस्परं ग्रहणं न वा कस्यचिदिति
स्वसम्वेदनमेव द्वयमिति प्रतिपादितं । अथ बाह्यं विनाऽयमेव न भवति । एवन्तर्हि बुद्धिं
विनाऽपरोक्षता न भवतीति प्राप्तम् । अथ दृश्यत एवापरोक्षता(।) तथा सति परं परिकल्प
नीयं(।) तदाकारा बुद्धिरपि दृश्यत एव किमपरपरिकल्पः । यतः ।
यदेव दृश्यते तदेवाभ्युपगम्यते । तथा हि प्रतिभासात्तद्गतमेव नीलमवभासते नापरं ।
ततः प्रतिभासव्यतिरेकेण न प्रमाणं । ततो नाभ्युपगमः । अथ प्रतिभासत्तद्गतन्तन्न प्रतिभासते
प्रतिभासस्यान्तरत्वान्नीलादेश्च बहिरवभासनात् । न व्यतिरिक्तस्य भावे तस्य प्रतिभासनं
स्वरूपेणापरोक्षेण तस्य प्रतिभासनात् । तथा हि ।
अथैव हि ग्राहकाकारः स्वरूपेणापरोक्षो न ग्राहकान्तरभावात्तथा तेन समनाकालोपि
नीलादिकः । यथा च चक्षुरादिकाद् ग्राहकाकारः तथा तत्समानाकारोपि, तदन्वयव्यतिरेक
लक्षणत्वात्कार्यकारणभावस्य । न पूर्व्वापरसद्भावोऽर्थस्य प्रमाणतोऽवसीयते । प्रत्यक्षस्य
पूर्व्वापरयोरप्रवृत्तेः । अथ पूर्व्वमप्यसौ नास्तीति कथं प्रतीयते । पश्चाद्वा ग्राहकाकारोपि
कस्मान्न पूर्व्वं परिकल्प्यते बुद्धिर्व्वा सुखादयो वा । अथ नित्त्यत्त्वादात्मन एवमेवेति चेत् ।
अपरोक्षतापि तर्हि प्रागेवास्तीति किं न परिकल्प्यते । विरोधादिति चेत् । न ह्यप्रतीय
मानाऽपरोक्षता युक्ता । अर्थस्तद्व्यतिरिक्तोऽप्रतीयमानोपि युक्तः । व्यतिरिक्त इति केन
प्रतिपन्नं । अत एव कदाचिद् भवेदिति सन्देहचोदना । अपरोक्षतापि कस्मान्नैवमिति चेत् ।
अपरोक्षत्वप्रसङ्गात् । नान्यस्यापरोक्षत्वान्मम परोक्षेति कल्पना स्यात् । शुक्लतादिवत् ।
शुक्लता यद्यपि एकस्य घटादेर्न भवति द्रव्यान्तरस्य भवत्येव । ततोऽपरोक्षताव्यतिरेकेण
नापरो नीलादिः ।
ननु यदा पदार्थस्य शुक्लतापैति किमसावन्यत्र गच्छति । न (।) अपरोक्षतापि
नापरगतान्यत्र गन्त्री । एवन्तर्हि तदव्यतिरेकादर्थस्यापि तदभावादभावः । अव्यतिरेक एव
न निश्चित इति चेत् । अग्नेरपि तहर्यभावेऽग्निरूपाभावो न सिद्ध एव । तद्व्यतिरेकेणाग्ने
रभावादिति चेत् । नाव्यतिरेकस्यासिद्धत्वात् । तद्व्यतिरेकेणादर्शनादिति समान सर्व्वं ।
तस्मादसदेवापरोक्षताव्यतिरिक्ततं । अनुमानमपि नापरोक्षताव्यतिरेकं साधयति । कथं न
साधयति । यदा परोक्षावस्थायामपि साधयति ततो नीलमास्त एव यत्पश्चात्प्रतिपत्स्ये ।
न तत्र पूर्व्वरूपानुसारेण प्रतिपत्तिभावात् । स्मरणन्तदनुभवानुसारि स चानुभवोऽपरोक्ष
रूपस्यैव । न च पृथगपरोक्षरूपतामवस्थाप्य नीलादिस्मरणविषयः । इह कथं प्रतिपत्तिरिति
चेत् । नेहापि तथाभूतमेवाध्यारोप्यते । यदि पूर्व्विकामपरोक्षरूपतां परित्यजति । नीलरूप
तामपि तदव्यतिरेकात्परित्यजेदेव नहि विभागेन स्मरणम् । स्मरणमनुमानं न भवत्यधिकस्य प्रति
पत्तेरिति चेत् । नाधिकस्य प्रतिपत्तौ कारणाभावात् । कथन्तदधिकस्य प्रतिपत्तिरिति चेत् ।
नाभावात् । कथं प्रमाणम् । प्रथममेव व्याप्तिसिद्धेः । यदा धूममग्नेरुदयमासादयन्तं पश्यति
परापरदेशाग्निसम्बन्धेन । तदैवमस्य प्रतिपत्तिः । यत्र यत्रायमुपनीयते तत्र धूमं जनयति ।
नैकदेशोऽन्यदेशसम्बद्धम् । ततो यद्यन्यत्रापि भवत्यग्निस्तत्रापि जनयत्येव । तेन धूमदे
शोऽग्ने: प्रतिपन्न एव । स च भावी धूमोग्निर्व्वा तद्रूप एवाध्यारोप्यते नान्यथा शक्यत्वात् ।
ततोऽधिकधूमदर्शनादधिकपावक प्रतिप्रत्तिः । यस्य तर्हि पूर्व्वकं पावकविषयमध्यारोपं
विनैव झटिति धूमदर्शनात्प्रतिपत्तिस्तस्य कथम् । तस्यापि सामान्यप्रतिबन्धमन्तरेणाप्रतिपत्तेः ।
तथा हि(।)यदि नाम झटिति प्रतिपत्तिस्तथापि यदानुयुज्यते । यदि नामात्र धूमः
कस्मादग्निः । एवमेव दृष्टत्वादिति । तेन वक्तव्यं (।) तच्च दर्शनं न परमार्थतोऽपि390
तु दर्शनाध्यारोपयोरेकत्वाद्व्यवसायात् । न च दृश्यमानादिना व्यतिरेकेण विकल्पेत दर्शनादर्थी
न प्रवर्त्तेत । दर्शनार्थिनो नोपदिशेत् । नहि दृश्यमानतामप्रतियन् दर्शनार्थी भवति । योस्ति
स प्रतीयत इति चेत् । यदि दर्शनेंन सम्बन्धो न गृहीतः कथमस्तित्वमात्रप्रतिपत्तेः प्रवर्त्तकः ।
तस्माद् दृश्यमानतामेव प्रतिपद्यमानः तदर्थी नान्यथा । नहि नीलादितामनवगच्छँस्तदर्थी
दृष्टः । तस्मादनुमानमन्यद्वा विकल्पकं विज्ञानं दृश्यमानताव्यतिरेकेण न नीलादितामव
गच्छति । कथन्तर्हि परोक्षविषयमनुमानं । पूर्व्वस्यापरोक्षत्वस्याध्यारोपात् । कथमतस्त
त्राग्निरिति प्रतिपत्तिः । अध्यारोपस्य तथाभावात्पूर्व्वदृष्टमरीचिकाविषयजलवत् । यत्राध्या
रोप्यते स परो वह्नेरिति चेत् । न(।) तस्य स्वरूपेणाप्रतिपत्तेः । तदेव तस्य रूपमिति
चेत् । अपरोक्षमेव तदिति कथम्परोक्षता । स्वरूपप्रतिपत्तिरेव हि परोक्षता परेण प्रतिपत्ति
रिति चेत् । सैवापरोक्षतेत्यपरिहारः । परेण प्रतिपत्तिरिति च प्रतिबन्धबलादध्यारोप
एव । ततः परप्रतिपत्तिरिति मिथ्या । बाह्यस्य परोक्षस्य प्रतिपत्तिर्युक्तापि तस्य स्वयमपि
पश्चाद्दर्शनादेकत्वाध्यारोपादिदन्तत्परोक्षमासीदिति परप्रतिपत्तौ चेत्तदपि नास्ति । इयं सा
परप्रतिपत्तिः । प्रगासीत्परोक्षेति । तस्मादसत्परोक्षं नाम । तस्माद्दर्शनोपाधिरहितस्या
ग्रहणमेव । कथं व्यतिरेकगतिरर्थस्य । यदि नार्थोस्ति सम्वेदनव्यतिरिक्तः कुतो नीलपी
तादिप्रतिभासभेदः । चक्षुरादिकादेव केशप्रतिभासवत् । ननूपघातबलात्केशादिप्रतिभासनं ।
उपघात इति कुतः । केशादिप्रतिभासनादिति चेत् । नीलादिप्रतिभासनादिति प्रकल्प्यताम् ।
नन्वेकरूपता स्यात्केशादिवदेव नानादेशेपि न नानानीलादिता यथा भ्रमति चक्षुषि भ्रमति
तथा किम् नीलादिकं । यदि च चक्षुर्विज्ञानकारणमिष्यते । बाह्यं ततः किन्न नीलादिकम् ।
यथा रूपग्रहणे चक्षुः कारणम् । तथाऽवान्तरग्रहणे ततः परं । ततो बाह्यार्थसिद्धिः ।
सम्वित्प्रतिनियमादिति ।
अत्रोच्यते । (।)
उक्तमेतन्न बाह्यार्थः सिध्यति प्रत्यक्षतः । कार्यव्यतिरेकात्कल्प्यते । कार्यव्यतिरेके
च वरं चक्षुरेव कल्पितं । अर्थान्तरकल्पनातो वरं दृष्टमेव चक्षुरादिकं तद्विशिष्टमिति
कल्पना । तदपि परोपरोधादुच्यते । वरं समनन्तरप्रत्ययस्यैव विशेषकल्पना । शरीरमपि
कारणञ्चेत् । न । शरीरप्रतिभासव्यतिरेकेण तस्याभावात् । तत्प्रतिभासे सतीति चेत् ।
तथापि विज्ञानादेव विज्ञानं समानकालता च शरीरप्रतिभासेन इत्यादि प्रतिभासस्येति न
कारणता । तथा हि ।
तथा नीलादिनियतप्रतिभाससमागमः ।।
रागादयो हि प्रतिनियतदेशकालावस्थाभाविनः प्रबोधकप्रत्ययवशात् । न तु तेषामाल
म्बननियमो व्यभिचारात् । का न्य कुब्जा दिचिन्ताप्रतिभासिनाञ्च नियमः प्रबोधके सत्यन्यथा च ।
न च बाह्यस्यैव प्रबोधकत्त्वं चिन्ताप्रतिभासेनापि चिन्तान्तरवासनाप्रबोधात् । स्वसामर्थ्येन
यथाभोगसम्भवे । न ह्याभोगस्य क्वचित्पक्षपातः । आभोगसमानत्वेपि कस्यचित् पटुरूपस्य
प्रतिभासादभ्यासादितो वा स्वप्नादिप्रत्ययानां च कः प्रतिनियमहेतुः । तदा जन्मान्तरादिदृष्टं
बाह्यमेव नियमहेतुरिति चेत् । न । सर्व्वस्य दृष्टत्वात्तत्काले चाभावात्तत्कालनियमे को हेतुः ।
यदि तत्र बाह्योऽर्थो न स्यात् तदा वा तत्कालदेशनियतप्रतिभासः कुतः अथ तत्काल
तादिकमन्तरेणापि नियमः पूर्व्वार्थदर्शनात् । किमिदानीमथन पूर्व्वप्रतिभासादेव नियमसम्भवात् ।
तथा हि ।
इदानीमत्रार्थमन्तरेण न प्रतिभासनन्तस्य युक्तम् । प्रतिभासस्य पूर्व्वमेव निरुद्धत्त्वात्
न तत्प्रतिभासः । न ह्यविद्यमान इहेदानीं प्रतिभासत इति बाह्यार्थः कल्प्यते । यदि
त्वविद्यमानोप्यर्थः पूर्व्वदेशकालदृष्ट इह प्रतिभाति । प्रतिभास एव पूर्व्वकालादिः प्रतिभासतां
किमर्थकल्पनया । बाह्यार्थवादिभिरपि प्रतिभासस्याभ्युपगमात् । तथा तत्र बाह्यार्थ एव
प्रतिभातीह त्वयोगान्न प्रतिभास इति चेत् । तत्र योग इति कुतः । सम्वादादिति चेत् ।
ननु सम्वादोप्यपरसम्वादात्किन्न युक्तः । ततः सम्वादादपरः सम्वाद इति सम्वादप्रतिभासप
रम्परैव युक्ता ।
ननु यो हि जनित्वा प्रध्वंसते स मिथ्याप्रत्ययो यथा नेदं रजतमिति । अयन्तु स्तम्भादिः
स्वपरिनिश्चितः कथम्विपर्यस्तः ।
तदसत् ।
वासनाबलावलम्बन एव रागादिविकल्पः । तथा बाह्यरहितः । तथाप्यसौ न
नष्टलोचनेपि झटिति विघटते । तथा स्वप्नव्याख्याप्रबन्धः कथंचिदपि न विघटते । वासना
दाढर्यतः । तथाहि (।) स एव पूर्वपाठक उत्थापोत्थाय पुनः पुनः स्वप्ने व्याखायते ।
तस्मान्न बाह्यार्थव्यपेक्षो नियमः । तथाहि ।
बालकस्य मूत्रावस्था स्वप्नदृष्टा जाग्रदवस्थायामप्यनुवर्त्तिनी न तरुणाद्यवस्थायां ।
प्रतिपादितश्चार्थक्रियाव्यभिचारः प्रागिति न पुनः प्रपञ्चः ।
(च) विज्ञानद्वैरुप्यम्—
द्विरूपमिति बोधाकारं नीलाकारञ्च व्यतिरेकस्यावेदनादेकं । अपोद्धा रपरिकल्पनया
द्विरूपं । कुत एतत् । यस्मादेवमनु (भू) यतेस्मर्यते च । तत उभयाकारादपरस्य सम्वेद
नस्याभावादर्थस्य सम्वेदनं उभयाकारस्य न फलमित्युपसंहारः । नन्वर्थसम्वेदनतया प्रतीयते
कथं स्वसम्वेदनं ।
अत्रोच्यते ।
तदा हेतोर्न्निष्पन्नतद्भावस्याऽभावादनुभवस्यैव सम्वेदनं नीलात्मत्त्वाद्यतस्तस्यास्तथैव
नीलादित्वेनैवानुभव इति स्वसम्वेदनमेतत्परमार्थतो नार्थसम्वेदनम् । अर्थत्वेनानुभवेपि
स्वप्नसम्वेदनवत् । यदि वाऽर्थसम्वेदनमेव फलम् । यतः ।
यः पुनरपरं बाह्यं न कल्पयति ज्ञानाङ्ग एव बाह्यतया तेनावसीयते । तदा य
एवात्मनो ज्ञानाकारस्यानुभवः तथैव वासनानियमादर्थ इति निश्चयस्तदा निश्चयबलादर्थस
म्वेदनं फलमिति व्यवस्थाप्यते । तदा विज्ञान वा दे प्यर्थसम्वेदनं फलं । तदा ग्राह्याकारः प्रमेयं ।
ग्राहकाकारः प्रमाणं तत्सम्वेदनफलं । अथवा स एवार्थ इति प्रतीयते । तस्य च सम्वेदन
त्वात्सम्वेदमेव फलम् । अपि च । बाह्यमर्थमभ्युपगच्छतामपि स्वसम्वेदवमेव फलं ।
यतः ।
नहि सम्वेदनस्यान्यथात्वे वस्त्वन्यथेति (वक्तुं) शक्यम् । तस्मात्सम्वेदनानुसारेणैवार्थव्य
वस्थितेः तदभिन्नयोगक्षेमत्वाद्वाह्यवेदनं स्वसम्वेदनमेव । तेनोपचारात् बाह्यवेदनमुच्यते । यतः ।
यदीष्टाकार आत्मास्य ज्ञानस्य अन्यथा चानुभूयतेर्थः । इष्टोनिष्टो वा । इष्टाकारेणा
निष्टाकारेणापीष्टस्तदा तेन भवत्यर्थः प्रवेदितो मुख्यवृत्याऽन्यथा तूपचार एव । तस्मात्स्ववेदन
मेव फलं बाह्येप्यर्थ इति दर्शयति ।
ननु सत्त्यत्वेर्थसम्वेदनमेव युक्तम् । तस्य भावादसति त्वगत्या स्वसम्वेदनं युक्तं ।
तदसत् ।
नहि विज्ञानवादेपि स्वसम्वेदनमगत्याभ्युपगम्यतेऽपि तु तस्यैव सम्वित्तेः । अगत्या
त्वङ्गीकरणे बाह्य एवार्थः किमनङ्गीकृतः । यतः ।
सदृश्यगतिः । तस्मात्स्वरूपसम्वेदनमेव दृश्यत इति वक्तव्यं नागतिः । तत्र यदि
बाह्येप्यर्थे स्वसम्वेदनमेव दृश्यते तदेव भवतु । अर्थसंवेदनन्तुं न युक्तमिति परित्यज्यते ।
स्वरूपेण हि वित्तीनां भिन्नत्वात्प्रतिपुरुषं नानाकारवेदनं युक्तं । नत्वर्थस्य नानाकारवेदनं
स्वरूपेणानेकात्मताप्रसङ्गात् । नानाप्रतिपत्यसम्वेद्यमानोप्येक एवार्थ इति बाह्यदर्शिमतम् ।
तत एकस्य नानारूपसम्वेदनमयुक्तम् । नानारूप एवार्थ इति चेत् । न ।
अकस्मिन्नेवार्थे द्वयोरनुभव इति न स्यात् । स्वाकारपरिसमाप्तत्वात् । यद्याकारा
न्तरमपि तत्रैवानुप्रविश्य प्रतिभासेत तदा स्यादेकत्वगतिः (।) अथवा न स्यादनुभवो द्वयोरिति
वस्त्वर्थः । अथवा भेदेनैकैकपर्यवसानेन न स्यादनुभवः सर्व्वस्यानेकाकारानुभवप्रसङ्गात् ।
यद्यदृष्टमावरणमिति न द्वयदर्शनं दृष्टेनैव तर्हि एकत्वप्रतिपत्तिर्वारितेति कुत एकत्वे
प्रमाणं तिमिरवच्चादृष्टम्भवेत् । चन्द्रद्वयमेव तत्रैकदर्शनं द्वितीयदर्शनस्यादृष्टेन वारणादेषापि
कल्पना भवेत् । ततस्तिमिरसमानत्वाददृष्टस्य नार्थवशा गतिः । अदृष्टेनैव बाह्यार्थशून्यं
विज्ञानं जन्यत इति किन्नाभ्युपगम्यते । अथादृष्टमर्थयोग्यदेशावस्थितार्थप्रतिपत्तिवारणे कथं
समर्थमिति वक्तव्यं ।
—इति संग्रह- (श्लोकः) ।
अपि च ।
ननु नार्थ इष्टानिष्टतयावभासते । अर्थाकार एव कल्पना एव तथा भवन्ति ।
अत्रोच्यते ।
अरिष्टेन गृहीतानामक्षबुद्धिरप्यन्यथा दृष्टा । तस्माद् सदेतत् ।
अतो बाह्येप्यर्थे स्वसम्वेदनमेव फलम्। नार्थसम्वेदनं तस्य स्वसम्वेदनानुप्रवेशात्।
अत्रापि फले विषयाकारतैव प्रमाणम् । यदाहाचार्यः ।
यदा तु बाह्य एवार्थः प्रमेयस्तदा विषयाकारतैवास्य प्रमाणम् । तथाहि । ज्ञानं
स्वसम्वेद्यमपि स्वरूपमनपेक्ष्यार्थाभासतैंवास्य प्रमाणम् । यस्मात्सोर्थस्तेन मीयते । यथाह्य
र्थस्याकारः शुभादित्वेन1015
प्रतिभाति निविशते तद्रूपः स विषयः प्रतीयते । यावदाकारभेदेन1016
प्रमाणप्रमेयत्त्वमुपचर्यते ।
394
नन्वव्यतिरेकाद् ग्राहकाकारोपि कस्मान्न प्रमाणं । अत्रोच्यते ।
नहि तदनुरूपा बाह्यार्थस्थितिः । अपरार्थत्त्वात् । नहि स्वसम्वेदनं परार्थं व्यवस्था
पयति । आकारव्यतिरे (के) ण सर्व्वत्र समानत्वात् ।
आकारवशेन हि । अर्थ एवं नीलादिकः स्वाकारेण निविष्ट इति प्रत्ययः । ते (ना)
र्थाकार एवार्थकल्पनानिमित्तं ततः स एव प्रमाणं । एवन्तर्हि अर्थवेदनमेव फलं किनिदानीं
स्वसम्वेदनेन ।
असदेतद्यतः (।) तदर्थकल्पनमात्मसम्वेदनानुरूपमेव । तदेवाह(।)
यतोऽ(दृ)श्यमानन्न प्रत्यक्षस्य प्रमेयं । कथं हि परोक्षेऽर्थे प्रत्यक्षस्य वृत्तिः प्रत्यक्षस्य1020
च फलव्यवस्था प्रस्तुता तस्मात्स्वरूपप्रत्यक्षत्वादर्थस्यासम्वेदनात्स्वसम्वेदनं फलम् ।
तेन हि सा क्रियतेऽतस्तस्य सा फलं तत्क्रमेण तस्याः प्रथनात् । एवन्तर्हि बाह्येर्थे
प्रमाणमाकारः सम्वेदनन्तु स्वरूपे फलं प्रवृत्तमिति विषयभेदः ।
तदसत् । यतः ।
स्वविदेवेयं परमार्थतः । व्यवहारतोऽर्थवित् । ततो व्यवहारापेक्षयाऽर्थ एव फलं ।
अर्थ एव प्रमाणमिति कुतो विषयभेदः परमार्थापेक्षयापि स्वरूपे द्वयमपि । तथापि कुतः ।
एतदेवाह ।
तस्माद्विषयभेदोपि न;
(छ) अर्थसंवेदनफलम्—
स्वसम्वेदनं तर्हि बाह्येऽर्थे फलं (।) प्रमेये कस्मान्नोक्तमित्याह ।
395
परमार्थापेक्षया स्वसम्वेदनमेतदर्थसम्वेदनमपि । यदि नाम तदर्थसम्वेदनमनिरूपित
सम्वेदनस्वरूपस्य निरूपणायान्तु स्वसम्वेदनमेव ।
ननु यदि स्वरूपेणार्थस्यानवभासनं ज्ञानमेव स्वेन रूपेण प्रतिभाति कथमर्थस्य प्रमेयता ।
तादृशत्वादर्शस्येति चेत् । तादृश इति कथं ज्ञायते । नानाकारा हि विज्ञप्तय इति चोक्तं ।
अत्रोच्यते ।
यद्यपि जलावभासि विज्ञानमुपजायते जलमन्तरेणैव तथापि मरीचिकाः समाश्रित्योद
यवतः कथञ्चिदर्थहेतुतामाश्रित्यार्थालम्बनमुच्यते ।
ननु यदि हेतुत्वादेवालम्बनता वासनाहेतुकमेव युक्तं । न हि सा न हे तुः । दृष्ट
शक्तिश्च वासना तदाकारजनने । तथा च प्रतिपादितं भवतैव । यदि तु तदाकारता तथा
भूतार्थमन्तरेण न भवेत् । युक्तमर्थसम्वेदनं । अन्यथा तु ।
सन्निहितमर्थमन्तरेणापि यदा तदाकारता तदा तस्य तावदर्थस्य न ग्रहणम् । अन्यदे
शदृष्टस्य ग्रहणमिति चेत् । अन्यदेशेपि यदि तदा नास्ति कथं प्रतिभासः । यत्रास्ति1027
तत्र
प्रतिभास इति चेत् । यदि क्वापि नास्ति क उपायः । प्रतिभासादेव ज्ञायते । अवश्यं
क्वापीति1028 प्रतिभासोऽर्थमन्तरेण न दृष्टं इति प्रतिबन्धादेवं गतिः । एवं तर्हि स न दृष्टः कथं
प्रतिभाति । सोपि जन्मान्तरादौ दृष्ट एवेति चेत् । न । नियमाभावात् अदृष्टोपि प्रतिभास
इष्यते । एवन्तर्हि ।
अदृष्टस्यापि देशान्तरादौ व्यवस्थितस्य प्रतिभासने सर्व्वः सर्व्वदर्शी प्रसक्तः ।
अवस्थाविशेषमन्तरेण न प्रतिभाति । तिमिरादौ प्रतिभातीति चेत् । न । तिमिरस्य
सर्व्वसाधारणत्वात्सर्व्वप्रतिभासनप्रसङ्गः । किञ्च । तिमिरं दर्शनविघातकृत् तदेव
किन्दर्शनहेतुः1029 । दर्शनहेतुत्वे सकलदर्शनप्रसङ्गः । यदेव दृश्यते तस्यैव जनयतीति चेत् ।
अविद्यमानस्यैव तर्हि दृश्यते । तदेवाविद्यमानदर्शनं जनयतु अर्थमन्तरेण दर्शनन्न दृष्टमिति
चेत् । अर्थयोग्यदेशावस्थानमन्तरेणापि न दृष्टं । अनेनैव व्यभिचार इति चेत् । समान
मुभयस्यापि । स एवार्थ इति चेत् । नार्थत्वस्याभावात् । एवंभूत एवार्थ इति चेत् ।
सर्व्व एवैवंभूतः । अलौ (कि) कत्वे सर्व्वमलौकिकं । नहि दर्शनव्यतिरेकेणापरो विशेष
396
इति प्रतिपादितम् (।) प्राप्तिरिति चेत् । तदपि दर्शनमेव । अनेन दर्शनादि व्याख्यातम् ।
यस्य नीलादयस्तस्य न दोषो नाम दृश्यते ।
ननु वासनाप्रतिबन्धोपि स्वसम्वेदनज्ञानात्मनि कथं ।
यदि स्वरूपव्यतिरिच्यमानात्मा प्रतिबन्धो यत्र च स तदा पृथग्भूतग्रहणेन स्वसम्वेदनं ।
न चेत्पृथग्भावः सम्बन्धसम्बन्धिनावेव तर्हि न स्त इति न सम्बन्धग्रहणसम्भवः ।
तदप्यसत् । यतः ।
स्मरणमुपजायमानमेवात्मनोऽनुभवप्रतिबन्धं प्रतिपादयति तदव्यवसायवशादेवमुच्यते ।
अस्मरेण तर्हि कथं वासनाप्रतिबद्धत्वप्रतीतिः । तथाहि ।
स्मरन्नेव दृष्टमेतदिति निरूपयत्यन्यथा दृष्टत्वस्य निरूपयितुमशक्यत्वात् । अस्मरण
सम्वेदने तु न दर्शनानुसारित्वप्रतीतिः ततस्तद्वासनाप्रतिबद्धमिति कथं प्रतीतिः तत्रापि दृष्टमिति
प्रतीतेः । स्मरणेन सहैकीकृत्य तस्यापि प्रतोतेरन्यथा व्यवहारायोगात् । स्मर्यमाणदृश्य
मानयोरेकतया प्रतीतिः । ततः सकलं वासनाप्रतिबद्धमेव । अथ स्मर्यमाणदृश्यमानयोरे
कताप्रतिपत्तिर्भ्रान्ता । न । बाधकाभावात् ।
अथ स्मरणाकारेण पूर्व्वरूपन्न गृह्यते । तथा सति पूर्व्वपरयोः कथम्भेदप्रतीतिरतो
ऽद्वैतमेव । तथासति सुतरां सम्वेदनात्मना । अपि च । बाह्यवस्तुनि कार्यकारणभाव
निंयमस्य कर्त्तुमशक्यत्त्वात् तथाहि ।
तथा (।)
सम्वेदनपक्षे तु सम्वेदनं पूर्व्वं सम्वेदनादेवोपजायते । यद्यपि नामाग्निमन्तरेण भवति
धूमस्तथापि धूमवासनातो भाव इति नाहेतुको जनप्रतिभासश्च । मशकवर्त्तिमृगतृष्णिका
धूमजलवत् । बाह्यमेव वासनाबलाद् भवतीति चेत् । इष्यत एवैतद्वाह्यवासनाबलायातत्वा
न्नाममात्रमेव कृतं स्यात्तच्च लोकेनैव कस्तवात्र पुरुषकारः ।
ननु वासनाकार्यत्वेन न प्रतिभाति कथम्वासनाकार्यता । अकस्माद्धूमादग्निं प्रतियतः
किं बाधककार्यत्वं प्रतिभाति । पर्यालोचयतो भवतीति चेत् । वासनाकार्यत्वेपि समानं ।
जन्मान्तरादिवासनाप्रबोधस्यापि सम्भवात् । बुद्धस्य बालक्रीडास्वप्नसम्भववत् । ततश्च(।)
स्वातन्त्र्ये वर्त्तमानस्य शक्तस्य परिजानतः ।
इति प्रधानेश्वरकर्त्तृवादनद्यः सदा शीघ्रवहाः प्रवृत्ता (ः।)
तस्मादर्थग्रहः कथमिति नाहं प्रष्टव्यस्तदभिप्रायपर्यन्तनयनार्थमेतदहन्तु पुनरीदृशन्न
भवतः सर्व्वथा समर्थयितुं शक्तः ।
(ज) विज्ञप्तिमात्रतायां प्रमाणफलव्यवस्था—
ननु यदि ग्राह्यग्राहकाकारता नास्ति कथन्तथाव्यवहारः । अयमपि भवतो व्यामोह
एव (।) नहि ग्राह्यादिव्यवहारोपि सम्विदितः । संवित्स्वरूपे निमज्जनात् । तदात्मक एव
व्यवहार इत्यर्थः । तथा हि ।
अविभागो बुद्ध्यात्मेति स्वसम्वेदनप्रसिद्धमेतत् । तथा च प्रतिपादितम् । विप(र्य)
स्तदर्शनैस्तु ग्राह्यादिरूपेण गृह्यते । न । अपि तु लक्ष्यते । परेण सदभावेपि दृश्यत
इति विपर्यासमारोप्य तथा व्यवहारः । दर्शनमेतदिदानीं मम, बाह्यं तु परेण दृष्टमासीदेव ।
एतत्पुनरसौ न विचारयति (।) परेण यद् दृष्टं तन्मया दृष्टमिति कथम् । नहि परोप्येवं
जानाति । तस्यापि तदस्मत्सम्वेदनवदेवासाधारणम् । अथ सोपि मया दृष्टमित्यनुमानादेव398
जानाति । तथा सतीतरेतराश्रयदोषः । कार्यदर्शनभावादिति चेत् । नैकत्वप्रतिपत्त्यप्रसङ्ग
गात् । नहि धूमादग्निर्ज्जायमानो महानसस्थ एव ज्ञायते । अन्यत्त्वाद् धूमस्येति चेत् ।
रोमाञ्चादिकार्यस्यान्यत्त्वादपरः परस्य ग्राह्याकारः । किञ्च । सम्वेदनाद्रोमाञ्चादयो
नार्थात् । दर्शनयोश्च न दर्शनेन मिश्रीभावप्रतिपत्तिरन्यथा नानुमानमपेक्ष्येत । नहि
प्रत्यक्षेऽनुमानं प्रवर्त्तते ।
ननु रूपमेव प्रत्यक्षं परदृश्यता तु तत्राप्रत्यक्षा ततोऽनुमानमिति चेत् । ननु परदृश्यता
तत्रास्तीत्यत्रापि नैव प्रमाणम् । अत्र एव संदेह इति चेत् । एवन्तर्हि पीतरूपतापि नीलरू
पतया दृश्यमाने किन्न सन्देहविषयः । पश्चादुपलप्स्यमानेग्नौ वह्निरूपतास्तीति कुतः ।
पश्चादुपलम्भादेव । अत्र तु परदृश्यतायां पश्चादपि नोपलम्भः (।) ननु परदृश्यमानताऽन
वगमे व्यवहार एव नास्ति (।) न (।) सादृश्यमात्रेण व्यवहारप्रसिद्धेः । एकत्वमन्तरेण तु
व्यवहारो नेत्येतत्कुतः ।
ननु यद्यनुमानं प्रवर्त्तते परोक्षे एकत्वेपि प्रवर्त्तते न चेत्सदृशेपि कथम् । सत्त्यमेतत्स
दृशेपि कुतोऽनुमानं । केवलं दृश्यविकल्प्यार्थैकीकरणमात्रेण व्यवहारमात्रमेतत् । परमार्थ
तस्तु स्वरूपमात्रालम्बनमेवानुमानम् । परोक्षविषयता कथमिति चेत् । न ।
ज्ञानं परोक्षविषयं कथमस्तु युक्तं, तत्रावभाति यदि कैव परोक्षता या ।
ततः सम्वादनात्तस्य प्रतीतिरिति चेन्मतम् ।
यतः (।)
तस्मादनादितथाभूतानुमानपरम्पराप्रवृत्तमनुमानमाश्रित्य बहिरर्थकल्पनायां ग्राह्य
ग्राहकसम्वेदनकल्पनाप्रवृत्तेः ग्राह्यादिकल्पना परमार्थतः सम्वेदनमेवाविभागमिति स्थितं । कुत
एष भवतः प्रबोध इति चेत् । मन्त्राद्युपकृतदर्शनानां मृच्छकलादीनां तद्रूपरहितानामपि सर्प्पा
दिरूपेण प्रतिभासनात् । ते हि परैरदृश्यमपि दृश्यतया व्यवहरन्ति । यावदेषामव्युत्पत्तिः ।
यदि तु यत्स्वरूपं यत्तथैव तत्प्रत्यक्षतो वेद्यते । न व्युत्पत्तिमपेक्षेरन् । प्रत्यक्षमपि व्युत्पत्तिम-
पेक्ष्य तथेति चेत् । नानुमानस्य सामर्थ्यदर्शनात् । प्रत्यक्षस्यैव सामर्थ्यमिति चेत् । नानु
मानस्य प्रामाण्याप्रसङ्गात् । भवतु प्रत्यक्षमेव तदिति चेत् । तदेव तर्हि वासनाबलायातत्व
मध्यक्षस्यापीति न प(र)मार्थः । अपि च (।) विपर्ययेप्यनुमानमस्त्येव तत्कथमनुमानद्वयम्भवेत् ।
उभयपक्षे भवत्विति चेत् । न (।) प्रतिपुरुषं भावव्यवस्थाप्रसङ्गात् । भवतु को दोष इति
चेत् । तदेव स्वसम्वेदनमायातं । परस्परामिश्रणेनासाधारणत्वात् (।) तस्मात्परस्तथा न
प्रतिपद्यते तथापि साधारणत्वेन प्रतीतिः । अथैतदेव कुतः परो न प्रतिपत्तिमानिति ।
अनुमानेनेति चेत् । विपर्ययेपि तर्हि प्रवर्त्ततामनुमानं । विपर्ययेनुमानमसदिति चेत् । कथं ।
एकत्वेन प्रतिबन्धाग्रहणात् । सादृश्येप्यनुमानं कृतार्थमेव । इह तु पुनरदर्शनानुरूपा क्रिया
दृश्यमाना नियमेनादर्शनमनुमापयति । एतच्च पर एवाभ्युपगच्छेति ।
यद्यसावर्थः परेणापि दृश्यत इति । एवं परस्याप्यभ्युपगमः । तथा महानेवायमिति
प्रतिपत्त्या तदर्थितयोपसर्प्पणं साधारणमिति कृत्त्वा तस्मादन्यथानुमाने परित्यजत्येव तां (?) दृष्ट
मित्यनुमानं सकलं सकलजनप्रसिद्धं । पराभ्युपगमेन तु तत्त्वदर्शिनां । अथवा यदेव प्रतीयते
यथा तादृशादर्थकल्पने कोऽवसरः । अनुमानमपि स्वाकारमात्रपर्यवसाने सति प्रत्यक्षमेव ।
ननु बाह्योप्यत्र दृश्यमानोऽदृश्यमानो वास्तीति व्यवहारिणाम्भवत्येव प्रतीतिः । भवतु
सापि स्वात्मन्येव निमग्ना यावत्प्रत्यक्षाभिमता । स्वात्मनिमग्नेति नापरं प्रतीतिबहिर्भूतं
वस्त्विति विन्नयः । किञ्च साधारणप्रतीतिरपि भावनाबलादेव यथा स्वप्ने । कथन्तर्हि
मेयमानफलस्थितिः ।
अत्रोच्यते ।
तदेव प्रतीयमानं वस्तु तत्रास्तीति प्रतीतिविषयतया ग्राह्यं । स्वसम्वेदनरूपं परान
पेक्षमिति । ग्राहकं स्वयमेव तथाभावात्प्रतीतिरूपं सम्विदिति । विकल्पेनानुभवादुपजाय
मानेन व्यवस्थाप्यते व्यवहारतः । अनुदर्शनं दर्शनानुरूपो विकल्पः । अविद्यमानापि ।
अविद्यमानाप्तिके विषये ग्राह्यग्राहकसम्विदां ।
अथवाऽविद्या(म)ा/?/नग्रहणेन साधारणादौ ग्राह्यादीनामिति । शेष उक्त एवान्यैः
तस्मात्सम्विदेव परमार्थतो न त्रयम् ।
नन्वात्मपरिणाम एव सकल इति कस्मादविद्यमानता । यदि नाम तस्य तत्त्वादप्रच्यु
तस्य ते भेदपरिणामाः ।
तदाह ।
—यद्येकः कथन्नाना प्रकाशते । नाना चेत्प्रकाशते तदेकता हीयते । यतः ।
अन्यस्याप्येतदेव तत्त्वं यदभेदप्रतिभासनं नाम । अन्यस्याप्यन्यथात्वं नास्त्येव ।
नेष्यत एवेति चेत् । एवन्तर्हि रूपभेदप्रतिभासने सति कथमभेदाभ्युपगमः । यदि नाम भवता
नेष्यते भेदः स तु पुनरप्रतिभासमानेपि कथमभ्युपगन्तव्यः । रूपाभेददर्शने हि सत्यभ्युपगमः
साधुः । यदि सर्व्व एव ते भेदाः प्रकाशरूपाः सर्व्वेषां सत्त्यता । अथाप्रकाशरूपाः कथम
प्रकाशाः प्रकाशादभिन्नाः । प्रकाशत्वे (? त्व आ) त्मवत्सर्व्व एव सत्त्या भवेयुः । आत्मवदेव ।
प्रकाशरूपतैव चात्मनो रूपं ततः सर्व्व एवात्मानः स्युः । ततः परिणामपक्षक्षयः । अथ
बहुत्वं भ्रांतिः । तथा सति न किञ्चिदिति प्राप्तं सकलमेव शून्यम्भवेत् । भ्रान्तिरपि
नामात्मव्यतिरेकेण नैवास्ति । किम्वा भ्रान्तिरिति नामकरणेन । अभावे भ्रान्तेः सर्व्वमेतन्न
भविष्यतीति न तत्त्वं भेदः । ततोऽतत्त्वाभासनिमितत्वादभ्रान्तिरिति व्यवस्थाप्यते ।
नास्यास्ति भ्रान्तिता यावन्निवर्त्त्यत्वं न सिध्यति (।)
तस्मात् ।
एकं न विद्यतेऽनेकत्त्वेन प्रतिभासनात् । असम्वेदनञ्च न प्रतिभातीति सम्वेदनात्मना
तेन भाव्यम् । स्वसम्वेदने चानेकत्वाप्रतीतेः । अथ तत्रान्तर्गतत्वात् प्रतीयन्ते तदन्तर्गतत्वं
न प्रतीयत इति तदपि न शक्यम्वक्तुमित्युक्तं । अथवा यस्मादेकं चित्राकारमनेकञ्च न
विद्यत एव । कथन्तर्हि भेदप्रतिभासः । न भेदः प्रतिभातीति प्रतिपादितं प्रतिपादयिष्यते
च । अथवा सकलमेव भेदरूपमन्यथा च भावनाबलादवभासत इत्यसत्त्यं शक्यन्ते हि भावयतो
विपरीतभावनया निवर्त्तयितुमित्यशक्यनिवर्त्तनता नास्तीति निश्चयादसत्त्यम् ।
ननु ।
अत्रोच्यते । न साधर्म्यदर्शनादेव भ्रान्तिः ।
401
न खलु तिमिरतिरस्कृतदर्शनानां मशकमक्षिकादयो दर्शनान्तरबलादुपजायन्तेऽपित्वान्त
रादेव तिमिरकारणात् ।
ननु तिमिरादप्युपजायमानं वस्तुबलादेव न भावनाबलात् । आन्तरकारणत्वमात्रन्तु
विवक्षितं । सर्व्वस्यापि त्वान्तरं कारणं वासनैव । स्वप्नादिप्रत्ययवत् (।) सा वासना यथा
कथञ्चित्प्रबोधवती स्वानुरूपप्रत्ययप्रसवहेतुः । तत्र च पूर्व्वपूर्व्वमेव दर्शनं साधर्म्यदर्शनं ।
आदौ किं दृष्टं येनेयं भ्रान्तिः । दर्शने कथं तस्य दर्शनमिति वक्तव्यम् । ततस्तु समानत्वा
दभ्रान्तिरेव सकला । अथान्यथा दर्शनं कथं सकला भ्रान्तिः । साधर्म्यदर्शनादिति । न ।
भ्रान्तिपरम्परैवेयं । नाभ्रान्तिरस्तीति प्रतिपादितं (।) तस्मादनादिरयमसद्वासनापरिकल्प
संसारः । कथं प्रमाणादिव्यवस्था स्वात्मनीति चेत् ।
अत्रोच्यते ।
तदेव साध्यं तदेव साधनं सैव सिद्धिः ।
अर्थादयो हि भावनाबशादुपजायमानाः स्वसम्वेदनरूपा इति प्रतिपादितं (।) सुखादि
सम्वेदनञ्च प्रत्यक्षं प्रमाणं (।) तत्राव्यतिरिक्त (ा) एव प्रमाणप्रमेयप्रमितिव्यवस्था ।
यदुच्यते ।
चतसृषु चैवम्विधासु तत्त्वं परिसमाप्यते (—) प्रमाता प्रमेयं प्रमाणं प्रमिति
रिति1037
(।)
तदसत् (।) एकत्रैव सर्व्वपरिसमाप्तेः । ननु सुखादौ यदि नामाव्यतिरेकः । पीतादौ
व्यतिरेक इति चेत् । न । इयमेव सर्वत्र योज्या मेयमानफलस्थितिः ।
यथा अर्थादिसम्वेदने तथा नीलादिसम्वेदनेपि । नीलाकारं अर्थाकारमिति वा भवतु
कोऽनयोर्व्विशेषः । द्वयोरपि स्वरूपेण वेदनात् । ततो नीलसुखशरीरवेदनं स्वरूपेणैव सकलं न
पररूपेण । स्वरूपेण चेत् । सर्व्वं स्वसम्वेदनमेव । ननु नीलादिसम्वेदनेनात्मभूतो ग्राहकाकारः
सुखादिवत्तत्कथं ते दृष्टान्तः । सुखादीनां कथं स्वप्रकाशात्मकत्वात् आत्मवत् । केयं
प्रकाशात्मता नाम । अपरोक्षरूपता यथैवं ।
तेपि नीलादयोऽपरोक्षरूपत्वादनुभवात्मकाः । ततः सुखादिवदेव स्वसम्विदि योग्याः ।
नहि तेपि नीलादयः पररूपेणापरोक्षाः ।
ननु चक्षुरादिबलान्नीलादीनामपरोक्षता । न(।) स्वरूपेणैवापरोक्षत्वात् । नहि यतः
चक्षुः प्रसृतं ततोऽपरोक्षं बीजं चक्षुः प्रसृतमपि कदाचिन्नापरोक्षयति । अप्रसृतत्वेप्यपरोक्षत्वसम्भ
वात् । तथा हि ।
यदि चक्षुरादिकस्याभिमुखीकरणेपि स्वरूपेण विषयस्यानवभासनं कथमसावपरोक्षः ।
स्वरूपावभासनमेवापरोक्षता । अथ भावनावशादयं दोषश्चक्षुषः (।) तदाह ।
भावना हि वासनाऽपरनामिका चक्षुराद्यायातप्रतिभासस्य हेतुः । तदा वासनाबल
भाविनः एव नीलादिप्रतिभासाः ।
नन्वन्यथा प्रतिभासनं वासनाहेतुः । स्वरूपप्रतिभासनन्तु वासनामन्तरेणेति चक्षुरा
दिप्रतिबद्धं न परस्परापेक्षया । सर्व्वेषामन्यत्त्वात् । ततोनेकप्रतिभासेन ज्ञायते किं
स्वरूपमिति प्रतिभासः प्रमाणं न चेद्व्यभिचारी कुत आश्वासः । तस्मात् ।
बाध्यबाधकभावस्तु प्रत्युक्त एव । तस्मात्स्वसम्वेदनमेव फलं बाह्येप्यर्थे, तदाकारः
प्रमाणम् ।
ननु साकारं विज्ञानमिति न युक्तं । तथा हि ।
विशिष्टं जायते रूपं प्रदीपालोकसङ्गमात् ।
न स्यात्तत्रापि चान्यस्य व्यापारादनवस्थितिः ।
अत्रोच्यते ।
नहि यत एवोत्पद्यते तदाकारमेव भवति । तथा हि ।
नहि पित्रोर्द्वयोरपि समानाकारतां धत्ते । तत उत्पद्यमानः स्वतः । अपि तु कस्यचि
देव । तस्मादर्थादेवार्थाकारमिति । तथाहि ।
न हेतुतया विषयोऽपि तु तदाकारविज्ञानहेतुतया । हेतुतया विषयत्वे चक्षुरादीनामपि
विषयत्वं । तदाकारतया मरीचिकादिजलज्ञानस्यान्यदेशं जलमपि भवेत् विषयः । नह्याका
रमन्तरेण बोधरूपं विज्ञानं सम्वेद्यमानमन्यथा वा तदाकारविषयव्यवस्थापने समर्थं प्रतीतेतरा
वस्थयोरयोगादिति प्रतिपादितम् । यदि तत्प्रतीयते किमपरेण व्यर्थकत्वात् । अथ न
प्रतीयते तदापि अशक्तेरिति । न ह्यप्रतीयमानं प्रतीतिविषयः । प्रतीयमानञ्चेत्सैव तस्य
तद्रूपताप्रतीतिः । व्यतिरिक्ता च क्रिया न युक्ततेति शतशः प्रतिपादितम् ।
ननु चाकारः प्रमाणं स्वसम्वेदनं फलमिति साकारसिद्धौ स्यात् (।) तदेव तु कथं
सिध्यति । उक्तमत्र । अपि च ।
विषयज्ञानतज्ज्ञानविशेषाद् बुद्धिरूपता ।
विषये रूपादौ यज्ज्ञानन्तदर्थस्वाभासं, विषयज्ञाने तु यज्ज्ञानं तदर्थानुरूपज्ञानाभासं
स्वाभासञ्च । अन्यथा यदि विषयज्ञानमर्थाकारमेव स्यात् । स्वाकारमेव वा विषयज्ञान
मपि तदविशिष्टं स्यात् । विषये यत् ज्ञानं तदर्थस्वाभासमिति साध्यं । उत्तरो हेतुः । अन्य
थेत्यादि बाधकं प्रमाणम् । कीदृशं मम ज्ञानमासीदिति यदा पर्यालोचयति तदाऽर्थप्रतिभासमेव
स्मरणेन व्यवहरति नान्यथा । यश्च यथाधिमोक्षेण विषयीक्रियते तथा भवति यथा गौरित्य
धिमोक्षेण विषयीक्रियमाणः शावलेयः । तथाहि ।
यदि केनचिन्नियुज्यते कथमसावर्थ इति भवता ज्ञातं तदाऽर्थप्रतिभासस्तादृशोऽर्थस्त
त्रास्ति न वा, तादृशोऽन्यथा वेति न निश्चय इति प्रत्युत्तरयति । ततोर्थपरित्यागी प्रतिभास
एव ज्ञानं । एकत्वे त्वर्थस्य तत्रैव निश्चयः तत्रैवानिश्चय इति कथं । निश्चयानिश्चययो
र्विरोधात् । अर्थस्तु न प्रतिभासे निश्चयः । नावान्तरभेद इति तत एवंभूतः प्रतिभास
इत्येतावत्तत्र प्रतिभासि । तदपरन्तु नेत्यर्थ एव स निश्चयोऽनिश्चयश्च । भागद्वयभावादिति ।
तदेतदुत्तरत्र वक्ष्यते । अपि च ।
य आह । न ज्ञानं प्रतिभासते स्वसम्वेदनाभावात् । नापि स्मर्यतेऽअर्थस्यैव सर्व्वत्र
404स्मरणात् । तत्र यथार्थापत्त्या ज्ञानेऽर्थस्य परिकल्प्यते ज्ञानं तथा स्मरणानुपपत्त्यापि न
सम्विदितं ज्ञानमस्ति न च तस्याकारता ततो द्विरूपं ज्ञानमिति प्रत्यक्षबाधः प्रतिज्ञायाः ।
न चैतदस्ति । सर्व्वत्रार्थाकारस्य विवादास्पदत्वात् इति चेत् । अयुक्तं (।) यतो
यत्रार्थोस्ति तत्र नासौ ज्ञानस्याकार इति स्यादपि शंका । अनर्थवति तु चेतसि केशादौ पीता
द्यवभासे च सिद्धमेव द्वयाकारत्वं सम्वेदनञ्च । तत्र परोक्षं विज्ञानमित्येतदेव प्रत्यक्षबाधितं ।
ततस्तद्दृष्टान्तदृष्ट्या प्रतिबन्धग्रहणम् । ततश्च तस्य तथाभूतः प्रतिभास इति तत्त्वायातो
निश्चयः कथमर्थे भवेत् । सर्व्वत्र च विज्ञाने एवमेव निश्चय इति साकारत्वसिद्धिः । स
एव प्रतिभासत्वनिश्चयस्वभावो विषयज्ञाने तज्ज्ञानस्य स्वभावः । अथ कदाचित्तत्राप्यर्थ
एवास्ति यदि न व्यक्तिर्जातिरेव भविष्यति ।
(झ) सामान्यस्य नित्यानित्यताप्रतिषेधः—
अत्रोच्यते ।
नहि नीलादिरूपा जातिर्व्वर्ण्णाद्याकारशून्यत्वात् । हेतुत्वेनानित्त्यत्वाच्च न सा
जातिः । अथ नित्त्या न जनिका नित्त्यस्य जनकत्वाभावादिति प्रतिपादितं ।
सकलमप्येतत्प्रागेव प्रतिपादितमिति न प्रपञ्च्यते ।
(२) स्मृतिचिन्ता
(क) नार्थाकारा स्मृतिः—
अनुभवादुत्पद्यमाना स्मृतिरर्थमन्तरेण भवन्ती कथं नीलाद्याकारा । अथार्थादेव
स्मृतिस्तदाकारा । तदाह ।
यद्यर्थात्साक्षात्स्मृतिस्तदा तथैवार्थेन भवितव्यं । न च तदस्ति । अथार्थाद्व्यवहिता
दपि भवति तदाकारा स्मृतिः अनुभवोपि तथैव भवेदिति यथा च तथा प्रतिपादितमेव ।
इहापि प्रतिपाद्यते ।
स्पष्टाकारश्चार्थस्तदनुभवेन गृहीतः । स च यद्यर्थस्याकारस्तथाभूतेनैव तेन
भाव्यम् । अथ स्मृत्या प्रतीयमानत्वात्तथा प्रतिभाति(।) एवं तर्हि अनुभवेन प्रतीयमानत्वा
त्स्पष्टतेति नार्थस्यासावाकारः(।)
यद्यसावर्थः परोपि प्रतीयात् । अथात्मसम्बद्ध एवासौ न परस्य प्रतिभासते ।
आत्मसम्बद्ध इति कोर्थः । किमात्मकार्योऽथ तदात्मा । कार्यस्तदा परस्य प्रतिभात्येव ।
नहि कार्यत्वे साधारणत्वमपैति । अथ तदात्मा (।) तथा सति सम्वेदनात्मकत्वमेव ।
तादात्म्ये च नित्यमात्मनि सम्बद्ध एव नान्यथा । तथा च कथितमपि न प्रतीयात् । अथ
प्रत्येति तदाऽन्यथापि प्रतीयात् । तथा हि (।) बाह्यं रूपादिकं कथितमपि प्रतीयते
परेणाकथितमपि । अथ कथितं यत्प्रतीयते तदन्यदेव । एवन्तर्हि ।
कीदृशः प्रतिसन्धिरित्याह ।
एकमिदमिति न प्रतीतिर्भवेत् । तस्य पृथक्त्वात् । कयोः प्रतिसन्धिरित्याह ।
नानाभूतार्थग्रहणप्रवृत्तत्वात्तत्चेतसोः ।
सादृश्येन हि य एकव्यवहारः स दृष्टयोरेव नान्यथा (।) न च परदृश्यदर्शनं कदाचि
दपि तत्थं (?तत्कथं) व्यवहार एकत्वेन । अत्र हि परस्परविविक्तार्थप्रतिभासनमेव । अथ
सादृश्यम्वस्तुभूतं ततस्तदनुसारेणैकमेतदिति प्रतीयात् । एवन्तर्हि । अकथितेपि स्वप्रतीत्य
नुसारेण परस्थमपि प्रतीयात् । यदापि परो न कथयति । मयाप्येवं प्रतिपन्नमिति ।
तदात्वसत्त्यं कथयति । तदा कथं प्रतिपत्तिरर्थमन्तरेणैव । एवमेव दृश्यत इति चेत् । तदा
तर्हि स्यादनर्थिका बुद्धिः । यथा परप्रतिभासमन्तरेणैव परप्रतिभासावसायिनी धीस्तथार्थप्रति
भासनमन्तरेण साकारा स्यादिति सिद्धमाकारवत्त्वं ज्ञानस्य । यदि नाम पर्यालोचनया बाधक
प्रमाणबलाद्वा कस्यचित्साकारता ज्ञानस्य स्मृत्यादिकस्य । सर्व्वस्य तु कुतो भवतीत्याह ।
अनुभवविज्ञानमस्मृतिरूपं नीलादिविषयं द्वितीयेन तद्विषयेण स्मरणरूपेणानुबध्यते
अनुमीयते परामृश्यते । किम्भूतेनोभयांशवलम्बिना । नीलप्रतिभासं ज्ञानं ममासीदिति ।
न तु यथाभूतं । तदर्थापत्त्या निश्चीयते परैः । केवलं (अर्थाहितं) तथा भूतमनुसरति
कश्चित् । न चार्थापत्तिर्लौकिकस्य कस्यचिदुदयवती । नहि लोक एवं प्रत्येति (।) येनार्थो
दृष्टस्तेन मम बुद्धिरपरास्तीति ।
न रूपाद्यवभासनव्यतिरेकेणापराकारां बुद्धिमर्थापत्याऽन्येन वा कश्चिन्निरूपयितुं क्षमः ।
बोधरूपतया निरूपणमिति चेत् । ननु तदेव बोधरूपं न ज्ञायते । नहि प्रत्ययभेदाद्धात्वर्थभेदः ।
न च प्रत्ययार्थस्य भेदः ।
तस्मान्नीलादिव्यतिरेकेण बोधो बुद्धिरिति न निरूप्यते । तस्येव तु नीलादेः स्वभाव
भूतधर्मभेदो नैव सूच्यते । नीलस्य नीलविषया वा बुद्धिरिति (।) तेन नीलविषया बुद्धिर्ममासी
दित्यनुसरणे तदाकारतानुसरणमेव । तथा हि ।
यदि तर्हि नीलादेरेव स्वभावो भेदेन बुद्धिरिति निर्द्दिश्यते । नीलादिकमेव तर्हि केवलं
न बुद्धिर्नाम । यथा न पटव्यतिरेकेण शुक्लत्त्वादिकं ततो बुद्धिरेव न परमार्थ इत्यायातं ।
इष्यते बाह्योऽर्थः पारमार्थिक इति ।
तदेत (द) सत् । तथा हि ।
क्वचित्किञ्चित्समाश्रित्य कस्य चित्स्यान्निराक्रिया ।
यदि प्रमाणप्रसिद्धोर्थस्तदा तद्व्यतिरेकेणापरा बुद्धिर्न्नास्तीति बुद्धिः परित्यज्यते । अथ
बुद्धिः प्रमाणप्रसिद्धा तदार्थः । तत्र तावद्बुद्ध्याऽर्थस्य व्यवस्थापनमिति न बुद्धिरर्थवता
परित्यक्तुं शक्या । बुद्धिमता तु स्वसम्वेदनसिद्धत्वान्न बुद्धिरर्थोपायसाध्या । ततोऽर्थमन्त
रेणापि शक्याभ्युपगमना । ततो बुद्धिमङ्गीकृत्य तद्व्यतिरिक्तार्थपरित्यागः । अथार्थोपि
स्वसम्वेदनसाध्यः (।) तथा सति सम्वेदनमेव तद्व्यतिरिक्तोर्थः । अर्थश्चापरिदृष्टोप्यस्तीति
तस्यानुपलम्भात् परित्यागः । बुद्धिस्तु न तथेत्यपरित्याज्या । किञ्च ।
यथा हि ।
तस्मान्नीलाद्याकारैव बुद्धिस्तथावसीयमानत्वात्प्रत्ययान्तरेण तेन चोभयाङ्शपरित्यागा
न्नालम्ब्यत एव बुद्धिः तत्कथं न द्व्याकारा । अथवा बुद्धिरेकाकारविशेषणावलम्ब्यते द्वितीयेन
ज्ञानेन । एकेनाकारेणावलम्ब्यत इत्यर्थः । किंभूतेनैकेनाकारेणेति तदाह ।
उभयाङ्शावलम्बिना ।
उभयाङ्शव्यापिना । तत एवोभयाङ्शकल्पना । परमार्थतस्तु तावाकारौ तदैकाका
रानुप्रविष्टावेवेति । तेन व्याप्तौ भवतः । तौ पुनराकारौ बोधरूपता नीलाकारता च ।
पूर्व्वत्र व्याख्याने । एकाकारविशेषेण एकाकाराधिकेनेति ज्ञातव्यं । यदि नाम द्व्याकारतया
व्यवस्थाप्यते तथापि कथं द्व्याकारं । अत्रोच्यते ।
यदि तदाकारमात्मानं स्वसम्वेदनेन नानुभवेत् । कथन्तदाकारतया ज्ञानं स्मरणेधि
रोहेत् । अधिरोहणन्तदाकारताजनकं । तदधिरोहतीति कुतः । तथैव प्रतिपत्तेः ।
अवश्यमेतदुपगन्तव्यं । तथा हि उत्तरमुत्तरं । एकैकेनाकारेणाधिकमधिकं भवति
नान्यथा । तथा हि । पूर्व्वकेण नीलं गृहीतं तदुत्तरेण नीलज्ञानं तदुत्तरेण नीलज्ञानज्ञानं ।
तदुत्तरेणापि तदधिकमिति निश्चिनोति । तदेतदन्यथा न स्यात् । एतदेवोदाहरणेन
प्रतिपादयति ।
द्वितीयं ज्ञानं पूर्व्व वेज्ञानद्वयाकारं स्वाकारञ्च विभाव्यते । तृतीयेन चतुर्थेन तदेवोभ
यमेकाकाराधिकमिति यावद् गणयितुं स्मर्त्तुम्वा शक्नोति । अथ ज्ञानं केवलमेव द्वितीये क्षणे
न ज्ञायते । तत्तु ज्ञानमर्थेव्याप्रि (?पृ) तत्वात्तत्सम्बद्धमतस्तत्र स्मरणे सति तस्याप्यर्थस्य
नान्तरीयकत्वात्स्मरणमित्यतोऽन्यथा ज्ञानं स्मर्त्तुमशक्यमिति तथा स्मर्यते । ततस्तद्व्यापृतत्वेन
तदाकारमिति संकलनं भ्रान्त्या तदाकारताप्रतीतिः । अत्रोच्यते ।
भ्रान्तिरिति सम्बन्धः । यद्यर्थस्य कार्यम्विज्ञानमथाप्यर्थे कार्यं व्यापारो यस्येति
ज्ञानस्मृतौ नियमेनार्थस्मरणं । अतस्तदेव गूढमतिसन्तानस्य तथा भवति प्रतिपत्तिः । एवन्तर्हि
ज्योतिर्मनस्कारेपि तथा प्रतीतिः स्यात् । यथा विषयकार्यता विज्ञानस्य तथालोककार्यतापि
मनस्कारकार्यतापि तेन द्वयसंकलनेनापि प्रतीयेत । नहि कार्यत्वे कश्चिद्विशेषः । अथ
विषये व्यापृतत्वात्तत्संकलनं मनस्कारे तत्राव्याप्रि (?पृ) तत्वात्तदा तर्ह्यालोकेपि समान एव
व्यापारो न ह्यालोकमपहाय रूपे व्याप्रियते ।
तदसदेतत् । तस्माद्यथाऽऽलोकप्रतिभासमिति न भवति तथा रूपप्रतिभासमिति न
स्यात् । अथालोको विषय एवान्तर्गतत्वाद्रूपप्रतिभासनिश्चयेनैव गतः । न (।) आलो
कस्य प्रकाशकत्वेन विषयत्वाभावात्कथं तत्र व्यापारः । अथ प्रकाशकोप्यालोको रूपनिप
तितत्वाद्रूपमेव सम्पद्यत इति विषयः । तथा सति ज्ञानमपि प्रकाशकं रूपनिपतितत्वाद्रूप
मेवेति साकारालोकवत् विज्ञानमपि साकारं । यथा न रूपेण विनाऽऽलोको ग्रहीतुं शक्यः
तथा विज्ञानमपि । नहि रूपादिकं प्रकाश्यम्विना विज्ञानम्ममास्तीति कश्चिज्जानाति ।
तस्माद्रूपाद्याकारमेव विज्ञानं कार्यतया तु तथा प्रतिपत्तौ ।
कुलालादिकार्योपि घटादिः स्वकारणविवेकेन न स्मर्येत । अथार्थकृतः कश्चिदतिशयो
ज्ञाने विद्यते येन ज्ञानस्मरणेऽर्थोपि स्मर्यते । ज्ञानग्रहणे चार्थग्रहः । केवलस्य ज्ञानस्य न
ग्रहणस्मरणे । घटादिकस्तु केवलोपि गृह्यते कुलालादिकश्च । तदपि स्वपक्षबाधनाय ।
तथा हि ।
यदि तस्य विज्ञानस्य नार्थाकारता तदार्थग्रहणेनैव सह विज्ञानं ग्रृह्यते स्मर्यते चेति कोयं
नियमः । तदर्थान्तर्गतन्तु नियमेन तद्ग्रहणैनैव गृह्यत इति भवति नियमः । तस्मादर्थस्व
रूपमेव विज्ञानमर्थग्रहणनान्तरीयकग्रहणं तत्स्मरणनान्तरीयकस्मरणञ्च । दृष्टश्च यमलकयो
रेकग्रहणेन तदन्यप्रतिभासः सोयमिति स्मरणञ्च । श्यामवृक्षाकारतया च वृक्षग्रहणाभिमानः ।
यदि त्वाद्यं विज्ञानमनुभूय रूपं ग्राहकाकारमेव तथा द्वितीयमपि । तदाह ।
परामर्शचेतसा हि द्वितीयं प्रथमाद् व्यतिरेकेण न व्यवस्थाप्येत द्वितीयपरामर्शचेतसा
यतः तदपि तदाद्यानुभयरूपत्वे सति एकरूप एव व्यवस्थितं भवेद् ग्राहकाकार एवेति यावत् ।
ततः कुतो विवेकावसायः । तस्माद्विषयाकारमेव विज्ञानं । तत एव ।
ततोर्थाकारत्वात् द्वितीया धीः पुरः पूर्व्विकान्धियमवलम्बतेऽर्थसंकलनमाश्लिष्यतीति
अर्थसंकलनाश्लेषा । आश्लिष्यतीत्याश्लेषा । अर्थसंकलनेन चाश्लेषो यस्याः सा धीः द्वितीया
वलम्बत इत्यर्थः । यदि तु तदाकारता न स्यात्केवलामप्यालम्बेत ।
ननु केवलामप्यवलम्बत एव तथा हि । न जाने को मया दृष्टस्तदेति ग्राहकमेव
स्मरन्ति ।
तदप्यसत् ।
ग्राह्ये संशयतस्तत्र ग्राहकेप्यस्ति संशयः ।
सामान्येन ग्राहकस्य स्मरणे ग्राह्यस्यापि समान एव न्यायः । तथाहि । कोपि
मया दृष्ट इति दृश्यमानसामान्याकारेणैव स्मरणं । यदि च ग्राहकस्य स्वरूपमेव स्मर्यते ग्राह्य
व्यापाररहितम् । तदा तदेव तस्य रूपं न ग्राह्यसन्निधानेऽन्यदासीत् । ततस्तु स्मर्यमाणस्या
न्येन रूपेणाग्राहकेण कथं पश्चात्तथाभूतस्यैव ग्राहकता । अथ तत्त्वेन स्मरणे ग्राह्यसन्निवि
ष्टमेव रूपं तदा कथं केवलस्य स्मरणं । तस्मात्तदारूढमेवास्य रूपं न शक्यविवेचनमिति ।
एकमेव रूपाद्यात्मना, यदि च न द्विरूपता विज्ञानस्य तदा नीलाकारमाद्यमेव स्यान्नोत्तरोत्त-
राणि । तदाहा चा र्यः न चोत्तरोत्तराणि ज्ञानानि पूर्व्वपूर्व्वज्ञानविषयाभासानि स्युस्त
स्याविषयत्वात् । यस्मात् ।
नहि उत्तरोत्तरस्य ज्ञानात्मनः पूर्व्वज्ञानविषयविषयता । अविषयश्च कथमालम्ब्यते ।
यदात्वर्थाकारता प्रथमस्य तदा द्वितीयस्यापि । तत उत्पन्नस्य तदर्थाकारसम्वेदनाकारता ।
तथा हि ।
अथ ज्ञानमन्यथा स्मर्त्तुमशक्यं । अर्थसहितमेव स्मर्यते । तदारूढतैव तद्व्यापृतता
लक्षणा तस्य स्वभाव इति । ततः सार्थकस्य स्मरणं । घटादीनान्तु पुनः केवलोपि
स्वभावो न कुलालादिसहित एव । विषयस्तु विज्ञानसहित एवोपलभ्यते । तेन तथाभू
तस्यैव स्मरणं । न तु घटादीनां ।
तदप्यसत् । यतः ।
नहि सुखादि रूपं विज्ञानमिति प्रसिद्धिर्भवतां । सुखादीनाम्विषयत्वात् । यथा च
न सुखादिव्यतिरेकेणापरं विज्ञानं तथा नीलादिव्यतिरेकेणापि । बहिर्देशत्वाप्रमेयतैव नीला
दीनामिति चेत् । नाबहिरपि सुखादीनां प्रमेयत्वाभ्युपगमात् । न च तयोः सम्वेदने
बहिरन्तरिति परमार्थतो युक्तं । न ग्राहकता सुखादीनां नीलादिषु । तदभावेपि तथैव
प्रतिभासनात् । यच्च यदन्तरेणापि भवति न तत्तत्कृतं भवति च नीलादि ग्रहणमन्तरेण
सुखादिकमिति । ततः स्वरूपविशेषकृतमेव नीलादिग्रहणं तदभावेपि भावादिति प्रतिपादितं ।
तस्मान्न नीलाद्यपरोक्षतामन्तरेण नीलादि ग्राहकनिरूपणमिति सिद्धमाकारद्वितयं । अनुभव
नीलाद्याकारतया । अपि च भवतु ग्राहकाकारो परस्तथापि ।
विषयस्य हि नीलादेर्धिया सह सकृदेव सम्वेदनं । धिया सह न पृथक् । ततः
सम्वेदनादपरो विषय इति कथं । तथाभूतमेव सम्वेदनमिति स्यात् विवेचयितुमशक्यमिति
प्रतिपादितं । भेदावभासनं भवतीति चेत् ।
तद्यथा चन्द्रद्वयदर्शनमेकमेकत्रैव चन्द्रमसि भेददर्शनमेवमात्मन्यपि विज्ञानस्य । ननु
विषय एकत्रापि भेददर्शनं युक्तं विज्ञानाकारस्य भेदात् । तदात्मनि तु कथं । नहि तदै
वान्यथा । कथं हि स्वरूपं तेनैव पररूपेण गम्यते तस्याप्रतिपत्तिप्रसङ्गात् ।
न सदेतत् । यतः ।
यदि स्वरूपमन्यथा प्रत्येतुं न शक्यं पररूपन्तु स्वरूपेणापि प्रत्येतुं न शक्यमिति स्वरूप
वत्पररूपमपि न शक्यमेवेति प्राप्तं । तस्मादयमर्थः । स्वसम्वेदने सति न भेदः प्रत्येतुं
शक्यः स्वरूपस्य । यदि तु पुनरेकमेव चित्राकारं विज्ञानं स्याच्छक्यं स्वसम्वेद नेन प्रत्येतु
मन्यथा ऽयोगात् । ततो द्विचन्द्रदर्शनस्यापि यद्येकता न स्यान्न तत्प्रत्येतुं शक्यं स्वपराभ्या
मशक्यत्वादिति प्रतिपादितं । तस्मादुत्तरकालभाविना विकल्पेनान्वयव्यतिरेकाभ्यामिति द्वय
भेदकल्पना न प्रत्यक्षा प्रतीतिः । अयमेवार्थो भेदश्च भ्रान्तविज्ञानैरित्यादिना दर्शितः । इन्दु
द्वयाभिमतमेवाद्वयमेकविज्ञानान्तर्गतत्वात् । एवन्तर्हि नीलपीतयोरपि सहदृश्यमानयोरेकचित्रा
कारता भ्युपगन्तव्या । एवमेतत्सम्वेदनरूपस्य चित्राकारस्य तत्राप्येकत्वात् । यदि तु
भेदे इष्यते तदैवमभ्युपगन्तव्यं ।
अयमेव भेदहेतुर्यदुत भिन्नयोगक्षेमता । इन्दुद्वयप्रतिभासस्य तु भिन्नयोगक्षेमत्वा
भावादेकतैव ।
ननु विरुद्धधर्माध्यासात्कथमेकत्वं । अयमेव हि भेदो विरुद्धधर्माध्यासो नाम यः
परस्परपरिहारस्थितिलक्षणश्चात्र विरोधः ।
नैतदस्ति ।
एकप्रतीत्यनुप्रवेशादेव न तयोर्व्विरोधः । एतदेव तस्य रूपं यदविप्रयुक्तं नाम ।
न च तेनैव तद्विरुध्यते । तस्मादेकमेव तस्याकारमिति कल्पनयोच्यते । अन्वयव्यतिरे
काभ्यां । तमेवान्वयव्यतिरेकाभावं परमार्थतो नास्तीति दर्शयति ।
अनन्वयव्यतिरेकित्वादेकमेव नीलसम्वेदनमन्योन्यव्यतिरेकेणादर्शनात् । तथा हि ।
तस्मादत्र भेद इति नाममात्रमेव परेण विधातव्यं । न परस्य काचित्क्षतिः ।
हेयोपादेयविभागश्चेत्तत्र नास्ति किमीदृशा भेदेन ।
कथन्तर्हि नीलमानयेति पीतस्यानयनं न क्रियते । तदा तस्य पीतस्याप्रतिभासनमेव
तेन नानीयते । यत्तु पुनरवियुक्तं नीलं तत्तु चोदितमेव । ज्ञाननिवेशि च विमुक्तं । न
तदन्यथा नेतुं शक्यं । भेदव्यवहारस्त्वन्वयव्यतिरेकाभ्यामतात्त्विक एवेति प्रतिपादितं
अभिन्नयोगक्षेमत्वादेकत्वमर्थस्य ज्ञानेन दुर्व्वारं नहि वारयितुं शक्यमिति साकारं ज्ञानं
411सिद्धं । एवन्तर्हि ज्ञानमेव केवलं दृश्यते नार्थः। तस्यापि दर्शने नीलाद्याकारद्वयसम्वेदनं
तस्यापि ज्ञानकालावभासने पुनरर्थस्यादर्शनमित्याकारन्तराक्षेपेऽनवस्थानादसमञ्चसम्भवेत् ।
अत्र परिहारः ।
नीलाकारं ज्ञानं दृष्टवतः केनचिदत्र हेतुना भवितव्यमिति तदनुरूपो हेतुरनुमीयते न
तु साक्षादसौ प्रतीतिविषयः । पूर्व्वोक्तविरोधदोषात् । कथमत्यन्तापरिदृष्टस्यानुमानमपीति
चेत् । तदाह ।
सामान्यतोदृष्टमनुमानं व्यतिरेकमात्रप्रवर्त्तितं । तथाहि । चक्षुरालोकमनस्कारेषु
सत्स्वपि न भवति स्तम्भशून्याभिमते स्तम्भाकारमक्षविज्ञानमन्यत्र झटित्येव भवति ततो
ज्ञायतेऽन्येन केनचिदत्रवस्तुना भवितव्यं । यदभावादन्यत्राभावः । स तथाभूतोर्थः प्रमेयो
बाह्यो दर्शनोपाधिरहित एव ज्ञायमानः । स तर्हि कथं प्रत्यक्षस्य विषयः । तदाकारस्य
प्रत्यक्षविषयत्वादन्या गतिर्न्नास्तीत्युपचाराद्विषयता । एवं तर्हि बाह्य एवार्थः प्रमेयः । न
सम्वेदनमात्रमिति । नात्र स्थितपक्षतेति दर्शयति ।
किमाकारभेदजनकोऽन्योर्थः परिकल्पनीयोऽथ समनन्तरप्रत्ययविशेष एव कश्चित् ।
तत्रात्यन्तापरिदृष्टार्थकल्पना न साध्वी गत्यन्तराभावादेवं परिकल्पना । यदा तु परिदृष्टपूर्व्व
दर्शनसामर्थ्यादेवायमाकार उपपन्नस्तदार्थकल्पनावैयर्थ्यं । दृष्टानुसारेण च कल्पना भवति
नान्यथा । न ह्यदृष्टं कल्पयितुं शक्यं । दर्शनानुसारिण्यो हि कल्पना दृष्टा इत्यन्य
थाकल्पनमशक्यं ।
ननु च बाह्योप्यर्थो दृष्ट एवाकारजनकः । यथा पिण्डाकारता वृक्षमन्तरेण न भवति ।
न तत्रापि वृक्ष एव जनक इति केन दृश्यते । न । तेनैव तस्याज्ञानाकारत्वात् । अन्येन
नरेण दृश्यत इत्यत्र विचारितः तेनैव । पश्चाद् दृश्यत इति चेत् । यदि नाम तेन पश्चाद्
दृश्यते पूर्व्वमस्तीति कुतः । पश्चाद्दर्शनादेवेति चेत् । यदि नाम पश्चादुपलभ्यते पश्चादेव
भवतु । नहि सोपलब्धिः पूर्व्वत्र व्याप्रियते । साप्युय/?/लब्धिर्ज्ञानाकारस्यैव नार्थस्य. ततस्त
त्राप्यर्थोस्तीति पश्चादुपलब्ध्या निश्चयः । तत्रापि पश्चादित्यपर्यवसानादप्रतिपत्तिरेव ।
तस्मादर्थस्यादर्शनाद्वासनाप्रतिबद्धत्वस्य च प्रागेव साधितत्वात्समनन्तरप्रत्ययशक्तिरेव
कल्पनीया नियमहेतुः सूक्ष्मेक्षिकाक्रमेण । यदि तु कश्चिदेवं न व्युत्पन्नस्तस्य हेतुभेदानुमानाद्
बाह्यप्रमेयत्वं ।
ननु बाह्यार्थमन्तरेण कार्यकारणभावः कथं ज्ञाप्यज्ञापकभावश्च । तथाहि ।
बाह्यार्थमन्तरेण स्यात्कार्यकारणता विदाम् ।
तथाहि ।
नीलावभासविज्ञानानन्तरं पीतावभासं यदा भवति विज्ञानं तदा पीतावभासव्यतिरेकेण
पीतस्याभावान्नीलावभासमेव तस्य कारणन्न पीतं । न च तत्र नियमः । ततः पीतावभा
सादपि नीलावभासः । अन्योन्यहेतुना युक्तिविरुद्धः स्यात् । कथं हि कार्यकारणयोरन्योन्य
हेतुता । बाह्यार्थत्वे तु नीलमेव तत्र कारणं । पीतप्रतिभासस्तु समनन्तरप्रत्यय एव ।
समनन्तरप्रत्ययश्चार्थसहकारिभेदाद्भिद्यमानो नैकतामाप्नोति । येनानियमो भवेत् । अथवा
बोधरूपतायां समनन्तरप्रत्ययस्य व्पापारः । आकारे तु नीलादेरेव तत्र च नियमान्न दोषः
यदि बोधरूपादन्यतोपि बोधरूपता नीलादन्यतोपि तदाकारता भवेदनियमः ।
ननु शुक्लादपि शङ्खादिः पीताकारतोपलभ्यते अल्पादपि महाकारता ततोऽत्राप्य
नियम एव ।
नैतदस्ति । यतः ।
भ्रान्तेर्यदसमञ्चसदर्शनं तदप्रामाणिकमेवेति न तेन व्यभिचारः । तथा बीजादंकुरस्य
जन्मेष्यते न विपर्ययेण (।)
विज्ञानवादिनान्तु न बीजादिप्रतिभासादपरं वीजादिकं ततो बीजप्रतिभासादङ्कुरस्य
ततोपि बीजप्रतिभासस्येति न नियमः । तथा च व्यवहारोच्छेदः । ज्ञाप्यज्ञापकभावश्च
दूरोत्सारित एव । धूमादग्निरस्तीति साध्यते । परोक्षश्चानुमेयः । न च बाह्योग्निरग्नि
प्रतिभासश्च ज्ञानात्मकत्वादपरोक्ष एव । न च परप्रतिभासः साध्यते तत्र व्यभिचारात् ।
भाविनः स्वप्रतिभासस्यैवानुमानमिति चेत् । न (।) नियमाभावात् । तस्माद्वाह्यार्थवाद
एव साधीयान् ।
अत्रोच्यते ।
प्रतिभासेनैवात्र प्रयोजनं नार्थेन । अप्रतिभासमानस्य सतोप्यसदविशेषात् । तथाहि ।
उपलम्भः सत्तोच्यते । तथाहि ।
प्रतिभासो हि बाह्यमन्तरेण भवतीति प्रतिपादितं । प्रतिभासमन्तरेण बाह्यमसदेवा
नुपलब्धेः । ततो बीजप्रतिभासादङ्कुरप्रतिभास इति कार्यकारणभावे को विरोधः ।
केवलेन नर्हि नाङकुरप्रतिभासेन भवितव्यं । केवलप्रतिभासे हि बीजप्रतिभासाभावे
भावादहेतुकता स्यात् । बाह्यार्थवादिनान्तु नाहेतुकता । सुप्रतिभासमानस्यापि बीजस्य
भावात् । तथा हि ।
अथ परप्रतिभासस्तत्रास्ति ततो नाहेतुकता । न नियमाभावात् । न च परप्रतिभा
सात्स्वप्नप्रतिभासोदयः। तदपि समानं (।) यतः ।
सर्व्वसामर्थ्योपाख्यालक्षणं हि नि रु पा ख्यं । पश्चाद्दर्शनादस्तीति चेत् । उक्तमुत्तरं ।
कार्यतो ज्ञायतेऽस्तीति चेत्
तत इतरेतराश्रयदोषादसिद्धिरेव । अर्थैकत्वारोपादसावपि दृष्ट एव ।
ननु विज्ञानेप्यारोपः केन वार्यते । विज्ञानस्याभावात् कथमारोपो बाह्येपि समानमेतत् ।
बाह्यमप्यारोपादेवास्तीति व्यवह्रियते । तथा च प्रतिभासोपि सम्वृत्यास्त्येव । न
ह्यनुमानकालभाविनो बाह्यस्यारोपादपरमस्तित्वं । एवञ्चासावारोपो यदि कश्चिदत्र भवेत्
भवेदग्निर्दृश्यमानः । एवञ्न यदि कश्चिदत्र भवेत् भवेदेव प्रतिभासः । अन्यः सप्रतिभास
इति चेत् । अन्योऽर्थ इति समानमेतत् । तत्राप्येकत्वं न परमार्थतः । वि ज्ञा न वा दे पि
तैमिरिकद्वयद्विचन्द्रदर्शनवदेव च व्यवहारोऽन्यत्र च । तस्माद्विज्ञानवादेपि तद्रूपनियतप्रतिभा
ससङ्गमाद् बुद्धीराश्रित्य यदि कार्यकारणभावः को विरोधः । बा ह्या र्थ वा दे तु विरोध
प्रतिपादितं प्रमाणाभावात् । किञ्च ।
यदि बाह्यमग्न्यादिकं नित्यं तस्यैकाकारा प्रतीतिः प्रागेवेति किमर्थमनुमानात्प्रवर्त्तते ।
अथानुमानेन स्वरूपं न प्रतिपन्नमेव तथा सति कथमस्य सत्त्वप्रतीतिः । पररूपेण प्रतीतिर्व्वि
ज्ञानस्वरूपस्यापि समानैव । अन्यकल्पना दृश्यविकल्पार्थैकीकरणेन प्रवृत्ता तदध्यारोपयति ।
किन्तेनाध्यारोपितेन । अन्यथा तदभावे पश्चादर्थो विच्छिन्नोदयो भवेत् । कथन्तमन्तरेण
विच्छिन्नस्य भावः । यद्यविच्छेदकल्पनया प्रयोजनं वासना मध्ये भविष्यति । तथापि विच्छेद
एव वासनायाः । तद्रूपताऽभावादिति चेत् । अर्थेप्येवमभ्युपगम्यमानेन तद्रूपता (।) नहि
दृष्टमदृष्टेन समानं शक्यं प्रत्येतुं । आरोपमात्रमेव तु केवलं । तद्विज्ञानवादिनामपि समानम् ।
ननु विजातीयविज्ञानात्मिका वासना मध्यवर्त्तिनी कथन्तया तदविच्छिन्नं ।
यथा लाक्षावसेकस्य विजातीयान्तरोदये (।)
अन्तराले विजातीयविज्ञानचयसम्भवो (।)
तथा लाक्षारसावसेकोऽन्तरालपातिषु बीजाङ्कुरपत्रनाडादिषु शक्तिविशेषं फलानुमेय
मादधानो न विच्छिन्नं जनयतीति लोके व्यपदिश्यते । तथा पूर्व्वकोपि पावकप्रतिभासः परं
पावकप्रतिभासमन्तरालपातिषु विजातीयप्रतिभासेषु स्वशक्तिमप्ययँस्तदारूढ इवाविच्छिन्नमेव
फलं जनयतीति व्यपदिश्यतां अध्यवसीयतां वा । तेन स एव पूर्व्वकः प्रतिभासो जनयति
पावकप्रतिभासं न धूमप्रतिभासः । तत्र यथा बाह्यार्थवादिनोऽग्निप्रतिभासात्पाश्चात्
कल्पयन्ति पूर्व्वमग्निरासीदिति । तथा विज्ञानवादिनो वासनासीदिति नानयोर्विशेषः । धूमप्र-
तिभासादपि धूमवासना परिकल्प्यते वासनायाश्च कारणत्वं प्रसाधितं न तु बाह्यस्य कारण
भाव उपत्तिमान् । प्रतिपादितञ्चैतत् ।
यदि धूमवासनात एव प्रतिभासः स एव धूमः स एव कार्यकारणभावाभावः । न
ह्यग्नेर्धूमस्तदा भवेत् । स्ववासनाप्रतिबद्धत्वात् । अथाग्निप्रतिभासोपि तद्वासनाप्रबोधानु
गुणत्वेन धूमप्रतिभासकारणत्वात्कारणं । तथासति धूमोपि कारणमग्ने । कारणतायाञ्च
कुत एकान्ततो गतिर्व्यभिचारात् ।
अत्रोच्यते ।
धूमाभासा हि बुद्धिरग्निवासनाप्रतिबद्धा ततः सा वासनानुमीयते सा वासना प्रबोधाभि
मुखत्वादग्निप्रतिभासं जनयतीति पावकप्रतिभासप्राप्त्या प्रमाणम् । तद्यथा बाह्यार्थवादि
नामग्निरनुमितोऽग्निप्रतिभासमग्न्यन्तरम्वा तत एकसामग्र्यधीनाग्निप्राप्तिः । एवं वासना
धीनो धूमभाव्यग्निप्रतिभासौ । परोक्षेतरयोः पावकयोरेकत्वमेवेति चेत् । न (।) प्रमाणा
भावात् । वासनाबलादेव एकत्वमिति । वासनैव परमार्थत एका न वस्त्विति प्रतिपादितं ।
अपि च बाह्येप्यर्थे नाग्निरनुमीयते । अपि तु भावी प्रतिभास एव । तदिर्थत्वात्प्राणिनां ।
न ह्यप्रतिभासमानेनाग्निना कस्यचित्प्रयोजनं । प्रतिभासान्वितायाञ्च भावी प्रतिभासो
भवत्वनुमीयमानः किमग्न्यनुमानेन । कथम्भाविन्यनुमानमिति चेत् । एवमेव दृष्टत्वात् ।
प्रतिभासेनैव भाविनाऽनुमीयमानेन सकलं समञ्जसं । बाह्ये तु स्वप्नस्यापि न
सम्भवः । तथा हि ।
अन्यथा भाव्यर्थापेक्षया न कश्चित्प्रवर्त्तेत । अथ वर्त्तमानभाविनोरेकतामवसाय
प्रवर्तते । तथा सति भाव्यर्थवित्तिरेवासौ न प्रवर्त्तमानवित्तिः (प्रकृष्टा चासौ वित्तिः) ।
प्राप्त्या हि वेदनसत्त्यतानुमीयते । ततो वर्त्तमानरूपस्याप्राप्तेर्भाविनश्च विपर्ययाद् भावि ।
विषयमेव प्रमाणं । वर्त्तमानभावस्तु सन्नपि तत्रासत्त्यः । प्रत्यक्षमपि भाविन्येव प्रमाणं ।
तथा च प्रतिपादितं ।
ततो यदुक्तं भविष्यँश्चैषोऽर्थः न ज्ञानकालेस्तीति तन्निराकृतं । भविष्यता विना
न भवतीति तत्संप्रयोगजं प्रत्यक्षं प्रमाणं (।) तत इदमपि प्रत्युक्तमनिमित्तं विद्यमानोपलम्भ
नत्त्वादिति तस्मात्प्रत्यक्षानुमानयोर्भाविविषयत्वात्तदन्वयव्यतिरेकानुविधानभावात्प्रमाणता ।
परमार्थतः सकलं स्वरुपविषयमेव । व्यवहारतोऽर्थविषयता । स च भाव्यर्थः प्राप्तिविषय
इति तस्यैवार्थक्रि (या) कारित्वादर्थत्त्वं । यदि व्यवहारोऽङ्गीक्रियतेऽर्थविषयतैव प्राप्ता ।
स च वर्त्तमान एवार्थ इति किम्भाविविषयता प्रतिपाद्यते ।
अत्रोच्यते ।
अव्युत्पन्नानां व्यवहारो वर्त्तमानार्थविषयं प्रत्यक्षं । व्युत्पन्ना (नां) भाविविषयं
अतिव्युत्पन्नानां प्रतिभासमात्रविषयमेव । तद्यद्यव्युत्पन्नजनापेक्षयाऽर्थविषयता वर्त्तमाने चार्थे
सिद्धं साध्यते । एवमेव वयमप्यास्म । तस्माद्ध्ूमप्रतिभासं विज्ञानमग्निवासनामेव गमयति ।
सा च वासना भाविप्रतिभासैकतया प्रतीयमाना तद्रूपप्रतिभासे प्रवर्त्तिकेति स एव भाविप्रति
भासो गम्यते भाव्यग्निवद् बा ह्या र्थ वा दि मते । ततः परमार्थतः प्रतिभास एव विषयः ।
ननु यदि पश्चादपि भ्रान्तः प्रतिभासो भवति न तत्रार्थित्वं ।
अर्थ एवार्थिता लोके प्रतिभासे त्वनर्थिता ।
तदसत् । यतः
यत्र वासनाविशेषत एवमविघटनं तत्स्वप्नसुखमेव न भवति । वि ज्ञा न वा दिनामपि
स्वप्नेतरविभागोस्त्येव वासनाविशेषात् । यथा स्वप्न एव प्रबुद्धेतरविभागः । स्वप्नविशेष
एव वा भवतु । तत्राप्यर्थिता भविष्यति अविदग्धानां कात्र वः क्षतिः । परमार्थतो
विदग्धचूडोत्तमरत्नालंकाराणां तु मोक्षकामानां बालक्रीडावत् । अनभिमतमेव सकलं सुख
मिति प्रवर्त्तनाभावासक्तिः सिद्धसाध्यतैव । तथा हि ।
बालक्रीडामिव सकलमेव संसारसुखार्य धर्मसाधनमुत्पश्यतां मोक्षाक्षिप्तप्रेक्षावतां
संसारव्यवहारविडम्वनाव्यावर्त्तनाय धर्मे प्रवर्त्तनं । ततः सांव्यवहारिकं प्रतिभासविषयमेव
प्रमाणं । यदि तर्हि वासनाप्रतिबद्ध एव पावकादिप्रतिभासः स च सजातीयवासनाप्रतिबद्ध
एव ततो धुमप्रतिभासात्तद्वासनैव गम्यतां कथमग्निवासनागतिः । यतः ।
नाग्नवासना धूमप्रतिभासं जनयति । धूमवासनयैव तस्य जन्यत्वात् । ततो नान्य
जन्यमन्यङ्गमयत्यजनकं ।
अत्रोच्यते ।
चित्तादेव सकलसंसारप्रपञ्चोदयः । ततोग्निप्रतिभासजननयोग्यवासनासनाथचित्त
सन्तानादग्निप्रतिभासः । स च सन्तानो धूमप्रतिभासं जनयति धूमवासनाप्रबोधकचित्तान्तरो
पस्कारतः । ततो धूमवासना धूमाभासस्योपादानकारणमग्निवासनासहकारिणी । अग्नि
प्रतिभासस्यापि भाविनः पावकवासनोपादानकारणं धूमप्रतिभासः । प्रबोधकत्वात्सहकारि
कारणं धूमवासना च । तत एकसामग्र्यधीनत्वाद् गम्यगमकभावः पावकतत्कार्यधूमयोरिति
समञ्जसं ।
नन्वेकसामग्र्यधीनत्वेन गमकत्वे समानकालयोरेव गम्यगमकभावोनागतस्य न गतिर्व्य
भिचारादिति ।
सदितरदेतत् । यतः ।
भाविन एव प्रमाणविषयता । यदि हि धूमादग्निस्तदैवास्तीति गम्यते । न तु पश्चाद्
भविष्यति तदा प्रमाणं न किञ्चिद् भवेत् (।) नहि तत्कालभाविना तस्य वह्निना प्रयोजनं ।
भाविनः सन्देह एवेति चेत् । कथं प्रमाणं (।) अर्थदर्शनात्प्रमाणं (।) नहि प्रमाणेन प्रति (प)
त्तुरेव कालान्तरेर्थो दर्शनीयः ।
ननु तेन दृष्टेनाप्यर्थक्रिया न क्रियत इत्यनर्थ एवासौ । भाविनोऽर्थक्रियासम्भवात्
असावप्युपचारादर्थक्रियाकारी । कारणे कार्योपचारात् । यद्येवं वि ज्ञा न वा दि नामपि तत्का
लवासनागम्यतास्त्येव । अर्थक्रियाकारित्वाभावात् किन्तयेति चेत् । अर्थेपि समानमेतत् ।
भाव्यर्थद्वारार्यक्रियाकारित्वात्तस्याप्यर्थकारितेति वासनामानपि समानमेतत् । अर्थोपि तत्काले
वासनामात्रगम्य एव । अन्येन गम्यते चेत् वासनाप्यन्येन गम्यत एव । नहि वासनायामपि
परस्य व्यवहारतो न गतिः । तस्मात्समानमनुमानं बह्यार्थविज्ञप्तिमात्रवादिनोः । तस्माद्वि
ज्ञ प्ति मा त्र मेव युक्तं ।
(ख) परापेक्षया द्वैरूप्यम्
कथन्तर्हि बाह्येप्यर्थे आचार्येण द्विरूपता विज्ञानस्योक्ता वि ज्ञा न वा द एव युक्तः ।
अत्रोच्यते ।
बाह्यार्थाभ्युपगमेन परापेक्षया द्विरूपता वर्ण्यते, विदुषान्तु वि ज्ञा न वा द एव ।
सम्विन्नियमो हि भिन्नयोर्न्न युक्त इति प्रतिपादितं । यदि च निराकारं भवेद्विज्ञानतदाका
रोऽन्य एव तदा ग्राहकाकारः पृथगेव गृह्येत कदाचित् । गृह्यत एव नीलव्यतिरेकेण पीते स
एवाकारः । तदेव नीलं सुखाकारेण तदेव दुःखाकारेणेति चेत् । न ।
न ता(व)त् प्रत्यक्षं, पूर्व्वापरभावे प्रत्यक्षस्यावृत्तेः । तदभावेनानुमानमिति न प्रमाण
विषयः पौर्व्वापर्य । कथन्तर्हि अन्वयव्यतिरेकग्रहणासमर्थत्वात् प्रत्यक्षस्य अन्यत्राप्यग्न्यादा
वनुमानं । न सामान्यविषयत्वादनुमानस्य एकपरामर्शविषयमेकमभिप्रेत्यानुमानं यथाव्यक्त्य
न्तरेण सह महानसेतरप्रदेशवर्त्तिनां एकत्वमारोप्य स एवाग्निरिति साध्यते । न ।
परमार्थत एकत्त्वमेव । एवमत्रापि स एव ग्राहकाकारस्तदेव च नीलमद्य पि तद्व्यतिरेकेणास्त
इति सन्तानाभेदमभ्युपगम्य ग्राह्यग्राहकयोर्भेदः साध्यते बोधरूपनीलाकारयोर्व्वा । ततो वस्तुनि
न भेदोऽपि तु प्रज्ञप्तिसति सामान्येन सन्ताने । परमार्थसत्वन्तु स्वलक्षणमपेक्ष्य सहोपलम्भ
नियम एव । ततोऽभेद एव परमार्थः । यदि च निराकारं विज्ञानं तदा तदेव शुद्धं सर्व्वदा
भवेत् न पटुमन्दाविलादिरूपं । अन्यथापि च भवति । तथा हि ।
(ग) विज्ञानस्य द्विरुपता ।
कथमेकत्रैवार्थे नानाकारता । यतः ।
यदि निराकारम्विज्ञानं तदार्थ एव ग्राह्यः प्रतिभाति चैकाकार एव ततः प्रतिभाति स
चैकाकार एव ततः प्रतिभासस्य भेदो न स्यात् । नार्थस्य नानाकारतेति प्रतिपादिनं ।
नन्वर्थाकारतायामपि नानाकारता कथन्तदेकाकारेणैव ज्ञानाकारेणापि भाव्यं । ततो
नानाकारतादोषस्तदवस्थ एव । न दोषो यतः ।
तदाकारतोदयप्रसङ्गेर्थादन्यतोपि तदाकारता यथा चन्द्राकारतायां तिमिरादिबलात् ।
द्व्याकारता ।
नहि सुतः पितुः सदृश उत्पद्यमानो मातुर परमप्याकारं न धत्ते । इन्द्रियभेदेन
भेदमेव दर्शयति ।
नीलाद्याकारभेदभिन्नं भास्वरं सपरिवेषं प्रदीपं पश्यन्ति तिमिरमन्दीकृतनयनशक्तयः ।
अथ तथाभूतमेव सत्यतः प्रदीपरूपं तदा ।
प्रसन्नेक्षणोपि पश्येत् । यदि वा सोपि प्रसन्नेक्षण एव नोपहतेन्द्रियः । यतः ।
असत्त्यदर्शनाद्दर्शनमुपहतमुच्यते । सत्त्यदर्शनेप्युपघातकल्पनायां सकलस्तम्भादिदर्शिनो
प्युपहतलोचनाः कल्पनीयाः । तथा हि न तावत्स्वरूपेण दर्शनशक्तेरुपघातः प्रत्यक्षतः प्रतीयते
ततोऽनुमानात्कल्पनीयः । शक्तिश्च यथा कार्यदर्शनेन कल्प्यते । यथा कार्योपघातेनोपघात
कल्पना तस्याः । कार्यं च दर्शनं । तच्च सत्त्यदर्शनमन्यद्वा । सत्त्यदर्शनेपि कल्पनेनानुपघातो
नाम अथ सन्तमप्यन्यादृशं पश्यतीत्युपहतेन्द्रियः । तथा सति ।
यो हि अन्यादृश्यमपि पश्यति स कथमन्यदृश्यमस्पष्टं पश्येत् । नह्येवं दृश्यते । यो
हि सूक्ष्ममन्यादृश्यं पश्यति सोन्यदृश्यं परिस्फुटतरं पश्यतीति दृष्टं न चैवमतो न भतदर्शीति युक्तं ।
नन्वभूतं दृश्यते चेति व्याहतं ।
दृष्टमभूतमिति व्यवस्थायां भतमेव नाम नास्तीति प्राप्तम्विशेषाभावात् । न च
दृष्टेऽनुपपन्नं नाम ।
तदसत् ।
इन्द्रियविकारतिमिराद्यन्वयव्यतिरेकानुविधायितयोपलभ्यमानं तदपरकारणोपपादित
जन्मकं सम्वेदनस्वभावाननुस्यूतमिति न युक्तं । तिमिरादिविकारानुविधानमेव च साध्यम् ।
तथापि बाह्यत्वाभ्युपगमे वचनमात्रकं । तथा हि ।
आलोकादिव्यतिरिक्तस्य प्रदीपस्यैव परमुपलभ्यते शक्तिर्न्न मण्डलस्य ततो नापरस्य
हेतुताभावाद्विषयता । नाहेतुर्व्विषय इति प्रतिपादितं । प्रतिभासनादेव विषय इति न युक्तं ।
प्रतिभासस्य भ्रान्तस्यापि सम्भवात् स्वरूपेण प्रतिभासमानं कथं भ्रान्तिमिति चेत् ।
स्वरूपेण प्रतिभासमानं स्वसम्वेदनन्न विषयः स्यात् । अन्यत्र प्रतिभासमानेन स्वसम्वेदनमिति
चेत् । स्वेन रूपेण प्रतिभासमानं कथमन्यत्र प्रतिभातीति युक्तं । यत्र हि प्रतिभासते
तस्यापि प्रतिभासनेऽन्यत्रानवस्था । स्वप्रतिभासने तद्वदेवान्यस्यापि स्वरूपप्रतिभासनात्
स्वसम्वेदनमेव । परस्परप्रतिभासने नीलादीनामपि परस्परप्रतिभासनात्सम्वेदनतैव ।
नीलादीनामपि सम्वेदननिवेशिनां सम्वेदनस्वभावेनैवेति तद्रूपो हेतुरन्वयव्यतिरेकावधूत
सामर्थ्यो विषयः । न चान्वयव्यतिरेकाभ्यां सामर्थ्यावधारणं मयूरचन्द्रकस्य । ततो नास्य
विषयता । सम्वेदनासीनरूपव्यतिरेकेण व्यवस्थापनासम्भवात् । स्तम्भादीनान्तु जाग्रदु
पलब्धानामन्येन ज्ञानान्तरेण दर्शनाद् व्यतिरेकव्यवस्था तत्कार्यभूदाहदर्शनाच्च । अत्रापि
समानतिमिरोपप्लवैरुपलम्भ इति चेत् । न । तेषामपि समानत्वात् । नहि भ्रान्त्युपलब्ध
स्याग्नेर्भूमिभेददाहः कार्यमुपलभ्यते । ततो द्वयस्यापि भ्रान्तता । अथ सोग्निरदाहक एव ।
न । तथा प्रतीत्यभावात् । अतथाभूतस्य तथाप्रतीतिर्भान्तिरेव । लोकव्यवहारापेक्षया
भ्रान्ततेति चेत् । अर्थत्वमपि लोकव्यवहारापेक्षमेव । स्वरूपप्रतिभासनात्सर्व्व एव तथेति
न विवेको युक्तः । तस्मादर्थक्रियाकार्यर्थोऽन्यो नेति न्यायः । सर्व्व एवार्थः किन्नेति चेत् ।
सर्व्वमेव सम्वेदनमिति किन्नेष्यते । सम्वेदनभावे च स्वसम्वेदनमेव सकलमिति कथमर्थता ।
परोक्षं सम्वेदनमिति चेत् । न । प्रमाणाभावात् । स्वसम्वेदनं कथमिति चेत् । न ।
दृष्टत्वात् । अन्येनापि सम्वेद्यमानं दश्यत इति चेत् । किमत्र प्रमाणं । भवतोपि किमिति
चेत् । असम्वेदनमेवापरस्य ।
ननु प्रकाशकाभावे कथमप्रकाशस्य घटस्येव प्रकाशनमिति चेत् । न । प्रकाशतायाः
419सिद्धत्वाभावात । प्रदीपवदेव । घटस्य कथमिति चेत् । समर्थकारेवस्थानात् । तत्र
रूपमस्तीति कुतः । एकसामग्र्यधीनस्पर्शादिदर्शनादन्येन च निशाचरादिना । परमार्थतस्तु
नैवमिति अस्मत्समीहितमेतत् । तस्मात्प्रदीपवत्स्वसम्वेदनमेव सकलं । तैमिरेकदृष्टा
कारः । अपि च । यदि तस्य सामर्थ्य चन्द्रकस्य चित्रपटवदेकदेशस्य प्रदीपरहितस्यापि
दर्शनप्रसङ्ग । तथा हि ।
विततरूपस्य तदेकदेशो विनाप्येकदेशान्तरेण गृह्यते । तथैव हेतुरिति चेत् । न ।
रूपान्तरापेक्षमेव नीलादि गृह्यते । एवमुभयस्य हेतुत्त्वं कल्प्यते ।
तद्देशपिधानेपि दीपमात्रसद्भावाद् भवतीति नोभयकारणा तद्दृष्टिः । अथ तत्पिधा
तुमेवाशक्यमन्यथोदयादिति चेत् । तदैव तर्हि तस्योदय इति नाप्रकाशरूपता । दृष्टिस्तत्र
व्याप्रियते तेनास्वसम्वेदनमित्यसङ्गतं । दृष्टेः समानकालतया तत्र व्यापाराभावात् । अन्वय
व्यतिरेकाभ्यान्तु तद्रूपव्यापारे तदेव जनितं प्रदीपेन प्रभावदिति स्यात् । यथा वा प्रदीपो
निजहेतुतः सप्रभः तथा चक्षुरपि पुरः परिस्फुरद्रूपसमन्वितमिति न दोषः । प्रदीपाद्व्यतिरि
क्तैव प्रभेति चेत् । अस्तु व्यतिरेकः । किन्तु न प्रदीपप्रकाश्या प्रभा प्रदीपवदेवेति प्राप्तं ।
तस्माच्चक्षूरूपव्यतिरिक्तमपरमिह विज्ञानं प्रमाणाभावादसत् । तदेव तु द्वयं स्वरूपसम्वेदना
धिष्ठितं (।) सम्वेदनमिति तथाभूतसम्वेदनकारणमपरं परिकल्प्यतामिति सिद्धा द्विरूपा बुद्धिः ।
यदि चार्थ एव पुरोवर्त्ती साकारः स एव विज्ञानग्राह्यः तदार्थः स्वरूपेण गृह्यत इति ।
अर्थः खलु दर्शनविषयसीमानमनतिक्रम्य वर्त्तमानः स्वकारणपरम्परोपपादितान्यस्वभाव
परित्यागानियतस्वभावसङ्गमात् स्वरूपत एवावभासेत । कथमस्य दूरासन्नादिदेशतायामपि
प्रतिभासनभेदो येन व्यक्तेतरस्वभावताप्रसङ्गः । दृश्यते चासावतो न बाह्यमेवाकारवता
स्वभावपरिग्रहेणावभासि । नहि नियताविकलरूपावभासने भेदभासनं तद्रूपभेदप्रसङ्गात् ।
प्रतिभासमानं हि पुरो रूपमर्थ एव तल्लक्षणत्वादर्थस्य । ततस्तद्भेदेऽर्थभेद एवाविकलः ।
न च भेदेऽर्थस्य व्यक्तादिव्यपदेशः । नार्थान्तरप्रतिभासनेऽन्यदव्यक्तं नाम । तस्य च तदेव
रूपं तच्च व्यक्तमेव ।
तस्मादेव तर्हि दूरासन्नादिभेदादालेकस्यालोकनस्य वा भेदाद्व्यक्तेतरभेद इति न
सङ्गतम् । स्वरूपप्रतिभासनेतरविकल्पानतिवृत्तेः । आलोकभेदेपि यदि स्वरूपेणावभासते
कथमव्यक्तं नावभासते तथापि कथमिति न किञ्चदेतत् । आलोकभेदे हि सोपरस्तत्र
गृह्यतामर्थस्तु कथमव्यक्तादिरूपः । अथ दूरदेशव्यवधानान्मन्ददर्शनं । यदि दूरदेशव्यव
हितन्तवापि हि तत्त्वान्न दृश्यत एव । अथापि हितं ततः परिस्फुटमेव दृश्यतामिति कुतो भेदः।
दूरदेशतया हि सूक्ष्मांश एव व्यवधीयते न स्थवीयानाकारः । सूक्ष्मस्तु व्यवहितो
दूरदेशतया न दृश्यत एव ।
नन्वसाववयव्येक एव महिम्नावस्थितः । ततः सकल एव परिदृष्ट इति
कथमस्पष्टग्रहः । अथ न भवत्येकस्तदा सकलसूक्ष्मतेति प्रतीतिरेव न भवेत् । भवन्ती वा
परिस्फुटपरमाणुरूपग्राहिणी स्यात् । तदेव दर्शयति ।
नन्वेकस्याप्यवयविनः सूक्ष्मावयवयोगात्तद्रहितग्रहणेऽपरिस्फुटाकारता (अ) न्यथान्य
याभावः ।
तदसत् । यतः (।)
नन्वनेकत्वे तदन्यग्रहणे तदन्यस्याग्रहणमित्यपरिस्फुटता ।
तदप्ययुक्तं । तत्रापि समानत्वात् । यदर्थग्रहणे परिस्फुटं तत्किमन्यरूपमर्थसम्वेद
नस्य । यद्यर्थस्य तदन्याग्रहणेपि तदेवेति कथमपरिस्फुटता । अथ ततः सोत्पत्तिमती तदा
तर्हि नार्थसस्यासाविति कथमर्थग्रहः । तदापि सा तथा भवन्ती वस्तुन एव रूपमिति चेत् ।
वस्तुरूपतायां परेणापि तथैव दृश्येत । अदर्शने परेण प्रतिपत्तिरेव साऽसाधारणत्वादिति
प्रतिपादितम् । तथा हि । प्रतीतिरेव मम व्यामलितरूपोदितेति जनः प्रतिपत्तिमानथोप
चारादेवं प्रतीतिः । व्यामलितार्थदर्शनात्प्रतीतिरपि तथाभूता व्यपदिश्यते यथा दण्डसङ्
गात्पुरुष एव दण्डव्यपदेशभाक् ।
तदप्यसत् । यतः
दृष्टेस्तु कार्यन्नास्त्यन्यत् न हि कार्य तया स्थितिः१ ।
निश्चयो हि न सर्व्वेषामकस्माद् भ्रान्त उच्यते ।
नहि व्यवहारमस्खलितमादधानो व्यवसायोऽन्यथा संभाव्यते । ततः स्वयमर्थप्रति
भासेन बुद्धिभेदो युक्तः ।
अपरः प्राह । आलोकस्य बाह्यस्यैव मान्द्यपाटवभेदाद्ध्ुद्धिभेद एकस्मिन्नप्यर्थे न तु
बुद्धिस्वभावभेदः स्वत इति नासावाकारश्चेतसः । तदनुपपन्नं । यतः ।
अर्थस्य प्रतिभासः स्याद्यदि भासा समन्वितः ।
परस्परव्यावृत्तालोकरूपप्रतिभासे हि तयोरेव तथावभासनमिति नास्पष्टरूपप्रतिभासः ।
न खल्वन्यस्मिन् स्वरूपावभासवति तदपरः तथा भवति । भवत्येव कु सु म्भ रागवस्त्रान्तरित
वस्तुप्रतिभासवदिति चेत् । न । तत्रापि समानत्वात् । स्वरूपेण प्रतिभासनेन रक्तताव
भासः । तदेव तस्य रूपमिति तथावभासनाभ्युपगमे तस्याप्यालोकमन्दतया तदेव रूपमिति
सकलस्य तथावभासनात्कुतो बुद्धिभेदः । तस्मादालोकभेदेपि न भेदावभासः । अचि च ।
यदि तेजो दवीयसि देशे रजसाऽवृतमिति मन्दं तदाकाराद्देशमपि मन्दमेव तत्रापि
रजसा तिरस्करणसम्भवात् । न खलु व्यापि नभस्वदुद्ध्ूयमानमिह नास्ति(।) तदस्तित्त्वेपि
तनुत्त्वाद्रजसोऽनावरणकारणता । दवीयसि तु देशे तदन्तरालापतनत्त्वे न रजसो भूयस्त्वं ।
स एव गो धा श श क न्या यः । तेजसोपि तत्र भूयस्त्वमेव । निकटे तु यथा रजसस्ता
नवन्तथा तेजसोपीति किमेवमुक्तेन ।
यदि रजसस्तनुत्वेनालोकस्यामन्दतायां स्फुटप्रतिभासस्तदात्यासन्नतायां रजसस्तनुत
मत्वादतिपरिस्फुटम्भवेत् । तत्र शक्त्यभावादिन्द्रियस्येति चेत् । सर्व्वथाऽदर्शनमेव
प्रसक्तमित्युक्तं ।
अदृष्टसङ्गतिमचेतनं पदार्थमाश्रित्य रूपान्तरमेव तत्रोत्पन्नं तेन तत्तेज आवृत्तं विहित
मिति न तदपरस्य दर्शनं । एवं सति सर्व्वेण तदेकमेव दृश्येत नापरं । तस्यावृतत्वादालोकस्य ।
द्व्यमपि च दृश्यते निकटे तादावरणं नास्त्येव तस्य पृष्ठतस्स्थानात् । नैकदेशस्यैव दर्शनात् ।
नहि दूरदेशवर्त्तिना निकटदेशावस्थितस्य पृष्ठतस्तदुपलभ्यते रूपमपरिस्फुटाभिमतं । भ्रान्तिर
साविति चेत् । पदार्थतत्त्वदर्शनदर्शिनां कुतो भ्रान्तिसम्भवः । देशभ्रान्तिरस्त्येवादित्यस्य
वृक्षशिरः संसृष्टतादर्शनवत् ।
तत्काले ऽविद्यमानस्य यदि स्यात् दृष्टिरागतं ।
यदाह परदर्शनदूषणाय भवता किञ्चदुच्यते । तदा परोपि सकलमेतद् भवतो
422दूषणं प्रतिभाति न समर्थनं । तथाभूतादृष्टसामर्थ्यादेवेति भवत एवायं दोष इति शक्त
एव वक्तुं । यथा च विद्यमानवारणमदृष्टतः तथा ऽविद्यमानोपदर्शनमपि । ततो ऽविद्य
मानमेव भवतो दूषणं प्रतिभाति । विद्यमानमपि न समर्थनं तथा प्राश्निकप्रपञ्चस्यापीति
न कश्चित्सम्यग् वादी भवेत् ।
कस्यचिदपि पृष्ठतस्तदावरणमिति पुरोवत्तिनावरणेन पिहितत्वादेकमेवास्फुटरूपमा
वरणं सर्व्वः पश्येत्तस्यानावरणे तु सकृदेव दूरदेशव्यवस्थितोपि स्फुटेतरलक्षणं द्व्यमपि
पश्येदिति प्राप्तं सकृत्तदेवेत्याह ।
अथाप्युच्येत । एक एव दृश्यते परदर्शनस्यादृष्टेन वारणे सतीति चेत् । अत्रो
च्यते । यदि तत् ।
न दृश्यत इति वाक्यशेषः । तदयुक्तं ।
अदृष्टं हि नामेदं धर्माधर्मलक्षणं । अकस्मादर्थानर्थोपनिपातेन गम्यते न प्रत्यक्षतः ।
तत्कथनमनर्थेतरत्वाभावेपि दूरादर्शनस्यास्पष्टदर्शनस्य वा दृष्टकृतत्वं । एतदपि करोतीति
चेत् । दत्तमत्रोत्तरं । सर्व्वमेव दूषणसमर्थनं व तत्त्वतो भवेदिति । साधूक्तमपि न
भवताऽवगम्यते ऽदृष्टवशादिति ।
किञ्च ।
(घ) अक्षणिकस्य न व्यक्तिः
नाविद्यमानस्य स्वरूपेण दर्शनं । हेतुत्वेन च ज्ञानात् पूर्व्वत्त्वं । पूर्व्वत्वे च क्षणिक
तया न ज्ञानकालेस्तिता । अथ यदैवास्ति तदैव ग्रहणं हेतुभावमन्तरेणापि । समान
कालतयैव वा हेतुतापि ।
तदसत् । ज्ञानस्य य उपकारको न भवति तस्य ।
न समानकालस्य हेतुता तथा ऽप्रतीतेः । असम्बद्धग्रहणे च सर्व्वमेव गृह्येत ।
न सर्व्वग्रहन्तद्धेतुनियतत्वाद् ग्राह्यग्राहकयोः । ईदृशो ग्राहकश्चक्षुषा नियमितो
येन प्रतिनियतमेव ग्रृह्णाति । ग्राह्यम्वा येन तेनैव गृह्यते । अथवोभयमपीति परः ।
तदयुक्तं । यतः ।
न प्रतिनियतग्रहणमनया कल्पनया । हेतुनियमो हि पदार्थानां स्वरूपे कार्यकारणे च ।
न तावत् स्वरूपे । स्वरूपप्रतिनियमे हि कारणतः स्वरूपमेव तयोस्तथाभतं यदवभासते । ततः
स्वरूपावभासनमेव प्रसक्तं तत्पूर्व्वकारणाधीनं न परस्पराधीनमिति न परस्परं ग्राह्यग्राहकभावः ।
समानकालोदयात् । यदधीना हि तयोर्ग्राह्यग्राहकता तस्यैव तौ ग्राह्यग्राहकाविति युक्तं ।1059
न
च संविदितस्वस्वरूपाद213a परा ग्राह्यग्राहकता । कथन्तर्हि ग्राहकोहं ग्राह्यं ममेदमिति प्रतीतिः ।
न । तदपरस्य सम्बन्धस्याप्रतिभासनात् कल्पनामात्रमेवानादिवासनाधीनमेतत् । तथा
चोक्तं । सव्यापारमिवाभातीति । तस्मात्स्वरूपस्य स्वहेतुनियमान्न ग्राह्यग्राहकभावः ।
अथ कार्यकरणे स्वहेतुनियमः । तदापि यदि ताभ्यां प्रतिनियतस्य कार्यात्मनो जननं कथमिव
ग्राह्यग्राहकभावः । सहकारिभाव एव भवेत् । न च तावता ग्राह्यग्राहकभावः । तस्मान्न
हेतुतो ग्राह्यग्राहकभावः । अथवा नैषापि कल्पना ज्ञाने । यदा ज्ञानं ग्राह्यं ज्ञानान्तरस्य
प्रत्यक्षस्यान्यस्य वा तदा कि द्वयोर्ज्ञानयोः समानकालता । हेतोश्च ग्राह्य ग्राहकतोदयः ।
न च द्वयोः समानकालतेष्यते । समानकालतयाम्वा तदन्येनापि समानकालेन तदन्येनापीति
अपर्यन्ततैव ज्ञानानाम्भवेत् । अर्थस्यापि तदा ग्रहणम्भवेत् । न चेष्यते । न च प्रथमं
ग्राह्यमसत् पश्चाद् ग्राह्यं भवति तद्रूपस्याप्रतिपत्तिप्रसङ्गात् । ग्राह्यरूपमेव प्रागपीति चेत् ।
प्रागपि ग्रहणप्रसङ्गः । भवतु को दोष इति चेत् । न । प्रागपि ग्राहकप्रसङ्गात् । यदि
च चक्षुरादिसामग्रीवशादुदयस्तस्य ज्ञानमेव ग्राह्याकारः स्यात् नार्थता । तथाप्यर्थत्वे
ग्राहकाकारोपि भवेत् । अथार्थस्य प्राग्भावाद् ग्राहकस्य चान्यथाभावान्नैवं । न प्रागभावः
परिगृह्यत इत्युक्तं । कल्पनायां सर्व्वकल्पनाप्रसङ्ग इति च । कथन्तर्ह्यर्थकल्पना । अन्य
(सौ त्रा न्ति क) दर्शनापेक्षयेति प्रतिपादितं । अत एवाह ।
तदाकारावभासनात् अविद्यमानोप्यर्थः प्रतिभातीति भवेद्व्यपदेशः । अन्येन
दृश्यमानोर्थः स्वयञ्चानुमानतः प्रतीतोस्तीति
व्यवस्थितावर्थस्य ततस्तदाकारज्ञानोत्पत्तौ स
गृहीत इति युक्तं । तदभावे तूत्पन्नं भ्रान्तिज्ञानमिति व्यवस्था । न पुनः परमार्थतो
ऽनुमानमस्ति ।
प्रत्यक्षपूर्व्वकं सर्व्वमनुमानं प्रवर्त्तते । प्रत्यक्षस्यानुमानापेक्षा यद्यन्योन्यसमाश्रयः ।
न यावदनुमानं प्रमाणं तावन्न प्रत्यक्षं प्रमाणीभवति बाह्येऽर्थे । न च प्रत्यक्षस्य प्रामाण्यास
म्भवेऽनुमानन्त
त्पूर्व्वकत्वादन्यथान्धपरम्परा भवेत् । तस्मात् परमार्थतः स्वरूपमेव सम्वेदनस्य424 सम्विदितं नार्थः । तथाप्यभ्युपगम्योच्यते । नहि सर्व्व तत्त्वत एव व्यवस्थाप्यते । ततः
पूर्व्वमर्थे सति यदाकारं विज्ञानं जायते स ग्राह्यः ।
सहोदितोर्थात्मा स्वहेतोः तथैवोत्पन्न इति तदुपकाराभावात् ज्ञानस्य नासौ ग्राह्यस्तदा
कारज्ञानाजननात् । ततः ।
परोक्षोर्थात्मा तदाकारज्ञानजनकतयावस्थितः स्वरूपेणाविदितस्वभाव इति तदाकार
ज्ञानसम्वेदनादेव तस्य वेदनमिति युक्तं । तेन व्यक्तत्वं । स्वरूपेण प्रतिभासने तु स्वहेतु
सामर्थ्यान्न समानकालता विना परेण तस्य किञ्चिदिति तद्वेदनं । यदि परन्तदुपरोधमात्रादेव ।
भवतु ज्ञानादीनामसतां ज्ञानकाले स्वरूपेणावेदने ततस्तत्र सामर्थ्यत्तदाकारज्ञानकल्पनापि ।
यः पुनः स्थिरो वज्रोपलादिकोर्थस्तस्य स्वरूपवेदनं कथमनुपपन्नं ।
तदपि यत्किञ्चिदेतत् । यतः ।
कालकलावता न व्यापी हि नित्यः स्थिर इति चोक्तः । यदि च तस्य स एव
स्वभावस्तदा तदाकारसर्व्वस्वस्वीकारसम्वेदनेन सपर्यवसानः स परिगृहीत इति एकज्ञानकाल
एव परिसमाप्त इति न नित्यता भवेत् । न तदैव परिसमाप्तं नित्यं नाम । सकल
कालकलावलोकेन च न कालदैर्ध्य । युगपच्च ग्रीष्मादिकः कालः स्यात् । ज्ञानैकत्वेप्य
यमेव दोषः ।
ननु क्रमभाविकालकलानामक्रमेण कथं ग्रहणम् । अग्रहणे तर्हि न कालव्याप्ति
रस्येति कथं नित्यता । तस्माद्यद्यसावेकस्तथैव सकृत् गृह्येत । अथापरकारणापेक्षया
परापरसम्वेदनजनने क्रम इति ।
तदप्ययुक्तमनपेक्षत्वात् । न ह्येकरूपं स्वकारणादुत्पन्नं तद्भावे ऽपरमपेक्षते । अथ
पश्चादपरा दृश्यमानता भवति । या पश्चादेव विषयः । तदा तर्हि न नित्यत्वमित्याह ।
यदि सहकारिचक्षुराद्युपकारक्रमेण तानि विज्ञानानि क्रमभावीनि । तथा सति ज्ञानानां
क्रमभावे तद्दृश्यतापि क्रमभाविनी । नहि दृश्यता ज्ञानमन्तरेण वस्तुनः स्वसम्वेदन
प्रसङ्गात् । ज्ञानसमानकालभाविनी च दृश्यता न पूर्व्वापररूपा ज्ञानस्या तथाभावात् । ततो
ज्ञानवदेव प्रतिक्षणं भेद इति । पूर्व्वपूर्व्वस्वसन्तानभाविकारणाधीनाऽन्यथा वा । ततः
पूर्व्ववदत्रापि दोषः । अथ चक्षुरादिकारणोपनिपातमविच्छिन्नमेकमेव । ततस्तदविच्छेदाद
विच्छेदसम्भविनी ग्राह्यतैकैष ततो नित्यता वज्रोपलादेः ।
नैतदस्ति ।
425यदाप्यविच्छेदस्तदापि पर्यवसानावधि प्रतीतिप्रसङ्ग इत्युक्तं । तस्माद्वज्रोपलादावपि
समानमेव । तस्मादविद्यमानानां शब्दादीनां कारणभूतानां सम्वेदनासङ्गतेर्व्विषयाकारं
विज्ञानमिति सिद्धं । आ चा र्ये णापि प्रतिपादितं ।
स्मृतेरुत्तरकालश्च नह्यसावविभाविते ।
तदाह (।)
स्मृतेश्च द्विरूपतासिद्धेति ।
(३) स्वसंवेदनचिन्ता
(क) अर्थाकारं ज्ञानम्
1063अथापि स्यात् । सम्वेद्यसम्वेदकरूपतया द्विरूपतया न विषयाकारतयेति
ग्रन्थार्थः । तदयुक्तं ।
विषयज्ञानतज्ज्ञानविशेषात्तु द्विरूपते ।। १०७८ ।। ति प्रकृतं
तत्र च विषयाकारता प्रकृता साधयितुं । कथं पुनर्ज्जायते द्विरूपम्विज्ञानमिति प्रक्रमात् ।
तत्रापि द्व्यभासं हि विज्ञानं स्वाभासं विषयाभासञ्च । तत्र विषयतायामेव महत्यास्था । यतः ।
ननु च स्वसम्वेदनेपि विवाद एव ।
नैतदस्ति । सम्वेदनमात्राभिप्रायादेवमुच्यते । स्वसंवेदनन्तु साध्यमिति युक्तमे
वैतत् । तथा च ।
स्वसम्वेद्यता चेति पश्चात्सा साधयिष्यते ।
ततः स्वसम्वेदनव्यतिरिक्तसम्वेदनात्मत्वेन विवाद इत्ययमत्रार्थः । तस्य त्वर्थाकार
तायां विवादस्तदसिद्धेः । सापि तदाकारता सम्यक्स्मृतेर्व्विभागेन स्मृतेः सिध्यति ।
ननु निराकारतायामपि स्मृतिर्व्विभागवत्युपपन्नैव । तत्कथमनैकान्तिकाद्धेतो
रर्थस्य सिद्धिः ।
नैतदस्ति । यतः ।
यदि तत्सम्वेदनं न प्रतिनियतस्पष्टनीलाकारो रागवशात् विभक्तमुपजायते । तदा
न विवेकेन स्मर्य्येत । अथ कश्चित्सामग्रीविशेषाद् भेदोऽवश्यम्भावी तत एव भेदवती स्मृतिः ।
तदयुक्तं (।) यतो नानुभवमात्राद्विशेषः सामग्रीप्रभावोन्नीयमा(ना) त्मा स्मृतेर्न्निबन्धनं
स्पष्टभेदाभावात् । न चास्पष्टभेदादेव विवेकिनी यमलकादिषु स्मृतिः । अथ विषयोपि
तत्रानुभूत इति स्मर्यते । तदव्यभिचारादतः स्वयमभिन्नमपि तद्भेदादेव भेदेन स्मृतेर्व्विषयः ।
यमलकयोरपि यदा विलक्षणदण्डादियोगस्तदा भवत्येव विशेषोपलक्षणम् । यथैव विषयब
लात् कल्प्यते ऽनुभवस्तथा स्मर्यमाणादपीति ततो विज्ञानस्मरणमिति व्यवहारः ।
तदसत् ।
प्रत्युत्पन्ने हि तस्मिँस्तत्कथं स्मरणमुच्यते ।
अनुभवादाकारवतः स्मृतिरुदयमासादयन्ती तदाकारेति युक्तं । तथाहि ।
यदि साकारता ज्ञानस्य न भवेत् । कथन्तदाकारता स्मृतेः । तथाहि । विज्ञानं
स्मरणप्रत्ययेनालम्ब्यमानन्नाकारव्यतिरिक्तमालम्ब्यते अतियोगयोगिनापि । यस्य यथाधि
मुक्त्या विषयीकणं तथैव तदिति मन्तव्यं । तस्मात् स्मृतेरुभयरूपता प्रसिध्यतीति युक्तं
स्वसम्वेदनञ्च । तथा चा चा र्यः । स्वसम्वेद्यता च वा । आह च (।)
ननु सर्व्वेणैव द्वैरुप्यसाधने न स्वसम्वेदनं प्रसिद्धं । किमुच्यते प्राय इति ।
नैतदस्ति । मुख्यतो द्वैरुप्यसाधने द्वैरुप्यप्रसिद्धिरानुषङ्गिकी पुनः स्वसम्वेदनतापि ।
यतः स्वरूपभूत आभासस्तदा प्रतीयते । न च स्वसम्वेदनादन्यतः प्रतीतिः ।
ननु स्वसम्वेदनमित्यात्मनो ग्राहकं ततश्च तदेव ग्राह्यं ग्राहकञ्चेति । न चैवमात्म
कतायां दृष्टान्तः कश्चिदस्ति । येन ततः सिद्धिः । प्रदीपादिवत्प्रकाश्यप्रकाशकभाव इति
चेत् । न(।) प्रदीपादीनामपरप्रकाशकनिरपेक्षत्वात् प्रकाश्यरूपता नास्त्येव । कुतः प्रकाश्य
प्रकाशकतया दृष्टान्तता ।
तस्मात् स्वसम्वेदनन्नाम नास्त्येव ।
ननु चात्मा ग्राहकरूपो ग्राह्यश्चेतीष्यते भवद्भिः
तदप्यसत् । यतः ।
द्रव्यान्तरासाधारणेनात्मत्वेन ग्राहकता द्रव्यत्वेन तु साधारणेन ग्राह्यतेति युक्तं ।
427भवतुस्तु सर्व्वमेतदसमञ्चसं । न च परप्रसिद्धिमात्रादेव दृष्टान्तः । स्वप्रतिपत्तावुपाय
त्वाभावात् ।
तदेतदसत् ।
यत्र हि परस्य प्रकाशकत्वं न प्रतीयते तदेवात्मनां प्रकाशयतीति व्यपदिश्यते ।
परप्रकाश्यव्यावृत्तत्वात् । यथा च प्रतिभासमानेदीपादौ न परस्य प्रकाशकता तथा
प्रतिपादितमत एव प्रदीपस्य दृष्टान्तता ।
ननु ग्राह्यतयाभिमतानां रूपादीनां स्वसम्वेदनाभ्युपगमे रूपादिकमहमिति प्रत्ययो
भवेत् आत्मनीव । तथाहं सुखमिति भवेत् ।
नैतदस्ति । यस्मात् ।
रूपादयो हि शरीरसमवायिनोहमिति प्रत्ययेन गृह्यन्ते । न च ते भवन्मते स्वसम्वेदनाः ।
ननु रूपमहमिति न दृश्यते तेन ग्राह्यता न तु स्वसम्वेद्यता ।
तदप्यसत् ।
यद्ययमहं प्रत्ययो न ग्राह्ये भवेत् रूपे गौरादौ न भवेत् । न च रूपमहमिति भवति ।
तस्मान्न ग्राह्यतानिबन्धनोहंप्रत्ययो नापि ग्राह्यताविरोधी । अथात्मसम्बन्धादुपचारादहं गौर
इति प्रत्ययः । मम रूपमिति व्यतिरेकदर्शनात् ।
ननु भेदाभावान्मम गौर इति न भवति । मम रूपमिति तु भवति किमत्र निबन्धनं
(।) तस्मादयं प्रत्ययो निर्निबन्धन एव । ततोऽहमिति व्यावृत्तेर्न्न रूपादीनामस्वसम्वेदनता
प्रसिद्धिः । न चाहं गौर इत्युपचरितवृत्तिरपरस्य मुख्यस्याभावात् । न च मम मुखादिकं
ममेति प्रत्ययस्य किञ्चिदालम्बनं । भेदरूपमुपलब्धिगोचरः शिलापुत्रकस्य शरीरमिति यथा ।
तथा हि ।
सुतरामपि निरुप्यमाणमहमिति प्रत्ययस्यापरमालम्बनं शरीरगतरूपादेरपरं नोपलभ्यते ।
तेन मम मुखमिति शरीरसम्बन्ध एवानादिवासनापरिकल्पविशेषतो वा प्रत्ययः । यथा तर्हि
शरीररूपादिषु भवत्यहंप्रत्ययः स्वसम्वेदनात् । तथा कुड्यादिष्वपि भवेदहं कुड्यमिति ।
यथा पुरोवर्त्तित्वं कुड्यस्य शरीरपेक्षया तथा कुड्यापेक्षया शरीरस्यापि स्यात् । न च
भवति । तस्मान्न स्वसम्वेदनता कुड्यादीनां ।
अत्रोच्यते ।
यथा कुड्यशरीरयोः प्रतिनियतवासनासामर्थ्यात् परस्परं भेदस्तथाहंकारविषयतेतर
भावोपि । तस्मादन्यग्राहकव्यापारविषयत्वायोगादेव स्वसम्वेदनता । अस्ति चात्र दृष्टान्तः ।
यस्य परोधिष्ठाता नास्ति तस्य स्वतंत्रतग्रा प्रतीतिः । नास्ति च सम्वेदने कुड्यादीनां
कश्चिदधिष्ठाता ततः स्वतन्त्रं सम्वेदनमिति सिद्धः स्वसम्वेदनभावः । चक्षुषस्तु ग्राहकत्वं
न रूपादितया ग्राह्यत्वात् । न खलु कारकाद् व्यञ्चकस्य कश्चिद्विशेष इति । प्रतिपाद
यिष्यते च । तस्मात् व्यतिरिक्तापेक्षयाप्रकाशकाऽभावः कारकभाव एव । प्रकाश्यता तु
स्वत एवेति युक्तं । तथैव दर्शनात्तथैव स्मरणादिति न्याय एषः । अपि च ।
तस्मादहंकारस्य नित्यानुबन्धः कारणमिति न कुड्यादौ भवत्यहंकार इति विभागः ।
न चाहङ्कारात् स्वसम्वेदनं । परानपेक्षवेदनस्य तथा स्थितेः । अथ ग्राहकाकारेण तस्य वेदनं ।
तदप्यसत् । यतः ।
न खलु शरीरेतरभूतरूपादिव्यतिरेकेणापरमुपलभ्यते यस्य ग्राहकता भवेत् । सुखाद
योपि शरीरव्यतिरेकेणे न विभाव्यन्ते । न च ते विभाव्यमाना अपि ग्राहकाः स्वरूपमात्र
पर्यवसानात् । सुखादिके च ग्राह्यताया भेदेपि भेदो भवेत् । भवत्येवाभिलाषा
दिभेदेविरूपादित्वेन भासनादिति चेत् । न विरूपादिभेदेन प्रतिभासनेऽर्थरूपताऽभावात् ।
नहि परस्परविरोधि रूपमेकस्य युक्तं । ग्राहकापेक्षया न विरोध इत्यपि न वाच्यं ।
अपेक्षाया अयोगात् । नहि ग्राहकान्तरापेक्षया तदन्यद् भवति ग्राहकस्य कारणत्वप्रसङ्गात् ।
तेन विरूपादिरूपता विद्यमानैव प्रकाश्यते चेत् । यदि तर्हि विद्यमानैव प्रकाश्यते कथम्पश्चाद्
बाध्यते पर्यालोचनेनेति यत्किञ्चिदेतत् । अथ सर्व्वमप्येतदुपन्यस्तं ग्राह्यमेव । ग्राहिका
तु बुद्धिरपराऽर्थापत्त्या तदेव वेद्यते । तदपेक्षमस्वसम्वेदनं । ततः स्मरणादप्युत्तरकालन्त
थाभूतैवाऽसौ प्रतीयते ।
तदप्ययुक्तं ।
न खलु रूपसुखादिव्यतिरिक्ताकारवती बुद्धिरर्थापत्त्या लोकेन व्यवहारवता प्रतीयते
बुद्धिर्ममास्तीति । विभावितग्राह्याकारातिरेकि प्रतिनियताकारबुद्धिरूपं विकल्पजालमेव
केवलमुपरि बंभ्रमीति लोकस्य । अथ मूत्तस्यैव पदार्थत्मनो देशादिनियमेन व्यवस्थितस्य
प्रतिनियतरूपविभावनं । न तु बुद्धिरेवं रूपाप्रमेयप्रकाशनमात्रमेव तस्यारूपमिति न
रूपादिवत्प्रतिनिय(त)रूपविभावनं ।
तदप्यसत् ।
429रूपादिविशेष एव प्रकाशकान्तःप्रवेशी स्वभावभूतधर्मभेदमादाय तथा व्यपदिश्यते ।
रूपादिकं हि परोक्षापरोक्षसाधारणं । प्रकाशमानरूपता तु रूपविशेषतया सजातीयादपि रूपा
द्व्यवृत्ता । ततो व्यावृत्तिभेदाद्धर्मभेदः । तेन रूपादेर्बुद्धिरिति व्यपदेशाध्यवसायवृत्तिः ।
तस्मात्सम्वेदनकाले स्मरणकाले च नापरा बुद्धिर्व्विभाव्यत इति सिद्धं स्ववेदनं रूपाद्याकार
तयेति सिद्धान्तः ।
तेनेदमपि निराकृतं भवति ।
एकप्रतीत्या परस्यापि पराप्रतीत्या चापरस्यापीति प्राप्तम् । प्रतीयत एव हि
रूपादिरूपता प्रकाशरूपता च कस्यामसन्देहः ।
यदप्युक्तं । ग्राहकमेव स्मरन्ति कोपि मया दृष्ट आसीत् इति स्मरणात् ।
तदसद्यतः । तत्र विशेषे ग्राहकेपि सन्देह एव । सामान्ये तु ग्राह्येपि न सन्देहः ।
ममेति च देहसम्बन्धित्वन्दर्शयति लोकः । तस्यापि देहस्य स्वप्रकाशत्वमेव नापरप्रकार
इति । एतच्चोक्तमेव । अथापि परस्याभिप्रायः ।
तदसत् । यतः ।
यदि तदुत्तरकालभाविन्याऽपरया बुद्ध्याऽतदाकारयाऽर्थापत्त्यादिरूपया ज्ञानमिष्यते तदा
तत्पूर्व्वकं वेदनं निरुद्धं । क्षणिका हि सा न बुद्ध्यन्तरकालमास्त इत्यभ्युपगमात् । ततो
निरुद्धेऽपरसम्वेदनकाले पूर्वकेऽनुभवे कुतो नुभवः । स्वरूपस्यासम्वेदनाद् ग्राह्यस्य च स्वरूपा
भावात् सकल एवोत्सीदेदनुभवः । न ह्यस्वरूपं ज्ञक्यमनुभवितुं । स्वरूपानुभवस्य सर्व्वत्रा
नुभवत्वात् । स्वरूपञ्चाविद्यमानस्य पूर्व्वानुभवस्य नास्तीति नानुभवः। पूर्व्वस्योत्तरानु
भवेन स्वरूपस्य चानुभवो नेष्यते । न चक्ष्यते । तस्य विषयाकाररहितत्वात् । विषया
कारत्वे वा स्वसम्वेदनानुपगमात् । अनवस्थाप्रसङ्गादिति प्रतिपादयिष्यते ।
अपि च । बुद्धिरन्येनानुभूयत इति न सदेतत् । यतः ।
यदि बुद्धेर्ग्राहिका बुद्धिरपरा तदा बहिर्मुखावभासिनी भवेद्रूपादिबुद्धिवत् न ह्यन्येनान्यद्
गृह्यमाणमबहिर्भावेन प्रत्येतुं शक्यं । बुद्धिरपि सर्व्वदान्तरत्वेनाभासते । अथवात्मीयतया
बुद्धेरन्तर्भावावसानं ।
स्मरणेनापि बुद्धेः स्याद् ग्रहणेन्तश्चकासनं ।
स्मरणेनापि यदात्मीया बुद्धिरालम्ब्यते तदापि बहिरवभासिनी न स्यात् । अथ सा
कालभेदादेवमवभासतेऽत्रापि स्वरूपभेदादेवमिति किं नेष्यते । न च व्यतिरिक्ताकारतयाऽ
नवभासमानं ग्राहकादन्यदिति शक्यमवसानुं । तस्मादान्तरत्वे वानुभूयमाना बुद्धिः स्वसम्वेदन
रूपैवेति युक्तं । समानदेशतया तथानुभव इति चेत् । न । समानदेशमपि स्वरूपभेदेनैव
गृह्यते । संसर्गाविभागस्तु प्रत्याख्यात एव । तस्माद्यस्य बुद्ध्यन्तरेण बुद्धिर्गृह्यते तस्य
सा बहिष्ठेनैवेति न्यायः । अपि च ।
यस्य हि विषयस्य योवभासः ज्ञानसन्निविष्टस्तम्विषयाभासि ज्ञानमर्थ न वेति ।
स्वरूपभूतार्थाभासासम्वेदनात् । स्वसम्वेदनेन हि विषया(का) रानुभवे तत्त्वतः सोप्यर्थो
नुभूतो भवेत् अयमेवार्थावग्रहः । पादपादेरिव पिण्डाकारग्रहः । अस्वसम्वेदने तु सर्व्वम
समञ्जसं संपन्नं ।
स्वसम्वेदनन्तु माभूदपरं । न हि तदभावे तन्न भवति । नहि स्वसम्वेदनाभावे नीलम
नीलं तथा न बुद्धिरबुद्धिः । अन्यवेदने बुद्धिर्न्न स्वसम्वेदने । अर्थरूपता च स्ववेदनलक्षणं
न स्वसम्वेदनं । आत्मनोपि बुद्धित्पप्रसङ्गात् । तस्मादात्मनि स्थिता तदाकारा स्वसम्वे
दनमन्तरेणापि बुद्धिरेव । यदि तर्हि स्वसम्वेदनमन्तरेणापि पूर्वार्थाकारमात्रादन्यथा वा तदा(।)
अस्वसम्वेदने हि तदाकारतामात्रमवशिष्यते । तदा चार्थबुद्ध्योरविशेष एव तदाकार
मात्रेण बुद्धित्वे तस्यापि तत्प्राप्तमतोऽर्थोप्यर्थान्तररूपो बुद्धिरेव बुद्धिलक्षणात् । अर्थत्वान्नेति
चेत् । किमिदमर्थत्वं । अबुद्धित्वञ्चेत् । अबुद्धित्वेप्यर्थे सतीति एकस्याप्यप्रसिद्धिः ।
तस्मात् स्वसंवेदनतैव । यदि परं बुद्धित्वमिति न्यायः । अथात्मव्यवस्तित्वं समवायसम्बन्धे
नान्यथा वा ।
तदप्यसत् ।
आत्मस्वत्वेपि बुद्धित्वे प्रयत्नादेः परस्परं ।
प्रयत्नादीनामपि परस्परं सरूपस्य सम्वेदनत्वप्रसङ्गः । केन वात्मस्थितत्वमवधार्यते
बुद्ध्यन्तरेण ।
ननु बुद्धित्वमेव नावधार्यते । तत्कथं बुद्ध्यन्तरेणत्युच्यते । आत्मस्थितत्वे द्वयोर्बु
द्ध्योः कथं परस्परेण ग्रहणं समानदेशतया भेदाभावात् । अथ भेदः प्रतीयते । तदात्मनोपि
भेदप्रतीतिरिति त्रयमेतत्परं विभिन्नं । न ह्यात्मनोऽप्रतीतौ तत्रस्थता प्रतीयते । अप्रतीय
मानश्चात्मा कथम्बुद्ध्याकारतया बुद्ध्या प्रतीयते (।) नहि बुद्ध्या प्रतीयमाना रूपादयोपि
आत्मस्थतया प्रतीतेर्व्विषयाः । अनात्मस्यत्वात्तेषामिति चेत् । ननु ब्याप्यात्मा कथमतत्स्थ-
त्वमिति । तत्रासमवायादिति चेत् । कथमसमवायः । तत्राप्रतिपत्तेरिति चेत् । बुद्धि
रपि तर्हि नैवात्मनि प्रतीयते तद्व्यतिरेकेणात्मनः प्रतीतेरभावात् । ननु प्रतीतिस्तावदियं
क्रियारूपा विद्यते (।) तस्याः कर्त्रा ऽवश्यमेव भवितव्यं नाकर्त्तृका क्रियास्ति ।
ननु यतोसावुपजायते चक्षुरादेः स एव कर्त्ता, तेषां करणत्त्वादिति चेत् । किमन्येन
कर्त्रा परिकल्पितेन तेषामेव कर्त्तृत्वन्न चान्येन कर्त्रा विनाऽकरणत्वमेषां । यदि च शरीरमेव
कर्त्तृ किमन्येन । शरीरान्तर्गता तर्हि बुद्धिरन्तर्म्मुखावभासिनी प्रतीयते । अत एव परबुद्धि
रन्यथा न प्रतीयते । शरीरैकदेशभूतानामपि तर्हि केषाञ्चिद्ब्ुद्धित्वं ततोऽस्वसम्वेदने रूपादिभिः
समानता । ततः प्राप्तं सम्वेदनं सर्व्वसदृशानां परस्परमिति । तस्मात् स्ववेदनादेर्वान्य
रूपव्यावृत्तिः ।
न सर्व्वं सरूपमर्थवेदनं । अपि तु बुद्धित्वे सति बुद्धिगतं सारूप्यमर्थवेदनं । न
वेदनमात्रं । नापि सारूप्यमात्रं । वेदनामात्रे वेदनमेव भवेन्नार्थवेदनं । सारूप्यमात्रेऽर्था
नामपि परस्परं वेदनप्रसङ्ग इति ।
तदेतदसत् । यतः ।
सरूपता यदि सम्वेदनलक्षणं तदार्थोपि सरूपः सम्वेदनं प्राप्त इत्यत्रोत्तरं बुद्धिरिति ।
तत्रोक्तमेव । परस्परवेदने तेषामपि बुद्धिता प्रसक्ता । सम्वेदनं प्रसक्तमिति येनोक्तं
बुद्धित्वमपि तेषामिति तेनोक्तमेव । तत्र तद्वेदनं कथमुत्तरं विशेषाभावात् । यतः ।
सम्वेदनं बुद्धिरिति नानयोर्भिन्नवाच्यता ।
ततः परो विशेष एवाभिधातव्यः । स च सारूप्यादपरः ।
ननु सरूपाणामर्थानां परस्परमग्राहकता दृश्यते (।) ग्राहकञ्च रूपं बुद्धिः । यद्यवं
ग्राहकरूपं नादृश्यं बुद्धिः । ग्राहकरूपतायाः सादृश्यमात्रेण रूपादीनामपि ग्राहकत्वाद्ब्ुद्धित्व
प्रसङ्गः । अग्राहकत्वाच्चेत् । ननु ग्राहकत्वे व्यवस्थिते कस्यचिदग्राहकत्वमपरस्य
तद्विपर्ययादवस्थाप्यते तदेव तु नावस्थितं ।
अथ रूपादिव्यतिरिक्तं ग्राहकं । ननु रूपादिसरूपमस्वसम्वेदनं कथं रूपादिव्यतिरिक्तं ।
न च तत्कल्प (न) यां प्रमाणं । ग्राह्यतान्यथार्थस्य नेति चेत् । यथा दृश्यते तथैवास्तीति
किमपरेण । तस्मात् स्वरूपसम्वेदनमेव विशेषः । तथा च सति यतो विशेषाद्रूपादिकादर्था
द्व्यावृत्तता तदेव बुद्धित्वमिति न सारूप्याद्ब्ुद्धित्वं । बुद्धित्वे स्वसम्वेदनलक्षणे यत्सारूप्यन्त
द्वेदनमिति वे द न लक्षणमेव बुद्धित्वं न सारूप्यलक्षणं । किमर्थन्तर्हि सारूप्यमिष्यते प्रामाण्यं ।
तत्कृतनियतसम्वेदनहेतुरिति सारूप्यं1066 तदिष्यते । ततः सारूप्यन्नाम बुद्धित्वे सतीति बुद्धित्वस्य
स्वसम्वेदनलक्षणस्य विशेष एव । न तदपरं सारूप्यं । बुद्धित्वमपि तर्हि सारूप्यविशेष
एव न ततः परमिति प्राप्तम् । सत्यमेतत् तथापि स्वसम्वेदनमात्रानुबद्धं सारूप्यं न सारूप्य
मात्रभावि स्वसम्वेदनम्बाह्यार्थवादिनः । अपि च ।
नहि स्वसम्वेदनस्य सारूप्यं कारणं । स्वरूपञ्चेदपरप्रत्ययं साक्षादवगम्यते किमत्र
सारूप्येण । यद्यपरेणास्य सारूप्यं तदेदं विदितमन्यदा नेति नेदमेवं विकल्प्यते । गतोदके
कः खलु सेतुबन्ध इति हि न्यायः । किमिदानीं सारूप्येणेत्यपि न वाच्यं । यतः ।
व्यतिरिक्तविषयसम्वेदनरूपतानेन व्यवस्थाप्यते । सारूप्यतोऽन्यथा न भवतीति ।
नीलस्य कर्मणः सम्वित्तिः पीतस्येवेति क्रियाकर्मप्रतिनियमार्थमिष्यते । न तावद्बाह्यार्थवादिनां
नीलादिकं बाह्यं स्वसम्वेदनमतः सारूप्यभावाद्व्यवस्थाप्यते । अन्यथा लोके न बाह्यार्थ
नीलादिताव्यवस्था । यतः ।
स्वभावभूतं स्वसम्वेदनस्य यन्नीलादिरूपन्तस्य सम्विदं बाह्ये नीलादिके विप्लवेनाना
दिवासनाप्रवाहवाहिनारोप्य नीलादिकस्यानुभूताख्या । न तु ततः परात्मा नीलादिकः
कथञ्चिदनुभवगोचरः । स्वसम्वेदनरूपानुभव एव तु तस्यानुभव उपचारात् । यतः ।
तल्लक्षणापरवेदने हि विदितमेवायमस्माकमिति हि लोके व्यवहारोऽत एव लोक
इत्याह । परमार्थतस्तु स्वसम्वेदनमेव केवलं ।
यदि सम्वेदनमेव नीलाकारमात्मप्रकाशकं बाह्योर्थः किं प्रमाणमादायविदितो भवेत् ।
नहि तत्र प्रत्यक्षं तस्य स्वसम्वेदनमात्र एव पर्यवसानात् । न च ततः परं नीलमाभासते
नीलाकारद्वयाप्रवेदनात् । अथ तदर्थस्य रूपं तदा सम्वेदनमन्येन रूपेण विदितमविदितम्वा
भवेत् । यद्यविदितं स तस्यानुभवः कथं । स्वरूपेणाज्ञातमस्य सम्वेदनमिति कथं संगच्छते ।
विदितञ्चेत् । तथापि समानकालमन्यथा वा वेद्यमानं कथम्वेदनमन्यस्य तदेवात्मीयं रूपमा
वेदितमाभ्यामिति कथं परस्परं सम्वेद्यसम्वेदकभावः । परोक्षत्वे तु नीलादेस्तद्रूपवेदना
त्तत्प्रज्ञप्तिरिति भवेद् व्यवहारोनेनेदमज्ञायीति । साक्षात्तु वेदनेर्द्वयोः परस्परप्रतिबद्धं सम्वेदन
मिति । न प्रमाणं किञ्चित् । तस्मादसम्विदितं स्वयमन्येन सम्विदितेन ज्ञाप्यत इति वरमेतदेव ।
ननु न सम्वेदनात्मत्वं स्वसम्वेदनमात्रकमपि तु सारूप्ये सतीति युक्तं । न ।
सारूप्यमात्रात्सम्वेदनत्वासिद्धेः । स्वसम्वेदनत्वे सति चेत् । यद्येवं स्वसम्वेदनात्मत्वमेवास्तु
किं सारूप्येण । यदि सारूप्यन्न स्यात्किन्न सम्वेदनं भवत्येवेति चेत् । किमिदानीं सारूप्येण ।
यदि सारूप्यमन्तरेणापि भवति । भवेदेव किन्तु तदप्यस्तीत्युच्यते सारूप्याद्वेदनमिति ।
नैतदस्ति । यतः ।
स्वरूपमेव तत्तस्य येन सम्वेदनात्मता ।
अपरमपि तत्स्वरूपं स्वत एव । ततः सारूप्यात्सम्वेदनमिति कः सम्बन्धो यदि
तत्स्वरूपं न भवेत् (।) किं स्वसम्वेदनात्मता जाता सत्यप्यपगच्छेत् । तस्मात्सिद्धन्तत्स्वत
एव रूपं किमपरेण । तदर्थसम्वेदनन्न भवेदिति चेत् । नेदमपि युक्तं । यदि नामात्मीयं
रूपमन्यसरूपम्वेत्ति तदेव वेत्तु । कथमर्थस्तेन सम्विदितो भवेत् । इति किमर्थेन सङ्गतमु
पनीयते । अर्थस्य सम्वेदनमिति मीयते । नह्यर्थः स्वसम्वेदनेंऽनुप्रवेशी येन सम्विदितो
भवेदिति नार्थवेदनन्नाम । अपि च । यदि सारूप्यनिबन्धनं वेदनं तदा महाननर्थः । यतः ।
सर्व्वात्मना हि सारूप्यं सकलभेदापगमे स्यात् । तदा चार्थ एवासावपरार्थव्यक्तिवत् ।
कथन्त (ज्) ज्ञानं । ज्ञानत्वेनाधिकत्वेन सर्व्वात्मना साम्यम्भवेत् । अथ केनचिददंशेन
भेदोपि तदा सर्वं सर्व्ववेदनं भवेत् सकलस्य केनचिदंशेन समानत्वानपगमात् । बोधाकारतां
परित्यज्यान्ये न सर्व्वेण समानतया सम्वेदनमिति चेत् । सकलज्ञानसम्वेदनत्त्वप्रसङ्गः । यत
उत्पद्यते तदेव सम्वेद्यमिति चेत् । यदि नाम तत उत्पद्यते तथाप्यसम्वेद्यमिति कुत एतत् ।
तद्रूपसम्वेदनाद् वेद्यं न तु तत उत्पत्तेः । न च यमलकयोः परस्परमुत्पाद्योत्पादकभावः । अथ
चैकवेदने परस्यापि वेदनव्यवहारः । यदि च यत उत्पत्तिः सरूपता च तस्य वेदनं तदा ।
बोधकरूपतया सम्वेदनेन समानता नीलादिरूपतयापि नीलादिना ततो नीलादिवेदनव
दनुभववेदनमपि । अथ नीलादिकमप्युपधायकमस्तीति नीलाद्यनुभवः । अनुभवेनाप्युपधायकेन
न भवितव्यमित्यपि कल्प्यते ।
तदप्यसत् । यतः ।
नहि तैमिरिकोपलब्धे केशावभासे केशोपधानकल्पनायामादरः । तत्र पूर्व्वं दृष्टं
केशादीति चेत् सर्वत्रायमेव प्रकारः परिकल्प्यताम् । यथा नीलाकारदर्शनान्नीलकल्पना
तज्जातीयतया तथोपधानमन्तरेणापीति स्यात् । न च विरुद्धाव्यभिचारितात्वकल्पनायां
प्रतिबन्धग्रहणाभावान्नित्यानुमेयत्वादर्थस्य । पूर्व्वदर्शनस्य च जनकत्वदर्शनान्न च क्वचिदर्थं
दर्शनं सर्व्वत्र विवादसम्भवात् । समनन्तरस्यार्थाकारतायां क उपधायकः । न । व्यवहित
स्यापि लाक्षारसादेरुपधानस्य दर्शनादिति प्रतिपादितमसकृत् । अथापि स्यात् ।
यदि नानुभवोऽनुभूत इति निश्चयो यथार्थोऽनुभूत इति लोकस्य । ततो निश्चयस्य
434दर्शनकारणस्य दर्शनादर्थनुभवोयं नानुभवस्येति गम्यतां । यदा त्वनुभवस्यापि स्यात् स्यादेव
तथा निश्चयः ।
अत्रोच्यते ।
तदेव दर्शयति ।
नार्थेप्यस्त्येष सर्व्वदा ।
नह्यर्थेपि निश्चयो भवति क्वचिद् भाति दर्शनात् । अथवा सर्व्वदार्थे नास्त्येवायं
निश्चयोऽनुभवात्मभूतस्यैवाकारस्य निश्चयविषयत्वात् । उपचारात्तथेति चेत् । न(।)
उपचारकल्पनाऽयोगात् ।
तस्मादयमर्थ इति निश्चयोऽनादिवासनाबलावलम्बी नानुभवमात्रजनितः । स्वप्ने च
नास्ति दर्शनमर्थस्य तथापि भवत्यर्थं इति निश्चयः । तस्मादर्थानुभवेपि निश्चयाभावस्तदभावेपि
भाव इति न निश्चयस्यैकान्तिकता । ततः कथन्तत्त्वव्यवस्था ।
अनुभवे हि सर्व्वमनुभवनिबन्धनमस्ति । तथापि न निश्चय इति कथमेतत् ।
कथञ्चिन्न भवति सहकारिवैकल्यादिति चेत् । न तर्हि निश्चयादनुभवव्यवस्था । अनुभू
तेप्यभावादिति यत्किञ्चिदेतत् । अनुभवव्यवस्था तु तदाकारतयेति न बाधितोनुभवो भावस्य ।
नहि कारणान्तराभावनिबन्धनो निश्चयाभावोऽनुभवाभावं व्यवस्थापयितुं क्षमः । कारणान्तर
मेव नास्तीति तथा गम्येत नत्वनुभवाभावः ।
नह्यर्थसद्भावामात्रकमेवार्थदर्शनमवश्यमर्थदर्शनेनार्थमात्रकादधिकेन भवितव्यम् । यदि
तदधिकं प्रतिभासमानाद् बहिस्तदप्यर्थरूपमेव कथमर्थदर्शनं । तस्मादवभासमानेन तेन
भवितव्यं । यच्च तदा भाति दृश्यमाने सितादिके । परिस्फुटं सम्वेदनं । तत्सिताद्यभिव्यक्तेः
परं वा भवेदपर एवेति कल्पने यासौ सिताद्यभिव्यक्तिर्भवतोभिमता ।
नह्यनभिव्यक्तेन कश्चिदभिव्यज्यते तदेव तदभिव्यक्तिरूपं कृतं सम्विदितं सैवाभि
व्यक्तिरन्या तु परोक्षा चक्षुरादिसंस्थानीया भवतु न साभिव्यक्तिर्न च चक्षुरादिव्यतिरिक्तासौ
प्रमाणेन प्रतीयते । चक्षुरादिमात्रत एव समीहितसिद्धेः ।
सैवाभिव्यक्तिरप्रत्यक्षा नापरेति चेत् । यदि नामाप्रत्यक्षाभिव्यक्तिरुत्पन्ना सैवो-
1069435त्पन्नास्तु कथमर्थः प्रकाशितः । नह्यस्योत्पत्तावन्यस्य किञ्चित् । अर्थेऽसाविति चेत् ।
अर्थ इति कः सम्बन्धः । अर्थं पश्यतीति चेत् । ननु दर्शनन्न प्रतीयते कथं पश्यतीति ।
अर्थस्य कर्मभावश्चेत् । केयं कर्मता नाम । यद्यर्थमात्रादधिका सा प्रतीयते । तस्यामप्य
परा प्रतीतिः । ततः कर्मता । सापि प्रतीयते । ततः पुनः कर्मतेति नानवस्थातो
मुक्तिः । तस्मात् ।
नह्यर्थस्य प्रदीपादिव प्रभास्वररूपमात्रोत्पत्तिरपि तु ज्ञानरूपा व्यक्तिः सा च यद्यप्रत्यक्षा
तत्कथमर्थो व्यक्तः । स्वरूपेण व्यक्तश्चेत् । सर्व्वस्य व्यक्तताप्रसङ्गः । स्वविशेषादिति
चेत् व्यर्थमन्यत् ज्ञानं । तथैव व्यक्तता चेत् । केनेदं प्रतीयते । व्यक्त्यन्तरेणेति
चेत् । न (।) यतः ।
येन तदपि व्यक्त्यन्तरन्न प्रतीयत इति स्वरूपमेव पूर्व्वव्यक्तेर्व्यक्तं । तस्याप्यन्येन
व्यक्तिर्न्न प्रतीयत इति व्यक्त्यन्तरानुगमादनवस्था । तस्मात्स्वरूपमेव प्रतीयमानमभिव्यक्ति
युक्तमेव प्रतीयते । अन्यथाभिव्यक्तमेतदिति न स्यात्प्रतीतिः । यतः ।
दृष्टोऽर्थ इति दृष्टिविशेषणता प्रतीयते । न च विशेषणाग्रहणे विशेषणविशिष्टवि
शेष्यग्रहः । ननु गौरिति विशेषणग्रहणादेव किं गोत्वमपरं दृश्यते । न । गोत्वस्यागोव्यावृत्ति
रूपत्वात् । न च प्रतीतिरप्रतीतिव्यावृत्तिरूपा भवतेष्यते । तथा सत्यर्थस्य स्वसम्वेदनत्व
प्रसङ्गः । व्यतिरिक्ता च भवता प्रतीतिरिष्यते । सा चाप्रतिपन्ना कथं प्रतीतेः इति
व्यवहारनिबन्धनं । कथं तर्हि व्यतिरिक्तप्रतीत्यप्रतीतौ प्रतीत इति भवतोपि व्यवहारः ।
नहि भवतापि प्रतीतिरर्थश्च तद्व्यतिरिक्तः प्रतीयते इत्यभ्युपगम्यते । अत्र च ।
नार्थप्रतीतिकाले दर्शनप्रतीतिर्न्न प्रतीतिकालेऽर्थस्येति कथं विशिष्टताप्रतीतिः । ततः
कथमेतदिति युक्तमेतत् ।
दृष्टमिति हि निश्चयोपि संसृष्टनिश्चय एव ततस्तथाभूतानुभवादेवानेन भवितव्यं
भवन्मत्येति न भवतोन्यो न्यायः (।) अस्माकन्तु प्रबलवासनापवनप्रेर्यमाणा मनोन्यत्रार्थपादपप्रति
पच्छायाऽन्यतो निश्चयपाण्डुपत्रप्रपात इति निश्चयमात्रकादेव तत्त्वव्यवस्थितयः । तेनार्थ
प्रत्ययो नास्ति । न च नायमर्थ इति । निश्चयप्रसवः तस्मादसन्मतं भवत इति न्यायः । अथ ।
स्यादेतत् (।) नार्थसरूपात्मवेदनाद् दृष्टोऽर्थ इति व्यवसायोपि तु तथाभूतस्यैव सम्वेद
नान्तरेण वेदनात् । यथा दण्डीति दण्डयुक्तस्य पुरुषस्य तद्वयतिरिक्तेन तथाभूतस्य सम्वेदनेन436
परिग्रहे व्यवसायः । न विशेषणविशेष्यभूतार्थग्रहणं स्वसम्वेदनने क्वचिदुपलब्धमित्यभिप्रायः ।
तदयम्भवतां स्वपक्षस्यैवोपघातः । तथा हि ।
न खलु पारमार्थिको विशेषणविशेष्यभावः । कदाचिद्विशेष्यस्यापि विशेषणत्वेन प्रतीतेः ।
ततो बुद्धिरेव सा तथाभूता प्रतीयते । सा च स्वसम्वेदनरूपैवेति सिद्धं स्वसम्वेदनं । यतः ।
सिद्धं सारूप्येऽस्य स्वरूपस्य वेदनं । अर्थस्तथाभतो नास्त्येव । बुद्धिरपि यदि न स्वसम्विदिता
तदार्थ एव विशेषणविशेष्यभूतः प्रतीयत इति प्राप्तं ।
यद्यात्मरूपं न वेत्ति पररूपमेव तर्हि वेत्ति । तस्य च न विशेषणविशेष्यभाव इति
कथन्तद्विशिष्टताप्रतीतिः । अथ तद्रूपन्दर्शनमुत्पन्नं न तु स्वरूपसम्वेदनं । परेण पुनस्तद्रूपेण
तस्य दर्शने सति दृष्टाख्या (।) नन्वदृष्टिविशेषस्य प्रथमं ग्रहणे पुनरन्येन तद्विशेषणत्वस्य कथं
प्रतीतिः । अथ पश्चात्प्रतीयते तेनायमदोष इति ।
तदसम्यक् (।) यतः (।)
मेयो हि दृष्ट्यविशिष्ट एव स्वप्रतीतिकाले विदितः । तदुत्तरकालन्तु तद्रूपवेदने तद्रूप
तैवास्तु न तु तया तस्य स्वविशिष्टवेदनं ।
अथापि स्याद् (।) यद्यपि प्रथममदर्शनं विशेषणस्य तथापि पश्चाद्दर्शने को विरोधः ।
तदप्यसत् । यतः ।
नहि सदा केवलकेवलयोर्दर्शनमात्राद्विशेषणविशेष्यता शक्या प्रत्येतुं । अपि च ।
नहि सारूप्यमात्रोदये तद्वेदनं । सरूपमेतदिति परेण वेदनमसम्भवि । तथा हि ।
नहि केवलदर्शने सारूप्यप्रतीतिः । अनेन सदृशमिति प्रतीतेः । अतीतानागतयोश्चा
र्थदर्शनयोरसहप्रतीतेश्च नैवं प्रतीतिः । तदध्याहारेपि ज्ञानमेव नार्थप्रतीतिः । पुनस्तत्राप्य
स्वसम्वेदनेऽनवस्थादोष उक्त एव । यस्तु सारूप्यमपि नेच्छति तस्यार्थो न प्रतीयते । तदा
रोपस्यासम्भवात् । पश्चा(द्) दर्शनमर्थविलक्षणेन रूपेण प्रतीयमानं न तद्रूपतया तदित्या-
रोप्यते । तद्रूपतानभ्युपगमात् । स्वरूपेण च प्रतीयमानं पदार्थान्तरमेव ततः कोर्थः किम्वि
ज्ञातं केनेति गता कथेयमति तूष्णीमासितव्यं । दृश्यते चेत् ।
ननु चार्थतया समुपलभ्यन्ते स्तम्भादयः । नहि दृष्टेऽनुपपन्नन्नाम । दत्तमत्रोत्तरं ।
यदि दृष्टं स्वरूपेण दृष्टमिति तस्मात्पररूपं दृश्यमाने सितादिके यदाभाति तद्यदि स्याद् तदा
व्यक्तं सितादिकं न स्यात् ।
स्वरूपमेव यदि तदभिव्यक्तेर्ज्ञानरूपायास्तदा स्वयमेव तत्प्रकाशते परस्य प्रकाशकस्या
भावात् । अथ न स्वरूपेण प्रकाशते तदा तद्रूपाप्रकाशनेऽर्थः स्यादप्रकाशितः । प्रतिभासमा
नरूपाप्रकाशने नार्थः प्रकाशते नाम । अत्र हि परोक्षस्यार्थः । यदेतद् ग्राह्यस्पष्टाकारप्रति
भासनमेतत् बुद्धेः परोक्षतायां प्रतिभासमानस्य परोक्षता ततः प्रतिभासमानस्पष्टरूपाप्रकाशन
मेव । तथा सति । अनुमानज्ञानवदर्थः परोक्ष एव भवेत् । अनुमानेपि स्पष्टप्रतिभास
परोक्षतयैव परोक्षता । तस्याप्यनुमानज्ञानस्य यद्यस्पष्ट आकारो न प्रकाशेत तत्रापि नार्थप्रति
पत्तिर्भवेत् । तस्मादनात्मवेदने सर्व्वार्थादर्शनमेवेति स्थितमेतत् स्वसम्वेदनम्विज्ञानमिति ।
न्यायः पूर्व्वक एवात्र यदि स्वाङ्गाप्रवेदनम् ।
अवेदिका भवेद् बुद्धिरर्थस्य स्यस्य चात्मनः ।।
नार्स्थस्य वेदिका प्रतिभासस्य परोक्षत्वात्, नात्मनोऽनभ्युपगमात् । किञ्च ।
सुखदुःखरागद्वेषादयः स्वसम्विदिता एवोपजायन्ते ते च बोधस्वभावा एव ततो बुद्धेरप्रत्यक्षता
प्रत्यक्षबाधिता कथमभ्युपगमगोचरः । अथ न बुद्धिस्वभावास्तदसत् ।
आश्रयभेदस्तावत् चक्षुरादिजनितं परस्परविभिन्नमेव सुखं रूपादिविषयञ्च । तथा
भ्यासात्समानचक्षुरादिविषयत्वे पटुतरादिता । आलम्बनादिजनितं च विज्ञानमेव न विषया
दिकं । यदि विषयोपि विज्ञानसामग्रीत एवोदयमासादयेद्दत्त एतस्मै जलाञ्जलिः । ततोमीषां
परोक्षताभ्युपगमे ऽध्यक्षबाधनं । यतः ।
यत्त(ज्)ज्ञानं ग्राहकस्याविभाव्यतायां प्रत्यक्षत्वमेव स्वसम्वेदनमुच्यत इत्यसकृ
दुक्तमेतत् । अथान्येन विज्ञानेन वेदनमेषामभ्युपगम्यते । तथा च सति ।
अन्येन हि विज्ञानेन परसन्तानवर्तिनोपि सुखादोय वेद्यन्ते । ततः परसुखादिवेदनेपि
438सुखितादिकं भवेत् । नहि ग्राह्यतयाऽन्येन वेदने सम्वेदने स्वपरसुखयोः कश्चिद्विशेषः ।
आत्मीयसुखवेदने सुखतेति चेत् । न (।) परकीयस्याप्याल्हादात्मकत्वात् । न परकीयो
वह्निरदाहकञ्चन्दनम्वा परकीयमनाल्हादकं । अथ ।
यदि सर्व्वात्मनात्मनि शरीरे चानुप्रवेशः सुखादेः स्वसम्वेदनमात्मशरीरं वा प्राप्तं ।
सम्विदिते साक्षादन्यथा वानुप्रवेशः । सर्व्वात्मना वेदकस्य स्वसम्वेदनमेव प्राप्तं । सम्वेदन
स्यैवं लक्षणत्वात् । परसुखमपि यद्यनुप्रविशेत् भवेदेव स्वसंवेदनं अन्यथा तद्वेदनायोगात् ।
अथाननुप्रवेशेपि सुखवेदनमविभागान्न भवति । विभागस्य सम्भवात् को विभागः । तज्जा
तत्प्रतिभासा सुखबुद्धिर्न्न यथाकथञ्चित् । परसुखवेदने तु न ततः परसुखादुत्पन्ना साक्षा
ल्लिङ्गत एवोत्पन्ना न विषयादसावनुमानेन परसुखसम्वेदनात् । तद्रूपप्रतिभासप्रत्यक्षतश्च
आत्मसम्वेदनमिति विभागः । अत्राह ।
अन्योपि परसुखमालम्बमानस्तत्स्वरूपमेव गृह्णाति ततस्तत्प्रतिभासिताऽभ्युपगमादेव
प्रसिद्धाः । ततो लिङ्गदर्शनं चक्षुरादिसमानमिति तज्जत्वमेवापतितमर्थत इति द्वयमिति
न विशेषः ।
अभ्युपगमः प्रमाणबलावलम्बी न भवति । तेनायमेव परमार्थः । लिङ्गादुत्पत्ति
मासादयन्त्युपलभ्यते बुद्धिर्न्नार्थान्नापि तत्प्रतिभासिनी । एवन्तर्हि विषयलक्षणस्याभावान्न
परसुखादिकं विषय इति न विषयाकारोसौ परसुखसम्वेदनावभासी सामान्यमवभासते ।
तत्रानुमानस्य सामान्यविषयत्वादिति चेत् (।) न । सामान्यस्य व्यक्त्यग्रहे ग्रहणाभावादिति
प्रतिपादितम् । सामान्यस्य व्यक्त्यक्षराकारशून्यत्वादिति च । बुद्धिरपि तर्हि तदाकार
शून्यैव । ततो बुद्ध्याकारोसौ न स्यादिति चेत् ।
तदसत् ।
अत एवाह ।
बुद्धिस्वभावतायामाकारस्य प्रत्यक्षतात्मवेदनञ्च प्रसिद्धं । यदि नामानुमानं परसु
खस्वभावे । तदन्यथाकारे तु स्वसम्वेदनमेव । तदपि परसुखस्यैव रूपमिति चेत् । न (।)
परेणावेदनात् । परप्रत्ययेन बाध्यमानं कथन्तस्य रूपं । नहि तस्य व्यवधानादिसम्भवः ।
व्यवहितञ्च कथमात्मीयं सुखम् । तेन तत्सम्बन्धितया वेदनादिति चेत् । न (।) परस्य
सम्बन्धिताप्रतीत्यभावात् ।
न परोपि विचारयँस्तव सम्वेदनमेवम्भूतमस्तीति निश्चिनोति । ममैव प्रतीतिरेषा
नास्य प्रतीतिरियमिति प्रतीतेः । अथ परोपि तदेव रूपमवगच्छति । तथापि न सुखभोगी,
प्रत्यक्षेण हि सुखोपभोगात् नानुमानेन । अत्रोच्यते ।
प्रत्यक्षं हि स्वरूपसाक्षात्करणमेवेति प्रतिपादितं । ततः समानाकारयोरेष एव भेदो
न युक्तः (।) कारणभेदाद्भेद इति चेत् । स्वरूपगत एव तर्हि भेदो यदि नाम कारणमन्तरे
णोपपत्तिरिति कारणभेदोऽभ्युपगम्यते । भेदस्तु स्वरूपगत एव युक्तः । साक्षात्करणन्तु स्वरूपं
द्वयोरपीति न कारणभेदो युक्तः । दृश्यते चेत् । स्वरूपभेदोप्यभ्युपगम्यतां । ततः समाना
कारता न युक्ता । अथ कारणभेदाद् बोधरूपताविशेषः । न स्पष्टाकारस्य बोधरूपताविशेषेपि
प्रत्यक्षत्वात् ।
अथापि स्याददृष्टवशादाकाराभेदेपि प्रत्यक्षेतरत्वनियमः । तथाक्षयोगादेकार्थसम
वायतश्च । तथाहि । आत्मीयं सुखमात्मीयात्मसमवेतं परकीयन्तु न तथा । तेन परसुख
वेदनेन सुखित्वं । यद्याकारभेदमन्तरेण साक्षात्करणसम्भवादपि प्रत्यक्षाप्रत्यक्षतालक्षणो
नियमः । तदा प्रत्यक्षतायामपि प्रत्यक्षताऽप्रत्यक्षतानियम इति प्राप्तम् । तथा च
सति किमर्थभेदादिपरिकल्पनया । अदृष्टयोगादिकमेव वस्तु तथान्यथा च भविष्यति
सुखमेव दुःखादिकमिति । ततो न भेदो युक्तः । एतदप्यदृष्टभेदादेवेति चेत् । भवतु
स्वसम्वेदनमाकारभेदोपि तथास्तु । तत एव सर्व्वथाऽन्यो न गृह्णीयात् । समानार्थतायामपि
सम्विद्भेदोऽपोदित एव । चक्षुरादिकमपि स्पष्टभेदादेव परिकल्प्यते । तथाहि ।
स्पष्टातामेव लोकः प्रथमं प्रतिपत्त्या विषयीकुर्व्वाणः प्रत्यक्षतामवगच्छति । यतः ।
सत्यपि चक्षुरादिकारणत्वे यदि वैशद्यं प्रतिभासिताया नावगच्छति । किमपि मयाऽस्पष्टमेव
दृष्टन्न न प्रत्यक्षेयं प्रतिपत्तिरिति लोकस्येयमेकवाक्यता । अर्थेद्रियजत्वे प्रत्यक्षता स्पष्टताया
मिति वदेत् । तथाहि ।
स्पष्टत्वाद् ग्रहणं सम्यक् इन्द्रियात्सन्निधानवित् ।
यदेव खलु सन्निहितत्वेन स्पष्टतया च प्रतीतेः विषयः स एव प्रत्यक्षसम्मतो लोकस्य,
न चेन्द्रियात् विना सन्निधानप्रतीतिः । तदङ्गविकलत्वादप्रत्यक्षता भवेत् ।
तदेतदसत् । यतः ।
तथाहि । कश्चिद् दूरदर्शी पुरुषः । कश्चिदन्यथा । ततः किन्तयोः सम्वेदनस्य
प्रत्यक्षेतरते । अथापि स्यात्तदेव तस्य विस्पष्टमदूरमिति गीयते ।
दृष्टिशक्तिव्यपेक्षैव दूरादूरव्यवस्थितिः ।
यो हि यत् स्पष्टतया द्रष्टुमलम् । तदेव तस्यादूरमिति चेत् । यद्येवं ।
तस्मात्समानस्पष्टावभासयोरिन्द्रियमनोविज्ञानयोर्न्न प्रत्यक्षेतरताव्यवस्थितिरिति न्यायो
पेतमेतत् । सर्व्वथा परसुखवेदनेपि साक्षात्करणेन सुखितो भवेत् । असाक्षात्करणे च
साकारतया स्वसम्वेदनमेव ।
(ख) योगिनामनातुरता
येषां लो का य त मी मां स का नां योगिनः सन्ति कणादादीनां ते नियमेन प्रत्यक्षेण
परसुखादिकं विदन्तीति (।) तेपि योगिनो रागादियोगिनो भवेयुः । शेषस्तु प्रपञ्चः कृत
एव न पुनः क्रियते । अथ ।
अथ यस्येन्द्रियविषयसन्निपाते सुखादिकमुदेति स एव सुखीत्यादिव्यपदेशमर्हति । न
च योगिनस्त्र्यादिविषयसन्निकर्षात्सुखाद्युदयः ततस्तस्य न तथात्वं । तस्य हि तत्सुखादिकं
यदिन्द्रियविषयजनितं ।
तदप्यसत् । यतः ।
यतः ।
तथाहि । परस्परस्पर्शनेन्द्रियसङ्गमादुपजातं सुखं स्त्रीपुंसयोः किन्न साधारणं
रोमाञ्चादिकमुपजनयति । तथा चित्साधारणप्रतीततैव भवेत् । तस्मात् सम्वेदने सति सुखिता
नान्यथा । न चोदयमात्रं चक्षुरादिसंयोगो वा नास्तीति समानसुखता द्वयोरपि भवेदस्वसम्वेदने ।
तस्य तत्र भावना नास्तीति चेत् । न(।) भावनायाः सुखोदयमात्रे व्यापारस्तच्चोत्पन्नं सुखमिति
तुल्यानुभवौ स्यातां । तव कथमयम्विभाग इति चेत् । आह ।
यस्य स्वसम्वेदनं सुखं स सुखी । यस्य तु सम्वेदनान्तरेण योगिनः परसुखाद्यालम्बन
मात्रकं तस्य योगिनो न रागादियोगिता । तेन ते योगिनः तद्दुःखादिना नातुराः । अग्न्या
दावनुभवे कथमातुरादितेति चेत् । योगिनान्तु तदभावात् । अन्येषां कथम्भवतीति चेत् ।
न । बाह्यादीनां तथैव सम्वेद्यत्वात् । सुखादिकन्तु यत्स्व सम्वेदनेन करोति न तदन्येनेति न
तुल्यानुभवाः सर्व्वे भवन्ति तद्विदः ।
तदाकाराधानसमर्थं सम्वेदनस्यालम्बनम् । आत्मरूपन्तु स्वप्रकाशं वेदन अतः सुखस्य
स्वसम्वेदनमातुरीकरोति न तदाकारोपधानमात्रात् । को विशेषस्तयोरिति चेत् । न कश्चि
त्परमार्थतः । न हि सुखस्य तदाकारस्य च कश्चिद्विशेषः । केवलमात्मानमवष्टब्धं
तेन मन्यमानो दुःख्यहमिति व्यवस्यति(।) योगी तु न तथेति न तथास्य सुखिता । तस्मा
द्विज्ञानं स्वसम्वेदनमेवान्यथा सुखादिविभागासम्भवः ।
ननु च प्रज्ञादयोपि भावनाविशेषादेव । न च तेषां विलक्षणत्वं प्रतिमासमानादर्थात् ।
न चासावर्थः प्रज्ञादिस्वभावः । तत्र भावनाया अप्रवृत्तेः । नहि तत्रार्थस्य भावनाभिसंस्का
रिकता । तस्मादर्थव्यतिरिक्ता परा प्रज्ञा न सा साकारा ।
ननु प्रज्ञादयो न विज्ञानस्वभावास्ततस्तदनाकारतायामपि न बिज्ञानमनाकारं । तदसत् ।
यदि तदर्थविशेषग्राहिण्यपि प्रज्ञा निराकारा विज्ञान (म)प्यर्थग्राहि किन्न निराकारं ।
निराकारमस्तु तदपीति चेत् । न सदेतत् यतः ।
तच्च साकारमेवेति प्रतिपादितमेव प्रतिपादयिष्यते च । यदि च विज्ञानं स्वसंवेदनं
नेष्यते । तदा न कदाचिदस्य प्रतिपत्तिरिति व्यवहाराभाव एव । तदाह ।
प्रत्यक्षताभावे परोक्षविषयमनुमानं प्रवर्तते । तच्च लिङ्गं तच्च लिङ्गमक्षादिकमेव
मनस्कारपर्यन्तं । अन्यस्य सम्बन्धिताभावात् । अर्थापत्तिरपि सम्बन्धिदर्शनादेवान्यथा
नोपपद्यत इति तस्यावृत्तेः । तत्र तावन्नेद्रियं व्यभिचारतः । अव्यभिचारि हि लिङ्गन्न
चेन्द्रियमन्यथा नो घटते कारणत्वेनाभ्युपगमात् । समर्थता चादृष्टकार्यस्य न निश्चीयते ।
तथार्थः । तस्यापीन्द्रियवदेव व्यभिचारः ।
धियोसिद्धत्वादलिङ्गता । साध्या हि सा । मनस्कारस्तु सैव पूर्व्वा धीः । सा
चोदयकाले न सिद्धाऽन्यदा कथं सिध्येत् । यतः ।
प्रसिद्धेन हि लिङ्गेन भवितव्यमन्यथा लिङ्गत्वे सर्व्वमेव लिङ्गमिति सर्व्व सर्व्वस्य
सिध्येत् । अथापि स्यादर्थस्तावद् व्यक्तः प्रत्यक्षप्रसिद्ध एव । अन्यथा यो नामास्तीति
व्यवहारोपि न स्यादित्यन्धमूकं जगत्स्यात् । न च व्यक्तोऽर्थोऽर्थसत्तामात्रादन्यथा सर्व्वव्यक्ति
प्रसङ्गेन सर्व्व(स्य)सर्व्वदर्शित्वप्रसङ्गः । तस्माद्यतो व्यक्तत्वमर्थस्य सा बुद्धिः । अत एवाह ।
न ह्यज्ञातेऽर्थे कश्चिद् बुद्धिमुपलभते । ज्ञाते त्वनुमानादवगच्छतीति ।
अपि चाध्यक्षताभावे धियः स्याल्लिङ्गतो गतिः ।
अत्रोत्तरं ।
यदि व्यक्तिर्लिङ्गमथापि व्यक्तोर्थः सर्व्वथा व्यक्त्यनुभवे न प्रयोजनं । व्यक्त्यनु
भवपुरस्सरत्वाद्व्यक्तानुभवस्य एकदा स्वतन्त्रा व्यक्तिरनुमीयतेऽन्यदा विशेषणभूता । सर्व्वथा
नुभवेन भवितव्यं प्रत्यक्षतः । अनुमानेनानुभवेऽनवस्था । सा चार्थस्य व्यक्तिः प्रत्यक्षा
बुद्धिरपि प्रत्यक्षैव । तस्मात्परोक्षतया व्यक्तेरर्थः परोक्ष एव भवेत् । ततो न लिङ्गम् ।
अथ कर्मतया प्रतिभाममानोऽर्थो ग्राह्यतापरनामिकया लिङ्गं नहि कर्मता क्रियामन्तरेण
भवति । बुद्धिश्च क्रिया । तदाह
सा बहिर्द्देशसम्बद्धा प्रत्यक्षमुपलक्ष्यते ।
अत्रोच्यते ।
क्रियाकृते विशेषे हि कर्मता नान्यथा क्वचित् ।
यदि कर्मता नाम क्रियाकृतो विशेषः क्रियामात्रमेवानुमीयताम् । न बुद्धिक्रियानुमानं ।
न चान्या काचित्क्रिया पदार्थरूपात् । तथा हि ।
कर्मस्था वा क्रियोच्येत कर्तृस्था वा परा न हि ।
ततो न दर्शनं दृश्यमानादन्यतो वा परं । अथ ग्राह्यतयाऽर्थ एव वेद्यते बुद्धिस्तु
ग्राहकतयैव । एवं हि प्रतीतिर्मया बुद्ध्या गृहीतोऽर्थ इति ।
तदप्यसत् ।
दर्शनं परमार्थाच्चेत् गृह्येत द्वयरूपता ।
क्रियाकृतः तदा ।
नहि बुद्ध्या गृह्यमाणोऽर्थ उत्पत्तिमान् तदाङ्गीक्रियते । सिद्धोपस्थायी ही ग्राहक
प्रत्ययः । यथास्तीति ग्रहणमात्रमेव बुद्ध्या क्रियते । न च ग्रृह्यमाण एव विशिष्टो भवति ।
अन्यरूपग्रहणे भ्रान्तता भवेत् । तद्रूपग्रहणे च पूर्व्वापररूपताग्रहणप्रसङ्गः ।
यदि यथाविधोर्थः तथाभूत एव प्रदीपेनाभिव्यज्यते तेनापि सकलकालकलाव्यापकस्व
भावव्यञ्जकेन भाव्यमन्यथा भ्रान्तिमात्रकं । अथ ग्रहणकालेऽन्यथाऽर्थ उत्पद्यते । तदा ।
यद्यसाववबोधरूपव्यावृत्त एवोत्पत्तिमान् स्वसम्वेदनमेव ज्ञानसमानकालतया क्षणिक
मिति किमपरार्थपरिकल्पनया । ननु ग्राहकत्वेन बुद्धिः प्रतीयते ग्राह्यतयाऽर्थ इति प्रतिपा
दितं । सत्त्यं प्रतिपादितं यद्यर्थो विचलितरूपो भवेत् । यदा तु तथाभूत एवोदयवान् तदा
स एव तथा भूत उत्पत्तिमानिति ब्रुवन्नेव कथमर्थस्य ग्राह्यतां परां ब्रूयात् । मया बुद्ध्या
गृहीत इति च व्यपदेशो न किञ्चित्प्रतीत्योत्पादमात्रादपरं प्रतिपादयति । तदाह । सर्व्व एव
वस्तुसम्बन्धा जनस्यैवोपयोगविशेषणवशात् कार्यकारणभावलेशविशेषतोन्यतया व्यवस्थाप्यन्तेऽव
स्थाविशेषख्यापनार्थ । न तु व्यपदेशादेव वस्तुसिद्धिरन्यथापि तस्योपपत्तेः । तथा हि ।
अपि चार्थस्य विशेष एव यदि कश्चिद् ग्राह्यता तदा ।
इत्युक्तमेवैतत् । अथ दृष्टिरपरैव तदा दृष्ट इति न परिच्छेदः । तदाह ।
444यदि दृष्टादपरा दृष्टिरदृष्टा कथं दृष्टरूपपरिच्छेदः । अन्यथान्यदृष्टेपि दृष्टव्यवहा
रोऽन्यैनायं दृष्ट इति यथा मया दृष्ट इत्यर्थदर्शनमात्रादर्थविशेषस्य दृष्टिस्तस्य दर्शनात् ।
तथा स विशेषोऽन्यदृष्टावपि नियतभावीति भवेदन्यदृष्टमेतदिति । अथैष एवासौ न भवति
विशेषस्तेन परदृष्टविशेषादर्शनादात्मदृष्टदर्शनाच्च स्वदृष्ट इत्येव प्रतीतिः ।
तदप्यसत् । यतः ।
यद्यपि विशेषा बहवस्तथापि तेषां स्वसम्वेदनत्वाभावात्तैरपि दृष्टैरेव भवितव्यम् । ततः
स्वपरधीगतिः स्यात् । तस्मात् स्वसंवेदनेन भवितव्यं । दृष्टत्वेन । अथ सोप्यन्येन दृश्यते
सम्वेदनेन तथा सति तत्रापि दृष्टतेत्यनवस्था । अथैकमेव दृष्टत्वन्तथा सति स विशेषोन्य
दृष्टावापि स एव स्वधीगतिरेव स्यात् । यदा भावात्परस्य दृष्टत्वं परेण प्रतीयते
तदात्मदृष्टत्वाभावेपि परदृष्टत्वदर्शनात् स्वधीगतिर्भवेत् । नहि तस्य दृष्टत्वस्य स्वपरोपेक्षया
विशेषः । अथ स्वयमपि दृष्टत्वमस्त्येव ततः स्वधीगतिः । न स्वदृष्टपरदृष्टयोर्व्विशेषाभावात् ।
स्वदृष्टत्वं स्वदृष्टिसम्बन्धप्रतीतौ ज्ञायते । तदप्रतीतौ तु स्वदृष्टमित्येव कुतः । तस्मात्स्वयं
दृष्टेपि परेण दृष्टताप्रतीतौ स्वधीगतिर्भवेत् । अथ य एव दृष्टत्वं प्रतिपद्यते तस्य स्वधीगतिस
म्भवेपि न दोषः । नह्यत्र काचित् क्षतिः । मा भूत् क्षतिस्तथापि वस्तुतत्वमेवं न भवतीति
क्षतिरेव । तथा हि ।
प्रतीयते (ह्य)दृष्टत्वं ममान्यस्येति वा कुतः ।
एतदेव स्व स म्वे द नं यदन्यागोचरत्वे सति प्रकाशनन्नाम ।
बुद्ध्याश्रितेन हि केनचित् स्वबुद्धेरनुमानं । साधारणस्य हि विषयादिधर्मस्य
साधारणानुमेयप्रतिपादनमेव । तस्मादात्मधर्मेणात्मबुद्धेरनुमापकेन भवितव्यम् । स्वधर्मश्च
नापरो बुद्धेरस्ति । बुद्धिरेव यदि परं स्वधर्मः । सा चाप्रत्यक्षा कथमनुमापिका भवेत् ।
अथ सुखादयो बुद्धिसमानसामग्रीजन्मानः तैर्बुद्ध्यनुमानमात्मधर्मत्वात्तेषां । अत्राह ।
यदि विषयोन्द्रियादिसामग्रीजनितं सुखादि सम्वेदनस्वभावमेव सकलमिति प्रतिपादितं ।
अथ दृष्टे विषये सुखमुत्पत्तिमदतः स्वबुद्ध्यनुमानं तदपि सुखं परस्य न भवतीति कुतः ।
परस्य सुखं परेण कथं प्रत्येतुं शक्यं ।
यदि सुखादयः स्वसम्वेदनत्वेनावस्थिताः परसम्बन्धिनः तदा न प्रतीयन्त इति युक्तम् ।
अन्यथा तु परसम्बन्धितां को निवारयेत् । मम रोमाञ्चजनकास्ततो ममैवेति चेत् ।
एतदपि कुतः । न हि परयोषिन्न जनयति सुखं । सम्वेद्यमानो हि सुखाद्यात्मा जनयति
रोमाञ्चादिकं स्वसम्बन्ध्यन्यथा वेति क्वेदमुपयोगि । स्वेन सुखेन रोमाञ्चादिजनने प्रसिद्धे
स्वसम्बन्धिताप्रतीतिः । स्वसम्बन्धिताप्रतीतौ तेन जननमितीतरेतराश्रयदोषः । अपि च ।
बुद्धयन्वयव्यतिरेकानुविधायी तत्कारणानुविधायी वा बुद्धेरनुमापको भवेत् । तत्र ।
बुद्धिसमानसामग्रीजन्मान इन्द्रियादयो बुद्धिर्व्वोत्तरा ।
द्वयमत्यक्षमितीन्द्रियमुपलम्भनञ्च पञ्चस्वर्थेष्वेकोपि रूपादिषु तथाभूतो नेक्ष्यते
यो रूपदर्शनादुपजातः । नहि रूपादयो रूपदर्शनतो जायन्ते कारणान्तरादुपजातत्वात् ।
रूपदर्शनजातत्वे तु तत्वमेव तेषान्न भवेत् । तथा हि ।
यथा रूपदर्शनं प्रतिप्राणि भिद्यते तथा रूपादयोपि । तयोर्ददि (।)
प्रतिस्वमुपलम्भे तु ज्ञानतैव स्ववेदने ।
यदि सर्व्व एव प्रतिप्राणि विभिन्नस्वभावा रूपादयः सर्व्वै रुपलभ्येरन्ननेकरूपाद्युपलम्भो
युगपद् भवेत् । न चास्ति तथा । तदयन्तावदपक्ष एव । अथ स्वदर्शनजनितमेव रूपादि
कमुपलभ्यते तथा सति परेणासम्वेदनादर्थतैव हीयेत स्वसम्वेदनाभ्युपगमे । अथ परेणोपलभ्यते
तथा सति तज्जनितेन तस्यापरेण विशेषेण भवितव्यम् । सोपि परेणोपलभ्यते तस्याप्यपरेणे
त्यनवस्था । तस्मात्स्ववेदनेनास्वसम्वेदनेन च यद्येवमप्रतीतं तल्लिङ्गमित्यतिसाहसम् । न
खल्वप्रतीतस्य लिङ्गता । ततश्च लिङ्गलक्षणाभावादनुमानेन प्रतीयते बुद्धिरित्यसदेतत् ।
भवतु नामार्थस्यान्यस्य वा प्रतीतिस्तथा सति ।
दृष्टस्यैवाग्नेः स्वप्रसवेन धूमादिनानुमानन्नान्यथा । न खलु दृष्टस्य प्राक् पावकस्य
धूमोनुमापको दृष्टो दृष्टः ।
न ह्यनुमानं दृष्टान्तं प्रत्याचष्टे । तथा सत्यनुमानमेव न स्यात् प्रत्यक्षवत् । प्रत्यक्षस्य
लक्षणान्तरमस्तीत्यनुमानत्वेऽस्यापि समानं । तस्मात्तदपि दृष्टान्तसाधकमनुमानं दृष्टान्ता
न्तरात्तदपि तदन्तरादित्यनवस्था नाम प्रतिपत्तिः । अथार्थापत्त्या तत्साधनं न कस्यचिदेवं
प्रतीतिः । नह्यर्थ एव न घटते यदि प्रतीतिर्न्न स्यादिति कस्यचित्प्रतीतिः । प्रतीतोर्थो
नोपद्येत यदि प्रीतितिर्न्न स्यादिति चेत् । केयं प्रतीतता नाम । प्रतीत्या विषयीकृतत्व
ञ्चेत् । ननु प्रतीतेरप्रतीतौ तदेव प्रतीत्या विषयीकृतत्वं चिन्त्यम् । पुरोवर्त्तिता चेत् ।
न पुरोवर्त्तितापि कथमप्रतीता प्रतीतिं साधयेत् । प्रतीता चेत् तत्राप्यपरा पुरोवर्तितेति
तत्रानवस्थोक्तैव । तस्मात्पुरोवर्त्तितान्यो वा चतुःप्रकारप्रतीतिसिद्धौ न लिङ्गम् ।
बुद्धेरर्थसिद्धिरबुद्धिकार्थसिद्धौ सर्व्वः सर्व्वदर्शी भवेत् । यदि बुद्धिरात्मानं वस्तुनि
सव्यापारं पश्यति तदार्थः प्रतीत इति भवेदन्यथा न किञ्चित्प्रतिपन्नमिति स्यात् । स्वयमेव
वा सर्व्वं प्रतीयते । तस्मान्नार्थाद् बुद्धिप्रसिद्धिः । पूर्व्वोक्तदोषप्रसङ्गात् ।
यदि प्रत्यक्षेणात्मनि बुद्धितत्सम्बन्धिनोः कथञ्चित्प्रतीतिस्तदा तत्सम्बद्धलिङ्गद
र्शनात्परत्रापि बुद्धेरनुमानम्भवेत् अन्यथा न युक्तं । परेण दृष्टोर्थ इत्यनुमानञ्चेत् ।
स्वदृष्टस्य कुतः प्रतीतिः । अनुमानत एवेति चेत्() तत्राप्यपरो दृष्टान्त इत्यनवस्था ।
प्रत्यक्षेणैव प्रतीयत इति चेत् । ननु प्रत्यक्षमर्थं नीलादिकं प्रत्येति कथं दृष्टत्वं । स्वसम्ब
न्धितामपि प्रत्येतीति चेत् । स्वसम्बान्धिता तर्हि दृष्टत्वं तच्चेत्प्रतीयते आत्मनि तेन
स्वसम्वेदनप्रतिपन्नः स्यात् । तस्य परेण प्रतिपत्तावनवस्था । तत्रापि दृष्टता तथैव प्रतीति
विषय इति । ततोर्थो दृष्टः । प्रतीतिदृष्टा प्रतीतिप्रतीतिरित्यादि यदा च प्रतीतिं प्रत्येति
तदा न दृष्टतां प्रतीतिरेव दृश्या तदा भवेत् । तस्माद्विषयमात्रमेव प्रतीयते न दृष्टता
नामेति नार्थापत्तेरुत्थानं । अपि च ।
नहि तस्य प्रत्यक्षता येन तत्रार्थस्य लिङ्गता (।) नहि स्मरणमेव प्रत्यक्षं । ततः (।)
कथमनुमानमित्युपस्कारः । अथ तत्राप्यर्थ एव जात्यादिकः प्रतिभाति ततोनुमानं (।)
दत्तमत्रोत्तरम् । न च प्रमाणन्तदिति कथमर्थः प्रतिभासेत । प्रतिभासमानो दृश्यते सत्त्योऽ
सत्त्यो वेति यदि परं विवाद इति चेत् । केयमसत्त्यता नाम । या विसम्वादिता । न (।)
तद्रूपे विसम्वादाभावात् । तेन रूपेणावश्यमेव सत्त्येन भाव्यं । असत्त्यव्यवहारादसत्त्यमिति
चेत् । कोयं व्यवहारः । प्रमाणं चेत् । प्रमाणेन प्रतिपन्नं कथमसत्त्यं । असत्त्यतयैव
प्रतिपन्नञ्चत् । न असत्त्यतायान्तद्रूपव्यतिरेकेणाप्रतीतेः । स्वरूपमात्रकमेव प्रतीयते न
परार्थक्रियेत्यपि न सङ्गतं । तथा सति स्वसम्वेदनप्रसङ्गात् । परेण वेद्यते चेत् । न(।)
स्मरणस्य दृष्टतायामभिनिवेशात् पूर्व्वरूपता च नास्येति न प्रतीतिरस्य । अथैतदपि
विषयीकरोति । न तर्हि स्मरणं । स्वसम्वेदनन्तु प्रत्यक्षमत्रेति युक्तं । तथा हि प्रतीतिर्म
मेयमेवमिति व्यवहारः । प्रमेयरहिता प्रतीतिरेवासत्त्यता । नालौकिकादित्वं तथा व्यवहा
राभावात् । अपि च बुद्ध्यन्तरेणार्थापत्त्यान्येन वा ।
बुद्धयो हि परस्परं प्रकाशिकाः कथं । यतः ।
न ह्यप्रकाशात्मनोः परस्परेणान्यथा वा व्यङ्ग्यव्यञ्जकताभावो युक्तः । प्रकाशेन हि
प्रदीपप्रभात्मना पटादयोऽप्रकाशाः प्रकाश्यन्ते नान्यथा ।
प्रकाशे हि स्वयन्तदर्थस्य संक्रमात्प्रकाशनं तद्यथा प्रदीपप्रभादौ संक्रान्तस्य घटादेः
प्रकाशनम् ।
यथा तर्हि घटस्यान्यद्रूपमन्यत्प्रभायास्तथान्यद्विज्ञानस्य रूपमन्यद्रूपादीनां ।
तदेतदसत् ।
यद्यपि नामान्यभाविज्ञानविषययोस्तथापि प्रदीपवदेव स्वप्रकाशेन विज्ञानात्मना
भवितव्यम् । अथ तद्वदेव विज्ञानान्तरग्राह्यता ।
तदसत् ।
अथास्य नास्ति बाह्यत्वं स्वसम्वेदनता न किम् ।
अत एवाह ।
यदि प्रकाशायां स्वयं बुद्धौ बुद्धेः संक्रमात् प्रकाश्या बुद्धिर्बुद्ध्या स्ववेदिका तर्हि
बुद्धिरन्यथा । बुद्धेरन्यप्रकाशतायां तुल्यधर्मत्वात्तत्सरूपतया विषयोपि प्रकाशको बुद्धेः स्यात् ।
एवमेव प्रकाश्यप्रकाशकभावो रूपबुद्ध्योः यदुतैकं स्वप्रकाशमन्यस्य तद्रूपतयोत्पत्तिः ।
448(ग) अर्थप्रकाशनं विज्ञानरूपेण
ननु भवतु स्वप्रकाशा बुद्धिरेकान्या तु प्रकाश्या सादृश्यसम्भवात् । यथा पितृरूपं
गृह्णातीति । तदाह ।
अप्रकाशस्य हि प्रकाशनमन्येन न प्रकाशस्यैव । साधर्म्यमात्रात् । अप्रकाशस्यापि
न परमार्थतः प्रकाशः । कथमर्थः प्रकाशते । अर्थस्तद्रूपेण प्रकाश (क) रूपेण प्रकाशते
नत्वन्येन प्रकाश्यते । बुद्ध्योश्च स्वप्रकाशकत्वं द्वयोरपि समानमतो न प्रकाश्यप्रकाशकभावः ।
नहि प्रदीपयोः सारूप्योत्पत्तिसम्भवेपि परस्परं प्रकाश्यप्रकाशकभावः ।
दीपघटयोस्तर्हि कथम् । प्रदीपसामग्रीतो घटस्तद्रूप उत्पद्यतेऽतः सोपि स्वप्रकाश एव
प्रकाश्यते नान्यथा । तथान्वयव्यतिरेकपरिकल्पितापोद्धारतस्तथा व्यवहारो न परमार्थत
इत्यलं प्रसङग्ेन ।
यदि विषयेन्द्रियमात्रत एव दृष्ट इति निश्चयो भवेत् । सकलमेव दृष्टिमिति
निश्चीयेत । दृष्टमेव दृष्टमिति निश्चीयेत (।) दृष्टमेव दृष्टं निश्चीयत इति चेत् । किमिदं
दृष्टन्नाम । यत्र दर्शनमुत्पन्नं । किमिदं दर्शनमिति । तदेव पर्यनुयुक्तं यत्राभिमुखं
चक्षुरादिकं । चक्षुरभिमुखमिति कथं प्रतीयते । तत्रापि दृष्टत्वेन व्यवहारः कथमित्य
नवस्था । अथ दर्शनोत्पत्तिमात्रतो निश्चयः । नानुभूतत्वेन निश्चयात् । न चानुभवमात्रा
दननुभूत इति निश्चयः । नहि शुक्लताननुभवे शुक्ल इति निश्चयः । तस्माद्यदनुभवानुसारी
निश्चयस्थाभूतेनैवानुभवेन भवितव्यमिति निश्चयो युक्तः ।
(४) स्वसंवित्तिसिद्धिः
1087(क) स्मृतेः स्वसंवित्तिः
न केवलं विषयज्ञानत(ज्)ज्ञानविशेषात् स्वसम्वेदनं । स्मृतेरपि तत्सिध्यति ।
ननु स्मृतेरनुभवमात्रं सिध्यति न स्वसम्वेदनम् । अन्येनापि सम्वेदने स्मृतिर्युक्तैव ।
तदनुत्तरं । अन्येन वेदने ज्ञानस्य दीर्घादिग्रहणन्न स्यात् । बहुमात्रनवस्थानात् ।
449यथा ह्लस्वद्वयनिरन्तरप्रयोगे तदनवस्थाने नानवस्थितमवस्थितेन सहैकत्वेन प्रतीयत इति प्राक्
प्रतिपादितम् । दीर्घप्लुतमात्रादेर्ग्रहणन्न स्यादेव । एकैकमात्राग्रहणे न दीर्घादिग्रहणं । नापि
समुदायः प्रतीयते । पूर्व्वापरसङ्कलनेन प्रतीतिरिति चेत् । न (।)तस्यापि प्रतीतविषयत्वात् ।
ननु प्रतीत एव दीर्घादिलक्षणोर्थः न प्रतीतः । किन्तु दीर्घादिलक्षणोर्थो न प्रतीतः ।
ततः ह्लस्वद्वयमिव मात्राद्वये तदिति प्रतीयते । नापरो दीर्घः ।
ननु यस्यापि स्वसम्विदिता बुद्धिस्तस्यापि कथन्दीर्घादिग्रहणं । तदाकारैकबुद्धिसम्वेदने
दीर्घवेदनव्यवस्था । अस्वसम्वेदनवादिनोपि तर्हि तदाकारैकबुद्धिवेदनमस्त्येव । केवलमन्यया
बुद्ध्या । न चानयोरवस्थयोर्व्विशेषस्थाहि ।
तदसत् । यत एवमपि स्यात् ।
अन्येन व्यज्यते व्यङ्ग्यं व्यङ्ग्यत्वाद् घटवस्तुवत् ।
उक्तञ्चात्र किञ््चित् । यद्यन्यया बुद्ध्या पूर्व्विका बुद्धिर्वेद्येत । तदान्यतदाकार
बुद्ध्यवेदनाद्विषयस्य च तदाभावादवेदनमेवेति उत्सन्नोनुभवोर्थिन इति प्रतिपादितं । अथापि
स्यादनवस्थानमेव नास्ति मात्राणां । ततो न दीर्घाद्यग्रहणम् ।
(ख) स्फोटो-निरासः
1088तदप्यसत् । यत (:)।
न ह्यवस्थितमक्रमेण प्रतीयमानं दीर्घम्भवति कालक्रमेण प्रतीयमाने दीर्घमिति
व्यवस्थानात् । क्रमोपि मात्राणामस्त्येव नान्त्यावस्थायां दीर्घ इत्यादिप्रतिपत्तिः । तदा च
क्रमः प्रतीयमानो नान्यथैवासौ पूर्व्विकाया बुद्धेः । अथैकैवाऽसौ पूर्व्वापरभागग्राहिणी ।
तदप्यसत् । तथा हि ।
पूर्व्वापरो हि वर्ण्णभागः परस्परमनवस्थायित्वेनासङ्गतः । कथमेकां बुद्धिमुपकुर्व्वीत ।
विषयग्रहणं हि बुद्धिर्व्विषयभेदे च बुद्धिभेदोपीति नैका बुद्धिरिति कथं क्रमप्रतीतिः । तथा
चाह । नहि ।
(कश्चिद्) अज्ञातेर्थे बुद्धिमुपलभते । ज्ञाते त्वनुमानादवगच्छति । यथा चासावर्थ
ज्ञानानुसारेण कल्प्यते तथा तद्भेदवत्यपि । तथाहि । लोको व्यपदिशतीदानीं मम बुद्धि-
रुत्पन्ना । अथैक एवासावर्थात्मा दीर्घादिकः प्रतीयते । दीर्घादिर्ह्येक एव प्रथममुत्पद्यते ।
ततो दीर्घस्यैकस्यैव प्रतिपत्तौ दीर्घा बुद्धिरप्येकैव ।
तदप्यसत्त्यं । यतः ।
कश्चि(द्) यद्येक एवासौ वर्ण्णात्मा तदा प्रथमबुद्ध्यैव प्रतिपन्न इति कालक्षेपो न स्यात् ।
पूर्व्वभागाश्रवणे चांत्यबुद्ध्यापि प्रतीयते दीर्घादिः । अथापरापरभागप्रतीत्या दीर्घादिप्रतिपत्तिः ।
तदा एको दीर्घ इति न स्यात् । अथ पूर्व्वोप्यनुवर्त्ततेऽपरस्यापि च प्रतिपत्तिः । तथा सति
बर्द्धमानता ध्वनेः स्यात् । पूर्व्वस्यान्वयादपरस्य च सम्भवात् । अन्त्यावस्थायाञ्चासौ
दीर्घ इति प्रत्ययः । तदा चाक्रमं ग्रहणमिति क्रमवदिति न स्यात् । पूर्व्वापेक्षया क्रम इति
चेन्न । पूर्व्वापरबुद्ध्योरन्यत्त्वात् । अथ प्रथममुत्पन्ना बुद्धिरेकैवास्ते ।
तदप्ययुक्तम् ।
न ह्यनुपचितध्वनिरुपचितध्वनिकालमास्ते । तथा चेदपरः पुनरुपचय इति सैवानवस्था ।
अथ विषयानवस्थानेपि स्वयमेवावतिष्ठते तदापि ।
यदि विषयग्रहणमन्तरेणापि तद्ग्रहणरूपा बुद्धिरवतिष्ठेत् न कदाचिन्नश्येत् । इत्यति
दीर्घता भवेत् । अथ विषयग्रहणाभावो विषयाभावे तदा न दीर्घग्राहिका भवेत् । भागमत्रस्य
ग्रहणात् । अथैक एव वर्ण्णात्माऽक्रम उत्पन्नः कालान्तरस्थायी । तदयुक्तं ।
यदि सकृदुत्पन्नः कियन्तमपि कालमास्ते सर्व्वदा तिष्ठेत् पश्चादप्यविशेषादिति ।
किञ्च ।
येनैव प्रयत्नेन प्रथमं रूपं निर्वर्त्तितं तेनैव परोपि भागस्तदव्यतिरेकादिति तस्माद
परस्य व्यर्थतैव ।
सकृद्यत्नेन सर्व्वस्य व्यक्तत्वाद्यत्नान्तरमनर्थकं । तस्मान्नैकबुद्ध्या दीर्घावयवानां
ग्रहणम् । अनेकबुद्धिग्रहणमुपगन्तव्यम् ।
तदा च ।
यदा नैकया बुद्ध्या दीर्घावयवानां ग्रहणं तदान्त्या बुद्धिर्बुद्ध्यन्तरेणानुभूयते । सा
च न दीर्घग्राहिका ततः । कथं दीर्घधीस्मरणं । नाननुभूतस्मरणम् । अन्त्या च बुद्धिर्बु
द्ध्यन्तरेणानुभूयते । पूर्व्वबुद्धिनान्तु व्यवहितत्वान्नानुभवः । अन्त्या च न दीर्घग्रहणव्यापृता
ततो दीर्घादिधीस्मरणमपि न भवेत् (।) अथापि स्यात् पृथक् पृथक् बुद्धीनां बुद्ध्यन्तरैर्ग्रहणं
सर्व्वाः स्मर्यन्त इति दीर्घधीस्मृतिः ।
तदप्ययुक्तं । यतः ।
बुद्धिग्राहिकाभिर्बुद्धिभिः शब्दभागबुद्धीनां व्यवधानादविच्छेदप्रतीतिर्न्न स्यात् । न हि
विच्छिन्नमविच्छिन्नं प्रत्येतुं शक्यं । संघटनेन प्रतीतिरिति चेत् । अत्राह ।
घटनञ्च निराकृतम् । अन्यत्रापि समानन्तद्वर्ण्णयोर्वा सकृच्छ्रुति रित्यादिना ।
अपि च ।
ह्रस्वद्वयस्य निरन्तरमुच्चारणन्नास्तीति । विच्छेदादेकबुद्धेरभावः । यदि तु मात्रा
णामपि स एव विच्छेदस्तथाप्यविच्छेदाभिमानः । स तर्हि ह्रस्वद्वयोच्चारणेपि समानो न्याय
इति कस्मान्न दृष्टः ।
न चात्र विच्छेदप्रतीतिरपि तु विच्छेद एव । न तु विभ्रमः इत्ययमेव पक्षः क्षमः ।
किञ्च ।
यद्ययमविच्छेदप्रत्ययो विभ्रम एव तदाक्षजो वा भवेन्मानसो वा । यदीन्द्रियजः
सर्व्वाक्षबुद्धीनां वितथत्वम्भवेत् । तथा हि ।
क्रमेण हि सकलवर्ण्णप्रतिपत्तिः (।) क्षणिका बुद्धिरपरापरप्रबन्धवद्रूपेण वर्ण्णग्रहणात् ।
रूपादयोपि जन्मभाजः क्रमादेव । ततः तत्रापि यदिन्द्रियमलातचक्रवद् भ्रान्तं प्रत्ययं
जनयेत् न क्वचिद् भ्रान्तता भवेत् । अथ मानसो विभ्रमः । तदान्यो दोषः । तथा हि ।
मानसो हि विप्लवः स्पष्टतामतिक्रम्य वर्तमान एव स्पष्टो भवतीत्यसत्त्यमेवैतत् ।
स्पष्टाकारञ्च वर्ण्णाद्याकारं विज्ञानमिष्यते (।) तत्कथमसौ मानसी भ्रान्तिरिति
युक्तं । जल्पसंसर्गिणो हि न स्पष्टतासम्भवो न विकल्पानुबद्धस्य स्पष्टार्थावभासितेत्युक्तं ।
तथा ।
अथ (।)
नाविच्छिन्नं प्रतिभासमानं विच्छिन्नमिति कल्पनीयं । न खलु प्रत्यक्षमन्यथा कल्पना
मर्हति कल्पनाया एवासत्त्वकल्पनं युक्तं प्रत्यक्षबाधितत्त्वात् । तस्मादसदेतत् । अथ
स्वसम्वेदनं नास्तीति बुद्धद्ध्यन्तरसम्वेदनाभ्युपगमो न च युगपद् बुद्धिसम्भवः । तेन
बुद्ध्यन्तरेण व्यवधानाद्विच्छिन्नं दर्शनमिति । अत्राह ।
शक्तिनियमे हि बुद्धीनां युगपदसम्भवः । स एव तु शक्तिनियमः कुतोवसातव्यः ।
अथ युगपद्बुद्ध्य र्शनाच्छवितनियमः । विच्छिन्नं तर्हि दर्शनं नास्त्यदर्शनस्य तत्रापि
सम्भवात् । अथादर्शनं तत्र न प्रमाणं । युगपददर्शनं अपि तर्हि कथं प्रमाणम् ।
तत्र किमविच्छिन्नदर्शनाद्युगपदुत्पादः प्रत्ययानामथायौगपद्यदर्शनाद्विच्छिन्नदर्शनं कल्प्य
तामिति विचार्यमेतत् ।
ननु युगपद् बुद्ध्यदर्शनमस्त्येव । नहि नित्त्येप्यभाविभूतरूपदर्शनमुपलभ्यते युगपत्
क्रमेणैव दर्शनात् । आगमोप्यस्ति भवतः । तथाह्युक्तं (।) अस्थानमनवकाशो यद
पूर्व्वाचरमे द्वे चित्ते समुत्पद्येयातां ।
तदप्यसत् ।
बुद्धीनां हि शक्तिनियमः समानजातीयविज्ञानोत्पादनापेक्षया न सामान्येन । चक्षुरादि
विज्ञानानि समानजातीयं चक्षुरादिविज्ञानमेव नोत्पादयन्ति न पुनः सकलमेव । तत्र यदि
ग्राह्यग्राहकरूपं द्वयमुत्पादयेदसमानजातीये को विरोधः ।
(५) प्रत्यभिज्ञानिरासः
1093ननु विकल्पोपि स्पष्टावभासी प्रत्यभिज्ञानाख्यप्रत्यक्षप्रत्ययः परैरिष्यते । इष्यतां न
तु तथा । तथाहि ।
इन्द्रियविज्ञानस्य पूर्व्वापररूपग्रहणसमर्थस्याभावात्कल्पने च स्पष्टावभासवती प्रत्य
क्षमिति यो मन्यते प्रत्यक्षतया सोपि वारितः । तथाहि । न कल्पना स्पष्टावभासा तस्याः
कुतः प्रत्यक्षता । न स्पष्टावभासित्वेपि प्रमाणता व्यभिचारात् । तथा हि ।
अध्यक्षस्य तत्र बाधितत्वादनध्यक्षता । केन बाध्यतेऽन्तरा विच्छेदेन । इहापि
पूर्व्वापररूपाप्रतिभासनलक्षणो विच्छे(दो)स्त्येव ।
प्रमाणत्वाभावादतो य आह ।
तस्यापि वचनमात्रमेतन्न प्रमाणं प्रत्यभिज्ञेति प्रतिपादनात् । अपि च । न प्रत्यक्ष
मक्षजं प्रत्य (भि) ज्ञा । तथाहि ।
न पूर्व्वानुभवमन्तरेण स्मरणं न स्मरणमन्तरेण स एवायमित्येवं रूपं प्रत्यभिज्ञानं ।
पूर्व्वानुभूतैकत्वग्रहणरूपा हि प्र त्य भि ज्ञे दानीमनुभूयमानस्य । न च स्मरणमन्तरेण पूर्व्व
रूपताग्रहः । न च स्मरणविषयोर्थः प्रत्यक्षगोचरोऽन्यथा सकलमेव पूर्व्वानुभूतं प्रत्यक्षमिति
किमिदमक्षव्यापारेण । अथ कदाचित्पूर्व्वदृष्टं मृतनष्टमपि स्यादत इदानीमक्षव्यापारोपेक्ष्यते ।
यद्येवमक्षव्यापारस्तत्रैवास्तु किन्तद्देशगमनेन । योग्यदेशतां विना नाक्षं समर्थमिति चेत् ।
यद्येवं देशान्तरदृष्ट इह प्रत्यभिज्ञानाभावः । नहि देशान्तरसम्बन्धि रूपं योग्यदेशावस्थायि ।
उभयदेशसम्बन्ध्येकमेव तेन स एव योग्यदेशस्ततोयमदोषः । एवं तर्हि स्मरणमन्तरेणैव
कस्मान्न तथा प्रतीयते । तत्सम्ब धस्यापगमान्न प्रतीतिः । स्मरणेपि तर्हि कथं स एवा
यमिति स्यात् । व्यपगतस्यापि स्मरणमित्यदोषः । न प्रमाणम्प्रत्यभिज्ञा । सम्बन्धोपगतो
न सम्बन्धीति चेत् । तस्य तर्हि पूर्व्वदेशकालसम्बन्धाभावे इदानीन्तनमेव रूपमिति भेद एव
पूर्व्वापरयोः । अतः स एवायमिति प्रतीतिर्न्न भेदः ।
ननु सैव केन प्रतीतिरिति विचार्यमिदमेव । नहि प्रतीतिमात्रं प्रमाणमन्यथा किं
1094 454प्रत्यक्षत्वसाधननिर्ब्बन्धेन । पूर्व्वकालादिसम्बन्धे चाप्रतीयमाने यदि नित्यत्वमुच्यते सर्व्वपदार्था
नामेव नित्त्यता भवेत् तदोत्पत्तिमतामपि ।
यद्यपि तस्य पूर्व्वता नोत्पन्ना तथाप्यस्त्येव । अनुत्पन्ना कथमस्ति विनष्टा कथमस्ती
ति समानं चोद्यम् । न च प्रागभावप्रध्वंसाभावयोर्व्विशेषः । अयमस्ति विशेषः प्रध्वस्तं
स्मर्यते । प्रागभूतमपि सम्भवानुमानेन प्रतीयते । भावितया प्रतीयते न पूर्व्वतया ।
ननु भाविता प्रतीयत इति भाविप्रत्यक्षं भविष्यतीत्यर्थः । तेन तदा नास्ति पश्चाद्
भविष्यतीति । इहापि भूततया प्रतीयते प्रत्यक्षमभूदिति नेदानीमस्तीति (।) भवतु कथमि
दानीमप्यस्ति । इदानीमपि प्रतीतेरिदानीमस्तीति । मध्ये तर्ह्यस्तीति कथं इदानीमेव दर्शनात् ।
नहि पूर्व्वमसदिदानीमुपलभ्यते । न तर्हि प्रत्यक्षमेतत् न चानुमानमपि तस्य पूर्व्वास्तितया
सम्बन्धाग्रहणात् । निरन्तरदर्शने सम्बन्धग्रहणमिति चेत् । न(।) निरन्तरदर्शने प्रमाणाभावात् ।
नहि निरन्तरं मम दर्शनमिति स्मरणादपरं प्रमाणं । इयमेव प्रत्यभिज्ञेति चेत् । न ।
प्रमाणत्वस्य चिन्त्यत्वात् । अविसम्वादात्प्रमाणमिति चेत् । न नित्त्यतायामविसम्वादा
भावात् । तस्मादयमविसम्वादोर्थक्रियामात्रे तादृशा च पदार्थेन तादृशी क्रियतेर्थक्रिया । न
तेनैव । प्रमाणाभावात् । अन्यथा सर्व्वदार्थक्रियासम्बद्ध इति तदैवार्थक्रियानुभूयेत ।
अभावादर्थक्रियाया इति चेत् । कथमिदानीमर्थक्रियासम्बद्धेतरयोर्न भेदः । पश्चात्तत्रैवार्थ
क्रियानुभूयत इति न सङ्गतम् । अनवस्थाप्रसङ्गात् । यतः । तत्रापि परोऽर्थक्रियाऽविसम्वादो
ऽभ्युपगन्तव्यस्तत्राप्यपर इति न व्यवतिष्ठेत । तस्मादप्रमाणमेव प्रत्वभिज्ञेति स्थितमेतत् ।
तस्माद्व्यवहितत्वान्मात्राग्रहणस्य नैरन्तर्याभावान्न दीर्घादिग्रहणं ।
अथ युगपद्विज्ञानसम्भव इष्यते तदप्ययुक्तं । यतः ।
युगपज्ज्ञानानुत्पत्तिर्मनसोलिङ्ग मिति (न्या॰सू॰१।१।१६) वचनात् । न
चार्थावभासि ज्ञानमर्थश्च केवलः प्रतिभासमान उपलभ्यते । स्वसम्विदितरूपतया बाह्य
एव नीलादिप्रतिभास उपलभ्यते । नापरमपि तत्र । अर्थैकाकारतया तयोरनुपलक्षणं ।
यथा सुखतत्सम्वित्त्योः (।)
तदप्यसत् (।) यतः ।
यदि सुखादीनान्तन्मतेश्चैकाकारता तदा तत्राप्यभेद एव । न भेदावभासमन्तरेण
भेदः । सुखसम्वेदनमेव केवलमिति युक्तं तथा नीलादिकमिति च । तस्मात् सुखादिनीलादि
व्यतिरिक्तमपरमिह जगति सम्वेदनं नास्तीति सुखादिवत् स्वसम्वेदनं नीलादिकमपीति युक्त
एष निर्ण्णयः ।
अथ यदि नाम सम्वेदनपरमिह न लक्ष्यते परिस्फुटेन भेदेन । तथापि तदस्त्येव ।
यथाहि रूपादौ नियत आलोकः ।
तदप्यसत् । तथाहि ।
आलोकोपि यदि किमपि भेदग्राहकमस्य नास्ति प्रमाणं नास्त्येव पृथक् । भेदोपलक्षणे
हि सम्वेदनेन चिन्त्येत भेदः । न च तथा (।) तस्मान्न पृथक् सम्वेदनं नीलात् । आलोकस्तु
कदाचित्केवल उपलभ्यते । रूपं वा कैश्चित् । ततश्च यथा केवलं रूपं केवल आलोकः
सालोकं रूपं तथा केवलं विज्ञानं केवलोर्थः समंवेदनोर्थ इति स्यात् । प्रतिभासद्वयं भवेत ।
यथा युगपत्सम्वेदनाभ्युपगमे अर्थार्थप्रतिभासद्वयप्रसङ्ग इति दुरुद्धरो दोषः । तथा
क्रमेणापि । तथाहि (।)
अर्थवेदनं हि वेदनान्तरेण वेद्यमानमर्थवेदनरूपतयैव वेदितव्यम् । तथा द्विरर्थावभासन
प्रसङ्गः । अन्यथा तदर्थस्य वेदनमिति कथं वेदनान्तरं वेदयेत् । तस्मादुत्तरकालमप्यर्थावभासेन
भाव्यं । न चैवं । तथाहि ।
अत्र विचार्यते । किं युगपज्ज्ञानपक्ष एव दोषः किम्वा क्रमज्ञानपक्षे । यदि युगपत् ।
तदस्त । युगपन्न द्वयं सम्वेद्यते नीलाकारः सम्वेदनञ्च । तथा च प्रतिपादितं । अथ क्रमेण
(।) तदापि न सम्वेदनमात्रं पश्चाल्लक्ष्यते । स्मरणेन सनीलस्यैवोपलक्षणात् । तदयमदोषः ।
न दोषः । अयमस्यार्थः । नीलाद्याकार एकः सम्वेदनेन । एकञ्च सम्वेदनं नीलाकारेण ।
न तु नीलाभे सम्वेदने सम्वेदनमपरमर्थव्यतिरिक्तं लक्षयामः । अथवा नीलाद्याकार एक
एकञ्च सम्वेदनं सुखादिरूपं सम्वेदयामो नापरं सुखादिसम्वेदने ग्राहकं तत्राप्यपरमित्यन
न्ताकारसम्वेदनानुभवः ।
इदानीं प्रकृतमेवानुबध्नाति ।
यदि ज्ञानस्य ज्ञानान्तरेणानुभवः । स कथं ज्ञातव्यः । तत्रापि स्मृतिर्दृष्टेति । तद्वेद-
456नन्तर्हि ज्ञानान्तरेणेति तत्रापि स्मृतिरेव प्रमाणम् । तदा चेमां मालां ज्ञानतद्वेदनानां को
हेतुरनुबन्धवतीं जनयेत् ।
पूर्व्व पूर्व्वा बुद्धिरेवोत्तरोत्तरया ग्राह्या न नीलादिको विषय इति तद्ग्रहणन्न स्यादेव । यतः ।
यदि बुद्धिः स्वसम्वेदनरूपासत्यर्थं गृह्णीयात्ततो यथा सन्निहितस्यार्थस्य ग्रहणमिति
विषयसंचारो भवेत् । यदा तु बुद्धिर्बुद्ध्यन्तरेण गृह्यते तदा तां ग्राह्यलक्षणप्राप्तां सतीमगृही
त्त्वोत्तरं ज्ञानं पूर्व्विकां बुद्धिं कथन्नीलादिकं गृह्णीयात् । नहि प्रत्यासन्नमात्मसम्बद्धत्वेन
ग्राह्यं मुक्त्त्वा परग्रहणे सामर्थ्ययोगः । अथ बाह्योर्थः सन्निहितः सविबन्धक इति विषया
न्तरसञ्चारः ।
तदसत् । यतः ।
तथा च स्मरणन्न स्यात् । अथ विबन्धकाभावे भवेत् ।
तदसत्त्यं । यतः ।
अर्थ इत्येव स्मर्येत नानुभूत इति । अथार्थापत्यानुभूतोऽर्थः स्वानुभवं कल्पयेत् ।
तदप्यसत् । अर्थानुभव एव यदा सन्ततो जातस्तद नार्थापत्तिरपि । अर्थापत्तिर्यदा
स्मर्यते तदापरार्थापत्तिरिति सैवानवस्था । तस्मादनुभूतोऽनुभवः स्मर्यते नान्यथा । ततोऽर्थ
कृतव्याघातान्नानुभवो न च स्मरणं । न च सत्तामात्रकादर्थानुभवः । इन्द्रियसम्बन्धात् सोपि
कुतो ज्ञातव्यः । अपरेन्द्रियसम्बन्धादित्यनवस्था ।
अतीतादिविकल्पानां नेन्द्रियसम्बन्धोऽतः कथमनुभूतत्वनिश्चयः । ततोर्थचिन्ता न स्यात् ।
चिन्ताचिन्तानवस्था भवेत् । अथ तत्राप्यर्थ एव देशकालान्यथात्मको भवेत् । तदा तर्हि तेन
सर्व्वदा व्याघातकृता भवितव्यं । तथा च संचारो न भवेदेव । तेनैवापकृतत्वात् ।
इन्द्रियविज्ञाने हि सन्निहित एवार्थो व्याघातकारी । ततः कदाचित् बुद्धितद्वेदनानां प्रबन्धवि
च्छेदो भवेत् कदाचिदन्यथा । चिन्तासन्ताने तु व्यवहिऽतोप्यर्थो विषयत्वात्सर्व्वदा व्याघातकारीति
तत्रार्थ एव वेद्येत न सम्वेदनमिति सम्वेदनस्मरणन्न स्यात् । अथ न व्याघातकारी तथा
सति चिन्ताचिन्तादिसन्तानवेदनमेवार्थचिन्तनमुत्सीदेदेव । अथापि स्यात् । शक्तिरस्ति का
चिद्ययात्मनि ज्ञानं जनयति (।) तस्याः क्षये क्रमेणोपजाते विषयान्तरे भवेत्सञ्चार इति ।
तदप्ययुक्तं । यतः ।
यदि शक्तिविकलापूर्व्वबुद्धिर्बुद्धिग्रहणंप्रति शक्तिविरहे साप्यर्थधीर्व्विषयान्तरसञ्चार
वतीत्वेनाभिमता न भवेत् । तस्मात् ।
नार्थान्तरसञ्चारः । यतः ।
किं कारणं ।
(आलयविज्ञानम्-)
यदि तु पूर्व्वबुद्धेः कारणत्वं न स्यादर्थान्तरासक्तिवैगुण्येप्युदयो भवेत् बुद्ध्यन्तरस्य ।
नह्यकारणस्य वैगुण्यमवैगुण्यम्वा व्याघातमितरद्वा विदधीत । त मात् पूर्व्वबुद्धिः कारणमेव ।
तदशक्तत्वादर्थधीरपि न स्यादेवेति सुतरां विषयान्तरसञ्चाराभावः । आलयविज्ञानम् ।
यस्य तर्हि । आ ल य वि ज्ञा नं सकलप्रवृत्तिविज्ञानजनकम् (।) तस्य पूर्व्वविज्ञानकारणत्वं
नास्ति (।) तत एव सकृदालयविज्ञानात् प्रवृत्तिविज्ञानोदयात् । ततोस्माकमपि न तत्कारणं ।)
पूर्व्वप्रवृत्तिविज्ञानकारणत्वे तु तदन्वयव्यतिरेकानुविधायि कार्यमिति न स्यादालयविज्ञानस्य
कारणत्वं । अत्रोच्यते ।
यस्याप्यालयविज्ञानं कारणन्तस्यापि । यतः । कदाचित् सकृद्विजातीयविज्ञानोदयेपि
पुनरालयान्नान्यसम्भव एकेन पटीयसा पूर्व्वकप्रवृत्तिज्ञानेनार्थान्तरासक्तिविगुणाहितवैगुण्यादतः (।)
स एव तत्रापि स म न न्त रप्रत्य यः । तत एव तर्हि विगुणाद्विज्ञानोदयानुदयौ किमालय
विज्ञानेन । आस्तामियमालयविज्ञानचिन्ता । वासनाधारतया वा परिकल्पितन्तदिति न
दोषः । यदि तु पूर्व्वविज्ञानस्य कारणता नेष्यते यदा ।
पूर्व्विकाया हि मनोवृत्तेर्मनोन्तरं साम्यमपेक्षेत यदि सा कारणमकारणस्यापेक्षणीयता
योगात् । तस्मादपेक्षत्वात्कारणमेवासाविति युक्तिमानेव निर्णयः ।
अपि च ।
मनोविज्ञानस्य हि समनन्तरप्रत्ययमात्रमेव हेतुः । तस्याहेतुतायामहेतुकत्वात् युगप
दुदयो भवेत् । तस्मात्पूर्व्वविज्ञानकारणमेवोत्तरं विज्ञानमिति पूर्व्वविज्ञानशक्त्यभावे न
किञ्चिद् भवेत् ।
यद्येकत्वं मनसस्तस्य चैकत्र गतेरन्यत्रागतिरिति पूर्व्वकं विज्ञानमकारणमेव ।
तदप्ययुक्तं । यतस्तदपि मनःपूर्व्वकं विज्ञानमेव न तदपरं प्रमाणप्रसिद्धं । युगपद्वि
ज्ञानानुदयेन हि तत्साध्यते स च पूर्व्वविज्ञानान्यासक्तिविगुणत्वादेव सहोदयश्च कदाचिदुप
लब्धः ।
यस्य तु मनस एकत्वकृतो विज्ञानान्तरानुदयस्तस्य समवृत्तौ चान्यदा च सर्व्वदानुदयः ।
स्यात् ।
अस्माकन्तु समवृत्तावुदयोऽन्यदा चानुदय इति नहि किञ्चिद्व्याहतं ।
नन्वन्तरेण मनः कथं क्रमः । विज्ञानवैगुण्यादिति प्रतिपादितं ।
न हि तत्र विषयान्तरगतिरस्ति । यतः क्रमो भवेत् । सुखादिबुद्धीनामात्ममनः
संयोगमात्रत्वात् इति प्रतिपादितं ।
अथैकत्वान्मनस एकैव बुद्धिक्रिया भवेत् ।
तदसत् । यतः ।
यथैव प्रदीप एकोप्यनेकदर्शनजनकः । तथा मनोपि । तथानेकद्रष्दृवशाद त्राप्यनेक
ग्राह्यवशादिति समानम् । न च मनसः कारणत्वं विज्ञानस्यैव वासनानियमात् । तथात्वं
मनसस्तु नित्यत्वात् ।
नहि नित्त्यस्य विशेषाधानं । कुतश्चिद्विशेषस्य तत्त्वान्यथाभ्यासयोगात् । यतः ।
अनेन देहपुरुषावुक्तौ । योपि मन्यते देहपुरुषयोरेकत्वादेकैव क्रिया । तदप्यनेनैव
गतं । किं दीपोनेकदर्शनः ।
क्रमेणापि न शक्तिरविशेषादिति । अथ विशेषः । तदा विज्ञानमेव शक्त्यतिशय
समन्वितं तत्क्रमकारणमिति वृथा देहपुरुषयोः कारणत्वोपगमः । संस्कारतो यदि (।) नियमः
स कुतः पश्चात् बुद्धेश्चेदस्तु सम्मतं । संस्कारोपि स्थित एव । ततो न नियमः । अथ
पश्चादुत्पत्तिमान् स कुतः । ज्ञानजो ज्ञानहेतुश्च संस्कार इति बुद्धेरेव संस्कारः । यद्येवं
सम्मतमेवैतदस्माकं बुद्धिजनितः संस्कारो वासनापरनामा ततो नियमः पूर्व्वबुद्धेरेवान्यत्र
प्रमाणाभावात् । नहि बुद्धिमन्तरेणान्या वासना नाम । अथापि स्यात् (।) ज्ञानान्तर
जननमेव केवलं न ग्राह्यता तेन जनिकापि पूर्व्विका बुद्धिरग्राह्यतो विषयान्तरसञ्चारः ।
तदसत्त्यं । यतः (।)
ग्राह्ये हि पदार्थे ज्ञानजननमेव ग्राह्यलक्षणम् ।
यतः (।)
नालोकः कथञ्चिद्विज्ञानं जनयत्यग्राह्यतया । ग्राह्यं हि सकलमेव दृष्टं । अथा
लोकः सावयवत्वात्परभागादिना जनकोपि न ग्राह्यः । नानङ्गस्य विज्ञानस्याङ्गाभावात् ।
आलोको हि साङ्ग इति तथा युक्तः ।
तदयुक्तं । यतः
पारम्पर्येण हि ग्राह्यमप्यग्राह्यतया भवेदुपकारकं बुद्धेः । साक्षात्तु नान्यथेति जनिका
ग्राह्यैव बुद्धिः ।
—इति अन्तरश्लोकः ।
तस्मान्नाग्राह्या बुद्धिः । यस्मात् ।
चेतसो हि ग्राहिणी विज्ञाने तदुपादानभावः । सम्वेदनता च ग्राह्यता नापरमत्र
सूक्ष्मतादिकमिति नाग्राह्यता । यद्युपादानभाव एव ग्राह्यता स चोपादानभावः स्वबुद्धेरेव ।
अन्यथा परबुद्धेरपि सम्वेदनप्रसङ्गः । परचित्ताग्रहणन्त्वनुपादानभावात् । रूपस्य चाग्रहणं
दूरसूक्ष्मादिभावादिन्द्रियस्य ग्राहिविज्ञानानुपादानादिति विषयविभागः । यदि तु बुद्धेरप्यग्रा
ह्यता सापि चक्षुरादिवदेव ग्राह्या न भवेत् । अथार्थापत्त्या प्रतीयते बुद्धिस्तेन स्मरणम् ।
तदयुक्तं । सर्व्वदात्वापत्तेरसम्भवात् ।
नहि त्वरितं गणयतोस्यार्थापत्तेरुदयः । अथार्थापत्तिरपि तत्र व्यापारवती न
व्यापाराप्रतीतेः ।
अर्थादेव यदि सम्वेदनं गम्यते सम्वेदनमात्रं गम्येत नात्मसम्वेदनम् । अथार्थसम्वेदनात् ।
ननु तदेवार्थसम्वेदनमर्थापत्त्यावगम्यते । तत एव कथमर्थापत्तिरितरेतराश्रयदोषात् ।
यतो दृष्टोऽर्थोऽन्यथा नोपपद्यते इत्यदृष्टार्थपरिकल्पनमर्थापत्तिः । न चार्थसम्वेदनं दृष्टमिति
कुतोर्थापत्तिः । न चोभयस्य दर्शनमत एव न ह्येकस्य दर्शनमुभयदर्शनं तस्मात्स्वसम्वे
दनमेव वेदनमन्यथासिद्धेः । अतः परेण बुद्ध्यन्तरेण प्रत्यक्षात्मना वेद्यत इत्युपगतं । तत्र
सकलपूर्व्वबुद्धिग्रहणे न विषयान्तरसंचारः । यद्युपादानतया बुद्धेर्व्वेदनमसूक्ष्मादितया च
रूपादेः । तदा योगिनां परबुद्धिसूक्ष्मादिरूपादिवेदनं कथं । न दोष एष । यतः ।
दूरसूक्ष्मादिपरचित्तवेदनं हि कथं योगिनामिति न चिन्त्यत एवेदानीमेतत् । अर्व्वा
ग्दशेनापेक्षया ग्राह्यलक्षणमिदमुक्तमस्माभिः । परिशुद्धबुद्धिसन्ततयस्तु योगीश्वराः कथमिति
किमनेन चिन्तितेनेत्यास्तामेतत् । यथा चेदन्तथा चिन्तितमेव लेशतः । नन्वात्मीया
बुद्धिर्यदि गृह्यते सर्वं गृह्येतेति कुत एतत् । न गृह्यत इति तु विषयान्तरसञ्चारादेव
गम्यते । तदपि न युक्तिमत् । यतः ।
न खलु तस्याः सूक्ष्मदूरादिभावो यः प्राङ् नासीत् । असम्भवेपि विशेषस्य यदि
ग्रहणविभागस्य तर्हि न सहेतुक इति न विभागवान्भवेत् ।
—इति (अन्तरश्लोकः)
(६) हेतुसामग्रीवादः
ननु हेतुतैव ग्राह्यतेति न युक्तमेतत् अनेकशक्तित्वाद् भावानां । ततोन्या ग्राह्यश
क्तिर्यापगता विषयान्तरसंचारकालेऽअन्या च जननमात्रशक्तिर्यत्प्रभावादुत्तरज्ञानोदयोर्थविषयः ।
अनेकशक्तिता च भावानामनेककार्यजननादेवावधार्यते । अन्यथा नानेककार्यप्रसवः (।) तदपि
यत् किञ्चिद्यतः ।
प्रकृतिरेषा भावानां कारणपराधीनजन्मनां पर्यनुयोगमर्हति (।) कथमेतदिति ।
स्वकारणादुदयमासादयतां प्रतिनियमेन कस्तस्य निषेद्धा । अन्यथा सापि शक्तिरीदृशी
कुतः(।) इति न पर्यनुयोगान्मुक्तिः । स्वकारणाच्चेत् तत्किमिदानीमनया प्रकृत्यैव परिस
माप्तिरस्तु किमर्थान्तरकल्पनया । ननु स्वकारणाधीना शक्तिरियमिति लोकस्य प्रतीतिः ।
अस्तीयं प्रतीतिर्न्न व्यतिरिवतशक्तिप्रतीतिः । स्वभावभूतधर्मभेदारोपमात्रेण प्रतीतेः । कथमे
तदिति चेत् । शक्तावप्यपरशक्तिप्रत्ययदर्शनात् । तथा हि ।
शक्तियोगात्पदार्थश्चेत् कारणं कार्यजन्मनि ।
तस्मात्कल्पनामात्रमेव शक्तिरन्यापोहेन व्यवस्थाप्यमानत्वात् ।
ननु शक्तिमन्तरेण नानाभूता भावा एकतः कथम्भवन्ति । शक्तिभेदे सति भवन्तीति
युक्तं । अत्राह ।
सामग्रीसम्भवे हि प्रायशः कार्याणां सम्भवः किञ्चिदेकमेकस्मादुत्पत्तिमत् ।
तथानेकमनेकस्मादनेकञ्चैकस्मात् । यादृश्येव यस्य सामग्री तत एव तदेकमनेकम्वा
भवेत् । एष प्रायशः प्रपञ्चः । तथाहि । स्वकारणादेवम्भूतमनेकमेकम्वा भवति ।
येनैकमनेकम्वा कार्य जनयति । न शक्तिभेदः क्वचिदुपयुज्यते । शक्तयोपि तत उपकार
भागिन्यः तस्य ता इति व्यपदेशवत्यः । न ह्यन्यथा शक्तयः । पदार्थान्तरभूता हि तदाभाः
स्युः । पदार्थान्तरत्वे च तथा दर्शनप्रसङ्गः । अथवा न किञ्चिदस्ति यदेकमेकस्मात्साग्र्या
एवानेककार्योदयः । कथन्तर्ह्यनेकमेकस्मादित्युच्यते । सामग्रीद्वयान्तर्भ्तमेकमेकं कार्य
जनयतीति तथा व्यपदेशः । यदा प्रदीप एक एवानेकस्य दर्शनस्य जनकः । अनेकपुरुषानेक
समनन्तरसामग्रीसङ्गतत्वात् । यथा चैकस्यानेकशक्तियोगस्तथानेककार्ययोगोपि तस्मादने
ककार्यत्वमनेकशक्तिताम्विनापि । एवन्तर्हि यथैकमनेककार्य तथैकापि बुद्धिः स्वविषयां च
बुद्धिं परार्थ विषयाञ्च जनयिष्यति (।) तत्र कदाचिद्बुद्धिविषया बुद्धिः कदाचिदर्थविषयेति
विषयान्तरसंचारः । न विशेषाभावादुभयं सर्व्वदा जनयेत् । जन (य) त्येवेति चेत् ।
तन्न यतः । तदा ।
यदि वा द्व्यं पूर्व्वबुद्धिग्राहि रूपाद्यर्थग्राहि चोत्पत्तिमत्तदा पूर्व्वबुद्ध्यर्थस्य परस्य
चार्थस्य प्रतिभासनादभिलापद्व्यं यत् क्रमवदुपलभ्यते तदक्रमं प्रतिभासेत् । नहि बुद्धिरर्थग्रहण
रूपतां विना प्रतिभासते । तद्रूपत्वात्तस्याः । अर्थग्रहणप्रतिभासे चार्थ एव प्रतिभासित
इति पूर्व्वापराभिलापद्व्यं प्रतिभासेत । तथैकमेव द्विद्विरवभासेत । अर्थस्यात्मनस्तद्व्ु
द्धेश्च प्रतिभासनात् । पूर्व्वन्तावत्स्वयं प्रतिभाति पश्चात्तद्व्ुद्धिप्रतिभासने ततो द्विप्रतिभासनं ।
अथार्थप्रतिभासानन्तरं बुद्धिर्न्न गृह्यते । न बुद्धिः प्रत्यक्षेण स्वेन परेण वा गृह्यते । अर्था
पत्त्यापि तर्हि यदि प्रतिभासते । तदापि भासनमात्मतद्विदोरिति स एव प्रसङ्गः । अथ
कालान्तरेर्थापत्तिर्न्न हि तत्सन्ततानेकार्थग्रहणक्रमकाले कश्चिदर्थापत्तिमनुभवति ।
नैतदस्ति ।
सामर्थ्यात्प्रतिपत्तिश्चेत्सर्व्वदा स्यान्न वान्यदा ।
अथ यदा स्वबुद्धीः संकलयति तदा कालान्तरेऽर्थापत्त्युदयः ।
अतीतमर्थदर्शनं कथं ततोऽर्थापत्तिसम्भवः । कालान्तरेपि स्मर्यमाणादर्थापत्तिरिति
चेत् । स्मरणस्यैवार्थापत्त्यावगमो नानुभवस्य । तत्रापि स्यादभिलापद्व्यम् त्रिरवभासनञ्च ।
अथाननुभूतं न स्मर्यते ततोनुभवगतिरिति चेत् । तन्न ।
यदा स्मरामि पूर्व्वसम्वेदनस्येति स्मरणमेव प्रथमम्बुद्धौ प्रवर्त्तते । तदा न पूर्व्वमर्था
पत्तिर्न्नापि पश्चादिति कुतः स्मरणसम्भवः । यदाप्यर्थस्य स्मरणं तदापि स्मरणस्यानुभवस्य
चानुमानमिति स्मरणानुभवार्थाकारयोर्युगपत्प्रतिभासप्रसङ्ग । तथा च स्मरणकालेपि स्पष्टा
र्थाकारवेदनप्रसङ्गः । अथास्पष्टाकारद्व्यवेदनं तदपि न दृष्टमेवेत्यपरिहारः । अथ यस्य
यदेष्यते तदा तस्यार्थापत्तिर्यतः स्मरामि ततोनुभूतं यतः स्मरणं ततोनुभव इति वा । एवन्तहि
यतोनुभवस्ततोनुभव इति स्यात् वाचो युक्तिः । तथा यतः स्मरणन्ततः स्मरणमिति महत्प्र
माणकौशलं । इच्छा वानुभूते जायते । न चानुभवः कदाचिदनुभूत इति कथमिच्छयार्था
पत्तिरुदियात् । तस्मादसदेव बुद्ध्यन्तरेण बुद्धिवेदनम् ।
अथ (।)
विषयान्तरसञ्चरणकाले हि यद्यन्त्यं विषयान्तरसंचारकालात्पूर्व्वविज्ञानं विज्ञान
प्रबन्धस्य । तदा सर्वाननुभूतिः परानुभूतवद् भवेत् । अननुभूतानुभवस्यानुभूतत्वाभावात्प-
रानुभूतवत् । ततोऽन्त्याननुभवात्तत्पूर्व्वकाननुभू तिर्यावदादिभतस्यापि यथा परानुभवेपि तदनु
भवस्यान्येना(न) नुभूतत्वादन्येनाननुभवः तथा स्वयमनुभूतेपि तत्तु पुनरर्थस्य स्वरूपं परापेक्षयापि
तथेति कथमनुभवः ।
ननु परानुभवे स्वयमननुभवात्परस्यानुभवो यथा व्यवस्थाप्यते तथा परेणाननुभवे
स्वस्यानुभव इति व्यवस्थाप्यतां ।
तदसत् । व्यवस्थाप्यतां यदि प्रमाणमस्ति । यथा तु परेणानुभूतं नात्मप्रत्यक्षं न च
परस्येति व्यवस्थापयितुं शक्यम् । तथात्मप्रत्यक्षाभिमतमपि नात्मनः परस्येति वा व्यवस्था
पनामर्हति ।
नन्वर्थः स्वरूपेण प्रतीयते तत्कथमप्रत्यक्षता । नह्यन्यस्मिन्नप्रतीयमानेऽन्यदप्रतीतं नाम ।
सत्त्यं प्रतीयते । स्वयमेव प्रतीयतां । आत्मना प्रतीयते सोपि स्वयमेव प्रतीयतां ।
ततः स्वसम्वेदनमेव । अथात्मा कर्तृतया प्रतीयते (।) न (।) शरीरव्यतिरेकेणात्माभावात् ।
शरीरस्य कर्तृता चेत् । न । शरीरस्यापि कर्मत्वात् । यस्मादसत्स्वसम्वेदनं शरीरादीनां ।
स्वसम्वेदनत्वे वाऽविवाद एव । बुद्धेरसम्वेदनमिति चेत् । आत्मनः स्वसम्वेदने तेनार्थानुभवे
तावता पर्याप्तमिति व्यर्थिका बुद्धिः । तत एवाह ।
आत्मनोनुभूतिरस्तीति कुतः । अन्येनानुभूतौ परात्मासौ न भवतीति कुतः । स्वस
म्वेदनेनानुभवे स्वसम्वेदनसिद्धिरेवेत्यविवाद एव । तस्मादस्वसम्वेदने सर्व्वाननुभूतिप्रसङ्गः ।
ननु चक्षुरादिकेनाननुभूतेपि चक्षुरादिनानुभूतमिति भवति व्यवहारः । तथात्मसम्वेद
नाननुभवेपि किन्नेष्यते ।
अत्रोच्यते ।
व्यक्तिहेतवो हि चक्षुरादयस्तेषामसिद्धावपि नाव्यक्ततार्थस्य व्यक्तिव्यक्तत्वात् ।
अस्मच्चक्षुर्व्यक्तमिति कथमस्मत्सम्वेदनजनकत्वादस्मच्चक्षुरिति व्यपदेशः । सम्वेदनस्य तु
स्वसम्वेदनादेवास्मत्त्वं । तस्यापि सम्वेदनस्यास्वसम्वेदनेनात्मसम्बन्धित्वेन किञ्चित्प्रतिपन्नमिति
स्वरूपमात्रेण व्यक्तत्वे सकलं व्यक्तं जगज्जायेतेत्यतिप्रसंगः ।
ननु यत्र व्यक्तिरुत्पन्ना तद्व्यक्तमिति कथमतिप्रसङ्गः ।
(इति) प्रमाणवर्तिकालङ्कारे प्रत्यक्षपरिच्छेदो द्वितीयः1107 ।। २ ।।
-
१ T. ते-वेष्ठने ११५ क. पृष्ठत आरभ्यते ।
↩ - The heading ``संख्याविप्रतिपत्तिः" is only in the table of contents, not in the text.↩
-
२ T. मानं द्विविधं विषयद्वैविध्यात् शक्त्यशक्तितः ।
↩ -
३ T. प्रकारात्
↩ -
४ T. न हीष्टास्ति
↩ -
५ T. रूपभिन्नता
↩ -
६ T. ज्ञायते
↩ -
१ T. अन्यथा प्रतीतौ स्वलक्षणम्
↩ -
२ T. प्रमेयान्तरसाधने
↩ -
१ T. अक्षेण दर्शनं
↩ -
२ T. प्रमेयद्वैविध्य॰
↩ -
३ T. एवं
↩ -
४ T. प्रमाणसामान्य॰
↩ -
५ T. तत्तु प्रतीत्यन्तरम्भवदपि
↩ -
६ T. ग्लेन्-पऽि-ग्तम्
↩ -
१ T. प्रत्यक्षेतराऽपि
↩ -
२ T. अनुमानं
↩ -
३ T. साधनं
↩ -
४ T. न प्रामाण्य॰
↩ -
५ T.
↩ -
६ T. संवृतिरेव सव्यापारतेत्य स्यार्थः
↩ -
१ T. न खलु सम्बन्धात्
↩ -
२ T. उपलक्ष्यते
↩ -
३ T. बुद्धौ
↩ -
४ T. द-नि-ग्शन्-ल-म-शुग्स्-सो शेस्
↩ -
५ T. अहंप्रत्ययः तत्रैव
↩ -
६ T. ग्शन्-प-क्लोग्-ग्युर्-र्तोगि्स्-प-यिन्=अन्यस्य परोक्षतागतिः ।
↩ -
१ T. न दृश्यते अहंप्रत्यक्षः—बहिः
↩ -
२ T. का तद्वस्तु सम्बद्धधर्मस्य तर्हि
↩ -
३ T. धर्मिवस्तु
↩ -
४ T. अग्न्यादिलक्षणमेव
↩ -
५ T. प्रमाणप्रवृ॰
↩ -
६ T. वस्तूनामेव संबंद्धे
↩ -
१ T. विशेषाभावात् (?)
↩ -
२ T. ज्ञानस्य ज्ञायस्य
↩ -
३ T. ज्ञेयस्य युक्तः । अर्थक्रियाकारित्वं अर्थकारित्वं वा न प्रतीयते
↩ -
४ T. सामर्थ्य प्रतीयते ।
↩ -
५ T. कार्यं
↩ -
१ T. स कार्यंकारणभाव—इति पाठो नेह
↩ -
२ . तस्य च ॰प्रागुक्तो दोषः
↩ -
३ T. तत्सम्बन्धेन
↩ -
५ T. न तेन ज्ञातेन अर्थस्य कारणप्रतीतिः समकालत्वाभावात् । प्रवृत्तः । अभूता प्राग
↩
प्रवृत्तितः । ततोपि प्रागभूता भवतीति चेत् । ../?/तेन निरर्थः -
६ T. स्तम्भकुम्भयोरतिप्रसङ्गंनिराकुर्व्वता । अन्यथाभावे एक भावेंऽपरस्य न कार्यत्वं
↩
सिद्धान्तः । एवंतर्हि ज्ञानज्ञेययोरपि समानं । अमुमेवार्थं स्फुटयति केवलेत्यादि । -
७ T. तत्रोत्पन्नस्तथा न चेत् तन्तुतैव न सिध्यति—इत्यधिकः
↩ -
८ . नान्यदेव
↩ -
४ T. ज्ञानकार्यवता
↩ -
१ T. न नित्येन॰
↩ -
२ T. वस्तुन्यवृत्ति॰
↩ -
३ T. प्रतिभासमात्रेण
↩ -
४ T. दानशीलस्य—इति पुस्तकस्वामिनोत्र हस्तलेखः ।
↩ -
६ T. कार्याभावस्य सामर्थ्यमेव
↩ -
५ T. तदेतत्—इत्यधिकः पाठः
↩ -
१ T. मीमांसा—तत्रैव
↩ -
१ T. घटादौ विज्ञानवादे कस्माच्चित् नीलादिज्ञानात् रक्तज्ञानादि न भवत्यपि कस्मात् ततो .....एवं तत्र साधारणमनुष्मानात्—बहिः
↩ -
२ T. उपहतेन्द्रियत्वात् संवेदनेऽपि
↩ -
३ T. तदविषयत्वात्तस्य
↩ -
४ T. योगाचारः—तत्रैव
↩ -
५ T. प्रत्यक्षेऽपरोक्षज्ञानं भवति न यतोऽनुमा—अधिकः
↩ -
६ T. शशश्रृंगस्य
↩ -
१ T. सिद्धान्तो नातिप्रसंगः नियतत्वात्—बहिः
↩ -
२ T. हेतूनां नियोजकः
↩ -
३ T. स ह्यत्यक्ष॰
↩ -
४ T. प्रागासीत् तेन
↩ -
१ T. यदा
↩ -
१ T. रूपप्रतिभासतया
↩ - Listed as the second heading on the same level as pramāṇasaṃkhyā in the table of contents, but numbered as 3 in the text, as if in continuation of satyadvayacintā. Opted for first possibility, reconsider on reading.↩
-
१ T. वात्र विकल्प्यं अपरस्यार्थ॰
↩ -
१ T. अनुमानात् ज्ञाने भाविनः विकल्पात्—बहिः
↩ -
२ T. स्मरामि
↩ -
१ T. प्रमाणप्रतिपन्नत्वस्य
↩ -
१ T. नापरन्निर्भासि ज्ञानं प्रमाणं अर्थक्रियानिर्भासिज्ञानात् । तत्राह(।) साधनज्ञानात् वस्तु
↩
जातीति प्रत्यक्षज्ञानेन । अथाधिकं ज्ञानार्थक्रियानिर्भासेन ततः तस्य प्रामाण्यं(।)एवं
च अन्यज्ञानेनान्यस्य प्रामाण्यं सर्वं सर्वस्मात् ज्ञानात् प्रमाणं । -
१ T. अधस्तात्—दानशीलस्य पुस्तिका—इति लिखितं दृश्यते ।
↩ -
२ T. सर्वत्र जायते
↩ -
२ T. साक्षादर्थक्रियाऽशक्तं
↩ -
३ T. न भाषान्तरे
↩ -
४ T. शर्कराराशिः
↩ -
१ T. अभावस्यापि सामान्ये प्रसज्यमाने हि तथावसायत्वात्—बहिःपंक्ति
↩ -
१ T. यदापि सदृश॰
↩ -
२ T. इन्द्रियविज्ञानं
↩ -
२ T. स्पष्टावभासनात्
↩
? T. अभिहितान्वयः । अन्वयाभिधानं । वैधारिणप्रक्रिया(?)—बहिः -
३ चार्थाकारस्यापि
↩ -
१ T. अन्यापेक्षया अन्यास्पष्टाभासतो भासनात्
↩ -
१ T. नेह पाठः
↩ -
२ T. यदि समस्ताः प्रतीयन्ते
↩ -
३ T. आदिना असदेव ख्याप्यमानं
↩ -
१ T. ज्ञानाधारे अर्थारोपाभावादन्यथेति—बहिः
↩ -
२ T. तत्रैव बहिःपंक्ति—नामनिमित्ते प्रमाणाभावः इतिपाठान्तरं ।
↩ -
३ T. न स्वाकार॰
↩ -
१ T. ॰कारानुभवमात्रादेवा॰
↩ -
१ T. नेह दृश्यते पाठः
↩ -
१ T. अस्तीति
↩ -
२ T. तदा
↩ -
१ T. तस्मात् न
↩ -
१ T. नातीतादयः
↩ -
१ T. स्वरूपाणामश्रयमात्रेण
↩ -
१ निषेधेन विधिर्यदि पर्युदासाभावसाधने कथमन्यभाव एवान्याभावः । तत्रापि अन्याभाव
↩
एवान्यभावः स्यात् न तु विपर्ययः ।—बहिः -
२ T. न रूपि न सस्वभावम्
↩ -
३ बहिःपंक्ति—सामान्यान्तरादन्यत् सामान्यान्तरमिति स्वभाववचनात् ।
↩ -
४ T. यत्तु
↩ -
१ T. असदो धर्म इत्यसिद्धो हेतुः
↩ -
१ T. खुर्-ब्-प
↩ -
१ T. सदर्थतेति चेत् । न । अनु॰
↩ -
२ T. सन्दिग्धत्वं कुतोऽन्यथा
↩ -
३ T. विशेषोऽ
↩ -
१ T. अयं न
↩ -
२ T. तथाऽशक्तं
↩ -
१ T. पादनेऽपि न
↩ -
२ T. ताभ्यां सम्बद्धमन्यदेव
↩ -
१ T. द्ब्यङ्स्-ल-सोग्स्-प
↩ -
२ लुप्तेयं कारिका दानशील-पुस्तके
↩ -
३ T. न सन्देहोऽत्र
↩ -
४ T. तु सन्देहो न द्वि॰
↩ -
१. सी-रऽि-मे-तोग्-ल्त-बुऽो=(अं)जीरपुष्पवत्
↩ -
२ T. मिग्-ऽब्रस्-क्यि
↩ -
१ T. स्वाकारार्पणसमर्थत्वात्
↩ -
२ T. लक्ष्यमाणत्वात्
↩ -
१ T. ॰ पादानभेदेनोपादानभेदमाश्रित्य
↩ -
२ T. ततः
↩ -
३ T. न भोटगापान्तरे/?/— ॰ विपय/?/यो ॰ (?)
↩ -
४ T. अमेयत्वम्
↩ - Tibetan differs: དེ་ལྟ་མ་ཡིན་ན་ཚད་མ་རྟོགས་པ་མངོན་དུ་བྱེད་པ་མ་ཡིན་པར་འགྱུར་རོ།↩
-
१ T. अथ एकविषयत्वेऽपि
↩ - Check if this is deletion mark. Could be ना.↩
-
२ T. नीलादित्वेन प्रमेयद्धित्वमेव
↩ -
३ T. प्रतिपत्तिभागभेदे
↩ -
The full sentence in Tibetan reads: རྟོགས་པའི་དབྱེ་བ་ཐ་དད་པ་ཡིན་ན་རང་གི་མཚན་ཉིད་དོན་དམ་པ་པར་མི་འགྱུར་བ་ཡིན་ནམ་...
↩ - Tibetan translation has clear mark: གལ་ཏེ་... ཞེ་ན།, and then the ablative clause.↩
- Short form of ā?↩
-
४ T साधनं—बहिः
↩ - Note that this means the Tibetan translation has no ``na".↩
-
१ T. शिन्-तु-ञम्स्-पर( = नष्टतरं)
↩ -
२ T. लक्षणाप्राप्तस्य
↩ -
१ T. तत्रान्यस्य प्राप्तौ भ्रान्तिः
↩ -
२ T. यथार्थाभिनिवेशः
↩ -
१ T. ॰कल्पजनने यत्॰
↩ -
२ T. कारणात्
↩ -
३ T. ग्रहण उपयोगी
↩ -
१ विवेचितं—पाठान्तरं तत्रैव
↩ -
१ अभ्यासेन—तत्रैव
↩ -
१ तत्रैव बहिःपंक्ति—प्रत्यक्षोदयाः निबन्धनं यस्यानुमायाः । प्रत्यक्षपृष्ठभाविन्यनुमा यस्यां ताद्रूप्यसाधिता प्रमा । तथा सर्वमनुमानमित्यर्थः ।
↩ -
२ तत्रैव—अनुमानात् परं नाक्षमपेक्षणीयं । प्रत्यक्षात्तु परमनुम( ा)नमपेक्षणीयं
↩
प्रवृत्तिहेतोः । तृतीयपादव्याख्या । अक्षात् पूर्वं नानुमेष्यते परन्त्विष्यते ।
चतुर्थपादव्याख्या । चतुर्थपादतोयं व्याक्रियते । -
३. T. न संविदे
↩ -
४ T. ॰देशस्य न जन्मप्राप्तिः
↩ -
१ तत्रैव—ननु अविसम्वादकत्वं अनुमानेपि वर्त्तते (।) न चाभ्रान्तमनुमानं ।....अभ्रान्त
↩
त्वम् विसम्वादकत्वं तत्र । अत्रोच्यते (।) किमियमभिधा । अवसायः । उत विचारो
वा । यद्यवसायस्तदा मणिज्ञानेप्यस्ति । घटज्ञानवत् । अथ विचारस्तदा घटज्ञानेपि
भाविनि विषयेऽनुमानात् वृत्तिरित्यत्रापि प्रमाणं । -
१ T. पूर्वदृष्टरूपाकारतया
↩ -
१ तत्रैव—सम्बद्धादिति पाठान्तरं ।
↩ -
२ तत्रैव—ग्रहणादेरपि पाठ (:) ।
↩ -
१ T. ॰विशेषविषयरूप॰
↩ -
१ T. देर्-ब्दग्-ल-म्योङ्-व-भेद-दो-शेस्-ब्र्ज्रोद्-प-म-यिन्-नो (= नात्र ममानुभव
↩
ति वचनं नास्ति) -
१ T. ॰म्परेणापि
↩ -
२ दुर्दृष्टिरतदीदृशं—इति M. (मनोरथ॰)
↩ -
३ T. लिंगस्यैव
↩ -
१ स्वनिमित्तात्स्वभावाद् वा
↩ -
२ T. ॰इष्ट इति
↩ -
१ M. (मनोरथनन्दिनो वृत्तौ)—सिद्धे प्रसाधनात्
↩ -
२ लिंगिधी
↩ -
१ तत्रैव—केचिदिति धर्मोत्तरप्रभृतयः ।
↩ -
२ तत्रैव—तेन यदुक्तं शङ्करेण तीर्थिकेन ( नैयायिकेन ?)
↩ -
३ T. लिंगिनस्तु ज्ञानं अत्रानुमानं तस्य चाविसंवादनभ्रान्तते
↩ -
४ तत्रैव—शङ्करणे तन्निराकृतं यदुक्तमित्यर्थः ।
↩ -
५ तत्रैव— अवशेषः ।
↩ -
६ तत्रैव— साधारणधर्मयोः ।
↩ -
१ T. भावोऽथानुपलम्भः
↩ -
१ T. गल्-ते-स्म्र-गो/?/-रिग्-यिन्-न=(स्याद् वक्ता यदि युक्तिविद्)
↩ -
१ T. र्चोम् (?=मात्र)
↩ -
२. M. प्रयुज्यते
↩ -
१ T. परचात् न दृश्यते तेन स एव विनष्टः । न ख॰
↩ -
२ T. (यथा चानित्यत्वं) त्तग्-प-दङ्-म-ऽद्रेस्-प (= अमिश्रितं) नित्यत्वेन
↩ -
१ T. परस्परभेदोपल
↩ -
२ T. सैव च भेदोप
↩ -
३ ह्यनुमानं प्रवर्त्तते
↩ -
१ T. व्यव॰ सामान्यं—न दृश्यते
↩ -
२ T. सामानाधिकरण्येव वा
↩ -
३ T. स्मरणेन तथा विषयाभावः पदार्थमुपनीयते, इतोग्रेऽनेकाः पंक्तयो न भोटभाषान्तरे
↩ -
४ इतः प्राक्तनाः पंक्तयो न भोटभाषायाम्
↩ -
१ M. दीपादि नाशिनं
↩ -
२ T. ततः परं गोलकतूलतैलादि
↩ -
२ T. ल्दोग्-पिऽ-म्छम्स-थ-दद्-पर्
↩ -
३ T. दुस्-ग्चिग्-ञिद्-दु
↩ -
४ T. भवनमात्रतः
↩ -
१ T. ब्लो-छेन्-पो-चन्-ग्यि-र्ग्युद्-दे-दग् = (ते महामतितंत्राः)
↩ -
१ तालपत्रे दक्षिणच्छिद्रपार्श्वे पुस्तकस्वामिनो नाम—दानशीलस्य—इति दृश्यते ।
↩ -
२ तत्रैव—अस्तित्वमत्र न किम/?/।
↩ -
३ T. नायुक्तम्
↩ -
४ T. कार्यकारणयोर्भावस्य च संबंधः कार्यकारणलक्षणः । सत्ताया भावस्य च संबंधः
↩
समवायलक्षणः । -
१ T. सर्वः
↩ -
२ T. न तु इन्द्रियव्यापाराश्रयाद् भाविसंवादाच्च
↩ -
१ T. न
↩ -
२ T. हेतुद्वारेण
↩ -
३ T. अविकलस्य
↩ -
१ T. तल्लिंगापेक्ष॰
↩ -
१ T. दृष्टान्तार्थयोः
↩ -
२ T. दिग्नागकृते प्रमाणसमुच्चये
↩ -
१ M. ॰सीन्मे कल्पने॰ वेत्ति चेति न
↩ -
१ M. चक्षुषार्थाव॰
↩ -
२ M. ॰णाविभावनात् ।
↩ -
३ तत्रैव— "पदार्थः" ।
↩ -
१ T. देर-युल्-मेद्-प-शुग्स्-पस्-दे-वर्-दु-ब्चद्-प-न (=निर्विषयस्तत्र. . . . . .व्यवधाने)
removed non breaking thin space ↩ -
१ T. दे-मि-रिग्स्-ते (=तदंयुक्तं)
↩ -
२ T. बलवान्
↩ -
१ M. मनोऽव्ययुत्प॰
↩ -
२ T. यिद्-क्यि-थ-स्ञद्-ब्येद्-प-दे-िऽ-फ्यिर्-ब्यिस्-प-र्नम्-ल- र्नम्-पर्-द्ब्योद्-प-योद्
↩
प-यिन्-नो (=मनोव्यवहारकरणं, ततो विचारो विद्यते बालानाम्) -
३ T. ॰दविकल्पकमिति
↩ -
४ T. विकल्पकत्व(?) स्य सविकल्पकत्वबाधनात्
↩ -
१ T. नवसु अर्थेषु गोशब्दवृत्तिवत्
↩ -
२ T. न खलु तन्तुषु
↩ -
१ T. पटा॰
↩ -
२ T. खुर्-बु-व-ल ग्चङ्-स्ब्र-छुङ्-व-ल-सोग्स्
↩ -
१ तत्रैव—द्रव्यादि ष......स्तव्यं । अधिकत्वे सप्तमः पदार्थः ।
↩ -
२ M. किन्तु
↩ -
३ T. नात्रायं कारिकांशः
↩ -
१ T. वैशेषिकसूत्रे... ...
↩ -
२ M. षट्कं
↩ -
३ M. यत्र
↩ -
१ M. ज्ञानात्तान्तथा
↩ -
२ T. र्चोद्-प-चम्-शिग्-ऽद्रेन्-पऽि-फियर = (विवादमात्रसांकर्यमिति)
↩ -
१ M. वासनोद्भवा
↩ -
१ तत्रैव—अन्येनान्यस्य व्यवहार इति ।
↩ -
१ T. ॰मेवोपलक्षयति
↩ -
२ M. अन्यत्रादूष्ट्यपेक्षत्वात् ।
↩ -
१ M. संयोज्यते
↩ -
२ तत्रैव—पृथग्भविष्यति ।
↩ - The table of contents adds ``(चित्रैकत्वचिन्ता)" to this heading.↩
-
१ M. सामान्यवाचिनः
↩ -
२ M. कथं
↩ -
१ M. कथं
↩ - The number of this heading in the text is 6, but 5 in the table of contents.↩
-
१ M. साक्षाच्चेत् ज्ञानजनने
↩ -
२ M. न गृह्यते
↩ -
१ M. दृ/?/श्यते
↩ -
१ तत्रैव—वियोजनमिति पाठ(:) ।
↩ -
१ M. तयोर्द्वयोः
↩ - Wrong number in edition.↩
-
१ M. नानार्थैका
↩ -
१ विविच्यन्ते—तत्रैव
↩ -
१. M. भेदिनौ भिन्नौ प्रतिभासो ।
↩ -
१. M. प्रकाशते ।
↩ -
२ M. चेतसि
↩ -
१ तत्रैव—वेदनस्येति पाठान्तरं ।
↩ -
२ M. नेक्षते
↩ -
१ M. पृथक्
↩ -
२ M. यदाकारा
↩ -
१. M. अग्रहाद् भेदबुद्धिः
↩ -
२ M. पश्यतोपि परापरम्
↩ -
१ M. ॰भेदा सा
↩ -
२ T. धर्मादि॰
↩ -
३ T. कलशः वर्णसंस्थान॰
↩ -
१ M.
↩ -
२ ना विचित्रस्येति तत्रैव
↩ -
३ M. चित्तानी॰
↩ -
४ T. ख-छु-ल-सोगम् (=निष्ठीवनादि)
↩ -
१ M. नामाश्रयोन्योन्य॰
↩ -
२ T. सर्वदाऽप्रतिभासित
↩ -
३ M. निवारितं
↩ -
१. द-ल्त-ञ्दि्-ब्स्ग्रुब्स्-प-यिन्-नो (=संप्रत्येव सिद्धमभिधानं)
↩ -
१ वाच्यमक्षणिकत्वे (पि लक्षणं) सविशेषणं—इति हे ॰पुस्तके पाठः;
↩
M. वाच्यमक्षणिकत्वेस्यात् । -
१ तत्रैव—इन्द्रियज्ञानमनन्यथाग्राही अनेकाकांर—इति पाठान्तरम् ।
↩ -
१ T. दे-िऽ-छे-ञिद्-न-स्क्येस्-प-दे (= तदैव चोदिते तस्य)
↩ -
१ T. अगृहीते (च) सर्वस्य यतो
↩ -
१ M. तत्सुखादि
↩ -
२ दानशील पुस्तक इमाः तिस्रः कारिका अनुद्धृताः—
सार्थे सतीन्द्रिये योग्ये यथा स्वमपि चेतसि । दृष्टं जन्म सुखादीनां तत्तुल्यं मनसामपि ।। २५३ ।।असत्सु सत्सु चैतेषु न जन्माजन्म वा क्वचित् । दृष्टं सुखादे र्बुद्धेर्वा तत्ततो नान्यतश्चेति ।। २५४ ।।सुखदुःखादिभेदश्च तेषामेव विशेषतः । तस्या एव यथा बुद्धेमान्द्यपाटवसंश्रयाः ।। २५५ ।। -
१ M. ॰विच्छिन्नाथ भासेत
↩ -
१T. तत्र प्रवेशादिति
↩ -
१ M. ॰युक्तमर्थेनैव सहग्रहे
↩ -
१ T. न्यायसूत्रे
↩ -
१ M. तदज्ञानस्य
↩ -
१ तत्रैव—पञ्चतन्मात्रेभ्यः पञ्चमहाभूतानि, पाठान्तरमेतत्
↩ -
१ M. सन्नवैति
↩ - Verse misnumbered in edition.↩
-
१ M. ॰ स्थैवमुच्छिन्ना
↩ -
१ M. वित्तिभेदानां
↩ -
१ T. इहभोटभाषान्तरे प्रथमवेष्ठनं ते (पत्राणि ३०८) समाप्तम्
↩ - Changed number to 5 acc. to sequence and table of contents.↩
-
२ T. इतः द्वितीयवेष्टन (थे) प्रारम्भः
↩ -
१ T. न्यायसूत्रं १।१
↩ -
२ M. न प्रत्यक्षानुवृत्ति॰
↩ -
३ तत्रैव—सत्त्यतया पाठान्तरं ।
↩ -
४ T. प्रत्यक्षस्येन्द्रियजस्य निवृत्तेर्निवृत्तिः कदाचित् सा चेति
↩ -
५ M. स्मरणात्मिका
↩ -
६ M. ॰क्षमध्यवस्यति
↩ -
१ T. प्रमाणसमच्चये
↩ -
१ न्यायसूत्रे १।१
↩ -
१ तत्रैव—नाधः पतितैरित्यर्थः ।
↩ -
२ प्रमाणसमुच्यये
↩ - This heading inserted according to table of contents. It is not in the text.↩
-
१ तत्रैव—कल्पनीये
↩ -
२ न्यायभाष्ये
↩ -
३ तत्रैव—"प्रमाणानीत्यर्थः ।
↩ -
२ M. विभज्यते
↩ -
३ विचारितैषा कारिकाऽलंकवादिराजाभ्यां न्यायविनिश्चय-तद्विवरणयोः १।२८ (पृ॰ २४४)
↩ -
१ तत्रैव—आत्मा विजानाति नेति हि भोग्यमिति
↩ -
२ अत्र यावत् तेर्-गी-ग्रन्थतः भाषान्तरपरीक्षा, इतोग्रे यावद्द्वितीयपरिच्छदसमाप्ति
↩
नर-थङ्-ग्रन्थतः -
३ इतोऽग्रे यावद्ग्रंथसमाप्ति विभूतिचन्द्रलिखितो ग्रंथ उपरि गृहीतः, दानशीलग्रंथतस्तु
↩
पाठभेदा टिप्पणीषु । -
४ B. यदि
↩ -
५ B टि. अर्थानवबोधकाले यथालामतः । बोधकालेपि नियत्वात्
↩ -
६ Bटि. नो नास्ति क्वचित्
↩ -
१ Bटि. साख्याः ।
↩ -
२ Bटि. सिद्धान्ती
↩ -
३ Bटि. प्रस्थानान्तरेण
↩ -
४ B. सम्बन्धो
↩ -
५ M. ॰स्याधिगति॰
↩ -
६ M. तत्कर्मसम्बधो
↩ -
७ अर्थे इन्द्रियादौ । अयमर्थः नियामकेनेन्द्रियादिनार्थो ज्ञाप्यते नियमस्तु न ज्ञातस्तेन ।
↩
कथं नियतिर्ज्ञायतां ज्ञातेर्थे नियमज्ञानमिति चेत् इतरेतराश्रयो दोषः । -
१ B.टि. अर्थरूपेण
↩ -
२ B.टि. ज्ञानस्वरूपं स्वसम्वेदनरूपेण
↩ -
३ B.टि. नार्थाकारताधिगतिः किन्तु सुखाकारता
↩ -
४ B.कर्मणि
↩ -
१ B. टि. व्यतिरेकस्योपलक्षणत्वात् भेदस्यापि ग्रहणं
↩ -
२ B. ऽक्रि॰
↩ -
३ B. तदाकारकारणं—पाठान्तम् ।
↩ -
४ B. आलोचनाख्य
↩ -
५ B. टि. क्रियानिवर्त्तनभावेपि
↩ -
६ B. टि. न परिप्राप्येत नोपदीयेत ।
↩ -
१ B. टि.—अभ्यासकाले
↩ -
२ M. ह्यतद्रूपस्य
↩ -
१ B. श्चकासतः
↩ -
२ B. भेदोपि
↩ -
१ B. टि-विशेषणकाले विशेषणग्राहिकया बुद्ध्या जनितेन विशेष्यग्राहकेण ग्राह्यं विशेष्यं ।
↩ -
२ B. टि—तत्काले विशेष्यग्रहणकाले । M. विषयभेदोपि
↩ -
१ B. टि—बाह्यार्थाभावप्रसङ्गात् ।
↩ -
२ B. टि—तदभेदेपि भेदोयं यस्मात् तस्य प्रमाणता ।
↩ -
१ B. टि—प्रतिनियतं वेदनं प्रतिविदितम्वा वेदनं विदितयोर्मध्यपदलोपाः ।
↩ -
२ B. टि—अनेनास्माकं मतेऽर्थस्यज्ञानं नास्ति भिन्नार्थाकाराज्ञानादर्थानुमाना ।
↩ -
३ B. टि—तथा कार्यात् चक्षुरपि कारणमनुमीयते यस्याकारः तस्य कारणस्यानुमान
↩
मिति चेत् चक्षुरपि नीलाकारं क... । -
१ B. सत्याम्वा व्यभिचारिणी ।
↩ -
२ B. टि—सन्तानान्तरवर्तिनामर्थानां सजातीय पटानां न च तेषां परस्परं सम्वेदनमस्ति ।
↩
ज्ञानानां सादृश्येपि न वेदनं तदेवाह नहीति । -
३ B. नार्थविज्ञानं ।
↩ -
१ इदं वाक्यं न भोटभाषान्तरे ।
↩ -
२ तद् दर्शनं मतम् ।
↩ -
१ B टि—सम्विदितं
↩ -
२ B टि—अनुमानविषयातिरे (के) ण नार्थः बाह्यः । अथवा नार्थ इति प्रत्यक्षप्रती
↩
तिरेवास्ति नार्थ इति नादरो विषयः -
३ B टि—पश्चादात्मनापि दृश्यते
↩ -
१ B टि—प्रतीतिभेदाद् यदि न भेद एकता नीलादेः
↩ -
१ C 33a6–34a3 पृष्ठयोः मोटग्रन्थे प्रमादतो लब्धो मागोत्र ४५-४६ पृष्ठयोरुपलभ्यते ।
↩ -
१ B. टि—दिवाविज्ञानस्य धारकत्वं स्वप्नविज्ञानविषयालम्बकत्वात् । तच्च जाग्र
↩
त्प्रत्ययेपि स्वप्नप्रत्ययस्य विषयान्तरालम्बना सम्भवति । पटज्ञानस्य घटज्ञानम्वा । -
१ B. तत्स्वप्नदर्शना—इति बहिःपंक्ति पाठः ।
↩ -
१ B. टि—सर्वथा
↩ -
१ B. टि—भाविनि
↩ -
२ B. टि—तस्य भाविनः
↩ -
३ B. टि—समानविषयत्वात् बाध्यबाधकस्य
↩ -
१ B. टि—अनालम्बनसाधन्या बुद्धेः
↩ -
२ B. टि—जाग्रत्प्रत्ययगतमनालम्बनं नेदानीमपि प्रति । अहमेव तदाकारबुद्धिरित्यर्थ
↩
नालम्बना -
३ B. टि—अनुमानसाधन्या
↩ -
१ श्लोकवार्तिके एताः कारिकाः २२५ पृष्ठे । परं तत्र अगृहीतग्रहग्राह—, अगृहीतस्य
↩
सत्त्वं तु—इत्यर्धद्वयं, भेदेन पूर्वग्रहणात—विशेषणविशेष्यत्वं—इति श्लोकद्वयं च नास्ति । -
२ श्लोकवार्तिके स्वपक्षोऽपि न सिद्ध्यतीति पाठः ।
↩ -
३ " अप्रसिद्धोभयत्वं वेतिपाठः ।
↩ -
४ " वक्तृश्रोत्रोरिति पाठः ।
↩ -
५ श्लोकवार्तिके २२६ पृ. ।
↩ -
१ श्लोकवार्तिके २२६ पृ॰ ।
↩ -
२ श्लोकवार्तिके प्रत्याय्यस्येति पाठः ।
↩ -
३ श्लोकवार्तिके २२७ पृष्ठे ।
↩ -
१ तस्य । शब्दस्य प्रत्ययस्य वा
↩ -
२ टि—निरालम्बनं ज्ञानं व्यतिरिक्तार्थादुष्ट (?)
↩ -
३ श्लोकवार्तिके वाक्येनेत्यत्र भिन्नेनेति, बन्ध इत्यत्र वाध इति पाठः ।
↩ -
४ श्लोकवार्तिके २२७ पृष्ठे ।
↩ -
५ श्लोकवार्तिके ग्राहकं वस्तु सिद्धं नः इति पाठः ।
↩ -
६ श्लोकवार्तिके २२८ पृष्ठे ।
↩ -
१ B टि—सालम्बनः प्रत्ययः पक्षो निरालम्बनो वा सालम्बनमभ्युपगम्याह । धार्म्मिणोप्यसिद्धिः ।
↩ -
२ B टि—निरालम्बने
↩ -
३ B टि—पर्वतमात्ररूपेण
↩ -
४ B टि—सामान्यवादिनां
↩ -
५ B टि—एतेनापि प्रकारेण विकल्पितेन विकल्पश्चोक्त आत्मव्यतिक्तधर्मप—
↩ -
६ श्लोकवार्तिके २२८-२२९ पृष्ठ्योः ।
↩ -
१ T. श्लोकवार्तिके २२८–२२९ पृष्ठयोः ।
↩ - Verses 769--777 misnumbered as 669--677 in edition.↩
-
२ T. श्लोकवार्तिके २२९–२३० पृष्ठयोः ।
↩ -
३ T. श्लोकवार्तिके २२९–२३० पृष्ठयोः ।
↩ -
४ T. भवत इति भोटभाषान्तरे ।
↩ -
५ T. निषेधोतो न—इति हे. पुस्तके ।
↩ -
१ T. यतो भेदो न स्यात् ।
↩ -
२ B टि॰—सालम्बनत्वं
↩ -
३ B टि॰—कारणत्वेनानालम्बनमप्रतिभासनम् ।
↩ -
१ टि—नष्टत्वात् ।
↩ -
२ श्लोकवार्तिके २३०–२३१ पृ॰
↩ -
३ श्लोकवार्तिके २३०-२३१ पृ॰
↩ -
१ T.गङ्-छे द्ङोस्-दे मथोङ्-ग्युर्-व । दे-छे मेद्-पर् र्तोंग्स् म-यिन् ।। (यदा स
↩
दृश्यते भावो नाभावप्रत्ययस्तदा ।)—इत्यधिकः पाठो भोटभाषांतरे । -
१ इतोऽग्रे बन्धनीस्थः पाठः C 33a6–34a3 पृष्ठयोः स्थापितः प्रमादेन ।
↩ -
२ ॰मेव कुत इयं भ्रान्तिः॰ विपर्ययेण हि भ्रान्तिरिति । अथ विधिरूपेण॰ रिति
↩
नोच्यते—इति पाठो वभूतिचंद्रेण स्वपुस्तकान्ते पुनर्लिखितः । -
१ श्लोकवार्तिके २३१-३२ पृ॰ ।
↩ -
१ श्लोकवर्तिके पृ० २३२– क्वचित् पाठभेदेन ।
↩ -
१ श्लोकवार्तिके पृ॰ २३४— ।
↩ -
२ मुद्रिते ग्रंथे—न्यूनत्त्वं॰ ।
↩ -
३ मुद्रिते ग्रंथे—॰नन्तगमना ।
↩ -
४ श्लोकवार्तिके—पक्षवाधोत्र ते ध्रुवमिति पाठः ।
↩ -
५ श्लोकवार्तिके पक्षादीति नास्ति ।
↩ -
६ श्लोकवार्तिके—स्तम्भादिसाधनज्ञानेति पाठः ।
↩ -
७ श्लोकवार्तिके—यावद्यावत्प्रतिज्ञेयं तदन्यस्य प्रतीयते इति पाठः ।
↩ -
८ श्लोकवार्तिके—॰दन्यबाधनमिति पाठः ।
↩ -
९ तत्रैव मुद्रिते ग्रंथे—तस्मात्सा ।
↩ -
१० श्लोकवार्तिके—सम्यक् चेति पाठः
↩ -
११ श्लोकवार्तिके—भ्युपपत्तौ चेति पाठः ।
↩ -
१२ T. श्लोकवार्तिके २३६ पृष्ठे ।
↩ -
१ श्लोकवार्तिके ।
↩ -
२ श्लोकवार्तिके—सत्त्वासत्त्वे च दुर्लभे इति पाठः ।
↩ -
१ श्लोकवार्तिके पृष्ठे २३७ ।
↩ -
२ श्लोकवार्तिके—बोद्ध-दर्शन एकस्मिन्पक्षापातो न युज्यते इत्युक्तस्य प्रत्याख्यानमिदम् ।
↩ -
३ श्लोकवार्तिके पृ. २३७—बाधः, स्याद्व्यवस्था, प्रत्ययो—इति पाठान्तरेण ।
↩ -
१ श्लोकवार्तिके प॰ २३८ ।
↩ -
२ श्लोकवार्तिके—स्वप्नादि तुल्यतेति पाठ: ।
↩ -
३ श्लोकवार्तिके प॰ २३८ ।
↩ -
१ श्लोकवार्तिके—योगवस्थामिति पाठः ।
↩ -
२ T. तत्रैव ।
↩ -
३ श्लोकवार्तिके पृ ॰ २३८ ।
↩ -
४ ईदृक्त्वे इत्यादि ग्राह्यन्तरतयापि चेत्यन्तस्य श्लोक वार्तिकस्य (पृष्ठ २४० श्लोक ९५-९८)
↩
अनुवादेन सह निराकरणम् । -
५ वाधकैश्चापीति, मिथ्याधीप्रतियोगित्वमित्यर्धद्वयं श्लोकवार्तिकं (पृ॰ २४० श्लोक ९९)
↩
अनूद्येह खाण्डेतम् । -
६ B. टि—या बुद्धिः सा बाध्या यथा स्वप्नबुद्धिः बुद्धिश्च बाधिका बुद्धिः । अबाधायाम
↩
नेकान्तः -
७ B. टि—मिथ्याधियः प्रतियोगित्वं । जांग्रद्बुद्धिं प्रति ।
↩ -
१ श्लोकवार्तिके (पृ॰ २४०) क्षययोगित्व-निमित्ताधिगति-विशेष इष्टश्चेत्सर्वाभावात्
↩
इति पाठभेदेन् । -
२ श्लोकवार्तिके (पृष्ठ २४०)—दिदानीं वाधबुद्धिवदिति पाठान्तरेण ।
↩ -
१ श्लोकवार्तिके (पृ॰ २४९)—साध्याभेदादवाच्यत्वादिति पाठान्तरेण ।
↩ -
२ श्लोकवार्तिके—मत्यक्षेपीति पाठः ।
↩ -
३ श्लोकवार्तिके—सारुप्यान्यनिवृत्ति च नेत्येतत्साधयिष्यते इति पाठान्तरेण ।
↩ -
४ श्लोकवार्तिके पृष्ठ २४१—२४२ ।
↩ -
५ B. टि॰—विशेषस्य सालम्बनस्य निरालम्बनस्यात्मधर्मस्यानात्मधर्मस्य वेति
↩
पूर्वोक्तं । परः प्राह । -
६ B. टि॰—स्वलम्बनत्वेन व्याप्तत्वात् ।
↩ -
१ B. विशेषिणी
↩ -
१ M. B. ॰मेव
↩ -
१ M. ॰वरणात् स्यात् चेन्न
↩ -
२ B. अर्थधीर्यदि
↩ -
३ अनिष्टादावसन्धानं—इति M. हे॰ पुस्तके ।
↩ -
४ इष्टं—इति हे. पुस्तके
↩ -
५ तस्मात्प्रमेयबाह्येपि—इति हे पुस्तके ।
↩ -
६ B. टि—सुखादित्वेन
↩ -
७ B. टि.— यावदन्तो ग्रन्थो दिग्नागीषः ।
↩ -
१ ष्वपेक्षते—इति हे. पुस्तके ।
↩ -
२ B. तस्मा
↩ -
३ B. टि.—फलत्वं । संवेदना नुरूपमेव फलमित्यर्थः
↩ -
४ B. टि अनुमातो नापरोक्षो निश्चीयते तन्निरासाय
↩ -
५ M. तस्माद् ।
↩ -
६ एवेत्यधिकः पाठः पुस्तके ।
↩ -
७ B. टि—यथा निविशते सोऽर्थो यतः सा प्रथते तथा ।
↩ -
८ पादव्यत्यासोऽत्र स. पुस्तके ।
↩ -
१ पादव्यत्यासोऽत्र स. पुस्तके ।
↩ -
२ B. मुक्ताव
↩ -
3 B.टि—काले जन्यदेशेऽ/?/स्ति वस्तु तत्र काले भाति नार्थविरहिणि काले भातीति भावः ।
↩ -
४ B.टि—तिष्ठतीत्याकूतं ।
↩ -
५ B टि—अर्थस्य जनयति दर्शनं ।
↩ -
१ चक्षुषाम्—इति हे. B ।
↩ -
२ यथार्थ—इति हे. ।
↩ -
१ अन्यस्या—इति हे. पुस्तके ।
↩ -
२ रूपाभेदेपि पश्यन्ती धीरभेदव्यवस्थितिः —हे. पुस्तके ।
↩ -
३ एकं वा—इति हे. पुस्तके ।
↩ -
४ B. वितथ
↩ -
१ ततः—इति हे. पुस्तके ।
↩ -
२ वात्स्यायनीये न्यायभाष्ये १।१।१ (पृष्ठे १) स्वल्पभेदेन ।
↩ -
३ अयं पाठो हे. पुस्तके विद्यते परमत्र मूलं व्याख्या च न दृश्येते इति चिन्त्यमेतत् ।
↩ -
१ B. हि
↩ -
२ B तदन्यस्या॰
↩ -
१ अनर्थाकार—इति हे. पुस्तके ।
↩ -
२ द्विरूपत्वात्म—इति हे. पुस्तके ।
↩ -
१ हे. पुस्तके—नित्यमात्मनीत्यर्द्धं दृश्यते, व्याख्यानमप्यस्यास्ति । भोटभाषान्तरे तु न दृश्यते,
↩ -
२ अनुसन्धानं—इत्यधिकः पाठः ।
↩ -
३ M. ॰नुभवज्ञानेनोभयां॰
↩ -
१ M. ह्यतथा रूपं
↩ -
२ M. ॰णाकाखात्मा॰
↩ -
३ हे. पुस्तके—तस्यानुरूपेणाकारो वान्याकारश्च कश्चन ।
↩ -
४ विविच्यते—इति हे, पुस्तके ।
↩ -
१ M. नार्थवापि
↩ -
२ B. विरोधिता
↩ - Versnumber mistyped in edition.↩
-
१ दर्शन—इति हे. पुस्तके ।
↩ -
२ B. भासुरं
↩ -
३ कथम्वा
↩ -
१ M. धीभावादुभयन्नापि
↩ -
१ B. न ह्यर्थ तस्याः कार्यतया स्थितिः
↩ -
१ M. त्स्यादतिस्फुटम् च—हे. पुस्तके ।
↩ -
१ स्फुटमस्फुटम्वा दूरासन्नवर्तिना च सर्व्वेण—इति पंक्तौ त्रुटितोंशोस्तत्रैव बहिःपंक्ति लभ्यते ।
↩ -
१ B.सोन्या॰
↩ -
२ M. समम्
↩ -
३ B. स
↩ - This heading, and the next two, are numbered, respectively, as 1, 2, and 3 in the table of contents.↩
-
१ B ॰स्पष्ट
↩ -
१ M. B. खिलः
↩ -
१ सारूप्य
↩ -
१ M. न च सर्वात्मना साम्यमज्ञानत्वप्रसङ्गतः ।
न च केनचिदंशेन सर्वं सर्वस्य वेदनम् ।। ४३५ ।। -
२ M. तस्याप्यनु॰
↩ -
१ T. रङ्-ब्शिन् रिग्-प-ग्सल्-व नि । स्क्येस्-पऽ/?/ स्नङ्-वऽदि गङ्-यिन् ।-(स्वभा
↩
ववेदनद्योतं किमिदमुत्पत्तिभासकं) इत्यधिकः । -
१ M. B. वेदनेनास्य
↩ -
२ B. ज्ञानमिति ते ज्ञातेवेति
↩ -
१ B. प्रतिवर्ण्णिता
↩ -
२ T. ब्दे-स्दुग्-ऽदोद-प (=सुख-दुःखाभिलाषादि)—
↩ -
३ M. एतान्
↩ -
१ M. तत् पुनः
↩ -
१ M. दुःखस्य वेदनं
↩ -
२ T. स्दुग्-ब्स्ङल्-ल-सोग्स् म्योङ् मिन्-पर् । ग्दुङ् दङ् फन्ऽदोग् र्ग्यु-म-यिन् ।
↩ -
१ T. ग्शन्-यङ् म्ङोन्-सुम्-मेद्-पस्-न । ब्लो नि र्तग्स्-लस् र्तोग्स्-पर्ऽग्युर् ।
↩
दे-यङ् द्वङ्-पो दोन्-नम् ब्लो । यङ्-न यिद्-ब्येद् सङ्-मर् ऽग्युर् । -
२ M. सम्बन्धि नापराम्
↩ -
१ M.अदृष्टा दृष्टयोऽन्येन द्रष्ट्रा दृष्टा॰
↩ -
२ M. प्रत्यक्षाधिगतो॰
↩ -
१ B. लिंगमित्यलौकिकं ।
↩ -
१ B. स्वयं साधीः प्रकाशतेः
↩ -
१ M. ॰प्रकाशमानाऽर्थः
↩ -
२ M. व्यञ्ज ्कभेदेन
↩ -
३ B. प्रवर्त्तते
↩ - Depending on how one reads the table of contents, this could also be a heading on the same level as अर्थप्रकाशनम् विज्ञानरूपेण.↩
- According to table of contents, the heading is स्पोटोऽसंगतः↩
-
१ नास्ति B. पुस्तके, श्लोकार्द्धव्यत्यासः M. पुस्तके
↩ -
१ M. B. तद्ध्वनिश्रुतेः
↩ -
२ B. ॰रोहणं
↩ -
३ M. इति वर्ण्णेषु
↩ - According to table of contents, this heading could be number 4, in continuation of 3 स्वसंवेदनचिन्ता, if one takes 4 स्वसंवित्तिसिद्धिः as continuing 3 अर्थप्रकशनं विज्ञानरूपेण.↩
-
१ B. ॰त्स निवारितः
↩ -
१ M. ॰सौ द्वौ
↩ -
१ B. पृथक्
↩ -
१ B पुस्तके नास्तीयं कारिका
↩ -
१ T. स्ङर्-ग्यि ब्लो नि नुस्-सद्-न । दोन्-ल ऽफो-व मि-ऽग्युर्-ते । (= पूर्वधीश
↩
क्तिनाशे हि नार्थे संक्रमणं भवेत्) -
१ B. क्रियैकस्मात्
↩ -
२ T. ऽदि-लुस् स्क्येस्-बु ब्शद्-प यिन् । गल्-ते ऽदु-ब्येद्
↩
लस्ङेस्-न । दे-फ्यिस् गङ्-लस् ब्लो-ञिद्-लस् । शे-न यिन् मोद् ऽदोद्-प ञिद् । -
१ ॰द्यनंशके—इति हे. पुस्तके ।
↩ -
१ M. सैवानन्तर॰
↩ -
१ M. सर्वसम्भवः
↩ -
१ M. पूर्व॰ अभिलाप॰ इति श्लोकार्धयोःस्थानव्यत्ययः
↩ -
२ M. ॰तद्धियोः
↩ -
१ B ब्यक्त
↩ -
२ T. प्रमाणवार्तिकभाष्ये प्रत्यक्षपरिच्छेदः तृतीयः ।
↩