४. परार्थानुमानपरिच्छेदः
466 467३. परार्थानुमानपरिच्छेदः
१. दिग्नागीयं परार्थानुमान-लक्षणम्
१. स्वदृष्टग्रहणफलम्
स्वार्थनुमानानन्तरं परार्थानुमानमुच्यते । स्वार्थानुमानपूर्व्वकत्वात्परार्थानुमानस्य ।
तत्र परार्थानुमानन्तु स्वद्ष्टार्थप्रकाशनम् । स्वेन दृष्टं स्वदृष्टम्वादिप्रतिवादिभ्यां प्रतिपाद्य
प्रतिपादकाभ्यां स्वदृष्टस्येत्यर्थः । यदि प्राश्निकास्तेषामपि तेषामधिकारात् । विप्रतिपत्ति
निरासस्तु सामर्थ्यादेव प्रसिद्धः । प्रकाश्यतेऽनेन स्वप्रतीतोर्थः परं प्रति । तच्च कायवाग्वि
ज्ञप्तिरूपं । तत्र स्वदृष्टोऽर्थस्त्ररूपं लिङ्गम् ।
ननु त्रिरूपं लिङ्गमिति च कुतः । स्वदृष्टार्थग्रहणस्य सर्व्वार्थप्रतिपादनसम्भवात् ।
ततोनुमेयस्य परोक्षरूपस्य सकलस्य प्रकाशनं परं प्रत्यनुमानं परार्थमिति प्राप्तम् ।
अत्रोच्यते ।
प्रकाशितो ह्यसावुच्यते यत्र परस्य संप्रतिपत्तिः । अत एव प्रकर्षाभिधायी प्रशब्दः ।
प्रमाणप्रतिपन्ने च परस्य संप्रतिपत्तिः । यदि चानुमेयमपि प्रमाणप्रतिपन्नं तदाऽविवाद1108 एव
त्रिरूपलिङ्गं प्रकाशनद्वारेण तु विवादास्पदीभूतानुमेयप्रतिपत्तिरिति न वचनस्य व्यर्थता ।
ततोनुमानमुदेतीति तदप्यनुमानमुपचारात् । यद्यनुमानोत्पादनाद्वचनमनुमानं प्रत्यक्षोत्पादना
त्प्रत्यक्षमपि परार्थं1109 भवेत् । नेदं चतुरस्त्रं ।
न वचनमात्रादध्यक्षं परस्योदेति ।
ननु पश्य मृगो धावतीति दृश्यते दर्शनोदयः । न । तत्राप्यनुमानस्यानन्तरत्वात् ।
तथा हि(।)
अभिमुखीभव मृगदर्शन इति नियोगवचनमेतत् । अभिमुखीभावश्च यथा मम तथा
तवापि । तत एवमभिमुखीभवने हेतूनां व्यापार इति स्मरन् प्रवर्तत इत्यनुमानमेव । ततो
नुमानात्प्रत्यक्षसम्भवमालोच्य प्रवर्त्तते । एवन्तर्हि प्रत्यक्षविषये प्रवर्तते सम्भवानुमानं स्वभाव
हेतुः । कार्यहेतुर्न वचनात्प्रकाशते३ साक्षात् (।) तथाहि ।
ततः त्रिरुपलिङ्गाख्यानं परार्थानुमानमिति प्रमाणसमुच्चयवृत्तिर्व्विरुध्यते ।
नेदमुपपन्नं । यतः(।)
उक्तमेतद् (।)
विदुषां वाच्यो हेतुरेव हि केवलः ।
तथा प्रतिबन्धोपि केवल इत्यपि द्रष्टव्यम् । अथवा तत्रापि भ्रान्तिव्युदासार्थं धूमो
यमिति परवचनमपेक्ष्यत१ एव । तथाहि (।)
अयमर्थो वचसः । न तत्र प्रत्यक्ष दृष्टोर्थोऽन्यस्मै वचनेन ख्याप्यतेऽपि1111 त्वनुमानमेव
तत्परार्थ तत्कारणत्वात्1112 । धूम एवायन्नान्यथा द्रष्टव्यं यः प्राग् धूम उपलब्धस्ततोन्यथा
न भवत्ययं । सामर्थ्यादिदमुक्तम्भवति तल्लक्षणत्वात् । तस्मादनुमानवृत्तमेवे शब्देन
ख्याप्यते । न कदाचित् प्रत्यक्षे शब्दस्य व्यापारः । अत्यन्ताभ्यासात्तु नानुमानप्रपञ्चन
मिति लोकस्यान्यथा प्रतिभाति । तस्माद्वचनमनुमानकारणतामेव स्वीकर्त्तुमलं । स्वभावानु
मानमेव तर्हि वचनं । तत्कारणत्वान्न कारणानुमानमत्र धूम इति । स्वभावानुमा
नत्वाद्वचनस्य ।
तदसत् । स्वार्थानुमानेपि हि धूमरूपे स्वभावहेतुः प्रती1113 तोऽन्तराले । तत्रापि
न भ्रान्तिनिवृत्तिरस्ति स्वभावहेतोर्व्विरहाद्विवेक्तुः । अत्राह ।
स्वार्थानुमाने कार्यहेतुरस्त्येवेति एतावति विवक्षिते व्यवधानोपदर्शनं क्वोपयोगि ।
परार्थानुमाने तु कार्यहेतुरेव न सम्भवति । साक्षात्स्वभावहेतौ धूमादिवचनस्य व्यापारात् ।
ततोस्त्यनुमानेन परार्थमनुमानं ।
नैतदस्ति ।
अथवा यत्र भ्रान्तिर्न्नास्ति तत्र स्वार्थानुमानेऽव्यवहित एव कार्यहेतुः । परार्थानुमा
नेपि सैव गतिरिति साक्षादेवास्त्यनुमानस्य शब्दादुदयः । भ्रान्त्या विना किं वचनेनेप्ति
चेति । प्रतिबन्धप्रदर्शनायेति न दोषः । त्रिरूपलिङ्गाख्यानन्तु यथासम्भवमिति संप्रत्ये
वोक्तं । किञ्च ।
य आह । कथं प्रत्यक्षानुमानयोरेव प्रामाण्यम्वचनस्यापि व्यवहारहेतुत्वान्न वचन
मन्तरेण परिपूर्ण्णो लोकव्यवहारः ।
अत्रोच्यते ।
परिदृष्टपूर्व्वमर्थ स्मृत्वापि प्रत्यक्षादिकमन्तरेण किन्न प्रवर्तते । किमिदानीं स्मरणमपि
प्रमाणं । अथ तदप्रमाणमेव । वचनमपि तथार्थं न प्रमाणमिति समानं । यत्र तु प्रमाण
न्तत्रानुमानकारणत्वेनैव नान्यथा । एतावन्मात्रमत्र विवक्षितं न तु सर्व्व वचनं सर्व्वानुमान
कारणं वचनस्यानुमानत्वमेव न स्वातन्त्र्येण प्रमाणत्वं । सर्व्वानुमानत्वप्रदिपादनन्तु नोप
योगि । तस्मात् त्रिरूपलिङ्गाख्यानमेव वचनं ।
वेदवचनस्य तर्हि कथं प्रमाणता । तत्रापि प्रत्यक्षानुमानार्थकथनादेव प्रमाणता ।
द्वादश मासा इत्यादौ । अन्यत्राप्रमाणतैव यथा पुरुषवचसि । अपौरुषेयत्वादेव प्रमाणतेति
चेत् । न(।) अप्रत्ययत्वात् । न हि वचनमात्रात्कस्यचित् संप्रत्ययः । यदि प्रत्यक्षवद्वेदः
किं न सर्व्वः प्रत्येति । क्षणिकत्वाद्यनुमानादपि न सर्व्वः प्रत्येति । भ्रान्त्या चेत् । अत्रापि
भ्रान्तिः । तज्जातीयानुमानेन सप्रत्ययस्थानेन निवर्त्त्यतेऽनुमाने । वेदे तु न तज्जातीयवचन
त्वेनेत्यसमानमेतत्
अथवा । अयमर्थः । वचनं त्रिरूपलिङ्गाख्यानरूपमेव परार्थानुमानं । न वेदवचनं ।
तस्य त्रैरूप्याभावात् । तस्य हि सत्त्यत्वान्वयो न दृष्टो न पक्षधर्मत्वं । तथा हि ।
अपौरुषेयत्वेनासत्त्यत्वाद् व्याख्या (?) तं1116 सत्तयन्वेन तु नास्त्यन्वयः । अथ द्वादश मासा इत्य
न्वयः । अत्रोच्यते ।
कदाचिदपौरुषेयमध्ये केनचिदेतत् पातितं भवेत् । श्रूयते च क्वचिच्छाखान्तरे
कृतत्वं । स्मरणे सति तथा व्यवहार इति चेत् । न(।) अप्रत्ययत्वात् । अन्यत्रापि
प्रसङ्गात् । एतच्च सकलं प्रतिपादितमेव प्रागिति न प्रपञ्चितमिहेत्यास्तां ।
यदि त्रिरूपं लिङ्गमेव स्वदृष्टशब्देनोच्यते । त्रिरूपलिङ्गाख्यानं परार्थमनुमानमिति
वक्तव्यं । किं स्वदृष्टार्थग्रहणेन । नान्यार्थत्वात् । तथा हि ।
नहि परार्थानुमाने स्वप्रतिपत्यधिकारः (।) परस्यैव प्रतिपाद्यत्वात् । परस्य चेत्तत्प्रसिद्धं
लिङ्गं परः प्रतिपद्यत एव । वादिप्रतिपत्त्या विना कथं परः प्रतिपत्तिमानिति न वाच्यं ।
न तावदसौ वादिनोऽत्र प्रतिपत्तिरिति संप्रत्येति । अपि तु मया एवमेव प्रतिपन्नमिति
स्वप्रत्ययात् । अनेन तु ज्ञात्वा प्रकाशितमन्यथा वेति किमनेन विचारेणातिरिच्यमानप्रपञ्चेन ।
अतोभिप्रायात् स्वयमप्रतीतमपि परैः प्रतीतमिष्यते लिङगम् । तस्याभिप्रायस्य प्रतिक्षेपार्थ
स्वदृष्टवचनं । यद्येवं स्वेनैव दृष्टमिति परदृष्टव्यच्छेदादनर्थान्तरमापतितं । न(।) उभयदृष्ट
प्रतिपादनार्थत्वात् । यथावस्थितलक्षणमेतत् । तेन च विप्रतिपत्तिरपि निराकृता ।
अत1117 दर्थमेवेति स्यात् न(।) यदर्थश्चायमारम्भः स च शब्दसमुच्िचत इति युक्तं । न हि
स्वयमप्रतीतं परस्य प्रतीतमिति शक्यं वक्तुं ।
२. अनुमाने नागमप्रामाण्यम्
ननु परस्य प्रतीतं तदस्तु । परेण तु प्रतिपन्नमिति परिज्ञानं नोपयोगि । स्वप्रतीति
मात्रकेण परस्य परिसमाप्तार्थत्वात् । कथन्तर्हि स्वयमज्ञातस्योपन्यासः । परप्रसिद्ध्या चेत् ।
परस्य प्रसिद्धमिति तदेतर्ह्यायातं । ततः स्वयमप्रतीतेः कथमेतत् । नहि परस्य प्रतीति
मर्व्वाग्दर्शी प्रत्यक्षयति । अनुमानमपि स्वप्रतीतिमपेक्षते । तेन परप्रतीतमिति निश्चितं
स्वप्रतीतमपि । अथागमात्परेण प्रतिपन्नं स्वयमपि तत् प्रतिपन्नमेव । किन्तु तस्यागमस्य
वादिनाऽनभ्युपगमान्न स्वप्रतिपन्नमिति व्यपदेशः । तेनागमात् (यत्) परेण प्रतिपन्नं न स्वयन्तदपि
साधनमेव । अत्रोच्यते ।
स आगमः प्रमाणमप्रमाणम्वा । प्रमाणञ्चेदुभयसिद्धत्वं । अन्यप्रमाणदृष्टवत् ।
अप्रमाणत्वे न कस्य चिदपि । अभ्युपगमात्परस्यैव सिद्धमिति चित् । न(।) अनुमानविषयेऽ
भ्युपगमेनागमः प्रमाणम् । परीक्षितस्याभ्युपगमात् । प्रत्यक्षानुमानाविषये च प्रमाणं न
तद्विषये । सर्वत्र प्रामाण्ये किमनुमानेन वचनमात्रेणार्थसिद्धेः । तथा हि । अचेतना(ः)
सुखादय उत्पत्तेरनित्यत्वाद्वा रूपादिवदिति सांख्यस्य परप्रसिद्धमभिमतं । न स्वयं सांख्यस्य
उत्पत्तिमत्त्वमनित्त्यत्वम्वा प्रसिद्धं । तत्र च यदि वचनप्रामाण्यात्प्रसिद्धिः सांख्यवचनमपि
प्रमाणमेवेति तत एवाचेतनत्वं बुद्धिसुखादीनां प्रसिद्धं किमनुमानेन । अथानित्त्यत्वादिसाधनं
बौद्धं वचस्तदा तेन बुद्ध्यादेः सचेतनत्वं सिद्धमिति नानुमानेन विपर्ययप्रसिद्धिरिति
व्यर्थकमेवानुमानं ।
अथानुमानस्यापि प्रामाण्यात्तद्विपर्ययस्य सिद्धिस्तथा सति न प्रमाणमित्याह ।
यदैवानुमानेन विपर्ययसाधनारम्भस्तदा तद्वचनमप्रमाणमेव । परीक्षाक्षमत्वात् ।
अभ्युपगमस्य (अपि) शिथिलीभावात् । अभ्युगमकृतप्रमाणभावे हि स आगमस्तस्य शैथिल्ये
तस्य प्रामाण्यमपि तथा भवेत् । ततस्तत्प्रसिद्धहेतुशैथिल्यात्साध्यसिद्धेरपि शैथिल्यं । न खलु
तदधीनसर्व्वात्मकं तन्नानुवर्त्ततेऽतदधीनत्वप्रसङ्गात् । हेतुसिद्धौ प्रमाणं न चेतनत्वस्येति
चेत् । न (।) क्वचिद् व्यभिचारदर्शनेन सर्व्वत्रानाश्वासप्रसङ्गात् ।
अथ प्रमाणसम्वादी स वचनैकदेशस्तदा तर्हि स हेतुरुभयवादिप्रसिद्धिमध्यासीत् ।
अथ प्रमाणप्रसिद्धमपि प्रमाणवृत्तानभिज्ञत्वात्परप्रसिद्धमेव सांख्यस्य ।
तदप्ययुक्तं । एवं हि स सांख्यः स्वकौपीनमेव विवृणुयात् तथापि को दोषः ।
नहि हेतुं साधयितुमशक्त इति साध्यसाधनेपि तस्याशक्तिः । न तावत्तद्धेतोः(स्व)
प्रतिपन्नसाध्यः स्वसिद्धहेतुसद्भावात् । अथासौ निर्मुखयितुं शक्य इति प्रौढवादी ।
तदप्ययुक्तं । सिद्धो हि हेतुः साध्यं साधयितुं किमपरेण (।) तथाहि ।
साध्यवद्धेतुरपि मयैव साधयितव्य इति किमियं राजाज्ञा । नहि सर्व्वाज्ञः प्रतिपा
दयितुं शक्यः । अथ स्वनिश्चयवदन्येषां निश्चयोत्पादनेच्छया साधनमुच्यत इति न्याया
दयुक्तमेतत् ।
तदपि न सम्यक् । तथा हि ।
निश्चयमात्रेण हि परस्यार्थिता न तु तत्रापरेणानुपयोगिना विशेषणेन । न ह्यनुपयोगि
विशेषणं प्रेक्षावताभ्युपगम्यते ।
अत्रोच्यते ।
न मयायम्वञ्चितः संप्रतिपत्तिरेवास्येति स्वयमप्रतियतः कथं प्रतीतिः । अथापि स्यात्
(।) किमनेन प्रतिपत्तिमात्रकं परस्य भवतु तावता चरितार्थं वादिवचनमिति क इवात्र दोषः ।
एवन्तर्हि इदमपि भवेदुत्तरं ।
यं कञ्चित्साधनाभासं प्रपञ्चेनामिधाय मया त्वं प्रतिपादित इति यदा ब्रवीति तदा
तस्य किमुत्तरम्वक्तव्यं । तत्र दूषणं वक्तव्यमिति चेत् । न(।) दूषणेन वादिनो प्रतिपत्तिर्व्वि
धातव्या । स च वादी तदेदमुत्तरं दद्यान्मम प्रतिपत्त्या किम्भवतः प्रयोजनमिति प्रमाप्येवम
प्रतिपत्तिरिति चेत् ब्रूयात् । परस्मै तर्हि दूषणन्न निवेदनीयम् । अप्रतिपत्तिर्ममात्रेत्येतावदेव
वक्तव्यम् । न सोपपत्तिकाऽप्रतिपत्तिरिति दर्शनार्थं दूषणमपि वक्तव्यमेव । एवन्तर्हि ।
यथा ममात्रैवं प्रतिपत्त्यभाव इति सोपपत्तिकं प्रतिवादिना कथयितव्यं । तथा वादि
नापि सोपपत्तिकं साधनमन्यथा यथा ममात्राप्रतिपत्तिस्तथा परस्यापि कदाचिदिति शङ्का
नापगच्छेत् । नहि परार्थवृत्तिः परार्थप्रसिद्धिनिःश्रयमकृत्वा परितोषभागी । न च विजि
गीषुतामात्रेण पण्डिताः प्रवर्त्तन्ते शास्त्राणि वा तदर्थानि तत्त्वावतारार्थत्वात् । तस्मात्
स्वपप्रतिपन्न एवं भवत्यनेन प्रतिपन्नमेतत् अप्रतिपन्नं1118 त्वस्यासत्त्यवचनमेव स्वप्रतिपत्तिमन्तरेण
तु यदि परो नाभ्युपगच्छेत् न प्रतिपादयिता वादी स्यात् । को हि भङ्गमात्मन इच्छेत् ।
स्वप्रतीते तु प्रमाणेनानभ्युपगमेपि प्रतीयतेऽसत्त्यवादिता परस्य ।
अथ स्वप्रतीतेपि परेण प्रतिपन्नमिति कथं प्रतिपत्तिः । यदि नाम प्रतिवादिनो प्रतीतिः
प्राश्निकाः प्रत्येष्यन्ति । प्राश्निकैः प्रतिपन्नं तेन यदि न प्रतीयते तदा तस्य सामग्री नास्ति न
वादिनो दोषः ।
नान्धाय दुग्धाकथने प्रतिपादकताक्षयः । चक्षुर्न्न वादिना देयं केनचित्प्रतिवादिने ।। २१।।
सितं दुग्धमिति कथने यदि न प्रत्येति चक्षुर्वैकल्यात् प्रतिवादिन एवान्धस्य दोषः । कथमत्र
दोषः प्रतिपादयितुः । प्राश्निकैः प्रतिपन्नं भवतु तावता चरितार्थम्वादिवचनम् । अथाप्युच्येत ।
नहि स्वपरितोषमात्रकं परार्थकारिणामभिमतं (।) परव्यामोहव्यावर्त्तनं तु तेषाम
र्थोऽभिमतः । तत्र (प्रतिवादि) प्रतिपादनाया बद्धपरिकरः प्राश्निकमात्रप्रतिपादनेन परितुष्य
तीति क्वास्थाः क्व निपतिताः । क्व प्रतिवादिप्रतिपादनायारम्भः क्वप्राश्निकमात्रप्रतिपादनेन
परिसमाप्तिः । किञ्च ।
अत्रोच्यते ।
करुणावानपि योग्ये विधातुमर्थं विभवति1119 ।
अयोग्ये हि शक्तिर्व्याघातो न करुणायाः । न ह्यसावकारुणिकं इति प्रतीतिः ।
प्राश्निकानान्तु पक्षपातित्वे प्रतिवादितैवेत्यवश्यं प्राश्निकान्तरापेक्षणम् । न च सर्व एव
विप्रवदन्ते प्रयोजनाभावात् परस्परापेक्षतो वा । अथ तेषामपि परस्परं वादिप्रतिवादिता ।
एवं सति सकलव्यवहारोच्छेदः । न च दृश्यते । तस्मा(त्) प्राश्निकप्रतिबोधनमेव वाद
परिसमाप्तिः । इदं पुनरकृपत्वमेव यदग्रहणादिविधानेन पराजयः परेषाम् । तस्मात्स्व
प्रतिपत्तिं प्राश्निकादिभ्यो निवेद्य प्रतिपादनशक्तिरात्मसात्कर्त्तव्या । तस्मादागमसिद्धमेव
न । परसिद्धं ।
ननु सोप्यागमो यदा परेण प्रमाण्येनाभ्युपगतः तदा तत्सिद्धपक्षधर्मतः स्वयमसौ प्रति
पद्यत एव । न बाधितैकदेशस्य तथाभ्युपगमायोगात् । अत एवाह ।
यद्यप्रमाणमनभ्युपगतश्च परेण तदा कस्य क आगमः । यद्यनभ्युप(ग) मेपि तदाग
मवत्ता सां ख्यस्यापीत्युभयसिद्धिरेव । अथानभ्युपगमान्नैवं न कस्यचिदपि तदागमवत्तेति
न कस्यचित्सिद्धं । आगमोप्यसौ नैव भवति प्रमाणेन बाधनादागमाभासः स भवेत् ।
प्रमाणाभासतः प्रतिपत्तौ व्यामूढ एवासाविति न व्यामोहनिवर्तनं परस्य तेनेति न वादी
भवेत् । प्रमाणाभासतामजानानः परो न व्यामूढः कथं । न च न जानाति । तथाहि ।
यदैवासौ तद्विरुद्धमभ्यूपगच्छति तदैव तदागमस्यासत्त्यतामपि प्रतिबुध्यते तन्नान्तरी
यकत्वाद्विरुद्धाभ्युपगमस्य । मूढत्वाददोष इति चेत् । न मूढतायामप्रतिपादकत्वमित्युक्तं ।
व्यामोहमाधायासावपसारित इति सिद्धं वादिनः कार्यं । न । विषादिदानस्यापि प्रसङ्गात् ।
वाग्मितया व्यामोहनं वादित्वमिति चेत् । न (।) परिशुद्धवस्तु परिस्फुटप्रत्यायनस्य
वाग्मित्वात् । तथा हि ।
जिगीषुणापसारयितव्य एव यथाकथञ्चित्पर इति चेत् । न (।) यथाकथञ्चिदप
सारणेनोपहासास्पदताप्राप्तेः । यदा तर्हि परिशुद्धवस्तुवचनेनापि1120
परव्यामोहस्तथा
कथम्वादितोदिता । प्राश्निकप्रतिपादनेन पर्याप्तत्वात् (।) नान्धस्यादर्शने सवितुरप्रकाश
कता । तथाहि ।
यदि परिस्फुटवचनादपि न प्रत्येपि कास्य प्रतिवादित्वे श्रद्धा । सिद्धमात्रिकापाठ
कोपाध्यायशालाप्रवेश एव तस्य1121
युक्तः । अथापि स्यान्न विदग्धेष्वेवंभूत1122
साधनोपन्यासः ।
अविदग्धप्रतिवादिनं प्रत्युपन्यासात् । यतः सोपि दूषणमसम्बद्धमेव दद्यात् । तथा हि ।
मूल्ये मूल्ये तथाभूत एव पुटिकाबन्धः । तदिदं तौतोपाख्यानमायातं । ममानेन भिक्षा
पात्रे मद्यपानं कृतं मया त्वस्य1123
मूत्रपानं कर्तव्यम् । अपि च ।
नहि स्वयं साध्यं परप्रसिद्धसाधनादवगन्तं युक्तं । ततः स्वसिद्धेन साधनेनास्य तदर्थ
साधनकारिणा भाव्यं1124 । अस्त्येव तदिति चेत् । एवं तर्हि ।
तदेव स्वप्रसिद्धिनिमित्तं साधनं किन्नोपन्यस्तम् । किमपरेणाकाशचर्वणप्रयासेन ।
नहि परिस्फुटस्वरूपे सम्भवति हेतौ कष्टकल्पनाप्रयासः साधीयान् । आगमात् सांख्यस्य
तत्सिद्धमिति न स्वप्रतीतसाधनोपन्यासः ।
ननु स आगमः परस्यापि साधक एव । न । परं प्रत्यप्रमाणत्वात् । अप्रमाणात्
स्वयमपि कथं प्रतीतिः तं प्रति प्रमाणत्वात् । यदि प्रमाणं किन्न सर्व्वस्य । अभ्युपगमा-
474
भावात् । सांख्यस्यापि कथमस्मादभ्युपगमः । तेन परीक्षितत्वात्1126 । यद्येवं परस्यापि
स्यात् । यतः ।
यथा युक्त्या परीक्षित आगमः सांख्यस्य प्रमाणतयाभिमतः । बौद्धस्यापि किमसौ न
युक्तिः । तेनानभ्युपगमादिति चेत् । एवन्तर्हि अनित्यत्त्वादचेतना इत्यपि युक्तिं कथमभ्युप
गच्छेत् । न्यायप्राप्तमवश्यमभ्युपगन्तव्यमिति समानं शास्त्रोपगमेपि । तथा चोभयसिद्धे
सम्भवति साधके1128 कः साधनान्तरोपन्यासप्रयासमात्मनो विदधीत । योगिगम्योयमर्थः तेन
परः साधनेन येन केन चि1129त्प्रत्याय्यः ।
ननु योगिगम्यमेतदिति परोपि स्वसाध्ये वक्तुं समर्थ एव । न च तद्योगिनि न
प्रमाणमिति शक्यं । तथा हि ।
नहि योगी कश्चित् स्वभावसिद्ध आस्ते प्रमाणाभावात् । तथा च प्रत्यपादि प्राक् ।
अनित्त्येप्यप्रमाणतेति । तस्मात् प्राकृतस्य सतः पश्चादुपायानुष्ठानाद् योगिता न स्वस्ति
साधनेन । तथा च । यैः साधनैः तत्साधनोपायप्रतिपत्तिस्तदपायानुष्ठानादक्षसम्भवः
तदर्थप्रतिपत्तिरूपं प्रत्यक्षमेव (उक्त) अथवा । तादृक् प्रतिपत्तिसाधनमुक्तं । तानि तत्साध
नान्यर्थस्योपायभूतस्य तदक्षसाधनस्य शक्तेः । सामर्थ्यस्य ज्ञाने समर्थान्येव । तद्योगि
प्रतिपन्नार्थोपगमे ततः किमसत्साधनोपन्यासेन । यथा सौगतैर्योगिसाधनमुक्तं तथा परैरपि
वक्तुं युक्तं । अथ योगिसम्भवद्वारेणापि न तत्साधनमुपादातुं शक्यं । तदाऽवचनमेवात्र
प्राप्तं । यतः ।
योह्यर्थः साधनेनानुगन्तुं शक्यः सामान्येनैव सामान्यविशेषेण वा । तत्र साध्य
साधनचिन्ता क्रियेत । तत्र सामान्येन चिन्ता । योगी तावत्सम्भवत्यस्माकमिति । तेन
दृष्टोयमर्थ इतीदमपि (सं)भवति । अथवायमेवार्थः सम्भवतीति विशेषेण । ये तु पुनः
सर्व्वथाऽननुगमेन सामान्येनापि विषयीकर्तुमशक्यास्तथाभूतेषु वस्तुषु न काचित्साध्यसाधना
धिकरणा चिन्ता । आस्तान्तावत्प्रमाणचिन्ता । आगमैकसमधिगम्योप्यसौ नार्थः ततस्तत्र
प्रमाणमवतारयन् प्रमाणविषयानभिज्ञतामेवात्मनो दुरात्मा प्रकाशयति ।
अथ यावदसौ न व्युत्पत्तिमान् तावत्साधनाभासतां न जानाति । ततस्तदभिप्रायात्सा
धनमेव । यदा तु साधनमेतन्न भवतीति प्रतिबुध्यते तदा साधनन्न भविष्यतीति क इवात्र दोषः ।
तदप्यसद्यतः ।
475पुरुषाभिप्रायमात्रं हि हेतावप्यहेतुतान्दद्यादहेतावपि हेतुतामिति हेतुतदाभासव्यवस्था
न वास्तवी भवेत् । भवन्ती वा पुंसामभिप्रायमपहस्तयति । तस्मान्न परोपगतं साधनं ।
अपि चापरीक्षितादागमाज्ज्ञानमात्रमेवोत्पत्तिमन्न वस्तुनिश्चयः । न च ज्ञानमात्राद्वस्तु
सिध्यति । यतः ।
सन्नेवार्थोन्यस्य साधको नासन् । असतः सिद्धिरित्यहेतुकता । असति ज्ञानमस्ति
ततः सिद्धिरिति चेत् । तदसत्त्वे तस्य तज्ज्ञानमिति कुतः । ज्ञानमेव साक्षात्साधकमिति
चेत् । न (।) प्रत्यक्षत्वप्रसङ्गात् । अतो नासति ज्ञानात्सिद्धिः ।
नन्वस्ति तावज्ज्ञानमात्रादपि गतिर्यथा कथञ्चिदारोपितार्थात् । न । सवस्तुकस्या
रोपस्य वस्तुद्वारेणैव गतिः । यदि तु गतिरप्यसौ वस्तुभूतं लिङ्गम्विना तदा गत्याभास
एवासौ । हेत्वाभासादुदयात् ।
अपि च । स्वार्थानुमानपरिच्छेदे निर्ण्णीतमेतत् । लिङ्गत्रयमेवार्थस्य साधकं
नापरं । ततश्च ।
यदि साध्यस्वभावं वस्तुतः प्रसिद्धं प्रमाणप्रसिद्धत्वात् तदा किमात्मनः सांख्यस्या
प्रसिद्धं । प्रमाप्रसिद्धिरुभयस्यापि प्रमाणस्य साधारणत्वात् । अथ प्रमाणन्नास्ति तदा ।
यथैव हि सांख्यः प्रतिपादयत्यनित्यत्वादिको हेतुस्तव सिद्धस्ततः प्रतिपद्यस्वेति ।
तथा परोपि तव प्रसिद्धमेतत्प्रमाणात्सिद्धादेव हेतोर्यथा तव प्रतिपत्तिस्तथान्यस्यापि प्रेक्षावतः ।
अन्यथा सांख्यस्य प्रेक्षापूर्वकारितैव न स्यात् । नह्यहमेवैको विदग्धः परस्तु न तथेति
सचेतनप्रतीतिः । तस्मान्न परोपगममात्रेण साधनप्रयोगो विद्वत्सु युक्तः । कथन्तर्हि
पूर्व्वाचार्यैर्भवता च परप्रसिद्धसाधनैः साध्यसिद्धिः समीहिता ।
तदसत् । यतः ।
प्रसङ्ग साधनं तत् (।) न तु ततः साध्यनिश्चयः । नहि परोपगति मात्रकात्साध्य
निश्चयः । किमर्थस्तर्हि तदेकस्य प्रसक्तस्याभावेऽन्या भावसाधनार्थं । नहि साध्याभावे
साधनसम्भवः । इदञ्च तत्प्रसङ्गसाधनं । देशकालावस्थाविशेषनियतैक (व्यक्ति)संसर्गव्य
वच्छिन्नस्वभावान्तरविरहादनेकवृत्तेरेकस्य न देशादिविशेषवताऽन्येन योगः । तथाऽभेदात्सर्व्व
रागोऽवयवरागेपीत्यादि । यतस्तथाभूतस्वभावस्य विरोधांद्भिन्नदेशादियोगेन ।
(१) कालनिरासः—
नन्वेकमपि व्यापित्वादनेकदेशादियोगि यदि को विरोधः । न (।) अनेककालयोगस्य
द्रष्टुमशक्यत्वात् । नहि पूर्व्वापरकालव्यापिता प्रत्यक्षत उपलभ्यते । पूर्व्वापरभावस्य
कल्पनाविषयत्वात् । यस्यातीतं दर्शनं स पूर्व्वकालो यस्यानागतं स उत्तरकालः । न च
तत्कालदृश्यपदार्थव्यतिरेकेणापरः कालः ।
ननु कालाभावात्कथं पूर्व्वापरव्यवहारः । तथा दिगभावात् । कालेपि सति कथं
पूर्व्वापरव्यवहारः । नहि कालसङ्गत इत्येव पूर्व्वादिव्यवहारविषयो वर्त्तमानेपि प्रसङ्गात् ।
कालभेदादिति चेत् । तथाहि ।
पूर्वकालभावी पूर्व्वः । तथा परकालभावी पर इत्यादि । काल एव कथं पूर्व्व इति
चेत् । स्वरूपत एव कालस्य पूर्व्वादित्वं । तथा दिशः ।
तदेतदसत्त्यं । यतः ।
सहचारिणां हि रागादीनां पूर्व्वादित्वाद्व्यापिनोरपि दिक्कालयोस्तथात्वमिति का
व्याहतिः । न खलु सहचारिणा कश्चिन्न व्यपदिश्यते । मञ्चाः क्रोशन्तीति यथा । तथा
त्रापि गतः स काल इति व्यपदेशः । तदत्रेतरेतराश्रयदोषस्त्वरितं भवन्तमनुधावति ।
न यावत्कालस्य पूर्व्वादित्वं न तावत्सहचारिणामित्यप्रसिद्धिः समीहितस्य । अथ
द्वयोरपि समानकालापूर्व्वादिता (।) तथा सति समानकालयोः1134 परस्परव्यापाराप्रतिपत्तेर्न्न परस्य
रकृतत्वमिति स्वहेतुसमुत्थः स स्वभाव इति पदार्थानामेव स पूर्व्वादिताभाव इति व्यर्थिका
कालपरिकल्पना । तथाहि । यदतीतं वस्तु तत्पूर्व्वमुच्यते । यदनागतं तत्परं यत्सत्तद्वर्त्तमानं ।
ननु (च) कालाभावादेतदेव कथं । कालसद्भावेपि कथमित्येतदपि प्रतिपादितमेवेति
नोत्तरं । किञ्च ।
पूर्व्वापरमध्यभावो हि सहसद्वयवस्थया । सा च कारणभावाभावाभ्यां । तदपि
कारणं स्वकारणादेव भावाभाववदिति नादृष्टस्य कल्पना युक्तिमती ।
अथ चिरक्षिप्रादिरूपपरिच्छेदहेतुरनादिनिधनः काल इष्यते । तदपि यत्किञ्चित् ।
यतः ।
यद्येता बुद्ध्यः कालस्वरूपोग्राहिण्यस्तदा स एवानादिनिधनतया व्यापितया च
गृह्यतामन्येन चिरादित्वेन तथाभूतस्य ग्रहणासम्भवात् ।
चिरक्षिप्रादयो हि कालरूपानुगमनेन1135 प्रतीयन्ते । न पदार्थरूपानुप्रवेशेनेति व्यापि
कालव्यवस्थितिः । तथाहि । योयेनानुगतः प्रतीयते स तद्योगी तद्यथा शावलेयः प्रतीयमानो
गोरूपेण तद्योगीति कालस्यापि तथा व्यवस्था । एवं तर्हि (।)
कालत्वं नाम सामान्यमिति कालो न सिध्यति ।
द्रव्यपदार्थमध्ये हि काल इष्यते न सामान्यं तस्य पदार्थान्तरत्वात् । न च चिरादि
रूपव्यतिरिक्तो वेद्यते कालः । काल इति (तु) संज्ञामात्रं तेषामेव लाघवार्थं केनचिन्निवेशितं ।
चिरं करोतीति हि क्रियासामानाधिकरण्येन प्रतीतेः क्रियारूपानुपातिन एव तत्त्व
तश्चिरादयः ।
(२) क्रियानिरासः—
न च क्रियापि कर्मकर्त्तृपदार्थ व्यतिरिक्ता । तथाहि ।
नहि कर्मकरः करोति कटमिति कटकर्मकरविशेषत्यतिरिक्ता क्रिथोपलभ्यते
प्रत्यक्षतः । तदभावादनुमानतोपीत्यसत्त्वमेव क्रियायाः । तथाहि ।
अन्वयव्यतिरेकाभ्यां हि भेदमुपरचय्यानादिवासनासनाथीकृतसन्तानशिथिलीकृत
पदार्थतत्त्वाभिनिवेशो हि पृथग्जन/?/ जानाति भेदविपर्ययेपि भेदमिति विपर्यासमात्रकमेवेदं
क्रियाभेदाध्यवसानं । यतः ।
एतच्च प्रागेव प्रतिपादितं । न चान्वयव्यतिरेकयोः प्रत्यक्षगम्यतान्यत्रानादिवासना
जनितमानसप्रत्ययगम्यत्वात्1137 ।
अथ क्रिया नामेयमसत्त्वभूता तेन न प्रत्यक्षत उपलभ्यते । ननु यदि नामासत्त्वभूता
तथापि लिङ्गादियोगो मा भूत् । पदार्थव्यतिरिक्तत्वे तु प्रत्यक्षत उपलम्भको विरोधः ।
ततः कल्पितक्रियाविशेष एव चिरक्षिप्रादयो न तात्त्विकाः ।
कथमेवमित्याद्यर्थवत् । तथा हि ।
यदि यो य एव विकल्प उदयवान् तदर्थरूपः स एव पदार्थः कल्पनाविषयः पारमार्थिकः
तदैवमादयोपि पदार्थाः स्युः चेत्क्वान्तर्भाव्यंताम् । नहि कालादयस्तन्निबन्धनमिष्यन्ते ।
नापि प्रतीयन्ते । अथ ते क्रियाविशेषा एव तथा सति चिरादयोपीति व्यर्थकः कालादिकल्पना
प्रयासः ।
तस्मात्पूर्व्वापरकालभूतपदार्थग्रहणाभावात्प्रत्यक्षेणाग्रहणमेव व्यापिनः ।
(३) सामान्यनिरासः—
अथ कालव्याप्तेरग्रहणेपि देशव्याप्तिग्रहणमविरोधीति मतिः । न (।) तत्रापि तदा
धारव्यतिरेकेण सामान्यादेरनुपलम्भात् । तथाभूतस्वभावस्य विरोधाद्भिन्नदेशादियोगेन ।
न हि तत्रानुप्रविष्टमन्यत्रापि तदा1138 भवति भेदाभावेन सर्व्वानुप्रवेश एकपिण्डता स्यात् । न
हि तदाधाराननुप्रवेशे तदनुप्रविष्टानुप्रवेशः ।
अथ समानमेतद् द्वयमिति धीरुदेति ततः सामान्यं भिन्नाभिन्नं । अत्रोच्यते ।
अनुगताकारा धीरुदयमासादयतीति कोस्य भाषितस्यार्थः । नहि वचनमविवेचितार्थमेव
यथाकथञ्चित् प्रतीयमानार्थमर्थस्य सत्त्यतां विदधाति । विवेचनञ्च समानकारा धीरिति
शब्दस्यार्थस्य प्रकारद्वित्वेन । कदाचित् स्वरूपसमानत्वात्समानाकारार्थाकारसमानत्वाद्वा
प्रकारान्तरासम्भवात् । स्वरूपसमानाकारत्वे स्वरूपमेव तद्भवेत् नार्थः समानाकारयोगीति
सामान्यमर्थः । स च बुद्ध्याकारः स्वलक्षणमेव न तत् सामान्यं । बुद्ध्यन्तरस्य तदभावा
दर्थगतत्वाभावाच्च ।
अथार्थाकार एव समान इति तदाकारा धीरिति वचः । तदप्यसत्त्यं । आकारद्वय
प्रतिभासनप्रसङ्गात् । प्रतिभासत एव तदाकारद्वयमिति चेत् । न (।) यतः ।
ततः समानाकारा धीरिति व्याकुलेयं धीरधियः । अतो न सामान्यं ।
अथ सास्नादिमत्त्वेन समानाकारता तदव्यतिरिक्तलक्षणं सामान्यं देशकालविनियत
व्यक्त्यन्तरेण युक्तमिति न दोषः । असदेतत् । यतः ।
एकत्वादाकृतेरेकाकृतिग्रहणेपि सर्व्वाकृतिमदर्थपरिग्रहप्रसङ्गः । अथ गृह्यत एवाकृति
राकृतिमतस्तु ग्रहणासम्भवः तद्भेदात् । नहि भिन्नं ग्रहीतुं शक्यमन्यत्तु तादात्म्यादेव गृह्यते ।
तदप्यसत् ।
तदात्मा नामा1141 कृत्यन्तरेणाकृत्यन्तरस्य तादात्म्यं । तदाकृत्यन्तरमाकृतिमता तदात्मक
मिति तदात्मकाकृतिमद्ग्रहणं । यदि1142 चाकृतिमतस्तदभिन्नस्य न ग्रहणं आकृत्यन्तरग्रहणेपि
तदन्तरग्रहणन्न भवेत् न ह्यभेदो ग्रहणनिबन्धनमाकृतिमदग्रहणात् ।
अथ तद्भेदादाकृत्यन्तरमेव तन्न भवति । एवन्तर्ह्याकृत्यभेदादाकृतिमदन्तरमपि न1143 भवेत् ।
एतेना भाष्यकारवचनं निरस्तं । न ह्येकत्रोत्सन्ना सर्व्वत्रोत्सन्ना भवति । व्यक्त्यन्त
रन्नो1144 पलभ्यते । न ह्याकृत्यभेदात्तदभिन्नं व्यक्त्यन्तरं भवत्याकृत्यन्तरवदेव ।
अथाकृतिमदन्तरमेव भवति कार्ष्ण्यादिभेदात् । नाकृत्यन्तरं (।) तदसत् ।
यदि कृष्णत्वादिकमन्यदेवाकृतिमतः कथन्तद्भेदाद्भेदः । न ह्यन्यद्भिन्नमन्यद्भिनत्ति ।
कारणत्वेन भिनत्येवं चेत् । न । कारणत्वाभावात् । नहि गुणा एव द्रव्यस्य कारणं
तदेकयोगक्षेमतयोदयात् । कारणत्वे वा तस्मादपरो भिन्न उदेति तस्याप्यपरेण संसर्गिणा
भेदकेन भवितव्यं । न च कारणमेव संसर्गि । अन्यथाऽग्निरपि धूमस्य संसर्गी भवेत् ।
नैवमदृष्टेरिति चेत् । संसर्गिणोपि तर्हि कारणत्वं न दृष्टमिति न कारणत्वं कल्पनीयं ।
आकृतिमतो (ऽ) भिन्नं कार्ष्ण्यादिकं ततो भिन्नादभिन्नं यत्तदपि भिन्नमित्याकृतिमतो
भेदः । आकृतेरपि तर्हि तदभेदाद्भेदप्रसङ्गः । आकृतिरपि नाकृतिमतो भिद्यते । ततश्च
भिन्नादभिन्ना भिन्ना भवत्याकृतिमदन्तरादाकृतेश्च । आकृतिरभिन्नैव चेत् । न ह्याकृतेर्ग्गु
णभूताया गुणेन कृष्णत्वादिना संसर्गः । गुणानां परस्परमसमवायात् । गुणवति समवायस्तु
गुणानामिति समयः । न युक्तमेतत् ।
तत्रापि दोषस्य दृशा पुनः पूर्व्वसमाश्रयात्
तस्मान्न सामान्यमाकृति लक्षणमपि ।
एतेन प्रधानलक्षणमपि प्रत्युक्तं । तस्याप्यन्वये सकलतदवस्थाग्रहात् सर्व्वस्य
सर्व्वदर्शित्वप्रसङ्गः । तदवस्थानां प्रधानरूपादतत्त्वान्तरत्वात् ।
अथ परमार्थतः सर्व्वमेव प्रतिभासितं भ्रान्त्या त्वप्रतिभास इति विभ्रमः । तदप्ययुक्तं ।
यतः ।
इदमत्र विरुद्धं । यदुच्यते ।
यतः ।
तस्मात्प्रधानलक्षणमपि न सामान्यं ।
अथापि स्याद्यद्यपि न सामान्यं कालभेदभिन्नव्यक्तिव्यापि गृह्यते । पूर्व्वापरभावे
प्रत्यक्षस्या (प्र)वृत्तेः । समानकालभिन्नदेशव्यक्तिव्यापि तु गृह्यत एव ।
तदप्यसत् । यस्मात् ।
श्वेतच्छागमालभेतेति पूर्व्वदृष्टालम्भनस्य तदेवेदमिति जात्यन्वयादालम्बनार्थं तद्व्यव
हारार्थिभिः सामान्यमिष्यते (।) युगपद् दृष्टयोश्च न तद्व्यवहारोपयोगिता । द्वयोरपि
पूर्व्वनुसारेण तज्जातितया प्रतीतेः । न च पूर्व्वापरयोरपि पूर्व्वोत्तरव्यक्तिस्पष्टेतराकारव्यति
रेकादपरं सामान्यमीक्ष्यते । तथ समानकालयोरपि स्पष्टद्वयाकारात् । कथन्तर्हि समाना
वेताविति प्रत्ययः । अयं प्रत्ययः पूर्व्वोत्तरकालभाविनोरपि समानः । तथा हि ।
तत्र नास्ति समाना (? समा)कारः प्रत्यक्षेण समीक्षितः ।
समानकालव्यक्तीनामपि नेक्षणमक्षतः ।
साम (ा) न्यस्येति वाक्यशेषः । न समानाकारता पूर्व्वापरव्यक्तिवत्समानकालानामपि
निरूप्यते व्यतिरेकिणी । प्रत्यय एवायं केवलः प्रतीयमानस्यादृष्टेः । नहि प्रतीयमानाकार
विनाकृतः प्रत्ययः प्रत्येति किञ्चित् ।
प्रत्ययः समानाकारः स निरालम्बनोदयः (।)
यः समानाकारः स सकलो1146 निरालम्बनः प्रत्ययः । तत्र ग्राह्याप्रतिभासात् । तद्यथा
भिन्नकालव्यक्तिसामान्यालम्बनाभिमतः अप्रतिभासमानसामान्याकारश्च समानकालव्यक्ति
सामान्यविषयोपि प्रत्यय इति स्वभावहेतुः ।
अथ स प्रत्ययः समानतामन्तरेण सर्व्वस्य विलक्षणत्वात् कथमुदयी । तदपि यत्किञ्चित् ।
481नाहेतुको नियम इति हेतुरेव परिकल्पनामर्हति1147 । सामान्यस्य तु किमायातं । अथवा
तदन्यव्यावृत्तिमात्रमेवास्तु सामान्यमिति न क्षतिः । सा चारूपेति प्रतिपादितं । अपि च ।
व्यवहारमात्रमविचारितततत्त्वयापि जात्या सम्पद्यत एव किमपरः परत्र1148 प्रयास
आस्थीयते ।
धर्मादिसाधनत्वं हि जातेः स्वरूपेण प्रसिद्धादपि1149 न विवेकेन गम्यते जात्यन्तरा
दभेदात् । न च तथाऽप्रसिद्धा सती कार्योपयोगिनीति व्यर्थ एव जातिग्रहः ।
अथवा तथाभूतप्रत्ययविशेषोपलक्षितव्यक्तीनामेव धर्मादिसाधनत्वमिति तदेव सामान्यं
अथ यदि सामान्यं नित्त्यं व्यापि न भवेत्समानाकार एव व्यापी न भवेत् प्रत्ययः ।
तदयुक्तं ।
न च समानाकारप्रमेयानुभवः । तथा च प्राक् प्रतिपादितं । तस्मात् प्रत्यक्षतोऽ
ननुभवादभाव एव सामान्यस्य । दृश्यमानस्यापि रूपस्य तदपरसाधारणत्वेनाननुभवात्
(अ) सामान्यं ।
नन्वेकव्यक्तिनिष्ठत्वात्सामान्यस्य धर्मिणोऽभावाद् भवतो धर्मिणोऽसिद्धत्वादाश्रया
सिद्धता ।
न सदेतत् ।
यद्येवमेकव्यक्तिनिष्टत्वं तदा न देशविशेषवतान्येन योगः । न चोभयमिति स्यात् ।
ननु यद्यन्येनयोग एकव्यक्तिनिष्ठत्वं न स्यात् सिद्धसाव्यता नैकस्यां व्यक्तौ स्थितिः
सर्व्वव्यक्तिव्यापित्वात् । नैकस्यामेव व्यक्तौ स्थितं सामान्यमिष्यते । नैष दोषः ।
यदि व्यापि सामान्यं व्यापितयैवाध्यक्षणे प्रमाणेन गृह्येत । न खलु विपरीतग्रहणं
प्रमाणम् । यदि च व्यापिता प्रतीयते सकलव्यक्तिप्रतीतिरेव भवेत् । व्याप्यग्रहणे व्यापकताया
अप्रतीतेः । न च प्रतीयते ततो न तथारूपं । तेन सामान्यमेव नास्तीत्युभयधर्मनिवृत्तिः ।
यद्ययं स्थितपक्षः स्याद्भवेद्धर्म्यसिद्धिदोषः परस्परविरोधप्रकटनपरमेवैतत् । न वयमेव
म्भूतमर्थं प्रतिपत्तुं क्षमाः । एवम्भूतस्यापरस्यादर्शनात् । अनुमानञ्च न दृष्टान्तम्वि
नावतरति ।
अथ सामान्यमन्यथानुपपत्त्या प्रतीयमानं सकलापरपदार्थविलक्षणमेव न तस्यान्य-
482धर्मविरोधेन विरोध उद्भावनीयः । न ह्यन्यधर्मोन्यस्य युक्तः । नहि मूर्त्तपदार्थधर्मा
अमूर्त्ते सामान्ये योजनीयाः । नैतदस्ति । यतः ।
येपि खल्वमूर्त्तिसङ्गता अन्त्या विशेषास्तेपि प्रतिनियताधिष्ठाना न व्यापिनः । तथा
सामान्यमपि नामूर्त्तदव्यापितामतिक्रामेत् ।
अथ सविशेषोऽमूर्त्तत्वेप्यव्यापी तत्त्वादेव । न तर्हि मूर्त्तेतरस्वभावकृतोयं विभागः ।
सामान्यविशेषभाव एव तर्हि व्यापितेतरत्वे निबन्धनम्भवतु को दोष इति चेत् । नन्वसिद्धिरेव ।
ननु सामान्यं सिद्धमेव त्वयापि धर्मितयोपादानात् । नैतदस्ति । यतः ।
गृह्यत इति वाक्यशेषः (।) स्वरूपेण हि गृह्यमाणं सामान्यं व्यपितयेतरथा वा गृह्येत ।
अथ व्यक्तयो न गृह्यन्ते । तथा तर्हि सामान्यमेकव्यक्तिसमन्वितं गृह्यमाणं कथं
व्यापितया गृहीतं । एकव्यक्तिविशेषणत्वे तद्व्यक्तिविशेषणं विशेषवदसामान्यं भवेत् ।
अथ पर्यायान्तरेण व्यक्त्यन्तरविशेषणताग्रहणमपि । तथा सति तदेवेदं सामान्यमिति कथं
गतिः । तदेवेदमिति प्रतीतिर्न्नाध्यक्षेति विचारितं । तस्मादसिद्धमेव सामान्यरूपत्वं कथं
व्यापितासाधनं । तस्मात् ।
नामूर्त्तत्वान्न सामान्याद्व्यापितासाधनं क्वचित् ।
यदि सामान्यमसिद्धं कथम्भवता सामान्यविषयव्यापित्वं साध्यते । धर्मित्वेन
सामान्यस्योपादाने तत्र धर्मस्यं कस्यचित्साधनं नान्यथा ।
न सदेतत् । यतः । उक्तमेतत् । प्रसङ्गसाधनमेतत् । न त्वयं मौलो हेतुः ।
यदि त्वया सामान्यं व्याप्यभ्युपगम्यते प्रमाणेन तत्प्रतिपत्तव्यं । प्रत्यक्षस्य तदादिना1151 प्रमाण
निबन्धनत्वादभ्युपगमस्य । देशकालावच्छिन्नैकव्यक्तिसंसर्गावच्छिन्नस्वभावान्तरविरहतया
च प्रतीयमानं कथं व्यापि तदिति अभ्युपगन्तुं युक्तं । प्रत्यक्षेण चानेकवस्तुग्रहणेन तद्व्य
तिरिक्तं अन्यथा वा प्रतीयत इति नाप्रतीयमानाभ्युपगमो युक्तः । आकृतिरेव सामान्यमुपल
भ्यमानेति चेत् । न (।) आकृतेर्व्यापित्वाभावात् । व्यापित्वेनोपलम्भे सकलव्यक्त्युपलम्भः
स्यात् । तथा च देशकालभिन्नसकलव्यक्तिप्रतीतिप्रसङ्गः । एकव्यक्तिनिष्ठत्वे चाकृतेर (प्य)
यापिता साधने धर्म्यसिद्धिरपि परिहृतैव । कथन्तर्हि प्रसङ्गसाधनमेतत् । परेणाकृतिरेवसामा
न्यमभ्युपगतं अन्येनान्यदिति प्रसङ्ग(ा)साधनता ।
अथवा व्यापित्वात् नैकव्यक्तिनिष्ठतयोपलम्भः स्यादिति प्रसङ्गार्थः । विपर्यस्तु
मौलो हेतुः । प्रसङ्गस्तु मौलस्तु हेतोर्व्याप्तिसाधनार्थ एव । अन्ये तु विरहादिति मौलो हेतुः ।
प्रसङ्गस्तन्नीयमान एव । मौलनिष्ठताञ्च दर्शयितुमेवमुपन्यासः । विरहादिति च हेतुः
प्रसज्य प्रतिषेधरूपः । स चाभावेपि सामान्यस्य सिद्ध एव । न ह्यभावे हेतौ वस्तुरूपो
धर्म्यभ्युपगम्यते ।
तदभावाच्च तन्नेति वचना (द) पि तद्गतेः ।
तदसदेव ।
विरहमात्रकस्य हेतुत्वे तस्य केनचिदसम्बन्धात्कथं साध्यसाधनं । अथ व्यक्त्यन्तर
संसर्ग्गविरहस्तदापि कस्यासाविति निरूप्यमेव । तस्मान्नियमेन परोक्तेन सामान्येन बुद्धिस्थेन
भवितव्यम् । न च पक्षधर्मोपसंहारमन्तरेण हेतुः समर्थः साध्यसाधनाय ।
अथान्यापोहलक्षणं सामान्यं सिद्धं सौगतानां तथासति परस्येष्टमेव । पराभ्युप
गतस्य तेनापि दूषयितुमभिप्रेतत्वात् । अपि चान्यापोहलक्षणस्य सामान्यस्य व्यापितेष्यत
एव । तथाहि । व्यावृत्त्यापि समानता ।
अथ सामान्यस्याविद्यमानस्यापि विरहलक्षणो हेतुरस्त्येवेति ।
तदप्यसत् । अविद्यमानस्य हेतुत्वायोगात् । अविद्यमाने साध्ये योग एवेति चेत् ।
न । प्रतिबन्धे सत्येकाभावोन्याभावं गमयेत् । प्रतिबन्धश्चान्वयेन गृह्यते । अतस्तत्साम
र्थ्याद्यत्र व्यापको नास्ति तत्र व्याप्याभाव इति विपक्षेऽभावमात्रमादर्श्यते । न स मौलो हेतुः ।
अथ व्यापकतानुपलब्धिरपि प्रतिनियतवस्तुविषयाभावसाधनायोपादीयते । तथा सति
नात्र शिंशपेति न्यायादन्येन धर्मिणा भवितव्यं प्रमाणप्रसिद्धेन । अथात्रापि भावाभावसाधारणं
धर्मींत्युपादीयते ।
तदप्ययुक्तं । भावाभावसाधारणस्यापरस्याभावात् । विकल्पप्रतिभास एवोभयधर्मः
साधारण इति चेत् । एवं तर्हि (।)
तस्मिन्भावानुपादाने साध्येऽस्यानुपलम्भनं ।
अन्य एव हेतुरिति यत्किञ्चिदेतत् । तस्मान्नात्र मौलो हेतुः । सामान्यस्य धर्मिणः
सिद्धेरभावात् ।
रूपादय एव सामान्यमिति पक्षे नेदं प्रसङ्गसाधनं । प्रत्यक्षेण तेषामव्यापिताप्रतीतेः ।
तस्मादुभयवादिसिद्धि एव हेतुर्न्न त्वन्यतरस्य प्रतिवादिन एव ।
३. अर्थग्रहणफलम्
ननु य उभयसिद्धः सोऽर्थ एव किमर्थमर्थग्रहणं । नैतदस्ति । यतः ।
तत उभयसिद्धत्वेपि पक्षसपक्षान्यतरत्वादेरर्थत्वाभावादहेतुत्वं यतः ।
यदर्थग्रहणं स्वदृष्टग्रहणविशेष्यं तच्छद्बकल्पनामात्रघटितात्मनामहेतुताप्रतिपादनार्थ ।
अर्थस्यैव गमकत्वसम्भवात्1152 ।
नन्वसिद्धविरुद्धानैकान्तिकलक्षण एव हेतुरप्रतिन्नार्थप्रतिपादने1153 । यदि चास्य
त्रैरुप्यमस्ति कथमहेतुरथ त्रैरूप्याभावस्तदा स्वार्थानुमानलक्षणादेव निवृत्तिः किमर्थग्रहणेन ।
त्रिरूपलिङ्गाख्यानं हि परार्थानुमानं । न । स्वार्थानुमानेपि कल्पनारोपितं त्रैरूप्यं प्राप्तमेव
हेतुलक्षणम् । कथन्ततो निवृत्तिः । नात्र तर्हि तदर्थग्रहणं कर्त्तव्यं1154 । स्वार्थानुमान एव
कर्त्तव्यताप्राप्तेः ।
अत्रोच्यते1155 । स्वनिश्चयवदन्येषामिति वचनादत्र कृतं तत्रामि भविष्यतीत्यदोषः । तत्रैव
कस्मान्नेति चेत् । तत्र वा क्रियतामात्रवेति को विरोधः । अस्ति चात्र प्रयोजनं । तथाहि (।)
किञ्च । परार्थ एव यत्न परः कार्य इति चात्रैव महान् यत्नो विधेयो महात्मनेत्यर्थ
ग्रहणमत्र । परमार्थतस्तु कल्पनारोपितो हेतुरनैकान्तिक एव । तथाहि ।
न खलु कल्पनासमारोपितस्य साध्यवस्तुप्रतिबन्धः । वासनामात्रप्रवर्त्तितत्वात् ।
यद्येवमप्रतिबन्धादेव न हेतुः । न । प्रतिबन्धस्यात एवाक्षेपात् । नहि साक्षात्प्रतिबन्ध
प्रतिपादनमस्ति । ततोर्थग्रहणं । न हि पक्षसपक्षान्तरत्वं नित्त्यानित्त्ययोरेकत्र नियतं यो यः
पक्षीक्रियते तदपेक्षया तत्र तत्र सञ्चारात् । न चेदृशी वस्तुसिद्धिर्विवक्षान्तरेन्यस्य साधनात् ।
२. पक्षचिन्ता
१. हेतुपक्षवचनमसाधनम्
(१) हेतुवचनं असाधनम्
ननु पक्षः साध्य एव तदपेक्षयान्यस्य सपक्षत्वात् । तत्र पक्षसमपक्षान्यतरत्वं नाम
धर्मस्तद्विपक्षाद् व्यावर्त्तते । ततः कथन्न हेतुः । नहि पक्षसपक्षनियतो धर्मः साध्यव्यभिचारी ।
तदसद्यतः ।
यद्ययमर्थः पक्षसपक्षान्यतरत्वादिति शब्दघटानित्यता सामान्याव्यभिचरितधर्मयोगा-
485
दिति । तदा स धर्मः कृतकत्वादिलक्षण एव । अव्यभिचरितस्य साधर्म्यस्यान्यतर शब्देन
प्रतिपादनात् । न त्व व्यभिचारी1157 धर्मः कृतकत्वादिलक्षण एव । एवं च सति (स) हेतुरर्थ
एव न कल्पितः । अथ पक्षीकृतेतरत्वेन विवक्षितत्वात् ।
तदसत् । यद्यपि नामानित्यतया पक्षत्वविवक्षा तथापि न तावताऽनित्यता सिध्यति ।
नित्यतया विवक्षितत्वे तदैवापगमात् । वास्तवञ्चेदनित्यतया पक्षत्वं प्रसिध्येत् सिद्धमेव
साधितं भवेत् । तस्मान्न कल्पितो धर्मः साधनं ।
स च स्वसिद्धोऽर्थः साधनं । त्रिरूपमेव लिङ्गमतस्त्रिरूपलिङ्गाख्यानं परार्थमनुमानं ।
ततो यैः पक्षवचनमपि साधनमिष्यतेऽयुक्तवादिनस्त इति प्रतिपादितं भवति । तस्यासिद्धत्वात् ।
साधनं हि साध्यं साधयेत् । न साध्यमेव (वाध्यं साधनात्) । वचनं साधनमिति चेत् ।
न । वचनस्य साक्षादसाधनत्वात् । साध्याप्रतिबन्धात् । न वचनस्यार्थे प्रतिबन्धः । तस्मात् ।
अनित्यः शब्दः कृतकत्वादिति त्रिरूपं कृतकत्वमेवानित्यतां गमयति । तस्य तत्राव्य
भिचारात् । न पक्षवचनं हेतुवचनं वा । अन्यथा नित्यः शब्दः प्रमेयत्वागिति साध्य
सिद्धिर्भवेत् । अत्रापि हेतुपक्षवचनमस्ति । तदर्थस्य तत्राप्रतिबन्धादहेतुरिति चेत् ।
अर्थादेव तर्हि अर्थस्य गतिः प्रतिबन्धात् । न वचनं साक्षात्साधनमिति प्राप्तं । वचनस्यार्थ
मन्तरेणापि भावात् । यत्र च हेतुवचनमसाधन । तत्र पक्षवचनस्यासाधनत्वमनुक्तसिद्धि
मेव । अथ साध्यवचनं साध्यार्थंप्रतिपादनात्साधनं । न । हेतुवैयर्थ्यप्रसङ्गात् । अथ
प्रतिज्ञामात्रं न साधनमिति हेतुरुपादीयते । कथमसाधनं साधनं । सहितं साधनमिति
चेत् । कथमनुपयोगि साहित्यं विदध्यात् । नानुपयोगिना कश्चित् साहित्यं वाञ्छति ।
तस्मान्न वचनं साधनं ।
अपि च ।
(२) पक्षवचनं असाधनम्
नहि संशय हेतुरेव तत्र हेतुः । अर्थाप्रतिबद्धत्वेन च संशयहेतुत्वं । अन्यथा
हेतुपादानमनर्थकं1158 । यथा तर्हि वचनं साध्यार्थासाधनं । तथा साधनार्थोपि नैव तस्मात्प्र
तिपत्तव्यः तत्रापि नैव तस्य प्रतिबन्धः । प्रतिबन्धे वा साध्येपि कः प्रतिबन्धः प्रतिवन्धस्य ।
सत्त्यमेतत् । साधनार्थमपि नैव वचनं प्रतिपादयति । तत्राभिप्रायनिवेदने प्रमाण
त्वादतः साक्षान्न साधनं । साधनेपि प्रमाणमेव वचनेन आक्षिप्यते । साध्येपि प्रमाणमाक्षि
प्यतामिति चेत् । न । तदानीमेव तत्र प्रमाणसद्भावात् । पूर्व्ववृत्तं हि प्रमाणमाक्षिप्यते
वचनेन तत्र विस्मरणसम्भवात् । वर्त्तमाने तु प्रमाणं प्रत्यक्षमेव किन्तत्र वचनेन । नहि
प्रत्यक्षेऽर्थे परोपदेशो गरीयान् । यस्माद्वचनमसाधनं । पारम्पर्येण तर्हि साधनं पक्षस्य
वचनं यथा साधनस्य । एतदप्यसत् ।
यथा साधनवचनं साधनं तथा पक्षवचनमपि भवेत् । यदि शक्तस्य सूचकं भवेत्प्रमाण
सिद्धस्य । असिद्धस्य तु सूचनं कथं साधनं । नहि स्वयमशक्तमशक्तमाश्रित्य शक्तिमत् ।
तथाहि (।)
साध्यस्य पक्षवचनेनासिद्धतयाभिधानात्कथं साधनं पक्षवचनं । हेतुवचनन्तु स्वयमश
क्तमपि शक्तस्य वाचकमिति साधनमुक्तं ।
ततो यदुक्तं परार्थञ्चानुमानञ्चेति व्याहतं । तथाहि प्रतिपाद्यापेक्षया स्वार्थमेव ।
प्रतिपादकापेक्षया त्वनुवादमात्रकं । तन्निराकृतं । यतः । अनुमानन्तदनुमानकारणत्वे
नोपचारत उक्तं । न स्वतः । ततः प्रतिवाद्यपेक्षया तत्स्वार्थमिति यत्किञ्चनवादितैव ।
तस्य हि त्रिरूपमेव लिङ्गं प्रतिपादकत्वात्स्वार्थ । न वचनं । ततोर्थस्याप्रतिपत्तेः । स्मरणेन
तस्याप्युपकारकत्वात् प्रतिपादकमेवेति चेत् । न (।) अर्थवादमात्रकस्य वचनेन विधानात् ।
तत उभयापेक्षयापि वचनमनुवाद एव । परार्थता तस्य प्रतिपादकापेक्षया न प्रतिपादकस्य
तेन कक्चिदुपकारः । अनुमानकारणत्वेन त्वनुमानन्तत्प्रतिपाद्यापेक्षयैव ।
नन्वर्थापेक्षया परार्थमन्यपेक्षयानुमानमिति प्राप्तम् । तत्कथमेतत् । ननु गुण एव
हि दोषतयाध्यारोप्यते । येनैव तस्य प्रतिपादकस्य तदनुमानन्न भवति प्रतिपाद्यस्य वात एव
तत् प्रतिपादकस्य परार्थमन्यथा स्वार्थमपि भवेत् । स्वयमपि तेन तस्यार्थकरणात् । उपचारे
च प्रयोजनमुक्तं । वचनस्यान्येन प्रकारेणार्थसाधनाभावात् । ननु स्मरणेपि वचनं प्रमाणम
प्रमाणम्वा (।) प्रमाणञ्चेत् किन्नार्थे । अ(था) प्रमाणं कथं ततः स्मरणम् । अत एवान्यथा ।
ततः प्रमाणमेव भवेन्न स्मरणं । स्मरणे च तत्कारकं न ज्ञापकमिति प्रमाणस्वभावः1160 ।
स्मरणमेव ततः कथं । अर्थे प्रतिबन्धाभावात् । घमो हि पावके प्रतिबद्ध इति जनयति
स्मरणं । तद्यदि शब्दोपि प्रतिबद्धस्तथा स्मरणं जनयेत् ।
तदसत् । न स्मरणमात्रकं प्रतिबद्धत्वादिति प्रतिबन्धः । स्मरणञ्च भविष्यत्यप्रति
बद्धत्वाच्चेति । कोनयोर्व्विरोधः । तथाहि ।
अथ निश्चितरूपं स्मरणं सम्बद्धादेव नान्यतः ।
487तद्युक्तं । न ह्यसति प्रतिबन्धे तस्य निश्चयस्तत्र किन्तु शब्दान्निश्चितरूपं स्मरणमित्य
सिद्धमतो न सम्बन्धसिद्धिः । तथाहि । सम्बन्धमनालोचयतः संदेह एव भवति । शब्दाच्च
सन्देह उपजायमान उपलभ्यत एव । कथन्तर्हि निश्चय (ः) । एवमे (वै) तत् । यथाहाय
मिति । न प्रमाणादेव तन्निश्चयात् । यतः । पूर्व्वप्रवृत्तप्रमाणपर्यालोचनादेव निश्चयो
न वचनमात्रात् । प्रमाणे तर्हि निश्चयो (न) वचनात् । तथापि वचनं प्रमाणमेव । अत्रोच्यते ।
अर्थे हि वचनमप्रमा । प्रमाणे तु प्रमाणमिति नैव किञ्चित् क्षीयते न च
प्रमाणमपि वचनात्सिध्यति तस्य स्वसम्वेदनेन सिद्धेः । स्मरणमात्रमेव तत्र भवति ।
निश्चयस्तु स्वसम्वेदनादेव । किन्न वचनमात्रेण1163 । भवत्येवाभोगमात्रादपि३ स्मरण
दर्शनात् । अथ यदाभोगतो न भवति तदा वचने प्रमाणमिति चेत् । न सदेतत् । यतः ।
तस्मात्पूर्व्वप्रमाणस्वरूपावधारणमत्यन्तपर्यालोचनत एव कुतश्चित् लिङ्गादिति न
वचनं प्रमाणं । प्रमाणेनाप्यर्थेनाप्याभोग इति । अनुमानमेव परोक्षेऽर्थे प्रमाणं तद्द्वारेण वचनं ।
ननु प्रमाणं प्रतिबन्धग्राहीदानीमतीतमिति कथं प्रतिबन्धनिश्चयः । स्मरणमिदा
नीन्न च तत्प्रमाणं । तेन प्रमाणेन जनितत्वात् प्रमाणमेव । ततश्च ।
ननु प्रमाणादेतत्स्मरणमिति स्मृतिरेवात्रापि निबन्धनं । तदपि स्मरणमन्यतः स्मर
णात्परिशुद्धिभागिति कुतो निश्चयो जायतां ।
अत्राप्युच्यते । उक्तमेवादावेतत् । स्वरूपस्य स्वतो गति (ः) । प्रामाण्यम्व्यव
हारेण । (प्र॰ वा॰ १।४) व्यवहारश्चार्थप्राप्तिलक्षण एवोपलभ्यते नान्य उपयोगी ।
ननु स्वत एव किञ्चिद् दृढं स्मरणं ततोयं प्रमाणदिति निश्चयो न व्यवहारादिति चेत् ।
तदसत् । यतः ।
यद्ययमर्थप्राप्तिलक्षणो व्यवहारो नाभविष्यदभ्यस्तस्तत्कथं प्राप्त्युपयोगिदाढर्यम्भवेत् ।
अन्यदभ्यस्तमन्यत्र दाढर्यमिति स एव व्यवहारोच्छेदो लोकस्य स्यात् । तस्मादेतावती गतिः
संसारिणामिति सांव्यवहारिकं प्रमाणम (वि) चलितमिति न दोषः । तस्माद्वचनमनुमान
कारणत्वादनुमानमिति स्थितमेतत् ।
नन्वाचार्यस्य पक्षवचनमभिमतमेव । यदाह ।
नैतदस्ति । यतः ।
यदाह । (अस्माकन्तु ।)
तत्रानुमेयनिर्देशो हेत्वर्थविपयो मतः ।
अस्माकन्तु योनुमेयनिर्द्देशः स हेत्वर्थविषयत्वेन न साधनत्वेन (।) अतः साक्षात्साधनत्व
प्रतिक्षेपात् तस्य साध्यस्योक्तेरशक्तता कथिता1167 । कथन्तर्हि पक्षधर्मत्वं1168 सम्बन्धसाध्योक्ति
निर्द्देशाभ्युपगमः । नास्यायमर्थः । पक्षधर्मश्च सम्बन्धश्च साध्योक्तिश्चेति । अपि तु
सम्बन्धोक्तिसङ्गता साध्योक्तिः सम्ब धसाध्योक्तिः । यत्कृतकं तदनित्त्यमिति व्याप्त्यन्तर्गता
साध्योक्तिर्न्न प्रतिज्ञारूपेण । अवश्यं हि साधने व्यापकत्वं साध्यस्योपदर्शनीयं । अतोऽवय
वद्वयमेव दर्शनीयं । सम्बन्धेन रूपद्वयाक्षेपादेव त्रिरूपता हेतोः । तस्मादनित्त्यः शब्द इति
नादावन्तेवा दर्शनीयम् । रूपद्वयमात्रकादेव साध्यस्य सिद्धेः ।
(३) न्यायोक्तलक्षणे दोषाः
1169(क) प्रतिज्ञानिगमनयोरनुक्तिः—
अथापि स्याद्(।) यदि पक्षवचनाभावे हेतुवचनमतकिंतमुद्गुरपातायमानमसम्बद्ध
मिति न प्रवर्त्तते1170 । ततो हेतुवचनप्रवृत्तेः तदपि साधनमेवेति न । संशयजिज्ञासा प्रकरण
तदवबोध इच्छानामपि1171 साधनत्वप्राप्तौ दशावयवता वाक्यस्य स्यात् । इदमत्र सन्दिग्धं
भवतः । इदमेव जिज्ञासितं । इदमेव भवता1172 प्रस्तुतं । इदं मयावगतं । अत्र ममेच्छेति
(।) एवं कूर्च्चशोभामारच (य) ता दशावयवं वाक्यं प्रयोक्तव्यं । तथा विपक्षोपगमेपि
साधनं प्रवर्त्तते । ततस्तस्यापि साधनत्वप्रसङ्गस्तेन सह विपक्षस्य । अथ साध्यनिश्चयमात्रं
संदेहादिप्रतिपादनमन्तरेणापि भवतीति न तैः शब्दप्रपञ्चमात्रोपयोगिभिः कश्चिदर्थगतोर्थस्ततः
संशयादिपरित्यागः (।) तदनुवादस्याकिञ्चत्करत्वत्५ । यद्येवं प्रतिज्ञावचनमप्यनुवादमात्र
मेव वादिनो नान्तरङ्गता तस्य ।
त्रिरूपादेव तावत्स्वार्थानुमाने सोर्थः साध्यः प्रतीयते । नहि स्वार्थानुमाने साध्यार्थः
प्रथममायाति1173
हेतोस्तेनाध्यवसितेन भवितव्यं । ततः स्वनिश्चयवदेव न प्रथमं साध्योपा
दानम् । पश्चाद्रूपादानमिति चेत् । पश्चादपि नोपादानं स्वार्थानुमानवदेव । परस्यापि
489
यदा त्रिरूपादुपजायते प्रतीतिस्तदा तस्याः स्वार्थानुमानात्को विशेषः । तस्मात् प्रतिज्ञा
निगमनयोरनुक्तिरेव । उपनयोपि न (व) क्तव्यः । दृष्टसामर्थ्यदर्शनपरत्वात् । न च
तस्य तत्र सत्तामात्रादपरं सामर्थ्यं (।) तच्च सत्तामात्रं शब्दे पक्षधर्म (त्वा) देव गतं ।
अथापि स्याद् (।) आगमः प्रतिज्ञा । हेतुरनुमानं । प्रत्यक्षं दृष्टान्तः । उपनय
उपमानं । सर्व्वप्रमाणव्यापारविषयप्रदर्शनपरं निगमनं ।
तदेतदसत् यतः ।
हेतुसामर्थ्यादेव यद्यसावर्थः प्रतीयते किमपरप्रमाणव्यापारेण । किमत्र कुर्मो
यत्सर्व्वप्रमाणव्यापारो न खलु हेतुपरतन्त्रः कारकग्रामः । तथा भवन्पर्यनुयोगभागी किमयमेवं
भवतीति । सत्त्यमेतद्यद्येवं स्यात् । न खलु प्रतिज्ञा प्रमाणन्ततः संशयोत्पत्तेरिति
प्रतिपादनात् ।
(ख) उपनयन (उपमान) निरासः—
उपमानं प्रमाणं (।) न खलु तथा चायमि त्युपमानमन्तरेण हेतोः साध्यसिद्धिः ।
नेदमस्ति । यतः ।
सामान्येन हि प्रतिबन्धग्रहणे कथम्विशेषाधार (ताऽ) नित्यतादिप्रसिद्धिः । विशेषा
धारतया कृतकत्वादेः प्रसिद्धेः । सैव च विशेषाधारता । तथा चायमित्युपमानप्रसिद्ध्या
कुतश्चायमिति पक्षधर्मतया प्रदर्श्यते । उपमानं प्रमाणमपरं प्रसक्तमिति चेत् ।
न (।) अनुमानान्तर्गतत्वात् । गोसादृश्यादयं स गवय इति विशेषसम्बन्धसाधनं शब्दस्यो
पमानविषयादपरो२ न भवतीत्यनुमानमेव तत्र प्रमाणं । नानुमानमपरमुपमानवादिभिरपी
ष्यते । कृतकत्वेन सादृश्यं तस्य विषय इति चेत् । न । कृत (क) त्वद्वयव्यतिरेकेण
सादृश्यभावात् । न दण्डाधारद्वयव्यतिरेकेणापरन्दण्डित्वसादृश्यं ।
तदसत् ।
अपि च ।
अवान्तरविशेषश्चेत तत्रापि न किमीक्ष्यते ।
1175 490न खलु सदृशाभिमतादेवार्थक्रियावाप्तिर्येन1176 तदर्थक्रियाकारि सादृश्यम्भवेत् । महिष्या
दितोपि क्षीराद्यर्थक्रियावाप्तेः । अथावान्तरभेदस्तत्र विद्यते । तेन विसदृशी विसदृशान्न तु
सैवार्थक्रिया । यद्येवमवान्तरभेदो गवामपि परस्परतोस्त्येव । ततः सादृश्यानुरूपार्थक्रिया
नास्त्येवेति न सम्वादः । किञ्च । विलक्षणप्रत्ययोत्पत्तेरपरत्र वैलक्षण्यमप्यस्तीति प्राप्तं ।
१ B. क्रियास्ति येन ।
सादृश्याभावमात्रेण तदिति चेत् । सादृश्यमपि वैलक्षण्याभावमात्रेणेति प्राप्तं । सादृश्यमेव१
बैलक्षण्याभाव इति चेन्न कथम्भावोऽभावः । वैलक्षण्याभावमेव सादृश्यमिति किन्न भवति ।
बैलक्षण्यञ्चोभयवादिप्रसिद्धं । न । (तद्) अभावमात्रेण सादृश्यव्यवहारपरिसमाप्तेरनर्थ
कमपरं सादृश्यपरिकल्पनं तस्मान्नोपमानमपरं प्रमाणं ।
(ग) प्रतिज्ञा (आगम) निरासः—
अथ प्रतिज्ञार्थ आगमसिद्ध इति प्रतिज्ञा आगम उच्यते । एवमपि किन्न1177 प्रतिज्ञायाः
प्रयोजनं । तथा हि ।
कथन्तर्हीदमुक्तमस्माकं तु पक्षनिर्द्देशो यः स न साधनत्वेनापि तु हेत्वर्थविषयत्वेनेति ।
एतदेवाह ।
कृतकत्वादित्येतावन्मात्रकादनित्य इत्युक्तेन ज्ञायते कस्यानित्यता साध्या । ततः स
शब्दोऽनित्य इति प्रतिज्ञापदमुपादेयं । तदिदानीं हेतुविषयत्वेन नोपादीयतामन्यथा वा ।
सर्व्वथास्यां बाह्यव्यवस्थायामख्यापिते विषये हेतुवृत्तेरसम्भवात् । अवश्यम्विषयः ख्यापयि
तव्यः । ततः साध्यसिद्धेः प्रागवश्यं भावः प्रतिज्ञायाः साधनस्य साधनतान्यथा साधनत्वस्या
भावात् । प्रमाणफलोपन्यास इति चेत् । निर्द्देशे प्रमाणफलं प्रतिज्ञा पक्ष इति न
नामान्तरकरणात्परिहारः । स चायं न्यायः शूलं चक्रमित्याहेति । अतो विषयख्यापनादेव
तस्य शक्तता सिद्धा । उक्तमत्र । संशयादीनामपि साधनत्वप्रसङ्गः ।
विषयः प्रतिज्ञया निदर्शनीय इत्यत्र विचार्यते । किम्व्याप्तितपूर्व्वकप्रयोगे । अथ
हेतोः पञ्चम्या निर्द्देशे ।
किञ्चातः ।
491यत्कृतकं तत्सर्व्वमनित्यमिति सर्वोपसंहारेण व्याप्तिदर्शने तद्व्यप्तं कृतकत्वं तत्रोपदर्शितं ।
तथाभूतमेवेत्यनित्यता शब्दस्येति ज्ञायत एव किं प्रतिज्ञापादेन विषयोपदर्शनार्थेनेत्यन्यथैव1182
विषयस्य प्रसिद्धेः । अथ प्रतिज्ञा (पद) मन्तरेण कथम्विरुद्धहेतुनिश्चयः । नैष दोषः ।
यदि प्रतिज्ञापदानुपादानं कथं विरुद्धोयं हेतुरिति ज्ञायते परेणेति कस्यायं पर्यनुयोगः
वादिन इति चेत् । न सम्यगेतत् । भद्रमेवापतितं मा ज्ञासीत्प्रतिवादी किं मया तस्य सौर्क्य ।
करणीयं (।) व्याप्तिपूर्व्वके प्रयोगे शास्त्रकारेण कर्त्तव्यतयाभिहिते विहितो विरुद्धस्यासम्भ
वाद्वादिनो महानुमपकार इति च शास्त्रकारस्यापि न दोषः । न ह्यसौ वादिबधाय शास्त्रकृत् ।
प्रतिवादिनोनुग्रहः कर्त्तव्यं एवेति चेत् । कः प्रद्वेषोऽन्यत्रेति यत्किञ्चिदेतत् । यदि
नित्त्यः शब्दः कृतकत्वात् । यत्कृतकन्तदनित्त्यमिति । अत्र विरुद्धहेतुचोदनं । तदा न
कश्चिदनुन्मत्तस्तदैव नित्त्यत्वं प्रतिज्ञायानित्त्यत्वेन व्याप्तिमुपदर्शयेत् । अथ नित्त्यत्वेन व्याप्ति
मुपदर्शयेत्तदा व्याप्तिविपर्ययादेव विरुद्धत्वप्रतीतिः । अपि च । यस्य प्रतिज्ञापदप्रयोगस्त
दपेक्षया विरुद्धाभिधानं । नित्त्यः शब्दः कृतकत्वादिति चावसरे । अथ प्रतिज्ञापदमन्तरेणा
दृष्टमुद्गरपातायमानं साधनवाक्यमुद्धेगाय भवेत् । अतस्तदुपादानं । यतः प्रकरणार्थनिवे
दनाय1183
प्रतिज्ञा ।
अत्रोच्यते । प्रस्तावमन्तरेण प्रतिज्ञावचनमप्यदृष्टमुद्गरायत एव । प्रतिवादिना
प्रस्तावः कृत इति चेत् । कृतं प्रतिज्ञापदेनेत्यलं प्रसङ्गेन ।
२. प्रतिज्ञा न साधनावयवः
1184ननु प्रतिज्ञापदमन्तरेण साधनन्यूनता भवेत् । तथा चाह । हीनमन्यतमेनाप्य
वयवेन प्रतिज्ञादीनां न्यूनं1185 ।
साधनावयवत्वे हि सिद्धे तन्नयूनता भवेत् । साधनावयवत्वञ्च प्रतिज्ञाया निराकृतं । १०२ ।।
साधनावयवेन न्यूनं साधनं न्यूनं भवेत् । प्रतिज्ञायाश्च न साधनावयवत्वं । यतः ।
नहि तदसम्बद्धं तदवयवः । नापि तेन न्यूनं न्यूनं । अनुपयोगिनापि न्यूनत्वेना
नुपयोगिनामनङ्गन्तत्त्वादन्यूनतैव न भवेत् । अथानुपयोग्यभावेपि न न्यूनं । प्रतिज्ञापदेनापि
तथा सत्यसता समानमित्यचोद्यं । यदि च प्रतिज्ञासाधने सत्युपगम्यते1186 तदा साध्य
निर्द्देशः प्रतिज्ञेति1187
प्रतिज्ञालक्षणमतिव्यापि भवेत् । साध्यमसिद्धमपि साधनं भवतीत्य-
492
सिद्धहेत्वभिधानमपि प्रतिज्ञा भवेत् । यस्य तु न प्रतिज्ञासाधनन्तस्य साध्यनिर्द्देश इत्यपि
प्रतिज्ञालक्षणेन हेत्वाभासस्य प्रतिज्ञात्वमसाधनभूतस्य साध्यनिर्द्देशस्य प्रतिज्ञात्वात् ।
अतः ।
न खलु साधनमसाधनं भवति । ततः साधनत्वात्तत्राप्रसङ्ग । साधनत्वेन हेत्वाभा
सस्याधिकृतत्वात् । साध्यनिर्द्देशत्वाभावात् । प्रतिज्ञालक्षणस्याभावात् । साधनाभास
निर्द्देशो न प्रतिज्ञा ।
ननु साध्यनिर्द्देशः प्रतिज्ञा न साधननिर्द्देश इति कुतः । साधनाभासस्य प्रतिज्ञात्वप्रसङ्गः ।
अत्रोच्यते । साध्यनिर्द्देश इत्यत्र यदि साध्यत्वेन निर्द्देशः साध्यनिर्द्देशस्तदा न भवति
साधनाभासः प्रतिज्ञासाध्यत्वेनानिर्द्देशात् । किन्तु निर्द्देश्यमनिर्द्दिष्टम्भवेत् । साध्यत्वेन
निर्द्देश इति न ज्ञायते कस्य निर्द्देशः ।
अथ साधनमर्हति यः तस्य निर्द्देशः । तदापि कथं निर्द्देश इति प्रकारानिर्द्देशात् ।
साधनत्वेन साध्यत्वेन वेति विशेषाभावात् । साधनाभासस्यापि स्यात्प्रतिज्ञात्वं । कथञ्च
साधनत्वेन साध्यत्वेन च निर्द्देश इति वक्तव्यं । पञ्चम्या परया (वा) ऽप्रथमया निर्द्देशः
स साधनत्वेन । प्रथमया साध्यत्वेन । कुत एतत् । तथा शब्दार्थप्रसिद्धेः । यद्येवं
साध्यनिर्द्देश इति प्रतिज्ञालक्षणन्न विधातव्यं । साध्यतया निर्द्देश एव प्रतिज्ञेति लोके प्रसिद्धः
शब्दार्थः । पक्षस्य तु लक्षणम्विप्रतिपत्तिनिरासार्थमिति वक्ष्यामः । तस्मात्साध्यनिर्द्देश एव
प्रतिज्ञेति लक्षणवैयर्थ्यात्साध्यनिर्द्देशः प्रतिज्ञैवेति साधनाभासस्यापि प्रसङ्गः ।
ननु भवत्पक्षेपि साध्यनिर्द्देशः प्रतिज्ञैवेति कथं न हेत्वाभासः प्रतिज्ञा । नन्वसाधनभूतो
यः साध्यनिर्द्देश इति परिहृतमेतत् ।
ननु साधनभूतोपि स्यात्कदाचिदिति कः संदेहनिवृत्तिहेतुः । विजातीयत्वमेवेति ब्रूमः ।
तथाहि ।
अयन्तावदिदं चोद्यचञ्चुश्चोदयितव्यः । क्रियते घट इति साध्यनिर्द्देशः प्रतिज्ञा
प्रसक्ता । ज्ञापकहेत्वधिकारात्तु तदपेक्षः साध्यनिर्द्देश एव प्रतिज्ञा । यद्येवमसाधनभूतः
साध्यनिर्द्देशः प्रतिज्ञेति साधनाभासो न प्रतिज्ञेति सिद्धमेतत् ।
ननु परोप्येतद् ब्रुयात् । साधनभूतः साध्यनिर्देशः प्रतिज्ञा । साधनाभासस्तु न
साधनमसिद्धत्वादसाधनत्वान्न प्रतिज्ञा प्रतिज्ञाया साधनत्वात् । यद्यसिद्धत्वेन साधनाभासो
न साधनं प्रतिज्ञाप्यसिद्धार्था कथं साधनं । असिद्धत्वेनैव साधनत्वं प्रतिज्ञायाः । यदि
सिद्धार्था स्याद्विषयोपदर्शनत्वमेव न भवेत् । यद्येवं साधनाभासोपि प्रतिज्ञात्वेन साधनमनि
वारितमेव । भवतु प्रतिज्ञात्वेन साधनं क इवात्र दोष इति चेत् । हेतो (:) असिद्धत्वदोषो
न स्यात् ।1188
हेत्वाभासख्या प्रतिज्ञा साध्यरूपायाः प्रतिज्ञाया न साधनं1189 ततो दोष एवेति
चेत् । साधनत्वे कथन्न साधनं । स्वार्थापेक्षया साधनं चेत् । नार्थसहितस्य साधन
(त्वा)त् । न च स ए्व तस्य साधनं । स च1190 शब्दगडुमात्रस्य साधनत्वं । सर्व्वत्रा
भिधेयस्य साधनत्वात् । अभिप्रायनिवेदने तु प्रमाणतोक्तैव ।
अथार्थ एव साधनं । सर्व्वा तर्हि प्रतिज्ञा बहिरर्थप्रत्यायनसमर्थेति तत एव साध्य
प्रसिद्धिः स्यात् । तस्मात् साक्षात्पारम्पर्येण च ततः सिद्धेरनुत्पत्तेर्न्न प्रतिज्ञा साधनं ।
अन्यः1191
पुनराह । प्रतिज्ञा साधनं साभासत्वेनोक्तेः । साभासत्वस्य साधनत्वेन सह
दर्शनात् ।
दूषणवाद्याह । प्रत्यक्षेणानेकान्तः । वचनात्मकत्वेन विशेषणाददोष इति परिहारः ।
दूषणेनानेकान्त इति चेत् । अदूषणत्वे सतीति परिहारः ।
तदेतत्सकलमसत् । तथाहि ।
न खल्वदर्शनमात्रेण विपक्षे1193 हेतोर्गमकत्वं (।) न चास्ति नैकपरिहारो1194
यथा
कथञ्चिद्विशेषणेन विपक्षविरुद्धेन तत्परिहारात् । एतच्चोक्तं प्राक् (।) अध्ययनमध्यय
नान्तरपूर्व्वकमिति भारताध्ययनेनाकान्तपरिचोदने वेदेन विशेषणादिति परिहार उक्तेः ।
कः पूनर्व्वेदे विशेषः । यद्यन्यथाध्येतुं न शक्यते न भवत्येव परिहारः । नहि विशेषण
मविरुद्धं विपक्षेणास्माद्धेतुं व्यावर्त्त (ि) यतुमलं । अन्यथाऽनेकत्वे सतीति को वक्तुं न
शक्नुंयात् । तस्मादसदेतदुपक्षेपपरिहारादिकमिति पूर्व्वकमेव दूषणं प्रतिज्ञायाः साधनत्वस्य ।
३. पक्षलक्षणकरणे प्रयोजनम्
यदि तर्हि प्रतिज्ञाया नावश्यं निद्दशः किमर्थं (तर्हि) पक्षलक्षणं । हेतुसामर्थ्याद् गम्य
मान एव साध्यार्थः स च पक्षो भवत्य (न्य) था वा किमनेन विचारेण । यथा प्रतीयते
तथा भविष्यति ।
सत्त्यमेतत् ।
494
लक्षणं हि नाम सकलमेव व्यामोहध्वस्तये1196 प्रकाशनीयमपरिमपि च वचः । तत्र च
साध्येतरविपर्ययविषया महतामपि महत्यो विप्रतिपत्तयोऽनपनीयमानाश्च महान्तमनर्थप्रथप्र
स्थाननयमुपनयन्ति1197 । न खल्वनिराकृतो दोषसमागमः श्रेयसे । तथा हि । परार्थाश्चक्षु
रादय इति परत्वमात्रमसाध्यमपि साध्यमित्याहुः । साध्यमप्यात्मार्थमसाध्यं । सिद्धमपि
शास्त्रात्साध्यमाहुः शास्त्रप्रामाण्यवादिनः । साध्यनिर्देशः प्रतिज्ञेत्यनेन लक्षणेन साधनत्वेन
निर्दिष्टस्यापि पक्षत्वं प्राप्तिमिति च विप्रतिपत्तिः शास्त्रकारे (णे) ष्टमसाध्यमपि । अनभ्यु
पगमेपि साध्यं ततस्तन्निराकरणाय चतुर्भिः स्वरूपनिपात इष्टः स्वयं पदैः असिद्ध (:)
असाधन अर्थोक्तवाद्य1198
भ्युपगमग्रहो वेदितव्यः । असिद्ध एव साध्यः । एवमन्यदपि ।
ततोऽवधारणादेतद्विपर्ययनिरासो वेदितव्यः । (तत्र न्यायो) यदि शास्त्रादेव प्रमाणभूताद
सावर्थः प्रसिद्धः किं पुनः प्रमाणेनापरेण साध्यते । परं प्रति प्रमाणन्न शास्त्रमिति तदर्थमिति
चेत् । आत्मनः कथं प्रमाणं । अभ्युपगमादेवेति चेत् । परोप्यभ्युपगमयितव्यः । तथा
यदि तत्साध्यं किमिति साधनत्वेन निर्द्देशः । अर्थोक्तस्य त्वसाध्यत्वे वाक्यार्थज्ञतैव न स्याद
न्यत्र च सिद्धसाध्यता । प्रकरणसामर्थ्यशब्दान्तरसन्निधानेभ्यः शब्दार्थनिश्चयात् । अप्रकरणज्ञः
पुनर्न्न विवक्षितमर्थं प्रत्येतीति कस्तेन सह व्यवहारमार्गावतारः । तथा च प्रवाज उदीरितोर्थः
पशुनापि गृह्येत कस्तत्र सामर्थ्यातिशयः । अत एवाह ।
तद्यथा संघातानां परार्थ्ये साध्ये आत्मार्थत्वन्तदनुक्तमपीच्छया व्याप्तं साध्यमिति
तत्प्रदर्शनार्थमिष्टग्रहणं । इच्छया व्याप्तन्तदित्येव कुत इति चेत् । प्रकरणात् । प्रकरणा
नुरूपा हि वाञ्छा भवत्यन्यथाऽप्रेक्षावत्वप्रसङ्गात् । तथा हि । अन्यत्प्रकृतमन्यच्च साध्यते ।
यदि वाद्यसौ न भवत्येव दोषोऽयमेव तस्याञ्च सो1199 भवेत् । यद्यसावात्मनैव ब्रूयादप्रस्तुता
भिधानद्वारेणात्मनो दोष एव तेनोद्भावितः स्यात् । भवतु तस्य दोषः । प्रतिवादिनोपि न
भूतदोषोद्भावनमिति भवेदेव दोषः ( न ।) यद्यर्थप्रतिपादनेन दोषाभावात् । यदाह ।
आत्मा परश्चेत्सोऽसिद्ध इति ।
(१) स्वयं शब्दप्रयोजनम्
यद्यात्मा परः स दृष्टान्तेन सिद्धः । यदि तु परमात्रसाधनं तदा न प्रस्तुतसाधनं ।
सिद्धसाधनं वा । एवञ्च वदतः कः प्रतिवादिनो दोषः । यदि तर्हीष्टग्रहणमिच्छया
व्याप्तस्यानुक्तस्यापि साध्यत्वप्रतिपादनार्थं । तथा निष्टनिवृत्त्यर्थमपि1200 व्यवच्छेदफलं वाक्यं
यतः । न चानिष्टन्नाम किञ्चित् । कस्यचित्केनचिदिष्टत्वात् । अत इष्टग्रहणम्वादिन
इष्ट इति प्रतिपादनार्थं । तत्र स्वयमित्यर्थो लभ्यत एव । शास्त्रकारेष्टमपि यदि तस्येष्ट
मिष्टमेव तदिति न तन्निवृत्तिः । अनिष्टत्वे निवृत्तिरित चेत् । न । इष्टग्रहणेनैव
निवृत्तेः । यथा प्रतिवादिप्राश्निकानामिष्टन्न साध्यमितीष्टग्रहणेन साध्यते । तथा शास्त्र-
कारेष्टस्यापि निवृत्तिस्तत एव स्वयंग्रहणेन सर्व्वस्यान्येष्टस्य1201 निवृत्तिरिति किं शास्त्रमात्रमेव
प्रयोजनमुक्तमाचार्येण (।) स्वयमिति शास्त्रानपेक्षमभ्युपगमन्दर्शयतीति ।
अत्र परिहारः ।
यद्यपि नामेष्टग्रहणेनैव वाद्यपेक्षया सर्व्वान्येष्टनिराकरणं तथापि शास्त्रकारेष्टे भवत्येव
साध्यताशंका । शास्त्रकारेष्टं हि भवत्यवश्यं वादिनापीति कस्यचिदस्ति मतिः । अन्यथा
न शास्त्रविरुद्धो हेतुर्गमक इति । तत आशंकास्थानवारणार्थं स्वयं ग्रहणं । अत एव स्वयं
ग्रहणस्य शास्त्रनिवृत्तिरेव प्रयोजनमुक्तं (।) यत एषा स्वयं श्रुतिः शास्त्रेष्टनिवृत्तये कृता ।
अन्येष्टनिवृत्तिस्त्वयत्नत एव सिद्धा । तस्मादिष्टग्रहणस्यैतदेव प्रयोजनं । अनुक्तमपीच्छया
व्याप्तं साध्यं । परार्था इत्यसंहतपरार्थत्वं साध्यमिष्टग्रहणात् ।
(२). विशेष शब्दप्रयोजनम्
ननु स विशेषो धर्मधर्मिणोर्न्न साध्यः साध्यत्वे विशेषता कथं । न साध्यविशेषयोरे
कता । उक्तञ्चाचार्येण धर्मविशेषविपर्ययसाधनाद्धि विरुद्ध इत्यादि । तदाह ।
स एव वाञ्छया विषयीकृतः साध्यो विशेष उक्तः । परव्यपेक्षया । उक्तमेव
साध्यमिति । सुकुमारप्रज्ञः परः । तथाहि ।
परार्थाश्चक्षुरादय इति
(४). आत्मवाद-चिन्ता
1203परेणोक्ते दूषणवाद्याह ।
नात्मार्थत्वं साध्यमस्माकं परार्थत्वमात्रस्य साधनात् । यदि न साध्यं तस्यैव स विशेष
इति भवतु विशेषविरुद्ध इति साध्यतामेव कस्मान्न प्रतिपादयति । न परापेक्षया परिहारा
भिप्रायात् । तावन्मात्रेणा परनिराकरणे कः स्वपक्षसाधनप्रयासं विदधीत । कथमिदानी
मनुक्त1204 मपि साध्यं । उक्तत्वादुक्तमेव साध्यमन्यथातिप्रसङ्गत् । अनुक्तत्वाविशेषात् सर्व्व
मेव साध्यं । न च दृष्टान्ते सर्व्वमुपदर्शयितुं शक्यं । तथा च विपर्ययसाधनात्सर्व्व एव न
हेतुर्भवेत् । अत्राह ।
यद्यपि नामेदमेवानेनोक्तं तथापि प्रकरणादयमत्रार्थो द्रष्टव्यः । न खलु सकलं वचनं
प्रकरणनिरपेक्षमर्थप्रत्यायनसमर्थ ।
इयमेव सकलविदग्धजनव्यवस्थितिः । अत्र च परार्थाश्चक्षुरादय इति । आत्मार्था
इति वाक्यार्थः । अतश्चानन्वयोपि तदपेक्षया दृष्टान्तरस्य तस्य साध्यत्वात् । आ चा र्ये
णापि तथैव दर्शितः । आत्मपरश्चेत्सोऽसिद्धः; इति दृष्टान्तेन सिद्ध इति द्रष्टव्यं । ततस्त
स्येष्टस्य विपर्ययसिद्ध्याऽयमिष्टविघातकृत् ।
ननु कथमेतत् ज्ञाते प्राकरणिक एव साध्य(आत्मा) इति । तदाह ।
यदि यत्र विवादस्तदेव न साध्यते आत्मार्थत्वं यत आत्मनि सिद्धः1207 । तदान्यसाधन
मप्यसम्बद्धमिति न कि (ञ्िच) त्साध्यं । तथा चोभयपक्षसाधनमपेक्ष्यानिष्टम्वा विरुद्धसा
धनात् तत्परित्यागे वा साधन वैफल्यम् (।) सिद्धसाधनताप्राप्तेः ।
अथात्माऽसाध्येपि सिध्यति साधने परत्वमात्रस्यापि । न चासाध्यविषयोऽनन्वयदोषः
प्रतिवादिनोद्भावयितव्यः । साध्यापेक्षत्वादनन्वयादिदोषस्य1208 ।
नैतदस्ति । यस्मात् । यद्यस्मिन्1209
साध्यमानेप्यसाध्यं सिध्येदिष्टं सर्व्वसिद्धिस्तथा
स्यात् । प्रत्यासत्तेस्तारतम्यं विना हि सिध्येत् किंचिन्नान्यत् (एत) तत्कुतः स्यात् । यदि
साध्यमानेन्यस्मिन्नन्यत्सिध्यति तदेष्टवद्विपर्ययोपि सिध्येत् । तथा1210 च सर्व्व ए्व हेतुर्व्विरुद्धो
दृष्टान्तश्च साध्यविकलः स्यात् । परस्परविरुद्धस्य सकलधर्मकलापस्य क्वचिदनन्वयात् ।
इष्टत्वात्तदेव साध्वं सिध्यति नान्यदिति चेत् । न । इच्छावशेन हेतुव्यापारविभागायोगात् ।
तदा च परस्य विपर्ययस्येष्टत्वाद् द्विपर्ययसिद्धिरनिवार्या । इच्छाया विशेषाभावात् । न च
प्रतिबन्धविशेषोस्ति येन वाद्यभिमतस्य सिद्धिर्न्न प्रतिवादिनः । विवक्षितधर्मानन्वयदोष इति
चेत् । यद्येवं न कश्चिदिष्टविधातकृद्विरुद्धो भवेत् । उक्तेन सर्व्वत्रानन्वय1211 सद्भावात् ।
उक्तेनानन्वये साध्यविपर्ययसाधनादेव विरुद्धः । विशेषविरुद्धस्त्वनुक्तापेक्षयैवान्यथाभावात् ।
(१) चार्वाकमतनिरासः
(स) द्वितीयसाधनाय प्रयोगेषु निरन्वयदोषो विरुद्धता वानेनैव न्यायेन प्रतिपादिता । यथा विभक्त1213 चैतन्यशरीरलक्षणपुरुषघटान्यतरसद्वितीयो घटः । अनुत्पन (? न्न) त्वात्1214 ।
497कुड्यवत् इति चार्व्वाका आहुः । आविर्भूतचैतन्यविशिष्टः कायः पुरुषः । नान्य
आत्मादिः परलोकी । तत्र (च) प्रत्यक्षाविषयत्वादनुमानमेव साधनमिति हेतुमाहुः ।
अभिप्रायः न पुरुषस्तथाभूतः साधयितुं शक्यः । श्रृङ्गग्राहिकया दृष्टान्ते (ऽ) सिद्धत्वादिति
सामान्येनान्यतरसद्वितीयत्वं साध्यते(।) उपायाः साध्यसाधकाः ।
अत्रोच्यते ।
तात्पर्यार्थः । तथा हि पुरुष एव शब्दे नोपात्तस्तदपेक्षया वाऽनन्वय इति पूर्व्वको
न्यायः । अथ सिध्यति केवलं । न तु तत्साध्यं । तदाप्यतिप्रसङ्ग इति प्रतिपादितं ।
ननु नात्र विशेषाक्षेपः । तदसत् । यतो देहस्यासिद्धौ व्यक्त्यभावात्कुतः सामान्यं ।
नहि गोव्यक्त्यभावे सामान्यं । व्यक्तिविनाशेपि सामान्यं न विनश्यति नित्यत्वात् व्यञ्ज
काभावान्न व्यवहारगोचरः । व्यक्तिसम्भवे पुनस्तथा भावाच्चेत् । न (।) अत्र सम्भवा
भावात् । नहि तथाभूतः पुरुषः प्रमाणमन्तरेण सम्भवी । यथा वा व्यक्त्यभावे सामान्यं
न व्यवहारगोचरस्तथान्यतरसामान्यमपि । प्रमाणदत एव सिद्धिरिति चेत् । न (।)
इतरेतराश्रयदोषप्रसङ्गत् । प्रमाणेऽनुमाने सति सामान्यं सामान्येनुमानं । न ह्यसिद्धस्य
सामान्याकारत्वमिति । तस्मादन्यतरत्वादिति यथा न हेतुः तथा साध्यमस्ति1215 । तथाहि ।
पक्षसपक्षान्यतरत्वादिति पक्षत्वमेव शब्देन पक्षसपक्षान्यतरत्वं द्वयोः शब्देऽविरोधाभावात् ।
विकल्पविषयत्वादन्यतरशब्दस्य । न च नियतधर्मसम्भवेऽपरोपक्षेपः । न चोपक्षेपमन्तरे
णापरस्यान्यतरश्रुतेरवतारः । तस्मादसदेतत् ।
अपि च यदि तथाभूतपुरुषस्यैवात्र न प्रतिपादनं तदा पुरुषघटान्यतरसद्वितीयो घट
इत्येवोक्तम्भवेत् । किमर्थमुभयत्र घट एवोपात्तः । तत्रायमभिप्रायः साधनवादिनः । यदि
धर्मी घट उपादीयेत । स घटेन सद्वितीय इति सिद्धसाधनं स्यात् । सामान्येनापि सद्विती
यत्वेऽयमेव दोष इति प्रतिपादितं । तदनाक्षेपे किं साधनफलमनिष्टम्वा । तस्मादुभयत्र
घटजातेः प्रतिपादनं सामर्थ्यात् पुरुषेणैव सद्वितीय (त्व) प्रतिपत्तिर्भवेदित्यर्थः । तथा च
नियमेन पुरुष एवात्राभिधातुमिष्ट इति व्यर्थमन्यतरग्रहणं । तदयं स्ववचनविरोधः माता
वन्ध्येति वचनवत् । तथाहि ।
स ह्युभयत्र1216 घटोपादानाद् घटजातेः स्वेन सद्वितीय (त्वा) योगात् । सामर्थ्या
त्पुरुष एव साध्यः । कथमन्यतरोक्तिस्तद्विपर्ययप्रतिपत्तये । न (।) अन्यतरोक्तेरन्व
यार्थत्वात् । न कुड्यस्य पुरुषेणान्वयोस्ति । नन्वन्येनान्वये कथमन्यस्य पुरुषस्य सिद्धिः ।
सामर्थ्यादिति चेत् । कस्येदं सामर्थ्यं (।) किं हेतोरथ वचनस्य । न तावद्धेतोर्न्नानुत्पलत्वं
पुरुषसद्वितीयत्वे प्रतिबद्धं । अनैकान्तिकत्वात् । तथाहि । परलोकिपुरुषघटान्यतरसद्वि
तीयो घट इत्यपि साधनात् । भवतु विवक्षान्तरेऽन्यस्यापि साधनमिति चेत् । न ।
विवक्षापेक्षया साधनत्वासम्भवादिति प्रतिपादितं ।
अथ वचनसामर्थ्यात्तदेतद्विलक्षेक्षितं । न च वचनसामर्थ्यादर्थाः सिध्यन्ति तत्र
प्रतिबन्धाभावात् । तथा हि । पीनो दिवा न भुङ्क्ते चेत्येवमादि उक्तिसम्भवे नक्तं
भुजिरवश्यं न मिथ्योक्तेरपि सम्भवात् । यदि तथाभूतः पुरुषः प्रमाणप्रापितसन्ततः१
स्यात् घटवद् । तदा प्रमाणमूलविवक्षाप्रयुक्तं वचनं परार्थानुमानं भवेत् । स्वदृष्टार्थ२
प्रकाशनस्य परार्थानुमानत्वात् । अनेनैव प्रमाणेन सिद्ध इति चेत् । न (।) इतरेताराश्रय
दोषादिति प्रतिपादितं । प्रमाणे सति साधनं साधने सति प्रमाणमिति ।
(२) अनित्यताविचारः
ननु नाशेपि साध्ये समानो न्यायः । तथाहि । किं शब्दगतमनित्यत्वं साध्यमथ
घटगतं । यदि शब्दगतं न तत्सपक्षोऽथ घटगतं न तच्छब्द इति विरोधः । तथा कृतकत्व
मपि । अथैतद्विकल्पसमं साधर्म्येपि विशेषोक्तिः विकल्पसमं (।) तथा सति पुरुषेपीति समानं ।
अत्र परिहारः ।
यथा पुरुषो न सिद्धो वाक्यसामर्थ्याप्रापितः । तथाऽनित्यत्वन्न सिद्धमिति नास्त्येतत्
तथा (।) यथा पक्षसपक्षान्यतरत्वं तथा कृतकत्वमित्यपि । घटे ह्यनित्यता प्रागभावप्रध्वं
साभावमध्यस्था स्वभावाप्रसिद्धा । यदि नाम प्रसिद्धा सान्यैव । ततः शब्दः कथमनित्यः ।
न खलु सैवानित्यता शब्दे तत्सदृशी भविष्यति ।
तदसत् ।
तथाहि । यादृश्यनित्यता घटे प्रागभावप्रध्वंसाभावोपलक्षिता । शब्देपि तथैव
प्रागभावादिसम्भवात् । उच्चरितप्रध्वंसिनो हि वर्ण्णा इति न विवादः । तथा घटोपि
धर्मी यदि तद्वान् कुड्यसादृश्याद् भवेत् स्यादिदं साधनं । न च पुरुषसद्वितीयत्वसादृश्यं
कुड्यधर्मिघटयोः३ ।
नन्वात्रपि यदि नामानित्यतासामान्यं वचनोपात्तमैदंपर्या (या) र्थस्तु विशेष एव शब्दग
तस्तेन च नान्वय इति कथन्तत्सिद्धिः ।
अत्र ब्रूमः ।
यद्यपि नामानित्यता विशिष्टा नान्वेति । अन्विता विशिष्टा भविष्यति । समुदायो
हि साध्यः । स चेत्प्रागेव प्रसिद्धः किमर्थं साधनं । तस्मात् केवलेनान्वये शब्दे सिध्यद
नित्यत्वं समुदायतां विशिष्टाञ्चात्मनः प्रकटयति ।
ननु केवलेनान्वये विशिष्टा नित्यता कथं सिध्येत् । अन्येनान्वये ऽन्यसाधनेति प्रसङ्गः ।
तथा च सर्व्वो हेतुर्व्विरुद्धो दृष्टान्तश्च साध्यविकलः स्यात् । उक्तधर्मान्वय एष दोषो नान्य
त्रेति चेत् । न । साध्यत्वाविशेषात् । अदोषे चेष्टविघातः कस्यचिदपि न स्यादिति सर्व्वः
स्वाभिमतं साधयेत् । न । अयोगव्यवच्छेदेन विशेषणात् । अयोगान्ययोगव्यवच्छेदेन हि
द्विविधं विशेषणं । न ह्येवं क्रियते शब्द एवानित्य इति । अपि तु शब्दोपि । सदृशत्वा
दनित्यतायाः । न च पुरुषसाधने तथा संभवति । नहि घटसद्वितीयत्वं कुड्यघटयोः समानं ।
अन्यतरसद्वितीयत्वं समानमिति चेत् । न । तेनाप्यभावात् । अन्यतरसद्वितीयत्वेन हि
सादृश्यमेवं भवति यदि नियमस्याभावः । अत्र1221 च नियम एव घटेनैवं सद्वितीयत्वं कुड्यस्य
तथा भूतपुरुषेणैव घटस्येति पराभिप्रायः ।
ननु प्रतिनियमेप्यन्यतरश्रुतिः प्रयुज्यत एव । तत्कथन्नियमेन्यतरत्वाभावः । ततो न
विकल्पैकप्रतिनियमयोर्विरोधः । तथाहि । देवदत्तयज्ञदत्तयोरन्यतरो भोजनीय इति नियमत
एकत्रैव भोजनं व्यवतिष्ठते । तथात्रापि पुरुषेण सद्वितीयत्वनियमः । नात्र वचनप्रापितो
नियमः । काकतालीयन्यायेन नियमसम्भवात् । स च प्रत्यक्षेणोपलभ्यते । न चात्र
पुरुषघटान्यतरसद्वितीयत्वोक्तौ पुरुषनियमः प्रत्यक्षसिद्धः । भोजनं हि वस्तुसामर्थ्यादेकनियतं
न वचनसामर्थ्यात् । स्वरुच्या प्रेष्यस्य प्रवर्त्तनात् भोक्तुर्द्दातुर्व्वा । यदि ह्यसावुक्तो न
भोजयेन्न तु भञ्जीत भवाननियमो व्यवतिष्ठेत । अत्रापि साधनसामर्थ्यप्रापितो नियम इति
चेत् । न । विपर्ययेपि सम्भवादिति प्रतिपादितं । एतेनेदमपि निराकृतं ।
विशेषेनुगमाभावः सामान्ये सिद्धसाध्यता ।
यद्यनित्यतासामान्यं साध्यते । तस्य क्वचिद्विद्युदादौ सिद्धत्वात् सिद्धसाध्यता ।
अथ शब्दविशिष्टमनित्यत्वं तदा तस्य घटेऽभावादन्वयाभावः । यतः । सामान्यमेव शब्दे
(ऽ) सिद्धत्वात्साध्यते । तदाह ।
(३) सामान्यनिरासः
यद्याधारविशेषानपेक्षमनित्यत्वं साध्यं स्यात्सिद्धसाधनं । शब्दे तु साध्यते सामान्यमतो
न सिद्धसाध्यता ।
ननु शब्दे साध्यते सामान्यञ्चेति व्याहतं । शब्दविशिष्टत्वमेव विशेषः । यदि च
सामान्यं कथं विशेषः । विशेषश्चेत्कथं सामान्यं ।
नैतदस्ति ।
500नहि शब्दविशिष्टेनान्वयप्रदर्शने शब्दविशिष्टत्वसिद्धिः । केवलेनाप्यन्वयदर्शने तद्वि
शिष्टत्वसिद्धिः । सादृश्येनैकत्वस्य विवक्षितत्वात् तद्वदेवेति1224 प्रतिपादयता हि परं धूमोग्नि
नान्तरीयको दर्शनीयः । स तथाग्निना व्याप्तः सिद्धो यत्रौवोपदनीयते तत्रैवाग्निबुद्धि जनयति ।
सम्बन्धस्य तथैव ग्रहणात् । यद्देशो हि पावकः तद्देशमेव धूमं जनयत्यपरापर देशसञ्चारणे
(न) सम्बन्धप्रतीतेः ।
ननु सामान्येन प्रतीतौ कथम्विशेषप्रतीतिः । सामान्यस्य विशेषमन्तरेणाभावादिति
प्रतीतेरदोषः । नहि देशकालावस्थाप्रतिनियमप्रतिपत्त्या कस्यचिद्व्यवहारसिद्धिः । एतच्च
प्रामाण्यनिरूपणे प्रागेव प्रत्यपादीति नावर्त्तनीयं पुनः । तस्माद् धर्मिविशिष्टसामान्यप्रसाधनात्
न सिद्धसाध्यता नानन्वयदोषः ।1225
ननु साध्येन सह सामान्यं प्रत्येतव्यं (।) साध्यञ्चानुमानसामर्थ्यात् प्रत्येष्यते । न च
तत् बहिर्व्याप्तिमात्रेण प्रसिध्यति । न ह्येवं व्याप्तिरादर्श्यते । सर्व्वाऽपेक्षः1226 कृतकोऽनित्य
इति । ततः । अन्तर्व्योप्तेरप्रसिद्धिर्ब्बहिश्चेद् व्याप्तिस्तस्यां साध्यसिद्धिर्न्न जातु । अन्य
व्याप्त्यास्य सिद्धिर्यदि स्यात् सर्व्वस्य स्यात् सर्व्वसिद्धिप्रसङ्गः।
तदपि यत्किञ्चत् । तथाहि ।
अग्निमानयं प्रदेशो धूमवत्त्वान्महानसप्रदेशवत् । तथाभूतप्रत्ययसामर्थ्यात् पूर्व्वमेव गृहीत
इत्युच्यते । अन्यथा (हि) यदि साध्योपि स्वभावः परिगृहीतः किमनुमान पूर्व्वधूमप्रतीता
वेवास्यापि धूमस्य प्रतीतेरग्निप्रतीतिः । न चाविद्यमानं भावि शक्यं प्रत्येतुं । तस्मा (त्त)
द्रुपप्रत्ययसम्भवादेव प्रतीतमिति व्यवहारमात्र (त) उच्यते । व्यवहारमात्रेण ग्रहणेन परमार्थ
ग्रहणमिति कथन्न विसम्वादः । तथाभूतार्थक्रियाकारिण्येव स परामर्श इति अवि)सम्वादः1227।
ननु स एव नियमः कथं ग्राह्यः । अस्मादेव व्यवहारात् । व्यवहारेण सकलमेव
सम्वादकमनादिना ज्ञायते न परमार्थ इति प्रतिपादितं । तस्मात् सामान्येन प्रतिबन्धग्रहणे
तस्य विशेषमन्तरेणाभावात् विशेषप्रतिपत्तिः । एवमेव सकलो व्यवहारः ।
अनित्यः शब्द इति प्रतिज्ञायां यद्यनित्यः शब्दः साध्यः शब्दविशिष्टमनित्यत्वं शब्दे
साध्यमिति प्राप्तं । अनित्यत्वविशिष्टो वा शब्दं इति ततस्तद्विपर्ययसाधनाद्विरुद्धः । यथायं
हेतुः शब्देऽनित्यत्वं (प्र) साधयति । तथा शब्दविशिष्टानित्यत्वाभावमपीति विरुद्ध इति य आह
सोप्यनेनेष्टसाध्यवचनेन निराकृतः । नहि शब्दोऽनित्यशब्दत्वं प्रसाध्यतेऽनित्यतामात्रस्य
प्रसाधनात् । अनित्यतामात्रसाधने कथं समुदायसाधनमिति चेत् । न । तथैव समुदायस्य
साधनात् । धर्मिणा सह समुदायसाधनात् । नहि धर्मिण्यपरः शब्दानित्यत्वसमुदायः शब्दे
साध्यः । ततस्तस्य निराकरणेपि न दोषः । अनित्यतामात्रनिराकरणे हि दोषः । कथं
समुदायविपर्यासनमिति चेत् । द्वयोरेकाभावे समुदायस्य निराकरणात् । नैकशेषत्वे समुदाय
सम्भवः । तस्मात् केवल एव धर्मो धर्मिणि साध्यः । तथैव समुदायसाधनात् । एकत्र
द्वितीयसाधने समुदायसम्पत्तेः । कथं तर्हि धर्मधर्मितत्समुदायविशेषनिराकरणभेदः । तद्द्वारेण
निराकरणात् । यद्द्वारेण हि समुदायो निराक्रियते तेन व्यपदिश्यते । परमार्थतः समुदाय
निराकरणमेव । अनित्यः शब्दः । शब्दानित्यत्ववान् वा शब्द इति समुदायनिराकरणञ्चेत् ।
नैवं प्रतिज्ञा (याः)ऽसंभवात् । अनित्यः शब्द इति तु प्रतिज्ञायां न समुदायसाधनत्वप्रतीति
रपरत्र धर्मिणि । तस्मादन्यथासमुदाय १साधनासम्भवात् । केवलधर्म्यादि1228
निराकरणेनैव
समुदायनिराकरणम् ।
न तु शब्देऽनित्यशब्दत्वनिराकरणात् । एवं साध्यस्यानभिप्रेतत्वात् । अनभिप्रेत
निराकणे न दोषः ।
—इति संग्रहः ।
५. स्वयंशब्दग्रहणफलम्
यदि तर्हीष्टग्रहणमनभिप्रेतसाध्यनिराकरणेप्यदोषप्रतिपादनपरं तत्र यथा शब्दनिवि
ष्टा४ नित्यताबाधने धर्मिणि न दोषस्तथा अकाशगुणत्वविशिष्टानित्यत्ववाधनेप्यदोष एव ।
सत्त्यमेतत् । तथापि विप्रतिपत्तिनिराकरणार्थं स्वयं ग्रहणम् । तथा हि ।
भवत्वेव शास्त्रदृष्टं साध्यं तत्प्रबाधने च हेतुप्रतिज्ञयोर्दोष इत्येके । तथा हि ।
न्यायभाष्ये । आगमः प्रतिज्ञा । आगमार्थनिर्द्देशादागम इत्युच्यते नान्यथेति (न्याय-)
वार्तिकं । अन्यथाऽगमस्य प्रमाणत्वात् प्रतिज्ञायाश्च सन्देहसाधनात् कथमेकत्वं । स एवा
गमार्थः परं प्रति निर्द्देश्यमानः प्रतिज्ञार्थः । तस्मादागमः प्रतिज्ञा तदर्थबाधने हेतोर्द्दोषः शास्त्रार्थ
बाधनात् । न (च) शास्त्रविरुद्धो हेतुः साध्यसाधकः । प्रतिज्ञादोषश्च । अनित्यत्व
मप्याकाशगुणत्वैकार्थसमवायसम्भवि साध्यं यथाऽन्येन हेतुना केनचित्तत्राकाशगुणत्वं शास्त्रेण
वा साध्यं तथाभूतमनित्यत्वं प्रतिज्ञार्थः । तस्य च तेन निराकरणे प्रतिज्ञादोषः । तथाहि ।
(१) क्षणिकोऽनाश्रयः
1232यदि तस्य शब्दात्मनः क्षणानन्तरमहेतुत्वान्नाशः किमाकाशगुणत्वेन । आश्रयो हि
नाम स्थितिहेतुः । न च क्षणिकस्य स्थितिः । क्षणमेकन्तु स्वकारणादेव । अथ
कालान्तरस्थायी स स्वकारणादुपजातस्तथापि1233 कारणवशादेव स्थास्यतीति किमाश्रयेण ।
अथाश्रयवशात्कालान्तरस्थानं नन्वविनाशादेव स्थास्यति किमाश्रयेण । न च शब्दस्य गुरुत्वं
येनाश्रयमन्तरेण पातसम्भवः । न चाकाशस्य धारणस्वभावभाक्त्वं न खलु गुरूणामा
काशेन धारणं ।
स्वभावो हि (स) तस्येत्थमपेक्ष्यैव विनश्यति ।
यावद् विनाशको नास्ति स्थानादन्या न तद्गतिः ।।१०८ ।।
इत्याश्रयम्विनैवास्य स्थानमित्येव निश्चयः ।
नित्यानामपि नैवास्ति साश्रयत्वमनर्थकं । सत्त्यमेतत्तथाप्येष स्वभावः सहजस्सदा1235 ।।११० ।।
नहि पर्यनुयोज्योसाविति स्यादपि कल्पना ।
तस्मादनित्यस्य पदार्थात्मनो नाश्रय इत्यनित्यत्वस्य साधक आश्रयत्वस्य1236 बाधक इति
हेतुदोषः । प्रतिज्ञादोषश्चेति ।
(२) गुणा अनाश्रयाः
1237अत्रोच्यते ।
यदि शास्त्रमभ्युपगतमित्येव शास्त्रबाधने दोषः प्रतिज्ञाहेत्वोस्तदा शब्दाकाशगुणत्व
बाधनवद् गन्धे पृथिवीगुणत्वविपर्यासनेपि । ततो यथा तत्परिपठिततद्धर्माकाशगुणत्व
संसर्ग्गसम्भवि तदनित्यत्वं साध्यं तथा तच्छास्त्रकारेष्टगन्धधर्म्यन्तरसङ्गतपृथिवीगुणत्वसङ्गत
शास्त्रप्रतिपादितत्वमपि । तद्बाधनेपि तच्छास्त्रसम्बन्धत्वमयुक्तमिति स्यादेव प्रतिज्ञादोषः ।
अप्रकरणापन्नत्वाद् गन्धस्य कथमित्यपि न वाच्यं । आकाशगुणत्वस्यापि न प्रकरणापन्नतेत्यपि
नोभयत्र विशेषः ।
धर्म्यन्तरेपि प्रकृतः1238 शास्त्रार्थोपगमान्न किं ।
यदि नामात्र धर्मी प्रकृतः स तु तद्धर्माधारतयैव । अथ शास्त्रद्वारेण धर्मान्तराधार
तयापि । एवन्तर्हि तदेकशास्त्रपरिपठितधर्म्यन्तरगतधर्मसङ्गतत्वमपीति समानो दोषः ।
अथापि स्यात् । तद्धर्माधारो धर्मी प्रकृत इति धर्मान्तरमपि साध्यपक्षनिक्षिप्तमेव वादिनोपि
तथेष्टत्वात् । तदाह ।
आकाशगुणत्वमपि वादिन इष्टमेव । उपात्तसाध्यधर्मिधर्मित्वादनित्यवत् । तथा
साध्य समुदायैकदेशविशेषत्वादित्यादि । तदाह । न साध्यसमुदायैकदेशविशेष इत्येवा
प्रकरणेच्छा भवति । तथाहि
न साध्यसमुदायैकदेशविशेषत्वमात्रकमिच्छां प्रवर्त्तयति । प्रवर्त्तने वा सदेच्छासाधन
प्रवृत्त्योरविरामप्रसङ्ग । अथ साध्यसमुदायैकदेशविशेषत्वेन नेष्टत्वादिति मतिस्तथा सति
तदेवेष्टत्वं साध्यं तदेव साधनमिति प्रतिज्ञार्थ एव साधनं । तस्माद् यत्र प्रकरणं तत्रैवेच्छा
न्यथातिप्रसङ्ग । तस्माद्विवादास्पद एवेच्छा प्रवर्त्तते नाकाशगुणत्वे ।
ननु प्रकरणादिच्छा भवति प्रकरणञ्च तस्या (ः) कारणं । तत्कथङ्कारणात्
कार्यसिद्धिः । अप्रतिबद्धं कारणं कार्यं गमयतीति चेत् । कथन्तथावगन्तव्यं । वचनस्य
तत्कार्यस्य दृष्टेः । वचनादेव तहि गतिः कार्यान्न प्रकरणादिति कथं तैरेव गम्यत इत्युच्यते ।
अत्रोच्यते ।
वचनाद्वीच्छामात्रस्य गतिः प्रकरणञ्च कारणत्वादिच्छाया न गमकं (।) ततो वचनाद्
गता1239 प्रतिबद्धसामर्थ्यं प्रकरणमेवेच्छायाः प्रतिनियमस्य गमकमिति तैरेवेत्युच्यते । अप्र (क)
रणा (द) पि तु तवेयमेवेच्छेति नात्र कश्चिन्न्यायः । ततः (।)
इच्छाया हि कार्यं कारणम्वा गमकं । प्रकरणञ्च कारणं नाकाशगुणत्वङ्गमयति ।
तत्र तदभावात् । वचनं कार्यं तदपि नाकाशगुणत्वस्य । तथापि तवेयमिच्छेति । अकार्य
लिङ्गामिच्छाम्वदन् व्यभिचारेण बाध्यते । नहि साध्यसमुदायैकदेशविशेषत्वादि (क)
मिच्छायाः कार्यम् । नाप्यप्रतिबद्धसामर्थ्यं कारणं नान्तरीयक (त्व) बाधने च व्यापकाभावात्
साध्यस्याभाव इति भवेत् साध्यसाधनदोषः । न चाकाशगुणत्वं नान्तरीयकमनान्तरीयके
च बाधिते साध्यस्य ततोन्यस्य का क्षतिः ।
३. शब्दाप्रामाण्यचिन्ता
१. शास्त्रविरोधो निर्बलोऽनुमाने
ननु शास्त्रमभ्युपगम्यैव वादः प्रवर्त्तते । ततः स्वशास्त्रव्यवस्थितस्य तदर्थबाधने
नियमेन दोषः । न(।) उक्तोत्तरत्वात् । गन्धे पृथिवीगुणत्वविपर्यासनेपि दोष इति ।
अनुमानं हि स्वविषये1241 प्रतिबन्धबलमवलम्बमानं शास्त्रमपेक्षते । प्रत्यक्षवत् प्रमाण
त्वात् । यत्किमपि दृश्यते तत्किमागमापेक्षं सकलं तथानुमानमपि किमागममपेक्षते ।
तथास्मदादिप्रत्यक्षं नियमेनागमापेक्षमागमबाधितत्वेन भ्रान्तिरेव । न खलु दिव्यचक्षुषां
बचनमस्मदादिप्रत्यक्षेण बाध्यते न तैमिरिकदर्शनमितरदर्शनं बाधते ।
सत्त्यमेतत् । यदि दिव्यचक्षुरखिलो वचसां कर्त्ता भवेदुचितमेव वचः । सत्त्वेपि
कस्यचिदियं स तथेति नास्मद्विनिश्चय इदं स्फुटयति । परस्परवचनविरोधितया हि सर्व्वत्र
एवागमकृतः सर्व्ववेदिन इति न गम्यन्ते । मा भूवन् सर्व्ववेदिनः तथापि (न) भवतोपि
परिहीयन्ते (।) एवन्तर्हि सर्व्वागमविरोध एव परिहर्त्तव्यः स च न शक्यत एव (।) ततो न
भवेदेवानुमानोत्थानं ।
अथ स्वागम1242
विषयशास्त्रविरोधपरिहार एव विधातव्यः । एवन्तर्हि सोप्यभ्युपगमः1243
परीक्ष्य कर्त्तव्यः । परीक्षाकाले चानुमानमप्रमाणं शास्त्रविरोधापरिहारात् । नास्त्येव तदा
शास्त्राभ्युपगमः किं परिहारेणेति चेत् । एवन्तर्हि सिद्धं तेन सुसिद्धमेव साध्यं । नहि सिद्धं
पश्चादसिद्धं भवति । तद्विरुद्धशास्त्राभ्युपगमादसिद्धमेवेति चेत् । स एव तर्हि सकलशास्त्र
विरोधपरिहारः । अभ्युपगतापेक्षया भवति नान्यथेति चेत् । अभ्युपगमोपि कस्मान्न
सर्व्वत्रेति । परीक्षाक्षम एवेति चेत् । एवन्तर्हि प्रमाणमेव परीक्षा सैव च तेन बाध्यत इति
स्वबधाय कृत्त्योत्थापनप्रकार एषः । तस्माच्छास्त्रमेव प्रमाणविरुद्धत्वात्तदा नापेक्षते । ततो
न तद्वाधकं ।
यदि तर्हि शास्त्रं तदा नापेक्ष्यते वादत्याग एव प्राप्तः ।
नहि शास्त्रमनाश्रित्य न वादस्तदानभ्युपगमात् । परीक्षैवोपायोऽभ्युपगमस्य । अपरीक्ष्य
चेदभ्युपगतस्तदा सन्नपि तदा प्रमाणबाधित्वादनङ्गमेव । न ह्यपरीक्षाक्षमं शास्त्रं तदा बाधकं ।
कदा तर्हि शास्त्रमभ्युपगतमङ्गं वा साधनस्य1244 ।
अत्रोच्यते ।
505तथेत्यनुमानेन प्रत्यक्षेण च विषयद्वयस्य प्रत्यक्षपरोक्षस्य विशुद्धतायां यदि तावता न
परितोषस्तदा शास्त्रपरिग्रहचिकीर्षायां स हि कालः स्यादुभ्युप1245 गमस्य । तदैव शास्त्रेण बाधनं ।
यतः ।
नहि परीक्ष्ये शास्त्राभ्युपगमे तद्विरोधेन चिन्ता तच्छास्त्रप्रसिद्धेर्थे युक्ता । तथा हि ।
परीक्षितं तद् यदि शास्त्रमुच्चैः प्रतिज्ञया तत्कथमस्य वाच्यम्
तस्मात् परीक्ष्य प्रत्यक्षानुमानाभ्यां तदविषयं तृतीयस्थानसंक्रान्तिनिमित्तं शास्त्राभ्युपगम
इति नानुमानविषयस्य शास्त्रम्बाधकं ।
अथापि स्याद् (अ) विचार्य यस्य शास्त्राभ्युपगमस्तस्य शास्त्रं बाधकमिति भवेत्
प्रतिज्ञादोषः ।
नैतदस्ति । यतः ।
यदि शास्त्रमभ्युपगतमित्येव तदर्थबाधनं परिहर्त्तव्यं । गन्धे पृथिवीगुणविपर्यासनेपि
दोषः स्यात् । तस्मात् साध्यधर्मसम्बद्धस्यैव बाधनं परिहार्यं नान्येषामसम्बद्धानामिति
स्थितमेतत् ।
ननु शास्त्रमनभ्युपगम्यापि वादे वैतण्डिकः स्यात् । अनाश्रितशास्त्रकस्य नास्तिकत्वात् ।
ननु प्रमाणसिद्धमभ्युपगच्छतः का नास्तिकता । तथा प्रमाणबाधितमनभ्युपयतः । तृतीय
स्थाने यः शास्त्रं नाभ्युपगच्छति नास्तिकः । तृतीयादन्यत्र तु किं शास्त्रेण (तथा) हि ।
यदि सिद्धान्तमभ्युगम्यैव सर्व्वप्रमाणप्रवर्त्तनं पावकोपि लोके गोपालकादिना धूमतो
न प्रतिपत्तव्यः ।
अथापि स्यात् परलोकोपयोगी योऽर्थः स एन शास्त्राभ्युपगमपुरःसरो नान्य इति ।
तदसत् ।
यदि नाभ्युपगम्यते शास्त्रेण बाधा शङ्क्यते । अभ्युपगमे तु ज्ञायते शास्त्रबाधा ।
तेन तन्न साध्यत एव । न प्रमाणप्रसिद्धस्यानिच्छतो भावात् । शास्त्रन्तु तदा परित्यज्यते ।
आत्मीयं कथं परित्यागार्हमिति चेत् । न । सम्बन्धाभावात् । सगुणत्वेन तस्य तत् ।
तथाहि ।
(१) विषमग्रहः शास्त्रम्
1247यदि न्यायबाधितोपि सिद्धान्तः परित्यक्तुमशक्यस्तदा नासौ सिद्धान्तः । सिद्धान्त
व्याजेन विषमग्रहो बालानां ततो मोचयितुमशक्यत्वात् ।
गुणदोषविवेकोपि प्रमाणं त्यजतः कुतः ।
तस्मान्न शास्त्राभ्युपगमपूर्व्वकमनुमानं ।
ननु शास्त्रविरोधि कथमनुमानं निश्चायकं तस्माच्छास्त्रविरोधः परिहर्त्तव्यः तदनुकूल
निदर्शनेन ।
तदसत् । यतः ।
शास्त्रविरोधो हि परिहर्त्तुमशक्य एव । शास्त्राणामेव परस्परविरोधात् । सर्व्वेषां
प्रमाणत्वमप्रमाणत्वम्वा । न तावत्प्रमा(ण)त्वे सर्व्वविरोधपरिहारः परस्परविरुद्धत्वात् ।
नाप्यप्रमाणत्वे सकलजनवचसां विरोधस्य सदा भावात् । न ह्यपरिमितो विरोधः शक्य
परिहारः । एवञ्च साधनं भवतीति लोकातिक्रान्तोयं मार्गः1249 ।
ननु यदि तद्धर्मिधर्म एव बाध्यते उक्तेपि कः समाश्वासः । नहि बाधकस्य साधकत्व
सम्भवः । नेदमपि युक्तं । एवं हि साधनमेव किञ्चिन्न स्यात् । एवं हि साधयता
नियमतः परं बाधितव्यम् ।
अपि च ।
असम्बद्धस्य हि धर्मस्य यदि बाधनं परिहर्त्तव्यं न हेतुरेव स्यात् । यदि चान्यो बाध्यते
कस्मादन्यन्न सिध्यति । एकोपि हि धूमः पावकशीतस्पर्शयोर्भावाभावयोः साधक उपलब्धः ।
विरोधात् साधनमविरुद्धमिति चेत् । आकाशगुणत्वेपि समानो विरोधः ।
अथ भवतु स हेतुः साधको भावाभावयोः । प्रतिपाद्यस्य तु कथं शास्त्रविरुद्धार्थ
प्रतिपत्तिः । ततः शास्त्रार्थानुगमोपि दृष्टान्ते दर्शनीयः । न हि तद्धर्मानुपनये हेतुतः
साध्यप्रतिपत्तिः1250 ।
नैतदस्ति । यतः ।
आस्तां तावच्छास्त्रप्रसिद्धोऽसम्बन्धो धर्मस्तद्धर्मिधर्मस्यापि कस्यचिद् दृष्टान्तेनुपनये
वाग्धूमादिकाद्धेतोरयं लोकश्चैतन्यदहनादिकं प्रत्येति नहि तदपरो धर्मो बाधित इति पावका
प्रसिद्धिः1251 ।
न च न प्रत्येति प्रतिपाद्यः । अपि चानिच्छतोपि प्रतिपाद्यस्य ।
न खलु स्वकारणायत्तः स्वभावः पदार्थानां पुरुषेच्छया व्यावर्त्तते (।) अव्यभिचारश्च
हेतोः साध्यसाधने निमित्तं स चास्ति किन्न साधकः(।)
अथ भवत्वसौ साधकः स तु प्रतिपाद्यः कथं प्रतिपद्यते । तदाह । स्वभावं ।
कारणं हि कार्यजननाय प्रवृत्तमप्रतिबद्धसामर्थ्यादितरन्निवारयितुं शक्यम् । ज्ञापकन्तु
प्रतिबन्धबलात् प्रतीतिमुपजनयत् प्रतिपन्नरूपत्रयस्य न तेनैव निवारयितुं शक्यम ।
न हि तदव्यभिचारितां प्रतिपद्यमान एव तन्न प्रतीयात् । विशेषणविशिष्टविशेष्य
प्रतिपत्ते1252 र्व्विशेषप्रतीतिनान्तरीयकत्वात् । सर्व्वमस्ति किन्तु वाद्ययुक्तकारी भवेत् ।
अत्रोच्यते ।
वचनगुणदोषौ हि परार्थेऽनुमानेऽधिक्रियेते नार्थस्य । न वक्त्रात्र किञ्चिद्दोषजात
मकारि । शास्त्रं बाधितमिति चेत् । न । हेतुरेव शास्त्रस्य बाधकोनुक्तोपि । एवम्भू
तमेव हेतुं कस्मादुपादत्त इति चेत् । अन्यस्यासम्भवात् । नहि कश्चिदनित्यत्वसाधकः
सम्भवति य आकाशगुणत्वादिकं न बाधते । तूष्णीमेव कस्मान्नास्त इति चेत् । न (।)
असाधनाङ्गवचनस्य1254 सुतरामेव निग्रहस्थानत्वात् । अवश्यं हि प्रतिवाद्यववोधयितव्यः ।
तस्मादत्र न वादिनो दोषः ।
—इत्यन्तरश्लोकः ।
508एवं तर्हि हेत्वाभासवचनेपि न दोषः । हेत्वाभासोपि स्वयमेव तथाभूत इति किम्वा
दिनो दोषः । न ह्यसावपि तदुक्तदोषेणैव दुष्यति स्वयमेव दोषात् ।
तदसत् ।
अत्र साध्यसाधनाय साधने वक्तव्ये तदसाधनस्य वचने दोषः । व्यर्थकत्वादभिधानस्य ।
सार्थकाभिधानाधिकारे व्यर्थकवचनं हि व्यर्थं । अत्र तु साध्यसाधनाददोषः । अवचन एवात्र
दोष इति । अत्राप्याकाशगुणत्वस्यावचने दोष इति चेत् । न । साधकस्यापि सम्भवात्
वादीष्टसाध्ये ऽवचनं दोषो युक्तः । न त्वत्र शास्त्रार्थाकाशगुणत्वाबाधकस्य सम्भवः । अतो
नावचनं दोषः ।
ननु यदि हेतुः शास्त्रार्थं बाधतेऽनित्यत्वमपि कथं साधयेत् । तेनैवानैकान्तिकत्वात् ।
अत्रोच्यते ।
नहि सकलशास्त्रार्थविरोधः । क्वचिदेव शास्त्रे तस्य भावात् । सम्बन्धभावाभावाभ्यां
साधनमसाधनञ्चेति क इवात्र विरोधः । अयुक्तस्य प्रतिषेधे युक्तस्यापि प्रतिषेध इति
राजशासनमेतत् ।
अपि च ।
सर्व्वार्थाविरोधेन न किञ्चित्साधनं शक्यं वक्तुं । प्रकृतसाध्यसम्बन्धमात्रमेवापेक्ष्यते ।
अन्यथाऽसम्भवात् । शास्त्रार्थाविरोध एव कर्त्तव्य इति चेत् । न(।) अविशेषादपरस्यापि
प्राप्तेः । अथ शास्त्रस्यापि विरोधः परिहर्त्तव्यः (।) तथा सति साधनमेव किञ्चिन्न
स्यादित्युत्सीदेत् साध्यसाधनभावः सर्व्वत्र । शास्त्रं तर्हि कस्मादङ्गीकृतमिति चेत् । एत
देवात्रोपपादयितव्यमभिप्रेतं । न प्रथमं शास्त्राभ्युपगमः कर्त्तव्यः । कृते सति प्रमाणविरोधे
पश्चादपि वरं परित्यागः । परेषां पुनर्मतं शास्त्राभ्युपगमः प्रतिज्ञा । ततः शास्त्रमभ्युपगम्य
न विरोधयितव्यं । अभ्युपगमसिद्धान्ते सति वादविधानवृत्तेः ।
यदि तर्ह्याकाशगुणत्वबाधनेपि न हेतुदोषः कथम्विरुद्धाव्यभिचारी साधनदोषः ।
तत्रापि साधनान्तरप्रसिद्धार्थविरोधतो दोषः । इहापि शास्त्रप्रसिद्धार्थविरोध एव दोषः ।
न सदेतत् । यतः ।
विरुद्धाव्यभिचारिणोरिह1256 परस्परविरुद्धार्थाव्यभिचारिता द्वयोरपि समानबलैव ।
द्वयोरप्यागमाश्रितत्वात् । वस्तुबलप्रवृत्तन्त्वनुमानं शास्त्रञ्च न तथाभूतं । ततस्तयो (र्)
न परस्परबाधनं विरुद्धाव्यभिचारिवत् । न च द्वयोरपि साधनं विरुद्धयोरेकत्र धर्मिण्ययो
गात् । शास्त्रस्य तु विरुद्धानुमानापेक्षया प्रमाणत्वाभावात् । तदर्थो बाध्यत एव न बाधको
विरुद्धाव्यभिचारिवत् । शास्त्रस्य च प्रमाणबलाननुगृहीतस्य प्रतिषिद्धमेव प्रामाण्यं ।
तस्मान्न विरुद्धाव्यभिचारिपक्षोपक्षेपपक्षः क्षमः ।
अथापि शास्त्रमतीन्द्रियार्थदर्शिना प्रवर्त्तितं कथन्तस्यानुमानेन बाधा । ततस्तेन
प्रतिबद्धमप्रमाणमेवानुमानमपि । ततस्तुल्यबलत्वाद् विरुद्धाव्यभिचारिवदत्रापि दोष
एवेति चेत् ।
तदसत् । यतः ।
यदि सकलमनुमानं शास्त्रेण बाध्यते । तदा नानुमानेन शास्त्रार्थः साध्यते परं प्रतीति
कथमागमः प्रतिज्ञा भवेत् । नहि किञ्चिदनुमानमन्यद्वा प्रमाणं यन्न शास्त्रेण1257 बाध्यते ।
अनित्यनित्यताद्यनुमानस्यापरापरशास्त्रेण बाधनात् । अस्त्यग्निरित्यादिकमपि शून्यताशास्त्रेण
बाध्यते । अथ तदप्रमाणं कथमप्रमाणमनुमानस्य बाधकं । अनुमानेन बाधितमप्रमाणं न
सर्व्वमिति चेत् । ननु तदेवानुमानं शास्त्रेण बाधितमप्रमाणमिति भवतः पक्षः । ततो न
भवतः पक्षपरित्यागो युक्तः । अथ परीक्षितं प्रमाणन्तेन बाधनं ।
नन्वनुमानमेव परीक्षा ततः कथं शास्त्रेण तेन बाधिता परीक्षा शास्त्रस्य प्रामाण्यहेतुः ।
न खलु तत्रासम्भवि तत् सम्भावयति । तस्मादनुमानमेव प्रत्यक्षपूर्व्वकं दृढमूलत्वात् प्रमाणं
तेन बाधितं शास्त्रं न प्रमाणमेवेति न तत्प्रतिपक्ष इति न विरुद्धाव्यभिचारिवदत्रापि दोषः ।
तेनाकाशगुणत्वाभावेन सहानित्यत्वसाधनात्1258 साधनमेव न तु दोषवत् । विरुद्धाव्यभिचारी
तु नित्यत्वं तदभावञ्च साधयन्नहेतुरेवासम्भवात्तदभावतद्भावयोरेकत्र । आकाशगुणत्वाभावस्य
त्वनित्यत्वेन न विरोध इति कुतो दोष एकत्र धर्मिणि साधने ।
गन्धेपि पृथिवीगुणत्वविपर्यासनात् । अन्येन तेन च प्रकृतेन हेतुनेति ।
यदि नाम तत्र धर्मिणि तस्याकाशगुणत्वस्य सद्भाव इति सम्बन्धस्तथापि न तत्साध्य
मप्रकृतत्वादप्रकरणेपि न बाधनं दोषः । सर्व्वस्य हेतोः स्वसाध्यापेक्षया दोषस्य चिन्तयि
(तु) मभिसमीहितत्वात् ।
तस्य स्वासाध्यानुपरोधेपि तदपरासम्बन्धबाधने यदि दोषः शास्त्रपीडालक्षणः । तदा
न्येनापि हेतुनान्यत्रापि धर्मिणि समैव दोषकारिणी पीडेति प्रतिपादयन्नाह ।
व्यापकस्य हि साध्यस्याभावसाधनं परिहर्त्तव्यं । यः साध्यसाधननान्तरीयकस्य
द्वाधने हि तदभावे व्याप्यस्यापि निवृत्तेः । न चाकाशगुणत्वस्य साध्यनान्तरीयकता । ततस्त
दभावेपि न साध्योपरोधः । अपि च ।
प्रमाणसमुच्च(य)स्य व्याख्याता प्राह । शास्त्राभ्युपगमात्साध्यता सकलस्य शास्त्र
दृष्टस्यान्यथा शास्त्राभ्युपगमस्य व्यर्थता । नहि तदर्थासाध्यतायां शास्त्रोपगमः क्वचि1263
दुपयोगी । अभ्युपगमम्वार्हति । स्वातन्त्रेण1264 प्रमाणेन न किञ्चित् । तस्मादुपगम्य शास्त्रं
तदर्थः साधनीयः । ततस्तद्विरोधे दोष एव ।
अत्रोच्यते । असिद्धहेतुदृष्टान्तयोः प्रतिज्ञात्वं भवेन्निर्द्देशस्य । तयोरपि शास्त्रार्थ
त्वस्य कदाचिद्भावात् । भवतु को दोष इति चेत् । प्रतिज्ञैव सकला प्राप्ता ततो सिद्धतादि
दोषो न वक्तव्यः ।
ननु यः शास्त्रार्थो न भवति स हेतुर्व्वक्तव्यस्तत्रासिद्धतादिदोषः सावकाशः । न (।)
तस्यापि स्वमुखेनाभ्युपगमात् । अथ स्वमुखेनाभ्युपगतं न प्रतिज्ञा परमुखेनाभ्युपगतं नितरा
मेव । परस्यापि वैशेषिकादेः । साध्यनिर्द्देशः प्रतिज्ञेति असिद्धसाधननिद्दशोपि भवेत् ।
तस्यापि यदि नामानिर्द्दिष्टः शास्त्रार्थः प्रतिज्ञा न भवेत् निर्द्दिष्टस्तु भवत्येव । तथा हि भाष्य1265
उक्तमागमः प्रतिज्ञा । न तु1266 प्रतिज्ञा या स आगमः । नन्वा1267 गमः प्रतिज्ञैव । न (।)
आगमार्थनिर्द्देशादागमः प्रतिज्ञानस्वरूपतः । ततः साध्यनिर्द्देशः प्रतिज्ञेति स्यात् प्रतिज्ञाऽसिद्ध
हेत्वादिस्तस्याप्यागमार्थत्वात् (।)
सत्त्यमेतत् । सकल एव शास्त्रार्थः साध्यः । तथापि । न साधनत्वेनोक्तस्य
प्रतिज्ञात्वं साध्यत्वेनानीप्सितत्वात् न्यायमुखप्रकरणे । तत्र तु स्वयं साध्यत्वेनेप्सितः
पक्षो विरुद्धार्थोनिराकृत इति पाठात् । न च साधनत्वेन निर्द्दिष्टस्ये1268
प्सिततमत्वं साध्यता
च कर्मणः । न च साधनत्वेनेष्टं कर्म्म । तद्यथा ओदनं पयसा भुङ्क्त इति पयः । प्रमाण
समुच्चये न स्वरूपेणैवेति अवधारणात् । नैयायिकस्य च साध्यनिर्द्देशः प्रतिज्ञेति साध्यत्वे
नैवेति भावप्रधानत्व1269 स्यावधारणात् न साधननिर्द्देशः प्रतिज्ञा । अत्रोच्यते ।
शास्त्राभ्युपगमादिति न्याय एष यदि तत्कथं न्यायप्राप्तस्य वचनेन निवर्त्तनं । न्याय-
511
सूचकं हि वचनं (न) न्यायमेव विरुणद्धि । अथ वचनसंसूचितोपि न्यायः साधक एव ।
साधनत्वेन1271 निर्द्दिष्टस्यासाध्यत्वस्य ।
नैतदस्ति ।
यदि ईप्सितवचनादि न्यायेनासाध्यत्वं साधनस्य साध्यते । तथा शास्त्राभ्युपगमादि
त्यनेन साध्यत्वं (।) तथा सत्येकत्र परस्परविरुद्धार्थसाधनादे तौ शंस (? संश)सं जनयेतां ।
तथा च । शास्त्राभ्युपगमादिति न साधक इति कुतः शास्त्रदृष्टस्यासाधनत्वेनेष्टस्यापि साध्यता ।
अथ शास्त्राभ्युपगमादिति न न्यायः । तथा सतीप्सितम्वादिना साध्यं न साधन
त्वेनेष्टं (।) अत्राह
(२) शब्दस्याकांशगुणत्वनिरासः
1273नह्याकाशगुणत्वमपि वादिनेप्सितमतो न साध्यं । प्रकृतपरित्यागेन हि कः प्रेक्षावान्
अप्रकृतमीप्सिततमं कुर्यात् ।
ननु शास्त्रमभ्युपगम्य तदर्थविरोधे स्वयमुक्तेन हेतुनाऽवश्यमेव दोषदुष्टः । न ।
प्रतिवादीष्टस्य स्वयञ्च साधनात् । न दुष्ट इति प्रतिपादितमेतत् । अथ प्रमाणविरोधोपि
यद्याकाशगुणता शब्दस्य न स्यादुत्पत्तिस्थान एव श्रूयेत । आकाशगुणत्वे तु तद्योगादन्यत्रापि
श्रुतिः । नैतदस्ति । तत्रैव तस्य ग्रहणात् रूपवत् । दूरस्थितेन कस्माद् गृह्यते । रूपस्यापि
तर्हि तदाकाशगुणत्वप्राप्तिः । अपि च । तदाकाशमेकमनेकमिति वा स्यात् (इति) ।
यद्येकं योजनसहस्त्रादपि तद्गुणस्य श्रुतिः स्यात् । अनेकत्वे वदनदेश एव । तस्मान्नाकाश
गुणत्वस्य शब्दे कुतश्चित् प्रतीतिः ।
नन्वाकाशगुणत्वमन्तरेणावस्थानमेव न स्यात् । अवश्यं हि पदार्थेन स्थितिमत (ा)
भाव्यं । तत्र रूपस्पर्शरसगन्धानां पृथिव्यादिमहाभूतचतुष्टयमाश्रयः । शब्दस्य त्वाकाश
मनाश्रि1274 तत्वायोगात् । पृथिव्यादीनामपि तर्हि आकाशाश्रितत्वमेव तत एव हेतोः । न(।)
गुणत्वाभावात् । तदेवागुणत्वमाश्रितत्वेन सिध्यति । गुणत्वञ्च शब्दस्याश्रितत्वे पृथिव्या
दीनां गुणाश्रितत्वादगुणत्वञ्चेत् । तदेव न सिध्यत्याश्रयस्याकाशस्य सम्भवे । आकाशा
श्रितं हि रूपादि पृथिव्यादि च भवेत् । पृथिव्यादे1275 रूपादेश्चाकाशासमवायित्वात् ।
पृथिवीसमवेतं हि रूपादिकं । कोयं समवायो नाम । एकलोलीभावेनावस्थानमिति चेत् ।
न तर्हि शब्दस्याकाशगुणत्वं तेन सहैकलोलीभावेनाप्रतिपत्तेः । गन्धस्य च पृथिव्या अथाकाश
उपलभ्यमानत्वात्तदाश्रितः शब्दस्तदेव च तस्य स्थानं । तूलकादेरपि तर्हि तत्रोपलभ्यमा
नत्वादाकाशाश्रितत्वं तेन धारणात् । स्वयमेव लभ्य (?घु) त्वादवस्थानमिति चेत् । शब्द-
स्यापि तथा स्यादित्यनाकाशगुणत्वं । अथ तूलकादेः पृथिव्यपि स्थानमाकाशे तु स्थानन्ना
काशकृतं वायुना सन्धारित्वात् । शब्दस्याप्येवमिति नाकाशगुणता । तथाहि ।
यथा हि । वायुना धार्यमाणस्य तूलकादेर्न्न वायुगुणता तथा शब्दस्यापि ।
अथ शब्दः प्रेरयितुमशक्य एव मातरिश्वना गुणेन संयोगाभावात् । तूलकस्य तु
पृथिवीत्वान्न विरोधः । अन्यथाच्छायातपादिरपि प्रेर्येत1276 । कथन्तस्य प्रेरणं द्रव्यस्यैव
तदाश्रितस्य प्रेरणात् (।)
अपि च ।
वायुगुणतैव शब्दस्यास्तु1278 तद्द्वारेण तस्य देशान्तरगमनात् । वायोः स्पर्श एव गुण इति
चेत् । नैकगुणत्वमेव द्र(व्य) स्येति नियमः । रूपरसगन्धस्पर्शवती पृथिवीत्यादि परसिद्धा
न्तात् । दृष्टश्च गुणस्यापि गन्धस्य वायुना प्रेरणं । तत्रापि संयुक्तपृथिवी समवायादेव
प्रेरणमिति चेत् । न । तदुपलम्भे पृथिव्युपलम्भाभावात् । तत उत्पन्नस्य केवलस्य वायुना
प्रेरणे को विरोधः । गुणस्य निष्क्रियत्वादिति चेत् । तदेव निष्क्रिययत्वं केवलप्रेरणायां न
सिध्यति । सक्रियत्वमपि सहितप्रेरणायामसिद्धमिति चेत् । न । सहितप्रेरणाया असिद्धेः ।
गुणस्य सक्रियत्वं कथमिति चेत् । अयमपरोस्यय दोषस्तु ।
अपि च ।
यदि च गन्धः संयुक्तसमवायेन वायुना भुवा सहाकृष्यते । शब्दोपि पृथिव्यादिगुण
एव । ततः पृथिव्यादिना सहैवाकृष्यतां किमाकाशकल्पनया ।
(३) आकाशस्य भूतत्वनिरासः
अपि च पृथिब्यादयो धारणादिकर्म्मणा परिकल्प्यतां नाम आकाशन्तु कथं । अवका
शदानादाकाशमपीति चेत् । किमिदमवकाशदादन्नाम । अवस्थितेरव्याघातः (।) पृथिव्यादयः
परस्परदेशावस्थितिविघातकृतः । ततोऽवस्थानस्य दात्रापरेण केनचिन्महाभूतान्तरेण
भवितव्यं । तदाकाशं ।
तदपि यत्किञ्चित् । तंथाहि ।
ननु महाभूतान्तरस्य वाय्वादेः क्वावस्थानं यदि नाकाशं । नन्वाकाशस्यापि क्वावस्थानं
यदि महाभूतान्तरं म भवेदित्यनवस्था । अथाकाशमनाधारस्वभावमाधारश्चान्यस्येति चेत् ।
वायुरवि तर्ह्यनाधारस्वभावोन्यस्य चाधार इति अर्थान्तरपरिकल्पना न साध्वी । अपि च ।
अथ ।
यस्यात्मा नास्ति तादृक्षस्तस्याकाशेन का क्रिया ।
परस्परव्यापितायामेकत्वं व्यापिनां न किम् ।
नन्वाकाश आलोक इति व्यवहारो नात्मादिषु कथमेकता । (ननु) यदि व्थवहारो
नुरुध्यते यथाव्यवहारस्तथा पदार्थकल्पना तदनुरूपैव युक्ता । छिद्रमेवाकाशम् । अच्छिद्र
कारकाभावे च तद्व्यवहारः । यदा चाच्छिद्रकारिणो भावस्तदाकाशं क्व गतवत् । नहि
पार्श्वाप (द) श(?स)रणमुच्यते1279 व्योम्नस्तदभावे च तत्र चान्यत्र वा क्व गतमाकाशं1280 ।
विनष्टञ्चेत् । साध्वी नित्यता । तत्रैवास्तु इति चेत् । अच्छिद्रमाकाशमिति च व्याहतं ।
तत्रा1281
प्यस्त्यवान्यथा तस्य पदार्थस्य स्थितिरेव न स्यात् । अथ केयं स्थितिः । किं धार्य
माणता । अथाविहन्यमानता । यदि धार्यता । तदसत् । नाकाशेन घटादयो धार्यन्तेऽपि
तु भुवा । (अथ) अनुपघातः । तदप्यसत्त्यं । यतः
(४)(३) दिङ्निरासः
1282अनेन दिगपि व्याख्याता । तस्या अपि व्यापितायां नावकाशदानादिकं । तथाहि ।
यदि व्यापित्वं दिशः । सैव पूर्व्वा ततोन्यत्र व्यवस्थितस्य कथं परा । अथ तत्रोभ
यरूपता तथा सत्युभयप्रत्ययप्रसङ्ग ।
अथ प्रतिनियतव्यञ्जकाभावात् काप्यवस्था दिशोभिव्यज्यतेनेंकावस्थायाः । थाय
पितृपुत्रादिरूपस्य स्वरूपस्यापि पित्रादित्वाभिव्यक्तिः पुत्रादित्वापेक्षया1283 ।
तदप्यसद्यतः ।
यत एव पूर्व्वापरदेशव्यवस्थितपुरुषापेक्षया (इ)त(र)स्य परादिता दिग्भागस्य तत
एव भावानामेव सेति किन्नाभ्युपेयते । पूर्व्वदेशावस्थितत्वात् पुरुषादीनां पूर्व्वता देशस्य
देशान्तरापेक्षया तस्यापि पुनरादित्याद्यपेक्षयेति किमन्यदिक्परिकल्पनेन । आदित्यादिना
दिगभिव्यज्यते । तेन चादित्यस्य पूर्व्वतादिता । तदिदमितरेतराश्रयदोषः । तावन्मात्रेण च
व्यवहारः प्रसिद्धः किमन्यापेक्षापरिकल्पनाप्रयासेन ।
नन्वपेक्षामन्तरेणापि ऋज्वेतदि (ति)भवति व्यवहारात् पदार्थान्तरमेव दिक् ।
तदप्यसत्त्यं । यतः ।
तथा हि तव प्रगुणमेतदिति लोक उपलभ्यते व्यवहारः । ततोत्यन्ताभ्यासात् पश्चात्तद
नुसरणेनापेक्षां विनापि । कुत एतत्(।) तदन्वयव्यतिरेकानुविधानादन्यत्रापि निमित्त नैमित्ति
कभावगतिः । तथाहि ।
तथाहि । पूर्व्वादिगिति भास्करोदयसङ्गम एव मनसि निलीयते ।
नन्वादित्यस्यान्यथा दर्शनेपि दिग्व्यामोहवाहिमानसानां सैव पुर्व्वोपलक्षिता दिक् प्रति
भाति नादित्त्योदयवशेन । तथा ह्यादित्त्योदयोपि पश्चिमदिगवलम्ब्यवभासते ।
अत्राप्युच्यते ।
य एवारामग्रामादि (र्)उत्तरादिदिगुपलक्षणमादित्योदयाद्यपेक्षया प्राक्तनावस्थायां
सातत्येनोपलब्धः तदभ्यासापरान्ना1285
दित्योदयोनुरुध्यतेऽपि तु तदुपलक्षिता सैव दिगिति दृढवास
नासङ्गमाद् व्यवहारः । तस्मात् (।)
न खल्वत्यन्तमवधानदानतात्पर्यपर्यासितपर्याकुलमानसोपि दिगादीनां निजं रूपमवधा
रयति । अनवधारिततद्रूप एव (तु) लोकः परामर्शविरहाद् गतानुगतिकन्यायापकृतमानसतया
तथा व्यवहरतीति किमत्र कुर्म्मः ।
अनादित्वात्तु सत्त्यत्वे नास्ति ह्यस्यापि1286 सत्त्यता ।
515
तस्मात्पदार्थानामेव परस्परापेक्षया पूर्व्वः पर इत्यादि नामव्यवहारार्थमुपरचयन्ति स्म
वृद्धाः । अनादित्वाद्वा संस्कारस्य पूर्व्वव्यवहार एव प्रबोधमुपगतस्तथा व्यवहारयतः1287 ।
(५)(४) कालनिरासः
1288स एव च स्वभावो भेदेन निर्द्दिश्मानः कालाद्याख्यां भजति । तथाहि । आसीदस्ति
भविष्यतीति प्रत्ययेभ्यः देवदत्तादेरतीतानानागतकालव्यवस्थानं । आसीत्सकाल इत्यादितश्च
कालस्यापि कालान्तरेवस्थानं प्रसक्तमित्यनवस्था । अथ स्वरू(पे) णैव कालः पूर्व्वो न
कालान्तरापेक्षया । तथा दिगपीति । स्वभावभूतधर्मभेदेन तथा व्यपदेश ऐन्द्री दिक्
पूर्व्वेति । एवन्तर्हि (।) पदार्थानामपि वृक्षादीनां स्वयमेव पूर्व्वता नापरकालादिपूर्व्वत्वा
पेक्षया । अथ कालादेः स्वतो न पूर्व्वादिताऽपि तु तत्संसर्ग्गिपदार्थापेक्षया । तथाहि ।
राजानो ये चिरातीता (स्) तत्संसर्गव्यपेक्षया ।
अत्रोच्यते ।
अन्यच्च । यद्याकाशगुणः शब्दः । वायुगुणः स्पर्शः । तेजोगुणो रूपं । अब्गुणो
रसः । पृथिवीगुणो गन्धः । कलगुणः क इति वक्तव्यमेव । तथात्मादेः । अथ कालस्य
महत्वादिकं तदात्मादीनामपि । ततः प्रातिस्विकः कश्चिद् वक्तव्यः । अथ पदार्थानां
प्रतिबन्धाभ्यनुज्ञे । ते(च)कारणवशादेवान्वयव्यतिरेकतः । तस्यापि स्वकारणादित्यनादिः
काल1289 परंपरा । अपि च ।
नित्यस्य व्यापिनः शक्तिः प्रतिबन्धाभ्यनुज्ञयोः ।
तथाहि । कालो दिगात्माकाशमिति समानमेतन्नित्यादितया । ततः ।
तस्मादसन्नेवाकाशादिवादः । तस्मादाकाशगुणत्वं शब्दस्य न प्रमाणसङ्गतं । अपि च
आकाशवायुप्रभवो हि शब्दः कथं न वायोर्गुण उक्त एषः ।
ज्वालादिराकाशगतो न दृष्टः किन्तद्गुणत्वं कथितन्न तस्य ।
यदि यो यत्रस्थतया प्रतीयते स तद्गुणः ज्वालादिकमपि किन्नाकाशगुणः । तस्या
न्योपि कुड्यकाष्ठादिक आश्रय इति तत्रस्थतया प्रतीयमानो नाकाशगुणः ।
तदसत् । उभयस्थत्वे भवतूभयगुणः । ध्वनेरपि पटहशङ्खादयः किं नाश्रयः ।
देशान्तरे श्रूयमाणत्वादिति चेत् । आलोकादेरपि समानमेतत् । आश्रयेपि मण्यादौ तस्योप
लंभादिति चेत् । क्वथ्यमानद्रव्यशब्देपि समानमेतत् । तस्मान्नाकाशगुणत्वं शव्दस्य ।
तत्रस्थतोपलब्धेरपि तत्रस्थालोकवत् । न चाकाशस्य स्थापकत्वमप्रतिघत्वात् । आकाशम
रूप्यनिदर्शनमप्रतिघं । आलोके सत्याकाशं प्रज्ञायते यत्रालोक एव तत्राकाशप्रज्ञप्तेः प्रज्ञप्तिम
दाकाशं । तस्मादाकाशगुणः शब्द इति न सुभाषितं । तस्मान्नाकाशगुणत्वबाधने कश्चिद्दोषः ।
२. अन्यथा स्वयं शब्दोऽनर्थकः
1290
अपि च ।
स्वयं शब्दो हि शास्त्रकारेष्टस्य शास्त्राभ्युपगमात् साध्यताप्राप्तिरिति तन्निवृत्यर्थ एव ।
नान्यदस्य प्रयोजनं । यदि पुनस्तस्यापि साध्यता । व्यर्थतैव तस्य स्यात् । तथा सति पक्ष
लक्षणासङ्गतत्वात् ।
यदि प्रेक्षापूर्व्वकारी प्रपत्ता परीक्षैव1292 तस्य निमित्तं शास्त्राभ्युपगमस्य । ततः कथं
शास्त्रेष्विच्छाप्रवृत्त्यर्थं स्वयं—ग्रहणं (।) न च सर्व्वमेव शास्त्रं परीक्षाक्षमं ततः प्रमाणबाधिता
परिशुद्धेन प्रवृत्तेरेवेति कुत इच्छाप्रवर्त्तनस्य सम्भवः । यतः ।
ततस्तद्वद्द्वितीयोपि तृतीयोपि भविष्यति ।
यदि शास्त्रमिच्छया ग्रहीतव्यमित्ययमेव न्यायः । स्ववचनेन कथ्यते पूर्व्ववदिदमपि
त्वयेच्छयैव ग्राह्यं तदा परीक्ष्य युक्तं ग्रहणं नेच्छामात्रमत्र त्राण मिति न्यायदर्शनं युक्तमिच्छा
प्रवर्त्तनविरोधि । तस्मात् स्वयं ग्रहणमयुक्तमेव यदि शास्त्रदृष्टं साध्यं । एवन्तर्हि स्वयमि
ष्टार्थसाधनेपि शास्त्रार्थं परित्यज्य यदि प्रमाणबाधा न तत्र प्रवर्त्तेत कश्चित् । अबाधनं
चेदिच्छया स्वयमेव प्रवर्त्तते । किं स्वयं-ग्रहणेन ।
परिहारः ।
विप्रतिपत्तिनिराकरणार्थं सकलमेव शास्त्रं ततोत्रापि शास्त्रदृष्टं साध्यमिति विप्रतिप
त्तिनिराकरणम् । केन न्यायेनेति चेत् । इष्टाक्षत्यसाध्यतानवस्थादर्शनेन । नहि शास्त्रदृष्टबा
धनेपोष्टस्य क्षतिः । अनान्तरीयकतयापि न साध्यं । अनान्तरीयकत्वेपि तत्साधनेऽनवस्थाप्रसङ्ग
इति न्यायः स्वयं-ग्रहणेन दर्श्यते ।
तस्मादसदेतत् ।
शास्त्रेण रचितो भेद आकाशगुणत्वलक्षणो यस्य धर्मिणस्तत्परिहारेण स्वयमेव प्रसिद्धो
न शास्त्रकारेण साधितो यो धर्मी तस्य परिग्रहो यथा स्यादिति स्वयं-ग्रहणं । तथाहि ।
स्वयमेव यो धर्मी व्यवस्थितो नान्येन व्यवस्थापितः स धर्मी भवति नान्य इत्यर्थादुपपन्नमेतत् ।
तदसत् । यतः ।
विचारो हि नित्यानित्यादिरूपतया२ क्वचिद् धर्मिणि क्रियमाणः सिद्धरूपे क्रियते ।
यस्य तु यदेव रूपं साधयितव्यं । तत्र तदेव तावद् विचार्यतां, असिद्धे धर्मिणि साधनासम्भवात् ।
अथ शब्दरूपं सिद्धमेव । तदेव तर्हि धर्मित्वेनोपादातव्यं । किमसिद्धविशेषणो
पादानेन । अथ तथा भूत (एवेच्छा)वादिनोऽनित्यतां साधयितुं ।
असदेतत् । यतः ।
नहि प्रेक्षापूर्व्वकारिणामनर्थिका वचनानां वृत्तिः । न तावत् प्रतिवादिनामाकाश1295
गणत्वविशेषणमनित्यत्वमभिप्रेतं । नाप्यनभिप्रेतमेव प्रतिज्ञामात्रात् सिध्यति । एवं हि
अनाकाशगुणः शब्दो(ऽ)नित्यः कृतकत्वादित्यपि सिध्येदन्यो वा यथेप्सितोर्थः । अथैवमेव
वादिनोभिरुचितं । तथा सति तथाभूतो विवेकरहितोभिरुचिमात्रप्रेरितः केन निवार्यताम् ।
तस्मादसदेतत् ।
यतः ।
अथैवं व्याख्यायेत । न स्वरूपेण धर्मी साध्यः । स्वयमेव सिद्धो भवतीति वचनात् ।
अन्यथा स्वयम्वचनेन तस्य विशेषणं किमर्थजातं जनयतीति । तथा हि । न तावद्धर्मिणः
सिद्ध(ता) मात्रप्रतिपादनार्थ वचनं विचारप्रस्तावत एव प्रसिद्धत्वात् । तस्मात् प्रसिद्ध एव
भवति न साध्य इति । अस्य साध्यत्वनिषेधार्थं स्वयम्वचनं । ततः साध्यता न धर्मिण
इत्युक्तं (।)
तदप्ययुक्तं । यतः ।
एवन्तर्हि स्वरूपेणैवेति वचनमनर्थकं । विचारप्रस्तुतेरेवासिद्धस्य साध्यत्वात् । न
खल्वसिद्धं विवादास्पदीभवति । तथा ।
सन्दिग्धे हेतुवचनाद् व्यस्तो हेतोरनाश्रयः ।
तथा विचारस्याप । तथा सिद्धोपि ।
अत्रोच्यते । स्वरूपग्रहणं हि न सिद्धनिवृत्त्यर्थं साधनत्वेन निर्द्दिष्टस्यासिद्धस्य निराक
रणार्थत्वात् । अत एव स्वरूपेणैवेति ।
अवधारणमेवैकं फलवत् प्रतिपादितं ।
अन्यथा द्वयमपि प्रतिपादनीयं भेदेन । किमर्थन्तर्हि सिद्धसाधनरूपेणेत्युक्तं । सिद्ध
रूपेण धर्मिणोऽसिद्धस्य । तथा धर्मस्य साधनरूपेणेति व्याख्यातव्यं । स च सिद्धरूपेण निर्द्देशो
धर्मिणः केवलस्य यथा समवायिकारणमात्मा । तथा आकाशगुणः शब्दो (ऽ) नित्य इति धर्मिवि
शेषणत्वेन । अथ यत्र धर्मिविशेषणं तत्राकाशगुणः शब्दोऽनित्य इति वचनात् । कथमवगत
मनित्यत्वं नाकाशगुणत्वमिति । किमनित्यो यः शब्दः स आकाशगुणोऽथाकाशगुणो यः योऽनित्य
इति । तदेतदपि प्रकरणादवगन्तव्यं । शब्दस्य साधारणत्वेपि च तथा च प्रतिपादितं । कथन्तर्हि
श्रावणः शब्द इति स्वरूपग्रहणस्य व्यवच्छेद्यं दर्शितं । अवधारणार्थत्वे हि तदयुक्तं ।
सत्त्यमेतत् । तथापि तदन्यार्थं कृतमन्यार्थमपि भवतीत्यभ्युपगम्य तदुक्तम् । अथापि
कुर्यात् साध्यं तथापि स्वरूपग्रहणस्य व्यावर्त्तकत्वाददोषः । निराकृतस्य कथं प्राप्तिस्तत्र
विवाददर्शनात् । तच्च पश्चात् प्रतिपादयिष्यामः ।
सामान्यविषयमनुमानमिति प्रतिपादितमा चा र्ये ण । न च धर्मी सिद्धः तदन्यो वा
साध्यमानः सामान्यं । ततः स्वयं-ग्रहणेन यदि नाम न धर्मी साध्यत्वे (न) परिहृतस्तथापि
न दोषः । स्वलक्षणत्वेनैव परिहारात् ।
अपि च ।
ननु (।)
साध्यत्वेनेप्सितः पक्षो विरुद्धार्थानिराकृत इति पक्षलक्षणं । तत्र यदि धर्मिणमेव
साध्यं कुर्यात् को दोषः । अथ धर्मी साधयितुमशक्यः स्वलक्षणस्यासाध्यत्वात् । धर्मिसत्तायां
हि (साध्यायां) स्वलक्षणस्य साधनं भवेत् । हेतोर्विशेषेणान्वयाभावात् । हेतोरेव तर्हि तत्र
(ा)शक्तिरदृष्टान्तत्वात् । ततोन्यस्य दोषोन्यस्य दोष इति न युक्तं ।
अथ पक्षस्याप्यसौ दोष एवासिद्ध्यर्हत्वात् । एवन्तर्हि सर्व्वो हेतुदोषः पक्षदोषो भवेत् ।
तद्दोषेण पक्षस्यैवासिद्ध्यर्हत्त्वात् । अथ यत्र पक्षे हेतुरन्यः साधकः संभवति यथाऽनित्यः शब्द
इति तत्र हेतुदोषश्चाक्षुषत्वादित्यादौ तथाहि । न पक्षस्यासाधनार्हतादोषोऽन्येन हेतुना
साधनात् । यत्र तु कश्चिदपि न हेतुः स पक्षस्य दोषः । सम्भवी हि स्वाभिप्रायः (। स)
पक्षवचनेन निदर्शनीयः । स यथा प्रमाणवाधायान्न सम्भवति तथा स्वलक्षणत्वेपि । ततः
पक्षदोष एवायमिति न्यायः ।
अत्रोच्यते ।
यदि स्वभावत एवासिद्ध्यर्हता प्रत्यक्षतोपि1300 न सिध्येत् । अनुमानान्न सिध्यतीति
चेत् । अनुमानस्यैव तर्हि स दोषः । अत एव सिद्धोपि धर्मी यदि साध्यः क्रियेत् । तत्रापि
हेतुदोष एव । हेतोस्तत्राप्यनन्वयात् (।) सिद्धसाध्यतादोषस्त्वनुमानेन सिद्धे स च पक्षदोष
एव । प्रत्यक्षसिद्धे तु स्वलक्षणे हेतुदोषोन्वयाभावात् । तत्राप्यात्मन एव प्रत्यक्षसिद्धे तूभयोस्तु
सिद्धसाध्यतालक्षणः पक्षदोष एव ।
तस्मात् स्वयमनुमानेन सिद्धः परंप्रति पक्षः । आगमसिद्धस्त्वपक्ष एव प्रत्यक्षसिद्धवत् ।
ननु प्रत्यक्षासिद्धे स्वलक्षणे हेतुदोषादपक्षता । आगम सिद्धे तु कथं सामान्यमागमस्य
विषयः(।) सामान्येन चान्वयोस्त्येव तत्कथं पक्षदोषः । नन्वेतदेवोक्तं हेतुदोषात् पक्षदोषः ।
किन्न तर्हि तन्मात्रभावित्वात् । अत्र च तन्मात्रभावित्वमस्ति । तथाहि(।)
अथ परं प्रत्यसिद्धोपि स्वयमागमात् सिद्धः ।
तदप्यसत् । यतः ।
तस्मात् स्वयमनुमानसिद्ध एव पक्षः ।
520ननु प्रत्यक्षसिद्धोप्यग्निः स्वयं परंप्रति किं न पक्षः । न । तेन रूपेणापक्षत्वात् ।
सामान्यरूपेण ह्यसौ पक्षो न विशेषपक्षे[ [? रूपे]ण । अन्येन तु स्वरूपेण तस्य न प्रत्यक्ष
सिद्धता1301 । तस्मात् प्रत्यक्षसिद्धेऽनुमानमेव नास्तीति स्थितमे
तत् । यद्येवमयं स गडुप्रवेशे
(ऽ) क्षिनिर्गमः । यदि प्रत्यक्षसिद्धे नानुमानं तदा तदसिद्धे सुतरामेव । प्रत्यक्षपूर्व्वकत्वा
दनुमानस्य । तथानुमानविषयेपि न प्रत्यक्षमिति कथं प्रत्यक्षबाधितः पक्षः । बाधनञ्च नाम
नार्थस्य ध्वंसनं अपि तु नास्तीति ज्ञापनं । तत्र यावान् कश्चित् प्रतिषेधः स सर्व्वोनुपलब्धे
रित्यनुपलब्धिबा
धनादनुमानबाधनमेव । तथा चोक्तं । तस्याभावविषयत्वविरोधात् ।
तत्रो1302च्यते । यदुक्तं प्रत्यक्षपूर्व्वकमनुमानमिति । तत्र न सामान्यविषये प्रत्यक्ष
पूर्व्वकं अपि तु यत्र सामान्येग्नित्वादौ साध्ये तद् व्यक्तिविषयं न प्रत्यक्षं तत्रानुमानं न प्रवर्त्तते ।
तद्व्यक्तिप्रवृत्तप्रत्यक्षपूर्व्वकत्वादनुमानस्य । सामान्ये तु यदि प्रत्यक्षवृत्तिः किं तत्रानुमानेन ।
तदेव स्वलक्षणमनुमानेन साध्यमानं सामान्यरूपतां भजेत1303 । स्वलक्षणमेव सामान्यं विशेषेणा
प्रतीयमानं । तदयमेवार्थः प्रत्यक्षविषयेनुमानमनुमानेन प्रतीयमानं प्रत्यक्षमेव न भवतीति ।
ततः । तत् (प्रत्यक्षेण) प्रतिपन्नमग्निर्हि महानसादौ प्रत्यक्षप्रतिपन्न एव (।) प्रत्यक्षबाधितः
पक्ष इत्यत्रायमेवार्थः । तद्विपर्ययव्यक्तौ प्रत्यक्षस्य प्रवृत्तत्वात् । यत्र च न व्यक्तिस्तत्र
तत्सामान्यमसम्भव्येव व्यक्तिव्यङ्ग्यत्वात् सामान्यस्य । अपि चाश्रावणः शब्द इति स्वलक्षण
प्रतिषेध एव पक्ष इति प्रतिपादयिष्यते । प्रतिषेधनिराकरणे च यद्विषयस्य प्रतिषेधस्तेनैव
निराकरणं गम्येत1304 तदविरुद्धत्वादन्यस्य ।
ननु प्रत्यक्षं कथमनुमानेन निराकर्त्तुमाशक्यते । अनुमानशब्दा विषयत्वात्तस्य । अत
एव निराकारको सम्बन्धा1305भिधायीति निराक्रियते । अथवा दृश्यविकल्प्यार्थयोरेकाध्यवसाया
ददोषः । तस्मान्न सिद्धस्य धर्मिणः साध्यतया पक्षदोषः । तत्र हेतोरेव दुष्टत्वात् । न च
हेतुदोषेण दोषो यः स पक्षदोषो हेतुदोषतया तस्य हेतुलक्षणेनैव निराकरणात् । न च
हेतुलक्षणेन निराकृतं पक्षलक्षणेनापि निराकर्त्तव्यं । व्यर्थत्वादविषयत्वाच्च ।
हेतुदृष्टान्तलक्षणेन निराकृतं दोषं मुक्त्वाऽन्यदोषपरिहाराय पक्षलक्षणमुच्यते । यतः
सकलमेव लक्षणमव्याप्तिव्यतिरेकयोः परिहाराय । न चान्येन लक्षणेन यः परिहृतो दोषस्तद
परिहारेपि लक्षणस्याव्याप्त्यतिव्याप्तिता भवेत् । (ए तावदेव लक्षणमस्तु किमन्येन(।)
यदर्थं तत्कृतं तस्यान्येन परिहारादनर्थकं स्वयं-ग्रहणं । केन (तर्हि) तदव्याप्तिव्यतिरेकयो
र्न्निराकरणं ।
अत्र ब्रूमः ।
521
एतावतैव परिपूर्ण्ण लक्षणं किमन्येन । स्वयमिति यदि न क्रियेत शास्त्रकारेष्टस्यापि
साध्यताप्रसङ्गः । निपातस्याकरणे साधनत्वेन निर्द्दिष्टस्यासिद्धस्य (।) स्वरूपेणेत्यकरणे
सिद्धस्य धर्मिणः । अपरस्तु दोषो नास्त्येव तदर्थं स्वयं-ग्रहणं । अनर्थकमदोषपरिहारा
र्थत्वात् । किमर्थन्तर्ह्यनिराकृतग्रहणं(।) निराकृतमपि यदि कश्चित् साध्यं कुर्यात्तत्रापि हेतुदोष
एव भविष्यति । तेनैव निराकरणादिति चेत् । न । सहानिराकृतेन व्यतिरेकस्य बाधनादिति
भावः । न ह्यनिराकृतपदमन्तरेण व्यतिरेको बाधितुं शक्यः । हेतुलक्षणेनैव तस्य दोषस्य
बाधनादिति चेत् । न । पक्षमात्रभावित्वात्तस्येत्यदोषः । स हेतोः । यदीष्टोपि निरा
कृतो न पक्षः किमर्थन्तर्हीष्टग्रहणमित्याह । इष्टश्रुतिरव्याप्तिबाधिनी । नहि निराकृतमेव
व्याप्तमिष्यते । अनिराकृतस्यापि व्याप्तिविषयस्य संभवात् । अथवा । इष्टश्रुतिरव्या
प्तिबाधनीति वचनाद् व्याप्त्यर्था ततो निराकृतमपि व्याप्येत । तदाह । सहानिराकृतेन
(।) यदि निराकृतपदं न क्रियेत भवेत्तस्यापि व्याप्तिरिष्टग्रहणात् सहत्वनिराकृतपदे न कुतः
सम्भवः । तस्माद् यदि शास्त्रदृष्टोप्यर्थः साध्यस्तदेतावतैव लक्षणेन स्वयं शब्दरहितेन गतं
किमपरेण । तत्र (।)
इदमत्रार्थस्य तत्त्वं (।) साध्यस्याभ्युपगमः पक्ष इत्यर्थः । निराकृतादीनामप्यभ्युपगम
इति तेषामपि पक्षता भवेत् । तन्निराकृते बाधनात् । शेषे च (ा) सिद्धादौ लक्षणस्यैवा
प्रवर्त्तनादिति लक्षणमिष्ट एव प्रवर्त्तते नान्यत्रेति ।
तदेतदसत् । किमनेन प्रतिपादितेन विधेयं किमत्रेति विधेयप्रतिपादनञ्चेत् । तन्न(।)
विधेयस्य प्रागेव प्रतिपादनात् ।
असिद्धासाधनार्थोक्तवाद्यभ्युपगमग्रह इति तस्यैवोपसंहार इत्यपि न पुष्टम् । यस्य
ह्ययमर्थोत्रेति प्रतिपादनं तत्र किमुपसंहारेण ।
(वार्त्तिकलक्षणम्)—
अपरे पुनराहुः । वार्त्तिककारस्यैवेयं स्वयं पक्षलक्षणस्य कृतिः । तथाहि । सुत्राणा
मनुपपत्तिचोदना तत्परिहारो विशेषाभिधानं चेति वार्त्तिकलक्षणं (।)तदेतद्विशेषाभिधानं ।
तदप्यसत् । साध्याभ्युपगम इति साधनत्वेनेष्टस्य शास्त्रकारेष्टस्य च प्राप्तिरनि
वारितैव ।
अथ साध्यत्वेनेति ख्यायते । न च साध्यत्वेनेष्टिः साधनत्वेनेष्टस्य ।
तदप्यसत् । साध्यत्वेनापि तदिष्टमेव । अथ साध्यत्वेनैवाभ्युपगम इत्यवधार्यते ।
तदा साधनत्वेनाभ्युपगतस्य निवृत्त्यर्थमेतदिति । नानुक्तोपीच्छयाव्याप्तः साध्यः स्यात् ।
अथ साध्यत्वेनाभ्युपगमः पक्ष एव । तथा सति साधनत्वेनोपगतस्यापि साध्यत्वेनाभ्युपगमे
भवेत्पक्षता । नहि तदानीमुभयासंभवो न ह्ययमेकासंज्ञाधिकारः शास्त्रकारेष्टस्यापि
प्राप्नोति । तत्राप्यभ्युपगमात् । अथ प्रत्यासत्तेर्व्वादिन एवाभ्युपगमः ।
तदप्यसत् । शास्त्रकारेष्टस्यापि वादिनाभ्युपगतत्वात्1306 । किञ्च व्याप्तेर्न्यायादिति
किन्नाभ्युपगम्यते । बुद्धिकृतप्रत्यासत्तिश्च शास्त्रकारेष्टेपि भवतीति । अनैकान्तिकताप्रत्या
सत्तेर्न्निरत्कृ/?/तेपि च साध्याभ्युपगमे प्राप्तिः ।
ननु निराकृते बाधनतः साध्याभ्युपगमाभावात् साधनमर्हति साध्य इति ।
तद(प्य)सत् । एवं हि साध्यनिर्द्देशः प्रतिज्ञे त्यपि निरवद्यं भवेत् । लक्षणानुसारी
च कथमर्हानर्हविवेकवित् । तस्मादसदेतत् । एवन्तर्हि न्यायमुखपक्षलक्षणमेतत् ।
साध्यत्वेनेप्सितः पक्षो विरुद्धार्थानिराकृत इति ।
अत्र ह्येवमुच्यते1307 । यदि स्वयन्निपातरूपाख्याव्यतिरेकस्य बाधिका । न्याय
मुखेनेदमस्तीति कथं व्यतिरेकबाधेत्याह । साध्याभ्युपगम इत्यादि । तत्रापि निराकृते
बाधनतः शेषेऽलक्षणवृत्तितो न दोषः । ईप्सित इति भूतकालाभिधायी निष्ठाप्रत्यय एव
साध्यतयैवेष्यमाणे न (प्र)वर्त्तते । तत एव तस्य निराकरणमिति न दोषः । यद्येवमत्रापी
ष्टग्रहणात् साधनत्वेनोपन्यस्य निराकरणमिति निपातवचनमनर्थकं ।
सत्त्यमेतत् ।
स्वयमिष्ट इति कालान्तरेष्टव्यवच्छेदः स्याद् यदि कृत्यान्तेन प्रधानेन सम्बन्धो न
स्यात् । स चास्ति ततः ।
कालान्तरेच्छाविषयीकृतस्यापि स्यात् पक्षता ।
यदेवं न्यायमुखेपि तन्निपातवचनं तन्निवृत्तये कर्त्तव्यं । अत्रोच्यते ।
इह प्रमाणसमुच्यये प्रधानता कृत्यान्तस्य निर्द्देश्यः पक्षः (।) किं भूतः (।) इष्टः ।
ततः कालान्तरानुरोधः । तद्यथा आगतो देवदत्तो द्रष्टव्य इति । तेनावधारणं कालान्त
रेष्टव्यवच्छेदार्थं ।
इहानङ्गमिषेर्न्निष्टा तेनेप्सितपदे पुनः अङ्गमेवेति ।
व्यस्तसम्बन्धः । ईप्सितपदेऽनङ्गं प्रधानम् । इह पुनरङ्गमेवेति व्याख्यातव्यं ।
अथवा इह प्रमाणसमुच्चयेऽनङ्गन्न1308 भवति भूतकालप्रतिपादने । ईप्सितपदे पुन
र्न्यायमुखेऽनङ्गमेव1309 । तया निष्टयाऽऽसिद्धहेत्वादि प्रतिषिध्यते । ततस्तत्र निपातावचनं ।
तस्मान्न धर्मिणः साध्यता । प्रतिक्षेपार्थं स्वयं-ग्रहणम् । नापि शास्त्रेष्विच्छाप्रवृर्त्त्थं
पूर्वोक्तन्यायात् ।
523
स्वयं शास्त्रे यत्र क्वचित् स्तोतव्यं । स्वयं प्रसिद्ध एव धर्मीति च स्वयं ग्रहणस्या
वाचकत्वादयुक्तं तेनेष्टं नान्येन व्याख्यात्रा स्वयमात्मना । तस्मादनपेक्ष्य शास्त्रमखिलं
तदभीष्टस्य साध्यता ।
तेन शास्त्रकारेष्टसंसृष्टस्य बाधनेपि केवलसाधने साध्यमतिक्रम्य बाधनात् पक्षहेत्वोर
दोषः । अन्यथापि दोषेऽदूषणोद्भावनमेव ।
ननु शास्त्रकारेष्टबाधने किं तेन साधितेन प्रौढताहानेः । उक्तमत्र । यदि
किञ्चिदित्या दि । अपि च ।
तस्मात् ।
स्वयं निपातरूपाख्याव्यतिरेकस्य बाधिकाः । सहानिराकृतेनेति व्याख्यातं ।
३. सहानिराकृत-ग्रहणफलम्
तत्रानिराकृतपदमवशिष्टन्तद् व्याचष्टे ।
कोत्र न्यायः1311
एकेन प्रमाणेन साधिते विपर्यये तदभावे प्रमाणस्य हेतोरनाश्रयः । तदाह ।
ननु यदि हेतुरस्ति साधकः कस्मान्न पक्षः । अथ न तदा हेतोरेव स दोषो भविष्यति
किमनिराकृतवचनं ।
सत्त्यमेतत्(।) तथापि पक्षदोषेण प्रथममेव निराकरणे हेतुदोषानपेक्षमेव यथा स्यादिति
पक्षदोष एवायं तन्मात्रभावात्1312 । नहि प्रत्यक्षानुमानाभ्यां निराकृते कश्चित् साधनमपेक्ष्यते ।
तथा सति अनाश्वास एवेति तत्रापि साधके कः समाश्वासः । तस्मात् सन्दिग्धो हेतो
र्व्विषयः । साधकबाधकप्रमाणाभावमात्रं चात्र संदेहेन लक्ष्यते । न सन्देहसम्मुखीभाव
एव(।)असंमुखीभूतसन्देहोप्यनुमानादेकस्मादग्निमवगच्छत्येव । अथवा यत्र सन्देह उत्पा
दयितुं शक्यः तत्र हेतुविषयत्वं । न स्वरूपतद्विपर्ययाभ्यां साधकबाधकाभ्यां निश्चिते ।
४. चतुर्विधा बाधा
यदि प्रमाणाभ्यामनिषिद्धे हेतुवचनविषयता । द्विविधैव तर्हि बाधा । कथमाचार्य
श्चातुर्विध्यन्दर्शयति स्म ।
अत्रोच्यते ।
अनुमानबाधैव त्रिविधा दर्शिता । प्रत्यक्षबाधा चतुर्थीति । चतुर्व्विधबाधोपदर्शनं न
द्विविधबाधाया बाधकं । एवन्तर्ह्यागमप्रसिद्धिबाधनमपि लिङ्गत एवान्यथानुमानभेदत्वाभावः ।1313
(१) शास्त्रबाधाऽकिंचित्करी
एवमेतत् । यतः ।
आप्तवचनं कार्यप्रतिरूपकं स्वभावप्रतिरूपकं प्रसिद्धिः । कथं न मुख्यमेतल्लिङ्गमित्याह ।
न खलु कश्चित्प्रमाणप्रसिद्ध आप्तः परस्य सकलमनोदोषरहितस्य ज्ञातुमशक्यत्वाद
सर्व्वदर्शिना (।) व्यवहारसङ्करेण च निश्चेतुमशक्यत्वादनुमानतः । तस्मादगत्याभ्भुपगत
आप्ततयाऽप्तः परमार्थतस्तु नेति । स्ववचनेन सहोक्तिः साम्यदृष्टये कृता । यतः ।
यद्यात्मनः प्रमाणत्वं नोपेयाद् वचनाप्रवर्त्तनमेव प्रसक्तं । यथा सर्व्वं मिथ्या व्रवीमीति ।
यदि सर्वमेव मिथ्या वक्तव्यं मयेति भवतोभ्युपगमः । तदयं भाषितस्यार्थो न मद्वचनात्प्रत्येयं ।
न मद्वचमात्किञ्चित् कर्त्तव्यमेवं तर्हि1316 किमात्मा परिक्लेशितो वयं (?) चावचनेप्यस्यार्थस्य
सिद्धत्वात् । यदपि दुर्वैदग्ध्यावधूतधियोऽधीतं तदप्यवधूतमेव ।
यतः ।
यद्येवं प्रतिपद्येत सर्वमुक्तं मृषा स्ववचनविरोधादयुक्तिरेव1318 । प्रवर्त्तयता वचनमात्मा
525
प्रमाणतां गतोभ्युपगतः । ततः कथं तस्याप्रामाण्यप्रतिपादनं । पश्चात्तापादिति चेत् तथापि
विरोध एव । अवचनमेव वरं किमायासेन । अपर्यालोच्य कृतमिति चेत् । नन्वयमेव दोषः ।
पर्यालोचनमेव न्यायः । अथ वर्त्तमानानागतनिषेध इदं ब्रवीमि मिथ्या तदापि1319 किमनेनोक्तेन ।
भाविनि तु श्रोतैव नास्ति किमर्थं वचनं । चारणचर्चरीवचनवददोष इति चेत् । न ।
वादप्रस्तावात् । वस्तुनिर्णयो हि वादस्यार्थः ।
तस्मादसदेतत् । तथा शास्त्रप्रसिद्धेर्थे तदनभ्युपगमे विचारस्येति साम्यमेव शास्त्र
स्ववचनयोः ।
यदि शास्त्रानभ्युपगमः कथन्तदर्थविचारः । यदि शास्त्रमन्तरेण विचारो न प्रवर्त्तते
धर्मिण एवाभावात्(।) तदा शास्त्रं बाधकमन्यथा नेति प्रतिपादयितुं सहोक्तिमन्तरेण(तु)
शास्त्रं स्ववचनादतिरिक्तसामर्थ्यं परेषामभिमतमिति । तथैव स्यात् ।
अत एव साम्यप्रदर्शनार्थं सदृशमुदाहरणमाह । प्रमाणप्रतिक्षेपे शास्त्रवचनयोर
भावात् । प्रमाणप्रतिषेधे शास्त्रमपि नैव भवतः प्रमाणमिति किमभ्युपगम इति परस्पर
विरोधमात्रमेव स्यात् ।
ननु सन्ति प्रमाणानीति कथमयं शास्त्रविरोधः । नहि प्रमाणन्धर्म्मि शास्त्रादेव भवति ।
यदि तु प्रमाणं किञ्चिन्न स्यात् कुतो धर्म्यादिसिद्धिरिति स्ववचनविरोधः ।
अथ सिद्धं किञ्चिदभ्युपगम्यते । यत एव तस्य सिद्धिस्तदेव तस्य प्रमाणम्भवेत् ।
प्रमाणत एव प्रमेयसिद्धेः । प्रमाणमन्तरेण तु न किञ्चिज्ज्ञायत इति वक्तव्यं । तस्मान्नायं
शास्त्रविरोधः । शास्त्रमभ्युपगम्य यदि ब्रूयात् स्यादेवेति न दोषः । शास्त्रमभ्युपगतमिति
कथं ज्ञातव्यं ।
सत्त्यमेतत् । अत एव न शास्त्रविरोधे स्पष्टमिदं उदाहरणं । अपि तु दिङ्मात्रदर्शनं ।
वार्त्तिककारः स्पप्टमाह । प्रेत्यासुखप्रदोधर्म इति । अवश्यमेवम्विधे विषये शास्त्रमभ्यु
पगन्तव्यमिति । शास्त्रविरोधे स्पष्टमेतदेवोदाहरणम् । तस्मादत्र स्ववचनवत् परस्परविरोधः ।
एवन्तर्हि यत्र प्रमाणसिद्धो धर्मी तत्र शास्त्रमभ्युपगम्यमानं बाधकमेव प्रमाणत्वात् ।
शास्त्रप्रसिद्धे तु धर्मिणि तदभ्युपगतं तदुपरोधादेव तद्वाधकं भवेत् ।
अत्राह ।
नहि शास्त्रस्ववचनयोरभ्युपगमोपनीतप्रामाण्यादपरो विशेष एकस्यापि । ततस्तुल्य
शक्तित्वाद् द्वयोरपि प्रतिबन्ध एव न बाध्यबाधकभावः ।
—इत्यन्तरश्लोकाः
अत एव बाधनाभ्युपगमात् आगमोऽनुमानाबहिर्भूतोपि पृथक्कृतोनुमानात् । विषय
भेदप्रदर्शनार्थमनुमानम्बाधकमेव1326 । शास्त्रन्तु प्रतिबन्धकं । अभ्युपगतं च तत्प्रतिबन्धकं
नान्यथा ।
यदि तु प्रयोजनमन्तरेणापि स्ववचनशास्त्रवचनयोरनुमानात् पृथक्करणं । व्यर्थत्वाद्
वक्तुरकौशलमेव भवेत् । स्ववचनोपगमविरोधयोस्तर्हि कथं पृथक्करणं परस्परं न्या य मु खे ।
यदि विरुद्धार्थवादिनां1327
स्ववचनेन बाध्यते । यथा सर्व्वमुक्तं मृषेति । पूर्व्वाभ्युपगमेन वा ।
यथौ लू क्य स्यानित्यः शब्द इति साधयतः विषयभेदाभावेपि हि पृथगुदाहरणमनर्थकं ।
सत्त्यमभेद एव, तथापि पूर्व्वेण प्रतिष्ठापितमुत्तरं प्रतिहन्तीत्यभ्युपगमविरोधः । तदेव
तु वाक्यं स्वार्थं प्रतिहन्तीति स्ववचनविरोधः ।
(क) अभ्युपगमाच्छास्त्रं प्रमाणम्—
1328एवेति चेत् (।)
यदि ह्यसौ नेच्छेत् किन्तद्बाधकं1329 भवेत् । यदि वा1330 तदिच्छायामपि बाधकं । न
हीच्छाऽप्रमाणस्य1331
प्रामाण्यं जनयति । अभ्युपगतं पूर्वं पश्चादन्यथा न वक्तव्यं । करणे को
527
विरोधः (।) स्ववचनविरोध एव । एवन्तर्हि स्ववाग्विरोधेऽभ्युपगम्यमाने स्वावाक्छास्त्र
विरोधयोरभेद एव प्राप्तो न शास्त्रबाधवैलक्षण्यं ।
पुरुषेच्छा कृता चेत् प्रमाणता शास्त्रस्य । वचनस्यापि स्वस्य सा परिपूर्ण्णा(।)
ततो न विशेषः स्ववचनाच्छास्त्रस्य । अथ शास्त्रं स्वार्थसाधनायाभ्युपगतमिति प्रमाणं
स्ववचनन्तु परार्थन्ततो न नितरां । परार्थे हि न महान् प्रयत्न इति ।
तदसत् । यतः ।
यदि परीक्षितमभ्युपगतं तदा तदर्थप्रमाणत एव सिद्ध इति प्रमाणबाधैव । अथ न
परीक्षितं वचनमात्रमेव तदिति न विशेषः स्ववचनादागमस्य ।
(ख) परोक्षप्रसिद्धयोरर्थयोः निष्प्रयोजनं शास्त्रम्
प्रमाणेन प्रसिद्धे धर्मिणि विचारस्याप्रतिबन्धाच्छास्त्रं परित्यजतोपि न काचित् क्षतिः ।
केवलमभ्युपगमविरोधः । अभ्युपगम्य विरोधात्1332 नासौ शास्त्रविरोधस्य परिस्फुटो विषयः ।
शास्त्रप्रसिद्धे तु धर्मिणि शास्त्रपरित्यागासम्भवात् । स एव शास्त्रविरोधस्य स्पष्टो विषयः ।
आगमानिष्टौ हि तत्र चिन्तानवतार एव । एवं तर्हि तच्छास्त्रं प्रतिष्ठापयन् धर्मिणं प्रतिष्ठा
पयति ततस्तद्बाधकं । तत्तर्हि शास्त्रमप्रमाणकं कथं धर्मिणं प्रतिष्ठापयति प्रामाण्येनाभ्युपगमात् ।
स्वोपगम एव तर्हि प्रामाण्यमाद (ध) त् धर्मिणं प्रतिष्ठापयति । धर्मान्तरञ्च स एव प्रतिव
हतीति न भिद्यते स्ववचनविरोधाच्छास्त्रविरोधः ।
तथा चाह ।
तथा पुनराह ।
(ग) प्रसिद्धिबाधावाधाऽयुक्ता—
यदि तर्हि न किञ्चिद् बाध्यते विरोधमात्रकमेव किमर्थन्तर्हि तदभ्युपगम
विरोध इत्याह ।
प्रमाणस्ववचनाविरुद्धं शास्त्रं दृष्टादृष्टयोरभ्युपगन्तव्यमन्यथाभ्युपगमेऽप्रेक्षापूर्व्वकारी
भवेत्(।) प्रसिद्धिनिराकृतोपि न पक्षः । तत्र प्रसिद्धिः स्वभावलिङ्गम् न त्वाप्तवचनं ।
नाथ तथा भावमन्तरेण प्रवर्त्तते कुतस्तथाभ्युपगतः । अभ्युपगमकृतो हि तत्र प्रतिबन्धो न
तु प्रमाणप्रसिद्ध इति न मुख्यः कार्यहेतुः । तत्र प्रसिद्धेरपि यदि वास्तवः प्रतिबन्धस्तदा
मुख्य एव स्वभावहेतुः । (तथा) अभ्युपगमकृतस्तदाप्तवचनवदभ्युपगमविरोध एव तत्कथं
बाधान्तरमेतत् । अथाप्तवाधैवेयं यतो वक्ष्यति । आप्तोत्राक्षतवाग् जन इति ।
प्रत्यक्षार्थानुमानाप्तप्रसिद्धेनेति च प्रसिद्धशब्दः प्रत्येकमभिसम्बध्यते । ततस्त्रिविधैव बाधा ।
तदसत् ।
अनुमानस्य भेदेन सा बाधोक्ता चतुर्व्विधो इति वचनात् । आ चा र्ये णापि यत्रापी
त्यादिवचनेन पृथगुदाहरणप्रदर्शनेन चातुर्व्विध्यमुपदर्शितं न समर्थितं स्यात् ।
अत्रोच्यते ।
सर्व्वलोकप्रसिद्धेन प्रबाधनं प्रसिद्धिबाधा । केवलात्मप्रसिद्धेन बाधेतरा ।
अथवा स्वभावहेतुरूपेण कार्यरूपेण च प्रसङ्गसाधनद्वयोपदर्शनपरमेतत् । तथाहि(।)
द्वयमेव वादिना कर्त्तव्यं मुख्यसाधनं प्रसङ्गसाधनञ्च । नापरः प्रकारो वादिवचना
नामिति दर्शनार्थं ।
अथवा ।
व्यवहारिणानुगन्तव्याः शब्दार्थाः सर्व्वदैव यत् ।
अमुख्यत्वेपि प्रसिद्धिविरोधस्य शास्त्रादवश्याभ्युपगन्तव्यत्वात् पृथक्करणम् ।
ननु शास्त्रस्ववचनयोर्न कश्चिद्भेद इति स्ववचनबाधैव शास्त्रबाधा । ततोन्यं प्रति
पादयता शास्त्रप्रसिद्धे धर्मिणि विवादमारचयतावश्यमेव स्ववचनशास्त्रवचनयोः प्रमाणताभ्युप
गन्तव्या । तत्कथं नावश्यमभ्युपगमः ।
तद(प्य)सत् । पराभ्युपगमेनोक्तत्वात् । परेषां हि वादिनामभ्युपगमोऽवश्यं वादविधाने
शास्त्रमभ्युपगन्तव्यं । धर्म्यन्तरधर्मविवादेपि तत इदं प्रतिपादयितुमुच्यते(।) तेनावश्यं शास्त्र
मभ्युपगन्तव्यमिति ।
अथवा विवक्षितविषयाप्रसिद्धिः परमार्थविषये शास्त्रमिति पृथगुपादानं । तत्र हि
माता च बन्ध्या चेति न विवक्षितार्थबाधा । ततः (।)
बाह्येतरतया भेदो विषयस्य विवक्षितः । शास्त्रप्रसिद्धे1337 र्ब्बाधस्य विभाग इति भिन्नता ।। १७१ ।।
गतं प्रासङ्गिकं । प्रकृतं प्रारभ्यते । केयं प्रसिद्धिर्न्नाम । यदि तावल्लोकप्रसिद्धि-
1338 529र्व्याप्त्यै1339 कदेशेन वा सर्व्वा परिगृह्यते । तदा नित्त्यत्वादयोपि सकललोकप्रसिद्धास्ततस्तद्बाधने
प्रमाणेन लोकप्रसिद्धिबाधा भवेदन्येषाञ्च प्रमाणविरुद्धानां । न चान्योर्थः प्रसिद्धिशब्दवाच्यः ।
तथाऽशुचिनरशिरः कपालमित्यादयः । अथ शास्त्रपरिपठितस्य बाधनमयुक्तं (।) तथा सति
नित्त्यात्मादीनामपि बाधने दोषः स्यात् ।
अत्रोच्यते ।
प्रकृष्टा सिद्धिः प्रसिद्धिः । तज्जातमिष्टशब्दाभिधेयत्वमचलितत्वात् प्रकृष्टसिद्धिरूपं
नित्यत्वादिकन्तु चलत्येव । शास्त्रेण तु तस्य निश्चलीकरणमशक्यं ।
इष्टशब्दाभिधेयत्वस्य तु न तथा चलनमनुमानस्य बाधकस्याभावात् । तथा च प्रति
पादयिष्यते । इष्टशब्दाभिधेयत्वस्य हि पुरुषेच्छानुरोधिनोऽर्थेषु नानुमानस्य बाधकस्यावतारः ।
(घ) आप्त-लक्षणम्—
अत एवाह ।
इष्टशब्दाभिधेयत्वं हि सामान्यरूपं गोत्वादिकल्पितं । न शक्यं प्रतिषेद्धुं । इच्छा
मात्रपरिकल्पितो हि न शक्यो विकल्पितार्थपरितोषः । न खलु सुसम्विदितं शक्यं निषेद्ध्ुम् ।
तथा चदेमपि ।
(२) शब्दार्थसंबधः सांकेतिकः
ननु प्रमाणसिद्धमेव वस्तु वाधकं । अथात्रोच्यते । स्वसम्वेद(न)मेव प्रमाणं तेन
वाच्यत्वस्य शब्दं प्रत्युपादानोपादेयभावलक्षणस्य सिद्धत्वात् । यद्येवं प्रत्यक्ष (सिद्ध) मेव (ा)
वाच्यत्वं ततः प्रत्यक्षबाधित एव पक्षः । कार्यकारणभाव एव प्रत्यक्षप्रसिद्धो नापरो वाच्य
वाचकभाव इति चेत् । न । तावन्मात्रमेव वाच्यवाचकभावः । तत्कथमन्यथाभ्युपगमः ।
अत्रोच्यते ।
(सामान्य-निरास)—
तथा च वक्ष्यते सोपीष्टो व्यवहारभाक् । अन्यापोहलक्षणं हि सामान्यं वार्च्यमिष्टस्य
ध्वनेः । तच्च न प्रतिषेद्धं शक्यं वासनाप्रतिनियमेन तथाभूतप्रत्ययोदयात् । सा च वासनेच्छा
मात्रकृतसङ्केतनियमेन प्रबोधिता नियतं सामान्यमवस्थापयति । तथाहि ।
न खलु द्विजत्वादीजातयोऽनियतवर्ण्णसंस्थानात्मतया व्यक्त्या व्यक्तुं शक्याः ।
ततस्ता व्यक्तिनियताचारोपलक्षितव्यक्तिनियतसंकेतवलादेवाभिव्यक्तिभाजः ।
ननु न केनचिदत्रेदानीं कृतः संकेतोनादिस्वभावसिद्धवाच्यवाचकभावसम्भवात् । न (।)
उपदेशस्यैव संकेतत्वात् । अपि च । ब्राह्मणो न ब्राह्मण इति कारणमेतत् । यत्तु तस्या
दृष्टहेतुत्वं तदत्र साध्यमन्यथा चण्डालादिजातीनामासाञ्च कः परस्परतो विभागः । एतेन
गोत्वादिजातिरपि प्रत्युक्ता । तासामपि (न) गर्दभादिजातिभ्यो विशेषः । उपलक्ष्य
प्रवर्तनञ्चेत् ।
तथाऽजादिजातीनामपि तदेकशब्दगोचरत्वमेव लक्षणम् । तस्माद् विकल्प्य1344 विष
यत्वमेव जातिरतः प्रसिद्धिमात्रप्रापितात्मभावत्वात् स धर्मो व्यवहारजः । प्रसिद्धिशब्देनोक्तः(।)
न केवलमय(मे)व धर्मः प्रसाधकप्रसिद्धिलक्षणप्रमाणशब्देनोक्तः । अपि तु ।
प्रत्यक्षादिप्रमाणमिता अप्यर्थान्तरस्य पक्षाभासाख्यस्य बाधकाः । तस्मादिष्टशब्दा
भिधेयत्वस्य गोत्वादौ(?दे)र शक्यनिषेधत्वात्तेनैव प्रतिषेधबाधनं । नहि व्यवहारार्थ
शब्दमुपनिबध्य विरचितो वैद्यादिव्यपदेशविषयः सर्व्वविरोध्यनुन्मत्तेन प्रतिषेध्यः प्रसिद्धः ।
एतदेवाह ।
स्वभावत एव योग्यं तदाश्रयभुवां व्यवहारजातानां योग्यं गोत्वादीनां विश्वं । कृताना
मकृतानाञ्च स्वयं व्युत्पादयिष्यमाणानां योग्यमेव विश्वस्य सर्व्वत्राप्रतिकूलत्वात् । अप्राति
कूल्यमेव योग्यता (।) ततः ।
न खलु भाविनी भूता वा योग्यता प्रतिषेधेन निवर्त्तयितुं शक्या1346 शब्दस्य अग्निहोत्रं
जुहुयात्स्वर्गकाम इत्यादेः श्वमांसभक्षणादौ । अर्थमात्रानुरोधित्वात् । तत्राप्य
र्थेऽप्रतिकूलता योग्यता । न हि कश्चिदर्थः प्रतिकूलः सं1347
केतकरणे दृष्ट उपदेशप्रतिपन्नो वा ।
मात्रशब्दोऽविशेषपरिग्रहार्थः । तद्यथा ब्राह्मणमात्रं भोजयेति । भोजनमात्रमिच्छति । न
विशेषपरिग्रहं करोति । या च योग्यताऽर्थमात्रानुरोधिनी न तत्र कश्चित् प्रतिषेधे न्यायः ।
531
अतः प्रतिषेद्धा तयैव योग्यतया बाध्यते । नहि योग्यताया निषेध्यत्वं प्रत्यक्षसिद्धं । यदि
परमनुमानमवतरेत् । तच्च दृष्टान्ताभावादसम्भवीति प्रतिपादयिष्यते ।
नन्वाचार्यः शाब्दप्रसिद्धेनेत्याह । न योग्यतया बाधनं । न हीष्टशब्दाभिधेयत्वं
योग्यता । न च तथा प्रसिद्धता । योग्यता हि प्रसिद्धेः कारणन्न तु प्रसिद्धिरेव ।
अत्रोच्यते ।
आचार्यस्याप्ययमेवाभिप्रायो योग्यतैव शाब्दप्रसिद्धवचनेन प्रतिपाद्यते न निर्वृत्ता
वाच्यता । योग्यता चेच्छामात्रानुरोधिनी । सा चाप्रतिकूलता संकेते ।
—इत्यन्तरश्लोकाः ।
नन्वप्रातिकूल्यं योग्यता सा कथं भाविनी भूता वा । अत्रोच्यते ।
तत्र योर्थो येन शब्देना (भि) धातुमिष्टः स तेन शब्देनाभिधातुं योग्यस्तद्यथा वृक्षशब्देन
नहि कस्यचित् क्वापि प्रतिकूलता ।
ननु दृष्टान्त एव न सिद्धस्तत्रापि प्रतिक्षेपसंभवात् ।
नैतदस्ति । प्रवृत्ते वाच्यवाचकभावव्यवहारे कस्य प्रतिक्षेपः । यतः प्रवर्त्तमाना दृश्यन्ते
तदर्थप्रतिपत्त्या । अयमेव खलु वाच्यवाचकभावः (।) तथा चोक्तं ।
यस्मिन्नुच्चरिते शब्दे यदा योर्थः प्रतीयते । तमाहुरर्थं शब्दस्य नान्यदर्शस्य लक्षणमि ।। १८१ ।। ति
एवं तर्हि प्रत्यक्षबाधित एव प्रतिज्ञार्थः किं प्रसिद्धिबाधया ।
अत्रोच्यते । नैतावन्मात्रमत्र प्रतिपाद्यं अपि तु ।
उक्तमेतत् । यदपि चन्द्रशब्दाभिधेयत्वं यदा घटे प्रतिषिध्यते तदा (पि) प्रसिद्धिबाध
नमिति । यदिदानीं ममायन्तच्छब्दाभिधेयत्वेन न प्रतिभातीत्युच्यते सिद्धसाधनं । अथान्यस्य
न प्रतिभासते1348 न चेदानीं वा । न च योग्यः । तदा नास्त्येतदिच्छामात्रेण वृत्तेः । किमिति
न सम्भाव्यते देशकालनरान्तरे (ण) शब्दार्थानामन्यथा वाच्यवाचकभावदृष्टेः कुतो नियमः ।
अनेन न्यायेन सर्व्वं सर्व्ववाच्यमिष्टमिति न दोषः ।
यदीदानीं तथार्थोयं1349 मांसादिः प्रतिभासते ।
न ह्यत्र प्रत्यक्षबाधा । प्रतीतिबाधात्र केवलं । सापि संकेतवशादेव योग्यतया ।
योग्यता वा श्वमांसादावपि ।
(३) वेदबाधा
ननु य एव संकेतपरतंत्रा लौकिकाः शब्दास्तेष्वेवायमनियमः । ये तु वैदिकाः
स्वाभाविकार्थसम्बन्धास्तेषु कथमनियमः । व्यवहारार्थञ्च संकेतो दृष्टविषय एवमुक्तोऽ
तीन्द्रिये तु प्रतिपत्त्यभावात् कथं संकेतयितुं समर्थः । आगमैकशरणत्वात् प्रतिपत्तेरितरेतरा
श्रयदोषप्रसङ्गः । न चान्यथा संकेतस्तदागमानुसारिणो युक्तः ।
अत्रोच्यते ।
यथैवेच्छया एकेन कृतः संकेतोऽग्न्यादीनान्दहनादिषु तथा श्वादिष्वपि । न स्वाभावि
कोयमर्थ इति प्रसिध्यति लोकानुसारेण तदर्थव्यवस्थानात् । लोके च (।)
तत्र कदचिदज्ञ एव देशकालादिषु संकेतयेदुपदिशेद्वा । उपदेशपारंपर्यमात्रे चान्धप
रंपरा । ततोन्यथा संकेतस्तदधिमुक्तापक्षेपणाय1350। अथवातीन्द्रियदर्श्येव पूर्व्वार्था
वग्रह (विसंवाद) कृतपरिहारायेति न विरोधः । अथवा ।
नैव प्रत्यक्षमत्रापि निरूपणसमागमे । चन्द्रशब्दात्प्रतीतिर्न्नो राशिनोनुमितिम्विना ।। १।८७ ।।
नहि शब्दादर्थप्रतीतिः प्रत्यक्षा भवितुं युक्ता । यथा वेदवाद्याह । प्रत्यक्षो
हि वेदवचनादर्थे प्रत्ययः । यदि तावदेवमुच्यते । प्रत्यक्षः प्रत्ययः स्वसम्वेदनरूपत्वादिति,
समयोस्य बाध्यते । ज्ञानान्तरालम्बनतया वा । अप्रत्यक्षा बुद्धिरिति स्थितेः । अभ्युपगमे
वान्यत्राप्युच्यतां प्रत्यक्षो धूमादग्नौ प्रत्यय इति । अथानुमानरूपाभावात् स भवेदेकस्माद्
धूमादग्निं प्रतियतोपि । अथ तत्र पूर्व्वानुसन्धानमासीदत्राप संकेतकाले । अन्यथा
व्याख्याननुसारिणोपि व्याख्यैव च संकेत इति । अथ व्याख्या न भवति स्वेच्छाकृतसंकेत
रूपा ततोयमदोषः ।
नैतदस्ति । प्रतिपादितमन्यथापि द्वेषादितो व्याख्याकरणम् । छान्दसत्वाद्वर्ण्ण
लोपनिरुक्तादिना समर्थना शिष्टप्रयोगतो व्याख्येति चेत् । तथा (।)
तस्माच्चन्द्रः शशीति नात्रापि प्रत्यक्षता । तथा च प्रत्यपादि । तद्भावाभावयोर्दर्श
नादर्शनस्मृत्यपेक्ष हि शब्दलिङ्गे स्वविषयं प्रतिपादयत इति । तत्र यो चन्द्रः शशी सत्त्वादि-
त्याह । स नैवमाह । प्रतीतिरेव नास्तीति । एवं हि सति प्रतीतिबाधा स्यात् । प्रतीतिश्च
प्रत्यक्षा यदि नाम प्रतीतिस्तथाप्यसत्त्येयमिन्दुद्वयप्रतीतिवत् । तस्य प्रतीतिबाधा दर्श्यते (।)
संकेतकाले सम्बन्धप्रतीतेरनुमा ततः ।
स्वभावाङ्गं जगत्स्थितिरिति सिद्धं1352 ।
नन्वनुमानमेतदिति युक्तं स्वभावहेतुस्तु कथं । शब्दाच्च पूर्व्वदर्शनसहायादुत्पन्ना
प्रतीति1353
रनुमानरूपा बाधिका । न च शब्दोर्थस्य स्वभावः ।
अनुमानात्प्रतीतिरिति सम्बन्धसहायता । स च सम्बन्ध उपादानोपादेयभावोर्थ
शब्दयोः । शब्दश्च परमार्थतः ताल्वादिव्यापारमात्रजन्यो न वाच्यार्थजन्यः । तत इच्छया
हस्तमुद्रादिवदत्र कार्यकारणभावो नान्यथा । न हीच्छापरिकल्पितः कार्यकारणभावो वास्तवो
रज्जूकीलसम्बन्धवत् । न च तथा प्रतीतिरवश्यम्भाविनी । तेन नानुमानमेतन्मुख्यं । कथन्तर्हि
स्वभावहेतुः (।) योर्थ उपादानभूतः संकेतेन प्रकाश्यते । क्रियते चेच्छया तथाभूतः स परमार्थतः
कारणभतः । तदर्थविवक्षामन्तरेणापि भावात् (।) अन्यविवक्षायामविवक्षायाञ्च । न च
यमन्तरेण यस्य भावस्तत्तस्य कारणं । तस्मात् ।
उपादानतयेष्टत्वमात्रादेवास्य वाच्यता (।)
उपादानतया व्यवस्थानमात्रमेव वाच्यता । तत उपादानतया व्यवहरणमेव प्रसिद्धिः ।
व्यवहारप्रसिद्धत्वादुपादानत्वस्यापि प्रसिद्धिता । ततोऽवाच्यत्वमुपादानत्वेन प्रतिभासने न
बाध्यते । यो हि यस्योपादानकार्यत्वेनाप्रतिभासी स यदि परमवाच्यस्ततः शब्दात्तस्या
प्रतिभासनात् । यद्यसावर्थ इच्छायामपि नोपादानकार्यप्रत्ययप्रतिभासी भवेदवाच्यः ।
ननु नैव प्रतिभासते नहि बाह्यार्थस्योपादानता । तमन्तरेणापि भावादित्युक्तमेतत् ।
न । इच्छायां सत्यां प्रतिभासनात् । यदा ह्यर्थदर्शने सति तद्विवक्षया प्रयोगो विनाश्य1354 त्य
न्ताभ्यासात्तदा किन्न प्रतिभाति तस्योपादानभावः । अथ ततो बाह्यार्थाप्रतिभासनात् प्रति
पत्तुरेवमुच्यते । तथा सत्यनुमानमपि न बाह्यार्थविषयन्तत्राप्रतिभासनादेव अथ ततोपि
विकल्पात्तदध्यवसायेन वस्तुन्येवमुच्यते । तथा सति1355 वाच्यत्वेप्येवमेव । बाह्यार्थप्राप्तिस्तु
सर्व्वदा भवत्यप्रमाणत्वात् परमार्थतः प्रतीतेः । न वा प्रमाणत्वे वाच्यवाचक (भावा) भावः ।
एवम्भूततयैव वाच्यवाचकभावप्रसिद्धेः । तस्मात् ।
—इति संग्रहः ।
ततो योग्यतैवाचार्यस्य प्रसिद्धशब्देनाभिमता ।
534एतदेव कुत इति चेत् । अत्रोच्यते ।
एत एवाह ।
यदि नाचार्यस्य योग्यतायामभिप्रायः कथम्बाधकमनुमानमसाधारणहेतुः सत्वस्याचन्द्र
शब्दवाच्ये घटादिके प्रसिद्धत्वात् । यदा तु योग्यतायां सकलमेव तद्बाच्यतया1356 भवेत् ।
क्वचिदचन्द्रेऽसिद्धेः । आह चाचार्यः । यत्राप्यसाधारणत्वादनुमानाभावे शब्दप्रसिद्धेन विरुद्धे
नार्थेनापोद्यते न स प्क्ष इति । यत्र विषये प्रतिपक्षभूतस्यानुमानस्यासाधारणता तत एव
तदभावः । अभावे शाब्दप्रसिद्धमनुमानं बाधकं न स पक्षः । अशक्यनिषेधतामस्य दर्शयन्ने
वमाह प्रतिप्रमाणतया निश्चयं वा । नहि प्रमाणमन्तरेण निषेधः । नापि निश्चायके
सत्यनिश्चयः । अत्र च (।)
यदा तावत् प्रधानता शाब्दप्रसिद्धस्य पूर्व्वस्यावयवस्य विशेषणता तदा प्रतिप्रमाणाभावे
निश्चयः । यदा तु परावयवस्य विशेषणत्वं पूर्व्वस्य प्रधानता तदाऽशक्यनिषेधता ।
ननु यदि नामानुमानस्यासाधारणता तथापि कथमशक्यनिषेधता । नानुमानमेव
प्रमाणं प्रत्यक्षस्यापि भावात् ।
अत्र परिहारः ।
ननु (।)
न । शब्दार्थेऽक्षाप्रवृत्तेः । नहि शब्दार्थः साक्षात् कर्त्तुं शक्यः । योग्यता हि
शब्दार्थतया निश्चिता शाब्दप्रसिद्धस्यार्थस्य व्यवहारकारित्वे यदि नाम प्रतिभासते तथापि
ततो न व्यवहर्त्तव्यमिति योग्यतानिषेधः । शब्दसम्बन्धिता वा प्रतिभासमानस्य । सम्बन्धश्च
न प्रत्यक्षगोचरः । शब्दस्य श्रोत्रविज्ञाने प्रतिभासः । तदर्थस्य तु विकल्पे चक्षुर्व्विज्ञाने
वा । न चानयोः परस्परविषयसांकर्यम् ।
नन्वग्निधूमयोरपि स्वविषयविज्ञानप्रतिभासनात् कथमेतत् । तथा गन्धगन्धवदादीनां ।
भवतु तत्राप्येष दोषः । तथापि नैतत् समर्थितं भवति । इन्द्रियविज्ञानेन तु तेषां ग्रहणं
ततो न दोषः । अत्र तु स्वसम्वेदनमेव ज्ञानस्वलक्षणस्य ग्रहणं न वाचकत्वस्य । व्यापी च
सम्बन्धो न प्रत्यक्षप्रतिभासी । न च सम्वादी शाब्दो व्यवहारः । ततो न प्रत्यक्षगोचरः ।
वस्तुविषयत्वात् प्रत्यक्षस्य । ततोनुमानगोचर एवायं ।
नन्वनुमानान्तरं बाधकं भविष्यति हेत्वन्तरोत्पन्नं । यदि नाम सत्त्वादित्यसाधारणो
हेतुः अन्यो हेतुः स्यादित्याह ।
यत्र हि सत्त्वमशेषवस्तुव्यापकमसाधारणीक्रियते तत्रान्यत्राव्यापके वराके का वार्त्ता ।
न हि बलवत्प्रतिपक्षनिराससमर्थस्तदपरत्र क्षमते तदर्थी । अत एव सहेतुकं पक्षमुपदि
शतिस्म । अचन्द्रः शशी सत्त्वादिति । अन्यथा पक्षाभासोपन्यासप्रस्तावे कः प्रसङ्गो
हेतुपन्यासस्य । अन्यथाऽश्रावणः शब्दो नित्यो घट इत्यपि हेतूपन्यासप्रसङ्गः । अथ प्रमाण
बाधिते हेतोरसम्भवोत्रापि तथा स्यादिति यत्किञ्चिदेतत् ।
ननूक्तमशक्यनिषेधतामस्य दर्शयति स्मेति अश्रावण इत्यत्रापि प्रसङ्गात् ।
अत्रोच्यते ।
अत्र संभवति बाधकं न तु प्रत्यक्षानुमानयोः । तेनात्र परिहरता निःप्रतिपक्षता
नुमानस्य कथितेति वक्ष्यते ।
कथन्तर्हि प्रतिपक्षासम्भवः । नहि सर्व्वस्य वाच्यता ।
तदाह ।1358
प्रसिद्धमेव सर्व्वं शाब्दं रूपं इच्छामात्रप्रवर्त्तितसंकेतशब्दमात्रभावात् । न हि शब्दः
क्वापि न प्रवर्त्तयितुं शक्यः । एतदर्थमेव शाब्दप्रसिद्धेनेत्यादि वचनं । अन्यथाऽसाधारणता
न प्रतिपदायितुं शक्येत्युक्तमेतत् ।
नन्वनुमानाभावे शाब्दप्रसिद्धमबाधितमबाधितत्वभावे चानुमानाभाव इतीतरे
तराश्रयदोषः ।
न हीच्छामात्रानुरोधि शाब्दप्रसिद्धं प्रतिपक्षाभावप्रतीक्षणमन्यतोपेक्ष्यते । स्वत एव तस्य
बलवत्त्वात् । प्रतिषेधकस्य च सत्त्वस्य स्वत एवाप्रतिबद्धत्वेनासाधनत्वात् ।
ननु सत्त्वमवाच्यमेव प्रतीयते । ततोऽवाच्यतया व्याप्तत्वात् कस्मान्न प्रतिषेधकं (।)
न(। इ)च्छामात्रप्रवर्त्तितस्य1360 निषेद्ध्ुमशक्यत्वादित्युक्तं । यदि त्ववाच्यं सत्त्वं सत्त्वशब्देनैव
कथमुच्यते । तस्मादसाधारणत्वात् अनुमानस्याबाधितशाब्दप्रसिद्धता बाधिकैव । यदि तु
बाध्येपि बाधकत्वाशंका तथा सति न बाध्यबाधकभावः क्वचिदित्यप्रतिपत्तिकं जगद् भवेत् ।
तस्माच्छाब्दप्रसिद्धमेव बाधकं न तत्प्रतिपक्षः । ततश्च ।
शाब्दप्रसिद्धवचनेन न प्रतिपक्षेण दर्शयति । यथेदमप्रतिपक्षमनुमानं तथान्यदपि ।
तदपि प्रतिपक्षसम्भावनायामप्रमाणत्वात् न बाधकं भवेत् । शाब्दप्रसिद्धवदेव । ततस्तस्या
प्यसाधारणत्वात् प्रतिपक्षस्य साधनता । यथाऽग्निरत्र धूमात् । नाग्निरत्र सत्त्वात् ।
अग्निरहितप्रदेशवत् ।
नन्विच्छामात्रप्रवर्त्तितवाचकत्वाद् घटेपि चन्द्रत्वमिति न दृष्टान्तोस्ति । अत्र त्वनग्निः1362 प्रदेशो विद्यत एव । नैतदस्ति ।
ततोनुमाने विरुद्धाव्यभिचारिणामसम्भवः । अन्यथा प्रमाणस्य बाधनसम्भवे
सर्व्वत्रानाश्वासः । यत्र न दृश्यते तत्राश्वास इति चेत् । न (।) अनुपलम्भमात्रस्य प्रमाणा
भावात् । सम्भवेपि बाधकस्योत्प्रेक्षयितुमशक्यत्वादनुपलब्धिलक्षणप्राप्तत्वाद् (।) अनेनैक
त्वसंख्याविवक्षा प्रत्युक्ता । सोपि ह्यनुपलम्भमेव सूचयति प्रतिबन्धं वा । यद्यनुपलम्भं
सूचयेत् तदप्रमाणमिति न किञ्चित् । अथ प्रतिबन्धं ततो न विरुद्धाव्यभिचारिसम्भवः ।
न हि प्रतिबन्धवानपरस्तत्र सम्भवति एकस्य भावाभावत्वाभावात् । तस्माद् वस्तुबलप्रवृत्ता
नुमाने विरुद्धाव्यभिचारिणोऽभावः ।
ननु यद्यसाधारणत्वादनुमानाभाव इत्यनेन विरुद्धाव्यभिचारिणो(ऽ)भावसूचनानुमाने
तदानुमान एव किमिदं नोच्यते । यत्राप्यसाधारणत्वादनुमानाभावे कार्यहेतुस्वभावहेतु
प्रसिद्धेन विरुद्धेनार्थेनापोद्यते तेन स पक्ष इति । एवं प्रत्यक्षेपि वाच्यं ।
न किञ्चिदेतत् । यतः । एतेनैव प्रत्यक्षानुमाने व्याख्याते ।
य आह । न वस्तु प्रत्यक्षेस्ति । प्रत्ययत्वात् केशमशकाकारतैमिरिकप्रत्य(य) वत् ।
तस्येदमुत्तरं ।
यदि प्रतिबन्धरहिते प्रत्यये वस्तु संदिग्धमन्यथा वेत्युच्यते । सिद्धमेव साधितं भवेत् ।
अथ विपर्यये तदा सर्व्वत्र वस्त्वस्तीत्यसाधारणता प्रतिपक्षस्य ।
ननु प्रत्यक्षे नानुमानम्बाधकं अन्यद्बा संभवति । तस्य साक्षाद्दर्शितत्वात्1364 ।
साक्षाद् दृष्टञ्च कथन्नास्तित्वेन शक्यं प्रतिपत्तुं । न हि तदैव तस्यैव दर्शनादर्शनयोः सम्भवः ।
ननु1365 हेत्वन्तरेणाभावसाधनं नानुपलम्भेन ।
न सदेतत् । यतः ।
साक्षात्कृतेन बाधास्ति प्रत्यये1366 क्वापि कस्यचित् ।
नहि भ्रान्तप्रत्ययेपि साक्षात्कृतकेशादिरूपे बाधकमस्ति । ततो न साक्षात्कृति
मात्रेण प्रमाणम् ।
अनेनाबाधितत्वमपि प्रत्युक्तुं । नहि साक्षात्करणमिवाबाधितत्वमपि स्वरूपेणाति
व्यापि । अविसम्वादिन्यबाधितत्वे सति प्रमाणमिति चेत् । सोयं हरीतकीं प्राप्य देवता
विरेचयतीति1367 न्यायः । यद्यविसम्वादनमस्ति किमबाधयाऽविसम्वादेनैव न दोषः । स
चाविसम्वादो न प्रतिभासमाने । अप्रतिभासमानञ्च गम्यं प्रतिबन्धात् प्रतिभासमानरूपस्य ।
स च प्रतिबन्धरूपोऽनुमानेपि समान इति । तत्र प्रतिपक्षसम्भवे द्वयोरपि । न वा क्वापीति
समानं । तस्मान्न साक्षात्करणेन प्रत्यक्षमपि प्रमाणम् ।
अत एवाह ।
प्रतिबन्ध एव हि प्रमाणत्वे निबन्धनं ।
ननु च तत्रैव प्रत्यक्षेऽप्रतिपक्षत्वप्रतिपादनायानुमानाभाव इति कस्मान्नोक्तं यद्येतावत्
प्रयोजनं । क्रमप्राप्तस्य व्यतिक्रमे प्रयोजनाभावात् ।
नैतदस्ति साधु । यतः ।
यदि तत्र प्रत्यक्षेऽनुमाने वा प्रतिबन्धकमाननिराकरणमुच्यते । शाब्दप्रसिद्धानुमानस्य
सामर्थ्यमप्रतिहतमप्रतिपादितं भवेत् । तत एतदर्थं प्रथमप्राप्तोल्लंघनं । अपि च ।
यत्र हि शाब्द (प्रसिद्ध) मप्रौढमप्यनुमानमप्रतिपक्षमसाधारणीकरणकारणं । तत्र
प्रौढतरम (प्रति) यत्नसिद्धमेवाप्रतिपक्षतया ।
ननु सकलमेव योग्यमिष्टशब्दाभिधानतायै । अप्रातिकूल्यमेव योग्यतेति न्यायादिति ।
अत्र वस्तुबलप्रवृत्तमेवानुमानं । तथा प्रत्यक्षेणोपलम्भात् । न (।) आनुकूल्यस्याप्यभावात् ।
यथैव तस्य प्रतिकूलता न प्रतीयते तथानुकूलतापि प्रत्यक्षतोऽन्यतो वा (।) ततः कथमेतत् वस्तु
बलप्रवृत्तं (।) शाब्दप्रसिद्धमनुमानं तत्र यदीच्छामात्रायातो धर्मो न बाध्यते वास्तवः । तत्र
किं प्रतिबन्धबलायातो भविष्यतीत्येतदेवात्र प्रतिपाद्यं प्रयोजनं ।
ननु (।)
अत्रोच्यते ।
538अवस्तुवृत्तिव्यवहारमात्रात् प्रसिद्धसम्बन्धतयानुमानं ।
अर्थोयमेवं प्रतिपद्यमानो न न्यायधर्मा1369 नुगतत्वहीनः ।
सुखोपनीतस्य समीहितस्य त्यागोपि तत्तस्य विधान एव ।
इति सकलमशंकं कापथावृत्तिजातं यदि परममुनीनां वृत्तमेतन्न वाज्ञा1370 ।
तस्मादत्रैव बाधकाभावप्रतिपादनमिति युक्तमेतत् ।
(४) संज्ञासंज्ञिसंबंध-चिन्ता
यत्रापीत्यादिना(।) यत्राप्यसाधारणत्वादनुमा नास्ति साधिकेति सम्बन्धः । न हि
चन्द्रशब्दवाच्यत्वेनुमानं वस्तुबलभाविभावकम् । यदि तर्हि साधकमनुमानं नास्तिकेन विपर्य
यस्याभावस्य साधनं । अभावे शाब्दप्रसिद्धे (न) विरुद्धेनापोद्यत इति । अनेनानुमाननिषेधेन
नैतद् वस्तुबलभाव्यनुमानमिति प्रतिपादितं । यदि त्वेतदप्यनुमानमनुमानप्रतिषेधो विरोधिनि
वर्त्तितः स्यात् । नत्वनुमानत्वमस्य नेष्टमेव । स्वभावाङ्गं जगत्स्थितिरिति वचनात् । तथा
हि शब्दप्रसिद्धमेव केवलमत्र बाचकं न वस्तुबलप्रवृत्तमनुमानं । नहि बाच्ययत्वमत्र प्रत्यक्षतो
ग्रहीतुं शक्यं तत्र वस्तुमात्रस्य प्रतिभासनात् । अथापि स्याद् यद्यविकल्पकत्वात् वस्तुमात्रं
प्रतिभाति न वाच्यवाचकभावः । कार्यकारणभावोपि तर्हि नैव प्रतिभाति । तत्र यथा
कार्यकारणभावः तथा वाच्यवाचकभावोपि ।
सत्त्यमेतत् । तथापि कार्यकारणभावः सर्व्वविषयो न वाचकभावः । तथा हि ।
कार्यकारणभावो हि यद्यपि परमार्थतो प्रत्यक्षप्रमाणसिद्धस्तथापि सकलजगदविज्ञान
प्रसिद्धिवशात् प्रत्यक्षवत् प्रतिभाति । तथा हि ।
यदि नाम पूर्व्वं न विकल्पितं मया पूर्व्वं तथापि मया दृष्टमेव । सविकल्पकन्तर्हि
प्रत्यक्षमापतितमिति चेत् । न । प्रागविकल्पनादविकल्पयतैव तदा मया दृष्टमिति प्रतीतेः ।
न च कालान्तरभावी विकल्पः । प्राग्भाविनः प्रत्यक्षस्य सविकल्पतानिबन्धनं तेन सह सम्बन्धा
भावात् । न तूत्तरकालभाविनो विकल्पस्य निर्व्विषयत्वे कथं तेनाविकल्पकता व्यवस्थाप्यते ।
न चातीतविषयं प्रत्यक्षं तेन कथमविकल्पकताव्यवस्था । न (।) अनुपलब्धेरतीतविषयत्वा
व्याघातात् । तथा हि । अतीतस्य वर्त्तमानस्य च प्रतिपत्तृप्रत्यक्षनिवृत्तिलक्षणानुपलब्धेरभाव-
व्यवहारसाधनी । एवमेव सकलो लोकस्य व्यवहारः । अन्यथा व्यवहारो न स्यादिति न
तिष्ठेन्न च प्रतिष्ठेत् कश्चिदिति प्राप्तं ।
तस्मात् ।
वाच्यवाचकभावस्तु मया प्रत्यक्षेण गृहीत इति नैवं कस्यचित्प्रतीतिः । तथा हि ।
न खलु शब्दार्थोपलम्भमात्रकादनुपदेशादिदं वाच्यवाचकमित्युल्लेखः कस्यचित् ।
उपदेशोपि यद्यन्यथा कश्चिद् ब्रूयात् परित्यजेदेवान्यथा व्याख्याविकल्पो न स्यात् । न हि
कार्यकारणभावोऽन्यथा नेतुं शक्यः ।
ननु प्रत्यक्षं संज्ञाकर्मेति वैषेशिका आचक्षते । तथा हि । यज्ञदत्तोयमिति
वस्तुश्रुतीक्षणे संकेतकाले प्रत्यक्षादेवमेवावगच्छति । संकेतकरणकाले हि यदा पुरोवर्त्तिदेव
दत्तादिनामचिकीर्षाविषयीकृतं वस्तु पुरः पश्यन्ति जन्तवः । श्रुतिगोचरचारि च शब्दरूपं
यज्ञदत्त इत्यादिकन्तदा भवत्यस्य संज्ञेयमिति व्यवहारकारी निश्चयः । न च भिन्नजातीय
प्रत्यक्षप्रत्ययग्राह्यो न भवति प्रतिबन्धे निश्चितः । तथा हि ।
सज्ञासंज्ञिसम्बन्धोन प्रत्यक्षः ।
तदेतदसत् । यतः ।
यदि प्रत्यक्षप्रमाणसिद्धः संज्ञासंज्ञिसम्बन्धः । कथं देशकालनरान्तरेन्यथा भवति ।
नहि प्रत्यक्षगृहीतमन्यथा भवति नीलादिकमन्यो वा वस्तुसम्बन्धः । तथोपदेशान्वयी दृश्यत
एवायं संज्ञासंज्ञिसम्बन्धप्रत्ययः । तथा हि ।
नन्वाभ्यन्तरन्तस्थमविवृद्धं त्रिपूरुषानुगं नाम कुर्यादनरे1374 प्रतिष्ठितमिति न्यायात्
कथन्नेच्छावारणं । न । तल्लक्षणयोगिनामनेकत्वे कथं वारणं । अयमपि चोपदेश एव ।
न चायमुल्लंध्यमान उपदेशो न दृष्टः । तस्मान्न प्रत्यक्षं संज्ञाकर्म । ततो न कार्यकारण
भाववद् वाच्यवाचकभाव इति न वस्तुबलप्रवृत्तं शाब्दप्रसिद्धमनुमानं ।
इच्छामात्रप्रवर्त्तितमेवैतच्छाब्दप्रसिद्धमनुमानं, न वस्तुबलभावि ततो वस्तु न गमयति ।
अग्निहोत्रादिशब्दस्य यथार्थोयं प्रकल्पितः ।
कोहीच्छापरिकल्पनाभाक् स्वभावेषु भावेषु नियमः1376 । अथादृष्टविरोधादकल्पना
न ह्यन्यार्थपरिकल्पनायामदृष्टनिरूढिः ।
सत्त्यमेतद् वयमप्येवं प्रतिज्ञासिष्महि भवानेव त्वस्यानर्थ1377
पथप्रस्थान (स्य) महासामर्थ्यः
(?)प्रवर्त्तयिता । तथा हि ।
नह्यन्योतीन्द्रियदर्शी लब्धावकाशः कर्क्कशो भवतः । तस्मादयमपि केनचिदर्थः
कल्पित एव । न च तत एव संप्रत्यय इत्यन्योपि परिकल्पनीयः । स्वयं जानानेन
तदपरिज्ञानं कथं कल्पनीय (? यम्) इति चेत् । स एव ज्ञास्यते किन्तव चिन्तया । न1378
मामविचार्य विसम्वादयेदपि ततश्चिन्तेति1379 चेत् । परित्यज्यतान्तर्ह्र्युपदेशमात्रप्रत्याशा ।
प्रकृतिप्रत्ययानुगमेन कल्पनेति चेत् । ननु सोपि प्रकृतिप्रत्ययार्थ उपदेशादेव सिद्धस्ततः
सोपि प्रयोगदर्शनात् (एव) समर्थनीयः । प्रयोगोपि प्रकृतिप्रत्ययार्थादिसम्बन्धपरम्परेतरे
तराश्रयणे धर्मस्तथा न स्यादिति चेत् । उक्तमत्र । किञ्च । धर्म एवम्भवतीत्ययमपि
उपदेश एवेति यत्किञ्चिदेतत् ।
ननु चन्द्रः शशी सत्त्वात् प्रसिद्धवाच्यवत् । ततः कथमवस्तुबलप्रवृत्तमेतदनुमानं ।
उक्तमत्र । अपि च ।
सकलप्रतीतिप्रतिक्षेपकारिणंप्रत्यदृष्टान्तत्वात् । उक्तमसाधारणत्वादनुमानाभाव
इति(।) स हि शशिनः (स)कलजगतः प्रसिद्धिमागतस्य चन्द्रशब्दाभिधेयतया तत्त्वमनिच्छन्न
न्यामपि प्रतीतिं नेच्छतीति प्रसिद्धमेवैतत् । ततः तं प्रत्यदृष्टान्तमनुमानं सत्त्वादित्यादिकं । तत्र
च सर्व्वहेतूनामसाधारणतेत्युक्तमेव । ततश्चाचन्द्रः शशी सत्त्वादिति कोर्थः । चन्द्रः शशी न
सत्त्वादिति हेतोः । नानेन चन्द्रत्वं साधयितुं शक्यं । केन तर्हि साध्यते असाविति तञ्च
कथम्बाधकं शाब्दप्रसिद्धेनावस्तु बलभाविनेत्यभिप्रायः ।
ननु चन्द्रस्यैकत्वादसाधारणता तत्कथमेतल्लभ्यं सकलप्रतीतिप्रतिक्षेपवादिनंप्रत्येत
दनुमानमसाधारमभिप्रेतं ।
न किञ्चिदेतत् । यतः ।
541अवृक्षः शिंशपा सत्त्वादित्यत्र न परिहार एकत्वाद् वृक्षस्य (इति) । न चैकमुदाहरण
मभिसन्धाय लक्षणं प्रवर्त्तते1382 ।
ननु कोयं न्यायः । एकमुदाहरणमभिसन्धाय लक्षणं न प्रवर्त्तते । न खलु तदुदाहरणन्न
साधनीयं । अथान्यदप्युदाहरणमन्तर्भाव्य (लक्षणं) कर्त्तव्यमेवं हि लक्षणकृतः शास्त्रप्रया
ससाध्यमिति न प्रतिपत्तृपरिक्लेशः । यत्र तर्हि नोदाहरणमन्यदस्ति तत्र किमप्रवर्त्तनं लक्ष
णस्य दृश्यते (च) । अकुटिलिकाया इत्यादि । तथा(।)
अत्रोच्यते ।
तथाहि । न वक्षः शिंशपा सत्त्वादित्यत्रापि प्रतीतिबाधा वक्तव्या सा कथं परोदितन्या
यादवतरेत् । नहि वृक्ष एकः प्लक्षादेरपि भावात् । अथ साधराणतयाऽनुमानमस्त्येव तेन
बाधा भविष्यतीति चेत् । अत्राह ।
चन्द्रशब्दाभिधानमपि कर्पूरादिषु दृष्टमेव । ततः कथमेकता चन्द्रमसः । न च
समयमात्रवृत्तयः शब्दाः क्वापि न प्रवर्त्तन्ते । ततस्त (त्रा) प्यनुमानबाधैव । तदियं प्रतीति
बाधा नाम नास्त्येवेत्यापतितं ।
अथ रजतादिषु चन्द्रशब्दवाच्यत्वं नैव प्रसिद्धिभाक् केवलं यथाकथञ्चिद् गन्धयुक्त्यादि
वादिभिः कल्पितं न वस्तुवृत्तं तत् ।
तदसत् ।
असाययमर्थः । यदि (क) र्पूरादौ न परमार्थतः प्रसिद्धं तैरेव कल्पितं गन्धयुक्त्यादि
वादिभिः । चन्द्रे तर्हि वस्तुसिद्धं तत्तत्कथं प्रसिद्धिबाधोदाहरणं ।
अथ प्रतीतिसिद्धमेव तत्तेन प्रतीतिबाधेति चेत् ।
प्रतीतिसिद्धोपगमे1385 शशिन्यप्यनिवारणमेव कर्प्पूरादौ । नहि तत्रापि व प्रतीतिस्ततो
नुमानबाधनमेव न प्रतीतिबाधनं । अथ कर्प्पूरादौ ह्लादादिना निमित्तेन प्रवर्त्तते तेन न
तदुदाहरणं ततो साधारणं ।
अत्रोच्यते ।
यदि कर्प्पूरादौ निमित्तप्रयुक्तं चन्द्रशब्दाभिधानं शशिन्यपि तस्य निमित्तस्य भावाद
वार्यमेव । अथ तद्वत्स्वभावान्निवारणं तदा शशिनि वारणेपि न दोषः । वस्तुप्रतिबद्धं
वस्त्वभावेन भवतीति नाप्रसिद्धमेतत् ।
अवस्तुनियतसंकेत(मात्र) भाविनां धर्माणां योग्याः सर्व्वपदार्था इति तद्योग्यताबाधने
दोषः प्रतीति बाधालक्षणः ।
ननु निमित्तप्रयुक्तः1387 शब्दः सकल एव । डवित्थादिशब्दानामपि किञ्चिन्निमित्तं
सामान्यविशेषरूपमेव न प्रसिद्धिमात्रकमेव ।
तदेतदसत् । न प्रवृत्तिनिमित्तमुपादाय शब्दस्तन्निमित्तवति प्रवर्त्तत इति प्रमाणं (।)
निमित्तेपि निमित्तान्तरापेक्षायामन(व) स्था1388 । तथा हि ।
यदि तस्य क्वचित् सिध्येत् सिद्धं वस्तुबलेन तत् । निमित्तवतीति वाक्यशेषः ।
अप्रतीतिसिद्धोपगमे शशिन्यप्यनिवारणात् । प्रतीतिमात्रसिद्धशब्दार्थोपगमेऽशशि1389
न्यप्यनिवारणं । न हि यत्र क्वचित्प्रवर्त्तमानो वाच्यवाच(क) भावः प्रतिनियम1390 मर्हति ।
प्रतिनियमे प्रमाणाभावात् । तत्र यथा निमित्ते निमित्तमन्तरेणैव प्रवर्त्तते तथा निमित्तवत्यपि ।
नहि निमित्तेपीच्छातोन्यथावृत्तिः ।
अथ स्वभावादेव तत्र वर्त्ततेऽन्यत्रापि स्वभावः केन (नि)वारणीयः । अथ तेन सह
परमार्थतः सम्बन्धोस्तीति तत्रैव प्रवर्त्तते जात्यादौ । एतत्कथं ज्ञातव्यमिच्छामात्रेण वर्त्तमानः
शब्दो दृष्टः (।) स कथमन्यमात्रान्यथा वर्त्तेत । वर्त्तमानो दृष्टस्तेन वर्त्तत इति व्यपदिश्यतेन1391 ।
न (।) इच्छामात्रवृत्तेरपि सम्भवात् । न हीच्छामात्रवृत्तेरन्यस्य च विशेषं पश्यामः । इच्छया
अनुपलब्धिरिति चेत् । सेयमु1392पलब्धिरतीतेच्छायामपि (सं)भवति । नह्यनुपलब्धिः सर्व्वस्य
बाधिकेच्छायाः(।) वर्त्तमानसन्निहितविशेषस्यैव बाधिका न सर्व्वस्य । तस्माद् यदि कस्य
(चिद्)ाप्यत्रासीदिच्छा बुद्धस्य चिरातीतस्य तदुपदेशादिदानीन्त(ना)नां व्यवहारः किमत्र विरुद्धं ।
तस्मान्निमित्तवन्निमित्तवत्यपि प्रवर्त्तनां किमनर्थकनिमित्तपरिकल्पनया ।
अन्यः पुनराह । न निमित्ते प्रथमं प्रवर्त्तते पश्चान्निमित्तवति क्रमेणवृत्तेरद
र्शनात् । अथ निमित्ते क्वापि दृष्टः पदार्थत्वं गोत्वमिति । न तस्य शब्दान्तरत्वात् ।
तस्य हि वाचकत्वं यस्य यत्र प्रयोगः । प्रयोगबलायाता सकलस्य बाध्यबाधकभाव
सिद्धिरन्वयव्यतिरेककल्पनायां (हि) द्रव्यवृत्तिरेव भावप्रत्ययान्तः शब्दः । भावप्रत्ययापगमे
द्रव्यवृत्तित्वात् । अथ द्रव्यवृत्तेर्भावप्रत्यये सति कथन्निमित्तमात्रवाचकभावः । यदा तु
निमित्तमात्रे वर्त्तते तदा भावप्रत्ययः तमेवार्थ व्यनक्तीति युक्तं । नहि भावप्रत्ययमन्तरेण
द्रव्यभाववाच्यता द्वयोर्गोशब्दयोर्व्विवेकेन प्रतीयते(।) ततो भावप्रत्ययाद् विवेकः ।
नैतदस्ति । नहि स्वार्थिक एव सकलः प्रत्ययः । तत्र द्रव्यवृत्तेरेव प्रत्यये कृते
निमित्तस्य तद्विशेषणस्य प्रतीतिरिति न किञ्चि द् विरुध्यते । न च प्रकृतिप्रत्ययार्थविभागः
पारमार्थिकः समुदाया एव वाचकाः प्रयोगतः प्रतीयन्ते । प्रकृतिप्रत्ययादि1393 विभागस्तु बालव्युत्प
त्तये यथाकथञ्चिदेव प्रकल्पितोऽन्यथा बालस्य मुखेन व्युत्पादयितपमशक्यत्वात् । तस्मान्न
निमित्तमुपादाय निमित्तवति वर्त्तत इति प्रमाणमत्र किञ्चित् ।
अपरः प्राह । निमित्तवत्येव शब्दः प्रवर्त्तते निमित्तं त्वनभिधीयमानमेव व्यवच्छेदकम
सम्भवि तन्निमित्तत्वात् ।
तदेतदसत् । यतः ।
यदि तस्य क्वचित्सिध्येत् सिद्धं वस्तुबलेन तत् ।
यदि तस्य क्वचिन्निमित्ते सिध्येत् सिद्धं वस्तुबलेन तत् । निमित्तमप्रतिपादयता
शब्देन कथन्तद्व्यवच्छिन्ने प्रवर्त्तनं । तद्व्यवच्छेदे1394 चेदवबोधस्तदपि बुद्धावारूढं कथमावच्यं
निमित्तवतोपि शब्दात् प्रतिपत्ति1395 रिति वाच्यत्वं सा निमित्तेपि समाना ।
अथ प्राधान्येन द्रव्यमेव प्रतिपाद्यते गुणस्तु माधुर्यादिर्न्न प्रतीयमानोपि वाच्यो नान्त
रीयकतया प्रतीतेः ।
तत्र कदाचिन्माधुर्य्यमेव प्रधानं कदाचिद् द्रव्यमिति लोकव्यवस्था (।) लोकव्यवस्थया
च वाच्यवाचकाभावः । तथा हि ।
यदा लोलुपजातीयः कश्चिद् भक्षकस्तदर्थ गुडोपदेशो माधुर्य प्रतिपादयति । यदा तु
प्रभावविशेषात् श्लेष्मनिवृत्तये प्रतिपादयति मध्वादिकन्तदा द्रव्यमात्रप्रतिपादकं प्रधानं तस्माद्
द्वयमेव प्रतीयते । प्रधानगुणभावस्तु कदाचित् कथञ्चित् कस्यचिदिति विभागः । तत्र
द्वय (म) प्रतीतौ नापरन्निमित्तमिति प्रसिद्धमात्रकमवशिष्यते ।
अथापि स्यादुपलक्षणं निमित्तं न तस्य वाच्यता । यथा कतरद् देवदत्त(स्य) धाम (।)
यत्र काक इति न काकस्यापि गृहवचनवाच्यता । यथा न वाच्यता तथा तदभावेपि देवदत्त
गृहमेव तेन तस्य नोपादेयता । तथा ब्राह्मणादिशब्दानामपि मनुष्यत्वादिपरिचोदनायां न च
काकेनासाधूपलक्ष्यते तस्यानित्यत्वात् (।) प्रेक्षापूर्व्वाकारी हि काकेनोपलक्षितमन्यद् (एव)
देवकुलादिकं निमित्तीकरोति । अन्यथा व्यवहाराभावः ।
कथन्तर्हि अवाच्यभूतः काक उपलक्षणं (।) प्रत्यक्षसिद्धत्वादत एव काकशब्देनैवास्य
प्रतिपादनं (।) न त्वेवं जात्यादिनिमित्तनामपि परवाचक(त्व) प्रतिपादनं । तस्मादवा-
च्यमपि व्यवच्छेदकम्भवति यत् पृथक् प्रतिपाद्यते । यत्तु तत एव शब्दात् प्रतीयते तद् वाच्य
मेव (।) शब्देन बुद्धावाहितस्य वाच्यत्वव्यपदेशात् । तत्र प्रतीतिरेव शब्दान्न वाच्यतेति चेत् ।
प्रतीतिसिद्धोपगमे शशिन्यनिवारणाद् वाच्यतायाः । निमित्तवन्निमित्तवत्यपि
ता(ऽ)भावः स्यादित्यतः1396 । प्रतीतित1397 एव वाच्यत्वे निमित्तेपि समानं ।
ननु तैलं दीयतामिति पात्रं प्रतीयमानमपि न वाच्यं तैलशब्दस्य । न तस्य सर्व्वदा
प्रतीत्यभावात् । स्वयमानीते(पि) पात्रे तैलदानस्यार्थितासंभवात् । तस्मादनभिधीयमा
नस्य शब्दान्तराप्रतिपादितस्य नोपलक्षणत्वसम्भवः । लक्षितेन हि किञ्चिल्लक्षयितुं शक्यते ।
अलक्षितेन लक्षणेऽतिप्रसङ्ग । अथ प्रथममुपलक्षणात् । ततः पुनरत्यन्ताभ्यासात् स शब्द
स्तद्व्यवच्छिन्न एव प्रवर्त्तते विनापि तदा निमित्तप्रतीतिं । एवन्तर्हि श्वमांसेपि प्रवर्त्ततामग्नि
होत्रादिशब्दस्तन्निमित्तस्य काकवत् तत्र वृत्तत्वात् । अन्यथा कथं न वस्त्वर्थेषु गोशब्दः
प्रवर्त्तते । तत्र तस्य प्रसिद्धत्वादिति चेत् । श्वमांसेनापि1398
कालदेशान्तरे प्रतीतिर्न्नास्तीति
कुत एतत् । तस्माद् वाच्यवाचकभावो नामानियत एवेच्छारचितं संकेतबलावलम्बनत्वादिति
न काचित्क्षतिर्व्वेदस्यापौरुषेयत्वेपि दुष्टतायाः । सर्व्वत्र योग्यताया अनिवारणात् ।
यो हि श्वमांसादिकं नाग्निहोत्रादिशब्दार्थ इत्याह । तस्य योग्यताविषयानुमा प्रति
रोधिनी । यतः । शब्दानामाभिधेयनियमः संकेतमात्रप्रवृत्तीनां नास्तीति कोयन्नियम
एकेनैवाभिधेयेन भवितव्यमिति । तत्र य आह । प्रतीतिबाधितं श्वमांसाभक्षणकल्पनमिति
स पर्यनुयुज्यते । पौरुषेये वेद इति प्रतीतिबाधितमिदमपि । यतः । ऋग्गिरावृचश्चक्रुः
सामानि सामगिराविति प्रतीतेः । अथ करोतिः स्मरणे वर्त्तते न निर्वर्त्तन एव । तथा हि
संस्कारेपि दृश्यते । पृष्ठं कुरु पादौ कुर्व्विति(।) न(।) अत्रान्यथाऽसम्भवादेव प्रतीतिः ।
अथ प्रामाण्यमन्यथा न भवेदिति कल्पना । सर्व्वागमानामप्यपौरुषेयताप्रसङ्गः । तत्कल्पना
निमित्तसद्भावात् । अत एव सौगतः ।
नैमित्तिकी श्रुतिर्न्न काचिदस्तीति यदि वदेन्न तस्य दोषः परमार्थतः सम्बन्धबलेन
नेत्यपि यदि प्रतिब्रूयात् न वाच्य1400 एवासौ । यस्तु सांकेतिकमपि मीमांसकादिर्न्नेत्याह ।
स एवोच्यते । ततः प्रसिद्धिबाधनमयुक्तं ।
यथा शास्त्रं स्ववचनञ्च प्रस्तावाश्रयत्वेनाभ्युपगतम्बाधकं भवति । नान्यथा ।
प्रतिज्ञानस्यार्थस्य बाधनात् । न सर्व्वथा विपर्ययस्य बाधनमेव । द्वयोस्तुल्यकक्षत्वात् ।
तथा प्रतीतिरपि न पारमार्थिकार्थस्य बाधिकाऽपि तु प्रतीतिमात्रकप्रसिद्धस्य प्रतिक्षेपस्य
बाधिकेति् परमार्थः ।
तत्राचार्येणेदमुक्तं । स्वरूपेणैव निर्द्देश्यः स्वयमिष्टो (ऽ) निराकृतः पक्षः । यदि
प्रत्यक्षानुमानागमप्रसिद्धेन । तद्यथा । अश्रावणः शब्दो नित्यो घट इति । न सन्ति प्रमाणानि
प्रमेयार्थानीति प्रतिज्ञामात्रेण । यत्राप्यसाधारणत्वादनुमानाभावे शाब्दप्रसिद्धेन विरुद्धेना
(र्थेना) पोद्यते न स पक्ष इति । अनुमाध्यक्षबाधने । मुक्वागमप्रसिद्धिबाधने सहेतुके प्राह ।
प्रतिज्ञामात्रेण शाब्दप्रसिद्धेनेति । अन्यथा यदि विषयभेदोपदर्शनन्नाभिमतमभविष्यदाचार्यस्य
सहेतुकत्वमनयोरेव न ब्रूयात् । तस्मादयमेवाभिप्रायः प्रधानभूतस्य सकलन्यायवादिनां
न्यायपरमेश्वरस्य ।
न खलु प्रयोजनविवेकपरमनसः परिपुष्टेतरप्रयोजनवचसः सम्भवन्ति वचस्विनः ।
तथा हि ।
अन्तर्व्विन्ध्यनिवासिसान्द्रविततध्वान्तोद्धत1401 ध्वंसिधीर् ।
अत्युच्चैरुदयाद्रिसन्ततसतप्रेङ्ख1402 न्मयूखोत्करः ।। २३६ ।।
आचार्यो न विभार्गगः प्रतिहतो नान्यैरपूर्व्वोरविर् ।
तस्माद् विषयभेद एवात्र युक्तः । परिशिष्टन्तु प्रागेवोक्तं ।
५. प्रत्यक्षबाधा
1403अध्यक्षबाधायामपि वक्तव्यमस्त्येव । यदि नाम गम्यमानत्वादाचार्येण नोक्तं ।
तत्रापि न वक्तव्यं । अश्रावणः शब्द इति न सम्बन्धस्य प्रतिषेधः । किन्तर्हि (।) यद्रूपं श्रुतौं
प्रतिभासते । अद्वयं शबलायां बुद्धेरननुभावात् । नहि जातिसम्ब(न्ध)ादीनां शब्दप्रति
भाससहचरितः प्रतिभासः । अप्रतिभासमानञ्च कथं प्रत्यक्षमप्रत्यक्षप्रतिक्षेपे च कथं प्रत्यक्ष
बाधा । तदेतत्प्रतिपादयिष्यते । तस्मात् प्रतिभासिन एव रूपस्य प्रतिक्षेपे दोषः प्रत्यक्ष
बाधालक्षणः ।
तदर्थमेवाचार्येण ।
546प्रत्यक्षार्थानुमानाप्तप्रसिद्धेन निराकृत (:।) इत्यर्थस्य ग्रहणं तस्यैव रूपस्यार्थत्वात् ।
तज्जा1404 त्यादिकमर्थः । प्रत्यक्षे प्रतिभाससामर्थ्याभावात् ।
४. सामान्य-चिन्ता
यत्र त्वप्रतिभासनं न तत्प्रत्यशक्षमिति न प्रत्यक्षबाधितस्तत्प्रतिक्षेपः ।
एतदेवाह ।
१. सामान्यं व्यावृत्तिलक्षणम्
परिस्फुरत्पुरोवर्त्तिरूपेण प्रतिभासमानमेवार्थः । सामान्यसम्बन्धादयस्तु तथाभूत
रूपव्यावृत्तितः परिकल्पिता नार्थरूपाः । विजातीयरूपविलक्षणत्वस्यैव1406
दर्शनात् ।
सामान्यस्य चापरस्य द्वितीयरूपवदप्रतिभासनात् । ननु ।
गवामेव यथान्यस्मादगोव्यावृत्तिदर्शनं ।
(१) सामान्यनिरासः
तदेतदसत् । यतः ।
व्यक्तिव्यङ्ग्यं हि सामान्यं व्यक्तिरूपमलक्षितं ।
न यावद् व्यक्तीनां सजातीयविजातीयानामसांकर्यन्तावन्न सामान्यमसांकर्येण प्रतीयते ।
यावच्च सामान्यन्नासंकरप्रतीतिकं न तावत् व्यक्त्यसंकरप्रतीतिरितीतरेतराश्रयत्वादप्रतीतिरेव
सामान्यस्य ।
अथ सामान्यमेव प्रथमं प्रतीयते नागृहीतविशेषणाविशेष्य1408बुद्धिरिति ।
547तदसत् । सामान्यमपि कदाचिद् विशेष्यमेव परस्परं विशेषणविशेष्यभावात् ।
सामान्यस्य च सर्व्वदा विशेषणत्वे व्यक्तिसन्देहेपि कस्मान्न प्रतीतिः । तद्विशेषणं यद्व्यवच्छे
दकं तच्च व्यवच्छेदकं यत्सन्देहव्यावर्त्तनसमर्थं । तथा हि ।
विशेषणसहस्रेपि न पूर्व्वस्य निवर्त्तनं ।
अयं स गौरिति निश्चयो रूपनिर्द्धारणमात्रकादेव (प्र) वर्त्तते ।
ककुदादिसंस्थानं वाहादिशक्तिश्च यदि सामान्यनिश्चयहेतुस्तदेव सामान्यं तच्चाव्य
तिरिक्तमेव ताभ्यः1410 । अवान्तरभेदे कथन्तत्सामान्यं(।) सामान्यवादिनोपि कथं व्यक्तिः ।
विलक्षणैरेवेति चेत् किन्न कर्क्कादिभिः । तेषामसामर्थ्याच्चेत् । एषाम्विलक्षणत्वे कथं
सामर्थ्यं परस्परतः । वस्तु स्वभावैरुत्तरम्वाच्यमिति चेत् । न । पादप्रसारणमात्रमेतत्२
त्राणं । अन्यथा सामान्यमन्तरेणैव वर्ण्णसंस्थानमात्रेणासांकर्यव्यवहारमात्रसिद्धेर्न्न वक्तव्य
मेतत् । सामान्यमन्तरेण कथमिति । अत्र वस्तुस्वभावैरुत्तरम्वाच्यमिति परिहारस्य काकैर
भक्षणात् । न त ककुदादिसंस्थानस्य सांकर्यमन्यत्रा३ दर्शनात् । यत्र तु ब्राह्मणादौ संस्था
नादिसाकर्यं । तत्र विटसमयमात्रं शरणं सदाचारमात्रमद्यपादीनां1411 । तस्मात् सुदूरमपि
गत्वा तदन्यव्यावृत्तिरेव हेतुः सामान्यविभागेनापरमिति व्यर्थकमपरं । अपि च ।
इत्युक्तमेतत् । नेह सामान्यधर्माणां पापपुण्यजनकत्वादीनां प्रतिक्षेपेप्यबाधा तत्प्रक्षेप
कृतः(।) एतच्छ्रावणशब्देन प्रकाशितं । इन्द्रियविज्ञाने तेषामप्रतिभासनान्न चानुमानबाधेति ।
यदि तत्र तद्रूपबाधने दोष इत्येतत् प्रतिपाद्यं शब्दस्वलक्षणं नास्तीत्येव कस्मान्नोक्तं(।) किन्त
द्धितान्तेन सम्बन्धिनिमित्तेन शब्देनोक्तेः1412 । एवन्तु वचने(न) सम्बन्धनिराकणमेवात्रा
भिप्रेतं । स चान्वयव्यतिरेकसमाधिगम्य एव तत्कथमियं प्रत्यक्षबाधोदाहृतिः1413 । अनेनापि
शब्देन विवक्षाबशादभिप्रेतोर्थ उच्यत एवेति न दोषः(।) वाचकेन कस्मान्नोच्यत इति चेत् ।
न । यतः ।
नहि शब्दस्वलक्षणशब्दोपि वाचकः स्वलक्षणस्य । सर्व्वशब्दानां सामान्यविषयत्वात् ।
अथ स्वलक्षणशब्दः सामान्यवृत्तिरपि स्वलक्षणमोवोपलक्षयति तदध्यवसायतः । एव
न्तर्हि श्रावणशब्दोपि श्रवणेन्द्रियग्राह्यतोपलक्षितं रूपं स्वलक्षणमेवाह । तल्लक्षणत्वात्
स्वलक्षणस्य । न हीन्द्रियग्राह्यत्वा(द) परमपि सामान्यं प्रसिद्धं प्रयोजनमप्यस्त्येव प्रमाण-
प्रसिद्धत्वप्रतिपादनं । सिद्ध्या प्रमाणेन तस्य बाधकत्वस्य समाश्रयादाश्रयणात् । तद्बले
नैव बाधनात् । प्रमाणप्रसिद्धो ह्यर्थः परस्याप्रमाणप्रसिद्धस्य बाधकः (।) स हि विरुद्धतया
प्रतीयमानः परस्याभावं प्रबोधयति (।) तदभावप्रतिपादनमेव बाधकत्वं न बाध्यबाधकभावः ।
ततः प्रमाणमिदमनेन प्रमाणेन प्रसिद्धं शब्दस्वलक्षणमिति । सपरिकरप्रतिपादनं हि परिस्फुट
प्रतिपत्तिकमिति प्रयोजनं । अनुमानविरोधेपि नित्यो घट इति । पदार्थानां सतामेवाभि
व्यक्तिं पश्यतोनुपलक्षिततत्त्वस्य सांख्यस्य नित्यताभ्युपगमः । सोनुमानबाधितः ।
कारणाभिमतपर्येषणं हि कारणत्वमन्तरेण वृथा भवेत् । कर्त्तव्यस्य तेन कस्यचिद
भावात् । व्यक्तिः क्रियत इति चेत् । ननु व्यक्तिरपि पदार्थस्वभावा पदार्थस्य नित्यत्वे
व्यक्तेरपि नित्यत्वात् सदा स्थितैवेति न किञ्चित् कर्त्तव्यम् । अथ व्यक्तिः क्रियते न पदार्थ
भिन्ना तर्हि सा पदार्थतो विरुद्धधर्माध्यासात् । अभेदे पदार्थस्यापि कार्यताप्रसङ्गः ।
न च प्रमाणं मृत्पिण्डे घटादेरस्ति साधकम् ।
व्यक्तिः सत्त्वं विना नास्ति व्यक्तिभावे च सम्भवेत् ।
तदस्ति तत्रादृष्टञ्चेत् खरश्रृङ्गेपि तद्भवेत् ।
यदि पश्चादुपलभ्यते घटः पश्चादेव भवतु व्यक्तिवत् । पूर्व्वन्तु कथं सद्भावः ।
व्यक्तिरन्यथा न युक्तेति चेत् । अयमपरोस्तु दोषो न त्वनुपलभ्यस्तीति शक्यम्वक्तुं ।
नन्वनुपलब्धिरुपलब्धेरभावः तत उपलब्धिरेव नास्ति कथमभावो भावस्य । यद्येवं
शशविषाणादीनामभावो न सिध्येत् । ततोऽसदकरणादिति1417 हेतुर्न्न स्यात् । ततः शश
विषाणार्थिनोप्युपादानोपादानम्भवेत् । यतः ।
अथ यस्माद् यदुत्पन्नन्तत्तत्रास्तीति गम्यते ।
सत्त्वेन नहि सम्बन्धस्तथोत्पत्तिः प्रसिध्यति ।
व्यक्तेश्चेक्छक्तितो जातिर्व्यक्तिः किं शक्तितः परा ।
व्यक्िश्च बुद्धिः साप्यस्ति ततस्तस्या न जन्यता ।
मृत्पिण्डादौ तु नैवास्ति घटादीनां प्रमाणवित् ।
ततोयं नित्यतापक्षः कुतोनुमितिबाधितः । प्रत्यक्षार्थानुमानाप्तप्रसिद्धेन स्वधर्मिणी ।। २६४ ।। ति
स्वधर्मिवचनन्तर्हि किमर्थम् । तथा हि ।
नहि परघर्मिणि बाधितमबाधितम्भवति । सर्व्वथा बाधितं साधयितुमशक्यमिति
हेतुविषयत्वाभावादपक्ष इति न्यायः ।
अत्रोच्यते ।
सर्व्वत्रैव धर्मिणि तस्य धर्मस्य सम्भवेपि स्वपरमतेन । तथापि यः स्वयम्वादिना धर्मः
साधयितुमिष्टस्तद्धर्मवति धर्मिणि बाध्यमाने यदि बाधा भवेत्तदा दोषो न त्वन्यधर्म
विशिष्टे धर्मिणि बाध्यमान इति स्वधर्मिवचनम् ।
अयमत्र न्यायः । तद्धर्मवत्येव धर्मिणि बाध्यमाने बाधा नान्यधर्मवति क्षतिरिति ।
स्वरूपेणैव निर्द्देश्यः स्वयमिति लक्षणादेव सिद्धेः । स्वधर्मयुक्त एव च धर्मी वादिना
स्वयमिष्टः । तथा सति तस्यैव तदनुरूपबाधने नैव दोषप्रसङ्गो नान्यस्य सम्भवः ।
नैतदस्ति । धर्मिणोपि बाधायां यथा स्यादाश्रयविरोधद्वारेण तद्धर्मस्याप्यभावाप्रसङ्गतः ।
एवम्विधो धर्म इति प्रकृतधर्मिविशिष्टः । तस्यैव बाधने दोषः स्यान्न धर्मिणोपि
बाधनं दोषवन्मन्यते ।
तद्धर्मबाधनञ्चेद् दोषवद्धर्मिद्वारेण वा भवतु साक्षाद्वा(।) सर्व्वथा साध्यधर्मबाधनं
दोषवत् ।
(२) व्योमादिरसद्
सत्त्यमेतत् । तथापि विप्रतिपत्तिनिषेधार्थमेतत् । तथा हि । केचित् केवलधर्मि
बाधनेपि दोष ऐवति कथयन्ति ।
वादी प्राह । परैः सहकारिभिः खादिकमनुत्पाद्यापूर्व्वरूपन्न भवति शब्दादेः कार्यस्य
सकृदजननात् । यद्यनुत्पाद्य रूपं भवेत् सकृदेव स्वकार्य शब्दादिकं कुर्यात् ।
अत्र प्रतिवाद्याह । अथैवायमनुत्पाद्या पूर्व्वरूपताऽभावं साधयति व्योमादीनां तथा
व्योमादिधर्मिणोपि वस्तुत्वाभावं साधयति । न धर्मिबाधनं केवलं दोषवत् । न ह्येवं वादिनो
दोषः (।) तेन हि वस्तुभूतमाकाशादिकं न भवतीत्येतदेव साधयितुमिष्टं । ततोऽवस्तु
भूताकाशधर्मिण्यनुत्पाद्यापूर्व्वेरूपपमाकाशादिकं न भवति सकृदहेतुत्वादिति न दोषः । विकल्प
परिनिष्ठिते धर्मिणि साध्यसाधनाद् वस्तुभूतस्तु धर्मी न तस्य । तेन तस्य केवलस्य बाधा
यामपि न दोष इथि स्वधर्मिवचनं । नहि परधर्मिणि बाध्यमाने स धर्मो न सिध्यति ।
ततः साध्यधर्मि1420 सिद्धेरव्याघाताददोषः ।
अथवानुत्पाद्यापूर्व्वरूपन्न भवति सकृदहेतुत्वात् । अस्यायमर्थः । अनित्यमाकाशं(।)
तत्र परः । नित्यमाकाशं धर्मिबाधितम्भवति । बाध्यतान्तथाप्यनित्यमाकाशन्धर्मि भविष्यति ।
अवश्यं हि हेतुना साध्यविपर्ययो बाधितव्यः । नित्यो हि धर्मी न प्रकृतसाध्यधर्माकार1421
स्ततस्तद्बाधने क इव दोषः । यद्यसौ धर्मस्तद्बाधनेन सिध्येत् स्यादेव1422 दोषः ।
गलविले ह्याकाश उपहते स्वरभेदस्य सम्भवः । तथा हि संकटविपुल (त) दिकं
विवराणां दृष्टमतादवस्थ्यं तानित्यता । अथ यदार्थान्तरभाव एव तत्राकाशन्तु तदेव विपुल
तादि कस्मात् पूर्व्ववन्नोपलक्ष्यते । अवष्टब्धत्वादिति चेत् । अवष्टम्भः कथन्नित्यस्येति
यत्किञ्चिदेतत् । अपि च । पटाद्यवयवी नोत्पन्न एव केवलं तन्तौ तन्त्वन्तरसञ्चारमात्रं1423 ।
कस्मादाकर्षणे न पृथग्भाव इति चेत् । गलविलस्याप्याकर्षणे शरीरस्य कस्मान्न पृथग्भाव
इति यत्किञ्चिदेतत् । तस्मादनित्यमाकाशमवस्तु वा (परमत) बौद्धमतमित्येकान्त एषः ।
अथवा सप्रतिघपदार्थसंसृष्टमालोकादिकमेवाकाशमन्यासंसृष्टपदार्थान्तरमनित्यमाकाशमिति
स्थित (:)पक्षः । तथाभूतस्य धर्मिणः साध्यधर्मविशिष्टता साध्यते । ततस्तदन्यधर्मिबाधने
न दोष एव । यतः ।
यद्यपि नाम साध्यधर्मि धर्मि1424 समुदायसाधनन्तथापि यत्र धर्मिणि बाध्यमाने स प्रकृतो
धर्म उपरुध्यत एव तत्र दोष इत्यनेन स्वधर्मिवचनेन कथितं । न तु तदसम्बद्धपरपरिकल्पित
(धर्मि) बाधने । यतः ।
धर्मी हि स्वरूपेण सिद्ध एवाप्रसिद्धस्य धर्मिणः साध्यधर्मसाधने उपयोगाभावात् । तेन
विशिष्टतया तस्य साधनमभिमतं न स्वरूपतः । ततः केवलबाधने न दोष एव ।
ननु येन रूपेण धर्मी तदाधारतया समीहितस्तद्रूपबाधने नियमे न दोषः । न वस्तुरूपस्य
नित्यरूपस्य वाऽकाशस्यासमीहितत्वात् । अपि च ।
न खलु वस्तुबलायातं किञ्चित् क्विचित् प्रवर्त्तमानं केनचिद्वस्तुचिन्ताभियोगिना निषेद्ध्ुं
शक्यम् । प्रमा(ण)प्रतिपन्नवस्त्वनुयायित्वात् प्रमाणिकस्य ।
सुखदुःखमोहात्मकं हि प्रधानं शब्दादिव्यक्तपदार्थहेतुरिष्यते । ततः सकृदहेतुत्वाद
वस्तु सत् सुखादिकं भवेत् । प्रधानरूपस्य नित्यत्वस्य बाधने स्यादेवावस्तुता ।
तदसत् । यतः ।
अत्र क्रमक्रियाहेतुरक्रमप्रतिषेधेन । क्रमक्रियायाश्चानित्यतया विरोधाभावात् । ततो
ऽनित्यताऽभावन्न गमयतीति कथं धर्मिबाधा । तद्वाधया च धर्मस्य बाधा भवेत् । तस्मात्
स्वधर्मिवचनं ।
२. धर्मिस्वरूपनिरासः
1425नहि केवलधर्मिबाधने वादीष्टसाध्यबाधनम् । तदन्याधारधर्मिबाधने वा । तस्मात्
साध्यधर्मोपयोगिध (ि) र्मबाधने दोषः । तस्मात् ।
अत एवाह । यो हि धर्मी धर्मविशिष्टस्तत्र यदि साध्यधर्मविरुद्धेन प्रत्यक्षानुमानागम
प्रसिद्धेन न बाध्यते स पक्षोऽन्यथा तदाभास इति पूर्व्वोक्त एवार्थ इति ।
५. पक्षदोषाः
14261. हेतुनिरपेक्षः पक्षदोषः
नन्वपरोपि (स) पक्षाभासः अप्रिसिद्धविशेष्यः अप्रसिद्धोभयः अप्रसिद्धविशेषण इति ।
अप्रसिद्धविशेष्यः तद्यथा विभुरात्मा । अप्रसिद्धविशेषणः सांख्यं प्रति विनाशी शब्द
इति । अप्रसिद्धोभयः । समवायिकारणमात्मा । तत्कथमेषामनुपन्यासः (।)
न सदेतत् (।) यतः ।
यत्र विभुरात्मेति । यदि कश्चिद् विभुत्वयुक्तमात्मानं साध्यं कुर्यात् कः पक्षदोषः ।
धर्म्यभावेन हेतोराश्रयासिद्धत्वादिति चेत् । हेतोस्तर्हि दोषो न साध्यस्य तदन्वयव्यतिरेकानु
विधानात् । तथा विनाशी शब्द इति क्व विशेषणमसिद्धं । यदि शब्दे तदयमदोषः ।
ययोऽत एव साध्यतेऽन्यथा कः साध्यतार्थः । अथ विपर्ययसिध्याऽसिद्ध उच्यते । यदि नाम
मूढस्य (विपर्यय) सिद्धिस्तथापि न तावता पक्षदोषः । यदि च प्रमाणेन विपर्ययसिद्धिस्तदा
तत्प्रमाणबाधित एव पक्ष इति स दोषो मानविरुद्धतालक्षणो न तु दोषान्तरं । अथ दृष्टा
न्तेन सिद्धस्तदा साध्यविकलो दृष्टान्त इति तस्यैव दोषो न पक्षस्य । अप्रिसिद्धोभयस्य
तु भयथा दोष इति सर्व्वेमी हेतुदोषो एव । अथ हेतुदोषादेव पक्षदोषो (यं) यतः सर्व्वथा
पक्ष एव न सिध्यति । तथा च सर्व्वे हेत्वादिदोषाः पक्षदोषा भवेयुः । न स कश्चिद्धेतुदोषो
यो न पक्षोपरोधी । यतः ।
नहि तदुपरोधमात्रकादेव तस्य पक्षस्य दोषः । साधनदोषस्यापि पक्षदोषताप्रसङ्गात् ।
अथ साधनदोषस्तदुपरोध्यपि न पक्षदोषस्तदमदत्र न्यायाभावात् । अथ पक्षस्वरूपं तत्काल
ञ्चातिक्रम्य पक्षव्यतिरिक्तसाधनकालस्वरूपोपनिपातित्वात् पक्षस्य न दोषोऽपि तु हेतोरेवान
न्वयादिको दोषः ।
तदप्यसत् । समानत्वादनन्वस्य । अनन्वयो ह्यसम्बन्धः स (च) द्विष्टत्वादुभय
स्यापि । अथापि स्यादाश्रयासिद्धता हि साध्यापेक्षा पक्षदोषो न साधनापेक्षा । साधनापेक्षा
तु साधनदोष एव । उक्तमत्र । यदि द्व्यमपि परस्परापेक्षं साधयेत् कथं स पक्षदोषः ।
न चायं नियमः । सिद्धे धर्मिणि साध्यसम्बन्धमात्रसङ्गम एव साधनीय इति । स्वरूपेणैव
निर्द्देश्य इति वचनात् । कथन्तर्हि उक्तमसिद्धे धर्मिणि साधनासम्भवात् । आश्रयासिद्धत्वेन
हेतोरेव तत्रासम्भव इत्यभिप्रायः । तस्मादसिद्धधर्मिधर्मसमुदायोपि पक्ष एव । तस्माद्धे
तुनिरपेक्ष एव दोषः पक्ष इति । ततः ।
उक्तमेतत् ।
सर्व्वैः पक्षस्य बाधातः तस्मात्तन्मात्रसङ्गिनः (।)
तस्मादसिद्धाश्रयादिकः पक्षदोषो नेति न्यायः ।
नन्वश्रावणः शब्दो नित्यो घट इति नानुमानं प्रमाणं । अचन्द्रः शशीति धर्मस्वरूप
विपरीतवत् विधानेनोपदर्शिता । न धर्मिधर्म1428 विशेषधर्मिरूपबाधा । न चोदाहरणम
प्रदर्शितं सुज्ञानं । तत्किमत्र कारणमिति न विद्मः । अत्रोच्यते ।
अनेनैव चोदाहरणेन धर्मस्वरूपनिराकरणप्रदर्शनपरेण सर्व्वेषामेव स्वरूपविशेषाणा
मुपदर्शिता बाधा । कथमन्येनान्यस्य दर्शनमिति चेत् । साध्यत्वाविशेषात् । तत्र प्रति
व्यक्ति नोदाहरणं शक्यमुपदर्शयितुं न च तदुपदर्शने प्रयोजनं । एकोदाहरणप्रदर्शनेनैव
तद्धर्मणः सुज्ञानत्वात् । उपलक्षणमात्रकं ह्युदाहरणं ।
२. अवयविनिरासः
ननु विशेषः कथन्धर्मधर्मिणोस्तद्धर्मा1429 । न । उक्तापेक्षया तस्य विशेषत्वं ।
साध्यन्तदेवान्यथा साधनवैफल्यं ।
एतान्युदाहरणानि नान्योऽवयव्यवयवेभ्यस्तुलानतिविशेषाग्रहणात् । नान्येवयवा
अवयविनः वा अप्रत्यक्षत्वप्रसङ्गात् । नास्ति द्रव्यं गुणद्रव्याणां द्रव्याद्रव्यत्वप्रसङ्गात् ।
धर्मिस्वरूपनिराकरणेन पाश्चात्यमेकं । धर्मिधर्मविशेषनिराकरणेन न चोदाहरणद्व्यं
यथाक्रममाद्यं ।
नहि व्यतिरेकेणानुपलभ्यमानं व्यतिरेकेण प्रत्यक्षं भवति । अव्यतिरेकेणोपलभ्यते
व्यतिरिक्तञ्चोपगम्यते ऽत एष विरोधः ।1430
३. द्रव्यगुणसामान्यनिरासः
अन्यथावयवानामवयवि (प्रत्यक्षत्त्वेप्य) प्रत्यक्षतायामन्यतैव न स्यात् । अथवा नान्ये
ऽवयवा अवयविनस्तस्या प्रत्वक्षत्वप्रसङ्गात् । अन्यत्त्वे हि तेषामप्रत्यक्षतायामवयविनोप्यप्रत्यक्ष
ताप्रसङ्गात् । न ह्यप्रत्यक्षा (वयवो) वयवी प्रत्यक्षो भवितुं युक्तः प्रथमावयविवदेव ।
अथ स्थूलोवयवी प्रत्यक्षो नान्य इति मतिः । एकस्य स्थूलता विरुद्धेति प्रतिपादितम्
(।) अतो ऽवयवसमाहारमात्रमवयवी नापरस्तस्मात्रान्येऽवयवा इति स्थितं ।
तथा नास्ति द्रव्यमिति गुणव्यतिरिक्तमिति सम्बन्धः । गुणद्रव्याणां द्रव्याद्रव्यत्वप्रसङ्गा
दिति । गुणस्य वा द्रव्यत्वं द्रव्यस्य वा गुणत्वमित्यर्थः । तथा हि व्यतिरेके सति परस्परव्या
वृत्तत्वाद्रूपं सत्तयाधिष्ठितं द्रव्यस्य ग्राह्यं गुणानामपि तथैवेति न्यायः । ततो द्व्योः परस्पर
परिहारेण स्थिततयोरेको गुणोऽन्यद् द्रव्यमिति कुतो विवेकः । अपरस्परपरिहारेपि कुतो
विवेकः । अथ गुणस्य द्रव्यत्वं (? गुणत्वं) द्रव्यस्य द्रव्यत्वमिति विवेक इति मतिः ।
तदप्ययुक्तं ।
परस्परपरिहारेण(अव) स्थितत्वे न द्रव्येतरत्वयो1432 र्व्विवेक इति सिद्धमेवैतत् । व्यति
रेके तु द्रव्यत्वयोगाद् द्रव्यं गुणत्वयोगाद् गुण इति स्याद् विवेकाशङ्का । तदपि न सम्यक् ।
परस्परपरिहारेण स्थितयो रूपरसयोरिव कुतो द्रव्येतरते । गुणत्वादियोगादिति चेत् । न ।
गुणव्यक्त्या व्यज्यमाने गुणत्वं नान्यथा । समानाकारतामात्रं गुणत्वं द्रव्यत्वञ्च । तस्य
विशेषस्तद्विजातीयव्यक्तिव्यक्तत्वं नाम । विजातीयव्यक्तित्वञ्च विजात्या1433 ध्यासितत्वमित
रेतराश्रयदोषः ।
अथ जातीनां स्वत एव विलक्षणत्वं परस्परत इत्युच्यते । तत्रापि विजात्यध्या
सितत्वमेव व्यावृत्तिकारणं । स्वरूपेण व्यावृत्तत्वे व्यक्तीनामपि तथेति व्यर्थिका परा
जातिः । गुण इति समानाकारप्रत्यया1434निबन्धनत्वात् । गुणत्वादेर्गुणत्वमिति चेत् ।
किमिदानीमन्तर्गडुना सामान्येन । सामान्याकारप्रत्ययनिबन्धनत्वस्य प्रतिनियमेनैव
प्रसिद्धत्वात् स्वकप्रयोजनस्य । तथा च न द्रव्याद्रव्ययोः स्वरूपतो विशेषः कश्चित् । तस्माद्
द्रव्यास्तित्वे द्रव्याद्रव्ययोरविशेष एव । नास्तित्वे तु भवति विशेष इति युक्तं । सम्वृतिसद्
द्रव्यं ततोन्ये गुणा इति । उभयस्वरूपविशेषनिराकरणमुखेनोदाहरणं । तद्यथा । सर्व्व
म्वाक्यमनृतार्थम् (।)
वाक्यत्वमनृतत्वञ्च सामान्येन यदा निराकर्त्तुमभिप्रेतं तदोभयस्वरूपनिराकरणं यदा तु वाक्यस्य
धर्मिणो धर्मोनित्यत्वञ्चानृताभिधेयत्वं तदोभयविशेषनिराकरणं । सर्व्वस्य वाक्य(स्य) विशेष
स्यानृताभिधेयत्वस्य च निराकरणात् । प्रामाण्यं हि वचनसामर्थ्यादतस्तेन वाक्यत्वानृता
भिधेयत्क्ाभावनिराकरणं (।) धर्मिविशेषश्चात्र कश्चिदनित्यत्वादिको द्रष्टव्यः(।)यदि ह्यानित्यत्वं
न साध्यते व्यर्थकमेव वक्तृप्रामाण्याङ्गीकरणं । यदि नित्यता स्यान्न वक्ता किञ्चित् क्रियेतेति
व्यर्थ एव वक्ता स्यादतः स्ववचनविरुद्धमेतत् ।
यदि नित्यम्भवेद् वाक्यं वक्तुर्व्यर्थत्वमापतेत् ।
वक्तुर्हि वाक्यस्वरूपमनुपकुर्व्वाणस्य न वाक्योपकारिता । अतत्कृतोपकारे न तस्य
किञ्चिदित्यनुपकारी न वाक्येन वक्ता पेक्ष्यते । अपेक्ष्यते च । तस्मादनित्यता तस्य
साधनीया । ततस्तद्विशेषनिराकरणमुखेनायं पक्षाभास इति कथितं । तत्र वार्त्तिककार
उदाहरणदिग्मात्रमेव निदर्शयति । अनया दिशा शेषोदाहरणव्याख्याप्रतिपत्त्यर्थ नावयव्यन्यत्त्व
मात्रं साध्यते । अपि तु द्रव्यलक्षणयोगेन क्रियावद् गुणवत् समवायिकारणं द्रव्यमिति तथा
दृष्टिभावत्वेन ।
अन्यत्त्वमात्रन्तु यद्यवयविनः साध्यते । तदा सम्वृतिसन्मात्रं तत्सिद्धमेव । परमार्थ
सन्तोवयवा सम्वृतिसन्नवयवीति सिद्धसाधनमन्यत्त्वमात्रे साध्ये ।
4. गुरुत्वाधोगत्योरभावः
अवयवपरमाण्वादिव्यतिरेकमात्रतया प्रसिद्ध एव भ्रान्तबुद्ध्याकारः । तस्यैव साधने
नियमेनैव सिद्धसाध्यता । दृष्ट ए्व च नाति1436 दूरवर्त्तिपरस्परसामीप्यव्यवस्थितानां संसक्त
केशविषयैकघनाकारः प्रत्ययः । ततो न तावन्मात्रेण विज्ञानाकारव्यतिरिक्तावयवि
प्रसिद्धिः(।) अतो द्रव्यलक्षणयोग एव तत्र साधनीयः । तत्र च गुरुत्वं गुणोऽधोगतिश्च क्रिया ।
तयोश्च समवायिकारणत्वमिति लक्षणयोगे विज्ञानाकारव्यतिरेकसिद्धिः । तथा च ।
अवश्यं हि गुरुत्वप्रयुक्ताधोगमने1438 तदाकृष्यमाणस्य तुलाशिरसोपि नतिः । न चासा
वस्ति । अवयवाधिका ततोसौ न द्रव्यलक्षणयुक्त इत्याह ।
ययोर्गुणक्रिययोरसौ समवायिकारणं तदभावेन न तथा भवतीत्युपसंहारः ।
दृश्यत्वमपि तस्य नास्त्येव । तस्य हि द्व्यीगतिरुपचारतो मुख्यतश्च । न तावदु
पचारतः । तत्कार्यस्य गौरवादेरदृष्टेः । नाप्युपचा(रेत) रतो रूपस्यावयवव्यतिरेकेणादृष्टे
र्व्विज्ञानाकार य स्थूलतयो(प) लम्भात् । न धिकस्य चादर्शनात् ।
अन्य विशेषस्योक्तान्यतामात्रापेक्षया द्रव्यलक्षणयोगेन तस्य साध्यत्वं नान्तरीयकत्वेन
(।) अन्यथाऽन्यत्त्वमात्रस्यासाध्यत्वात् । तथा हि ।
तिमिरविपरीतीकृतदर्शनशक्तिनयनानामपि केशदंशमशकमक्षिकादयो सदधिमोक्षपक्ष
निक्षिप्ताः प्रत्यक्षेक्षिता इवावभासन्ते (।) न च ते तदवभासादेवासन्तो न भवन्ति । अत्र ।
सूक्ष्मद्व्यणुकादिप्रतिद्रव्यमालायास्तुलामानसङ्गमादनेकद्रव्यमध्यमध्यासीनं द्रव्यान्त
रगुरुत्वं न शक्यमु (प) लक्षयितुमिति तुलानतिविशेषाग्रहणं । द्वयोर्हि हेमपिण्डयोः संयोगे
यद्यप्यवयव्यन्तरमुत्पन्नं गुणक्रियावत् । तथापि द्व्यणुकावान्तरद्रव्यमालापि तत्रास्त एव ।
ततस्तदनन्तरगुरुत्वमध्यपाति न लक्ष्यते । कर्पासभारमध्य शतितदङ्शुपातगुरुत्वमिव ।
न चालक्ष्यमाणमपि तस्य गुरुत्वमधोगमनञ्च नास्ति ततस्तन्निर्गुणक्रियस्तस्मादित्यसिद्धमेतत् ।
तदसत् । यतः ।
गुरुत्वाधोगतिविशेषमन्तरेण प्रतिभासमात्रमेव सिध्यति । न च तेन सिद्धेन सिद्ध
साध्यताव्यतिक्रमः । अपि च ।
क्रमेण संयुक्ते हि पांशुराशौ गुरुत्वयुक्तानेकाव (वय) विभारसद्भावान्महद्गौरवं ।
सकृद् युते त्वेक एवावयवीति न महद् गौरवमतो भेदप्रसक्तिः । न चोपलम्भो भेदस्य ।
अनेकांशुनिचयनिपाते तूपलक्ष्यते । ततोऽसौ न दृष्टान्तः ।
अथ पूर्व्वसकलावयवि (वि) नाशे पर्यन्तवर्त्येक एवावयवी । ततोनेकावयविनामभावे
समानमेव गौरेवमक्रमेणान्यथा च संयुक्ते पांशुराशाविति न दोषः । तथा सति द्रव्यमाला
तोल्य(त) इति न युक्तं स्यात् । अन्त्यस्य तु गौरवानुमापलक्षणं1439 न युक्तम्(।)
अथवा यावदारम्भकयोर्गुरुत्वं पृथग्भूतयो(रवयवयो) रवयविनोपि तदारब्धस्य तावदेव ।
ततो न भवति तुलानतिविशेषः । एवन्तर्हि सर्व्वावयविनाशे सत्यवयविन उत्पत्तिरिति ।
परमाणूनामपि विनाश इति नित्याः परमाणव इति विरोधः सिद्धान्तस्य ।
अथ विभागेन विनाशः परमाणूनां तु न विभागोऽनवयत्वादिति चेत् । न(।) अन
वय(व)त्वस्यायोगात् । अवश्यं हि पूर्व्वापरदिग्भागेन भाव्यं मूर्त्तिमतां । तस्मान्नावयवि
नाश इति युक्तं ।
अथापि स्याद् भवतु परमाणूनां विनाश इति(न) का(चित्) नः क्षतिः । एवन्तर्हि ।
पञ्चमाषकः पिण्डो न स्यादेकत्वा(द)वयविनो माषकावयविनां विनष्टत्वात् । एकमेव
सुवर्ण्णामित्यादि भवेत् । अनेकगौरवसम्भवे हि पञ्चेत्यादिसंख्यासम्भवः । एकत्वेत्वेक
संख्यैवेकत्वादवयविनः ।
अथैकत्वेपि गौरवस्य तथा व्यपदेशस्तथा सति न परमार्थः संख्या । तस्मादवयवाना
मविनाशे तद्गतां संख्योपपद्यते माषकादिसाम्यनिबन्धनं । ततोनेकद्रव्यसम्भवे क्रमेणावयविना
मुत्पत्तेर्गौरवस्य नियमेन विशेषतः ।
अथ शरिश(? सर्ष) पादुत्तरोत्तरं सकलमेव नोपलक्ष्यत एकानुपलक्षणवत् सर्व्वेषाम
विशेषात् ।
नैतदस्ति ।
न ह्येनामुपलक्षणे1441 तत्संहातस्यापि । एकां(शु)गौरवानुपलक्षणेपि भारगौरवोपलक्षणात् ।
अंशनिचयश्च कर्पासभारव्यपदेशभागी । किञ्च ।
रक्तिका चतुर्भागः1445 सर्षपः । तस्मात् सर्षपात् प्रभृत्या महाराशे उत्तरोत्तरकार्यमाला
निबन्धनं बृद्धिमद् गौरवं नोपलभ्यते । आसर्षपात्तु गुरुत्वमपचयवत् पूर्व्वपूर्व्वं सुतरामेव
नोपलभ्यत इति प्राप्तं । अतः कार्यगौरवानुपलक्षणात् कारणमेव तोल्यं पारिशेष्यात्तस्येति
न्यायः परिस्फुट एव । गौरवविशेषोपयोगितयोपलभ्यमेव तोल्यन्नान्यत् । उत्तरोत्तरस्य(हि)
कार्यस्य गौरवानुपक्षणे तद्गौरवं कारणस्यापि । तौलत्वे1446
तत्कारणस्य । तस्यापि
तत्कारणस्येति । एंव यावत्कारणं परमाणवस्तोल्यास्तेषाम् परस्य (कारणभूतस्य) ा वयवस्या
भावात् । तथा हि ।
अपि च । अंशोर्गौरवानुपलक्षणेपि भार1447 एव तस्य दृष्टत्वात् । नत्वयवी दृश्यः ।
केवलं कार्यदर्शनादेव तस्य सत्ता व्यवस्थाप्यते ।
तच्च सकलमसत् । यतः ।
558
प्रत्यक्षानुमानाभ्यामप्रतीतं कथमस्तीति गम्य(ता) म् ।
ननु गुरुत्वागतावपि प्रकारान्तरेणापि गतेः सम्भवात् कथमसत् । न (।) अन्यस्यापि
रूपादेरनुपलक्षणत्वात् । माषकादेरवयिविनो नाधिक (मपर) मवयवेभ्यः1450 । कथन्न तर्हि
तुलानतिविशिषाग्रहणादित्याचार्येण प्रतिनियम उक्तः । न (।) उपलक्षणत्वात् सा नतिः ।
केवलोच्यमानाप्यरस्यापि निदर्शिका । कथं सर्व्वमेव नोपलक्ष्यत इति ज्ञानव्यं किमत्र
ज्ञातव्यं । यथायथं चक्षुरादिना रूपादेरधिकाधिकस्यानवगमात् । नहि रूपरसादीनामवयवेभ्यो
विशेषगतिरवयविसम्भवेपि । तस्माद् गुणक्रियावद् दृश्यावयव्यभाव एवेति धर्मविशेषबाध
द्वारेण पक्षदोषः । अयञ्च पक्षः । अभ्युपगमस्ववचनअनु1451 मानप्रतीतिवाधितः ।
रूपबाधादिवत् । अवयविबाधकन्यायोपदर्शनमतोन्यदप्याचार्यनिदर्शितमुदाहरणम
वगन्तव्यं । तच्च प्रागुपदर्शितमेव ।
५. नैयायिकपक्षलक्षणे दोषः
(१) साध्य ग्रहणं निरर्थकम्
ननु साध्यनिर्द्देशः पक्ष प्रतिज्ञेत्येतत्पक्षलक्षणं नैयायिकानां1452
अस्य को दोषः ।
असिद्धहेतुदृष्टान्तस्यापि तत्त्वप्रसङ्गः ।
ननु साध्यत इति साध्यं । असिद्धहेतुदृष्टान्तौ तु साधयिष्येते । तत्कथन्तयोः
प्रतिज्ञात्वप्रसङ्गः ।
सत्त्यमेतत् । यदि वर्त्तमानसाध्यनिर्द्देश इति लभ्येत ।
त्रिकालविषयो हि सर्व्व एव कृत्यप्रत्ययाः । ततो भाविसाध्यत्वमपि प्रतिज्ञा स्यात् ।
कथं साध्यस्य भावित्वं तदाऽतथात्मकत्वेन निर्द्देशात् । साध्यमपि तत् तदा साधनत्वेन
निद्दिष्टं । तेन तदाऽसाध्यं (।) न चासिद्धं साधनं साध्यं प्रति1453 । ततस्तस्य पश्चात्
साधनत्वं1454 ततः पश्चात्तनसाध्यतयैव तस्य निर्द्देशः प्रतिज्ञा ।
ननु यथा साध्यशब्द कारकापेक्षया साध्यन्न प्रतिपादयति क्रियते घट इति तथा
साधनत्वेन निर्द्दिष्टमपि न प्रत्याययिष्यतीति । कुतोसिद्धसाधनस्य प्रतिज्ञात्वप्रसङ्गः ।
सत्त्यमेतद् यदि निबन्धनमत्र प्रत्यायनाधिकारो न स्यात् ।
559प्रत्यायनाधिकारेण निवर्त्त्यकारकापेक्षया साध्यमपरसर्व्वसाध्यसंग्रहारिकैव साध्य
श्रुतिः । अतो न साध्यान्तरव्यवच्छेदसमर्था । कारकसाध्यव्यवच्छेदस्तु ज्ञापकहेत्वधिका
रात् । न च सहेतुकं किञ्चिद् भवतीत्यहेतुकेनापि भवितव्यं । सर्व्वस्य सर्व्वत्र भाव
प्रसङ्गात् । न चासाध(न)त्वेन निर्द्दिष्टं साध्यम्पक्ष इति निबन्धनमस्ति । ततः साध्यश्रुति
र्न्नेष्टम्विशेषमवलम्वितुमलं । कारकसाध्यव्यावृत्तिस्तु प्रत्यायनाधिकारादिति न तया साम्यं ।
तथा चासिद्धदृष्टान्तहेतुवादः प्रसज्यत इति ।
अनित्यः शब्दः कृतकत्वात घटवदिति सांख्यं प्रति । चाक्षुषत्वादाकाशवदिति वा ।
यदि तु प्रकरणानपेक्षा भवेत् प्रतिलक्षणकृतस्तथा शशश्रृङ्गादावपि साध्यताप्रसङ्गः ।
अथापि स्याद्(।) अत्रापि साध्यनिर्द्देशः प्रतिज्ञेति न सर्व्वस्य प्रत्यायनाधिकारेपि
साध्यस्य प्रतिज्ञात्वमपि तु साध्यमिति कर्मणि कृत्यप्रत्ययविधानात् । कर्म च कर्त्तुरीप्सि
ततमं कर्मे ? (पाणिनिः.....) ति विशिष्टमेव यत्र प्रकर्षः । न च साधनत्वेन निर्द्दिष्टं
करणत्वादीप्तिततमं । अन्यथा पयसौदनं भुंक्ते इति न पयसः करणत्वेन विवक्षितस्य कर्मत्वं
भोजनक्रिययाऽप्यमानस्यापि । तथेप्सितं । नेप्सिष्यमाणङ्कर्म । अपि च । पञ्चस्वव
यवेषु लक्ष्यतया प्रकृतेष्ववयवान्तरलक्षणविषयपरिहारेण प्रतिज्ञालक्षणं व्यवतिष्ठत इत्यसाधन
भूतसाध्यनिर्द्देशः प्रतिज्ञेति प्रतीयते । तथा चतुर्व्विधं सर्व्वतन्त्रप्रतितन्त्राधिकरणाभ्यु
पगमसिद्धान्त (न्यायसूंत्रे) प्रक्रमे लक्षणविधानादभ्युपगमसिद्धान्तलक्षणः साध्यनिर्द्देशः
प्रतिज्ञेति प्रतीतेर्न्नातिप्रसङ्ग इति न दोषः ।
तदेतत्सकलमसत् । यतः ।
न खलु सिद्धान्तो सिद्धहेतुदृष्टान्तव्यवच्छेदकृत् । सर्व्वस्यासिद्धस्य अभ्युपगमात् ।
शास्त्रदृष्टस्य ह्यभ्युपगतस्याभ्युपगमसिद्धान्तत्वात् । तस्य च हेतुत्वेनाभ्युपगमेपि
साध्यताभ्युपगमोऽवश्यंभावी नासिद्धस्य हेतुतेति (।) त्रिकालविषयत्वन्तु कृत्यप्रत्ययानां प्रतिपा
दितमभ्युपगमशब्दोपि त्रिकालविषयप्रत्यय एव कृत्यग्रहणस्योपलक्षणार्थत्वात् । ततः सकलस्य
सिद्धान्तता तुल्या (।) ततो (न) सिद्धान्तोपक्रमः परिहारः ।
अथ साधनस्य साध्यस्य च लक्षणे प्रकृते साधनलक्षणपरिहारेण साध्यनिर्द्देशः
प्रतिज्ञे1459 ति साध्य एव प्रतिज्ञा न साधननिर्द्देशः ।
तदप्यसत् । सर्व्वेषामसिद्धत्वादवयवलक्षणानामर्थस्यासिद्धत्वात् प्राग्लक्षणाभिधानात् ।
ततः साध्यर्निर्द्देशः प्रतिज्ञेति सर्व्वस्य साध्यस्य निर्द्देश इति स्यात् । तद्विनिर्मुक्तस्य च
साधनत्वं । अथवा साधनत्वेन निर्मुक्तस्य साध्यनिर्द्देश्य प्रतिज्ञात्वमिति क इमं विवेकं
विधातुमलं । सन्देह एव तर्हीति चेत् । न (।) अत्रोत्तरस्य1460 वक्ष्यमाणत्वात् ।
ननु साध्यमिति कर्मणि कृत्यप्रत्ययः । कर्म च कर्त्तुरीप्सिततमं न च साधनत्वेनोपाय
तयाभीष्टस्येप्सितमत्वं । तत्कथन्तस्य साध्यता ।
नतदस्ति । साधनस्यैवोपायतया साध्यत्वेनेप्सिततमत्वात् । न चातिशयप्रत्ययः तत्रा
ङ्गीकृतः । योगविभागस्य कैश्चिदभ्युपगमाद्दपरैरातिशायिकस्य1461
प्रत्याख्यातत्वात् । न
च भूतप्रत्ययस्तत्र तन्त्रमेकबचनम्वाकरिष्यति कटौ कटानिति चेष्टत्वात् । अभ्युपगम
सिद्धान्तता चास्त्येव । तस्मात् साध्यनिर्द्देशः प्रतिज्ञेत्यसदेतत् । अत्र च धर्मी धर्मः समुदायो
वा साध्यो भवेत् ।
तत्र धर्मे साध्येन साधर्म्यं हेतुर्धर्मिण्यनर्थकः ।
यदि धर्मः साध्यः तस्य निर्द्देशः प्रतिज्ञेत्यनिक्यत्वमिति भवेंत् प्रतिज्ञा । तथा साध्यसा
धर्म्यात् तद्धर्मभावी दृष्टान्त उदाहरण(न्याय सूत्र ।....) मिति दृष्टान्तलक्षणं विरुध्यते ।
नहि साध्यधर्मस्यानित्यत्वस्यौत्पत्तिमत्वादिधर्मौ विद्यते येन तद्धर्मभावित्वं स्यात् घटादेः ।
धर्मिणस्तु सिद्धत्वात् ताध्यसाधनं हेतु (न्या॰ सू॰...)रिति न सङ्गतं । अथोभयं
साध्यमुभयपक्षभावी दोषः ।
ननु समुदायः साध्यः । न समुदायः सिद्धो नापि तद्धर्म उत्पत्तिमत्वं न भवति ।
अत्रोच्यते ।
उदाहरणसाधर्म्यात् साध्यसाधनं हेतुरिति1462 हेतुलक्षणं । साध्यसाधर्म्यात्
तद्धर्मभावी दृष्टान्त उदाहं1463 मित्युदाहरणलक्षणं । तदेतत् समुदायसाध्यत्वे विधटेत । तथा
हि समुदायस्य समुदायिव्यतिरेकेणाभावात् तदेव द्वयं साध्यं भवेत् । न च साध्यधर्म
विशिष्टधर्मिधर्मेणोत्पत्तिमत्वादिनोदाहरणस्य सधर्म्यमस्ति । तथाविधे धर्मिण्यसिद्धो हेतुः
परस्येति न हेतुलक्षणं नाप्य नित्यताविशिष्टेन धर्मिणोदाहरणस्य घटादेः साधर्म्यमस्तीति न
दृष्टान्तलक्षणमिति न सिध्यति हेतुदृष्टान्तलक्षणं । असम्भवात् समुदायस्य साध्यशब्दो
धर्मिवृत्तिर्भविष्यति । समुदायेषु हि प्रवृत्ताः शब्दाअवयवेष्वपि वर्तन्त इति न्यायात् ।
तदप्यसत् ।
561किं हि तदा लक्षणवचनेन । यथा दुर्व्विहितलक्षणमसम्भवाद् अर्थस्यान्यथा व्याचष्टे
तथाहेत्वादिस्वरूपमप्यन्यथा परिकल्पयिष्यति । यथा स गमकस्तथा दृष्टान्तलक्षणमपि
व्यर्थकं शास्त्रं ।
ननु
पक्षधर्मस्तदङ्शेन व्याप्तो हेतुरिति भवद्भिरप्युपचारात् पक्षशब्दो धर्मिवृत्तिरिष्ट
एव । तथा च पक्षो धर्मी, अवयवे समुदायोपचारात् । अत्रापि (हि) स एव दोषः ।
नेदमस्ति । यतः ।
य एव हि जिज्ञासितसाध्यधर्मलक्षणविशेषो धर्मी पक्षस्तस्य मुख्यस्यैव पक्षस्य ग्रहणं (।)
तस्य धर्मो हेतुस्ततो न दोषः ।
ननु समुदायस्यासिद्धत्वे कथन्तस्य धर्म इति सिध्यति । नेदमपि युक्तं, यस्मात् ।
यदाहि । समुदायः प्रसिद्धस्तदास्या जिज्ञासितविशेषत्वादपक्षतैव । तथा चाह ।
तत्र तु स्वयं साध्यत्वेनेप्सितः पक्ष इति । सिद्धश्चेत् कथं साध्यत्वेनेप्सितः । तस्मात् पक्षधर्म
इति कोर्थः । सन्दिग्धसाध्यधर्मधर्मिधर्म इति । तदात्र कथं समुदायासिद्धौ तद्धर्मता न
सिध्यति । कथन्तर्हि अवयवे समुदायोपचारादित्युक्तं ।
अत्रोच्यते ।
तत्र हि चोदयन्ति पक्षधर्म इति न सदेतत् । नहि हेतुस्वरूपनिरूपणकाले पक्षस्य सम्भवः ।
प्रदेशादिधर्मिमात्रे(ण) हेतुमुपलभ्य व्याप्तिस्मरणे पश्चान्नित्यत(त्त्व)ादिसाध्यधर्मबुद्धिः ।
प्राक्तु तद्बुद्धेरभावाद् धर्मिमात्रमेव सम्विदितमवशिष्यते सन्दिग्धः साध्यधर्म इति चेत् । न ।
नियमाभावात् ।
ननु सन्दिग्धे हेतुः प्रवर्त्तते कथन्न नियमः । न(।) सिद्धप्रतिक्षिप्तमात्रस्य निराचिकी
र्षितत्वात्(।) निश्चिते निराकृते च हेतुः प्रवर्त्तते प्रयोजनाभावादशक्तेश्च । तस्माद् धर्मिधर्म
इत्येव वाच्यम् ।
अत्रोच्यते । धर्मिधर्म इति वचने दृष्टान्तधर्मिधर्मस्यापि हेतुत्वे चाक्षुषत्वमपि हेतुः
स्यात् । अतः पक्षभूतो धर्मी गृह्येतेति पक्षग्रहणं । कथन्धर्म्येव पक्षो भवेदित्याह । अवयवे
समुदायोपचारात् । यद्यपि हेतुग्रहणकाले समुदायो न भवति बद्धिस्थस्तथापि पश्चाद्
भविष्यति ।
ननु यः पश्चाद् भविष्यति स कथं प्रथमे सन्निहितः । अत एवोपचारो1465 न्यथा मुख्यता ।
बुद्ध्या व्यारो प उपचारः । कथमसन्निहिते बुद्धिरिति चेत् । किम्मनोरथेपि दारिद्र्यं ।
न ह्यस्य सूत्रस्य शाटकं वयेति न दृश्यते । तत्र हि यदि शाटको न वातव्यः । यदि वातव्यो
न शाटकः । शाटकश्च वातव्यश्चेति व्याहतं । तत्रायमभिप्रायो वक्तुः । यः शाटको
भविष्यति स वातव्यः । अत्रापि किं प्रयोजनमिति चेत् । अस्ति प्रयोजनं सूत्रमित्युक्ते
शाटकपटकादेरपि प्रसङ्गः । तस्मादन्यनिरासार्थमेवं वचनं । एवमत्रापि यः पक्षो भविष्यति
यत्र साध्यसिद्धिर्भाविनी तस्य धर्म इति न दृष्टान्तधर्मिधर्मप्रसङ्गः । ततोयमर्थः । सन्दिग्ध
साध्यधर्मधर्मिधर्म इति । कथन्तर्हि तदङ्शस्तद्धर्मो वक्त्रभिप्रायवशात् । न तदेकदेशः पक्षशब्देन
समुदायावचनादिति वचनं ।
तदसत् ।
अन्यदोषः कथन्नाम परत्रोपनिपात्यते ।
व्याख्यातुरेव दोषो दुरात्मनः । न खल्वन्येन कर्कटिका भक्ष्यतेऽन्यस्य नासा
च्छेदक्रिया । साध्यधर्मधर्मिसमुदायः पक्षः । तत्र यदि तदङ्शेन व्याप्त इति सामान्ये
नाख्यायते । तदा धर्म्यपि तदङ्श एव तेन व्याप्त इति न साध्यधर्मव्याप्ततालक्षणम्भवेत् ।
अत आह । तदङ्शस्तद्धर्मः । अंशशब्दस्य सामान्यवचनत्वेपि धर्म एवांशो गृह्यते ।
वक्त्रभिप्रायात् । पक्षधर्मस्यान्येन धर्मिणा व्याप्त्यसिद्धेः । न तदेकदेश इत्यस्यार्थो नैकदेश
मात्रं । पक्षशब्देन समुदायावचनात् । पक्षशब्देन हि धर्मी सन्दिग्धसाध्यधर्मविशिष्ट
उच्यते । तेन समुदायवाचको न पक्षशब्दः । समुदायार्थप्रतीतिस्तु सामर्थ्यात् (।) तस्य
धर्मिणोंशः सामर्थ्याद् धर्म एव । नहि स एव तस्य धर्मः ।
यदि तु पक्षशब्देन समुदाय उच्यते । समानप्रधानभावावयवः । तदा तदङ्शेन
व्याप्त इति धर्मिलक्षणेनाङ्शेन व्याप्त इत्यपि स्यात् । अनिष्टञ्चेदमिति । तेनैवं व्याख्या
यते । तस्मान्न क्वचिदस्माभिरसम्भवाद् अन्यशब्दोन्यत्र परिकल्पितः । अपि च । मतानुज्ञा
नामेदं निग्रहस्थानं । स्वपक्षे दोषमनु(द्) धृत्य परपक्षे दोषतोदनं1466 मतानुज्ञा1467 ।
अथवास्माकं प्रयोजनमस्ति उपचारयोग्यधर्मिपरिग्रहः । भवतु नेदमिति नोपचारो युक्तः ।
न च मुख्यसम्भवे, उपचारकल्पनायोगः (।) अपि च साध्यनिर्द्देशः प्रतिज्ञेत्यत्र पूर्व्वावधारणं
वा स्यात् परावधारणम्वा । साध्यनिर्द्देश एव प्रतिज्ञा न साधननिर्द्देशः । अथवा साध्य
निर्द्देशः प्रतिज्ञैव नान्यथा । तत्र ।
पूर्व्वावधारणं व्यर्थमनिष्टमितरत्र तु । यदि पूर्व्वावधारणं व्यर्थता भवेत् । तन्निवर्त्त्यस्य
साधननिर्द्देशस्य हेतुलक्षणेन दृष्टान्तलक्षणेन च प्रतिज्ञात्वस्य विशेषविहितेन बाधनात् ।
प्रकल्प्यापवादविषयमुत्सर्गस्य (प्र)वृत्तेः । उत्तरावधारणे तु साध्यहेतूदाहरणनिर्द्देशस्यापि
प्रतिज्ञात्वमित्यनिष्टं ।
ननु साध्यस्यैव निर्द्देशः प्रतिज्ञा न सिद्धस्येत्यवधारणे को दोषः । नहि तस्य
साधनादिभिराक्षेपः ।
अत्रेदमुच्यते ।
साधनं हि सर्व्वमसिद्धसाधनायोपादीयते(।) सिद्धे किं साधनेनेति । साधनस्य लक्षणा
ख्यानसामर्थ्यादेवासिद्धार्थे साध्यभावगतैव । न प्रसङ्गः सिद्धस्येति न तन्निवृत्त्यर्थमवधारणं ।
स्यादेतत् (।) साध्यत्वेनैव निर्द्देशः प्रतिज्ञेति शब्दव्यापारापेक्षयाऽसिद्ध (स्य) साध
नत्वेन निर्द्दिष्टस्य निराकरणार्थं पूर्व्वावधारणम् । नहि तत्र न साधनसामर्थ्यं । अत्राह ।
हेत्वादिलक्षणैर्व्याप्तेरनाशङ्क्यं साधनत्वेन निर्द्दिष्टं । यथैव हि शब्दव्यारापेक्षयाऽसि
द्धस्य साधनत्वेन निर्द्दिष्टस्य प्रतिक्षेपः साध्यत्वेनैव निर्द्देश इति । तथा उदाहरणसाधर्म्यात्
साध्यसाधनं हेतु1470
रित्यादिना हेत्वादिलक्षणेन साध्यसाधनं हेतुरिति साध्यसाधनत्वभङ्ग्या
हेतुरेव । तथा दृष्टान्त एवेति शक्यम्व्याख्यातुमिति हेतु(आदि) लक्षणैर्व्याप्तिः ।
६. प्रतिज्ञालक्षणे दोषः
पूर्व्धावधारणे व्यर्थतायां परिशेष्यादुत्तरावधारणं तस्य च व्याप्तेः फलं । तथाहि ।
साध्यनिर्द्देशः प्रतिज्ञैवेति । अन्यलक्षणेनापि यदि व्याप्तिस्तथापि प्रतिज्ञैव नाप्रतिज्ञेत्ययोग
व्यवच्छेदफलं वाक्यमिति साधनत्वेनापि निर्द्दिष्टस्य साध्यस्य निर्द्देशः प्रतिज्ञैवेति वाक्यार्थः ।
अन्यथा व्यर्थता ।
ननु स्वयमेवोच्यते ।
तथा चासिद्धदृष्टान्तहेतुवादः प्रसज्यते इति हेत्वादिलक्षणव्याप्त्या परेण परिहारा
भिधाने प्रागसिद्धस्वरूपत्वादिपरिहारः । तथा सर्व्वस्य चाप्रसिद्धत्वादित्यादिकः । नैषोपि
दोषः (।)
परस्परविरोधप्रदर्शनमात्रमेवैतन्न त्वनेन हेतुना साध्यार्थप्रसिद्धिः । परपक्षनिरा
करणमात्रस्यैवेष्टत्वात् । तस्मादुत्तरावधारणमेवैतत् । तथा चायोगव्यवच्छेदाद् यावती
काचिदप्राप्तिः प्रतिज्ञात्वस्य सर्व्वासौ निराक्रियते । प्रतिज्ञैव नाप्रतिज्ञेति । साधनत्वेन
यदप्रतिज्ञात्वं तदपि निवर्त्त्यते ।
निराकृतन्तावत्प्रतिज्ञालक्षणं । प्रतिज्ञाभासलक्षणमिदानीं निराकर्त्तुमाह ।
यदाह परः । प्रतिज्ञाहेत्वोर्व्विरोधो नाम प्रतिज्ञादोषः1471 । यथा नित्यः शब्दः
564सर्व्वस्यानित्यत्वादिति । नित्यः शब्द इति प्रतिज्ञा सर्व्वस्यानित्यत्वादिति हेतुः । यदि
सर्व्वमनित्यं कथं शब्दो नित्यः । शब्देन विना सर्व्वत्वाभावात् । अथ शब्दस्या(प्य)नित्यत्वं
कथं नित्यः शब्द इति ।
अत्राह । नायं प्रतिज्ञादोषः । यतः ।
विरोधे सति प्रतिज्ञाहेत्वोर्व्विरोधो नाम प्रतिज्ञादोषः । स च विरोध इष्टासम्बन्धः ।
स चेष्टासम्बन्धोनुपकारकः । सहास्थितिश्च । यदि तावद्धेतुस्तमर्थं नोपकरोति दुष्टत्वात्
साध्यविरोधी तदा सर्व्वाङ्गदोषाणामेव प्रतिज्ञादोषत्वस्य प्रसङ्गः ।
नहि कश्चिदपि हेत्वाद्यङ्गदोषः साध्यानुपकारलक्षणेन विरोधेन विरोधी । ततः
सर्व्वस्य लिङ्गदोषस्य प्रतिज्ञाद्बोषत्वप्रसङ्गः । न च भवति । यतः ।
परमपेक्ष्यापि यदि पक्षदोषः तदा साधनदोष एव कश्चिन्न स्यात् । प्रतिज्ञार्थोपरोधेन
प्रतिज्ञादोषत्वेन्तर्भावादपृथग्वचनमेव साधनदोषाणां भवेत् । को हि अमूढचेतन एकत्रान्तर्भूतं
पृथग् ब्रूयात् । तस्मादसन्नेवंभूतः पक्षदोषः । अथ सहास्थितिस्वभावो विरोधः । तदा ।
इष्टे पक्षे यद्यसम्भवी हेतुस्तदासावसिद्ध इत्यसि (द्ध) तयैव निराकृतः स्यान्न प्रतिज्ञा
विरोधः । अथ तेन प्रतिज्ञातस्य1472 निराकरणं तथा सति येन प्रमाणेन स साध्यते तत्प्रमाण
निराकृतः प्रतिज्ञादोष इति न विरोधो नाम । किञ्च ।
यद्यनित्यत्वेन सहेतुत्वे एवं शब्दे प्रकीर्तयेत् ।
यावता ।
नैतदाख्यानं हेतोः । अपि तु वैधर्म्यदृष्टान्तस्य । नित्यः शब्दः । सर्व्वस्यानित्य
त्वात् । अत्राप्येवं वक्तव्यं । अनित्यस्य सर्व्वत्वात् । अशिक्षितत्वात्त्वेवमभिधानं । तथा
चोक्तं ।
स हि दृष्टान्त एवोक्तो वैधर्म्येणासुशिक्षितैः ।
नहि दृष्टान्ताख्यानादपरमर्थमत्र पश्यामः ।
एतदेव कुत इति चेत् । यतः । एवं हि हेतुरयम्भवेत् । यदि शब्द एवानित्यत्वं
प्रतिपादयेत् न चेदं युक्तं । यतः ।
७. सामान्यचिन्ता
सर्व्व एव हि प्रयोगाः शाब्दन्यायानुगत्या प्रतीयन्ते । शाब्दश्च न्यायः । विधिर्न्नि
षेधो नियमः (च) । विधिरपि बाधको बाध्यश्च । तथा नियमोपि । तत्र बाध्यबाधक
भावः सामान्यविशेषविधानयोः । तत्र कदाचित्प्रथमं बाध्यं कदाचिद् बाधकं । सर्व्वथा
विशेषो बाधको बाध्यं सामान्यविधानमिति व्यवस्था । एवमेव व्यवहारस्य दृष्टत्वात् ।
अत्र च नित्यः शब्द इति विशेषे शब्दे भिन्नस्य विशेषस्य विधानं नित्यत्वस्य । अनित्यत्वस्य
च सामान्ये धर्मिणि विधानमिति बाध्यबाधकभावो युक्तः । यथा तक्रं कौण्डिन्याय ब्राह्म
णेभ्यो दधि दीयतामिति दधिदानं सामान्येन वृत्तं तक्रदानेन विशेषविहितेन बाध्यते ।
प्रकल्प्यापवादविषयमुत्सर्गोभिनिवशत इति । तस्मात् सामान्यानुवर्त्तनेन1474 तस्य विशेष (स्य)
व्याप्तिः । न च सामान्यानुवर्त्तनस्य फलमेतद् वचनसामर्थ्यात् । वचनस्य सावकाशत्वात् ।
यदि त्वयमर्थोभिप्रेतस्तदा नित्यः शब्दोऽनित्यत्वादिति ब्रूयात् । भवेद् विशेषयोरन्य
त्राकृतार्थयोरेकविषयोपनिपातस्तथा च सति विरोधश्च मूढत्वादेवमपि स्यादिति चेत् । न
कश्चिदेवं सम्भवी । नहि तत्रैव नित्यत्वम्विधाय पुनरनित्यत्वविधायी तदैव मूढः सम्भवति ।
यस्य च वाक्यार्थव्युत्पत्तिरपि नास्ति न तस्य वादेधिकारः ।
अथ प्रतिज्ञाहेतुविरोधोदाहरणं यथाकथञ्चित् कल्पनीयं । यदि कश्चिदेवं ब्रूयात्
तदा प्रतिज्ञाहेत्वोर्व्विरोधात् प्रतिज्ञाविरोधो दोष1475
इति । तदेष्यत एव । प्रयोगस्तु
नित्यः शब्दोऽनित्त्यत्वादिति । एवं हि नियमाच्छब्द एवानित्त्यत्वं भवेत् । ततो नित्त्यत्व
निराकरणे विरोधः । अत एवाह ।
आचार्य आह(।) स्यादत्र प्रतिज्ञार्थस्य निराकरणं हेतुना । यदि शब्दः स्थितः स्यात् ।
शब्दस्थितेनैव निराकरणम्भवेत् । सहानवस्थानात् विरोधिनोरन्यत्र च प्रतिपादनमेतदिति
न निराकरणमेतदिति । तस्य1477 वैधर्म्यदृष्टान्तोपदर्शनमेवैतत् । हेतुरिदानीं नास्तीति चेदाह ।
यदनित्यन्तत्सर्व्वमसर्व्वश्च शब्द इति कथमेतद् गम्यत इति चेदाह ।
नित्त्यत्वविरुद्धमनित्त्यत्वं शब्दादन्यस्मिन्विषये प्रतिपादयन्नेवान्यतां शब्दस्याह । सर्व्व
मनित्यत्वेन व्याप्तं शब्दश्चानित्यत्वात्ततोन्य इत्यसर्व्वत्वं तदास्य हेतो1479रन्यत्त्वप्रतिपादनात् ।
सा चान्यताऽसिद्धो हेतुः शब्दस्यापि सर्व्वत्वादित्याह ।
सा च भेदाप्रतिक्षेपात् सामान्यानां न युज्यते ।
नहि भेदं प्रत्याख्याय सामान्यस्यात्मलाभो भेदानामेवावान्तरभेदप्रत्याख्यानविषये
नियतत्वात् ।
अथापि स्यात् (।) सर्व्वशब्देन समुदाय उच्यते । न च शब्द एकदेशः समुदायः ।
तदसत् । एवं हि प्रत्येकमपोद्धारे न कश्चित् सर्व्वः स्यात् । वृक्षो न शिंशपैवेति
दृश्यते भेदप्रतिक्षेपः । तदसत् ।
अथ विवक्षातः शब्द एवैको सर्व्वः । तथा सति शब्दपर्यायोऽसर्व्वशब्द इति प्रतिज्ञा
र्थेकदेशासिद्धता भवेत् । अनित्त्यः शब्दोध्वनित्वादित्यादिवत् ।
ननु शब्दस्य ध्वनित्वं कथमसिद्धं । नहि स्वरूपाभावे कश्चित् सम्भवति । न
स्वरूपेण धर्मित्वेनासिद्धो हेतुत्वेनासिद्धत्वाद1481 सिद्ध उच्यते । हेतुत्वं हि भेदे सति भवति नान्यथा ।
कुतः । ज्ञाप्यज्ञापकयोर्भेदस्यावश्यम्भावित्वात् । नहि शब्दः शब्देन ज्ञाप्यतेऽसिद्धत्वाज्ज्ञाप्यस्य ।
न चासिद्धमसिद्धेन साध्यते । अथ सिद्धः शब्दस्तथापि न साध्यते । न हि सिद्धं सिद्धेन
साध्यते ।
ननु साध्यसाधनयोरेकत्वं नेष्यते । धर्मिसाधनयो (:पुन) रभेदे को विरोधः । अस्ति
विरोधः । शब्दत्वादनित्त्य इत्युक्ते न समुदायः साध्यः स्यात् ।
ननु सामर्थ्याच्छब्द एवानित्य इति न समुदायत्वव्याघातः । नहि शब्दत्वादनित्त्य इति
वचनेऽन्यत्रानित्त्यता प्रतीयते । केवला वा । न हि धूमत्वादग्निमान् धूमो न भवति (।)
भवति तत्र सामान्यविशेषभावेन भेदभावात्1482 । इहापि यद्येवं क्रियते नित्यः शब्दत्वादयं
गोशब्दवदिति तदा भवत्येव हेतुः । इह पुनः सर्व्वः शब्दोऽनित्यः शब्दत्वादिति न सामान्य
विशेषभावः ।
ननु किं शब्दत्वस्य धर्मित्वे साधनत्वं विरुध्यते । यदि प्रतिबन्धः। कथं न साधनत्वं ।
अथापि नास्ति तथासत्यनैकान्तिकत्वमेव । अतश्च नासिद्धता नाम दोषः । असाधारणत्वे
नानैकान्तिकत्वात् । तस्माद् धर्मिणो हेतुभाविनो नैकान्तिकतैव दोषः । नासिद्धता ।
अथ पुनर्न्निर्द्दिश्यमानतायोगो न सिद्ध इत्यासिद्ध उच्यते । नहि किञ्चिद् भिन्नमस्ति
यत्पुनः प्रतिपाद्यं । तत्र शब्दो नित्त्यः शब्दत्वादनित्त्य इति वा वक्तव्यं ।
ननूभयं । नैतदस्ति ।
यदि शब्दत्वादनित्त्य इत्युच्येत धर्म्मन्तरापेक्षा स्यात् । अनित्त्यः शब्द इति च हेत्वन्त
रापेक्षा(।) तन्निराकरणायोभयत्रोपादानमिति न दोषः ।
अत्रोच्यते ।
तस्मात् पुनर्न्निर्द्देशे यद् विवक्षितं तदत्र नास्तीति असिद्धतैव दोषः ।
अनन्वयदोष एव कस्मादत्र नोच्यते । भवतु समुच्चयेनासावपि दोषोऽनियतकथायां ।
नियतकथायान्तु पराजितपराजयाभा (वा) त् पर्यनुयोज्यापेक्षणाच्च न युक्त (:। तस्मादयुक्त)
एव धर्मी स्वधर्मसाधने । न (।) शक्तश्चेदविवादप्रसङगः तथा च हेतुवैयर्थ्यं स्यात् । तेन ।
ज्ञाप्यज्ञापकयोर्हि भेदो दृष्टस्तदभावे हेतुत्वमसिद्धं । न हि प्रकाशतया प्रदीपः प्रका
शयन् तद्रूपाप्रतिपत्तौ स्वार्थक्रियानिर्वर्त्तनसमर्थः । भेदे च ज्ञापको ज्ञाप्यज्ञापनं विधत्ते । न
चात्र भेदो धर्मिरूपात् । ततो ज्ञापकत्वासिद्धेरसिद्धः । अन्वयासिद्धेरपि ज्ञापकत्वासिद्धिरिति
चेत् । न । भेदे सत्यन्वयचिन्ता स्यादत्र तु भेद एव नास्तीति तावता दोषवत्त्वे कोन्वय
चिन्तायां व्यापारः । तस्माद् धर्मी स्वसाधनेऽसिद्धः ।
ननु दीपादयः स्वसाधने सिद्धा एव । सत्त्यं । सिद्धा न तु परोक्षमपरोक्षाः साधय
न्तीति विषमउपन्यासः । नहि (प्र) दीपदर्शने स्वरूपे विवादः । अत्र तु शब्ददर्शनेप्य
नित्त्यतायां विवाद एव । यदित्वविवादः । प्रत्यक्षसिद्धतैव शब्दत्ववदेव भवेत् ।
ननु कृतकत्वशब्दत्वयोरपि प्रदीपवदेव प्रत्यक्षसिद्धत्वं । अथ धर्मभेदकल्पनेन भेदात्
साध्यसाधनाभावः1483 । प्रदीपेपि समानमेतत् । तत्रापि प्रदीपस्य स्वरूपमिति कल्पनाभे
दोस्त्येव । न (।) सम्वृत्या भेदात् । प्रदीपस्य स्वरूपमित्यत्रापि यथा भेदकल्पना तथा न
साधनं । स व्यपारनिर्व्यापा (रा) वस्थायां प्रदीपव्यपदेशः । स्वरूपमिति तु स्वरूपमात्रमेव ।
तत्रार्थक्रियाकारित्वात् स्वरूपं । स्वरूपादर्थक्रियेति । प्रदीपस्तु धर्मी । निर्व्यापारस्य तु
स्वरूपमेव नास्ति । विवक्षितार्थ (क्रिया) या भावादव्यापारतेति न युक्तं । अतिप्रसङ्गात् ।
न चैवम्वचने (न) कश्चिदर्शस्सिध्यति । भेदकल्पना चेत् । न सामान्यविशेष(।) भावेनापि
तत्सिद्धेः । तस्मान्न धर्मी स्वरूपस्य साधनं । भेदाभावात् । कृतकत्वानित्त्यत्वशब्दानां तु
व्यावृत्तिकृतोस्येव भेदः । तथा हि ।
एकस्यार्थस्वभावस्य प्रत्यक्षस्य सतः स्वयं ।
एको ह्यर्थात्मा स प्रत्यक्षेण साक्षात्कृतस्ततः किमपरमस्य परीक्ष्यं ।
568ननु धर्मिमात्रं प्रत्यक्षसिद्धं नानित्त्यत्वादि को धर्म इति चेत् । न (।) अनित्त्यत्वेन
सहैकत्वात् । न ह्यनित्त्यत्वं नाम तस्मादपरं ।
कालान्तरव्यापि यदि नित्त्यत्वेन परिग्रहः ।
निराक्रिया स्यात् । प्रत्यक्षमूलं सर्व्वं प्रमाणान्तरं । कर्कटकसधर्माणो हि जनक
भक्षा राजपुत्रा एव । न प्रमाणभूताः प्रत्ययाः । प्रत्यक्षञ्च प्रमाणं प्रधानं सर्व्वप्रमाणानां ।
तत्किं महाकाल एव डाकिनीभिर्भक्ष्यते ।
अथ प्रत्यक्षेण न नित्त्यत्वं नानित्त्यत्वं प्रतीयते । स्वरूपमात्रकन्तेन मीयते सर्व्व
वस्तुनः । नित्त्यत्वमनित्त्यत्वं वा पाश्चात्यप्रमाणावलम्बनं ।
नन्वनित्त्यत्वं स्वभावभूतं कथमगृहीतं नाम । नित्त्यत्वं हि विततकालकला (व्या) पित्वं
विपर्ययेणानित्त्यत्वं ।
यदैव भावानां कालान्तरव्यापिता न प्रतीयते । तदैवानित्त्यताप्रतीतिः परिस्फुटा ।
सा व्यापितैव1484 न प्रतीयते । नत्वनित्त्यत्वमिति चेत् । किमिदमनित्त्यत्वं नाम । तस्यैवो
पाधिभूतं नामान्तरं1485 । तदैव तदस्त्यथ वा पश्चात् । तदैव तदस्तीति चेत् । कस्मादध्य
क्षेण न प्रतीयते । अप्रतीयमानं कथन्तदात्मभूतन्तत् । तादात्म्येन प्रतीयमानं हि तदात्मभूतं
सम्बन्धितया हि प्रतीयमानं तदवश्यमेव भवेत् । अप्रतीयमानं तु तत्समानमयुक्तं1486
तथापि
पश्चात्तत्सम्बन्धितया प्रतीयत इति चेत् ।
यत्रोपलब्धिलक्षणप्राप्तेनोपलम्भस्तदेवासदिति व्यवस्थाप्यते । नापरः प्रकारोऽ
भावसाधने । तथा चोक्तं ।
सिद्धं प्रमाणैर्व्वदतामर्थादेव विपर्ययादिति । अथ भ्रान्तिरसौ तेनानुपलम्भेप्यदोषः ।
तदा प्रमेयसिद्घिः स्यादिति विज्ञप्तिमात्रकं । यदा प्रत्यक्षतो भाविभूतरूपापरिग्रहस्ः (।।) २९८ ।।
तदाध्यक्षेतरार्थस्य प्रसिद्धिः सनिबन्धना
यदि तु भाविभूतरूपयोरेकतेष्यते । तदा प्रत्यक्षप्रमाणसिद्धेरनुमानवैयर्थ्य1488 । भ्रान्तिसद्भावे
सर्व्वापहारिलोप एवेति न किञ्चद्भवेत् । तस्मादनित्त्यत्व (न्नित्त्यत्वं) वा प्रत्यक्षसिद्धमेव ।
अथ न प्रत्यक्षसिद्धता धर्मत्वात् । धर्मिमात्रमेव हि प्रत्यक्षसिद्धमन्यथानुमानाभावात् ।
सर्व्वधर्मप्रसिद्धेः प्रत्यक्ष (त) एव ।
तदसत् यतः ।
न खलु धर्मविनाकृतः क्वचिद्धर्मी प्रसिद्धिभाक् । शब्दत्वेन पदार्थत्वेन चावश्यं परि
ग्रहात् । ततो यथा शब्दत्वादि ग्रहणन्तथा नित्त्यत्वादेरपि न तत्र कश्चिद्विशेषः ।
ननु कस्यचिद् व्यभिचारिणो धर्मस्य यदि न प्रत्यक्षेण क इवात्र दोषः । तद्यथा
स्थाणुपुरुषत्वयोः ।
नहि व्यापीतरत्त्वं परित्यज्य ग्रहीतुं शक्यं । तदेव तस्य रूपं तच्चेन्न गृहीतमगृहीतमेव
तत् ।
ननु दीर्घं दीर्घत्वेना परिगृह्यमाणमपि दृश्यत एव । न तत्रावययस्यैव दृष्टेः(।)तस्य
च न सा दीर्घता । अवयविनो हि सा दीर्घता । स चानुमानगम्य1489 स्तथाहि ।
एकस्मिन्नाकृष्यमाणे ऽवयवे सर्व्वावयवसमाहार एवाकृष्यमाण उपलभ्यते तदन्येन सहैक
मिति । न च तदनुमानं । परस्परसम्बन्ध एव तथानुमीयते नैकत्वं । न चासावनुमान
विषयः । प्रत्यक्षाप्रवर्त्तने1490
हि (न) परप्रमाणविषयो भवेत् । न खलु तदेव दृष्टमदृष्टञ्च
घटते । तस्मात् कालव्याप्यव्यापि वा तत् प्रत्यक्षेणैव गृह्यते । नासावनुमानविषयः । तत्र
यद्यस्य तेन रूपेण न प्रत्यक्षविषयता न तस्य तद रूपं । न खलु नीलत्वेन विषयीकृतमध्यक्षतः
पीतादिकं । कालान्तराव्यापितया गृहीतं तथैव तदिति मन्तव्यं । अन्यथा सकलकालकला
कलापसंकलने तदैव सकलं परिसमाप्तमिति तदैव सकलकालकर्त्तव्यार्थक्रियाप्रसङ्गः ।
कालकलानां भाविभूतानामग्रहणेन तथेति चेत् । तद्ग्रहणे तद्व्यापितापि न गृह्यत एवेति
तत्कालमात्रसम्बन्धितैव1491 गृह्यत इति प्राप्तं । तथा च विद्युदादिवदनित्त्य एव1492 ।
ननु विदुदादीनां विनाशे सत्यनित्त्यता न तत्कालसम्बन्धिता मात्रेण । ननु विनाश
कस्य कस्यचिदभावात् कथम्विनाशः । मेघावष्टम्भादेव विनाश इति चेत् । इहापि समाना
समानजातीयावष्टम्भ इति किन्नेष्यते । तस्माद् विद्युदोप्युत्तरकालानुपलम्भ एव विनाशः ।
स च सर्व्वपदार्थानामिति न नित्त्यता ग्रहीतुं शक्या ।
(१) स्मृतिर्न प्रमाणम्
ननूत्तरकालमपि घटादीनां ग्रहणे कथमग्रहणमुच्यते । न(।) तस्यैवाग्रहणात् । न
खलु पूर्व्वकालोपि गृह्यते । किं पुनस्तत्कालभावाभावः (।) न खलु कश्चिन्मुहूर्त्त
दिवसमासादिकः कालः प्रत्यक्षप्रमाणप्रसिद्धौ रूपादिपदार्थव्यतिरेकी । न प्रथमदिवसे
मासप्रतीतिर्न्न प्रथमयामे दिवसादिप्रतीतिः । न द्वितीये तदा पूर्व्वस्योत्तरस्य चाप्रतीतेः
स्मरणेन प्रत्येष्यते (एव) कालो दिवसादिरिति चेत् । न (।) स्मरणस्याप्रमाणत्वात् ।
न हि स्मरणमपूर्व्वार्थविधायि ।
अत्रोच्यते ।
पूर्व्वव्यक्तिग्रहणसंस्काराद् व्यक्त्यातरे तथा ग्रहणमिति चेत् । नैतदस्ति यतः ।
व्यक्तिग्रहणकृतो हि संस्कारस्तत्रैव स्मरणविज्ञानहेतुर्न्नापूर्व्वार्थदर्शनस्य । न च
पूर्व्वार्थदर्शनस्य नाप्यदृष्टस्मरणस्य । अर्थान्तरञ्च सामान्यं व्यक्तिभ्यस्तत्कथमदृष्टस्य तस्य
स्मरणमपि । न च पूर्व्वापरार्थस्मरणदर्शनात् स्पष्टेतराकारव्यक्तिरूपमन्तरेणापरं विभावयामः ।
दर्शने हि द्वयोः परिस्फुटाकारव्यतिरेकेण नापराकारप्रतीतिः । व्यक्तिद्वयमेव हि तत्र
प्रतिभासते । समानाकारप्रत्ययसम्भवात् प्रतिभासत इति चेत् । तदसत्त्यं ।
यदि प्रतिभासः प्राग्भावी विस्मृतस्तदा तत्स्मरणायानुमानमुच्येत अन्यो वा यत्नः
क्रियेत न (तु) प्रतिभासनकाल एव । न हि कुड्यादिप्रतिभासोनुमानेन साध्यः कुड्यादयो
वा । न हि यतः कुड्याकारः प्रतिभासस्ततः कुड्यमस्ति प्रतिभासते वेति लोकप्रतीतिः
(।) अपि तु पररूपविविक्तेन1497 स्वेन रूपेण । यतः पश्यामीति ततोस्ति प्रतिभासते वा ।
न च व्यक्तिरूपविवेकिना रूपेण सामान्यवभासनं । न खलु सामान्यस्य वर्ण्णसंस्थानान्तर
(त्व) मुपलक्षयामः । वर्ण्णसंस्थानबाह्यमेव सामान्यस्य रूपमिति चेत् । न तर्हि सामान्य
मस्ति वर्ण्णसंस्थानबाह्यस्य बाह्यस्याभावात् । व्यापितैव तस्य रूपमिति चेत् । यत्तर्हि
वर्ण्णसंस्थाने नासमानमसमानमेव तत् । नहि व्यापिता वर्ण्णसंस्थानवती । वर्ण्णसंस्थानस्यैव
व्यापितेति चेत् । यदि व्यापिता व्यापितयैव प्रतीयेत । कालान्तरे प्रतीयत एवेति चेत् ।
न । व्यक्तिसत्त्वासत्त्वयोर्व्विशेषाभावात् । विनष्टेपि पूर्व्वविशेषे तथैव प्रतीतेः । न चावि-
नाशः पूर्व्वस्य । तत्रोपलब्धेः कथम्विनाश इति चेत् । यदि नष्टं कथं पूर्व्वत्र नोपलभ्यते
परेण (ते) न वा (।) व्यापिताया अभावादिति चेत् । उपलभ्यत एव तद् रूपं देशव्याप्तिमात्रक
मेवाप्रतीतं तिरोधानात् । किमिदं तिरोधानम् (।) अदृश्यात्मता । कथन्दृश्यस्यादृश्यात्मता ।
देशान्तरे दृश्यात्मतैवातीतौ न पदार्थ इति चेत् । दृश्यात्मताव्यतिरेकेण न पदार्थ इति
निर्ण्णीतमेतत् । किञ्च देशान्तरे दृश्यमानताविनाशे व्यापितैव विनष्टा भवेत् । तथा च ।
न नित्त्यं सामान्यं । तथा च व्यक्तिरूपमेव न सामान्यमित्यायातं । व्यक्तिव्यतिरिक्तस्य
समानाकारस्य प्रत्ययमात्रत्वेनावस्तुत्वात् । प्रत्ययस्तर्हि समाना एत इति कथम् । वर्ण्णसं
स्थानक्रियाकृतेन समानत्वेन समानत्वादेवमित्यदोषः । राष्ट्रकूटादिसमानतावत् ।
अपि च । य एवमाह । समानकारप्रत्ययनिबन्धनं सामान्यमिति । एकार्थ
क्रियाकृतः समान1498 प्रत्ययो भविष्यति, तदेककारणकृतो वा । न समानरूपकृतो ब्राह्मणादि
समानतावत् ।
(२) ब्राह्मणादिजातिसामान्यं विनाऽपि पुण्यपापव्यवस्था
ननु ब्राह्मणादिजातीमन्तरेण कथं पुण्यपापव्यवस्था । जातिसद्भावेपि कथं । नहि
जातिर्हन्यते । नापि पिवति मद्यं । न च पुण्यपापव्यवस्था आगमादन्यतः प्रमाणदस्ति ।
स एवागमः कथं प्रतिपादयेदिति । न हि ब्राह्मणो न हन्तव्य इति जातिमन्तरेण शक्यं प्रति
पादयितुं प्रतिव्यक्तिप्रतिपादनासम्भवात् । उपदेशात् समानकारपरामर्षा (? र्शा) द्वेति न
दोषः। समानपरामर्षश्चानादिवासनोपदेशादेव । न तद्व्यतिरेकेणापरमत्र प्रमाणप्रसिद्धं ।
अपि च ।
यदि व्यक्तिव्यतिरिक्ताकारसङ्गतः समानप्रत्ययः । स तथा न सिद्ध इति कथं
ततः प्रसिद्धिः सामान्यस्य । अथ प्रत्ययमात्रं तदा न सिध्यति सामान्यं । नहि प्रत्ययमात्रा
दर्थविशेषसिद्धिः । यदाकारः प्रत्ययः स एव ततः सिध्यति अन्यथातिप्रसङ्ग । भिन्नाभिन्नं
सामान्यमिति चेत् । न । परस्परविरोधात् । तथा हि ।
(तथाहि ।)
(३) संवृतिसत् सामान्यम्
सम्वृति सत् सामान्यं व्यक्तितो भिन्नमेवान्वयव्यतिरेकाभ्यां विभावनात् । तच्च
वर्ण्णादिरूपमेव । तथाहि ।
तथाहि । यदि सामान्यं प्रतीयते तदा भेदानुल्लेखे भेदेन स्यादेव वृत्तिः । नानि
रूपिते कश्चित् प्रवर्त्तते । अथ व्यक्तिदर्शनपुरःसरसामान्यग्रहणे तत्सम्बन्धग्रहणमिति ।
यत्र सामान्यं तत्र व्यक्त्या भवितव्यमिति भेदे वृत्तिः । तदेव भेदं प्रतियतः1499 कथं भवति ।
ततः सामान्यादनुमानप्रतीतिर्व्यक्तिप्रतिपत्तिरिति प्राप्तं । तथा चानुमितानुमानतो व्यक्ति
प्रतीतिरिति पुनस्तत्रापि सामान्यप्रतीतिः । ततोपि सामान्यादपर (ा) व्यक्तिसामान्यप्रतीति
रित्यनवस्था । अथाप्यन्ते व्यक्तिं प्रत्येति तथा सति विशेषाभावादादावेव प्रत्येतु किं परम्प
रापरिश्रमेण । व्यक्तिप्रतिपत्तौ च सर्व्वार्थक्रियाप्रसिद्धिरिति न प्रवरत्तेतैव । तस्माद्
बुद्धिविरचितमेव सामान्यं न बाह्यमिति युक्तं ।
ननु बुद्धिरूपप्रतिपत्तावपि कथं बाह्यो वृत्तिः । एवमेव कार्यकारणभावदृष्टेः ।
अस्माकमपि तर्हि सामान्यप्रतीतेर्व्यक्तौ वृत्तिर्भविष्यति कार्यकारणभावस्यात्रापि तुल्यत्वात् ।
तदेतत प्राप्य हरीतकीं देवता विरेचयतीति प्राप्तं । यदि कार्यकारणभाव एव
किमन्तर्गर्डुना सामान्येन ।
तस्मात् ।
सामान्यमभ्युपगच्छता व्यक्तिप्रतीतिरभ्युपगन्तव्याऽन्यथा प्रवृत्त्यभावात् । व्यक्ति
प्रतीतौ तत एव लिङ्गाद् धूमादिकादस्तु किं सामान्येन । सामान्यतोपि लिङ्गभूतादेव तस्य
प्रतीतिः ।
अथ व्यक्त्यन्तरेण सह न सम्बन्धो लिङ्गव्यक्तेः । सामान्यस्य तु व्यापित्वादस्तीति
सामान्याभ्युपगमः ।
तदेतदसत् ।
यद्यपि व्यापिसामान्यं तथापि तस्यानुमानकालभाविनो व्याप्यस्याग्रहणे कथन्तस्य
व्यापकमिति गृह्येत । अगृहीतसम्बन्धा(च्च) प्रतीतावतिप्रसङ्गः । सामान्यान्तरव्यक्तेरपि
प्रतीतिप्रसङ्गात् । अथ तया न सम्बन्ध(? द्ध) मिति प्रत्युच्येत । अग्रहीतसम्बन्धस्यापि तर्हि
प्रतीतिः स्यात् । अपि च । कथमिदं ज्ञातव्यमिति प्राक् प्रतिपादितं । अपि च । यदि
सामान्याद् व्यक्तिप्रतीतिः शब्दादपि सामान्यं प्रतीयते । ततः किं व्यक्त्यवाप्तिर्न्न भवेत् ।
असत्त्यासौ प्रतीतिरिति चेत् । सर्व्वा तर्हि सामान्यप्रतीतिरसत्त्येति किं सामान्येन ।
ननु सर्व्वत्र सामान्यमस्त्येव व्यक्त्यप्रतीतेस्तु न सम्वादः । व्यक्तीनामेवार्थक्रियासाम
र्थ्यात् । सामान्येन तु विना न शक्या प्रत्येतुमिति सामान्याभ्युपगमः (।) व्यक्त्यप्रतीतिस्तु
तत्सम्बन्ध(? द्ध) लिङ्गाभावात् ।
ननु लिङ्गतोपि सामान्यमेव प्रत्येयं । तत्र चेद् व्यक्तिप्रतीतिः किन्न सर्व्वत्र ।
सामान्यमात्रमेव शब्देन प्रत्याय्यते । लिङ्गात्तर्हि व्यक्तिरपि प्रतीयत इति प्राप्तं । तथा च
प्राक्तनो दोषः ।
अथापि स्याद् व्यतिरिक्तं सामान्यं दोषवत् । उभयरूपत्वे ह्यदोषः । तदप्यसत् ।
व्यक्तैः प्रतीतिदोषः किं पक्षेत्रापि न सम्भवी ।
सामान्यं हि यदि व्यक्तिव्यतिरिक्ताव्यतिरिक्तमिष्यत तदापि व्यक्तेः प्रतीतिरन्यथा वेति
द्वयीं गतिं नातिवर्त्तन्ते प्रतिपत्तारः । प्रतीतिश्चेत् । सकलानुभवसम्भवात् किमिति प्रवर्त्तते ।
न चेत्प्रतीतिः कथं प्रवर्त्तनं । प्रतीतमप्यप्रतीतिमिति प्रवर्त्तनमिति चेत् । तदेव तेनैव
रूपेण प्रतिपन्नाप्रतिपन्नमिति व्याहतं(।) विधिनिषेधयोरेकनिष्पर्याये द्वयोरात्मलाभाभावात् ।
अत एव पर्यायाणां भेद इति चेत् । केनचित् पर्यायेण भिन्नं प्रतीतमपरेण नेति समयः ।
येन न प्रतीतं तदर्थं कथं प्रवर्त्तनं । तस्यैव पर्याय इति चेत् । अप्रतीतत्वे कथं तस्यैवेति प्रतीतिः ।
प्रतीते (पि) न प्रवर्त्तत इति स एव दोषः(।) ततः सम्वृतिसदेव धर्मिधर्मलक्षणं । एवन्तर्हि ।
अनित्त्यः शब्दः शब्दत्वादित्यत्रापि स्यात् । यस्य व्यतिरिक्तं सामान्यं तस्य कस्मान्न भवत्य
प्रतिज्ञार्थैकदेशत्वं । तत्सामान्ययोगस्य धर्मिशब्देनैव प्रतिपादनात् । इहापि (तर्हि) व्यावृत्तेः
प्रतिपादनान्न भविष्यति ।
यदि सामान्ययोगः शब्दतो विशेषाणां प्रतीयत इत्यभ्युपगमः । स तर्हि कथं व्यक्त्य
प्रतीतौ प्रतीयते । यस्यैव भोजनं तस्यैव भग्नभाणडबागिता । स्वरूपन्तु विशेषाणां
न प्रतिपादनार्हमिति प्रागेव निर्ण्णीत । तस्माद् व्यावृत्तिरेव शब्दार्थ इति स्थितिः ।
ननु व्यावृत्तिरपि व्यावृत्तवस्तुप्रतीतिमन्तरेण कथं प्रतीयते । यदि प्रतीयते किं
व्यावृत्त्या(।) अन्यथानुपपत्त्या तर्हि व्यावृत्तिकल्पनेति किन्न सामान्याभ्युपगमः । प्रतीत्यनुसा
रेणाभ्युपगम इति न (?) सामान्यस्य ।
ननु किमहं व्यावृत्तिं प्रतिपद्ये इति लोकस्य प्रतीतिः । विलक्षणत्वप्रतीतेः । प्रतीति
रेवेति न दोषः । तथा हि (।)
अवश्यं हि विजातीयविलक्षणेन रूपेण प्रतिपत्त्या भाव्यमन्यथानभिप्रेतपरिहारेण न
प्रवर्त्तेत । सामान्यलक्षणादेव तस्यानभिप्रेतविलक्षणतेति चेत् । स्वयमतथाभूते कथं
धर्मान्तरयोगेपि तथाभावः । तद्योगादस्य तथा प्रतीतिरिति चेत् (।) अतद्भूतस्यान्ययोगे
स्वरूपेणाप्रतीयमानस्य प्रतीतिरेव न युक्ता । स्वरूपेण चेद् विलक्षणत्वगतिः ।
व्यर्थकस्तर्हि सामान्ययोगः । स एव भेदो न लक्ष्येत यदि सामान्यन्न भवेत् । सामान्यानां
तर्हि कुतो भेदोपलक्षणं । सामान्यान्तरयोगेऽवस्था । स्वरूपत एवोपलक्षणे व्यक्ती
नामपि स एव प्रसङ्ग इति व्यर्थकं सामान्यं । द्वयोश्च यदा भेदप्रतीतिस्तदा कतं न ह्यकत्र
सामान्यम्वर्त्तते । तस्मादवश्यमनेन व्यक्तीनां भेदः प्रत्येतव्यः । स च विजातीयाद् भेदः
सर्वेषामेवेति तदेव सामान्यं ।
ननु जातिमन्तरेण स एव सजातीयविजातीयभेदः कथं । तथा हि ।
व्यक्त्यपेक्षया भेदे यथा शावलेयवाहुलेययोः कर्काद् भेदस्तथा कर्कशावलेययोरपि
वाहुलेयादिति तयोरपि समानजातिताप्रसङ्गः । न सर्व्वदर्शनं येन सप्व्वदर्शी करणेन संकेत
(व्यक्ती) करणे विभागो भवेत् ।
तदेतदपि न युक्तं नायुक्तं यतः
सामान्यस्यापि सद्भावे न दोषोयन्निवारितः ।
व्यक्तिव्यङ्ग्यं हि सामान्यमिष्यते न स्वरूपतः (।) ३४० ।।
ततस्तत्रापि1501 संकेतक्रियाव्याप्तिर्न्न सिध्यति ।
सामान्यमप्युपलक्ष्यैव संकेतो विधातव्यो व्यवहर्त्तव्यम्वा । न च सामान्यमुपलक्ष्यते
व्यक्तिमन्तरेण । सकलव्यक्तिदर्शने हि नियतसामान्यदर्शनादनाकुलः संकेतो भवेत् । तदापि
व्यक्तीनामेव दर्शनाद् व्यर्थकमेव सामान्यं(।) तथा ह्येकव्यक्तिदर्शनेन संकेतोयं गौरिति कथं
प्रतिनियतसामान्यप्रतीतिः । नहि पशुत्वादिसामान्येषु कस्यचित् सामान्यविवेकेनोपलक्षणं ।
गोत्वमत्र संकेतबिषय इति चेत् । किन्तद्गोत्वमिति न विवेकः कथं क्रियतां । यदेवं
भूतव्यक्त्यभिव्यङ्ग्यमिति तेन व्यक्तीनामेवं भूतत्वमितीतरेतराश्रयदोषः । तत्सामान्योपलक्षणे
व्यक्तीनामेकत्वं । व्यक्त्येकत्वे च प्रतीनियतसामान्योपलक्षणम् । गौर्गौरिति स्वयमेव
विवेक इति चेत् । न(।) गौरिति सामान्यस्य कर्कादिष्ववृत्त्यैवोपलक्षणात् । यत्र गौरिति
बुद्धिस्तदेव गोत्वमिति प्रतीतिरिति चेत् । नन्वविभावितप्रमेयरूपा बुद्धिः कथं प्रमेयमुपलक्ष
येत् । नहि वर्ण्णसंस्थानव्यतिरिक्तमस्यां प्रमेयमुपलक्षयामः । तदेव सामान्यमनुगतत्वादिति
चेत् । न(।) अनुगमस्यासम्भवात् । नहि वर्ण्णस्यान्यव्यक्त्यनुगतं रूपं । एकव्यक्तिदर्शनेपि
तदनुगमप्रतीतिप्रसङ्गः1502 । तथा च सर्व्वव्यक्तिप्रतिपत्तिः स्यात् । व्यक्तिव्यङ्ग्यत्वान्न
सामान्यं तथा प्रतीयत इति चेत् । सर्व्वथा तर्हि न प्रतीतिः । यावद् व्यक्तिदर्शनं प्रतीयत इति
चेत् । न । सामान्यस्य तावन्मात्रत्वाभावात् । तथा चेत्1503 सामान्यं व्यक्तय एवेति न सामान्य
मपरं(।) तथाभूताज्ञान1504
जननमेव सामान्यमिति प्रतिवचने । तदन्यव्यावृत्तिरेव सामान्यमिति
स्यात् । बहूनान्तदन्यव्यावृत्तिरेव सामान्यं (।) नहि तद्विजातीयव्यावृत्तिमात्रादपरं सामान्यमुप
दर्शयितुं शक्यं विजातीयतापि तदितरव्यावृत्तिरेव । यथैव तस्मादेको भिन्नस्तथा परापरोपीति
निदर्शनन्नान्यथा । सामान्यन्तुं न शक्यं निदर्शयितुमिदन्तदिति । अभिन्नत्वान्नैव निदर्शनमिति
न प्रत्युत्तरं तदभावप्रसङ्गात् । नहि व्यक्तीर्न्निरस्य सामान्यं व्यवस्थापयितुं शक्यं व्यवहारा
भावप्रसङ्गात् । सामान्यनिरासेप्येवमेवेति (।) न युक्तं (।) व्यवहारस्य(ान्य)व्यावृत्ति
निबन्धनस्यापि सम्भवात् । अकर्माद्रव्यवत् । सामान्यानामपि व्यावृत्तिरेव परस्परं
व्यवहारहेतुः ।
अथ व्यक्तियोगो भेदव्यवहारहेतुः परस्परं सामान्यानां तथापि दोष एव । यतः ।
स्वरूपेण न भिन्नञ्चेदन्यस्माद् भिद्यतां कथं ।
न खल्वन्यस्य भेदोऽन्यत्र समवैति । समवैत्येव व्यक्तिसामान्ययोः समवायसम्बन्धा
दिति चेत् । सामान्यस्याभेदो व्यक्तौ समवेत इति व्यक्तीनामेवाभिन्नता । ततः सर्व्वसामा
न्ययोगाद् गौरपि स्यादश्वादिकः । अपि च । गोःसामान्यं गोत्वं व्यक्तीनाञ्च स्वरूपं
सजातीयविजातीयानां न भिद्यते परस्परं । ततः कथं व्यक्तयः सामान्यस्य भेदिकाः ।
अथ स्वरूपादेव भिन्ना व्यक्तयो विजातीयाभ्यः । स एव तर्हि भेदः सामान्यमस्तु
किमपरेण । सामान्यस्याभ्युपगमेपि स एव व्यक्तिभेदः सामान्यस्य भेदकः सामान्यान्तरेभ्यः (।)
स तर्हि सिद्धोपस्थायी सामान्यविशेषः । अथ स्वरूपेणैव सामान्यम्भिन्नं सामान्यान्तरात् ।
तद्योगाद् भेदः सामान्यवतां । यथा शुक्लं रूपं स्वयमेव पटस्तु1506 तद्योगादिति (।) तदपि
न सङ्गतं । यतः ।
द्रव्यस्थमेव सर्व्वदा सितादिकं ततः पृथगपरिदृश्यमानं स्वयमेव तद्रूपमिति कथं प्रतीयते
केन चित् । द्रव्यादेव सा तस्य शुद्धतेति1507 न किं मतं (।)
(४) द्रव्यनिरासः
ननु तस्य यदि द्रव्याच्चुक्लता स्वरूपं तर्हि किन्तस्य द्रव्यस्यापि तर्हि किं रूपमिति स
एव दोषः । द्रव्यमित्येव प्रतीयमानमिति चेत् द्रव्यमित्यपि वर्ण्णसंस्थानसंस्पर्शिनी न (?)
प्रतीतिः । वर्ण्णसंस्थानञ्च गुण एवेति । तदपरं द्रव्यं कथं भूतं प्रतीतिविषयः । न च
संस्थानमपि वर्ण्णाद्यतिरिक्ततां स्वीकरोति । वर्ण्ण एव तथा वर्त्तुल (त्व)ादिरूपेण प्रतिभासते ।
ननु द्रव्यमपि प्रतिभासत एव । तथा हि । स्पर्शनज्ञानेनापि स एवायं घट इति
एकतयावभासनं । न च गुणमात्रे प्रत्यभिज्ञानं अन्यथा रूपं स्पर्श इति स्यात् । न च
स्पर्शनग्राह्यं रूपं युक्तं तस्माद् द्रव्य एव प्रत्यभिज्ञानं युक्तिमत् । तस्माद् यद्यतो भिन्नविषय
ज्ञानग्राह्यं ततः तद्भिन्नं तद्यथा घटात्पटः । भिन्नविषयज्ञानग्राह्यञ्च द्रव्यमिति स्वभावहेतुः ।
अत्रोच्यते ।
न तावद्दर्शने घटादिकस्य प्रतिभासः । नापि स्पर्शविज्ञाने प्रथमं । प्रथमं ह्यवयव
मात्रकमेव प्रतिभाति तच्च परावयवाभावेपि तथैवावभासते । न चासौ घटः । निखिलदि
ग्विभागावयवव्यापिनो घटावयवित्वात् । नापि रूपमात्रं घटः । रूपसमवायिकारणस्य तथा
व्यपदेशात् । प्रत्यभिज्ञानस्य च तदाऽभावात् ।
अथापरापरावयवगुणान्तरादि प्रतिभासनेऽवयविग्रहणमिति मतिः ।
तदपि नास्ति । यतः ।
यदा घटादाववयगुणान्तराणामुपलब्धिस्तदा गुणावयवान्तराणा1508 मनुपलम्भे कथमव
यविनां । न तावन्मात्रं घटः ।
(५) प्रत्यभिज्ञानिरासः
अथ स्मरणसहायप्रत्यभिज्ञानतो घटाद्यवयविपरिज्ञानं तदावयवि1509गुणान्तरापोद्धारे
कस्तत्र घट इत्यपि स्यात् । अवियोगस्तु परस्परमेकसामग्र्यघीनत्वात् । न चावियोगग्राहकं
प्रमाणमस्ति परस्परपरिहारेणोपलम्भात् । अवियोगस्तु स्मरणप्रत्यभिज्ञानप्रत्ययग्राह्यः(।) न च
स्मरणप्रत्यभिज्ञानयोः पृथगप्रामाण्ये समुदायः प्रामाण्यं प्राप्नुयात् ।
ननु शिविकोद्वहने पृथगशक्तानामन्यथा शक्तिरुपलभ्यते । न । तत्र तेषां कार्यजन
नात् तथाभूतपूर्व्वकारणजन्यस्वरूपमेव शक्तिर्न व्यतिरिक्ता । इह तु स्मरणप्रत्यभिज्ञयोः
किं कार्य । अवयविप्रतीतिरिति चेत् । न । तद्व्यतिरेकेणापरप्रतीत्यभावात् । अथ
प्रतीत्यन्तरमुदेति निश्चयरूपं (।) तदसद्(।) अप्रमाणन्निश्चयोऽनिश्चय एव । न खल्वप्रमाण
न्निश्चयः प्रमाणस्य व्यर्थकताप्राप्तेः ।
अथ तदानुमानेनावयवान्तरनिश्चये प्रत्यभिज्ञानदेकताप्रतीतेरवयविप्रतीतिः । न ह्यव
यवस्यावयवान्तरेणैकता गुणान्तरस्य वा तदन्तरेणेति ।
तदप्ययुक्तमनुमानस्य प्रत्यक्षपुरःसरत्वात् । (यथा)भूतं तत्प्रत्यक्षेण प्रतिपन्नं
केवलन्तथाभूतमेवानुमानेन प्रत्येयं । ततः केवलस्यापृथग्भूतंस्य1510 प्रत्यक्षेण प्रतीतेस्तथा
भूतस्यैवानुमानादपि प्रतीतिः । ततश्च ।
न हि प्रत्यक्षेणान्यथा प्रतिपन्नं प्रत्यभिज्ञानसहस्रेणापि प्रत्येतुमन्यथा शक्यं । प्रत्यभि
ज्ञानमपि प्रत्यक्षमेवेति चेत् । न (।) अनुमानविषये प्रवृत्तेः । तच्चानुमानमनेकविषयं (।)
प्रत्यभिज्ञानं कथं व्यवहारहेतुरिति चेत् । प्रमणत्वेनैवेति वदामहे । प्रमाणता चानुमानत्वेन ।
अनुमानेनैव तर्हि तदेकत्वं ततोवयवी सत्त्यताभाक् प्रसिध्यतीति नः पक्षसिद्धिः । न(।)
पारमार्थिकस्यैकत्वस्याप्रसाधनात् । तदर्थक्रियाकारितयैकत्वं तत्रेति न परमार्थः । न च
तेनैव सार्थक्रिया कर्त्तव्येति नियमोऽग्न्यन्तरेणापि दाह(क)स्य क्रियादृष्टेः । मुख्याभावात्
कथमुपाचरितमेकत्वमिति चेत् । अनादिवासनात उपचारपरपरंपरैवैषेति न दोषः ।
तस्माद् धर्मधर्मिणोरपोद्धारपरिकल्पनातस्तत्त्वान्यत्त्वे भवतो न तु वास्तवे । तत्त्वतो
न भेदो भेदस्तु बुद्धिपरिकल्पितापोद्धारतः । न चा (साव)पोद्धारः प्रत्यक्षतो नापि तत्पूर्व्व
कानुमानतोऽपि त्त्वनादिवासनाकृतानुमानपरंपरागत इति न परमार्थः । अस्ति तर्हि तत्त्वान्यत्त्वं
कस्मात् प्रतिषिध्यत1512
इति चेत् । न (।)
इत्युक्तं । न हि परमार्थत्वेनाभेदः । सम्वृत्यैव भेद इति दिगम्वरदरर्शनं। अपि
तूभयं परमार्थ इति ।
अत एवाह ।
स्यादेतत् () यदि न भेदः कथमनुमानानुमेयव्यवहारः । आपोद्धारिकभेदभावात् ।
सांवृतभेदाश्रयता । नहि सांवृतो (भेदो) नाश्रीयते । परमार्थिकश्चाभेद इति (।) केवलं
सम्वृतिभेदेन (ा) विसम्वादः । परमार्थे च न व्यवहार इत्युभाभ्यां प्रयोजनं(।) तस्मात् यदा (?)
नान्यथानुमा (ना) दिव्यवहारः । तथा चाह । सर्व्व एवायमनुमानानुमेयव्यवहारो
बुद्ध्यारूढेन धर्मधर्मिन्यायेनेति व्यावृत्तिभेदतो भेद एव शरणं ।
नहि व्यावर्त्तमानभेदेन व्यावृत्तीनां भेद एकत्वात्तस्य । यतस्तु व्यावर्त्तते तद्भेदात् ।
तत्राशब्दव्यावृत्त्या शब्दो धर्मी । अकृतकव्यावृत्त्या तु कृतकत्वं धर्मः । साधारणासाधा
रणत्वेन भेदात् । न शब्दाशब्दात्वयोस्तथा (।) तत्कथं भावप्रत्ययो भेदाभावे भवेत् (।)
भवतु वा पर्याय एव स्यात् । भावप्रत्ययवाच्यत्वादेव भेद इति चेत् । न(।) इतरेतराश्र
यत्वेन दोषाद् । षष्ठीसमर्थाद् भावप्रत्ययः । भावप्रत्ययाद्भेदे षष्ठीसम्बन्धतेति । अपि
च । अर्थनिमित्तकेन नाम शब्देन भवितव्यं न शब्दनिमित्तकेनार्थेनेति । एवम्भूत एवा
सावर्थः । यतः । शब्दप्रमाणका वयं (।)यच्छब्दाः प्राहुस्तदस्माकं प्रमाणं । शब्दान्तरेण
च प्रतिपाद्यमानोसावर्थोन्य एव । एवन्तर्हि पर्यायताभावप्रसङ्गः । तस्मादनित्त्यः शब्दः
शब्द(त्वा)दिति (।) स एव शब्दोऽविद्यमानभेदधीः । साध्यधर्मी सन् साधनतां नीत इत्यसिद्धः ।
अपि च । शब्दत्वादनित्त्यता यदि तत्तर्हि शब्दत्वं शब्द इत्येव प्रतीतं । किं पुनरुच्चर्यते ।
पुनरुच्चारणं धर्मप्राधान्यर्थमिति चेत् । न । फलाभावात् । धर्मिप्राधान्येपि भवत्येव
हेतुः (।) अनित्यः शब्दो यतः कृतक इति । प्रदीपन्यायेन तु नानुमानव्यवहारः । ततः
पुनरुक्तं नाम निग्रहस्थानं । भेदविवक्षायामसिद्धमेवेति स्थितमेतत् ।
यतोयमभेदे साध्यसाधनयोरभिन्नव्यावृत्तिकतया दोषस्ततो भेदसामान्ययोर्व्या
वृत्तिभेदादङ्गाङ्गिता साध्यसाधनभावेन न विरुध्यते । न ह्यभेदभावी दोषः संभवति
भेदभावे । नहि बधिरदोषः सकर्ण्णकस्य । तस्मादनित्यः प्रयत्नानन्तरीयक शब्दः
प्रयत्नान तरीयकत्वादिति नासिद्धतादोषः । शब्दगतं हि प्रयत्नानन्तरीयकत्वं धर्मिश
ब्दाशब्दगतं हेतुरिति प्रतिपन्नः साध्यसाधनभेदः । शब्दगतं हि प्रयत्नानन्तरीयकत्वं
प्रयत्नानन्तरीयक (त्व)ान्तरादपि भिद्यते । सामान्यरूपेण तु विवक्ष्यमाणं न तदन्तराद्
भिद्यतेऽपि त्वप्रयत्नानन्तरीकत्वादेव । ततो व्यापित्वाव्यापितया भेद एव । यथा वृक्षत्व
शिंशपात्वयोः । न ह्यव्याप्येव व्यापि भवति । तेन शब्दविशेषणमव्यापि धर्मि तदतद्गतं
हेतुः व्यापित्वेन भेदात् । व्यापित्वाभावेन तर्हि नास्ति शब्दत्वस्य भेद इति । सोयमन
न्वयदोष एव प्राप्तोऽतः शब्दत्वादित्यत्र हेतावनन्वयदोष एव परिस्फुटो न त्वसिद्धतादिदोषः ।
असिद्धतायामप्यनन्वयित्वमेव कारणमिति स एव दोषः परिस्फुटो युक्तः ।
नैतदस्ति (यतः) ।
न खलु भेदाभावादसि(द्ध)ता(ऽ)भावः । ततोसिद्धतायां सत्यां तामवकल्प्य परदो
षोद्भावनं न न्यायमनुधावति1515 । हेतुसम्भवे हि सति तदन्वयादितापरिचोदनागोचर
इत्युक्तम् । तस्मादसिद्धतादोषो भेदाभावे भेदत्वदोष एवेति सांप्रतं मन्यामहे(।) ततः ।
यदि नाम पक्षविशेषणं विषाणित्वं पिण्डान्तरव्यवच्छेदाय तथापि हेतुत्वं न विरुध्यते ।
साध्यप्रतिबद्धो हि हेतुस्तथा प्रतीयमानः साध्यसाधकः । स च प्रतिबन्धः साध्याङ्गत्वेपि
न विरुध्यते । ततो हेतुरेव भिन्नधर्मिणि धर्मिविशेषणं साध्यकालाङ्गतायामपि ।
न खलु विशेषणं विशेषकालभाव्येवाङ्गम् । तदुपलक्ष्य प्रागेव निवृत्तेः यथा
कतरद्देवदत्तस्य गृहं यत्र काकः परिरारटीति । स इदानीं देवदत्तादिगृहमुपलक्ष्य निवृत्तोपि
तदुपलक्षयत्येव कालान्तरोपि ।
नन्वविद्यमानः कथमुपलक्षणं । तत्फलाया विशेषनिष्टाया बुद्धेः सम्भवात् ।
तस्मादुपलक्षण(न्न) प्रतिज्ञार्थैकदेशतया(ऽ)सिद्ध(ता)दोषभागी । यदि तर्हि भिन्नधर्मिणि
सामान्यविशेषभावेन भेदान्न प्रतिज्ञार्थैकदेशासिद्धतादोषोऽभिन्नधर्मिण्येव दोष इति प्राप्ता
श्रावणत्वादेरपि प्रतिज्ञार्थैकदेशता । कृतकत्वानित्त्यत्वयोश्च समानव्याप्तिकयोः ।
न सदेतत् । यततेः (।)
न केवलं विषाणित्वादित्येवमादिकः । विशेषोप्यसाधारणोपि श्रावणत्वादिको न
भवति धर्मभेदादेव ।
ननु यत एवाशब्दाद् व्यावृत्त्या शब्द(त्वं) तावत्मात्रकादेव श्रावणत्वं । तथा चाह । श्रोत्रग्रहणलक्षणः शब्द इति । तत्कथमसति व्यावृत्तिभेदे धर्मभेद1517 इति ।
तदसत । यस्मात् ।
श्रवणज्ञानसम्बन्धादसम्बन्धादेव व्यावर्त्तनं श्रावणत्वं । शब्दत्वन्तु अशब्दसामान्यादेव
व्यावृत्तिः । यद्यपि शाब्दो नास्त्यश्रावणस्तथापि सामग्र्यभावादश्रावणोपि पुरुषान्तरापेक्षया
भवेत् । अशब्दस्तु न पुरुषान्तरापेक्षयापीति । नाश्रावणत्वव्यावृत्तिः(।) शब्दत्वं श्रावणत्वमेव
तथा भवेत् । न शब्दत्वं । तस्य श्रावणाश्रावणासाधारणत्वात् ।
एतेन यदाचार्यवचनं । ननु दृष्टः संघातानां1519 पारार्थ्यं संघातत्वात् । संस्कृतम
नित्त्यं संस्कृतत्वादिति प्रतिज्ञार्थेकदेशो हेतुः । नात्र सर्व्वे संघाताः संस्कृतम्वा प्रतिज्ञार्थोपि तु
चक्षुरादयस्तदेकदेशश्च दृष्टान्ताभावप्रसङ्गात् । अथ पुनः शब्दत्वमसाधारणं स्यात् । शक्यमेवं
भवितुं । प्रतिज्ञार्थस्य ह्यसाधारणो धर्मः श्रावणत्वमसाधारणं युक्तं । न तु शब्दस्यान्य
च्छब्दत्वमस्तीत्यसिद्धत्वमेव हेतुदोषं (।) तदुक्तं । उक्तं पक्षलक्षणम् ।1520
६ हेतुचिन्ता
१. हेतुलक्षणम्
हेतुलक्षणमुच्यते । तत्र च (।)
580ननु हेतुलक्षणमेव वक्तव्यं यः सन् सजातीय इत्यादिकं हेत्वाभासलक्षणञ्च । किमर्थं
पक्षधर्मविस्तरनिर्द्देशः । हेतुर्हेत्वाभासो वा प्रायशः पक्षधर्म एव ततो विवेकेन हेतुहेत्वाभास
लक्षण(स्य) स्पष्टनिर्देशार्थमादौ प्रभेदनिर्द्देशः । तथा सत्ययं पक्षधर्मो हेतुरयं विरुद्धोऽयमनै
कान्तिक इति सुखेनाख्यायते गृह्यते च । अत एवाह ।
पक्षधर्मप्रभेदेन यः संक्षेप उच्यते । स सुखग्रहणार्थं हेतुप्रकरणार्थस्यैव । हेतुप्रकरणार्थो1521
हेतुहेत्वाभासलक्षणनिर्द्देशस्तदर्थो हेतुहेत्वाभासत्वं । अत एव हेत्वाभासात्पूर्व्वमित्युक्तं हेतुश्चा
भासश्च हेत्वाभासं । आभासश्च1522 प्रत्यासत्तेर्हेत्वाभास एव नाभासमात्रं ।
ननु च धर्मिधर्ममात्रतयोपसंह्रियमाणो धर्मः साधनं । न पक्षधर्मतया । अस्ति चात्र
प्रदेशे वनगहनादौ धूम इति धर्मिमात्रे प्रदर्शनात् । न च धर्मिमात्रं पक्षो नहि धर्मी
साध्यस्तस्य सिद्धत्वात् । धर्मविशिष्टो धर्म्यनुमेय इति वचनात् ।
स यमेतत् ।
हेतुव्यापारविषयः समुदायः साध्यः । स च न पक्षः सिद्धत्वात् । तस्मादसिद्धसाध्य
धर्मा धर्मी तद्विशेषणः पक्षः । कथमसिद्धं विशेषणमुपचारात् । प्रयोजनाभावादनुपचार इति
न संगतं । सर्व्वधर्मिधर्मप्रतिषेधार्थत्वादिकं प्रागेव प्रत्ययादिति नोच्यते पुनः । तथा च
चाक्षुषत्वादिपरिहारः ।
ननु चाक्षुषत्वं सजातीय एव सत् । न धर्मिधर्मः । तत्र धर्मिधर्मग्रहणादेव तस्य
निरासः । नोपचाररहितेन धर्मिधर्मग्रहणेन साध्यधर्मिधर्मता लभ्यते । वैधर्म्यदृष्टा तधर्मि
णोपि धर्म इति स्यात् । न (।) असंस्तदत्यय इति वचनात् । कथं हि तत्रैवासन्तत्रैव च
सन्निति । ततः साध्यधर्मिपरिग्रहार्थमुपचारः । साध्यधर्मिधर्मग्रहणमेव तर्हि कर्त्तव्यं । न ।
तत्राप्युपचार एव शरणं । न ह्यसिद्धमनध्यारोपितं विशेषणं सम्भवति । पक्ष इत्यनेनापि
तदेवोच्यत इति को विशेषः । संज्ञासंज्ञिसम्बन्धप्रतिपादने प्रयासाद् गौरवदोष इति चेत् ।
न । पक्षशब्दस्यापि साध्यपर्यायत्वात् । तथा च जनव्यवहारः । अयं ममपक्ष इदं
ममाभिप्रेतमिति । तथा चाचार्यः।
न ह्यनुपचरितः केवलो धर्मी पक्षः ।
ननु धर्मविशिष्टो धर्म्यनुमेयो न च तत्रोपचारसम्भवः । न जिज्ञासितधर्मविशिष्ट इति
तत्राभिप्रायात् । तथानुमानमर्हत्यनुमेय इत्यर्थर्थ(?) भावात् । यश्चानुमानमर्हति यश्च
जिज्ञासितविशेषस्तत्र साध्यमसिद्धत्वादुपचरितमेव । तस्मादुपचरितार्थ एव पक्षः । उप
चरितसाध्याङ्गविशिष्ट एव धर्मीति यावत् ।
ननूपचरितधर्मिविशिष्टो धर्म इत्यपि स्यात् पक्षग्रहणं साध्यधर्मिपरिग्रहार्थं साध्य
धर्मिणो यो धर्मः स एव हेतुर्न विरुद्धोनैकान्तिको वा । तस्य पक्षस्य धर्मः पक्षधर्मः ।
नन्वेतस्मिन् विशेषणविशेष्यभावे विशेषणस्य व्यवच्छेदकत्वात् । अन्यधर्मितानिषेधात्
असाधारणता सर्व्वस्य स्यात् । नहि विशेषणमव्यवच्छेदकं । शब्दविशिष्टञ्च कृतकत्वं
शब्दात्मकं कथं पटाद्यात्मकं1523 तत्र वा यायात् । व्यतिरेके कदाचिद् भवेदपि । न च व्यति
रेको धर्मिणो धर्माणामिष्यते । न च व्यतिरिक्तस्य कारणादन्यद् विशेषणं । तथा च सति
सर्व्वः कार्यहेतुरेव भवेत् । तस्माद् विशेषणेऽसाधारणता । अविशेषणे त्वपक्षधर्मत्वादसि
द्धतादोषप्रसङ्गः1524 ।
नैतदस्ति । यतः ।
यद्येक (प्रकार) एव व्यवच्छेद्यव्यवच्छेदकभावः स्यादयं दोषः । अनेक प्रकारस्तु स
दृश्यते (।) क्वचिदयोगं व्यवच्छिनत्ति । क्वचिदपरैर्योगं । क्वचिदत्यन्तायोगमिति प्रभेदाः ।
व्यतिरेचकेन हि निपातेन व्यवच्छेदो विधातव्यो नान्ययोगव्यवच्छेद (ा) नियमेन अवधारण
मात्रमेव हि तस्यार्थो न चान्यथावधारणे दोषः । कथमयम्विभाग एकाकारत्वेऽभिधानस्यार्थ
भेदाभावात् । न केवलस्यार्थभेदोपि तु संसर्गिभेदात् । संसर्गिभेदस्तु ।
संसर्गिण एव च प्रधानं1525 । यतः ।
यथाक्रममभिसम्बन्धः । विशेषणेन सह उदितोऽयोगं1526 व्यवच्छिनत्ति । विशेष्ये
णान्ययोगं क्रियया त्वत्यन्तायोगमिति विशेषणादिपदान्येव चावधारणं प्रतिपादयन्ति ।
निपातास्तु द्योतकास्तैस्तस्यैव स्पष्टीकरणात् । तथा हि । घटेनोदकमानयेति । यदि
कारणविशेषापेक्षा न स्यात् करणविशेषप्रयोगो व्यर्थको भवेत् । तथा कर्मादेरपीत्यवधारणं
घटादिपदप्रतिपाद्यमेव । तानि च भिन्नानीत्यर्थभेदः ।
ननु तेषां भेदादर्थभेद एव प्राप्तः साधारणञ्चावाधारणं प्रतीमस्ततोन्वयव्यतिरेकाभ्या
मपोद्धारपरिकल्पनयाऽवधारणनिपातवाच्यमेव । न(।) तदप्रयोगेऽप्रतीतिप्रसङ्गात् । योहि
येन विनापि प्रतीयते । स कथन्तस्यार्थः । कथन्तर्हि भेदाभिधायिनामभिन्नमभिधेयं । न
च शब्दानां व्यवच्छेद एवाभिधेयः ।
तस्य वस्त्वभिधायित्वात् व्यवच्छेदस्य चाभावरूपत्वात् ।
नैतदस्ति ।
582परस्परसम्बद्धार्थः पदसमुदायो वाक्यं । अत्र तु वाक्यपूरकं पदमेव वाक्यशब्दे
नोक्तं (।) तेषामेव व्यवच्छेदफलत्वात् । तदन्यस्य वाक्यस्याभावाच्च । यस्य(च) वा
क्यस्य यत्फलन्तदेव तस्य प्रतिपाद्यं1527 । स एव र्थः । न च व्यवच्छिद्यमानव्यतिरेकेणान्यो
व्यवच्छेदः । ततो व्यवच्छिद्यमानार्थप्रतीतेर्व्यवच्छेद्योपि तदन्यव्यतिरेकात्1528
प्रतीयत एवेति
व्यवच्छेद एव प्रतिपाद्यः ।
अथ वस्तु प्रतिपाद्यते व्यवच्छेदस्तु प्रमाणान्तरप्रतिपाद्योऽभावरूप आक्षिप्यते । स
चाक्षिप्त एवकारादिना द्योत्यते ।
तदप्यसत् । यतः ।
कथमन्याभिधानेऽन्य आक्षिप्येतान्वयम्विना ।
यदि हि व्यतिरेकोव्यतिरेकवदव्यतिरेकी तादात्म्यादाक्षिप्येत । व्यतिरेकेपि सम्बन्धा
दाक्षिप्यत इति चेत् । न (।) व्यतिरेके पदार्थस्य प्रत्यक्षेणापरस्मादव्यतिरेकेण प्रतीति
प्रसङ्गात् । ततोऽभावप्रमाणन्तराद् व्यतिरेकप्रतीतावपि तदसम्बद्धतयैव प्रतीतिः स्यात् ।
न ह्यव्यतिरेकिणा1529 व्यतिरेकसम्बन्धः प्रत्येतुं शक्यः । अथैकसामग्र्यधीनत्वाद् व्यतिरेकेणैव
सह पदार्थ उत्पद्यते । अव्यतिरेकेपि (।)
(१) अभावविचारः
तदयुक्तं । यतः ।
व्यतिरेकेण तस्यासौ पदार्थस्यान्वयात् स्वयं ।
नहि विषाणस्येंदं विषाणमिति विशेषणविशेष्यभावः । द्वयोरपि परस्परव्यवच्छेदेन
समानकालभावित्वेन प्रतीतेः समुच्चय एव भवेन्न विशेषणविशेष्यभावः । परस्परोप
कारित्वेन समानकालता । आधाराधेयाभावो विशेषणविशेष्य(भावस्य) निबन्धनमिति
चेत् । न (।)औत्तराधर्येणाप्रतीतेः । व्यतिरेकमध्ये पदार्थः प्रतीयत इत्याधाराधेयभाव
इति चेत् यद्येवन्न सम्बन्धप्रतीतिः । नहि यस्य मध्ये यो व्यवस्थितः स तस्येति
व्यपदिश्यते । न हि घटस्यालोकोऽन्धकार इति वाच्यपदिश्यते । घटमध्ये वा व्यवस्थितो
घटस्य घट1530 इति । अभावमध्यावस्थितिरवश्यम्भाविनी । नाभावमन्तरेण पटादि1531 व्यवस्थितिः
तद्व्यापिताप्रसङ्गात् । अभावमध्येपि तर्हि न स्थितिरपराभावमन्तरेण व्यापित्वप्रसङ्गादेव ।
न स्वरूपेणैव ह्यसौ पदार्थोऽभावमध्येपि तिष्ठेत् । या या मध्यस्थितिः साऽधारव्यतिरिक्ता
ऽभावमन्तरेण न भवति । यथा पटमध्यस्थितिः । अभावमध्यस्थितिरपि स्थितिरिति
स्वभावहेतुः । अभावमध्यस्थितिः स्वयमेव तत्स्वभावत्वादभावस्य । नहि जतुनः काष्ट
संयोग इति तस्यापि काष्टेन संयोगेऽपरेण संयोजकेन भाव्यं स्वयमेव तथाभावात् ।
तदेतदसत् । यतः ।
जतु1532 स्वभावतो वह्नेःकाष्टयोगमवाप्नुयात् ।
अव्यापी स पदार्शश्चेत् अभावः स्यादनर्थकः ।
स्वभावमात्रेण न व्यापिनो मध्यस्थयत्यभावोऽव्यापित्वप्रसङ्गात् । अव्यापिन एवेष्यन्त
इति चेत् । किमिदानीमभावेन । अभावो हि सांकर्यं मा भूदितीष्यते । तच्च स्वयमव्या
पित्वेनैव पदार्थानां प्रसिद्ध (म्) इति व्यर्थताऽनिवार्या । अभावेन व्यापी कुतोऽभावसहितेन
वा स्वाकारणेनेति को विरोधः ।
तदप्यसत् ।
अभावोऽव्यापिनं कुर्यात् पदार्थं व्यापिनं यदि ।
सांकर्यं पूर्व्वमस्य स्यादन्यथात्वं कथं पुनः ।। ३।६० ।
न खलु व्याप्यव्यापी विधातुं शक्यः । पूर्व्वं हि व्यापित्वे पदार्थसंकरः । अथ
पूर्व्वन्नास्त्येव । स्वरूपमेवास्य तर्हि तथाऽन्यथाऽदृष्टेः । अथ स्वरूपेण न व्यापी नाप्यव्यापी ।
व्याप्तिप्रयोगाद् व्यापी । तदभावयोगादव्यापी । तथा चाह ।
तदप्यसद् यतः ।
अन्यथा त्वेतत् स्यात् ।
तन्मिश्रणप्रतीतिश्चेद् भ्रान्तिरेव भवेत्तथा । तथा1533 पदार्थाभावः स्यादविद्यासाधकं1534 भवेत् ।। ३६४ ।।
स चाप्युपाधिमान्1535 भिन्नः स्वयमेवोपाधिभ्य इति व्यर्थकमपरोपाधिकल्पनं । उपाधेः
स्वयमेव भिद्यते । उपाधिमदन्तरादुपाधित इति न प्रमाणमत्र किञ्चित् । यदि च स्वरूपे
णैव भिन्नः, तदेव भिन्नत्वमुपाधिमदन्तरापेक्षायामपि । प्रत्यपेक्ष्य1536 मन्यदेवभिन्नत्वमिति
चेत् । न तावता1537 भिन्नत्वानामुपयोगाभावात् ।
अथास्मादपि भेदोस्मादपीति मतेर्भेदकल्पना । नहि प्रमाणप्रसिद्धमनर्थकमपि शक्यं
परिकल्पयितुं परित्यागविषयं । यद्येवमुपाधेरपि भिन्न इति प्रतीतेरपरो भेदोऽभ्युपगन्तव्यस्त
स्मादपि भेद इत्यनवस्था भेदानाम् । स्वरूपेण भेदाभाव एव प्रसक्तः ।
स्वागतं भवतु दोषः । नन्वयमेवाभ्युपगमः । नैतदस्ति ।
नहि स्वरूपेणाभिद्यमानं पररूपेण भिद्यते । तस्यापरत्वमेवागतं भेदाभावे । तस्य हि
स्वरूपेणाभेदे पर एव नास्ति । तदभावात् कथन्ततो भेदः ।
अथ भेदकं स्वरूपेण भिन्नं ततोऽभिन्नमपि धर्मिरूपं भेत्स्यते ।
तदप्ययुक्तं । यतः ।
यदैव तस्मादपरो भेदकः स्वरूपेण भिद्यते । तदा तदन्यस्य दैवरक्ताः किंशुकास्त
वकावतंसकाः । न भिन्नाभिन्नेन भवितुं शक्यं । न खलु भेदः परमभिन्दन (? न्) भेदो
भवति । तस्मादेकस्य स्वरूपभेदे भेदस्य भेदवतोपि तथा स इति न परस्माद् भेदः ।
तस्मात् स्वरूपमेवापरासंसर्गिस्वभावतो भेद इति तादात्म्यमेव भेदार्थस्वभावयोरिति भेद
एव वाक्यार्थः । स एव तात्पर्येणाभिघातव्योऽन्यथा पदार्थाभिधानमपि न भवेत् । आकुलस्य
पदार्थत्वायोगात् । अर्थक्रियाकारि हि वस्तु । न च सकलसंसर्गेऽर्थक्रिया सम्भविनी । स
च पदार्थान्तराद् भेदः स्वरूपतः प्रत्यक्षगम्यस्तत्र संकेतकरणे स एव शब्दगम्य इति व्यवच्छेद
एव शब्दस्याभिधेयः । नहि व्यावृत्तमव्यावृत्तयाभिधातुं शक्यं ।
(२) सामान्यनिरासः
ननु स्वरूपगता सा व्यावृत्तिस्तत्र स्वरूपानभिधाने कथन्तदव्यतिरिक्तव्यावृत्त्यभिधानं ।
अथ व्यतिरिक्ता व्यावृत्तिस्तदासौ स्वव्यक्त्यनुगतत्वाज्जातिरेव भङ्ग्यन्तरेण प्रतिपादिता भवेत् ।
तथा चानुगतमेव रूपं प्रतिपाद्यं न व्यावृत्तिरिति कथं व्यवच्छेदफलं वाक्यम् ।
नास्त्येतद्यतः ।
प्रतिपादितमेतत् । नाव्यावृत्तं स्वयन्तदपरयोगाद् व्यावृत्तं । सामान्ययोगे हि सामान
मेव स्यात् । तद्वा न भवेदसमानस्य समानता परयोगेपि न युक्ता ।
स्वयमेव समानञ्चेद् वृथा सामान्यकल्पना ।
यदि नाम सामान्यवत् स्यात् । न तु समानमेव । तस्य स्वेन रूपेण प्रतिभासनात् ।
भेदावभासने हि सामान्यवदिति युक्तं । अभेदावभासने सामान्यमित्येव । यदि न भेदग्रहणं
सामान्यमित्येव स्याद्विशेष इति वा । अथ भेदेनापि प्रतिभासनमभेदेनापि ।
तदसत् । यस्मात् ।
न ह्येकस्य रूपद्वयं युक्तं भिन्नमभिन्नञ्च । न तत् सामान्यन्तेनैव रूपेण व्यक्तेर्भिन्नं
तेनैव रूपेणाभिन्नं किन्तु केनचिद्रूपेण भिन्नं केनचिद् रूपेणाभिन्नमिति व्यवस्था ।
तत्सत्त्येतरत् । यतः ।
यदि सामान्यस्य द्वे रूपे केनचिद्भिन्नमभिन्नमपरेणेति । तथा परस्परविभिन्नत्वात्तयो
र्व्यक्तिरूपता भवेत् । नहि भिन्नस्वरूपादपरा व्यक्तिः । व्यक्तित्वयोगाद् व्यक्तिरिति चेत् ।
व्यक्तित्वं ननु सामान्यं तद्योगात् स्यात् समानता ।
रूपद्वयस्य कल्पे च प्रसङ्गः पूर्व्ववद् भवेत् ।
तस्माद् भिन्नतैव व्यक्तीनां रूपं । ततो व्यक्तित्वेन तत् सामान्यं ।
अथ सामान्ययोगात् सामान्यं तत्रापरं सामान्यं । ततस्तद् द्वयं (सामान्यवन्न)
सामान्यं । नहि सामान्यवदेव सामान्यं । ततः सामान्यरूपद्वये समानमिति बुद्धिः । सा
न व्यक्तौ1539 नहि सामान्ययुक्ता सामान्यरूपेण भिन्नेन व्यवस्थानात्1540 ।
अथ भेदसामान्ययोर्भिन्नयोरपि केनचिद्रूपेण विभिन्नताऽपरेणाभिन्नतेति । तयोरपि
भेदे परं सामान्यमुपप्लवते । तथा सति सामान्यसामान्यरूपयोर्व्यक्तिता । ततः पूर्व्वसामान्य
समानता न स्यात् सामान्यायोगादन्य1541
सामान्येन व्यवधानात् ।
नहि सामान्यानां स्याद् वादिनां परिसमाप्तिरिति । सर्व्वाव्यक्त एव प्रतिपत्ति
गोचरः । परिसमाप्तावपि व्यक्त एव । नहि तत्र सामान्यमनिच्छतां सामान्यसम्भवः पूर्व्व
त्रापि । अन्त्यसमानत्वे हि पूर्व्वकं सामान्यं तदभेदात् पूर्व्वकमपीति ततः सामान्यबुद्धिः
सालम्बना स्यान्न चैवमिति यत्किञ्चिदेतत् । एवम्भेदानामपि यदि भेदो भिन्नः सर्व्वभेदव्यापी ।
ततोऽभिन्नानां परस्परं भेदयोगेपि तद्युक्तता नाभेदबाधनीति सकलमभिन्नमेव भवेत् । सामा
न्यतद्वतां भेद इति चेत् । न (।)
व्यक्त्यभेदे न सामान्यं व्यक्तिरेव तु तद् भवेत् ।
तस्माद् व्यावृत्तिरेव सामान्यं ।
नन्वव्यतिरिक्ता व्यावृत्तिर्यथा विजातीयात्तथा सजातीयाभिमतादपि । तत्कथं सा
विजातीयादेव निर्भक्ष्य शक्या प्रत्येतुं1543 । सत्त्यमेतत् ।
यदा तु पुनः ।
भ्रान्तिमात्रादपि प्राप्तिर्व्य 1545 वहारजगद्गतिः ।
स्थाणौ हि दवीयोदेशव्यवस्थितेन न भेदः सन्नपि प्रत्येतुं शक्यः । संस्थानमात्रकस्य
तत्र प्रतिपत्तेः । न संस्थानमात्रं विशेषरहितं सम्भवति1546 । दूरदेशतया तु तस्याप्रतिभासने
प्रतिभासमात्रकं समानं सर्व्वत्रोत्पद्यत इति व्यक्तिव्यतिरिक्तं तदेव सामान्यं । दृश्यविक
ल्प्यार्थैकीकरणेन तदेवाभिन्नमिति सम्वृ या भवति भिन्न । भिन्नता न परमार्थतः । परमार्थत
एव (ा) भेदः कस्मान्न भवति । एकीकरणकल्पनायां द्वयोरप्रतिभासनात् । अस्तु तर्हि
भेदः पारमार्थिकः । सामान्यस्यैव प्रतिभासनात् । यच्च व्यतिरिक्तं प्रतिभासते तद्व्यतिरि
क्तमेव ।
तदप्यसत् । यतः ।
अथ केवलमपि समानतायोगात् सामान्यं । तदप्यसत् ।
भ्रान्ताप्रतिपत्तिरेव तर्हि सामान्यं । तद्व्यक्तीनां समानत्वात् व्यक्तौ तर्हि प्रतिपत्तिः
प्रवृत्तिश्च न स्यात् । नहि भ्रान्तबुद्धिस्वरूपप्रतिपत्तौ व्यक्तिप्रतिपतिप्रवर्त्तने युक्तेऽतिप्रसङ्गात् (।)
भ्रान्त्या प्रवृत्तिरिति चेत् । न । अपरस्याभ्रान्तेरभावात् । तदापि वा स्वरूपप्रतिपत्ति
रेवेति1547 । न व्यक्तिप्रतिपत्तिः । ततः परापरभ्रान्त्यभ्युपगमेऽनवस्थानादप्रतिपत्तिरेवेति ।
यत्किञ्चिदेतत् । यदि तर्हि न सामान्ययोगो व्यतिरिक्तेतरतया नाप्युभयरूपतया न भ्रान्ति
रूपताय1548 । नापि व्यक्तिप्रतिपत्तिः । कस्तर्हि शब्दलिङ्गाभ्यामर्थप्रतिपत्तावुपायः ।
ननु पारिशेष्याद् वस्तुव्यवस्थापि तु प्रमाणेन । न च व्यवच्छेदप्रतीतिग्राहिप्रमाण
मुपलभ्यते ।
अत्रोच्यते ।
तदन्यव्यवच्छेदेन हि व्यवहारिणां प्रवर्त्तनमुपलब्धं । न चाप्रतीतिप्रवर्त्तनं । ततो
व्यवच्छेदप्रतीतिराकृष्यते । तद्धि परासंसर्गेण प्रतीयते । प्रत्यक्षेण विकल्पेन च । तत्र
प्रत्यक्षेण वस्तुस्वभावलीन एव व्यतिरेकः प्रत्ययविषयः । कल्पनानां तु न वस्तुविषयता ।
ततो व्यतिरेकमात्रमेव शब्दकल्पनाविषयः ।
ननु वस्तुप्रतिपत्तौ व्यतिरेकस्य खण्डशः कथं प्रतिपत्तिः ।
अत्रेदमुच्यते ।
587वस्त्वस्ति व्यतिरेकयोगविषयो यः कल्पनागोचरः ।
यन्मात्रा(द्)व्यतिरेकसङ्गमगतिस्तन्मात्रमेवास्तु वः ।
यावता विना वस्तुना व्यवच्छेदः प्रत्येतुमशक्यः तावन्मात्रं व्यवहारिणां प्रयोजनप्रसिद्धये
प्रभवति । न च सत्त्यवस्तुसंगतमेव व्यवच्छेदनं प्रत्येतुं शक्यमसत्त्यसङ्गमेनापि तस्य प्रतीति
दर्शनात् । तस्माद् व्यवच्छेदविषयमेव वाक्यं वस्तुनस्तत्रासत्त्यत्वात् ।
ननु वस्तुसत्त्वे1549 व्यतिरेकस्यापि तद1550 व्यतिरेके तल्लीनस्य कथं सत्त्यता ।
अत्रोच्यते ।
अयन्तावदव्यवच्छेदवाद्यनुयोक्तव्यः । किमिदं प्रतीतिविषयस्यासत्त्यत्वं नाम । यदि
तेन प्रतीयमानेन रूपेण तदस्त्येव कथमसत्त्यता । अथाप्रतीयमानेन तदा तर्हि सर्व्वमसत्त्यमि
त्यसत्त्यमेव । सत्त्यमेव किञ्चिन्नास्तीति गर्द्धभीक्षीरायितं परपक्षेण । अथ प्राप्यरूपता
नास्ति तेन विसम्वादादसत्त्यं न स्वरूपतः । स्वरूपसत्त्यत्वेपि प्राप्यरूपतार्थिनः । तदभावे
दसत्त्यमेव विपर्ययप्रतीतिरसत्त्यत्वं । अप्राप्यरूपस्य यत प्राप्यरूपतया ग्रहणं । विपर्ययप्रत्य
यादपरं । एवन्तर्हिप्राप्तमिदं व्यवच्छेदः सत्त्य इति यतः ।
यदि यत्प्राप्तं तत्सत्त्यमायातं व्यवच्छेदस्य सत्त्यत्वं तस्य प्राप्तेः ।
नन्वसत्त्यवस्तुव्यवच्छेदस्तेन प्रतिपन्नो न चासौ प्राप्तः सत्त्यवस्तुव्यवच्छेदप्राप्तेः ।
न चान्यप्रतीतावन्यप्राप्तावविसम्वादस्ततः कुतो व्यवच्छेदस्य सत्त्यता । कोयमस्थानाभि
निवेशिनोऽस्थानगतः पर्यनुयोगः । भेदस्तावत्प्राप्तस्तावन्मात्रेण व्यवहारिपरितोषः । न च
प्राप्तपरितोषा व्यवहारिणः परापरभेदं निश्चेतुं क्षमा येन व्यवच्छेदभेदावधारणया विसम्वाद
सम्वेदनसङ्गमः । तस्माद् व्यवहारिजनप्रीत्याऽविसम्वादोयमुच्यते । न तत्त्वमविसम्वादः
परमार्थविचारणे । उक्तमेतत् (।) सांव्यवहारिकमेव व्यतिरेकविषयं प्रमाणं । प्रामाण्यं
व्यवहारेणे(प्र॰ वा॰१।७)ति वचनात् । यदि प्रमाणेन प्रमाणं प्रतीयतेऽनवस्था । प्रमाण
मन्तरेण प्रतिपत्तौ प्रमेयस्यापीति न प्रमाणाधीनः प्रमेयाधिगमः स्यात् । तत उक्तं ।
यतः तत्रापि विचारणा
तस्मादविचारितसूक्ष्मतत्त्वं व्यवहारमात्रमाश्रित्य सर्व्वत्राविसंवादो न परमार्थतः ।
तथा हि ।
588यदि प्रतीयमानात् प्राप्यं वस्तु भिन्नं कथमन्यप्राप्तौ विसम्वादाभावोऽविसंवादश्च ।
अथाभिन्नं सर्व्वात्मना । तथा सति तदपि तदैव1553 प्रतिपन्नं किमर्थं प्रवर्त्तते । किम्वा
प्राप्स्यति ततो न (ा) विसम्वादः । सोयमितस्तटमितो व्याघ्र इति न्यायः । तस्माद् ।
आस्तां तावदेतत् । किमेवं क्वचिद् दृश्यते । दृश्यत एव । (पार्थोधनुर्धरः) ।
चैत्रो धनुर्धरो नीलं सरोजमिति ।
विशेषणविशेष्यक्रियाणां प्रयोगे । विशेषणावधारणेऽयोग (स्य) व्यवच्छेदः । विशेष्या
वधारणेऽन्ययोगस्य । क्रियावधारणेऽत्यन्तायोग्यस्येति विभागः । कथमप्रयोगे नियमविशेषा
वधारणं । प्रकरणविवक्षाविशेषादिभ्यः ।
ननु यथा पार्थ एव धनुर्धर इति विशेष्यसन्निधाने (ना) ऽवधारणात् । विशेष्यान्तरं
व्यवच्छिनत्ति । तथा विशेषणसन्निधाने विशेषणान्तरमिति प्राप्तं । ततश्चैत्रो धनुर्धर
एवेति सकलगुणान्तरव्यवच्छेदः ।
न चोपपत्तिमदेतत् । न चायोगान्ययोग (व्यवच्छेद) योर्विशेषः ।
सत्यमेतत् ।
तत्र यदि धनुर्धरोयं न वेति धानुर्द्वयं1555
सन्देहप्रकरणे प्रस1556 ज्यते चैत्रो धनुर्धर इति (।)
तदा तस्यैव सन्देहव्यवच्छेदङ्करोतीत्यधानुर्द्वयमेव1557 व्यवच्छिद्यते । अन्यथाऽश्रोतृसंस्कारकं ब्रुवाणः
प्रवक्ता न भवेत् । ततः प्रतियोगिव्यवच्छेद एव गम्यते नान्यः । तथा तत्राप्यन्ययोगव्य
वच्छेदवाक्ये यदि प्रतिनियतः प्रतियोगी प्रकृतः पार्थराधेययोः कः कोदण्डधरः । ततः
कर्ण्ण एव व्यवच्छिद्यते । पार्थ एव धनुर्धर इति न रामादिव्यवच्छेदः । तथा योगव्य
वच्छेदेपि यदि प्रक्रियते किमन्योप्यस्य गुणः संवि द्यते । तद सकलगुणव्यवच्छेद एवाव्यभि
चारिवर्ज्यं । चैत्रो धनुर्धर एव न पण्डितादिः । पार्थविचारेपि यदि किमन्योपि जगति
धनुर्धर इति सन्देहप्रकरणं तदा सर्व्वविशेष्यान्तरव्यवच्छेद एव सर्व्वस्य तदा प्रतियोगित
या प्रक्रमात् ।
तस्य धर्मस्यान्येन योगे प्रसिद्धे तदयोग एवाशंक्यते । ततस्तस्य प्रतिपादनेनान्य
व्यवच्छेद इति नान्वयदोषः । यतः । पक्षस्य धर्म एवायमिति प्रसिद्धेरेवेयमेवा
सद्भूता1558 । अयोगस्य प्रतियोगित्वादन्ययोगस्य च विपर्यात् । सामर्थ्याच्चायमर्थः प्रतीयते ।
नह्यन्ययोगे लब्धे तत्रावधारणं तत्रैव पतति विरोधात् । सन्दिग्धं हि निराक्रियते विधीयते
वा । न सिद्धं प्रतिषिद्धं वा । विवक्षानुरूपश्च प्रतियोगी । तथा शब्दोपीत्येवमेव प्रति
पत्तिः । नहि विवक्षितमन्यथाऽन्यथा शब्दप्रतिपादनसामर्थ्यं । नहि स्वभावतः प्रदीपवत्
प्रतिपादका ध्वनयः इति प्रतिपादितं ।
२. हेतुभेदाः
ननु पार्थस्यैव धनुर्धरत्वमिति विशेषणेनापि सहावधारणमन्ययोगमेव व्यवच्छिनत्ति1559 नायोगमिति प्रकृतविरोधः ।
न विरोधो यतः ।
विशेषणमत्र गुणभावादाश्रितं धर्मभूतमुच्यते । पार्थस्तु धनुर्धरत्वस्याश्रयत्वाद्
विशेष्य एव । अन्यो हि वास्तवो न्यायोन्यः शब्दनय1560 इति । अत्र च प्रकरणाद् वस्तु
धर्मस्य ग्रहणमित्यदोष एव । अत्रावधारणार्थो व्यवच्छेदरूपः प्रत्यक्षतोनुमानाच्च प्रतीयते
विभागेनेति ना प्रतीतिदोषः । अन्ययोगव्यवच्छेदेन हि विशेषण एकस्य तद्भावे ऽन्यस्यातत्त्वं
स्याद् विशेषणविशेष्ययोगिनश्च निपातस्याविशेषः । यदि पक्षस्यैव धर्मः कृतकत्वन्तदाऽन्यत्
सकलमकृतकं भवेत् । अन्यः प्रदेशश्च न धूमवान् । तदेतत् प्रत्यक्षानुमानविरोधि ।
प्रत्यक्षतो हि धूमोऽन्यत्र प्रतिपन्नः । अनुमानतः प्रत्ययभेदभेदित्वादेः । प्रत्यक्षाद्वा प्रतिपन्नं
कृतकत्वं लोकप्रतीत्या चानुमानलक्षणया विशेषणादिसहचरितावधारणार्थनिपातस्य तद
र्थस्य चायोगव्यवच्छेदादेर्व्वाच्यवाचकभावस्यान्यस्य वा प्रतीतिरिति कस्तत्रान्यथाभावः ।
तदेतत्पक्षधर्म इति समासार्थव्याख्यानं । भेदः संसर्गो भेदसंसर्गौ वा समासवाक्यार्थ इति
विभागेन प्रतीतेः । भवतु पक्षस्य धर्मः स तु नवधा किमित्याचार्ये (ण) निर्द्दिष्टः । असिद्ध
विरुद्धानै कान्तिकसम्यग्घेतुप्रतिपादनार्थं हि तावन्त एव निर्द्देश्या न नवभिः प्रयोजनमित्याह ।
नवानामप्युपयोगोस्तीति नवधानिर्द्देशः । स्वभावकार्ययोस्तादात्म्यतदुत्पत्तिप्रतिबन्धा
द्धेतुता नान्येषामिति द्वयस्य निर्द्देशः । तयोरेव च विपर्ययसाधने विरुद्धतेत्यपरं द्वयं । दर्शना
दर्शनमात्रकादनैकान्तिकस्यापि परैरैकान्तिकत्वं प्रतिपादितमिति तद्व्यवच्छेदार्थमपरं द्वयं ।
शेषाणान्तु त्रयाणान्निर्देशो व्यावृत्तिप्राधान्यप्रदर्शनार्थं व्यावृत्तिद्वारेण हेतुर्गमकः । ततोऽनुमानेन
व्यवच्छेद एव साध्य इत्यर्थः प्रदर्शितः ।
(१) नव पक्षधर्माः
तत्र ते नव पक्षधर्माः ।
ननु कृतकत्वप्रयत्नानन्तरीयकत्वयोरेकत्वादावृत्तावप्यनेकता कथं । हेतुता विरुद्धता
च । कथञ्च नवत्वं न हि स एवावर्त्तमानः संख्याभेदस्याश्रयः ।
अत्रोच्यते । यस्मात् ।
तस्मात् सर्व्वमुपपन्नं ।
न खलु साधनं नाम स्वरूपेण किञ्चित् । साध्यापेक्षया साधनत्वलाभात् । साध्ये
च भेदसंस्पर्शिनि स एवैकः सम्यग्धेतुर्व्विरुद्धश्चेति न किञ्चदुपपन्नं1561 । तेन द्वौ हेतू । अनित्त्यः
कृतकत्वादिति स्वभावहेतुः । प्रयत्नानन्तरीयकत्वादिति च कार्यं । कथमिदं व्यज्ञायि स्वभाव
हेतुः कृतकत्वं । कार्यहेतुः प्रयत्नानन्तरीयकत्वं । विपर्ययः कस्मान्न भवति । तल्लक्षण
योगात् । अन्यलक्षणाभावात्तु न विपर्ययः ।
समानव्याप्तिकत्वात् कृतकत्वस्य । न च समानव्याप्तिकं कार्यं । कारणे व्यभिचा
रात् कार्यस्य । नावश्यं कारणानि तद्वन्ति भवन्तीति । ततः सकलं कार्यं द्बिधावृत्ति द्विधावृत्ति
च प्रयत्नान तरीयकत्वं । ततः कार्यहेतुः । न ह्यनित्या इत्येव प्रयत्नानन्तरभावि ज्ञानकार्या
रम्भिणः । तेन तत्सपक्षे द्विधा वर्त्तते । हेत्वन्तरज्ञानकार्यारम्भिणस्तु सर्व्वत्र एवानित्याः ।
तेन व्यापित्वात् कार्यमपि ज्ञानं स्वभावहेतुरेव वस्तुतः । तथा चोपलम्भ एव सत्तोच्यते ।
न च प्रयत्नानन्तरीयकज्ञानलक्षण सत्ता । तदन्येषामसत्त्वप्रसङ्गात् । ततस्तुज्ञानमन्वय
व्यतिरेकभावोपकल्पितभेदं कार्यकोटिविटङ्कमारोहति । ततः कार्यहेतुस्तत् ज्ञानं प्रयत्ना
नन्तरीयकशब्दव्यपदेश्यं ।
कथं पुनर्गम्यते प्रयत्नान्तरं ज्ञानमनित्त्यकार्यमिति । तथा चाह । प्रयत्नकार्या
नेकत्वात् कार्यसमः । व्यक्तिरपि प्रयत्नकार्याभावोपि । तद्यथा प्रदीपसन्निधापनप्रयत्नो न
घटस्य कार्यतामुपपादयति । चक्रादिभ्रमणप्रयत्नस्तु तथेत्युभयथा दर्शनात् कथमेकान्तः ।
तथा चाह भाष्यकारः1562 । यदि नित्यं शब्दमुपपादयिष्यामस्तदा व्यज्यते शब्दोऽथान्यथा
तदा क्रियत इति । न च शब्दं करोतीति करणव्यवहारात् क्रियते शब्द इति प्रतीमः (।)
प्रयोगार्थत्वात् करोतेः । यथा पादौ मे कुरु पृष्ठम्वेति1563 । प्रत्यभिज्ञा च शब्दनित्यत्वे
हेतुः । ततो नित्यस्य सतो व्यक्तिरेव घटवच्छव्दस्यापि प्रदीपतः ।
अत्रोच्यते ।
यथा खलु प्रयत्नानन्तरभावी घटः प्रयत्नकार्यो न कुलालप्रयत्नव्यङ्ग्यः । सकलका
रकग्रामस्य व्यर्थताप्रसङ्गात् (।) सर्व्वं सर्व्वस्यास्तीति न केनचित् किञ्चिदीहितव्यमित्य
नीहितं जगत् स्यात् । नियमः कारकैः क्रियतेऽन्यथाऽसमञ्जसाभाव इति । कोयन्नियमो
नाम । यतः ।
अपि चास्त्येव नियमः सर्व्व (ः) सत्कार्यवादिनः ।
अथाप्यस्य विभागेन सतो1565 व्यक्तिर्व्विधीयते ।
तस्मात् प्रयत्नानन्तरभावी कुलालादिकार्यो घटो1568 न व्यङ्ग्यः । यथा1569 तर्हि प्रदीप
व्यङ्ग्यः स एव कालान्तरोपलब्धः तथा प्रयत्नव्यङ्ग्यः शब्दोपि भविष्यति । न(।) घटस्य
प्राक् प्रमाणसद्भावात् । शब्दस्य तु प्रयत्नात् प्राक् प्रमाणाभावः । सत्त्वे प्रत्यभिज्ञातोऽत्रापि
सत्त्वं प्रागिति चेत् । न ।
(2) प्रत्यभिज्ञानिरासः
प्रत्यभिज्ञाप्रत्ययस्य शतशो निराशा (? सा)त् । न हि निरस्तं पुनरायाति । न मृतः
प्रत्युज्जीवति ।
अपि च । प्रत्यभिज्ञा किं ज्ञातं साधयति सत्त्वमथ ज्ञातयोर्मध्यभावि । यदि ज्ञातं
साधयति तदिदानीं ज्ञानेनैव प्राक्तनेन साधित स्मरणेन व्यवहृतं कस्तत्र प्रत्यभिज्ञाया उपयोगः ।
प्रत्यभिज्ञयेदानीमपि तदस्तीति साध्यते । स्मरणन्तु तत्कालमेव साधयति । यथा दृष्टस्य
स्मरणात ।
तदसद्यतः ।
नहि स्मर्यमाणेर्थे प्रवर्त्तनमक्षाणामन्यथा कान्यकुब्जादीनामपि प्रत्यक्षता भवेत् ।
ततो मृतानामपि प्रत्यक्षताप्रसङ्गः ।
अथ दृश्यमानतायामक्षवृत्तिर्दृश्यमानेपि किं प्रत्यभिज्ञया । स्मर्यमाणेन सहैकत्वप्रतीतिः
प्रयोजनमिति चेत् ।
तदसत् ।
592सितपीतावभासमात्रकं हि न नित्त्यरूपावभासनं । प्रथमावभासनेपि तस्य भावात् ।
अथ तत्रापि नित्त्यता कालान्तरस्थायिता लक्षण प्रतिभासत एव । न हि तस्या निषेधकं प्रत्यक्षम ।
आहुर्व्विधातृप्रत्यक्षं न निषेधार्थ1570 वस्तुनः ।
तस्मात् स्मरणेन पूर्व्वकालावलम्बनं नाध्यक्षतः । ततः स्मरणस्याप्रमाणत्वात् तत्प्रतीत
वस्त्वेकताऽसत्त्या । धर्मिणोऽसत्त्यत्वेऽसत्त्यत्वाद् धर्मस्य । अथ ।
द्वयोः सत्त्यासत्त्यतायां तदेकतापि सत्त्यासत्त्यैव युक्ता नासत्त्यैव । तदपि यत्कि
ञ्चित् । यतः ।
वर्त्तमानरूपस्य सत्त्यत्वात् तद्गतैकत्वमपि सत्त्यं धर्मिरूपानुवृत्तेः (ः) स्मर्यमाणैकता
तु तत एवासत्त्येति प्राप्तमतो वस्तुन एकता न सिध्यति ।
एकैकता1571 कथन्नाम सत्त्या चेत् प्रत्ययो1572 न किम् ।
तदयं प्रत्यभिज्ञाप्रत्ययो भिन्नान्निवर्त्तमानोऽभिन्ने व्यवतिष्ठते । एतावदेव वस्तु यदुत
भिन्नमभिन्नञ्च । ततो भिन्नाद् व्यावर्त्तमानमभेदं साधयति । अन्यथा न स्यादेव ।
न खलु सर्व्वतो व्यावर्त्तितुं शक्यं । तदेतसत् । यतः ।
प्रत्यभिज्ञाप्रत्ययोदयमात्रेण वरं भेदविशेष एवासाविति कल्पनं नत्वभेदस्य भेदविजा
तीयस्यादृष्टश्चायं प्रत्यभिज्ञोदयः । समानाकारपरामर्शविधायिषु लूनपुनःप्रसूतदर्भार्भ
कादिषु । ततः परत्रापि तथा कल्पनमेव न्याय्यं । तत्र लूनतोपलभ्यते मध्यमध्यासीना ।
तेन न तत्र1575
भेदेप्यभेदकल्पना । न पुनरत्र तथेति विषमः खलु केशपाशोपन्यासः । तदेत
त्सत्त्यमेव पततः काशकुशावलम्बनं स्थवीयसः सम्पन्नं । तथा हि ।
असंघटितदृष्टिश्च समा दार्ष्टान्तिकेतरे ।
अपरस्त्रुटयतायामपि मृत (ः) प्रत्यभिज्ञानमास्थितः । सोपि दुरात्मात्मनैवात्मा
नमाहन्ति ।
593
अपि च ।
विनष्टमक्षस्य न गोचरः क्वचित्ततः स्मृतेरेव स गोचरे चरेत ।
अतः प्रकाशं1577 स्मृतिरर्थसंग्रहे न वस्त्विदानीं यदि नाम साधयेत् ।
तया सहैकत्वविनिश्चयो दृढ़ः कथं प्रमाणादपरो भविष्यति ।
अविचलितनिश्चयप्रत्ययप्रत्ययप्रोत्साह्यमानमानसोपि यदि निश्चयमेव पराकुर्यात् ।
तदा(ा)न्यद् वचसि, अन्यदस्य मनसि स्यात् ।
अतिविषमं स्थानं दूरमारूढस्य प्रत्यासन्नतरः पातः ।
तथाहि ।
अनुभूतार्थविषया स्मृतिश्चेन्नष्टता कथं ।
यद्यनुभूतार्थविषयता स्मृतेः स्वरूपन्नातीतस्मरणं स्यात् । नातीता प्रत्यक्षतोऽवगता ।
अथानवगतमेव स्मृत्यावधार्यते । तथा सति न स्मृतिः हि स्मृतिरपूर्व्वार्थविषया भवतु ।
तथापि न प्रत्यभिज्ञानं । प्रत्यक्षदृष्टवस्तुविषयं हि प्रत्यभिज्ञानमिष्यते । अन्यथा प्रमाण
ताऽभावः । तदेवातीतं सत्पूर्व्वमुच्यत इति चेत् । तदपि परस्परविरोधि ।
यदि दाढर्यं निश्चयस्य विनाप्यक्षसम्बन्धं प्रमाणमेव । तदेतद् दुरात्मनो विचारा
क्षमस्याक्षा(ि)न्तमात्रकं (।) तथा हि ।
न स्याद् यदि तदेकत्वं किन्ततोर्थक्रिया न सा ।
अपरेणापि दहने नार्थक्रिया सम्पाद्यत एव । तदर्थक्रियाकरणादेकत्वं तु तदकारि
व्यावृत्तिलक्षणं साम्वृतमिष्यते एव एकमिति हि व्यपदेशविकल्पास्तदर्थसामर्थ्यमात्रेण
समञ्जसजातय । न खल्वर्थक्रियाविरहितार्थविषया व्यपदेशनिश्चयाः प्रेक्षावद्भिराद्रियन्ते ।
ततस्तदर्थक्रियाकारितयैकत्वं प्रत्यभिज्ञानविषयः । ततोनुमानं न (?) तद्रूपलिङ्गं । रूप
स्यानेकता तदन्यकल्पितधर्मयोगादिति । न प्रत्यभिज्ञा तत्त्वत एकत्वे प्रमाणं । घटादिषु
तर्हि तदर्थक्रियाकरणप्रवणेषु कस्मान्न प्रत्यभिज्ञा । स एवायं घट इति तत्समान इति
प्रत्यय एव प्रत्यभिज्ञा । अपि च । स एवायं घट आनीतस्तदेवेदं शीतमुदकमिति ।
तथा हि ।
यदा घटादन्यः पिठरिकादिक 1578 आनेयत्वेन विवक्षितस्तदान्यमानयेत्युक्तौ यदा तद्घट
व्यक्तेर्व्यक्त्यन्तरानयनं तदा स एवायं घट आनीत इति व्यवहारदर्शनं ।
अत्यन्तरूढत्वात्तु व्यवहारस्यानादिवासनासङ्गतेर्न भाक्तभावाभिमानः ।
यद्यन्यः कथमन्यत्र विश्वासस्य प्रवर्त्तनं ।
समानसंस्कारसम्भावनामव्यभिचारिणीमवलम्ब्य विश्वासो यथा तत्पुत्रादौ1579 । तथा
तदुपादानसन्तानेपि ।
(३) आत्मनित्त्यत्वनिरासः
अथ क्षणिकत्व कथं प्रतिदानेच्छा एकत्वे (पुनः) सुतरामेव न घटते । तथा हि ।
अथ तत्सन्निधेरस्य तद्ग्रस्तस्यात्मनो गतिः ।
क्षणप्रबन्धेपि स एव विभ्रमः किमस्य नैतद् व्यवहारकारणं ।
आत्मानं नित्त्यमभ्युपगच्छतोपि न कार्यकारणभावकृताभिमानतो युक्तिः1581 । तथा
ह्यात्ना/?/ नैकस्वभावतायाः पौर्व्वापर्येण प्रच्यवते । ततस्तस्य भयलज्जादिविकारसम्भवात्
कथम्भयादितो भयं । अथ तस्य भयमुत्पद्यते । तद्योगाद् भीतः । ना1582 स्वरूपेणाभीततया
तस्य काचित् पीडा । कार्यकार(ण)भावमात्रमेव केवलं । तथा व्यवहारहेतुः । न च
व्यवहारमात्रेण पीडा पीडा भवति । पु्त्रपीडया व्यतिरिक्तयापि सम्बन्धात् पीडित एवेति
चेत् । न । स्वगतास्यापरा पीडेति (तेन) पीडितः । अन्यथा शत्रुपीडयापि पीडितः
स्यात्तेनाप्युपघात्यो1583
पघातकलक्षणोऽस्यास्त्येव सम्बन्धः ।
पुत्रोपि यदि शत्रुः स्यान्न तत्पीडाकृता क्षतिः ।
ततः क्षणिकतैवेति न सन्ता (ना)द् विशिष्यते ।
सन्तानमात्रकेण हि सकलः स एवायमिति व्यवहारः । तेन शब्दस्य न नित्त्यता ततः
कथं प्रयत्नानन्तरमस्य व्यक्तिः । उत्पत्तेरेव तु प्रमाणविषयस्तल्लक्षणयोगात् ।
न खलु व्यञ्जकाल्पमहत्त्वेन भिद्यते व्यङ्ग्यम् । अथ प्रदीपाभि1586 व्यक्तं नीलोत्पलं
रक्तं दृश्यते । चन्द्रातपाभिव्यक्तं पीतं सितं । खड्गभिव्यक्तं वदनं गौरमपि श्याममित्ये
वमादि ।
तदप्यसत् । यतः ।
व्यञ्जकेन हि तद्रूपं1587
हापयता स्वरूप1588 विपरीतं प्रकाशयितव्यम् । तत्तु तस्य रूप
मविद्यमानं कथं प्रकाशयितुं शक्यम् (।) अन्यथा शशविषाणादिनामपि प्रकाशनं भवेत् ।
तदपि विपरीताख्यातितः1589 प्रकाशत एवेति चेत् । दत्तमत्रोत्ररं ।
अथ भ्रान्तिरसौ तेनायमदोष इति चेत् ।
तदसत् । यतः ।
व्यञ्जकं जनकं भ्रान्तेर्यदि तद् व्यञ्जकं कथं ।
अन्यथा तिमिरादीनामपि स्याद् व्यञ्जकात्मता ।
(४) स्फोटनिरासः
यद्यपि नामाल्यमहत्त्वादिको ध्वनिसंसर्गाच्छब्दस्य भेदस्तथाप्यसौ भ्रान्तिकृत एव न
तत्त्वतः । भ्रान्तावपि शब्दस्यापरं तत्त्वं प्रतिभासत एव स्फोटात्मनः । तदपि प्रत्युच्यते ।
भ्रान्तावपि यदि भ्रान्तिर्भ्रान्तिरेव विशीर्यते ।
नहि विभ्रमावभासिरूपादपरसत्त्यशब्दरूपसद्भावे1590
भेदेनानवभासनमुपपत्तिमत् ।
भ्रान्त्या न भेदोवभासत इति चेत् । भेदोपि भ्रान्तरूपादपरं शब्दस्य रूपं ततस्तस्य भेदेनाव
भासनप्रसङ्गे पुनर्भ्रान्तिरेवोपक्षेप्तव्या पुनस्तद्रूपभेद इत्यनवस्थानादप्रतिपत्तिरेव सत्त्यशब्दात्मनः ।
भ्रान्तावपि न भ्रान्तौ सत्त्यरूपमेव शब्दस्य केवलमवस्थितं । ततस्तदेव प्रतिभासेतेति न
भ्रान्तिर्न्नाम भवेत् ।
596
तस्मात् तत्त्वावभासित्वे न भ्रान्तिर्न्नाम विद्यते ।
ननु शब्दमात्रजनितार्थप्रतिपत्तिलक्षणार्थक्रिया विद्यते । न तु महत्त्वादिकृतः
कश्चिदर्थप्रत्ययभेदः । ततोर्थक्रियाकारितया स्फोटमात्रमेव सत्त्यमितरदसत्त्यं । विपर्ययात्(।)
तदप्यसत्त्यं । यतः ।
सभागवासनासमागमादेवार्थप्रत्ययः तदर्थाकारविकल्परूप उपजायते । शब्दस्तु तत्र
सहकारी । वासनाप्रबोद्वारेण पारम्पर्येण जनकस्ततोस्य न भेदकता । शब्दस्य तु साक्षा
दर्थक्रिया तज्ज्ञानजननं तच्च दूरादूरभेदेन स्फुटास्फुटतयोद्वेगानुद्वेगसहभावितया भिद्यत एव ।
तत्कथन्न भेदः स्वार्थक्रियाकारी । तथा च वस्त्वेव भेदो न भ्रान्तिमात्रकं । यदि
च नित्यः शब्दः स्यात् प्रयत्नानन्तरं ज्ञानं नियमेन न स्यात् । प्रागप्यर्थं कस्मान्न प्रतिपाद
यति । श्रुतस्य प्रतिपादनसामर्थ्यादन्यथाऽप्रतिपादनञ्चेत् ।
ननु श्रुत एवं संकेतकाले सोद्यापि अनुवर्त्तते । ततः प्रतीतिरेव भवेत् । न पश्चात्
नप्रयत्नात् प्रागप्रतीतिः । तदा व्यञ्जकाभावान्नेति चेत् । समानकालव्यक्तिकारी हि व्यञ्जकः ।
तदेतदसत् । यतः ।
यथा समानकालस्य व्यञ्जको व्यञ्जको भवेत् ।
तथा कालान्तरस्थायी स तेन व्यज्यते यदि ।
नहि व्यञ्जकमविपरीतरूपाव्यक्तौ व्यञ्जकं भवति । न च कालान्तरस्थायिरूप
व्यक्तौ1593
कालान्तरे व्यञ्जकेन किञ्चित् कृतं1594 । अव्यक्तस्य व्यञ्जकापेक्षाऽन्यथा तदाप्यपर
व्यञ्जकं पुनरपरमिति व्यक्तिरेव न स्यादनवस्था दुःस्थिता1595 । यदपि1596
पश्चात्तनज्ञानात्
प्राक्(अपि) अनुपलम्भनं । तदप्ययुक्तप्रयत्नात् प्राक् सतः प्रयत्नानन्तरं यद्रूपं तत्र नियमेन
ज्ञानायोगात् । नहि प्रागपि तदेव रूपं तस्मिन्नेवोपलभ्यमानेऽनुपलब्धं युक्तं । तस्य च
प्राग्भाविनः प्रयत्नस्य तत्र सर्व्वथानुपयोगात् । परेणैव सर्व्वात्मना व्यक्तत्वात् । स्वकाल
सङ्गतमेव रूपं व्यनक्तीति चेत् । किम्वैतदन्येनान्यस्य व्यवच्छेदः । पूर्व्वापरज्ञानैकत्वे
प्रयत्नभेदो(पि) न विभेदकः । अनेकत्वे ज्ञानकालाद् भिद्यते ज्ञेयमपि ।
अथावरणाभावो यदा तदोपलब्धिर्न्न विद्यमानस्याप्यावरणतिरस्कृतत्वात् ।
597
सतामप्यावरणभावेऽनुपलम्भात् तदभावे पुनरुपलम्भादन्वयव्यतिरेकाभ्यामावरण(ा)
भावकृत उपलम्भव्याघातः । नत्वावरणे स्वयमेव न भवति । विकारो वा परः प्रत्यक्षेणोप
लम्भात् तदवस्थस्यैव ।
तदेतदनालोचितपरापरस्य परस्य वचनं । यतः ।
न ह्यावरणव्यवहितानुपलम्भे तदैव प्रत्यक्षत उपलम्भोऽविकृतस्य । पश्चादुपलम्भो
निरावरणस्येति चेत् । तदैव भावो (ऽ) विकृतिर्व्वा स्यान्मध्यभावस्तु प्रत्यभिज्ञया परोक्षः
प्रतीयते । तथा चानुमानं यतः । इदानीमविकृतं तस्मात् प्रागपीत्यनुमानलक्षणयोगात् ।
तत्र च प्रत्यक्षाभावे कथन्तदनुमानं प्रत्यक्षपूर्व्वकं । सर्व्वत्र च पूर्व्वापरभावः प्रत्यभिज्ञा
प्रमाण(क)एव । अनुमानपूर्व्वकतायामनुमानस्य तदप्यनुमानमनुमानादेवेत्यपर्यवसानादन्ध
परंपरा । परेण प्रत्यक्षतः प्रतीयते तेन प्रत्यक्षपूर्व्वकतेति चेत् । तत्रापि न प्रत्यक्षता (।)
नहि परेण प्रत्यक्षतः प्रतिपन्नमिति परस्य प्रतीतिः । अथासौ कथयेत् । न । वचनस्य
प्रामाण्याभावात् । सत्त्यवादित्वञ्च नात्मनोपि प्रतिपत्तुं समर्थः परः । यदनेन प्रतिपन्नं
तदेव मया प्रतिपन्नमिति । नहि परप्रतिपस्या/?/ मिश्रितं प्रतीयमानं तथा प्रत्येतुं शक्यं ।
तदेवेदमिति । तत इतरेतराश्रयदोषः । परस्परकथनेनैकताप्रतिपत्तेः ।
अथानुमानेन प्रतीतिस्तथा भूविकारदर्शनात् । तेनापि स एव प्रतिपन्न इति ।
तथाभूततैव तर्हि सिध्यति नैकतेति नेदं युक्तिमत् ।
न खल्वनुमानं स्वलक्षणविषयं । नहि धूमादग्निः स एव सिध्यति । यदि रोमांच
सम्भवादिना समानव्यवहारेणैकता सुखादीनामात्मनश्च न किम् । अथ सुखादीनां परस्पर
व्यावृततया प्रतीतेर्न्नैकता । तथा सति प्रतीयमानयोरपि स्वपराभ्याममिश्रितप्रतीतेर्भेद1597
एव युक्तः(।) समानदेशतापि तत्प्रतीत्यभावेन प्रतीयत एव । नहि भावस्वभावादपरो
देशः । तस्मात्सतामप्यावरणसद्भावेनोपलम्भ इति न सिद्धमेतत् ।
(५) सूक्ष्मेक्षिकार्थं शास्त्रारम्भः—
ननु प्रतीतिरस्ति तदेव परप्रतिपन्नं मया प्रतिपन्नमिति । न च बाधकमस्ति । न
चात्र सूक्ष्मेक्षिकया बाधकमानेयं । यतः ।
नहि सूक्ष्मेक्षिकया निरूप्यमाणं किञ्चिदवस्थापनामर्हति ।
तदसतथा हि ।
सूक्ष्मेक्षिका लोकव्यवहारबाधनी नावतारयितव्येति प्रमाणनिरपेक्षणैव व्यवहर्त्तव्यमिति
स्यात् । तथा च व्यर्थकः शास्त्रारम्भः । नहि स्थूलबुद्धिव्यवहारसंबर्द्धनार्थं शास्त्र
व्यापारः । शास्त्र मोहनिवर्त्तमिति सर्व्वाभ्युपगमात् ।
अन्धपरंपरयैव कार्यकारणभावरूपो व्यवहारो व्यवहारिणामनुपरत एव । अत
एवास्य भावनिरूपणेन1599 निवर्त्तनं निर्व्वाणमार्गाभनिविष्टैः ।
नहि सम्वृतिमात्रत्वात् संसारः पर ईक्ष्यते । तत्त्वमेवे च निर्व्वाणमेवं सत्यवतिष्ठतो1600 (।।) ४५६ ।।
तत्त्वं हि निरूप्यमाणं सकलमद्वैतीभवति अतन्निरूपेण1601 तु तदेव प्रपञ्चरूपमतत्त्वं
संसारः । ततो विनिरूपणात्1602 संसारोच्छेद इष्ट एवापतित इति कथं ह्यपव्रज्या1603
या
वर्त्तनतत्त्वदृष्टिस्तावत् व्यवहारो न बाध्यत एव । तस्मादिष्टमेवापतितमयमेव तु विद्वज्जन
व्यवहारः । तत्र शनैः शनैरविद्यापनयार्थमनित्यत्त्वं तावत् प्रसाध्यते यत्र विपर्यस्तो लोकः ।
तस्माद् यद् यदा दृश्यते तदा तत् पूर्व्वापरकालव्यवच्छेदेन ग्रहणात् । यद् यथा दृश्यते तथा
तदित्यवगन्तव्यमन्यथा पदार्थव्यवस्थाभाव एव स्यात् ।
अत्र परः प्राह । यदि नामासन्निहितं पूर्व्वापरं रूपं मध्यग्रहणेऽनुपलब्धिलक्षणप्राप्तं
न गृह्यते (सन्निहित) प्रत्यक्षेण । तथापि नानुपलम्भमात्रादभावः । कालान्तरें तद्
उपलब्धिलक्षणप्राप्तं । तदा चोपलभ्यत एव । तथा हि ।
तथा ।
तदप्यनालोचनं यतः ।
नहि कालो नामापरो येन तदभावात्तत्रस्थरूपाभावे तदानुपलम्भः । तदेव रूपं पूर्व्वा
परभावेनोपलभ्यमानं कालाख्यां लभ्य(? भ)ते । तथा हि । एष कालो वर्त्ततेऽस्माकमिति1604 ।
शीतपीडितावस्था शीतकालो नान्यः ।
तस्मिंस्तिष्ठति कालाभावासिद्धेः । अन्यत्वे वा कालस्यापि नित्यत्वात् सोप्युपलभ्यत
एव पूर्व्व(ा)परादिरूपः । अथ क्षणलवादयः कलावयवास्तदा कालः क्षणिक एव प्राप्तः ।
कालत्वन्नाम सामान्यं नित्यमिति चेत् । न । कालस्य द्रव्यपदार्थत्वात् तदापि1606
वा पूर्व्वा-
599
परभावस्योपलब्धेः सार्व्वकालिवयेवोपलब्धिः । अथ कालावयवानामनुपलम्भात् अनुपलब्धिः ।
तदेतदप्यसत् । यतः ।
एतेनातीतसहचारिपदार्थोपधानं प्रत्युक्तं ।
न च पूर्व्वापरभाविक्षणव्यङ्ग्यङ् कालत्वं युक्तं । तस्माद् यदि शब्दः प्रयत्नानन्तर
मुपलभ्यः पूर्व्वव्यवस्थितरूपेणाप्युपलभ्येत । परेणापीतित्येकान्त एषः । ततश्च तस्यापि
पूर्व्वापरस्य रूपस्य तदैवोपलम्भात् अपरः स्वभावो नास्तीति क्षणि (क) तैव । तस्य च घटादि
क्षणस्य सर्व्वात्मनोपलम्भादावरणमकिञ्चित्करत्वादयुक्तम् । अथाक्षोपकारी प्रयत्नः तदापि
सर्व्वात्मनोपलब्धौ पूर्व्वरूपोपलब्धिरित नाक्षोपकारः प्रतिनियतरूपोपलम्भकारी । ततो
नियमेनान तररूपेणोपलब्धिरिति नास्त्येतत् । दृश्यते चानन्तरमेव । ततस्तावन्मात्रतैव तस्य
न नित्येऽक्षोपकारः । तथा हि ।
नहि नित्यत्वमन्यच्छक्यमुपलब्धुं ।
ननु यदि नाम नोपलभ्यते तथापि कथमनित्यताभावः1608 । अनुपलम्भएवासत्तो
पलब्धिलक्षणस्य । न च तद्रूपमनुलब्धिलक्षणं ।
अत एवोपलम्भ एव सत्ता तदभावे कथं सत्तेति न नित्यतासम्भवः । शब्दोपकार
पक्षे तु सैवानित्यता । अत एव ।
यद्यसौ शब्दोन्यो वा कालान्तरव्यापी तदा तथैवोपलभ्येत । कदाचिदुपलम्भः कार्यन्न
स्यात् । नहि तस्य कादिचित्कं रूपं न चान्यथोपलम्भः तद्रूपग्रहणं । अथ भ्रान्तिरसौ न
खल्वर्वाग्दर्शनो व्यापिरूपमुपलब्धुं समर्थः । न च तदसामर्थ्ये ग्राह्यमन्यथा भवति भ्रान्तिरपि
च । तदविसम्वादात् प्रमाणं ।
ननु भ्रान्तिरभ्रान्तदर्शनेन बाध्यते । तदा चासौ भ्रान्तिरिति शक्यमवसातुं । न ।
प्रत्यभिज्ञाप्रत्ययेन कालदेशव्यापिरूपसाधकेन विनिवर्त्तनात् ।
तदेतदसत् ।
नहि प्रत्यभिज्ञाप्रत्ययः प्रत्यक्षं प्रमाणं (।) प्रत्यक्षमव्यापिरूपग्राह्यमिन्द्रियव्यापाराद
विसम्वादसम्भवाच्च । ततः प्रत्यक्षणैव प्रत्यभिज्ञाबाधनमिति प्रागेवोपपादितं । अपि च ।
खण्डशो ग्रहणं व्याप्तावपि स्याद्यदि वस्तुनः ।
यदि वस्त्वेकमपि1609 नानारूपकालदेशसम्बन्धितया व्याप्यन्यथा परिगृह्यत इति सम्भवः ।
एकमेव सकलं वस्तु स्याद्वस्तु वस्त्विति सर्व्वस्य प्रत्यभिज्ञानात् । एकत्वे घटादिभेदो न स्यादिति
चेत् । शब्दस्यापि तर्हि अल्पमहत्त्वादिभेदो न स्यादुदात्तादिभेदश्चेति समानं । उदात्तादिभेदेपि
शब्द इति व्यवहारादेकत्वमपि चेत् । घटादिभेदेपि वस्तु वस्त्विति किन्न व्यवहारः । एकत्वा
नेकत्वमस्त्विति चेत् । एकत्वासत्त्यत्वमेव तर्हि प्राप्तं । तथा हि ।
यदा हि प्रत्यभिज्ञानमप्रमाणन्तदैकत्वं प्रत्यभिज्ञासाध्यमसत्त्यमिति भेद एव सत्त्यः
परिशिष्यते ।
तस्मादभिन्नस्य न भिन्नरूपं ग्राह्यं प्रमाणं क्वचिदस्ति सत्त्यं ।
भेदे हि सत्ये सति तदभेदः कल्पनाशिल्पोपरचित एव प्रत्यवमर्शनमात्रसाधनः ।
भेदेत्वसत्त्ये कस्यासावभेदः । न चाभेदमात्रेण व्यवहारः । तस्माद् भेदेन धर्मिणाभवितव्यं
यस्य धर्मोऽभेदः । नहि धर्मिणोऽसत्त्यत्वे तदभेदस्तथा भवति । न हि शशविषाणासत्त्यत्वे
(त)त्तैक्ष्ण्यं सत्त्यत्वं1610 ।
ननु भेदोप्यभेदधर्मिण्यसति कस्य प्रतीयताम् । तदसत् यतः ।
अभेदस्तु भेदप्रत्याख्यानेन भवति तस्य धर्मरूपत्वात् सामान्यधर्मवत् । तस्मात् ।
यदि नान्यः1611
पदार्थात्मा(ऽ)त्रुट्यत्स्वभावः सर्व्वदा तदा ज्ञानमपि तथैव कार्यम्भवेत् ।
यत्तु कदाचित् कार्याकरणं1612 विच्छेदरूपन्तन्न स्यात् । नहि तद्रूपे गृह्यमाणे तद्रुपमेव परापेक्ष1613
ग्रहणन्तस्याप्यग्रहणप्रसङ्गात् । तस्मात्तज्ज्ञानमीदृशं । विच्छिन्नरूपन्तद्रूपस्यैव कादाचित्कस्य
फलमिति सिद्धं । ततः कार्याद् अनित्यताप्रतीतिः ।
(६) कार्यस्वभावहेत्वोनिर्देशस्य फलम्—
ननु स्वभावकार्यसिद्ध्यर्थं द्वौ हेतू निर्द्दिष्टावुदाहरणद्वयेनेत्ययुक्तं । प्रयत्नानन्तरीय
कत्वादित्ययमेव कार्यहेतुः स्वभावहेतुश्चेतु शक्यमुपदर्शयितुं । स्वभावहेतुत्वावदयमित्येक
वाक्यतैवात्र वादिनां । कार्यहेतुस्तु ज्ञानं लिङ्गमितोदानीमेव प्रतिपादितं । तत एकेनैव
तन्त्रेण द्वयन्निर्द्दिष्टमिति व्यर्थकः कृतकत्वादिति निर्द्देशः ।
सत्त्यमेतत् तथापि ।
601
कार्येण हि सह निर्द्देशे तत्साहचर्यात् ईदृश एव सर्व्वः स्वभावहेतुः । सपक्षैकदेश
वृत्तिरेव स्वभावहेतुरपि स्यादाशंका तद्व्यावृत्यर्थमपरप्रकारोपि स्वभावहेतुरस्ति यः सपक्ष
व्यापीति कृतकत्वादित्यस्य पृथग् निर्द्देशः ।
ननु ।
तत्र यः सन् सजातीये द्विधा1615 चासँस्तदत्यये ।
स हेतुर्व्विपरीतोस्माद् विरुद्धोन्यस्त्वनिश्चित ।। ४७१ ।। इति
किमर्थं पृथग्वचनं । अत्रोच्यते ।
पृथग्वचने हि तदेव परिस्फुटं भवति । तत्र यः सन् सजातीये द्विधा च । यथा ऽनित्यः
शब्दः कृतकत्वात् प्रयत्नानन्तरीयकत्वाच्चेति । अन्यथा द्वयस्याप्रदर्शने द्विधा चेत्येतदेव
सम्भवति लक्षणं (।) सन्नेव सजातीय इत्येतत्तूदाहरणाभावादसम्भवि लक्षणं भवेत् ।
ननु विपक्षाद् व्यावृत्तो भवतु तावता सर्व्वसङ्ग्रह इति नाशङ्का युक्ता ।
सत्त्यमेतत् तथापि व्युत्पत्यर्थं तस्यैवायं स्वार्थानुमानलक्षणस्योदाहरणप्रपञ्चः । तदेव
तु लक्षणं यत्स्वार्थानुमाने ।
ननु त्रितयं तर्हि दर्शनीयं कार्यहेतुः स्वभावहेतुस्तादृशः सपक्षव्यापी चेत् । तथा च
ध्युत्पादनम्भवेत् ।
न चोद्यमेतत् । यतः ।
तेनात्र कार्यलिङ्गेन स्वभावोप्येकदेशभाक् ।
उक्तः ।
यतो व्युत्पत्यर्थः प्रभेदनिर्द्देशः तेनानेनैव कार्यलिङ्गेन स्वभावोप्येकदेशभाक् प्रतिपादित
आचार्येण । सदृशमुदाहरणमत एव । अन्यथाऽग्निरत्र धूमादिति परिस्फुटमेव कार्यहेतुं
कस्मान्नोदाहरति । किं यत्नप्रतिपाद्यकार्यहेतुत्वेन प्रयत्नानन्तरीयकत्वोदाहरणेन । तस्मात्
प्रयत्नाद् व्यक्तिजन्मनः कार्यस्वभावलक्षणस्य सदृशमुदाहरणमभ्यधायि । ज्ञानमपि हि प्रयत्ना
नन्तरभावि । स्वभावोपीति भवति सदृशमुदाहरणं ।
ननु प्रयत्नानन्तरं स्वभाव एव स्वभावान्तरन्तु ज्ञानमकारणस्याविषयत्वात् ।
न युक्तमेतत् । पराभिप्रायेणोक्तत्वात् । परे हि शब्दनित्यत्ववादिनो ज्ञानमेव
प्रयत्नानन्तरभावीच्छन्ति तान् प्रतीदमुच्यते विषयस्यापि कारणत्वमस्त्येवाकारणस्याविषयत्वात् ।
ततः प्रयत्नानन्तरभावि ज्ञानं यत्त्वयेष्यते । शब्देनापि तज्जनयितव्य स्वाकारार्पणेन । ततः
समस्तपूर्व्वापरभाविरूपग्रहणप्रसङ्ग । तस्यान्यथा ग्रहीतुमशक्यत्वात् । न खण्डशो
ग्रहणमिति प्रतिपादितं ।
३. स्मृतिसंगतिः
अथापि स्याद् गृह्यत एव भाविभूतरूपता सकलकालकलाकलापव्यापिनी । अन्यथा
पश्चाद् दर्शने कथं स्मरणं । अयं स मया तदा दृष्ट इति । तथा हि ।
तदपि कुचोद्यमेव यतः ।
यत्र हि ग्रहणस्य ग्रहणस्वभावस्य1616 न व्यापारस्तत्र तदनुसारिण एव स्मरणस्य व्यापार
इति महदेतद् वस्तुतत्त्वविवेककौशलं । नहि भाविरूपं ग्रहीतुं शक्यं सन्देहात् । कदाचिन्न
भवेदपि । अथ मतिः । यदि भविष्यति गृहीतमेव मयेति । पश्चात् स्मरणेन गृहीतमिति
विषयीकरिष्ये इति प्रतीतेर्गृहीतन्तदपीति व सत् ।1617
यदि तदपि भविष्यति तदा गृहीतमेवेति (महान्) ग्रहणव्यापारः । विद्यमानं (हि)
ज्ञानं ग्रहणस्वभावमन्यथा वा नापरः प्रकारः । परस्परविरोधादन्योन्यव्यवच्छेदरूपत्वात् ।
यदि ग्रहणं वर्त्तमान इव न संदेहस्तस्याव्यतिरेकात् । न च तदा गृह्यमाणं भावि
वर्त्तमानरूपाव्यतिरेकाद् वर्त्तमानवदेव । अथ भाविकालसम्बन्धाद् भावि । एवन्तर्हि स्व
रूपतो न भावानां वर्त्तमानादिता । अपि तु भाविवर्तमानभूतपदार्थसहभावमात्रं । काल
स्यापरस्याभावात् । भावे वा सोपि पदार्थ एव सहकारी1618 । तथा सति तस्यापि भाविरूप
ग्रहणे भाविरूपतागृहीतैवेति न सन्देहो भवेत् । अनित्यपदार्थसहचरितत्वं भाविभूतत्वमिति
चेत् । न (।) तथाभूतस्य ग्रहीतुमशक्यत्वात् कथमयमेव मया गृहीत इति स्मरणं । स्वरूपं
गृहीतमेव साहचर्याग्रहणेपीत्यपि न सम्यक् । न हि स्वरूपं भूतभावितेति भवत एवेदं मतं ।
तस्माद् वर्त्तमानज्ञानग्रहणात् वर्त्तमानमेव गृह्यतां ।
अथागृहीते कथं स्मरणं । नन्वयं गृहीतेपि समानः प्रसङ्गः । तथा हि ।
गृह्यमाणे स्मृतिर्न्नास्ति ग्रहणानन्तरं हि सा ।
ग्रहणस्मरणे तस्य नैवं स्तोऽतत्स्वभावतः ।
1619603न स्मरणग्रहणपृथग्भावे तस्यातत्स्वभावस्य ग्रहीतुस्मर्तृता शरीरस्यापि प्रसङ्गात् ।
अनित्यतया नेति चेत् । आकाशादीनामपि स्यात् । तत्रासमवायादनयोरिति (यदि) मतं ।
तदप्यसत्समं । यस्मात् ।
स्मरणमन्यथा नोपपद्यत इति । स्मर्ता परिकल्प्यते । नहि पूर्वापरकालभाविनं
कञ्चिदन्तरेणेदं युक्तिमदिति । तथा चाकाशादीनामेवेदमस्तु किमर्थान्तरपरिकल्पनाप्र
यासेन । समवायोप्येवमेव परिचोदनीयः । स्मरणादीनाम्वा नित्यताभ्युपेया । स एव
आत्मनि चेत् । तदेवायातं ।
स्मृत्वा च कथमज्ञायि यत्राग्रहण1620 संशयः ।
स्मरणस्य तदा (ऽ) भावात् पूर्व्वतायाः कथङ्गति ।। ४८२ ।। रिति
तस्मान्न प्रत्यक्षेणेति1621
यत्किञ्चिदेतत् । तस्मान्नित्यायां1622 न प्रयत्नानन्तरं पूर्व्वानु
सन्धानेन ग्रहणसम्भव इति । अपूर्व्वापररूपग्रहणादनित्यता शब्दस्येति स्थितमेतत् ।
यच्चोक्तं । स्वभावान्तरं ज्ञानं न प्रयत्नानन्तरमिति तदन्यथापि परिहर्त्तुमलं ।
यदि नाम स्वभावानन्तरं तथापि प्रयत्नानन्तरता (पि) सम्भवत्येव । न ह्यत्राति1623 सूक्ष्मेक्षिका
प्रयोजनवती । तस्मादनेनैवोदाहरणेन द्वयमपि कार्यस्वभावलिङ्गद्व्यं दर्शितं ।
ननु कार्यस्वभावहेतूदाहणमेव कस्माद् भेदेनोपदर्शितं नान्योपि भेदः । अत्र समाधिः ।
यस्य यत्नानन्तरेण सत्ता स एव हेतुस्तदव्यभिचारात् । नहि व्यतिरिक्तः कार्यता
म्विरहय्याव्यभिचारी ।
ननु व्यभिचारादेव हेतुः न कार्यतया भस्मापि हि कार्यमग्नेः न च तस्याव्यभिचारः ।
तथा कार्यतामन्तरेणापि संयोगि जलमाधारं गमयति ।
तदसद्यतः नोच्यते कार्यतया गमक एव । अपि तु गमकः कार्यतयैव व्यतिरिक्तः
कार्यताम्विना न गमयतीति । यथाभतम्वा भस्मकार्यमतीतादप्यग्नेर्भवद्देशान्तरस्थादपि
तथाभूतं गमयत्येव । अत एव कार्यताप्रयुक्तं गमकत्वं येन तद्विशे(षा)द्विशिष्यते । एवम्भूत
एव खल्वत्रापि निमित्तनिमित्तिभावः । संयोगेन तु गमकत्वेऽधारोप्याधेयस्य गमकः
स्यात् । अथाधार आधेयमन्तरेणाप्यास्ते तेनासौ न गमकः । आधेयन्तु नाधारमन्तरेण
जलाद्यास्ते ततो गमकं (।) यद्यवन्तदेव कार्यं गमकमित्यायातं (।) येन हि विना यन्न भवति
तत्तस्य कार्यं न चाधेयस्य स्थितिराधारमन्तरेण भवत्यतः कार्यं । न तु स्थितिरेव कार्यन्न
जलं । एवन्तर्हि स्थितिरेव गमिका न जलमिति न व्यभिचारः ।
अथ स्थितिविशिष्टं जलमेव गमयति । जलविशिष्टा स्थितिरेव गमयतीति किन्न
भवति । युक्तञ्चैतदेव । तस्या एवान्वयव्यतिरेकेण गमकत्वात् न च स्थितिव्यतिरिक्त
मपरं जलं ।
ननु पतदपि जलमेव भवति तज्जलं न तु तदेवान्यदपि जलं जलमेव । न च
जलत्वं सामान्यमस्तीति प्रतिपादितं । सत्त्वे वा न तद् गमकं । व्यक्तिरेव गमिका सा च
कार्यमिति न कार्यदन्यस्य गमकत्वं ।
अथैकैव सा व्यिक्तिरिति मतं । तदप्यसत् । तदेव स्थितं तदेवान्यथेति प्रसङ्गात् ।
पर्यायेण तथाभावेपि न दोष इति चेत् । एवन्तर्हि पूर्व्वापरयोरेकताप्रतीत्यभावात् कथमेका
व्यक्तिः । नखल्वप्रतीयमानमितरेण सहैकं प्रतीतिरेकतां साधयति न प्रतीत्यप्रतीती । अप्र
तीतेर्भावसाधनायोगात् । प्रत्यभिज्ञा तु प्रत्याख्याता । तस्मात् सर्व्वत्र निरूप्यमाणा कार्यतैव
गमकत्वे निबन्धनं ।
योवात्मा स्वो विभागवानिति । यस्य य आत्मा स गमकस्तस्य वृक्षात्मा शिंशपा
सा गमिका वृक्षतायाः ।
ननु यथा वृक्षात्मा शिंशपा तथा वृक्षोपि शिंशपात्मैव । तादात्म्यस्योभयगतत्वमन्त
रेणाभावात् । न (।) अविभागवत्त्वाभावात् । वृक्षो हि शिंशपाव्यतिरेकेणाप्यस्ति पला
शादिः । न तु शिंशपा तथेति सैवाविभागवती गमिका । ननु (।)
अन्वयव्यतिरेकाभ्यां न हि तस्यानिमित्तता ।
तदेतदसत् ।
कार्यन्तद्व्यतिरिक्तस्य कारणस्येति भिन्नता ।
अत एवाह ।
संयोगेन गमकत्वेऽग्निरपि धूमसंयुक्त इति गमकः किन्न धूमस्य । अव्यभिचाराभावा
दिति चेत् । स तर्ह्यव्यभिचारः कार्यकारणभाव एव व्यतिरेकिणः ।
अत्र परः । कार्यकारणभावेन गमकत्वे तस्य द्बिष्ठत्वादग्निरपि गमकः स्यात् । न ।
यत्नान्तरीयिका सत्तेति वचनात् । न च कार्यकारणव्यतिरेकेणापरः कार्यकरणभावः ।
तेन कार्यकरणभावेन गमक इति कार्यंत्वेन कारणं न1625 च गमकः । एवन्तर्हि कारणमपि
गमकं कस्मान्न भवति । भवत्येव नान्यथाभावः । स तु ज्ञातुन्तथा न शक्यते यथा ज्ञायते
तथा अगमकत्वेमेव1626 । तेन च रूपेण गमक एव । तथा हि ।
व्यापकं व्यतिरिक्तत्वे कारणं सर्व्वमेव हि ।
एवं स्वभावहेतावपि वाच्यं (।)
तथा वागम(क)त्वे स्यादविभागतया गतिः ।
यथा च वृक्षापावकयोरनियतं तादात्म्यं कारणत्वं च शिंशपा त्वधूमं प्रति तथा गमकत्व
मप्यनियतत्वेनैव । अनियमे कथं गमकः । अनियमेन गमकत्वनिबन्धनस्य भावात् । एवं
हि । तत्तन्निबन्धनसम्भवति यदि तदनुवर्त्तनं । अन्यथापि तत्त्वेति प्रसङ्गः । संयोगेप्येव
मेवेति चेत् । तन्न यतः ।
संयोगादिषु1628 येष्वस्ति प्रतिबन्धो न तादृशः।
संयोगी आधार आधेयेन तुल्यत्वात् संयोगस्य । समवायी जातिगुणक्रियापदार्थः ।
न चाधार आधेयं गमयति । अविनाभावस्य कार्यकारणभावाख्यस्यासंभवात् । तथा जातिः
केवलापि प्रतीयमाना विनष्टायां व्यक्तौ न जातिमन्तमवगमयति । कार्यकारणभावस्या
सम्भवादेव ।
अथाधेयमाधारं गमयति । तत्राविनाभावस्य सम्भवादिति मतिः । तथा तर्हि
कार्यकारणभाव एव गमकः । अविनाभाव एवेति चेत् । तदप्यसत् । अविनाभाव एव
कार्यकारणभावः । अत आह ।
स च नियमः परस्य परत्र कार्यकारणभाव एव गमकत्वस्यान्यथाऽभावादिति प्रतिपादितं ।
स्वभावकार्यसिद्ध्यर्थं द्वौ हेतू द्वौ च विपर्ययौ निर्द्दिष्टाविति व्याख्यातं ।
(१) विवादाद् भेदसामान्य इत्यस्य व्याख्यानम्—
इदानीं विवादाद् भेदसामान्य इति व्याचष्टे । भेदो साधारण एकान्तव्यतिरेकी ।
सामान्यमेकान्तान्वयि । तयोरनैकान्तिकयोरपि गमकत्वमाह परस्तत्र तत्त्वं प्रतिपादयत्याचार्योऽ
गमकत्वं तत्र यः सन्नि त्यादिना ।
नन्वैकान्तिकव्यतिरिकेणागमकत्वमेव युक्तं । सत्त्यं । यद्येकस्मादेवान्ताद् व्यतिरेकः
सिध्यति स तु न सिध्यति । पक्ष एव व्यभिचाराशङ्कातः । तथा हि ।
निरात्मकाद् व्यावृत्तिमेव प्राणादि कथं सिध्यति । यदि सात्मकत्वेनाविनाभावो
भवेत् । तच्चाप्रतिबद्धेषु न सम्भवति (।) सर्व्वतो विपक्षाद् व्यावृत्तेः स्वमुखेन प्रतिपत्तु
मशक्तेः । न खलु सकलविपक्षदर्शनं येनात्र नास्त्यत्र नास्तीति प्रतीयात् । अन्वयमुखेन
तु सम्भवति । यतः । तन्नियतत्वेन ग्रहणं प्रतिबन्धग्रहणं स च प्रत्यक्षप्रमाणव्यापारस्ततो
नियतत्वग्रहणादन्यव्यावृत्तिराकृष्यतेऽन्यथा नियतरूपाग्रहणमेव । तथा हि (।)
यदा हि । अन्यभावेपि भावो नास्ति चन्दनगन्धस्य तद्भावे भावश्च । तदा चन्दन
गन्धस्तत्कार्यमिति सिध्यति । अन्यथा नेति निर्ण्णयः । स च व्यतिरेकमन्तरेण नास्तिति
व्यतिरेकोपि तदात्मभूतः प्रसिध्यति ।
नन्वन्वयोपि व्यापी न सिध्यति सर्व्वत्रास्मादस्योदय इति । नैतदस्ति ।
न ह्येतस्मादन्यत्र भवत्येवेत्येतद्गमकत्वे निबन्धनमपि त्वस्मादेव नान्यस्मादिति । तथा
च प्रतिपत्तिरस्त्येव । तदन्यस्मात् प्रागनुत्पादस्य दर्शनात्तदभावेऽभावं झटित्येव प्रतियतां ।
ननु यदि नामास्वस्मान्नो1630
त्पत्तिमत् कुतश्चिदन्यविशेषाद् भविष्यति । न ह्यन्य इत्येव
सर्व्वः समानस्ततो न व्यतिरेकस्तद्भावे(ऽ) भाव इत्यव्यतिरेकोपि न निश्चितोऽदृश्यस्यापि
सम्भवात् ।
तदेतदसद् यतः ।
तवैवं गमको हेतुरन्यथा (ऽ) सम्भवादिति (।)
प्रतिपादिते यद्येवं नेष्यतेऽन्या गतिरन्विष्यतां । न च सम्भवतीति स्वबधाय तर्हि
शूलतक्षा । अपि च ।
अविगुणसामग्रीसन्निधाना (त्त)द् भवत्येव । तदभावे तु झटित्येव न भवतीत्य
नित्यपि1632 शाचादिकारणत्वेन सम्भवति । तदपि झटित्येवोपयात्यपयाति चेति यद्यभ्युपगमः
स तर्हि पिशाचः पावकेन वशीकृत इति पावकस्यैव हेतुभावः । यद्यन्यस्मादपि भवेत् ।
अन्वयव्यतिरेकाभावाद् यादृच्छिकः सम्वाद इति प्रेक्षापूर्व्वकारिणामुपायान्वेषणं यत्प्रतिफलं
नियमेन न स्यात् । अस्माकं त्वद्वैतवादिनां न परमार्थतः कार्यकारणभावो नाम । तस्मात्
प्रतिबन्धसाधकप्रमाणाभ्युपगमे परिस्फुटान्वयस्थितिः । यस्मात् ।
न ह्यतदात्मनि यतस्तदभावान्नियमेनाभाववान् । न ह्यप्रतिबन्धो निवर्त्तकः परस्य
स्वयन्निवर्त्तमानोऽतिप्रसङ्गात् ।
तथा च । नेदं निरात्मकं जीवच्छरीरमप्रमाणादिता1634 प्रसङ्गादिति हेतुः (।) न
ह्यप्रतिबन्धवतो निवृत्तौ प्रतिबद्धेतरस्य निवृत्तिः । न च प्रतिबन्धवानव्यापकः । न च तादा
त्म्यतदुत्पत्तिप्रतिबन्धमन्तरेण व्याप्यव्यापकभावः । अन्येनापि प्रकारेण कस्मान्न भवतीति
चेत् । न प्रकारान्तरासम्भवात् । सोपि न प्रकारः प्रतिपन्न एव साधकः समीहितस्य ।
न च तथाऽतो व्यतिरेकितया (भि) मतस्य न व्यतिरेको नाप्यन्वय इत्युभयाभावात्अगमक
एव सात्मकं जीवच्छरीरं प्राणादिमत्वादिति ।
कथन्तर्हि तदुभयाभावादाचार्येणायं व्यतिरेक्युक्तः । तस्याप्येतदेव वक्तुमभिमतं1635
स्यात् ।
नैष दोषो यतः ।
पराभिप्रायेणादर्शनमात्रसिद्धं व्यतिरेकमुपादायाचार्येणायं व्यतिरेकीति प्रतिपादितो
न तु निश्चितव्यतिरेकः । अन्यथा निश्चितव्यतिरेकसम्भवे गमकः स्यात् । तथा चाचार्यो
न क्षिपेदनैकान्तिकमध्ये । तत आचार्यस्य नात्र निश्चितव्यतिरेकाभिप्रायः ।
(२) आत्मनित्यत्वनिरासः—
ननु प्राणाद्यभावो नैरात्म्यव्यापी स च जीवच्छरीरे नास्तीति नियमेन व्यापकनिवृत्त्या
व्याप्यस्य जीवच्छरीरे नैरात्म्यस्य निवृत्तिरिति कथन्नात्मसिद्धिः ।
न सिद्धिर्यतः ।
यदि विपक्षयोर्व्याप्तिः सिध्येत्तदाऽप्राणादि1636 निवृत्तौ जीवच्छरीरे नैरात्म्यनिवृत्ति
रिति सिध्यत्यात्मा1637 विनाप्यन्वयेन(।) सैव तु व्याप्तिर्व्विपक्षयोः स पक्षप्राप्ति1638 मन्तरेण न
सिध्यति । आत्मनोऽप्रतिबन्धे (वत्त्वे) न निवर्त्तकत्वमेव न सिध्यति । न चानिवर्त्तकस्य
निवृत्तिर्निवर्त्त्यनिवृत्त्या व्याप्ता सिध्यति । तस्मादव्याप्यस्य निवृत्त्यभावे (प्य)ऽव्यापकस्य
निवृत्तेरनिवृत्तिरिति नात्मसिद्धिः ।
प्रतिबन्धमन्तरेणापि यदि निवृत्तिरतिप्रसङ्ग एव । तदात्मा तत्प्रसूतश्चेत् ।
अथात्मा प्राणादिः सर्व्वमिदमात्मैवैति । ततो वा प्रसूत आत्मनः समवायिकारणत्वात् ।
नैष परिहारो यतः । एतदात्मोपलम्भने ।
यद्यात्मोपलब्धिस्तल्लक्षणत्वादपरोपि तत्स्वभाव इति सिध्यति । स एव तु नोपलब्धः
कुतस्तल्लक्षणत्वादिति हेतुः सिध्यति । समवायोपीह बुद्धिनिबन्धनो नात्मानुपलब्धेः ।
कार्यकारणभावस्तु प्रत्यक्षानुपलम्भसाधनो नाप्रत्यक्षः । आत्मनीति कुतस्तदात्मत्वतत्प्रसूती
यतः ।
न च घटादौ नैरात्म्यं यतः ।
उपलब्धिलक्षणप्राप्तस्य(हि)भवतोऽन्वयव्यतिरेकौ कारणव्यापकत्वसाधकौ न चात्मो
पलम्भः ततः कथन्तस्य कारणव्यापकभावः । तदभावे च न प्राणादिस्तदात्मा तत्प्रसूत
इति च (न) सिध्यति । अपि च ।
यो ह्यन्यत्र दृश्यते देशे काले वा स इदानीमत्र वा नास्तीति प्रतीयत इति सकलस्य
जगतः प्रतीतिः । यस्तु न जातुचित् प्रतीतेर्व्विषयः स नास्त्यत्रेति कुत उल्लेखः ।
न ह्यदृष्टे प्रवर्त्तन्ते वितर्क्काः कस्यचित् क्वचित् ।
वितर्क्को हि दृष्ट एव क्वचिदपरत्रादृश्यमाने प्रवर्त्ततेस्ति न वेति । नेति तु कुतो
निश्चयः । यदि परमयमात्मा न भवतीति तादात्म्यनिषेधमात्रं । न तु घटादावात्मा
नास्तीति निश्चयः । व्यापितायान्तु सुतरामेव ।
यथा व्यतिरिक्ततया1639
घटादिरुपलभ्यमानो निरात्मक इति गम्यते जीवच्छरीरमपि
तथा स्यात् । नहि तदपि तद्विविक्ततया नोपलभ्यते (।) तस्मादुपलभ्यताऽभावादात्मनो न
घटादौ नास्तिता गतिः । तेनात्मनोऽज्ञातव्यतिरेकस्य व्यावृत्तिव्यापिता प्राणाद्यभावव्यावृत्ति
व्यापितात्मनः कुतः । यस्य हि व्यावृत्तिर्यद्व्यावृत्त्या व्याप्ता तद्व्यावृत्तिस्तेन व्याप्यते । न
चात्मव्यावृत्तिरसिद्धा प्राणाद्यभावेन व्याप्तेति ज्ञायते ततः कथं प्राणाद्यभावव्यावृत्तिरात्मना
व्याप्ता सिध्यति । येन प्राणाद्यभावव्यावृत्तेरात्मसिद्धिः । तस्मान्नात्र व्यतिरेकनिश्चयः ।
ननु यथा घटादौ न प्राणादय इति प्रतीयते तथात्मा नास्तीति किमिति न प्रतीतिः ।
विषम उपन्यासः । यतः ।
नानुपलम्भमात्रात् ।
उपलब्धिलक्षणप्राप्तेः प्राणादीनामभावप्रतीतिरजीवच्छरीरे । नन्वेवमात्मेति विपर्ययः ।
अपि च । सन्तु नाम निरात्मका घटादयः तथापि नात्मा प्रसिध्यति प्राणाद्यभावानिवृत्त्या ।
ननु यद्यात्मा जीवच्छरीरे न भवेत् प्राणादीनामप्यसम्भवः । आत्माभावस्यप्राणादि
निवर्त्तकत्वस्य घटादौ दृष्टत्वात् । न (।) अन्याभावस्य निवर्त्तकत्वात् । तथा हि ।
बुद्धिप्रयत्नादयोपि घटादौ न सन्त्येव । तत्किन्तदभावात् प्राणादिनिवृत्तिरथात्मन
इति कः खल्वत्र भवतः सन्देहापोहहेतुः(।) तत्र यस्य बुद्ध्यादेः कार(ण)स्याभावेन घटे न
दृश्यते प्राणादिः स एव यदि देहे न स्यात् स्यात् प्राणादिविरहप्रसङ्गः । न च बुद्ध्यादयो
न सन्ति तत्कथं प्राणादिनिवृत्तिप्रसङ्गः ।
अथ नैरात्म्येन साधर्म्यमस्ति जीवच्छरीरघटादीनां(।) यदि नाम बुद्ध्यादिसद्भावा
सद्भावकृतं वैधर्म्यमपि तथापि निरात्मत्वाद् घटादिवज्जीवच्छरीरमपि प्राणादिविरहि ।
अप्राणादिविरहिधर्मतया वा सात्मकं ।
अत्रोच्यते ।
तदा ।
न ह्येवमपि किञ्चिन्मात्रसाधर्म्यन्नास्ति ।
नहीच्छया प्रमाणं । अपि तु यत्र प्रमाणसम्भवस्तत्र प्रेक्षावदिच्छा । नानिष्टमपि
प्रमाणानीतं विपर्येति । स्वातन्त्र्येण हीच्छानिरपेक्षं प्रमाणं युक्तं । अन्यथेच्छया प्रमाणस्य
स्वातन्त्र्येण विना भावाभावव्यवस्था न स्यात् । वादीच्छया विषयभूतसाध्यप्रतिपादनं
प्रतिवादीच्छया परित्याग इति न भावाभावव्यवस्था(ऽ)संकरः ।
तेपि तर्हि बुद्ध्यादय आत्माभावेन स्युरिति प्रतिपादयामः । ततो यदुक्तं बुद्ध्यादि
सद्भावे न प्राणादिनिवृत्तिरिति तदयुक्तं ।
नायुक्तं(।) अन्येषामेव तत्र प्रवर्त्तकत्वात् । यद्यात्माबुद्ध्यादीनां प्रवर्त्तकतया
निश्चितो युक्तं निवर्त्तमानो निवर्त्तक इति । न चैवं यतः ।
(३) स्मृतिच्छायत्नजः प्राणनिमेषादिः—
क्वचिदनिष्टे तदन्यत्र वा स्मृतिरिच्छाप्रयत्नश्च । ततः प्राणनिमेषादयः प्रवर्त्तन्ते ।
स्मृत्यादीनां कुत इति चेत् । विषयेन्द्रियायत्तवित्तिभ्यस्ताः स्वजातिसमुद्भवाः । विषयस्य
विषय एव पूर्व्वकस्तथेन्द्रियवित्योरन्योन्ययप्रत्ययापेक्षितया । एतावति हेतुप्रत्ययकलापेऽय
मात्मभावः प्रतिबद्धः किमपरेणानुपयोगिना ।
ननु स्मृतिः पूर्व्वपरानुसन्धानरूपात्मानं विना न भवति । तथा हि । येन दृष्टं स एव
स्मर्त्ता न ह्यन्यदृष्टमन्यस्य स्मरणविषयः । नन्विदमपि व्यतिरेकमात्रमेव कथमतोपि
प्रसिद्धिः । न हि स्मरणमेकत्वे दृष्टं पूर्व्वापरयोरेकत्वस्य प्रत्यक्षेणाप्रतिपत्तेः(।) स्मरणस्य
चाप्रमाणत्वात् । यद्यपि परेणोपलब्धं न स्मर्यते परिविशेषेण स्मरिष्यते (।) नहि पर
इत्येव सर्व्वः समानः (।) स्वहेतुतस्तथाभूतः स जातो येन स एव स्मरणस्य हेतुर्नापरः
कार्यकारणभावनियमात् । न ह्यात्मेत्येव स्मरणम्(।)अपि तु पाटवाभ्याससम्भविसन्ता
नभावादन्यथा तदा स्मरणप्रसङ्गः ।
ननु नैवमुच्यते आत्मनि सति स्मरणमेव । यदि स्मरणमात्मन्येव सति आत्मान्तरे
स्मरणाभावात् ।
नैतदपि सम्यक् । यतः ।
पूर्व्वानुभवाभ्यासान्वयव्यतिरेकानुविधायिनी स्मृतिस्तद्विकारविकारिणी चेति नात्मा
कारणम् ।
अथ नित्यव्यापिना विना न भवति । तथा सति कालादीनामपि कारणत्वप्रसङ्गो
विशेषाभावात् (।) अथानुभवितृस्मर्तृत्वेन विना न भवति ।
तदेतदसत् ।
स्मरणानुभवान्यथानुपपत्त्या हि स्मर्त्तानुभविता च कल्प्यते कश्चित् । न त्वाकाशा
दिव्यतिरिक्तः । तथा च एकः कश्चिदस्तीति कल्प्यतां । स च नाकाशादिविलक्षणो
व्यापिनित्यत्व(ामूर्त्त)त्वादिना विशेषाभावात् (।) अथाहमिति कर्त्तृत्वेन प्रतीयमान आत्मा
नामुर्त्तत्वमात्रं ।
नन्वहमिति प्रत्यये शरीरमेव प्रतिभात्यहं देवदत्तो गार्ग्यः कृष्ण इति । शरीरमनित्य
मिति चेत् । न । शरीरावस्था अनित्याः । अवस्थाता तु परलोकादौ न भिन्न इति
वरमेषैव1641 कल्पना(।)न तु व्यतिरिक्तस्य शरीराधिष्ठानमेव च स्मरणादिः1642 प्रतीयते नामूर्त्ता
धिष्ठितं । अथ नित्यस्तावत्प्रतिपत्ता सिद्धः । शरीरमन्यद्धेति किमपरेण विचारेण ।
तदप्यसत् ।
अपि च ।
तदसत् । यस्मात्(।)
यद्यात्मनः कारणतामात्रात् प्रत्ययः प्रमाणं सर्व्वः प्रमाणं भवेदिति सकलमेव सकलस्य
सिद्धिमत् ततो महदसमञ्जसं । तस्मादनुपहताश्रयेण यदुत्पद्यते तदेव प्रमाणं । तथा च
सति चक्षुरादिजनितः प्रत्ययो नानुसंहिनं परिच्छिनत्तीति कथनेकतागमः पूर्व्वापरयोः सत्त्यः
स्यात् । येन स्मरणेन चास्य सामर्थ्यं सन्धाने चापि विद्यत इति वचः सत्त्यतां यायात् ।
नहि प्रमाणभूतं प्रत्ययं विनात्मानमन्यद्वानुसंहितं प्रत्येत्यात्मा । ततोऽहं स्मरामीति सम्वृति
मात्रकमेतत् । अतः साम्वृतेनैवात्मना सकलं समञ्जसमेव । अपि च ।
नहि श्रावणत्वस्य प्राणादेश्च विशेषः । व्यतिरेकस्य केवलस्योभयत्र समानत्वात् ।
तत एकस्य व्यभिचारिताऽन्यस्य नेति कोयं न्यायः ।
ननु न व्यतिरेकस्य समानत्वं विषयभेदात् । श्रावणत्वं हि सपक्षविपक्षाभ्यामपि
व्यावर्त्तते । न प्राणादिरसाध्यादेव व्यावृत्तेः । ननु सपक्षादपि व्यावृत्तं श्रावणत्वमिति
सपक्षानुगमाभावः प्रतिपाद्यते । स प्राणादेरपि समान एव नहि तस्यापि सपक्षास्थिता सपक्ष
भावाभावोपन्यासस्तत्क्वोपयोगी । तथा हि ।
नियमेनावधारणमवधार्यमाणविपर्य(य) साधनमन्यथा यद्यसाध्यादेव विच्छेदः सपक्षा
दपि स्यात्तदवधारणमपार्थकं । अत एव भवद्भिरपि अर्थापत्यैकेन द्व्यदर्शनं अतो वाक्याद
साध्यादेव विच्छेद इति कृतं ।
यो ह्य व्यभिचारोन्वयेन व्याप्तोऽवधारणलक्षणः । स कथं व्यापकान्वयाभावे भवेत् ।
अथवाऽसाध्यादेव विक्छेद इति । नेदमन्वयप्रतीतिमन्तरेण प्रतीयते । नहि सकलविपक्ष
दर्शनसम्भवः । अन्वयद्वारेण तु सम्भवति ।
आत्मनि प्रतिबद्धत्वादन्यस्माद् विनिवर्त्तते । अनिवृत्तस्तदन्यस्मात् कथन्तत्र निबध्यते ।।
अथ साध्येस्तिता नास्ति नास्तिता तर्हि प्राप्तेति कथमसाघ्यादेवेत्यव्यभिचारः । यतः ।
असाध्य एव नास्तीति यदवधारणं तत्साध्ये नास्तित्वं निषेधति । असाध्य एव नास्ति
साध्ये तु न नास्तीति प्रतिषेधनिषेधने विधानमेव प्रतिपादयेत् । अथ (।)
अथ प्राणादिहेतोः सपक्षाभावान्न ततो निवर्त्तनं । नह्यसतो निवर्त्तनं शक्यं । अपादा
नत्वाभावात् । न चासन्नाम किञ्चत् यतो निवर्त्तनं प्रतीयेत । यद्य (स) तो न निवृत्तिः ।
निवृत्तिनिवृत्तिः कथं । सापि नेति चेत् । ननु निवृत्तिनिवृत्तेर्न्निषेधे निवृत्तिनिवृत्तिनिवृत्तिः
कथमसत इत्यनवस्थानादप्रतिपत्तिः । प्रतिषेधो निवृत्तिरिति चैक एवार्थः । यदेव निवृत्ति
निवृत्तिं प्रत्यधिकरणं तदेव निवृत्तिं प्रत्यपादानं ।
ननु येन संयोगः समस्ति तद्वियोगेपादानं । न चाभावेन संयोगः । येन न सम्भवति
स किं सुतरां नापादानं ।
यत्र सोर्थो न सम्भ (व) ति कदाचित् सुतरामेव तत्तस्यापादानं । यतः ।
असत्यभावो नेति निवृत्त्यभावो विधिरेव वस्तुभावलक्षणः । सोऽसतोप्यस्ति ।
अभावस्त्वभावे युक्तरूपोपि नास्ति विपर्ययेपीतर इति किमन्यद्वान्ध्यविचेष्टितात् । यतः ।
असति भावेऽसत्त्वं नियमभावीति तदेव निवृत्तिरपि व्यपदिश्यते । नहि तत्राविद्यमानम
निवृत्तन्ततः । अविद्यमानमपि तत्र नैवाधिकरणत्वस्यायोगात् । न विद्यमानताऽभाव एव
तत्राभावः । सोपि नेति चेत् । न (।) अन्योन्याभावरूपत्वाद् भावाभावयोः कुतः प्रतिषेधो
द्वयोरपि । भावो हि नियमेनाभावव्यवच्छेदेन तत्त्वं प्रतिलभते । अभावे हि न भावस्स्यादिति
यतो भावोऽभावाद् व्यावृत्तस्ततस्तन्निवृत्तौ नियमेन भावी । अन्यथा भावनिवृत्तावपि यदि न
भवेत् न भवेदेव । तथा हि ।
यद्यपि भावाभाव्योर्द्वयोरप्यसत्त्वन्तथापि भावस्यासत्त्वमनिवारितमेव । एवं हि भाव
स्यासत्त्वं यदि भावो न भवति । तथाऽभावस्याप्यसत्त्वं भवेद्य (द्य) भावो न भवति । भाव
स्यानवगमने स एवाभावः प्रतीयते । तस्मात् प्रतिषेधः प्रवर्त्तमान एव तद्विविक्तोपलम्भलक्षणः
प्रत्यक्षेण विधिबहिर्भावेन व्यवस्थाप्यते (।) तत एकप्रमाणवृत्त्यैवान्यथात्वेऽन्यथाभावव्यवस्थापनं ।
न प्रकारान्तरसम्भवः । यत्तत्र प्रत्यक्षेनान्तर्यातं तत्सर्व्वमन्यदेव भावरूपग्राहिणा च प्रत्यक्षेण ।
तत्र यन्न ताद्रूप्येण परिच्छिद्यते । तस्य तेन रूपेणाभाव एव न प्रकारान्तरता । अभावेपि
परिच्छिद्यमाने यः तथा न परिच्छिद्यते स भाव एवेति कुतः प्रकारान्तरं । भवतु प्रकारान्तरा
भावः । स तु भावोभावो वा ऽभावे नेति साधिकरणता न परिच्छेत्तुं शक्या तस्यैवापरि
च्छेदात् । न ह्यसन् परिच्छेत्तुं शक्यः ।
तदसत् । यतः ।
भवन्तमेव तावत् पर्यनुयुंज्महे(।) यदि तस्मादसतः सपक्षान्न निवृत्तिः किम्वृत्तिर्भ
विष्यति । न प्रकारान्तरमस्तीति । एवं हि निवृत्तिरभावरूपा न भवति । यदि भावः स्याद्
वृत्तिरूपः (।) सापि नेति चेत् । न निवृत्ता तर्हि निवृत्तिर्यतोऽयमेव भवेत् प्रतिपादितः ।
प्रतिषेधो निवृत्तिस्ततः किन्निषिध्यते । नहि प्रतिपादितं तदेव च निषिद्धं भवितुं युक्तम् ।
तस्माद् वृत्तिनिषेध एव निवृत्तिरिति न निषेधस्तस्याः ।
अथाधिकरणतया न तस्य प्रतीतिः अपादानतया वेति न तस्मान्निवृत्तिरित्युच्यते ।
अत्रोच्यते ।
यदि कश्चित् पर्यनुयुंक्ते भवन्तं ननु प्राणादिः सपक्षे न दृश्यते । ततो निवृत्तस्त
स्मादसाधारणः कथमगमकः1647 । तथात्वे चाश्रावणत्वमपि गमकं स्यात् । ततो नियमेनासति
सपक्षे न निवृत्तिरिति वक्तव्यमन्यथा मूकतात्र प्राप्ता ।
अथापि भवेदेवमेव भवतु । न स्वयमपि कथञ्चित् परिच्छेदसम्भवात् । वचनं
निवारयितुं शक्यं न बुद्धिः (।) अवश्यमेव कथञ्चित् प्रतिपत्तव्यं । अपि च । यद्यभावो
नाधिकरणत्वेनापादानत्वेन वा प्रत्येतुं शक्यः । सदा सर्व्वात्मनैव व्यवहारोच्छेदः । यतः ।
नञर्थोऽभाव एव ततश्चाभावस्यापरिच्छेदे कथन्तस्य प्रयोगः । यतः ।
यद्यभावमात्रं विषयीक्रियते । व्यर्थक एव प्रयोगो नञः । अनिरूपितविषयस्य
नजोऽप्रयोगात् । प्रयोगे वा न प्रयोजनं । अथ यस्याभावः स विषयीकर्त्तव्यः । तथा सति
कथं प्रतीयमानस्यैवाभावः । अथान्यथा प्रतीयतेन्यथाभावः । तथा हि । सन्त एव केनचिद्दे
शादियोगेन निषिध्यन्ते ।
अत्रोच्यते ।
इदानीमिहानेन रूपेण नास्तीत्यपि न शक्य एव निषेधः । तथाहि । यद् रूपं यः
कालो यो देशः स यद्यस्ति कथन्निषिध्यते । अथ नास्ति न बुद्ध्या विषयीकरणसम्भवो (ऽ)
भावस्य परिच्छेत्तुमशक्यत्वात् । अथ विषयीक्रियते तथा सत्यधिकारणादितयापि । अन्यथा
विषयीकर्त्तुमशक्यत्वात् । अवश्यं हि कारकभावेन परिच्छेदोन्यथा(ऽ)सम्भवात् । अत्र देशे
नास्तीति यद्यधिकरणभावोस्ति विषयीकृतः । कथमभावः । (अथाभावः) अथं विषयीकरणं ।
अथ प्रतिषेष्यमानोप्यनिषेधः क्रियते तथा सति सपक्षारोपेणापि सपक्षाद् विनिवर्त्तन
मस्त्येवेति कथं सपक्षादव्यावृत्तिः । तेन विधिनिषेधव्यवहारो न बाह्याश्रयः सम्भवति ।
अतो व्यवहारोच्छेदः ।
ननु विधिव्यवहारः सम्भवति (। अतो न व्यवहारोच्छेदः ।) न (।) विषयीकृतस्य
विधानाभावात् । घटोस्तीति यदि सत्त्वेन परिग्रहस्तदेव विधानं किं पुनरस्तीति विधानेन ।
अथासत्त्वेन ततो विरोधात् नासदस्तीति विधातुं शक्यं ।
(४) विधिनिषेधव्यवस्था—
असत्त्वेन परिच्छेदादसमर्थः परो विधिः ।
अन्यो हि प्रमाणार्थोऽन्यश्च शब्दार्थः । भावाभावसमाश्रयः शब्दार्थो नत्वेवं
(प्रमार्थः ।) प्रमाणार्थो हि न भावाभावसमाश्रयः । नहि प्रमा(णा)र्थोन्यथा सम्भवति ।
नियतरूपेण ग्रहणात् ।
ततो विकल्पबुद्धिनिरूप्यमाणो विषयो विधिनिषेधयोः । विकल्पानां वस्तुवृत्ति
नियमाभावात् । न च सर्व्वमविकल्पकमपि प्रमाणं । विधिरूपेण चेद् वृत्तमप्रमाणन्ततस्त
दप्रमाणताप्रतिपादनाय प्रतिषेधः । प्रतिषेधरूपेण चेद् विधिः ।
ननु यद्यसौ भ्रान्त एव प्रत्ययः । तदा तथात्वेनैवात्मानं प्रकटीकरोति । स्वसम्वेदन-
615स्याभ्रान्तत्वात् । न हि स्वरूपमन्यथा दर्शयितुं शक्यं । स्वरूपहानिप्रसङ्गात् । अन्या
कारप्रतिभासने हि तदेव स्वरूपं तत्रापि तथेत्यनवस्था भवेत् । स्वरूपस्य च भावे भावो
पादनता निषिध्यते । स च धर्मी स्वेन रूपेण प्रतिपन्नः कथं विधिनिषेधसाधारणः । येन
ताभ्यां सम्बध्येत ।
अत्रोच्यते ।
न खलु बाह्यान्तर (स्व) स्वरूपाश्रयोयं व्यहारोऽपि तु शब्दा (र्था) श्रयः । न च शब्दाद्
बाह्याभ्यन्तस्वरूपप्रतीतिः1650 ।
ननु तद्व्यतिरेकेणापर (स्या) भावात् किमधिकरणो विधिनिषेधव्यवहारः । अन्यापो
हाधिकरण इति ब्रूमः । कोयमन्यापोहो नाम(।) यः शब्दात् प्रतीयते ।
ननु तदेवेदमुच्यते । कः प्रतीयत इति । न किञ्चिदपि । तथापि व्यवहारोयमनादि
व्यामोहवाही । यतः (।) शब्दार्थलक्षणो धर्मी विधिनिषेधाभ्यां सम्बद्धः प्रकाशते । विचार्य
माणस्य बाह्यस्यान्तरस्य वा तादृशस्याभावेपि । तथा चोक्तं । रूपन्तस्य न किञ्चन ।
नन्वारोपितबाह्यरूपं । रूपन्तस्य विद्यत एव । न (।) ज्ञानज्ञेयव्यतिरेकेणापरस्या
भावात् । भ्रान्तं रूपमिति चेत् । तदपि यदि स्वरुपेण प्रतीयते कथं भ्रान्तं । अथ न
प्रतीतिविषयः कथमप्रतीयमानमस्तीति शक्यमध्यवसातुं । पश्चाद् भ्रान्तता ज्ञायत इति चेत् ।
प्रथमन्तर्हि स्वरूपेण न प्रतीयते । कथमस्तीति व्यवस्थाविषयः । पररूपेण प्रतिपत्तौ प्रतिप
त्त्यन्तरं भ्रान्तं । न स इत्यनवस्था ।
अथ सत्त्येपि तस्मिन् सत्त्यतानिश्चयाद् भ्रान्ततोच्यते । का तस्य सत्त्यता । अर्थासं
स्पर्शिता । ननु तदेव तस्य रूपं कथमसत्त्यता । नहि निजरूपस्थितिरेवासत्त्यता । अन्यथा
निश्चयजननादसत्त्य इति चेत् । निश्चय एव तर्ह्यसत्त्यः । तेन तस्य जननात् सोप्यसत्त्य
एवेति चेत् । न (।) अन्यथा निश्चयस्य वासनया जननात् । निश्चयस्य भ्रान्तता
तर्हीत्यपि न सङ्गतं । तस्यापि स्वरूपेऽवस्थानात् । तस्मादरूप एव शब्दार्थः । कथन्तर्ह्य
स्तीति व्यवहारः । शब्दवृत्तेरस्तीति व्यवह्रियते । शब्दप्रवृत्तिलक्षणाद्धि व्यवहारादस्तीति
प्रतीयतेन्यापोह इति नाम्ना प्रत्याय्यते सामान्यादिग्रहव्यावृत्तयोः (।) यदि तु न किञ्चि
दित्युच्यते तदो (त्) त्रासः स्यात् परेषां । अत एवाह । सोपीष्टो व्यवहारभाक् (।)
अन्यथा व्यवहारोच्छेद एव स्यादिति परः प्रतिक्षिपेत् ।
तथा हि ।
अग्निमानयेत्युक्तेऽनग्निपरिहारेण प्रवर्त्तते । प्रतियन्त्यपि1651 पावकं शब्दादवस्तुसंस्पर्शी
विकल्पः स्वरूपसम्वेदन उदयभागी । ततः प्रवृत्तिविकल्पः । ततो गमनस्वरूपानुभवः ।
ततः प्राप्तिरन्यथा वेति1652 व्यवहारः । न नाम वाच्यवाचकभावः कश्चित् ।
यदि धर्मिणो धर्माणामभेदस्तदैकधर्मस्य विधाने प्रतिषेधने वा सर्व्वधर्मविधानप्रति
षे(ध)ने स्यातां । नहि तस्मिन् विहिते तदात्माऽविहितो नाम । तस्याप्यविधानप्रसङ्गात् ।
तथा प्रतिषेधस्य(।) नहि खलु गोविधाननिषेधने भेदाभावेन खण्डताऽभावात् । नहि तेन
शब्देन प्रतिपादिते तस्मिंस्तदात्माऽप्रतिपादितो युक्तः । प्रतिपादित एवासौ भ्रान्त्या
नावसीयते । सर्व्वमेव तर्हि नावसितमिति प्रतीतिविलोपः(।) न च किञ्चिदवसितं किञ्चि
न्नेति शक्यसमर्थनं । विभागस्यासत्त्वात् । विभागे हि सत्येवं भवति नान्यथा । उप
लम्भ एव हि सत्तोच्यते । तद्विभागाद् विभाग एव सत्तायाः (।)ततः कथमेकस्यैव
किञ्चिदवसितं नापरमिति ।
यत्किञ्चिदेतत् । ननु क्षणिकताऽविनिश्चयेपि भवति नीलन्निश्चितं । न च
दृष्टेऽनुपपन्नं नाम । न । तत्रापि विरोधात् । तथा हि ।
निश्चयेन यदि नीलतागतिः सा क्षणस्थितिविधानवर्जिता ।
यदि प्रमाणासिद्धं परप्रमाणेन बाध्यते । अनवस्था तदप्यपरेणेत्यनाश्वास एव । अथ
यदि नाम नीलनिश्चयस्य क्षणिकतायामप्रवर्त्तनं तथापि न तेन क्षणिकता बाध्यते नापि तत्सा
धनेन नीलनिश्चयः समुच्चयेन द्वयोरपि प्रवर्त्तनात् । त्रयो हि योगाः समुच्चयो विकल्पो बाधन
मिति । समुच्चयो नीलमिदमुत्पलञ्च धर्मयोः समुच्चयात । विकल्पः स्थाणुः पुरुषो
वेति द्वयोरेकत्रासम्भवात् । बाधनं सर्प्पो रज्जुरिति सर्प्पता (ऽ) सम्भवात् । त (द) त्र
नीलन्वक्षणिक वसमुच्चये को दोषः ।
अत्रोच्यते ।
निश्चयो हि नीलतायाः क्षणिकतापरिहारेण यदि स्याद् बाधितैव क्षणिकता भवेत् ।
तद्विविक्तरूपग्रहणात् । विविक्तरूपप्रतिपादनमेव हि बाध(नं) ।
ननु नेदमत्रेति बाधनमभावप्रमाणेन । न च प्रत्यक्षं कस्यचिद् बाधकं ।
न युक्तमेतत् । यतः ।
न खल्वयं निश्चयः स्वतन्त्रं प्रमाणं । प्रत्यक्षप्रमाणानुसारी खल्वयं । नास्यान्यथा
भावः । यदि नाम कथञ्चिद् विविक्तप्रत्ययोदयेपि नोदयमासादयति । तथापि तद्योग्य
तयैव तस्य निषेधः । एतच्चोत्तरत्र प्रतिपादयिष्यामः । तत्र यदि नीलं क्षणिकपरिहारेण
निश्चितं । तेनैव क्षणिकता बाधिता कथं सा परेण साध्यते । अथ साधितैव तेनापि
तथापि परेण स्पष्टीक्रियते ।
अत्रोच्यते1654 ।
अस्पष्टता कथन्नाम निश्चयेपि भवेदियं ।
तस्मादेकविधाने तदव्यतिरिक्त (सकल) विधानमिति व्यर्थकः शब्दान्तरविकल्पान्त
रावतारः । अथ नानाभूता उपाधयो नानाभूतशब्दविकल्पानां विषयः । तदयमप्रसङ्गः ।
तदसत् । भेदे (।)
यदि परस्परमाश्रयाच्च भेदस्तदा भिन्ना एव तेर्थाः प्रतिपादिता धर्मी च तदा
नापरस्तेषामाश्रय इति कथं सामानाधिकरण्यं । तथा हि नीलमुत्पलमिति गुणद्रव्यप्रतिपादने ।
नापरमधिकरणन्तयोस्तन्न सामानाधिकरण्यं । न च विशेषणविशेषता1656 प्रतीतिः पृथगर्थ
प्रतिपादनात् । घटपटवत् । अथ नीलन्न केवलं । तथा सति । नीलरूपप्रतिपत्त्यैव द्रव्य
प्रतीतिः खण्डशः प्रतीत्यभावात् । अथ जातिगुणौ । तथापि सामानाधिकरण्यप्रतीतिरधि
करणवाचकस्यापरस्याभावात् । अथ नीलं द्रव्यमेव प्रतीयते न नीलतामात्रं । तथा सत्येक
शब्देन द्व्याभिधानमपरेणापि तथेति चतुष्टयस्य त्रयस्य वाऽभिधाने कथमिव सामानाधि
करण्यम्विशेषणविशेष्यभावो वा (।) न ह्येकेनानेकेन वा शब्देन प्रतिपादिता भिन्नरूपाः
सामानाधिकरणभाजः । अथ नीलादि केवलं प्रत्येतुमशक्यं ततो न भिन्नप्रतीतिवत् असामा
नाधिकरण्यं । ते तु नीलादयोऽनियतजातिभाविनो जात्यादयश्चानियतगुणभाविनस्ततो
नियतत्वप्रतिपादनाय शब्दान्तरप्रयोगः ।
तदसत् ।
यदि प्रत्यक्षे निष्कृष्टं नीलादि न प्रतिभासते शब्दादपि तथैव प्रतिभासतां । तत्रैव
सम्बन्धप्रतिपत्तेः । अथ परोक्षतया तथा न प्रतीतिः । प्रतीयमानं कथं परोक्षं । असन्नि
हितत्वाच्चेत् । न । असन्निहितेपि शब्दज्ञानवृत्तेः । अक्षव्यापाराभावादिति चेत् ।
न (।) अक्षमेव प्रतीतिकारणं । स्वरूपप्रत्यायनश्चेदक्षानक्षयोः को विशेषः । यत्र च
सन्निधानं तत्र कथमन्यथा प्रतीतिः । अक्षव्यापाराभावस्तु न कि (ञ्च) द्विहन्ति । स्पष्टतां
विहन्तीति चेत् । ननु यदि नाम स्पष्टताऽभावः । तथापि नीलताप्रतिनियतद्रव्यावेशेनैव
प्रत्याय्या । कथमन्यथा प्रत्येया । तथा च पदान्तरप्रयोगाभावः । अथानियतद्रव्यवृत्तयो
नील(ाद)यः । तथा सति नीलमप्यनियतं नीलशब्दाद् गम्यते, उत्पलमपि तद्वाचकत्वात्ततः1657
पुनरपि न सामानाधिकरण्यं । द्वयोरनियतवाचकयोरेकार्थप्रतिपादनासम्भवात् । परस्पर
व्यवच्छेदादेवं प्रतीतिरित्यपि न सङ्गतं ।
यद्यनियतं नीलादिशब्दप्रतिपाद्यं न पुनरन्येन नियन्तुं शक्यं । नहि प्रत्यक्षे प्रतिपन्न
मन्येन विवर्त्त्यते भ्रान्तताप्रसङ्गात् । संशयस्तर्हि शब्दान्तरान्निवर्त्त्यते । समुच्चयेन हि
प्रतिप(ादि)तमशक्यं निवर्त्तयितुं । यदा तु विकल्पः । किं नीलमुत्पलमथान्यदिति तदा
विकल्पस्य निवर्त्तनं शब्दान्तरादुपपन्नं (।)
तदप्यसत् । यतः ।
यद्यसावर्थ एवासत्त्यः कल्पनाविषयः किमपरेणान्यथा कर्त्तुं शक्यः । द्वयोरपि प्रमाण
त्वात् । अथ तेन सन्दिग्धरूप एव प्रतिपादितः । सन्दिग्धरूपता च दृढप्रत्ययनिवर्त्त्यतैव ।
ततोपरेण निवर्त्तनमुपपन्नं । नहि तथाभूत एव न तथाभूतः ।
तदप्यसत् ।
ननु पूर्व्वप्रत्ययेन नियमेन निवर्त्त्यता प्रतिपादितापरेण तु नियमेनेत्यस्त्युपयोगः ।
तदप्यसद् यतः ।
यः प्रमाणबलायातो (ऽ)नियमः सोन्यथा कथम् ।
तस्मादप्रमाणतैव पूर्व्वस्य परस्य वा । ततोऽसाधकत्वात् । परस्यापि तथा भूतत्वात् ।
सामान्यमात्रवचने परं व्यर्थं ।
४. सामान्यं कल्पितम्
अथानुमानं बाधकमेव । न । तस्यापि प्रत्यक्षेण बाधनात् । नानुमानात् तीक्ष्ण
ज्वालादिविशेषणपरिग्रहः । ततस्तत्रापि सन्देह एव । सामान्येन सन्देह इति चेत् । न ।
सामान्यप्रतिपत्तेः सन्देहरूपत्वात् । अनियतविशेषप्रतिपत्तिर्हि सामान्यप्रतिपत्तिः1658 । न ह्याकार
नियमसम्भवि सामान्यं । तथा हि ।
तदा किमपरत्रानुपप्लवेनापि । नहि सामान्यं प्रतीयमानमपि व्यक्तिप्रतिनियमप्रति
नियतप्रतीतिमाकर्षति । ततः सामान्यप्रतीतिरुपप्लुता । व्यक्तावुपप्लता न सामान्य इति
चेत् । तदसत् ।
यदर्थश्चायमारम्भस्तत्र चेत्तदुपप्लवः ।
619ननु सामान्यप्रतिपत्तिमन्तरेण स एव व्यक्तिविषयो विकल्पोपप्लवो न युक्तः । ननु
सामान्यनिश्चयेपि तदेव सामान्यं निश्चितं भवेत् कथमपरत्र संशयः । नान्यस्मिन् निश्चिते
परत्र सन्देहो युक्तः । सर्व्वत्र निश्चये सर्व्वसन्देहप्रसङ्गात् । अथापि स्यात् । सम्भविन
एव (अर्थस्य) सन्देहविषयता नापरस्य । तथा हि ।
संशयो हि सम्भविनि व्यभिचारिणि नोपपन्नः1659 । सामान्ये च यत्र यः सम्भवति
तत्र दृश्यमाने तत्र संदेहः । गोत्वे निश्चिते शावलेयादावश्वत्वे कर्कादाविति नातिप्रसङ्गः (।)
तदेतदसत् । यतः ।
किमयं शावलेयोऽथ वाहुलेयो गर्जितमात्रकमेव श्रूयते । शावलेयादिविशेषं तु नावधा
रयाम इति । शावलेयाद्याकारविकल्प(क)मेव केवलं लोकः प्रत्येत्येवमन्यदपि सामान्य
विकल्पनं द्रष्टव्यं ।
अथवा ।
तस्मान्न बाह्याश्रयो विधिनिषेधव्यवहारः सामानाधिकरण्याद्ययोगात् । अथोपाधय
एव केवलाः शब्दैर्व्विकल्पैश्च प्रतीयन्ते । लक्षितलक्षणेन तु तदुपाधिमतः प्रतीतिः । लिङ्गता
तर्ह्युपाधिविभागानां ततो लिङ्गेन निश्चिते द्रव्ये न सन्देह इति किमपरोपाधिप्रत्यायनेन ।
द्रव्यं न ज्ञायते किम्भूतमिति तदर्थमपरोपाधिप्रतिपादनं ।
तदसत् ।
अथो/?/ध्यन्तरयोगमात्रकमेव शब्दान्तरप्रतिपाद्यं न तस्य विशेषः । तथा सति केवल
प्रतिपादने कथमर्थक्रियायाः प्रसिद्धिः । न खल्वर्थक्रियोपाधिनैव केवलेन विधातुं शक्या ।
अथ तद्वारेणोपाधिमतः प्रतीतिः । न(।) पूर्व्वोपाधिनैव प्रतिपादनात् । अथ पूर्व्वोपाधिनो
पाध्यन्तररहितस्य प्रतिपादनं तथा च स्वयमेवाभ्यधायि । न स शक्यस्ततोन्येनेति ।
ननु यद्यन्योपाधिना सोऽन्यथा प्रमाणभूतप्रत्ययप्रतिपाद्यः कृतः । कथमुपाध्यन्तरसह
स्रेरप्यन्यथा विधीयेत । नहि प्रमाणेन विहितमन्यथा प्रमाणेनान्येन विधातुं शक्यं । समवाय
सम्बन्धाद्धि सकलोपाध्यवपृक्त एव व्यवस्थितस्तत् कथमन्यथा प्रत्येतुं शक्यं (।) प्रतिपादने वा
तदेव तस्य रूपं कथमन्येनान्यथा विधानं । अथ नैवान्येनान्यथा विधानमपि त्वध्यारोपमात्र
मन्यतो भवति तदन्यनिवृत्तिस्त्वसम्भवनियमात् । नहि तद्धर्मयुक्तञ्च स्यात्तदन्यधर्मयुक्तञ्चेति ।
तदसत्त्यं यतः ।
तस्मादभ्रान्तप्रत्ययेन सकलमेव प्रत्येयं । प्रत्यक्षप्रमाणवत् । ततः परोपाधिप्रति
पादनं व्यर्थं । यदि तु पृथगेवोपाधयः पृथगुपाधिमाँस्तत उपाधिप्रतिपादनमात्रादलक्षितल
क्षणादेकधर्मिण्यसंहार एव । अथोपाधिप्रतिपादनेप्युपाधिमतां (।) तथा सति पुनरप्ये
कोपाधिना प्रतीतेः सर्व्वोपाधिग्रहणं (।) न हि प्रप्यक्षेण न तथाग्रहः । अथ प्रत्यक्षेणापि
कदाचित् संस्थानमात्रस्य ग्रहणं दूरात् संनि/?/र्षे1660 तु वर्ण्णसाक्षात्1661 ।
तदप्ययुक्तं ।
तस्मान्न सामान्याधिकरण्यं ।
भवतामपि कथन्तदिति चेत् । तदाह ।
न खल्वस्माकमयं पारमार्थिको व्यवहारः सामानधिकरण्यादिविषयः । शब्दार्थ
माश्रित्यावस्तुसन्निवेशिनं प्रवर्त्तनात् । तथा हि । शब्द इत्यशब्दव्यावृत्त्यपेक्षया धर्मितया
व्यवस्थापनं शब्दशब्दार्थस्य । स च शब्दः प्रत्यभिज्ञानबलात् सदा स्थायितया स्वीकृतः ।
कृतकताबहिर्भावे न च (।) ततः प्रतिभासितमप्य नित्यत्वं विपर्यस्तव्यवहारापहारादनुपल
ब्धमिवासदितीव व्यवस्थापितं ततोऽनित्यता साधकप्रमाणादपरव्यवहारप्रवर्त्तने न विपर्ययव्यव
हारविषयापहारात् । तदा सत्त्वेन व्यवस्थापितं विहितमिति प्रतीयते । ततः स शब्दशब्दार्थो
धर्मी तद्भाजात्मभावेन प्रतिपन्नः । निषेधे च तदपसारितं ततस्तद्विविक्ततया प्रतिपत्तौ
तद्विपर्यस्तधर्मापेक्षकतया1662
प्रतीयते । प्रतीतय एव विधिनिषेधवत्यः केवलं न भावः तथाभत
रूपतश्चलति । तथा हि । एवमेव मया प्रतिपन्नः प्रागिति सैव प्रतिपत्तिः प्रत्यक्षा
तथात्वेन व्यवहारविषयतामापादिता । न तु (तत्र) विकल्पैरपरापरैर्विहितं निषिद्धं वा
किञ्चित् ।
(१) अन्यापोहः शब्दार्थः—
न खलु विकल्पा अतीतप्रतिपत्तिरूपसंस्पर्शिनः तदा तस्या अभावात् । अत एवा
न्यापोहः शब्दविकल्पार्थो भ्रान्तिमात्रव्यावर्त्तनात् । यदा तर्हि न भ्रान्तेरवतारः । प्रत्यक्षा
नन्तरमेव घटोयमिति विकल्पोऽकस्माच्च धूमादग्निप्रतिपत्तिः । तत्र कथमन्यापोहशब्दार्थता ।
नेदमपि साधीयः । तथा हि ।
तथा हि । वह्निनिश्चयः प्राह प्रवृत्तिविषयोयमग्निः किमौदासीन्यमत्र भवत इति (।)
तदौदासीन्यविषयतानिवर्त्तनमात्रकं विकल्पस्यार्थः । न हि तत्र वह्निः स्वरूपेण प्रतीयते न
चान्यथा प्रतिपत्तिप्रतीतिः । प्रतिपत्तिर्न्न च प्रत्यक्षोत्तरकालभाविना वस्तुविकल्पेन नीलं
शब्दविषयं प्रतिपन्नं पूर्व्वापररूपासन्निधानात् । इदन्तदिति नु विकल्प एव न भवति मानस
प्रत्यक्षत्वात् । अथ क्षणिकता (तेन) न प्रतिपन्ना ततो न प्रत्यक्षता । न वर्त्तमानता ।
प्रतिपत्तिरेव क्षणिकताप्रतिपत्तिरिति निवेदितं निवेदयिष्यते । तस्मादन्यापोहाश्रयेण
धर्मधर्मिभावसामानाधिकरण्यादिव्यवहाराः । अर्थभेदे हि व्यवहारविषये सर्व्वमुपपन्नं (।)
तस्यैव सर्व्वतो व्यावृत्तेर्न्न हि व्यावृत्तिस्तस्मादन्यायेनैकार्थोपसंहारो न स्यात् । कथन्तर्हि
शब्दस्यानित्यत्वमिति भेदनिबन्धना विभक्तिः । शिलापुत्रकस्य शरीरमिति यथा ।
ननु व्यावृत्तीनामभिन्नत्वात् कथम्भेदः । न हि वस्तुनो व्यावृत्तयो भिद्यन्ते ।
नैष दोषः ।
परमार्थपेक्षया न कदाचिद् भेदः । सम्वृत्या तु तासामुभयरूपता । तथा हि ।
ननु यदि संवृत्यायं व्यवहारः स वासनामात्रनिबन्धनः । कथन्न विसम्वादी लौकिकैर्न्न
विकल्प्य परित्यज्यते । न खल्वविसम्वादिनं व्यवहारं कश्चिन्न परित्यज्यते३ । उक्तमेतत् ।
तं तथैवाविकल्प्येत्यादि । नन्वेतदेव कथम् । न खल्वत्यन्तमूढोपि प्रमाणबाधन
मनुत्प्रेक्ष्यास्ते ।
अत्रोच्यते । अविसम्वादादविकल्पनं । अविसम्वादसम्भवे हि नावान्तरसूक्ष्मैक्षिका
युक्ता व्यवहारिणः । अविसम्वादार्थी हि तल्लाभाय खलु विकल्पयितुं क्षमः ।
धर्मभेदस्त्वनादिवासनातः तत्फलेतरावधिनिबन्धनबुद्ध्याकारपरिकल्पितः । सत्त्य
वस्तु1665 प्रतिबन्धादविसम्वादी । तत्र प्रतिभासभेदनिरूपणायामभिमतफलप्राप्तिजनितपरितोषः
पूरुषो नाद्रियते । वस्तुतत्वनिरूपणापरो1666पि तदर्थक्रियार्थी लोकव्यवहारमेवानुसरति ।
तथा चोक्तं ।
1667 622तेन स धर्मी व्यावृत्तिभेदनिबन्धनैरुपप्लवैर्विकल्पलक्षर्णैनीति सञ्चयोपचयैरिव
कुतश्चिद् व्यवहारसम्बन्धाद् दृष्टिमुपनीयते (।) दर्शनपथं तादात्म्यतदुत्पत्तिलक्षणात्
प्राप्तिलक्षणं । तस्मात्ते व्यवहारिणः परिज्ञात1668 विप्लवा इति । तस्मादसतो विपक्षाद्
व्यावृत्तिः सपक्षाद्वा न विरुद्धा ।
(२) आत्मनित्यत्वनिरासः—
अपि च । नैरात्म्ये घटादीनां प्रसिद्धे सति प्राणाद्यभावे व्याप्तिसिद्धिर्न्नान्यथा । न
चात्मा घटादिषु नास्तीति सिध्यति ।
जीवच्छरीरे हि सन्दिग्ध आत्मा कथं घटादावसन्दिग्धः । न खलु सन्दिग्धं साधनेन
प्राणादिनान्येन वा विषयीकर्त्तुं शक्यं । ततश्च ।
आत्मनः सन्देहे घटादय एव स्युः सपक्षा वा । ततः सपक्षाद् विनिवृत्तिः सन्दिग्धा ।
ततः कथमयं व्यतिरेकी ।
ननु बौद्धाभ्युपगमान्निरात्मन एव घटादयः । यद्येवं सर्व्वधर्मा अनात्मान इति
जीवच्छरीरेपि नात्मा स्यात् । अप्रमाणक एव बौद्धाभ्युपगम इति चेत् । तदा तर्हि
घटादयोपि तदभ्युपगमान्न1669
निरात्मान इति स एव दोषः । यतः ।
अदर्शने सत्यप्यदृष्टेष्वनुपलब्धिलक्षणप्राप्तेषु संशय एव । नहि कश्चिदनुपलम्भमात्र
कादभावं साधयितुं समर्थः । अपि च । सिद्धो नाम घटादिष्वात्माभावः तथापि प्राणादयो
नात्मसाधनसमर्थाः । नहि तेषां विपक्षाद् व्यावृत्तिरेव सिद्धा वृत्तेरपि सम्भवात् ।
ननु विपक्षान्निवृत्तः कथन्तत्रैव वर्त्तते । नहि निरात्मकमेकं प्राणादिमदन्यथा च
युक्त । न हीदमर्द्धजरतीयं लभ्यमेकभावनियम एव युक्तः ।
नैतदस्ति । यतः ।
नहि नैरात्म्यमित्येव सकलं समानं येन निरात्मकतया जीवच्छरीरमप्राणादिकं भवेत् ।
अपि तु निरात्मकमेव किञ्चित्प्राणादिमदपरमन्यथा । यथा पार्थिवं (एव) लोहलेख्यमपर
मितरत् । तथा हि ।
भावे विरोधस्यादृष्टौ कः संदेहं निवारयेत्1672 ।
न खलु नैरात्म्येन सह विरोधाप्रसिद्धौ प्राणादेर्न्निवृत्तिर्न्नैरात्म्यस्य । नहि प्राणादि
सहानवस्थाने ने(त)रेण वा विरोधलक्षणेन विरुद्धं नैरात्म्येन येन तन्निवर्त्तयेत् । अथ साक्षाद्
विरोधभावेपि पारम्पर्येण विरोध इति निवर्त्तकाः प्रणादयो नैरात्म्यस्य ।
तदसत् यतः ।
यदि प्राणादय आत्मनि नियताः स्यः । स्यान्नैरात्म्येन सह पारम्पर्येण विरोधो व्यापक
विरोधेन व्याप्यस्यापि विरोधात् । न चास्त्यात्मनि नियमः प्राणादीनां तादात्म्यं तदुत्पत्ति
मन्तरेण नियमायोगात् । अन्यथा नियमस्यासम्भवात् । न च प्राणादीनामात्मकार्यत्वमात्म
त्मकत्वं वा प्रसिद्धं प्रमाणतः ।
नैरात्म्यादपि तेन । आत्मप्रतिबन्धाभावेन । अस्य सन्दिग्धं विनिवर्त्तनम् । नहि
तत्राप्रतिबद्धस्तद्विपक्षाद् व्यावर्त्तते ।
यथा सपक्षाभावाभावेपि न सपक्षे भावः । तथा नैरात्म्याभावेपि नात्मा जीवच्छरीर इति ।
ननु । विषमोयमुपन्य सः । सपक्षे हि व्यतिरेकाभावेपि न भावस्तस्यासत्त्वात् ।
न ह्यसति भावसंभवः । जीवच्छरीरे तु तस्य सत्त्वाद् व्यतिरेकाभावे नियमेन भावः ।
परस्य राशेरभावात् ।
सत्त्यमेतत् । न विषमोपन्यासमात्रकादेवेष्टसिद्धिः । यदि सपक्षे नाभावः । स एव
तर्हि न निवृत्तो भावः । अभावे तु निवृत्ते नियमेन भावोऽभावव्यावृत्तिरेव भाव इति ।
सपक्षाभावान्नैवमिति चेत् । न (।) अभावत्वायोगात् । प्राणादिभावे हि कथं
सपक्षस्याभावता । यथा हि असति सपक्षे ऽप्राणादिव्यतिरेकेपि न विपर्ययस्तथा जीवच्छरीरेपि
नरात्म्यव्यतिरेके । अथ जीवच्छरीरस्य सत्त्वाद् विपर्ययो न सपक्षेऽविद्यमानत्वात् । न
ह्यविद्यमाने भावसम्भवः ।
अविद्यमानतैव तर्हि न निवृत्तेत्यायातं । अविद्यमाने विद्यमानताया विरोध इति सा
व्यावृत्ताऽविद्यमानतायास्तु न विरोध इति । साऽव्यावृत्तित्तैव । यथैव सपक्षोऽविद्यमानस्तथा
तत्रापि । न ह्यविद्यमानेऽवि (द्य) मानताविरोधः ।
अथ साप्यविद्यमानता न तत्र । तथा सति जीवच्छरीरे नैरात्म्यव्यावृत्तावपि न
नैरात्म्यव्यावृत्तिः । यथा सपक्षे भावाभावेपि नाभावः । तस्य सत्त्वादिति चेत् ।
नेदमस्ति । यतः ।
यो हि स्वयं व्यभिचारी स कथमन्यसत्त्वे (ना)ऽन्यथा वा तदव्यभिचारी स्यात् ।
किञ्च । यद्य विद्यमाने किञ्चिन्न सन्नासत् विद्यमानं । अविद्यमानमपि विद्यमानेन सन्नास
दिति किन्नाभ्युपगम्यते । यथाऽविद्यमानस्य नाधारता तथाऽधेयतापीति यत्किञ्चिदेतत् ।
एतच्च प्रागेव प्रत्यपादि । अपि च । नाभावमात्रं नैरात्म्यमपि तु प्रतिनियतरूपस्यात्मनोऽ
भावः । न च प्रतिनियतरूपादर्शने तदभावसिद्धिः । न खल्वभावाः परस्परतो व्यावर्त्तन्ते ।
भावभेदे तदभावानां भेदात् । भावप्रतिनियमाभावे च कुतस्तदभावभेदः । न चात्मा प्रति
नियतरूपतयोपलब्धो येन तद्विपर्ययाभावे (स) सिध्येत् । ततो नैरात्म्याभावे ऽभावनिवृत्तिमात्रं
न त्वात्मसिद्धिः । तस्मात् ।
सपक्षाव्यतिरेकी चेद्धेतुर्हेतुरतोऽन्वयी ।
नान्वय्यव्यतिरेकी चेदनैरात्म्यं न सात्मकमिति ।। ५४५ ।। संग्रहतिः
अपि च ।
यस्य धूमस्याग्निनान्तरीयकः स्वभावः प्रवृत्तिषु विधिषु सिद्धः । स एवाग्नेर्न्निर्व्वर्त्तकः
स्वयं निवर्त्तमाने । नान्यथा । प्रवृत्तौ च स एव प्रवर्त्तकोऽग्निर्धूमादेरिति हि प्रामाणिकी गतिः ।
न खलु नान्तरीयकतासाधनं दर्शनादर्शनं लक्षणमन्वयव्यतिरेकसाधनं विना प्रसिध्यति ।
ननु व्यति(रि)क्तयोः कार्यकारणभावानान्तरीयकतासाधनं न दृष्ट्यदृष्टी । न ।
तयोरेव दृष्ट्यदृष्ट्योः कार्यकारणभावत्वात् । न ह्यन्वयव्यतिरेकाभ्यामन्यः कार्यकारणभावः ।
नापि दृष्ट्यदृष्टिभ्यामन्यावन्वव्यतिरेकाविति । यस्य तु पुनः ।
अर्थान्तरस्य न साधनं नान्तरीयकतायाः । तद्भावेपि नापरस्याभावनियम1676 इति
न तदभावेऽभावस्य गतिः, तस्य व्यापकता(ऽ)भावात् । न चाव्यापकं निवर्त्तमानमपरस्य
निवर्त्तकं । न चात्मा व्यापकः सिद्धः तत्कथमसौ प्राणादेर्न्निर्व्वर्त्तकः । यतः ।
आत्मा हि न स्वयं देशकालयोर्व्विनिवर्त्तते नित्यताव्याप्तिसद्भावात् । ततस्तदभा
वादभावः प्राणादीनामित्यसिद्धमेतत् ।
५. हेतुसामग्रीशक्तिभेदाद् विश्वरूपता
अथान्वयमात्रादेवात्मा कारणं प्राणादीनां नहि व्यतिरेकमपेक्षते । सर्व्वत्र कार्यका
रणभावः सर्व्वः (?) ।
तदप्ययुक्तं यतः ।
यद्यन्वयमात्रादेव कार्यकारणभावस्तदा तदभावेपि भवतीति प्राप्तं । ततस्तैर्विनापि
कार्यस्य भवतोऽन्यस्मात् कथं तज्जं रूपं । अन्यस्मादपि भविष्यतीति चेत् । न (।) अन्य
स्मात् तद्रूपाभावात् ।
अतद्रूपत्वे स एव न भवति । यतः ।
ननु सामग्रीभेदाद् भेद इति कुत एतत् । भेदस्तावदुपलभ्यते । स कारणभेदादन्यथा
चेति चिन्तान्तरमेवैतत् ।
तदसत् । यतः ।
यथैवात्मा व्यापी नित्योऽन्वयमात्रेण कारणं तथाकाशादयोपि । तत आत्मवदाकाशा
दिगतिरपीति नार्थसिद्धिः ।
अथात्मना प्रेरकेण विना न प्राणादयस्तत आत्मा भस्त्राध्मापयितेव प्रतीयते । गोल
कप्रेरयितेव करणैः गवाक्षान्तरितप्रेक्षक इव दर्शनेनेति ।
तदप्ययुक्तं । यतः ।
निष्क्रियस्य विभोर्नैव प्रेरकत्वं प्रमाणवत् ।
भस्त्राध्मापयिता हि सक्रियः स प्रेरकः तथाऽव्यापितया न त्वेवमात्मा । कथन्तस्य
प्रेरकत्वं(।) नहि व्याप्यमूर्त्तस्य प्रेरकत युक्तिसङ्गता । अथ प्रेरकः तस्याप्यन्यः प्रेरक
इत्यनवस्था । गवाक्षकान्तरितश्च करणचक्षुरादिसमन्वितः पुरुष आत्मा तु नैवंभूतः कथं
प्रेक्षकः । अथ तस्यापि करणानि सन्ति । तत्राप्यपरो गवाक्षकान्तरितन्याय इत्यनवस्थैव ।
अपि च । अन्वयव्यतिरेकाभ्यामग्न्यादौ कार्यकारणभावः स कथं अ(त्रा)न्यथा
भवेत् । अथ तत्राप्यन्वयमात्रकादेव तथा सति तैर्व्विनान्यस्मादपि भवतीति प्राप्तम्(।) अन्यथा
व्यतिरेकस्यापि सम्भवः । तथा च तैर्व्विना भवतोऽन्यस्मादपि शक्रमूर्द्धादेर्भवतः कथमग्नि
जन्यता । उभयजन्यता चेत् । न । ततो(न्य)स्माद् भवतीति नोभयमपि कारणं(।)
तस्मादन्यतोपि भवतो न तत्कार्यता नाप्यन्यकार्यतेति कार्यक रणभाव एव1679 स्यात् । तथा
सति कार्यभेदाभेदौ कारणभेदाभेदायत्ताविति तदभावान्न स्यातां । दृश्यते1680 कथं प्रतिक्षेप
इति चेत् । न दर्शनस्यापि कार्यकारणभावासम्भवेऽसम्भव एव ।
यदि हीदृशी सामग्री भ्रान्तेतरप्रत्ययजनिकेति नियमस्तदा भवेत्प्रमेयप्रतिनियमः ।
अन्यथा यथाकथञ्चित् प्रतिभासमात्रकमिति सकललोकव्यवहारोच्छेदप्रसङ्गः ।
अथ प्रतिभासः स्वयं परस्परभेदी स्वसम्वेदनप्रत्ययप्रमेयः ।
तदप्यसत्त्यं ।
प्रतिभास1681 मात्राल्लोकस्य व्यवहारो न सिध्यति ।
अर्थक्रियाकरणप्रवणो1682 हि भाव उपादेयोऽन्योऽन्यथेति प्रेक्षावतां व्यवहारः । प्रति
भासमात्रकन्तत्क्षण एव तथा भवदहेयोपादेयं । तथा विज्ञप्तिमात्रकमद्वैतमिति न भेदा
भेदौ । स च कार्यकारणभावोऽन्वयव्यतिरेकाभ्यामिति । नात्मा कस्यचित् कारणमिति न
तस्य कुतश्चिदनुमानं । ततः ।
एकरूपमित्यहेयोपादेयं प्रतिभासमात्रकमद्वैतमिति यथा । अथ शक्रमस्तकस्याग्नि
रूपमप्यस्ति तद्विलक्षणमप्यस्ति । ततः कार्यमग्निस्ततोपि भविष्यति । अत्राह ।
रूपभेदलक्षणत्वात् पदार्थभेदस्य (।) ततोग्निरेव धूमस्य जनक इति न व्यभिचारः
कार्यहेतोः । न हि तदग्निरूपतायामपरं शक्रशिरः । येन तु रूपेण भिन्नं तदजनकमेव
कुतो व्यभिचाराशङ्का ।
ननु ।
627
न खलु दुग्धवारिणोरभिन्नरूपता तदन्यकठिनरूपभेदाद् व्यावृत्तेरेकत्वादेकता । तथा
कार्यस्यापि विक्लेदस्य । नहि विक्लेदोपि परमार्थतोऽभिन्नः । तदन्यव्यावृत्त्या तु तथा व्यप
देश इति न व्यभिचारः ।
तद्वदिति दुग्धवारिवदेव द्रवतायास्तदन्यव्यत्वत्त्या भेदेपि द्रव्यप्रत्ययाश्रयत्ववत् ।
भेदोपि दहनप्रययाश्रयस्तदन्यव्यावृत्त्यैव (।) येनांशेनेति दहन (प्रत्यय) कारणत्वेन तेनैव
गतिः । अन्यत्र द्रव्यव्यभिचारात् । दहनप्रत्ययाङ्गतामन्तरेण नोत्पद्यते धूम इति न तद्व्य
भिचारः । तथा हि ।
धूमश्चेन्धनविकारश्च तयोरेवाङ्गं वह्निर्न्नान्यः । तेन यद्यसौ नोष्णादिलक्षणः शक्रमूर्द्धादिस्तदा न स धूमोपि तुष्पादिरेव ।
एतदेव कुतो न ह्यदृष्टं नियममर्हति नान्यथा भवतीति । नीलमपि तर्हि नान्यदान्यथा
भवतीति । कुत एतत् । तथा सति नीलमेव न भवतीति चेत् । समानमेतत् । धूम एव
न भवतीति । कुत एतदिति समानमपरत्रापीति ।
ननु स्वरूपलक्षणं नीलादि न स्वरूपाभावे सति1688 । न च जन्यतालक्षणं धूमादिकं
तत्रापि (स्व)रूपमेव लक्षणमिति न समानमेतत् ।
अत्रोच्यते ।
न स्वरूपाभासमात्राद् वस्तुतो वस्तुतास्थितिः ।
स्वरूपमात्रनीलपीताद्यवभासनं हि भ्रान्ताभ्रान्तप्रत्ययसमानमिति न वस्तु सिध्यति ।
कारणकार्यताकृतस्तु विभाग इत्यलं प्रसङ्गेन । स्वभावहेतोः कथन्नान्तरीयकतेति चेत् ।
अत्रोच्यते ।
वस्तुमात्रानुबन्धी विनाश इति प्राक् प्रतिपादितोयमर्थ इति पुनर्न्न चर्व्वितचर्व्वणस्य
विधानं । तस्मादन्वयव्यतिरेकलक्षण एव कार्यकारणभाव इति नात्मना प्राणादीनामिति न
गमकाः ।
आचार्यस्याप्ययमेवाभिप्रायः सकल इति (।) कुत एतदिति चेत् ।
सकलव्यतिरेकहेतूदाहरणसाम्यकथनार्थमाचार्येण श्रावणत्वस्य व्यतिरेकिणो नैकान्तिक
प्रतिपादनं कृतमिति सर्व्वोयं न्याय आचार्यस्याप्यभिप्राय(स्थ) इति मन्तव्यम् ।
एवन्तावद् व्यतिरेकी न हेतुरिति प्रतिपादितं । सर्व्वस्य व्यतिरेकिणः श्रावणत्वे
ऽसमानत्वात्तस्य चासाधारणत्वेनानैकान्तिकत्वात् । तथा हि ।
नित्यानित्यनिरात्मकसात्मकराशिद्वयव्यतिरेकेण न राश्यन्तरं । भावाभावयोः परस्पर
परिहारविरोधस्य भाविकत्वादन्यथाऽव्यवहार1689
मसमंजसं जगत् स्यात् । न चोभयपक्षासम्भवि
किञ्चित् । यदि नित्यादनित्याच्च व्यावृत्तं श्रावणत्वं न भवेदेव तर्हि निरधिकरणत्वात् ।
शब्द एवाधिकरणमिति चेत् । न । शब्दत्वस्यापि समानो दोषः । तदपि सर्व्वतो व्यावृत्तेर्न्न
भवेदेव । तथा हि ।
नहि ततो व्यावृत्तत्वेन निश्चितस्तयोरेव सन्देहसम्भवी । न तर्हि श्रावणत्वं सप्देह
हेतुः शब्दत्वमात्रेणैव सन्देहात् ।
ननु शब्दत्वात् सन्देहे किमपरेणापि न सन्देहहेतुताभाजा भाव्यम् ।
ननु यो हि क्वचिद् दृष्टः सोपरत्र दृश्यमानस्तत्र शङ्कामुपजनयेत् । तदेव च सन्देह
हेतुत्वमुच्यते । श्रावणत्वन्न कथं सन्देहहेतुः ।
नैतदस्ति । यतः ।
यत्र हि प्रमेयत्वादौ साधारणानैकान्तिके संदेहः । स दर्शनद्वारेण विधिमुखेन असाधारणे
तु प्रतिषेधमुखेनेति तु कोनयोर्विशेषः ।
ननु न दृष्टं श्रावणत्वं नित्यानित्ययोरिति तयोरप्रतिपत्तिहेतुरेव युक्तं । अप्रतिपत्ति
मुखस्यैव दृष्टत्वात् ।
नेदं साधीयः । यतः ।
नैकान्ते द्वाभ्यां परस्परविरोधिभ्यां व्यावृत्तिसम्भव औदासीन्यं त्वत्र न लभ्यत एव ।
629ननु द्वयोरेकत्र प्रमाणाभावादेव सन्देहो न श्रावणत्वहेतुकृतः । यदि परं तदप्रतिपत्ति
(हेतु)रेव, साधारणानैकान्तिकेपि तर्हि प्रमाणाभावादेव सन्देहो न सहेतुकृतः । दर्शनद्वारेण
सोपि संदेहहेतुरेव । श्रावणत्वमप्यदर्शनद्वारेणेति समानमेतत् ।
अथ सन्देहे सति न संदेहव्यावृत्तिस्तत इति संदेहहेतुरुच्यते । श्रावणत्वमप्येवमेवेति
यत्किञ्चिदेतत् ।
अपि च ।
दृष्टं हि यद्यत्र (तत्) तद्विधानमेव कुर्यात् । नास्तीति द्वीतीयांशावलम्बनं कुतः ।
अथ द्वय र्न्नैकत्र परस्परविरोधिनोर्भावो युक्तः । एवन्तर्हि पक्ष एव संदेहो न स्पक्षद्वारकः ।
दर्शनेंपि पक्षसंदेहद्वारक एव संशयः स उभयत्रादर्शनेपि समानः ।
नन्वेकान्तव्यावृत्तिकृतः संदेहः । एकान्तेन द्वाभ्यां व्यावृत्तत्वेन निश्चयात् । योहि
द्वाभ्यां राश्यन्तरासम्भविभ्यां व्यावृत्तः स तेनैव रूपेणाप्रतिपत्तेर्हेतुः । तथाचाचार्येणाप्यय
व्यतिरेकी कथितः1690 । तथा चाह । यो ह्यसाधारणः साधनधर्मः स यावता भेदेन सर्व्वसंग्र
हस्तत्र संशयहेतुः तद्वता तत्संग्रहादेकान्तव्यावृत्तेश्च तत्कथमयं व्यावृत्तेरेव संशयात् संशयहेतुः ।
नैतदस्ति ।
उक्तमेतद् यतो द्वाभ्यां व्यावृत्तेर्यस्य निश्चयः ।
यो हि यस्माद व्यावृत्तः स कथन्तस्य न व्यवच्छेदसाधकः । अथ द्वयोर्व्यवच्छेद
साध्यकत्वादेवाप्रतिपत्तिहेतुः ।
नेदमस्ति । यतः ।
सत्त्यमन्यव्यावृत्तिसाधक एव हेतुः किन्तु तदन्यविधानाक्षेपकत्वेन । इह तु न
किञ्चिदन्यदाक्षिप्यते द्वयोरपि निवृत्तेः । कृतकत्वेन तु नित्यतानिवृत्त्याऽनित्यताक्षेपः ।
सत्त्यमेतत् ।
अनित्यस्य1692 नित्यत रोपस्य व्यवच्छेदमात्रेण कृतार्थमनुमानं । नित्यानित्यविकल्पयो
रेकव्यावर्त्तनेनापरस्य स्वत एव स्थानात् । तदपि कदाचिन्न भविष्यतीति चेत् । न ।
तस्य प्रत्यक्षसिद्धत्वात् । कार्यहेतौ । कथमिति चेत् । आस्तान्तावदेतत् । श्रावणत्वेन
तु यदि द्वयमपि व्यवच्छिन्नं तदन्यथात्वविधानं प्रत्यक्षसिद्धम्भवेदिति हेतुरेव भवेत् ।
अन्येन (तु) हेतुना तदेकसाधनेन न हेतुरिति चेत् । न । प्रत्यक्षसिद्धे कथमन्यो
हेतुर्निषेधकः स्याद् विधायको वा । अथ प्रत्यक्षं न निषेधकृत् । ततो परस्य परेण विधानं
निषेधनम्वा न श्रावणत्वेन । द्वयोर्व्व्यवच्छेदे कथमपरेण विधानं । अन्यथा तत्राप्यपरेण
विधानमिति कथमपरस्यापि प्रमाणता भवेदिति सर्व्वत्रानाश्वासः । न च प्रत्यक्षमनिषेधकं ।
तथाभावे हि विधायकमपि न स्यात् । विधानं वस्तुप्रतिपादनं न च वस्तु तदपरव्यतिरिक्त
निषेधमन्तरेण प्रतिपादितं भवति । यतः ।
अत्र विचार्यते । वस्तु स्वयं स्वरूपतः परस्मादव्यावृत्तमन्यथा वा । यदि व्यावृत्तं
प्रत्यक्षेण तथा गृहीतमगृहीतम्वा । गृहीतञ्चेत् कथमन्यस्यानिषेधः । स एव हि परस्य तत्र
निषेधो यत्परिहारेण तस्य रूपान्तरतया प्रतिभासनं । अन्यथा संकुलप्रतिपत्तेरव्यवहार इति
निष्फलं प्रमाणं । अथ परेण प्रमाणेनापरस्य निषेधव्यवहारः ।
तदप्यसत् । यतः ।
प्रत्यक्षस्याप्रमाणत्वे कः परत्र समाश्वासः । अथ वस्तुमिश्रणमेव परेण । ततः
परप्रमाणशतेनापि न निषेधः । न हि स्वरूपमन्यथा कर्त्तुं शक्यं । अथ केनचिद् रूपेणा
मिश्रितमिति1693 निषेधः । येन रूपेण (ा) मिश्रणं तेनापि रूपेण प्रत्यक्षेण गृहीतमेव । अन्यथा
न्यथाग्रहणे कथं व्यावृत्ततार्थस्य । (परेण प्रतीतौ व्यावृत्ततावगम इति चेत्) परेण
(ान्यथा) प्रतीतौ सर्व्वत्रानाश्वास इति प्रतिपादितं ।
गर्ब्भगृहे हि प्रथम (?) प्रवेशेऽप्रमाणमेव प्रथमदर्शनं । तेन तद् बाध्यते न तु प्रमाण
मेव । तस्माद् यदि प्रत्यक्षेणोभयव्यावृत्तशब्दग्रहणं तदा न परस्मात् संदेहोन्यथा वा तथा
श्रावणत्वेन वा । तस्मादव्यावृत्ततयैव श्रावणत्वात् संदेहः । एवं सर्व्वो व्यतिरेकी ।
अदर्शनमात्रन्तूपादायाचार्येण व्यतिरेकी प्रतिपादितः । कथन्तर्हि एकान्तव्यावृत्तेरिति वचनं ।
नैकान्तेन निश्चये व्यावृत्तेरित्यर्थोपि त्वेकान्तस्य निश्चयस्य व्यावृत्तेरिति । नहि नित्येऽनित्ये
वास्य भावेनाभावेन वा निश्चयः । ततः परमार्थतो ऽव्यावृत्तिरेव ततोनैकान्तिकता । एवन्ता
वद् विवादाद् भेद इति व्याख्यातं ।
सामान्यमिदानीं व्याख्यायते । यथैकान्तव्यावृत्तो व्यतिरेकी गमकस्तथैकान्तेनान्वय्यपि ।
तथा हि ।
नह्याकाशस्य सत्त्वमसत्त्वम्वा तस्यासत्त्वात् । तेनाव्यभिचारितान्वयो हेतुर्गमक एव ।
नैतदस्ति ।
आकाशासत्त्वपक्षे हि यद्यप्यस्य न सम्भवः । तथाप्यस्या1694 प्रमेयत्वं कथञ्चिन्न निवर्त्तते ।। ५६६ ।।
631असतामपि कथञ्चित् प्रमेयताऽस्त्येवान्यथा विधिनिषेधाम्यां व्यवहार एव न भवेत् ।
नहि सत्त्वं केवलं व्यवहर्तुं शक्यं । परस्परपरिहारेण हि व्यव्यस्थिताः पदार्थात्मानो व्यवहार
विषयो ऽन्यथार्थक्रियाविरहादनर्थता स्यात् । अर्थक्रियार्थिनां स्वपरविभागाभावे च को व्य
वहरेत् । क्व वा किमर्थम्वेति सर्व्वमसदेव भवेत् । नहि परपक्षमसद1695 प्रतियता स्वपक्षः
शक्यः समर्थयितुं । आकाशञ्च स प्रतिघपदार्थाभावमात्रमवश्यं प्रमातव्यमन्यथा न पदात्
पदमपि चलितव्यमापतेत् । तस्मात् सतः पदार्थान् प्रतिनियमेन व्यवस्थापयता प्रमेयोऽभाव
एवं स व्यवस्थापितः । प्रमाणेन व्यवस्थापित इति प्रमेयः । न हि वस्तुविषयमेव प्रमाणं ।
परिच्छेदलक्षणत्वात् प्रमाणस्य । परिच्छेदकार्येव प्रमाणं । न चेत् स्वविषये परेण बाध्यते ।
तस्माद् व्यवहाराविसम्वादसाधनप्रत्ययपरिच्छेद्यत्वात् प्रमेय एवाभाव इति नाव्यभिचरितान्वयं
प्रमेयत्वादिति । ततः साधारणतया1696 नैकान्तिकं । अथ प्रमेयता प्रत्यक्षपरिच्छेद्यतैवोच्यते ।
तथा सति प्रत्यक्षस्य वस्तुन उदयादर्थक्रियासामर्थ्यमेव प्रमेयत्वं । ततोर्थक्रियाकारित्वमेव
गमकमित्यापतितं(।) तच्चावस्तुनो(पि) व्यावृत्तेर्व्यतिरेकसम्भवात् कथमन्वयी हेतुः ।
भवति चासतोपि व्यावृत्तिरिति प्रतिपादितं ।
एतेन वस्तुत्वादयोपि व्याख्याताः । तस्मादन्वयव्यतिरेक्येव कार्यस्वभावलक्षणो हेतुः ।
नन्वनुपलब्धिरपि तृतीयो हेतुरिति प्रतिपादितं । प्रतिषेधस्तु सर्व्वत्र साध्यतेऽनुप
लम्भत इत्यादिना ।
अथ वस्तुविषयहेतुप्रभेदोपदर्शनमेतत् । तथा सति प्रतिबन्धोनुपलब्धेरूपपादनीयः
न च तादात्म्यतदुत्पत्तिभ्यामपरप्रतिबन्धप्रकार इति प्रतिपादितं ।
अत्रोच्यते ।
कारणव्यापकाभावादभावो व्याप्यकार्ययोः ।
अभावो हि नाम न कश्चित् स्वतन्त्रो व्यवहारविषयोऽपि तु विवक्षितस्य वस्तुन एव ।
तच्च वस्तु सन्दिह्यमाने परोक्षतया कथन्नास्तीति सिध्यति1697 । नहि तस्यानुपलब्धिरेव गमि
काऽभावस्यानुपलब्धिलक्षणप्राप्तत्वात् । एवं तु तदभावः सिध्यति(।) यदि तस्य कारणं
वा नास्तीति । तत्र च (दर्शितः) स एव द्विविधः प्रतिबन्ध इति सिद्धप्रतिबन्धिकैवानुप
लव्धिः ।
५. अनुपलब्धिचिन्ता
१. अनुपलब्धिः पृथग् हेतुः
उदाहरणं कस्मान्नोपात्तं । उपात्तमेव यतः ।
उपात्तमेवानुपलब्धेरुदाहरणं न तु पृथक् । किं कारणं । हेतुस्वभावव्यावृत्यैवा
र्थस्य (कार्यस्य) स्वभावस्य च व्यावृत्तिकथनात् ।
निवेदितमेतत् ।
आत्मत्वे1698 हेतुभावे वा सिद्धे हि व्यतिरेकिता ।
सिध्यतीत्यादिस्वभावानुपलब्धिरपि निर्द्दिष्टैव । हेतुस्वभावयोरनुपलब्धयोरेव भावस्य
निवर्त्तनात् । तथा चोक्तं । सिद्धं प्रमाणैर्व्वदता मित्यादि । उपलब्धिलक्षणप्राप्तत्वं
विशेषणमिति कथं सिध्यति ।
अत्रोच्यते ।
परेणोक्तं घटादौ प्राणादिनिवृत्तिरात्मनिवृत्तेर्यदि च जीवच्छरीरादप्यात्मा व्यावृत्तः
प्राणादयोपि व्यावर्त्तेरन् ।
अत्राचार्येण प्रतिपादितं । घटादावात्मा सत्त्वमेव दृश्यत्वमेवादृश्यत्वादात्मनो न
सिद्धमनुपलव्धिमात्रात् संहेदा (? देहा) दिति । अतो दृश्येर्थेऽनुपलब्धिर्गमिकेति सूचितमेव ।
ननु व्यवच्छेदसाधनत्वे सर्व्व एव हेतुरनुपलम्भ एव तत्कथं हेतुत्रितयं ।
नैष दोषः । यतः ।
वस्तुन्यपि प्रदेशे न पर्युदासः साध्यतेऽपि त्वनङ्गीकृतवस्त्वभावे1700 निषेधः साध्यते ।
पूर्व्वाभ्या तु स्वभावकार्यहेतुभ्यां पर्युदासद्वारेण । तेन विषयभेदाद् भेद एव प्रतिबन्धसमान
तायामपि ।
ननु कः स्वभावानुपलब्धौ प्रतिबन्धः तादात्म्यमित्याह ।
तत्रोपलम्भेष्वस्तित्वमुपलब्धेर्न्न चापरं ।
न ह्यनुपलब्धेरन्यैवासत्ताऽपि त्वनुपलब्धिरेव ।
ननु ज्ञानव्यतिरेकोऽनुपलब्धिः । सत्ताव्यतिरेकोनुपलब्धिः (?) सत्ताव्यतिरेक
स्त्वभावस्तत्कथमनयोस्तादात्म्यं । यथा च ज्ञानज्ञेययोर्भेदस्तथा तदभावयोरपि (।) न खलु
ज्ञानमेव पदार्थस्य सत्ताज्ञानव्यतिरेकेणापि तस्याभावात् । तथा हि ।
न च तत्राप्यनुमानोपलम्भ एव सत्ता । अनुमानाभावेपि सत्तायां व्यभिचारात् ।
नानुमाननिवृत्तिरभावं गमयति । अतीतानागतयोरप्यनुमानवृत्तेः ।
नेदं साधीयः ।
633उपलब्धिलक्षणप्राप्तस्य (हि) तदनुपलब्ध्याऽभावव्यवहारः साध्यते न च तेषामुपलम्भा
दन्यैव सत्ता । तथा हि विप्रतिषिद्धमेतत् । उपलब्धियोग्यो न चोपलभ्यत इति । तस्मा
दुपलब्धिलक्षणप्राप्तपदार्थसत्तोपलभ्भ एव । तथा हि । यद्युपलभ्यमानतोपलब्धिस्सा
पदार्थस्वभावैव । अथोपलम्भनमुपलब्धिः कर्तृस्थतयो1701 च्यते । तदाप्युपलब्धिलक्षणप्राप्तसत्ता
तया प्राप्तैव1702 । तदव्यतिरेके च न भेदप्रतिपत्तिर्व्यतिरेकस्य गम्यत्वाद् भेदस्य ।
तदव्यभिचारादुपलम्भः सत्तोच्यते । न च व्यतिरिक्तसमानकालोपलम्भादुपलम्भः पदार्थानां ।
अपि तु तदनुप्रविष्टोपलभ्यमानतालक्षणोपलम्भादेव । तस्मादुपलम्भ एव सत्ता । ततस्तद
नुपलम्भ एवासत्तेति वक्ष्यति । न हि परस्परमभावानां परमार्थतः कश्चिद् भेदः । भाव
विशेषणभेदे तु भेदः । पटस्याभावः शकटस्येति च । न च निर्व्विशेषणो भावः तत्त्वं प्रति
लभते । अथ भावाभावयोर्भावभूतम्विशेषणमेकमेव । अतस्तदभावयोरप्येकत्वमेव । न च
परमार्थतोऽभावस्य ततः1703 प्रतिषेध्यभेदेपि ।
ननु यद्यभाव एवानुपलब्धिस्तदाऽविप्रतिपत्तिरेव । सत्त्यमेतत् । यतः ।
एका स्वभावानुपलब्धिलक्षणा इति । परिज्ञानरहितस्य यो हि ज्ञानज्ञेयाभावयोरभेदं
नावगच्छति । यो वा सांख्योत्यन्तविमूढः सर्व्वं सर्व्वत्र विद्यत इत्याग्रहवात् । तस्याज्ञस्य
प्रती यर्थमेका स्वभावानुपलब्धिः । किन्तर्हि तत्र प्रसाध्यते ।
विषयो हि ज्ञानाभिधानयोः सत्त्वं । तत्संदेहश्च तयोः सन्देहस्य । तस्य विषयस्याभावे
नियमेन ज्ञानमभिधानं सन्देहश्च निवर्त्तते । विषयस्य विपर्ययस्य सत्त्वात् । यथा न पावको
दाहाभावात् । दहनभावे हि पक्षान्तरे पावकसंदेहः तदभावे तु विपर्ययस्य भावात् । कुतस्तस्य
सम्भवः । यतोऽदाहादपरा नास्त्यपावकता । यथा च नादाहादपराऽपावकता ।
न खल्वन्यैव नास्तिता नामोपलब्धिलक्षणप्राप्तेष्वनुपलम्भनस्वरूपाद् बहिः । ततस्तत्सि
द्धौसिद्ध एव तदात्मीभावः1704 ।
नन्वभावोऽनु(प) लम्भेन साध्यते । तत्कथं साध्यसाधनयोरेकता ।
तदप्यसत् ।
यदुच्यते साध्यसाधनयोर्भेदेन भवितव्यं (।) स एवात्र साध्यसाधनभावो न सिद्धः ।
तत्कथै तथा भेदस्य सिद्धिः । न खल्वसिद्धमसिद्धतः सिद्धिमता यावत् साध्यसाधनभावो न
634
सिद्धः परं प्रति न तावद् भेदसिद्धिः । यावच्च न भेदसिद्धिर्न्न तावत् साध्यसाधनभावः ।
प्रतिबन्धे हि सति साध्यसाधनभावः न तादात्म्यं प्रतिक्षिपतोऽनुपलम्भाभावयोरपरः प्रतिबन्धः ।
नहि कार्यकारणभावस्तयोः ।
नन्वभावेनानुपलम्भः क्रियते । यदैव घटादेरपनयनं करोति कश्चित् तदैवानुपलम्भः ।
सत्यमेतद् यद्यभावः परेणानुपलम्भतः प्रमाणेन ज्ञायते ततो न सहानुपलम्भवदस्य
प्रतिबन्धः प्रसिध्येत् । अन्यथेतरेतराश्रयदोषप्रसरः केन निवार्यः ।
तस्मादनुपलम्भान्नाभावः प्रसिध्यति । प्रतिबन्धाभावात् । तादात्म्यप्रतिबन्धे तु
स एवानुपलम्भोऽभाव इति व्यवहार एव साध्यते ।
ननु व्यवहारसाधनेपि नास्त्येव दृष्टान्तः । अनुपलब्ध्यैव सकलो व्यवहारः साधनीयः ।
तदा च दृष्टान्तान्तरस धनेऽनवस्थैव । व्यवहारश्च कार्यभूत एवानुपलब्धेः । ततः कारणात्
कार्यसाधनमयुक्तं । नावश्यं कारणानि तद्वन्तीति(।)
तदसत् यतः ।
सिद्ध एवायं व्यवहारो दृश्यादृष्टिनिबन्धनः । तावन्मात्रनिबन्धनतया अभाव
व्यवहारयोग्यताऽनुपलब्धिस्वभावैव योग्यतायाऽ(?अ) नर्थान्तरत्वात् । व्यवहारस्त्ववश्यमेव
तद्दर्शनात् सचेतनः प्रवर्त्तयेत् । तावन्मात्रनिबन्धनमभावव्यवहारं स्मरन्नवश्यमेव तच्चेतना
वान् भवति । कायवाग्व्यवहारन्तु यदि नाम न प्रवर्त्तयति । मा स्म प्रवर्त्तयत् । प्रमाणस्य
प्रमाणताप्रतीतिसाधनतया न कायादिव्यवहारसाधनात् । तस्मात्(।)
—इति संग्रहः ।
न खलुं दर्शनादर्शनविशेषव्यतिरेकेणापर (ा) कार्यकारणता । कार्यमस्येत्ययमेवार्थ
एतदन्तरेण न भवतीति । यदि तु व्यतिरिक्त एतस्मात्तदैतदभावेपि भवेदेव (।) तथा सति
व्यर्थकः प्रतिबन्धः परः ।
अथ तदभावे न भवेत्तथा सति स एव सम्बन्ध इति व्यर्थकः परः ।
ननु सम्बन्धे सति तदभावे न भवति । तद्भावे भवतीति सिध्यति ।
न चान्वयव्यतिरेकाभ्यामपरः कार्यकारणभावः प्रतिभात्यतीन्द्रियदृशोपि । तस्मादन्वय
व्यतिरेकाभ्यां कार्यकारणभावव्यवहारस्य साध्यता ।
कथन्तर्हि शब्दान्यत्त्वमर्थान्यत्त्वमन्तरेण न तयोरेव दृष्ट्यदृष्ट्योर्व्यवहारार्थं लाघवेन
कार्यादिशब्दनिवेशः । तेन ।
कारणं (हि)1705
समर्थं कार्यस्वभाव एव वस्तुतः । ततोनुपलब्धिः स्वभावहेतुरेव ।
ततो नास्याः पृथगुपन्यासः ।
ननु कथं स्वभावानुपलम्भः स्वभावहेतावन्तर्भवति तादात्म्यप्रतिबन्धमन्तरेण ।
यथा च भावयोर्न परस्परं भेदः तथाऽभेदोपि । न खलु निरात्मनः तादात्म्यसम्भवः । न हि
शशविषाणं खरविषाणात्मकं ।
अत्र हि प्रतिविधीयते । प्रतिषेघ्यविपरीतस्वभावात्मिकैवानुपलब्धिः । तथा हि ।
न खलु रिक्तात्माऽभावः प्रमाणगोचरविचारवत्तरः । न च तेन सिद्धेनापि स्वरूप
मात्रतः किञ्चित प्रसिद्धिमत् । वस्तुसांकर्यपर्यालोचनलोचनैरेव स तथेष्यते । तत्र यदि
वस्तुदेशकालावस्थान्तरभावाद् व्यावृत्तं स्वरूपतः किमपराभावकल्पनया । अथ न व्यावृत्तं
स्वरूपतः तथापि व्यर्थकः परोऽभावः । एकत्र व्यर्थः परत्रासमर्थ इति प्रत्यपादीदं प्रागेव ।
तस्माद् अन्यभावरिक्ततयैवं स्वभावभूत (ो) धर्मभेदेन तथा व्यपदिश्यते घटादेरभाव इति ।
यतः । एकस्य पदार्थस्य विवक्षितपदार्थस्वरूपविविक्तात्मनो य उपलम्भः तस्य योऽनुभवः
स्वसम्वेदनतया तस्मादेवेदं नोपलभे इति स्मरणविपरिवर्त्तमानमतिः कल्पनारूपोपजायते ।
तत्र प्रदेशानुभव1706
एवापरस्यानुपलम्भः । यत एतदन्येन स्वरूपेण नोपलभे इत्ययमेवात्रार्थः ।
तेन स्वरूपेणानुपलब्धिरस्य । तेन रूपेणेदं नास्तीति ।
ननु च तदुपघातकमिह नास्तीति1707 तस्याभावोऽनेन रूपेणेति साध्यं तत्कथं विपर्ययस्य
वचनं । सत्त्यमेतद् यदि परोप्यत्रार्थो नान्तर्भवेत् (।) स त्वन्तर्भवत्येव । तथा हि ।
यदि सोनेन रूपेण विविक्तो न स्यादयमपि न तेनेति परिस्फुटार्थे कः परस्य व्यामोहः ।
तस्मात् तद्विविक्ततैवास्यात्राभावः । यतश्च तद्विविक्तप्रदेशदर्शनादेव नोपलभे तदिति मतिः ।
तदन्यरूपेण चोपलभे इति ततोनुपलम्भस्योपलम्भस्य च तादात्म्यादुपलम्भ एवानुपलम्भः ।
636
ननु भवत्वयमनुपलम्भो ज्ञानान्तरस्य ज्ञेयान्तरन्तु1708 कथं । ज्ञानज्ञेययोरभेद इति
प्रतिपादनाददोषः । अथवा वा शब्द इवार्थे । यथा उपलभे इति विकल्पविषयत्वात्तथाध्य
वसीयमान उपलम्भस्तथा नोपलभे इति व्यवसायादनुपलम्भोपि ।
इति चेत् । न (।) अविविक्तस्य वेदनेऽभाववेदनस्य सामर्थ्य (।) प्रमाणेन गृहीत
स्यान्यथा कर्त्तुमशक्यत्वात् । प्रतिपादितञ्चैतदिति नोच्यते । तथा हि ।
नहि स्मृतिं विना(ऽ) भावप्रमाणस्यास्ति सम्भवः ।
नन्वभावसाधिता भावसंभवादेव विशेषसिद्धिर्भावानां तत्कथमभावमन्तरेणासाकर्य ।
नैतदस्ति । यतः1709 ।
यदि न विशिष्टं वेदनं वेदनान्तरविविक्तं भवेत् । न वेद्यविशेषगतिः । यदि च स्वस
म्बेदनेन तद्रूपसम्वेदनस्याननुभवः तदा तस्यापि विशिष्टता न गम्यते । अभावसम्वेदनेन
गम्येत
नहि प्रतियोगिस्मरणमन्तरेणाभावप्रमाणोदयः । न च विशिष्टसम्वेदनाभावे प्रति
योगिनः स्मरणं । अथ पूर्व्वन्तस्य विशिष्टानुभवः । तथा सत्यस्यापीति व्यर्थक एवाभावः ।
अथाभावेन स एवाभावव्यवहारः साध्यते । किमन्येन सिद्धस्यान्येन साधनेन । व्यवहार
साधने सैवानुपलब्धिः स्वभावहेतुस्वभावा । तस्मादन्यविविक्तस्वसम्वेदनभावादेव भेद
विकल्पः (।) स एव च भेदस्तदन्याभावः ।
धियः स्वसम्वेदनादेवान्यव्यावृत्तताप्रसिद्धिः । ततोप्यर्थस्येति परिसमाप्तः स्व(?)
सम्वेदनव्यवहारः । यदि तु न प्रत्यक्षादेव भेदः अपि त्वभावप्रमाणतः । तथा सत्यनवस्था
नादप्रतिपत्तिः ।
तथा हि ।
सोप्यन्येन ततोन्येन तदन्योप्यनवस्थितिरिति न व्यवहारः1710 । अभावेन हि प्रमाणेन
यद्यनधिगतः प्रत्यक्षेण भेदः प्रतीयते । तस्याभावस्य प्रतियोगिस्मरणे सत्यवतारः । प्रति
योगितया च स्मरणं प्रत्यक्षतो भेदग्रहणे सति भवतीति व्यर्थकोऽभाव इदानीमपि पूर्व्ववत् प्रत्य
क्षेणैव भेदग्रहणमिति ।
अथ तथापि1711 नाभावमन्तरेण भेद इति नाभावस्य व्यर्थता । तथा सति तत्राप्यपरेण
637प्रतियोगिस्मरणेनाभावावतारकृता भाव्यं (।) तदपि स्मरणमपेक्ष्यत1712 इत्यनवस्था । अभ्युप
गम्य चेदमुच्यते न तु पुनः सम्भवतीदानीं गृह्यमाणस्य तदा प्रतियोगितया स्मरणं येन तदानी
मभावावतारे तस्यास्माद् भेदग्रहणमिति न सम्भवत्यभावावतारः । तस्मादप्रतिपत्तिरेव
परदर्शने भेदस्य ।
विशिष्टरूपानुभव एव तदन्यस्याभावसाधनं । नतु विशिष्टरूपानुभवमन्तरेणान्यस्य
तत्राभावसिद्धिः ।
ननु विशिष्टरूपानुभवात् तथाभूततैव तस्य सिध्यति । कथन्तत्र तस्य (भेद)ा भावः ।
नहि देशकालान्तरभाविनस्तत्राभावस्तस्यानुपलब्धिलक्षणप्राप्तत्वात् ।
तदसद् यतः ।
विशिष्टरूपानुभवे हि पदार्थानुभव एव न स्यात् । विशिष्टश्चेदधिगम्यते रूपं घटादेः
किमपराभावप्रतिपत्त्या । न चा भावसहस्रप्रतिपत्त्यापि विशिष्टरूपानुभवः स्वरूपविशेष
प्रतिपदम्विना । स्वरूपप्रतिपत्तिस्त्ववश्यमेषितव्या । न च (ा)परो भावः स्वरूपतः प्रत्येतुं
शक्य इति प्रतिपादितं । तस्माद् विशिष्टरूपानुभव एवापरस्याभावसाधनं । अनुपलम्भ
नमपि तस्य विशिष्टोपलम्भनमेवान्यस्य ।
तन्नियतरूपोपलम्भ एवाभाव इति सिद्धमभावानुपलम्भयोस्तादात्म्यं प्रत्यक्षसिद्धत्व
ञ्च(सिद्धमि) ति नासि (ि) द्धप्रतिबन्धाभावदोषः । स चानुपलम्भः समर्थ एव हेतुरिति ।
स्वमात्रवृत्तेरेवाभावव्यवहारस्य प्रवर्त्तकः । अन्यथा यद्यनुभवाभावो1713 ऽनुपलब्धिर्भावाभावश्चा
भावः । तदानवस्थानादसिद्धिरेवेत्याह ।
यथाभावाभावोऽनुपलम्भेन तथोपलम्भाभावरूपोप्यनुपलम्भः । तस्यापरेणानुपलम्भेन
तदभावोप्यपरेणेति नानवस्थानतो मुक्तिः । अथार्थस्याभाव उपलम्भसाधनत्वादुपलम्भाभावेन
साध्यते । उपलम्भस्य तु भावो नापरसाधन इति तदभावोपि नापरसाधनः ।
तदेतदसत् ।
अथापरप्रत्यक्षसिद्धोऽभावः सम्वेदनस्य वस्तुनोपि तर्हीति प्राप्तं ।
638ननु वस्त्वनुपलब्धिलक्षणप्राप्तत्वात् न परप्रत्यक्षतः सिध्यति । तस्य विज्ञानादन्यद्
रूपमिति । सम्वेदनस्य सम्वेदनत्वादपररूपाभाव इति (।) तदपरप्रत्यक्षसिद्धोऽभावः । तथा
च । इदं नोपलभे इति । उपलम्भमेवोत्तमपुरुषेण निरस्यति न वस्त्विदं नास्तीति ।
तस्मादनुपलम्भोयं स्वयं प्रत्यक्षतो गतं इति । ज्ञानाभावलक्षण एव ।
तदसत् ।
अन्योपलम्भेनान्यस्य पराऽसत्ता गतिः कथं ।
न खलु तद्विविक्ततामन्तरेण ज्ञानान्तरस्याभावसाधनं ज्ञानान्तरसम्वेदनेन । तद्विविक्तो
पलब्धेरेव च तदनुपलब्धिः । तत्कथं प्रत्यक्षसिद्धस्तदन्यसम्वेदनाभावः । अथोपलब्धिलक्षण
प्राप्तमिति न विशेषणमव्यभिचारात् । तथा सति विशेषणं न स्यादनुपलब्धिता (तु)
नापैति । तस्माद् यावान् कश्चित् प्रतिषेधः स सर्व्वोनुपलब्धेरिति पर्युदासलक्षणो (ऽ) भावः
प्रत्यक्षसिद्धः । स एव चान्यापेक्षयानुपलम्भः । यत्तु पुनरिदं नोपलभे इत्युत्तमपुरुषप्रयोगः
स ज्ञानपर्युदासलक्षणानुपलब्धिप्रकरणतो न त्वर्थाभावनिरासाय । तदव्यतिरेकादसावेव
वस्तुनोप्यभाव इति । यदा हि सत्तोपलम्भयोरेकता तदा वस्तुव्यतिरेकस्यापि प्रत्यक्षसिद्धतैव न
खण्डशः/?/ सम्भवः ।
ननु व्यापकानुपलब्ध्या (ऽ) भावः सिध्यति । तथा हि । उपलब्धिलक्षण (प्राप्तस्य)
भाव उपलम्भेन व्याप्तः तदभावतस्तत्सरूपाद्1714
वस्त्वभावप्रसिद्धिः ।
सत्त्यमेतत् ।
यदि व्यापकानुपलब्धिरूपलब्धिलक्षण (प्राप्त)स्य प्रत्यक्षप्रसिद्धोऽभावः(।) सर्व्वत्र
तर्हि तदभावः प्रत्यक्षसिद्ध एव न स्वभावानुपलब्धिर्न्नाम । व्यापकानुपलब्धिश्चामूढस्य
यद्यभावसाधनी (।) मूढस्यापि सैव स्मरणेन विषयीक्रियता किमनुपलब्ध्यन्तरकल्पनया ।
स्वभावानुपलब्धिर्व्वा यदि मूढस्य सैव पुनरमूढस्यापि भविष्यत्यकस्माद् धूमप्रतिपत्तिवन्न
खलु तत्र त्रित्वमपैति । किञ्च ।
दृश्यस्य हि सत्तोपलम्भेन व्याप्तेत्ययमवष्टम्भो व्यापकानुपलब्धिवादिनः । अयञ्च
स्वभावानुपलब्धिवादेपि समान एव । न हि तादात्म्ये सति न व्याप्यव्यापकभावः । तथा
चोपलम्भः (एव) सत्तेति प्रतिपादितं । तत्कार्यहेतुव्याप्त्यव्यतिरेकात् तत्स्वभावाविशिष्ट
मिति तदनपलम्भः स्वभावानुपलम्भ एवोक्त इति कार्यानुपलब्धिं स्वभावानुपलम्भ एवान्तर्भा
वितां यो व्याचष्टे व्यामूढः स कथं संवेदनानुपलम्भं स्वभावानुपलम्भनं न व्याख्यास्यति ।
तस्मादन्यभाव एवापरस्याभावोऽन्योपलब्धिरेव चान्यस्यानुपलब्धिः(।) सा च स्वभावानुप
लब्धिरेव ।
२. दृश्यानुपलब्धिः सद्भावबाधिका
नन्वेवमपि व्यापकानुपलब्धिरसम्भविनी (।) सत्त्यं स्वभावानुपलब्धावेव सर्व्वासामन्त
र्भाव इतीष्टमेव संगृहीतं न काचिन्नः क्षतिः । कथन्तर्हि भेदः ।
व्याप्यव्यापकयोर्भेदात् प्रचयापचयाप्तितः । वृक्षशिंशपयोर्दूरादूरत्वेन च भिन्नता । ५८४ ।।
वृक्षता प्रचयिनी शिंशपात्वं त्वपचयवत् । दूरे व्यापकानुपलब्धिर्व्याप्यापेक्षया ।
समीपे तु स्वभावानुपलब्धिरित्यनयोर्भेदः । उपलब्धिलक्षणप्राप्तसत्तोपलम्भयोस्तु परस्परं
व्याप्यव्यापकभावान्न भेदः शक्यकल्पनः । तेन स्वभावानुपलब्धिरेवेति स्थितमनुपलब्धिः स्वभा
वहेतावन्तर्भवतीति । अत एव ।
अतः (।)
एषा स्वभावानुपलब्धिर्हेतोर्न्नाभावं विपक्षे निश्चाययति । दूरदेशादौ निश्चयायोगात् ।
अदृश्यापेक्षया हि नेयमुपलब्धिलक्षणप्राप्तानुपलब्धिः । आद्या तु हेतोर्व्विपक्षात् सर्व्वतोव्यावृत्ति
निश्चये व्याप्रियते । या कारणव्यापकानुपलब्धिर्हेतुस्वभावव्यावृत्त्यैवेत्यादिवर्ण्णिता । तत्रापि
प्रसङ्गसाधनतामङ्गीकृत्य साधिका ।
ननु विरोधी नाम लिङ्गान्तरं । नास्त्यत्र शीतस्पर्शोऽग्नेरिति । स कथं प्रभेदलक्षणे
नोक्तः । अनुपलब्धावेव तस्याप्यन्तर्भावात् (।) यतः ।
विरोधी हि हेतुस्तस्या एवानुपलब्धेः प्रभेदस्तदन्यप्रभेदवत् । अन्यथा विरोधि
विरोधिकार्यविरोधिव्यापकादीना1715 मपि परः पृथग् निर्द्देशकृद् भवेत् । यदा तु तस्या एवाय
मनेकप्रकारो भेदस्तदायमदोषः । तथा हि । स्वरूपं वा प्रयुज्यते । स्वभावकारण
व्यापककार्यानुपलब्धिरिति । अथाप्रतिषेधस्य1716 बाधनरूपं वा । नास्त्यत्र शीतस्पर्शोग्ने
रिति (।) यथैवानुपलब्धिरभावसाधिका तथा साक्षात् परम्परया वा विरोधिन उपलब्धिरपि(।)
कस्माद् (।) विरोधस्य निवर्त्तकत्वात् । कथम्विरोधप्रसिद्धिः । एकस्याग्नेर्भावे ऽविकल
कारणस्य शीतादेरभावाद् विरोघगतिः । उपलम्भानुपलम्भलक्षणो हि विरोधः । ततो
विरोधिदर्शनादनुपलम्भ उपलब्धिलक्षणप्राप्तस्य साध्यते । तत्र दूरदेशवर्त्तिनो वह्ने रूपलब्धि
लक्षणप्राप्तानुपलब्धिरनुमानसिद्धा सा ऽभावं साधयतीति न विरोधोपलब्धिः स्वभावा
नुपलब्धेरन्या स एव चोष्णस्पर्शः शीतस्प (र्श) भावः तद्विविक्तत्वादनुष्णाशीतस्पर्शश्च ।
ततः त योपलब्धेः1717 एव तदन्यानुपलब्धिः1718 । एवं विरुद्धकार्योपलब्धिरपि कार्यहेत्वनुमान
सिद्धस्वभावानुपलब्धिः । पूर्व्वत्र विरुद्धोपलब्धौ एकसामग्र्यधीनतयानुमानं ।
परस्परपरिहारस्थितिलक्षणतया विरोधः । शाश्वतेतरवत् । तादात्म्यप्रतिषेधो हि
परस्परपरिहारस्थितिलक्षणविरोधतः साध्यते । तद्यथा न सघटोयं प्रदेशः तत्परिहारेणो
पलब्धेः । सर्व्वत्र साक्षादभावसाधनी विपर्ययोपलब्धिरेव ।
यथा परस्परबाधने विरोधः तथा प्रमाणबाधनेपि सापेक्षध्रुवभावयोरिव । तथा हि ।
सापेक्षमनपेक्षमिति परस्परविरोधः । ध्रुवभावित्वमितरदिति च सापेक्षध्रुव(भावित्व)योस्तु
परस्परपरिहाराभोवोपि प्रमाणबाधनलक्षणो विरोध इति विरोधान्तरमेतत् तथा हि ।
यद्येवं प्रमाणं विरोधिनं साधयति न तु प्रमाणविरोधो नामापरः ।
सत्त्यमेतत् । तथापि विरोधिव्याप्तेन रूपेणार्थतो विरोधात् उक्तमेतत् । अस्यापि
किं प्रयोजनं (।) विरोधिव्याप्तोपलब्धिरपि प्रतिषेधस्य साधिका यथा स्यादिति दर्शनार्थं ।
तथा हि । न ध्रुवभावी भुतस्यापि भावस्य विनाशो हेत्वन्तरापेक्षणादिति दृश्यते प्रयोगः ।
अपरः पुनराह ।
अनुपलब्धिरेवैको हेतुः कार्यस्वभावयोः (।)
तत्प्रभेदत्वात् । न खलु तत्प्रभेदस्ततो भिद्यते । नहि शावलेयादिकस्य गोत्वाद् भेदः ।
तत्र कार्यहेतुर्व्विरुद्धकार्योपलब्धिः (।) स्वभावहेतुरपि विरुद्धव्याप्तोपलब्धिः । अनग्निनित्य
त्वाभाव1720
साधनात् ।
तदेतदसत् ।
अनित्यत्वेन सह वह्निना च प्रतिबन्धे व्यापकविरुद्धेन विरुध्यते हेतुरिति तदनुपलब्धि
भावकल्पनं । तत्र च साक्षाद्धेतुकल्पनं परित्यज्य पारंपर्याश्रयणमसम्भवि । कार्येण वह्निगतौ
तद्विरु(द्ध)शीतनिवृत्तिर्न्न तु शीतनिवृत्तावेव साक्षाद् व्यापारो धूमस्य । ततः पारम्पर्येण
हेतुताकल्पनमनुमितानुमानं । न च द्वयोरेकेन शब्देन प्रतिपादने त्रयाणां वा नान्य एवासौ हेतुः ।
नहि शब्दवशादर्थः सम्भवत्यन्यथा क्वचित् ।
नास्त्यत्र शीतस्पर्शो धूमादिति । धूमादग्न्यनुमानं कार्यहेतुः । अग्निना शीतस्पर्शा
भावसाधनं विरुद्धोपलब्धिः । शीतानुपलब्ध्या शीताभावव्यवहारसाधनं स्वभावानपलब्धि
रिति पारम्पर्यहेतूनामतोऽनुमितानुमानमपरमेवानुमानं । न च त्रयाणामेकशब्दप्रतिपादने
भवत्येकत्वं हेत्वन्तरत्वञ्च । प्रयोगसमास एषः न रूपसमास इति न्यायः । तस्मात्
सर्व्वत्र एव हेतुरनुपलब्धिरित्ययुक्तं ।
अथ व्यवच्छेदसाधने सर्व्वानुपलब्धिः । न । विषयभेदादेव हेतुभेदात् । तथाचोक्तं ।
अनङ्गीकृत वस्त्वंशो निषेधः साध्यतेनया ।
वस्तुन्यपि तु पूर्व्वाभ्यां पर्युदासो विधानत ।। ५९० ।। इति
८. भावस्वभावचिन्ता
अथ परमार्थतो व्यवच्छेदसाधनादनुपलब्धिरेवेति मतं । तथा सति प्रत्यक्षमेव
स्वसम्वेदमिति किन्नोक्तं ।
तस्मादसदेतत् । ततः प्रयोगभेदादेव भेदो विरुद्धव्याप्तोपलब्धेः । सापेक्षत्वाद्
विनाशस्य न ध्रुवभावः । यतः ।
तस्यापि हेत्वन्तरस्य स्वहेतुसापेक्षत्वादनियमः । पुनरपरस्यापीति न फलभा
(ि)वनियमः ।
अथ भावस्य यो हेतुः कुलालादिः स एव तद्विनाशस्यापीति नियमः । अत्रोच्यते ।
तथा हि ।
यदि विनाशं जनयित्वा स(स्व) हेतुरेव तस्य नाशनः । नश्वरमेव जनयतु किमनेन
पारम्पर्येण अत्र वस्तुस्वभावैरुत्तरं वाच्यमिति चेत् । अन्यथा वस्तुस्वभावत्वान्नैतदिति । तथा हि ।
यद्यात्मोपकारको विनाशहेतुर्न्न सम्भवति सिद्धस्वभावस्य स(त) इति सिद्धेतरस्वभावेन
(तेन) भाव्यं1721तस्वभावेन तेन भाव्यं(।) तथा च न स तस्य विनाशहेतुः ।
अथ सिद्धस्यापि विशेषस्य कर्त्ता । तथा सति स विशेषः सिद्धस्तदन्यो वा भवेत् ।
यदि स सिद्धः पूर्ववत् प्रसङ्गः । अथ सिद्धे तस्मिंस्तदात्मा न शक्यः कर्त्तुमिति तदात्मव्यतिरेकी
विधेस्तथा सति तस्य नोपकारक एवासाविति कस्तस्यासौ भवेत् (।) न कश्चिदित्यर्थः ।
स्या द्वा द भङ्गस्तु विहित एव न स विधेयः पुनः ।
अपि च स पदार्थः स्वकारणात् कालान्तरव्यापी तदन्यथा वा (।) यदि पूर्व्वपक्षस्तदा(।)
गतोदके कः खलु सेतुबन्धः पयोनिरोधाय हि सेतुबन्धः ।
अथ न तथास्य सम्प्रतिपत्तिस्तथा सत्यनिरूपितस्वविषयः कथम्विनाशहेतुः प्रवर्त्तेत ।
निरूप्य भाविनं भावम्प्रवर्त्तत इति चेत् । न । नरूपिते सिद्धिस्वभावे क इव विनाशहेतो
रुपयोगः । विरोधिस्वभावे कपाले उपयोग इति चेत् । नन्वसावपि विरोधी निवर्त्तक एव ।
तत्रापि स एव पूर्व्वकः प्रसङ्गः । परस्परपरिहारमात्रेण तु निवर्त्तक एव न स्यात् ।
अथ सिद्धस्य कालान्तरस्थायितयाऽभावं करोति शून्यतालक्षणम्विनाशहेतुः । काला
न्तरस्थायिनः शून्यता क्रियमाणा तदविरोधिनी न तस्य निवर्त्तिका जलमिवाधारस्य । जल
मप्यासक्तकुम्भस्तस्य निवर्त्तकमेवेति चेत् । न । तत्र कालान्तरस्थानस्याप्रसिद्धत्वात् ।
नन्वनुमानेन कालान्तरसिद्धमेव निवर्त्यते । तदसत् ।
प्रत्यक्षवदनुमानमपि प्रमाणमेव तत्सिद्धमपि सत्त्यमेव कथमभावः (।) तस्याभावे हि
तस्य तत्प्रतीतिरसत्त्या भवेदिति न प्रत्यक्षानुमाने स्तः । तदभावान्न भावसिद्धिरिति कस्य
विभागः । संभाव्यमानस्य विभाग इति चेत् । अन्वयादभ्यास एवैष न च वस्तुनो निर्ण्णय
इति यत्किञ्चिदेतत् ।
अथ तस्यैवान्यथात्वङ् करोति कपालादिलक्षणम्विनाशहेतुः (।) अत्राप्युच्यते ।
यदि घटरूपे सोन्यथाभावः (।) स एवाधारोन्यथात्वस्य ततो घटः स्वेन रूपेण दृष्टः
कथमन्यथा । अथ न दृश्यते घटः कस्यासावन्यथाभावः । घटपूर्वकोन्यथाभावस्तस्येति
व्यपदेश्यः ।
ननु विनाशे सति तत्पूर्वकः सोपि विनाशोन्यथाभावेत्यनवस्था अथ मृद्द्रव्यस्यान्यथा
भावस्तदप्यविनष्टमेव कथन्तस्यान्यथाभावलक्षणो विनाशः । तत्रापि पूर्वस्य मृद्द्रव्यस्य न
विनाशस्तदाऽभावान्नोत्तरस्य भावादिति । ननु भवत्पक्षेप्ययमेव दोषः । कार्यकाले हि न
कारण्ङ्कथन्तस्य तत्कार्यं । नैतदस्ति यतः ।
न ह्यन्यदा भावोन्यदा विनाश इति उपपत्तिमदेतत् । यदैव भावस्तदैव विनाशे
विनष्ट इति युक्तं । न त्वभावेऽभावो युक्तो मृतस्य मरणाभावात् । कार्यन्ते मृतेपि युक्तमेव
तस्य भावान्तरत्वात् । अभावस्तु तस्यैव शून्यता । नास्ति तदिति सामानाधिकरण्येन
प्रतीतेः । असामानाधिकरण्यन्तु पदार्थस्य विनाश इति व्यपदेशिवद्भावाच्छिलापुत्रकस्य
शरीरमिति यद्वत् । न त्वेवमग्निर्धूम इति सामानाधिकरण्यं ।
नन्वत्रापि न सामानाधिकरण्यम्परमार्थतः । स्मर्यमाणं हि पूर्वकं रूपम्विनष्टमिति
प्रतीयते (।) तदुत्तरकालभाविना विनाशेन न च तथा सामानाधिकरण्यं ।
तदप्यसत् (।) एवं हि सति महान्विरोधः । तथा हि ।
643विनाश इति हि नास्तित्वमुच्यते । न च विद्यमानावस्थाया नास्तिता । अविद्य
मानावस्थायान्तु स एव नास्तीति कथन्नास्तिता । तस्मान्नास्तीति व्यतिरिक्ताभाववादिनः
सामानाधिकरण्याभावः । तस्मान्नान्योऽभावो भावात् । ततः सामानाधिकरण्यं । उत्तरकाल
भाविनो हि स एवाभावो यस्तद्व्यावृत्तिमतः पूर्व्वस्य भावः । तस्य चोपलब्धिरूप(ा)न्तर
स्यानुपलब्धिः (।) सा च वर्त्तमानरूपग्राह्यग्राहिप्रत्यक्षस्वभावोत्तरेण सह संघटितस्य ग्रहणे
कारणावधिग्रहणप्रसङ्ग इति प्रतिपादितम् (।) अतः परासंघटितस्यैव प्रतीतिरुदयमात्रादेवेति
परानपेक्षो विनाशः ।
ननु (।) स्वभावो हि स तस्येत्थं येनापेक्ष्य विनश्यति । तत्कथमनपेक्ष्यः । अत्रोच्यते ।
इत्युक्तम् । अत एवाह ।
प्रथमतरमेव प्रत्यक्षदृष्टस्त्रुट्यत्तया कथमतथाभूतः कदाचित् । यथा स एव नित्त्य
वादिनो नश्यदवस्थायां ।
यद्यनपेक्षो भावो विनाशे क्षणमप्येकेन्नापेक्षत इति न भावो भावस्य भवेत् क्षणमपि ।
तथा हि (।)
नित्त्यं सत्त्वमसत्त्वम्वाऽहेतोरन्यानपेक्षणाद् (।)
इत्युक्तं । तथा भावक्षणानन्तरम्भवन्विनाशः कथन्तदात्मा भवेत् ।
अतदात्मतायाञ्च न सामानाधिकरण्यं । तदेतदपि काशकुशावलम्बनं ।
भाव एवोत्तरभावासंघटितो विनाशः स कथं भावाभावे भवेत् । न हि तदात्मा च
स्यात् तदभावे च भवति चेति युक्तं । एवन्तर्हि विनाशोस्तीति कथम्विनाशभावे विनष्टः ।
व्यतिरिक्तविनाशभावेपि स्वरूपस्याप्रच्युतेः कथम्विनाशः । सैव व्यतिरिक्तविनाशभावेपि
स्वरूपस्याप्रच्युतेः कथम्विनाशः । सैव व्यतिरिक्तविनाशासिका प्रच्युतिरिति चेत् । भवतु
तथाप्यसौ व्यतिरिक्ततयैव प्रत्ययविषय इति भावस्तदवस्थ उपलभ्यतां । एतदेव व्यतिरि
क्तस्य व्यतिरिक्तत्वं यत्पररूपाविहन्तृत्वं नाम । विरोधाद् विघातः प्रत्युक्त एव । विनाश
मन्तरेण विरोधाप्रसिद्धेः । तस्मात् ।
तद्यथान्त्या कारणसामग्री विबन्धसम्भावनावहिता स्वप्रसवजनने न किञ्चिदपेक्षत
इति तन्नियता । तथा विनाशेपि भाव इत्यनपेक्षत्वाद् विनाशे क्षणिको भाव इति सापेक्षताया-
न्नावश्यम्भावविभावि नाशस्य । उत्पत्तिमत्त्वाद् विनाशितैवेति चेत् । न । प्रतिबन्धा
भावात । नहि प्रतिबन्धमन्तरेण हेतुः साध्यस्य साधकः ।
अहेतुत्वेपि नाशस्य तादात्म्ये साध्यसाधनं ।
नहि पश्चाद्भाविना विनाशेन कारणेन भवितुं युक्तं प्राग्भाविन उत्पत्तिमत्वस्य । कार्यन्तु
नावश्यम्भावि कारणाद् (।) अतस्तत्कारणत्वेन न हेतुः ।
ननु तादात्म्यमहेतुकत्वे भवतीति कुत एतत् । कथं वा हेतुकत्वन्नाशस्य मुद्गरादन्वय
व्यतिरेकानुविधानात् । स एव हि कार्यधर्म्मः । अत्रोच्यते ।
यो हि यमन्तरेणापि दृश्यते स कथन्तद्धेतुकः । नान्वयमात्रेण हेतुरिति प्रतिपादितमेतत् ।
यथा च विनाशकसन्निधौ कपालादिभावे परासंघटितस्य घटस्य प्रतीतिस्तथोदयानन्तरमपि ।
नहि पूर्वमपि पररूपसंघटना प्रतीयते मरणावधिप्रतीतिप्रसङ्गादिति प्रतिपादनात् । परासंघ
टनमेव च यदत्रापि विनाशः । विनाशेनैवासंघटना क्रियत इति चेत् । तदसद् यतः ।
यद्यसौ हेतोः संघटित एवोत्पन्न इति तथैव प्रत्यक्षगृहीत इति कस्तत्र नाशस्योपयो
गो ऽसामर्थ्ये हि तदा तस्य भवेत् । अथासंघटित एवासौ स्वहेतुतः (।) तथा सति व्यर्थको
नाशः । कृतस्य करणाभावात् । तस्मात् क्षणिक एव स्वभावतः प्रत्यक्षतोवगतोन्यथा प्रति
पत्तेरसभवात् । यश्चान्यथा प्रतिपत्तुमशक्यः स नोन्यथा भवति प्रत्यक्षतोन्यथात्वस्य बाधा
(? ध) नात् । तस्मादनपेक्ष एव तन्नियतो नापरः । यथान्त्या कारणमामग्री ।
ननु सापेक्ष्योप्यादित्यस्यास्तमय उदयश्चावश्यम्भावी निरपेक्षतायामुदयास्तमयानन्तरमेव
भवेदस्तमयोदयं । सामाग्री चाभेदेन नियताऽपि तु पदार्थान्तरेंकुरादिके (।) ततस्तद्दृष्टान्ततो
विपर्यय एव भवेत् न तु प्रकृतसाध्यसिद्धिः । अत्रोच्यते ।
यदि नाम भूयो दर्शनन्तथापि प्रमाणाभावन्न व्याप्तिरुदयास्तमयाभ्यामस्तमयोदयभावयोः ।
तथा हि पतिव्रतोपाख्यानं श्रूयते ।
न चास्तमयादित्यस्यापि शैलादिनान्तरितत्वं । तच्चान्तरितत्वमस्मदाद्यपेक्षया परे
तु योगिनः पश्यन्त्येव । अपि च । सापेक्षाणान्ताव(दव)श्यम्भावितेति (।) यदि नाम
केषाञ्चिदवश्यम्भावो परेषान्तु न तथेति संशयः ।
यदप्युक्तं (।) व्यतिरिक्तभावनियतान्त्या सामग्री । विनाशस्तु न व्यतिरिक्तः ।
तदप्यसद् यतः ।
नहि विनाशो नामावस्तुस्वभावोन्य एव वस्तुन एव तु तत्त्वमपरासंघटितं प्रतीयमानं
645शिलापुत्रकस्य शरीरमिति न्यायेन (।) तथा प्रतिपादनविषयो भावस्य विनाश इति
यथान्त्या कारणसामग्री तदंकुरोत्पादनस्वभावनियता तथा भावोपि तदुत्तरस्वभावासंघटित
व्यवहारनियत इति किन्नामानिष्टं । अपि चानपेक्ष्यतया तन्नियतत्वं सामान्येन साध्यते (।)
वस्त्ववस्थाभेदकल्पनन्तु जात्युत्तरमेव घटशब्दमूर्त्तामूर्त्तविकल्पनावत । तस्मादनुपलब्धि
प्रभेद एव विरुद्धव्याप्तोपलब्धिः (।) सा च स्वभावहेतावेव हेतुर्भवती-भूद्भावे च विपर्ययौ ।
तेन यः सन्सजातीये द्वेधा च स हेतुः । विपर्यये विरुद्धः । तदन्यस्त्वनिश्चितः पञ्चप्रकारः ।
तत्र भेद1722 सामान्ययोर्गमकत्वविवादः प्रतिक्षिप्तः । शेषस्त्रिप्रकारो व्यावृत्तिद्वारेण गमकत्व
प्रतिपादनार्थः । तथा हि ।
यद्यन्वयो गमकत्वे प्रयोजको ऽनित्यत्वादप्रयत्नानन्तरीयक इत्यपि गमकः स्यात् ।
अस्त्यभा(वा)न्वयः । अथानभावमात्रेण गमकत्वमन्वयस्य व्यतिरेकसाहित्यापेक्षया
गमकत्वात् । अयन्तर्हि गमको स्पर्शत्वान्नित्य इति । अयमपि न गमकः समत्वादन्वयस्य
अयन्तर्हि स्यादनित्यत्वात् प्रयत्नानन्तरीयक इति । अत्र हि बलवानन्वयो दुर्बलो
व्यतिरेकः । तथाहि ।
यदि प्रयोजकत्वमन्वयस्य गमकत्वे स्यान्न व्यतिरेकस्य सपूर्ण्णतामपेक्षेत तमनादृत्यैव
गमकत्वं प्रयोजयेद् भोजनप्रयोजकवत् (।) व्यतिरेकस्तु प्रयोजकः सद्भावमात्रमेवान्वयस्यापेक्षते
न समत्वादिकं । यथा प्रयत्नानन्तरीयकत्वादनित्य इति । यः प्रयत्नानन्तरीयकः सो नित्य
एव नित्यताव्यवच्छेदकत्वेन गमकः । एवमन्योपि हेतुः । तथा हि ।
अनित्ये यदि नाम दृष्टन्तथापि न नित्याभावं साधयति (।) नित्यताऽभावे तु दृष्टन्तद
भावसाधने नियमेन राश्यन्तरसंक्रान्तिः । दृष्टन्तु न नियमेन1723
अन्यत्र न भवति तदन्यत्र1724 ।
यदि च दर्शनद्वारेण गमकस्तदा दृष्टमेवाग्निं गमयेत् सकलन्न तदपरव्यक्तिगतिः । ततस्तदन्य
व्यक्तिप्राप्तावप्रमाणता भवेत् । अथ सोपि क्रोडीकृत एव । न । दृष्टानुसारेण क्रोडी
करणासंभवात् ।
ननु व्यावृत्तिरपि तदन्वयद्वारेणैव निश्चिता तत्कथन्नान्वयप्राधान्यं । न । दर्शनस्य
व्यावृत्तिनिश्चये नधिकारात् । दर्शनं हि दृश्यमानतामेव निश्चाययति न तदपरं । नान्यदर्शन
मन्यनिश्चयहेतुः । संस्कारादन्यत्रापि निश्चय इति चेत् । तदसत् ।
यदा तु स एव प्रतिबन्धो व्यतिरेकप्रधानतया गृह्यते तदा तद्द्वारेण हेतुरन्यापोहस्य
गमकः ।
ननु दर्शनद्वारेण प्रतिबन्धगतौ कथम्व्यतिरेकेण प्रतिबन्धगतिः । नैतदपि समुचितम्वचः ।
अन्वयेन हि सम्बन्धग्रहणे तद्व्यक्त्यैव भवेन्नान्यथोक्त्या । तथा हि नान्यस्योक्तेस्तदा
न्वयगतिः । अथ तयापि पश्चात् तथा सति व्यभिचारादसम्बन्ध एव प्राक्तन्या न स्यात् ।
व्यभिचारतः । व्यक्तिसामान्ये सम्बन्ध इति चेत् । किमिदं व्यक्तिसामान्यन्नाम । न
खल्वविभावितस्वरूपं सम्बन्धितयान्यथा वा प्रत्येतुं शक्यं । व्यक्तिषु समानप्रतिपत्तिनिबन्ध
नमिति चेत् । अस्ति समान इति प्रतिपत्तिर्न तु तस्यानिबन्धनमिदमिति शक्यन्निदर्शयितुं ।
यदि नाम प्रत्यक्षतो न प्रतीतिं कार्यदर्शनादनुमानात् प्रतीयतां । प्रतीयतां कारणसामान्यन्न
तु तत्सामान्यन्तस्येदंतया निरूपणात् । एककार्यकारित्वम्वा निबन्धनङ् किमपरेण । तथा हि ।
नास्माकमस्मिन् कर्त्तव्ये भेदः कश्चन विद्यते ।
तस्मादयं धूम एषाम्पावकभेदानामेकेन केनचिद विना न भवतीत्येतदभावाद् व्यावृत्तो
धूम इत्यन्यापोहसम्बन्धेनैव सम्बन्धग्रहणन्नान्येनेति व्यावृत्तिरेव साध्यते हेतुना शब्देन वा ।
ततो व्यावृत्तिरेव प्राधान्येन गम्यते । सामर्थ्यात्तु व्यक्तिसत्तानान्तरीयकतया प्रतीयते ।
अनग्नेरभावे नियतं काचिदग्निव्यक्तिराक्षिप्यते । अन्यथा नग्निव्यावृत्तिरेव न स्यात् ।
नन्वन्यस्त्वनिश्चित इति पञ्चप्रकारो ऽनैकान्तिक उक्तः । न चेदं युक्तं तोषवतो
विरुद्धाव्यभिचारिणश्चापरस्याप्यनेकान्तिकत्वात् । नाभिप्रायपरिज्ञानात् । न ह्ययमर्थः ।
अन्यः पञ्चप्रकारो निश्चितः । अपि तु तत्र यः सत्सजातीये द्वेधा चासँस्तदत्यये निश्चितः स
हेतुः । विपरीततया निश्चितः स विरुद्धः । स च सर्व्वस्तादात्म्यतदुत्पत्तिभ्याम्प्रतिबद्ध एव ।
अन्यस्तु न निश्चित एव । स एव स प्रतिबद्धो ऽनैकान्तिक इति वाक्यार्थः । शेषवद्विरुद्धा
व्यभिचारिणोरपीदमेव लक्षणमिति तयोरप्यनैकान्तिकत्वं न निवार्यं । तस्मात् सकलमनवद्यं ।
तथा हि (।) विरुद्धाव्यभिचारिणोन्येनापहृतविषयस्य साध्याप्रतिबद्धविषयत्वं । कथन्तर्ह्य
व्यभिचारी । अप्रतिबद्धोऽव्यभिचारी चेति व्याहतं । एवन्तर्ह्यव्यभिचारी संशयहेतुरित्यपि
व्याहतमेव । अस्मत्पक्षे त्वप्रतिबन्धादेव संशयहेतुः । अव्यभिचारित्वङ् कथमिति चेत् ।
अभ्युपग (म) द्वारेणेति न दोषः । तथा चाह (।) यदा तर्हि शब्दत्वं नित्यमभ्युपैति तदायं
हेतुरेव स्यात् । यतः ।
न क्वचिच्छ्रावणत्वस्य नाशित्वे दृष्टिसम्भवः ।
गमकत्वलक्षणाभ्युपगमाद् गमकः । दर्शनादर्शनमात्रेण च वैशेषिकस्य गमकहेतुता ।
सा चात्रास्तीति गमक एव प्राप्तः । आचार्यः प्राह । स्याद् गमको यद्यत्र कृतकत्वमपि
कश्चिदनित्यत्वे हेतुन्न ब्रूयात् । उभयन्तु गमकमुपलभमानस्य स्वाभ्युपगमादेव संशयः ।
तस्माद् वैशेषिकस्यैवमभ्युपगच्छतोतिसङ्कटप्रवेशः । तथा हि ।
न खलु समानन्याययोगी न तथा भवति । न्याय एवासौ तथा न स्यात् । तथा च
647सकलव्यवहारोच्छेद एव । समानश्च कृतकत्वेन हेतुत्वन्यायः श्रावणत्वस्यापीत्यसावपि कृत1725कत्वसाध्यविपर्ययाव्यभिचारी न गमकः कथं तस्मात् पराभ्युपगमेन विरुद्धाव्यभिचारी नान्यथे
त्याचार्यस्याभिप्रायोऽवगन्तव्यः ।
यदा तर्हि शब्दत्वं नित्यमभ्युपैतीति वचनात् । तस्मादप्रतिबद्ध एव संशयहेतुरिति
व्याप्तिहेत्वादिलक्षणं । तत्र पक्षधर्मो हेतुरिति (।) सामर्थ्यादपक्षधर्मो न हेतुः । विपरीतः
पक्षधर्माविरुद्ध इत्यपक्षधर्मो न विरुद्धः ।
अन्यस्त्वनैकान्तिकाः पक्षधर्म इत्यपक्षधर्मो नानैकान्तिकः (।) ततः स्वनाम्नैव व्यप
देष्टव्यः । सिद्धमिति1726 । धर्म्यसिद्धावप्यसिद्ध एव । अन्यतराद्यसिद्धावपि । तथा चाचार्यः ।
यदि तर्हि पक्षधर्मो हेतुः । कथमनित्यः शब्दः नित्यस्याकृतकत्वात् । अनित्यस्य
कृतकत्वादिति । तथा ।
(अ)सदकरणादुपादानग्रहणात् सर्व्वसम्भवाभावात् ।
अत्रोच्यते ।
तद्यथा नित्यः शब्दः अनित्यस्य कृतकत्वात् । तथा च कृतकः शब्द इति । तथा ऽ
नित्यः शब्दः नित्यस्याकृतकत्वात् । तथा च कृतकः शब्द इति पञ्चम्यन्तेन1728 ।
ननु दृष्टान्तः साधर्म्यवैधर्म्याभ्यामित्यर्थसतत्वं । तथाऽसदकरणादिकमपि द्रष्टव्यं ।
एते च यथा न हेतवः तथा प्रतिपादितं । अपि च ।
असदकरणादिति कथमयं हेतुः । असतः शशविषाणादेर्न करणं दृष्टमिति । न
चैतावता व्यतिरेकेण विपर्ययसाधनं (।) यदि कस्यचिदसतः क्रिया नोपलभ्यते (।) सर्व्वस्य
तथा नेति कुत इयं व्याप्तिः । नहि विपर्यये प्रतिबन्धमन्तरेण व्यतिरेकव्याप्तिप्रसिद्धिः ।
धूमाभावेऽग्न्यभावस्य कथं व्याप्तिः प्रसिध्यति ।
न खलु सकलं जगद् बंभ्रम्यमाणेनापि तत्रान्यत्रात्र च नास्तीति व्यापी व्यतिरेकः
प्रत्येतुं शक्यः । कालदेशव्याप्तिकस्य भ्रमणस्यैवासम्भवात् ।
अन्वयेन तु प्रतिबन्धग्रहणे तत्सामर्थ्यादेव व्यापिव्यतिरेकप्रसिद्धिः । एतच्च प्रागेव
प्रतिपादितं ।
तस्मादेते न हेतवः । पक्षधर्म एव हेतुर्व्विरुद्धोनैकान्तिकश्च ।
अनेन च परार्थानुमानमेव सदसत्त्वप्रख्यापनप्रक्रमेण प्रकटितं (।) शेषः प्रपञ्चः प्रमाण
समुच्चय एवावगन्तव्यः । परिशिष्ट1729
रूपनिरूपणायेति व्युदासितं मनोस्य वार्तिककृतः ।
648
हे वादिनो न खलु संततपक्षपातद्वेषं मनः स्वपरपक्षकृतान्धकारं ।
तीर्थ्याः श्रीधर्मकीर्त्तेर्म्मतमिदममलं तादृशामेव गम्यं ।
अस्मिंस्त्वभ्यासमात्राद् यदि भवति परः तत्र तत्वार्थसिद्ध्यै ।
शरीरशोमां रागाय ग्राम्या वाञ्छंत्यलंकृतिम् ।
इत्यु(न्)मुक्तपरार्थसाधनधियामेवं मतिः श्रेयसे ।
क्षीरोदादपरोपि किं जलनिधिर्दृष्टो विधाता क्वचित् ।
इत्यनिन्द्यमिदमारचय्य यत् प्राप्तमर्थकुशलम्मयामलं1732 ।
इति वार्त्तिकालङ्कारप्रमाणमहाभाष्ये तृतीयः परिच्छेदः ।
समाप्तश्चायं प्रमाणमहाभाष्यवार्त्तिकालंकारः ।
कृतिरियं1734 कुतीर्थ्यतमस्तोमविघनपटोराचार्यप्रज्ञाकरगुप्तसहस्राङ्शुमालिनः ।। ॰ ।।1735
प्रमाणवार्तिकलंकार तालपत्र (७०० पे॰)
-
१ B. तदविवाद ।
↩ -
२ B. वचनमपि परार्थम्प्रत्यक्ष॰।
↩ -
३ B. प्रकाश्यते
↩ -
२ B. स्वभावानुमानकारणत्वात्—बहिः
↩ -
३ B. द्रष्टव्यः ।
↩ -
४ B. पतितो
↩ -
५ B. बहिः—बौद्धशंकिते प्रथमपादद्वयेन द्वितीयाभ्यां सिद्धान्तयति । एतेन स्वर्थानुमानं समर्थितं ।
↩ -
१ B. पेक्षत ।
↩ -
१ B. व्यावृत्तं
↩ -
१ B अथ त॰ ।
↩ -
१ B. अप्रतिपत्तिप्रतिपादनं ।
↩ -
१ B. प्रभवति
↩ -
१ B. प्रतिपादनेन ।
↩ -
२ B. विध ।
↩ -
३ B. भवितव्यं ।
↩ -
४ B. अस्य ।
↩ -
५ B. तस्या ।
↩ -
६ M. तत्कस्मात् साधनं नोक्तं
↩ -
१ B. अनभ्युपगमात्
↩ -
२ M. परस्यापि च
↩ -
३ B. साधने ।
↩ -
४ B. सम्भवैः—हे. पुस्तके च
↩ -
१ B. M. वस्त्व॰
↩ -
२ M. वस्त्वसंश्लिष्टा॰
↩ - Verse number in edition duplicated?↩
-
३ M. प्रसङ्गो—हे.
↩ -
१ B कालः
↩ -
१ B ॰गमेन ।
↩ -
२ B. बाधतो । T. गन्तृतः
↩ -
३ T. प्रथमाह्निकं (समाप्तम्)
↩ -
१ B. तथा
↩ -
२ B. अर्थाद्भेदेन ।
↩ -
३ B मात्र
↩ -
१ B तदात्मना
↩ -
२ B यदि नामाकृ॰
↩ -
३ B मेव तन्न
↩ -
४ B रस्थो॰
↩ -
५ B क्वचित्
↩ -
१ B. सर्वो
↩ -
१ B. परिकल्पनामत्रार्हति
↩ -
२ B. पुनरत्र
↩ -
३ प्रतीतिवपि
↩ -
१ B. ग्रहः
↩ -
२ B. प्रत्यक्षतदादिना
↩ -
१ T. अर्थाभ्यां गम॰
↩ -
२ T. प्रतिपादनेन न भवति
↩ -
३ T. कथं ततो निवृत्तिर्न्नात्र तर्हि तद्ग्रहणं कर्त्तव्यम् ।
↩ -
४ T. स्वनिश्चयवदन्यस्य वचनमपि साधनमिष्यते ऽयुक्तवादिनस्त इति प्रतिपादितं भवति ।
↩
स्वनिश्चयवदिति यावद् वचनमपि साधनमिति न लभ्यते भाषान्तरे, मध्ये चतुर्दशी
कारिकाऽपि लुप्ता । -
५ B. कल्पिता—इत्यपि पाठस्तत्रैव ।
↩ -
१ B. स चाव्यभिचारी
↩ -
३ B. ॰मेवानर्थकं
↩ -
२ T. कोष्टकस्यः पाठोः न भाषान्तरे
↩ -
१ B प्रमाणत्वाभावः
↩ -
२ B प्रतिबद्धतः
↩ -
१ B. प्रमार्थे ततः
↩ -
२ B. वचनमन्तरेण
↩ -
४ प्रमाणममुच्चये
↩ -
३ B. मात्रादेव
↩ -
३ B. ॰व्यताम्
↩ -
१ B ॰क्तिरशक्ता
↩ -
२ B ॰धर्म
↩ - According to the table of contents, this should be a heading on the same level as हेतुपक्षवचनमसधानम्, numbered with 2. ↩
-
३ B. ॰ बोर्धच्छाना
↩ -
४ B. भवतः
↩ -
५ B. ॰स्याविवादित्वात्
↩ -
६ B. ॰भाति ।
↩ -
१ T. द्वितीयमाह्निकं (समाप्तम्)
↩ -
२ B. ॰षयः । स चानुमानविषयादपरो
↩ -
१ B. मेव
↩ -
२ B. किम्
↩ -
३ B. प्रयोक्तव्या ।
↩ -
४ B. हेतोः विदुषामित्यादि ।
↩ -
५ M. सिद्धौ चेत्तस्य शक्तता
↩ -
१ M. उक्तमत्र विना॰
↩ -
२ B. ॰र्थेनान्यथैव
↩ -
३ B. निवेद॰
↩ - According to table of contents, this is heading 4, on the same level as प्रतिज्ञानिरासः. According to the text, however, it is on the same level as न्यायोक्तलक्षणे दोषाः.↩
-
४ न्यायसूत्रं
↩ -
५ B. साधनमुच्यते
↩ -
६ B. न्यायसूत्रं
↩ -
२ B. प्रतिज्ञया न साधनं
↩ -
३ B. दोष एवेति
↩ -
४ B. न च
↩ -
५ B. न्यायमुख-टीकाकारः
↩ -
६ B. वण्णितं
↩ -
७ B. न
↩ -
८ B. न चानैकान्तिकपरिहारो
↩ -
१ B. पुस्तके नास्ति
↩ -
१ B. व्यस्तेय॰
↩ -
२ B. ॰मुपजनयन्ति
↩ -
३ B. ॰रसिद्धासाधनार्थोक्तवाद्य
↩ -
४ B. तस्याञ्जसो
↩ -
५ B. ॰मिति
↩ -
१ B. ॰स्यानिष्टस्य
↩ -
२. M. ॰श्रुतेनाह
↩ - Has the number ४ (क) in the table of contents.↩
-
३. B. मयुक्तं
↩ -
४. M. ॰घातवत्
↩ - Notes 98--103 here wrongly numbered, should be 104--109.↩
-
१ B. आत्मासिद्धिः
↩ -
२ B. साध्यापेक्षया नन्वयं दोषस्य
↩ -
३ B. परार्थत्वमात्रे साध्ये
↩ -
४ B. तदा
↩ -
५ B. सर्वत्रान्वय
↩ -
६ B. वल्गितं—इति हे.
↩ -
७ भिव्यक्त
↩ -
८ अनुत्पल
↩ -
१ B. मपि ।
↩ -
२ B यद्युभयत्र
↩ -
१ B. सतः
↩ -
२ B. स्व
↩ -
१ B. धर्म
↩ -
२ नान्येना—इति हे, भोटभाषान्तरे च ।
↩ -
१ B. तत्र
↩ -
२ B. दोषभाक्
↩ -
१ B. ॰त्परा ।
↩ -
२ B. तदेवेति ।
↩ -
३ B. ऽनन्वय दोषः,
↩ -
४ B. सर्वोऽपक्षः
↩ -
५ T. तृतायामाह्निकं (समाप्तम)
↩ -
२ धर्म्मादि
↩ -
१ B तस्मान्न समुदाय
↩ -
३ साध्यं यतस्तथा—इति हे.
↩ -
४ B विशिष्टा
↩ - According to table of contents, this heading is on the same level as ``स्वयं"शब्दग्रहणफलम्.↩
-
१ B. तदापि
↩ -
२ B. धारकं
↩ -
३ B. स्तथा
↩ -
४ B. साश्रयत्वस्य
↩ - According to table of contents, this heading is on the same level as ``स्वयं"शब्दग्रहणफलम्.↩
-
१ B. प्रकृतिः
↩ -
२ B. वचनगता
↩ -
१ ॰मीक्षते—इति हे.
↩ -
२ B. स्वसाध्ये
↩ -
३ B. स्वोपगम
↩ -
४ B. सोप्युपगमः
↩ -
५ B. बाधनस्य
↩ -
१ त्रुटितः पाठोधः सन्निवेशितः ।
↩ -
२ M.T. नान्तरीयकबाधनं—इति हे.,
↩ - According to the table of contents, this heading is on the same level as शास्त्रविरोधो निर्बलोऽनुमाने.↩
-
१ B. ॰जादेव
↩ -
२ B. व्यवहारः
↩ -
३ B. ॰सिद्धिः
↩ -
१ B. पावकस्याप्रतिपत्तिः
↩ -
२ B. प्रतीते
↩ -
३ M. विरोद्धा
↩ -
४ वादन्याये पृष्ठे १ ।
↩ -
१. M. सुच्छन्नेयं
↩ -
१ B. रिणोर्हि
↩ -
२ B. ॰त्रागमेन
↩ -
३ B. साधनं
↩ -
४ बाधकं—इति हे.
↩ -
१ नेक्ष्यते—इति हे.
↩ -
२ M. पीडेति
↩ -
३ दृष्टान्ते—इति हे.
↩ -
५ B स्वातन्त्र्येण
↩ -
४ B कश्चिदु
↩ -
६ न्यायभाष्ये
↩ -
७ B न तु
↩ -
८ B नत्व ।
↩ -
९ B साधननि॰
↩ -
१० B प्रधानस्य
↩ -
११ T. बाधतः—इति हे,
↩ -
१ B साधकत्वेन
↩ -
२ B ॰दिनो
↩ - According to the table of contents, this heading is one level below विषमग्रहः शास्त्रम्.↩
-
३ B ॰ाकाशानाश्रित
↩ -
४ B. व्यादि
↩ -
१ B. प्रेर्यतां
↩ -
२ T. चतुर्थमाह्निकं (समाप्तम्)
↩ -
३ B. ॰स्ति
↩ -
१ B ॰मुपलभ्यते
↩ -
२ B वाभावात्
↩ -
३ B अत्रा॰
↩ - Seems to be misnumbered in text.↩
-
४ B. रूपस्य पुरुषस्य पुत्रादित्वाभिव्यक्तिः पित्रादित्वापेक्षया
↩ -
१ B विनिर्ण्णयः
↩ -
२ त्रुटिपूर्त्तिरिवायं पाठो बहिःपंक्ति निवेशितः—आत्मन आदित्यस्य त्यागात्
↩ -
३ B. कस्यापि
↩ -
१ B. व्यवहारयति
↩ - Misnumbered, I suppose, like the previous heading.↩
-
२ B. कारण॰
↩ - Depending on changes above, the number could be correct (if on the same level as #pva-parārthānumāna-śāstravirodha.↩
-
१ B स, M. किंचिदन्यं स
↩ -
२ B परीक्षेव
↩ -
३ B शिक्षतां
↩ -
१ B. नित्यनित्यतया
↩ -
३ B. गृहीत्यर्थां—इति हे.
↩ -
२ B. वादिनाकाश॰
↩ -
१ M. ननु दोषस्तयोरयम्
↩ -
१ T. सङ्गिनः—इति हे॰,B
↩ -
२ B तदिदं
↩ -
३ B पक्षतोपि
↩ -
१ B. प्रत्यक्षता
↩ -
२ B. अत्रो
↩ -
३ B. भजते
↩ -
४ B. नान्येन
↩ -
५ B. सम्बद्धा
↩ -
१ B ॰भ्युपगमात्
↩ -
२ B क्वेदमुच्यते
↩ -
३ B. ऽङ्गन्न
↩ -
४ B. ऽङ्गमेव
↩ -
१ M. तद्वादीष्टस्य
↩ -
२ T. पंचमयाह्निकं (समाप्तम्) ।
↩ -
३ B. तन्मात्रभावित्वात्
↩ -
१ B ॰नुमानत्वाभावात्
↩ -
२ समं सामा—इत्यपि, सामा(न्या)त्—इत्यपि बहिः पंक्ति । समत्वतः—इति
↩
हे॰ T. M. B -
३ शास्त्रसिद्धे—इति हे॰
↩ -
४ B एवञ्च
↩ -
५ प्रक्षाल्या
↩ -
६ B मुक्तिरेव
↩ -
१ B. तथापि
↩ -
२ M. B. वर्ण्णितं
↩ -
३ तुल्यशक्तितया—हे.
↩ -
४ B तुल्यकक्षतया तयोः
↩ -
१ B प्रामाण्यं
↩ -
२ B M. तुल्यकक्षा
↩ -
३ M. अभ्युपाय॰
↩ -
४ B नुमानबाधकमेव
↩ -
५ B वाचिना
↩ - According to table of contents, this heading is on the same level as शास्त्रबाधाऽकिंचित्करी.↩
-
६ B किम्पुनर्बाध॰
↩ -
७ B यदि न कथं
↩ -
८ B ऽप्रमाणे
↩ -
१ B अभ्युपगमविरोधनात्
↩ -
२ M. B नाशनं—इति हे॰
↩ -
३ T. स्वद्वारे
↩ -
४ B. विल्वके
↩ -
१ M. प्रवर्त्यते
↩ -
३ B. प्रसिद्ध्यो
↩ -
२ B. ॰त्मनः
↩ -
१ B. व्याप्तै
↩ -
२ B. कल्पितं
↩ -
३ B. नापतेन्न
↩ - This and the next verse misnumbered in edition.↩
-
१ B. ॰दिकम
↩ -
२ B. विकल्प
↩ -
३ B. कृतानां वा—इति हे॰
↩ -
४ B. शक्यते
↩ -
५ B. ॰कूलसंकेत
↩ -
१ B. भास्यति
↩ -
१ B. तवा
↩ -
२ B. ॰क्तावक्षेपणाय
↩ -
१ B. ॰मानतः
↩ -
२ B. स्थितं
↩ -
३ B. धी
↩ -
४ B. विनाप्य
↩ -
५ B भूतयैव
↩ -
१ B तदा
↩ -
१ B. फलो
↩ -
२ T. षष्ठमाह्निकं (समाप्तम्) ।
↩ -
३ B प्रसिद्धि
↩ -
४ B प्रवृत्तस्य
↩ -
५ M. ॰प्रसाध्येषु
↩ -
१ B त्वनग्निप्रदे
↩ -
२ B बाधकं
↩ -
३ B. ॰दर्शित्वात्
↩ -
४ B. तन्न
↩ -
५ B. प्रत्यक्षे
↩ -
१ B. ॰यन्तीति
↩ -
२ B. प्रतिघात
↩ -
१ B. वर्त्मा
↩ -
२ B. बाध्यं
↩ -
१ B स्थितेः
↩ - Notes from here to 231 misnumbered.↩
-
२ B. ॰म्व्यक्ति
↩ -
३ B. ॰दनरि
↩ -
४ B. M. तद्बशा
↩ -
१ B. भावनियमः
↩ -
२ B. तस्यानर्थ
↩ -
३ B. स
↩ -
४ B. चिन्तयेति
↩ -
१ B.॰मेवैतदधि॰ M.॰ मेवेद॰
↩ -
२ M.वृक्षोऽधात्री
↩ -
३ B.प्रवर्त्त्यते
↩ -
४ B. तदव्याप्त्या
↩ -
५ M. ॰निवारणम्
↩ -
६ B.बाधोपगमे
↩ -
१ M. ॰बलभादिनाम्
↩ -
२ B प्रश(?)क्तः
↩ -
३ B पेक्षानवस्थानात्
↩ -
४ मे शशि
↩ -
५॰ वा नियम
↩ -
६ B इत्युच्यते
↩ -
७ B ॰मनु
↩ -
१ B. प्रत्ययार्थ
↩ -
२ B. ॰व्यवच्छिन्ने
↩ -
३ B. प्रतीति
↩ -
१ B ॰दित्यर्थः
↩ -
२ प्रतीत॰
↩ -
३ मांसेपि
↩ -
४ बाध्व
↩ -
५ बाध्य
↩ -
१ B ॰द्धव
↩ -
२ B वचः प्रेङ्खे
↩ - This would be the fifth section in the चतुर्विधा बाधा. So something wrong with our sectioning?↩
-
१ B न जा
↩ -
२ M. अवस्तुभूतं
↩ -
३ B. विलक्षणस्यैव
↩ -
४ T. सप्तममाह्निंकं (समाप्तम्)
↩ -
५ B. विशेष्ये
↩ - Verses misnumbered.↩
-
१ B. तेभ्यः
↩ -
४ B. मात्रममद्यपानादिना
↩ -
५ B. ॰नोक्ति
↩ -
६ B. चतुष्कोणबंधनीस्थाः पंक्तयो भाषान्तरे त्यक्तप्रायाः, तत्र(T)
↩
केवलं अस्ति—यदि सामान्यमेव अगृहीतविशेषणविशेष्याप्रत्यक्षबाधोहृतिरुच्यते । -
२ B. प्रसारणमेतत्
↩ -
३ B. मत्रा
↩ -
१ T. सदा
↩ -
२ सांख्यकारिका
↩ -
१ B. तत्कुत्रो
↩ -
२. M.ग्रहणं ततः
↩ -
१ B. धर्मिणि
↩ -
२.B. धर्माधार
↩ -
३ स्यादेष
↩ -
४ मात्रक
↩ -
१ B. धर्म
↩ - According to the text, this is a heading on the same level as सामान्यं व्यावृत्तिलक्षणम्. Seems unlikely though, because the following headings are pretty chaotic in the text as opposed to the table of contents.↩
- This heading is on the same level as सामान्य-चिन्ता, but this seems wrong.↩
-
१ M.॰मात्रभाविनः
↩ -
१ B. धर्मधर्मि
↩ -
२ B. स्तद्धर्मः
↩ -
४ B. गम्यत इति तत एव विरोधः
↩ -
३ M. अदृश्यस्य विशिष्टस्य
↩ -
१ B द्रव्येतरयो
↩ -
२ B विजात्य
↩ -
३ B प्रत्यय
↩ -
१ B. दृष्टा
↩ -
२ B. चानति
↩ -
३ यद्यस्य—इति हे.
↩ -
४ B ॰गमनेन
↩ -
१ गौरवानुपलक्षण
↩ -
२ सुवर्णभाषकादीनां
↩ -
१ B. नह्यकानुपलक्षणे
↩ -
२ B.बुद्धिमत्—इति हे., T. च,
↩ -
३M. गौरवं
↩ -
४ M.दुर्लक्षत॰
↩ -
५ B.चतुर्थ भागः
↩ -
६ B. तौल्यत्व
↩ -
७ B.भाव
↩ -
८ M.नन्वोदृष्टों॰
↩ -
९ M.तद्गुणा॰
↩ -
१ B. अष्टममाह्निकं (समाप्तम्)
↩ -
२ B स्ववचनानु
↩ -
३ B नैयायिकादीनामपि
↩ -
४ B साधनं परं प्रति
↩ -
५ B साध्यत्वं
↩ -
१ T. M प्रसिद्ध दृष्टान्त—इति हे., च ।
↩ -
२ ॰प्रसिद्धत्वात—हे, T. B.
↩ -
३ M. ॰स्बभावत्वात्
↩ -
४ B.॰तो हि
↩ -
१ न्यायसूत्रे (। ...)
↩ -
२ न तत्रोत्तरस्य
↩ -
३ B.॰शायनिकस्य
↩ -
४ न्याय सूत्रे
↩ -
५ न्याय सूत्रे......
↩ -
१ स्वयमेव—इति प्राक् लिखित्वा पश्चात् शोधितोयं पाठः ।
↩ -
१ B. ॰पचारता
↩ -
२ B ॰षमसमञ्जसं
↩ -
३ न्यायसूत्रे
↩ -
१ B. गता
↩ -
२ M. वचनै—हे.
↩ -
३ नायसूत्रे
↩ -
४ B ॰विरोधाः प्रतिज्ञाविरोधः
↩ -
१ B. प्रतिज्ञार्थस्य
↩ -
१ B. सामान्येनानुवर्त्तने—हे॰
↩ -
२ B. ॰नुवर्ण्णनेन
↩ -
३ न्यायसूत्रे
↩ -
४ M. शब्दे
↩ -
५ B. तस्माद्
↩ -
६ M. विद्यते—हे
↩ -
७ B हेतु
↩ -
१ M. चेयता
↩ -
२ B न स्वरूपेण धर्मित्वेनासिद्धत्वाद
↩ -
३ B भेदात्
↩ -
१ B. ॰साधनभावः
↩ -
१ B. सैव
↩ -
२ B. धर्मान्तरं
↩ -
३ B. तु तत्सम्बन्धितया न युक्तं
↩ -
४ B. ॰मभावे
↩ -
५ B. ॰मानमनर्थकं
↩ -
१ B. सा चानुमानगम्या
↩ -
२ B. प्रत्यक्षावर्त्तेन
↩ -
३ B. ॰तयैव
↩ -
४ T. नवममाह्निकं (समाप्तम)
↩ -
१ B नासिद्धमिति
↩ -
२ B न्वयः
↩ -
३ B स्फरणे
↩ - Verse misnumbered here.↩
-
४ B विवेकेन
↩ -
१ B. सामान्य
↩ -
१ B. भेदमप्रतियतः
↩ -
१ B. प्रतीयते
↩ -
१ B. अ
↩ -
१ B. ॰सङ्गात्
↩ -
२ B तथात्वे
↩ -
३ B तथा च तज्ज्ञान
↩ -
४ B प्रगीयते
↩ -
५ B घटः
↩ -
६ B शुक्लतेति
↩ -
१ B गुणान्तराणा
↩ -
२ B. ॰वयव
↩ -
१ B. केवलस्य पृथग्भूतस्य
↩ -
२ B. कुत
↩ -
३ B. प्रसिध्यत
↩ -
४ B. M. ॰लम्व्यावकल्प्यते—हे.
↩ -
५ B प्रसिद्धितः
↩ -
२ B न्यायमनुबध्नाति
↩ -
१ T. र्तग्स्-दङ्-र्तग्स्-चन्-ञिद् (= लिंगलिंगता)
↩ -
१ B. धर्मिभेद
↩ -
२ B. विभिन्नता
↩ -
३ B. संहतानां
↩ -
४ दशममाह्निकं (समाप्तं)
↩ -
२ प्रमाणसमुच्चये
↩ -
१ B. आभास इति
↩ -
१ B. घटा
↩ -
२ B. त्वपक्षत्व
↩ -
३ B. प्राधान्यं
↩ -
४ B. योगं
↩ -
१ B तस्याभिधेयं
↩ -
२ B तदव्यतिरेकात्
↩ -
३ B ॰रेकिणां
↩ -
४ B पट
↩ -
५ B घटादि
↩ -
१ B यत्तु
↩ -
२ B तदा
↩ -
३ ॰विद्यमात्रकं
↩ -
४ B सन्, मन्
↩ -
५ ॰पेक्ष
↩ -
६ B तावतां
↩ -
१ B. हि तत्कथं
↩ -
१ B. स्यान्न व्यक्तौ ।
↩ -
२ B. व्यवधानात्
↩ -
३ B. दन्त्य
↩ -
४ B. तत्सामान्य
↩ -
५ B प्रतिपत्तुं
↩ -
६ B हि भेदेन
↩ -
१ B प्राप्तव्य
↩ -
२ B सम्भवि
↩ -
३ B. ॰रेव
↩ -
४ B. भ्रान्तबुद्धितया
↩ -
१ B. वस्त्वसत्त्यत्वे
↩ -
2 B. तद्
↩ -
३ B ततोदिता
↩ -
४ B तथोदिता
↩ -
१ B. तथैव
↩ -
२ B. ॰पि
↩ -
३ B. धानुर्द्धर्य (?)
↩ -
४ B. प्रयुज्यते
↩ -
५ ॰त्यधनुर्द्धरत्वमेव
↩ -
६ B. ॰मेवभूता
↩ -
१ नकारस्य द्वित्वं परिशोध्य पश्चात् कृतं हस्तलेखे ।
↩ -
२ B. शाब्दनयः
↩ -
१ B ॰दनुपपन्नं
↩ -
२ वात्स्यायनः (?)
↩ -
३ B पृष्ठम्वेति
↩ -
४ एकादशमान्हिक (समाप्तम्)
↩ -
१ B सत्तो
↩ -
२ B करणं
↩ -
३ B ॰स्तस्य
↩ -
४ B कूटो
↩ -
५ B यदा
↩ -
१ B. निषेद्धुर्थ
↩ -
२ B. वर्त्तमानता—इति व्याख्या
↩ -
३ B. उत्तरं किं कार्ययोः ?—व्याख्या
↩ -
४ B. आत्मनैव
↩ -
५ B. प्रत्यक्षे प्रत्यक्षं न प्रमाणमिति वचस्यपि प्रमेयं—व्याख्या
↩ -
६ B. तेन तत्र
↩ -
१ B. प्रमाणादगतैव
↩ -
२ B. प्रमाणं
↩ -
१ B पिठरकादिरा
↩ -
२ B पुत्रादौ
↩ -
४ B. कार्यकारणात् परस्पर
↩ -
५ B. मुक्तिः
↩ -
६ B. न
↩ -
७ B. पघात
↩ -
३ B हि
↩ -
१ B. कार्यतास्य
↩ -
२ B. प्रदापादि
↩ -
३ B. तद्रूपम
↩ -
४ B. स्वरूपम
↩ -
५ B. विपरीतख्यातितः
↩ -
६ B. सत्त्यरूपशब्द
↩ -
१ B. मीक्ष्यते
↩ -
२ B. ततोपि
↩ -
३ B. व्यापिरूप
↩ -
४ B. कृत्यं
↩ -
५ B. ॰स्थानादुत्थिता
↩ -
६ यदि
↩ -
१ B. प्रतिपत्ते
↩ -
२ B. उत्प्रेक्षेत
↩ -
१ B. तत्त्व
↩ -
२ B. ॰तिष्ठते
↩ -
३ B. अतत्त्व॰
↩ -
४ B. भिनिरू॰
↩ -
५ B.॰ क्षयव्रज्या
↩ -
६ B ॰मपि
↩ -
७ ॰कालम्भव॰
↩ -
८ B तदपि
↩ -
१ B यन्नास्ति यस्य
↩ -
२ B. कथन्नित्यताऽभावः
↩ -
१ B. ॰मेव
↩ -
२ B. सत्त्यं
↩ -
३ B. नित्यः
↩ -
४ B. कार्यकरण
↩ -
५ B. पर.पेक्ष्य
↩ -
६ एतावतैव सिद्धोपि—हे॰
↩ -
१ B द्वेधा
↩ -
१ B. ग्रहणव्यापारस्य
↩ -
२ द्वादशमाह्निकं (समाप्तम्)
↩ -
३ B. सहभावी
↩ -
४ B. वर्तमानतयाभासे
↩ -
१ B यत्र ग्रहण
↩ -
२ B तस्मान्न प्रत्यक्षेण पूर्वापररूपता गृह्यते । नापि स्मरणेनेति
↩ -
३ B ॰ताया
↩ -
४ B ॰त्रापि
↩ -
१ B भेदेहि
↩ -
२ B कारणत्वे
↩ -
१ B न तथाऽगमक एव
↩ -
२ B मतः
↩ -
३ B संयोग्यादि॰
↩ -
१ B. ॰स्तदा
↩ -
२ B. यदि नान्यस्मा॰
↩ -
३ B. ॰न्नैव
↩ -
४ B. अन्यदपि
↩ -
१ सिध्येदतो—हे॰
↩ -
२ ॰दिमत्व
↩ -
३ B. वक्तुं क्षमं
↩ -
४ B प्राणादि
↩ -
५ B ॰त्मनो
↩ -
६ B व्याप्ति
↩ -
१ यथात्मविविक्ततया
↩ -
१ B सः
↩ -
१ B. ॰मेकैव
↩ -
२ B. ॰णादिकं
↩ -
३ B. ॰नन्यनिश्चितं
↩ -
४ साध्येपि वृत्त्य॰—हे॰
↩ -
१ T. वस्त्वभावो
↩ -
२ T. पश्य बान्ध॰
↩ -
१ B. कग थंमकः
↩ -
२ T. त्रयोदशमाह्निकं (समाप्तम्)
↩ -
१ B. नास्ति
↩ -
१ B प्रतिपत्तिः
↩ -
२ B. अप्रतिपन्नमपि
↩ -
३ B. नेति
↩ -
१ B. अनात्मात्मतया
↩ -
१ B. तत्रो
↩ -
२ B ॰षेधयो
↩ -
३ B. विशेष्यता
↩ -
४ B वाचकात् । तत
↩ -
१ B प्रतीतिः
↩ -
१ B चोपपन्नः
↩ -
१ B सन्निकृष्टेर्थे
↩ -
२ B वर्ण्णस्य
↩ -
३ B ॰पेक्षतया
↩ -
१ B. प्रवृत्ति॰
↩ -
२ B. न निवर्त्तनं
↩ -
४ B स वस्तु
↩ -
५ B ॰पणपरो
↩ -
३ B. परित्यजति
↩ -
१ B अपरिज्ञात
↩ -
२ B ॰भ्युपगमात्
↩ -
३ T. सिध्यत्यन्य—हे॰
↩ -
४ B. निवर्त्तयेत्
↩ -
१ निवर्त्तयेत्—हे॰
↩ -
२ B. प्राणनादिकः; प्राणादिर्न्न सपक्षतः—हे॰
↩ -
३ T. नान्वय्य—हे॰
↩ -
१ B व्याख्यानान्तरीयत्वसाधकं प्रमाणमपेक्षते
↩ -
२ B ॰स्य भावनियम
↩ -
१ B भिन्न॰
↩ -
२ T. चतुर्दशमाह्निकं (समाप्तम्)
↩ -
१ B. एव न
↩ -
२ B. दृश्येत
↩ -
३ B. निर्भास
↩ -
४ B. ॰क्रियाप्रवणो
↩ -
५ B. स्या
↩ -
१ B. भिन्नाथ—हे॰ न भिन्नो देवता कथमिति पाठान्तरं
↩ -
२ तेनाङ्शेन—हे॰
↩ -
३ T. सिद्धं—हे॰, च ।
↩ -
४ B. ॰स्थितिः
↩ -
५ B. भवति
↩ -
१ B ऽव्यवहार्य
↩ -
१ B. कृत॰
↩ -
२ B ततः
↩ -
३ B अन्यस्य
↩ -
१ B. मिश्रणमि॰
↩ -
२ B. ॰प्यस्य
↩ -
१ B. मसन्तम॰
↩ -
२ B साधारणा
↩ -
३ B साध्यते
↩ -
१ B स्वात्मत्वे
↩ -
२ T. द्ङोस्-पोिऽ-छोस् (=वस्तुधर्मः)
↩ -
३ B वस्तुभावो
↩ -
१ B ॰स्थक्रियो
↩ -
२ B व्याप्तैव
↩ -
३ B ॰स्य भेदः
↩ -
४ B. तदात्मोऽभावः
↩ -
१ T. इतोऽग्रे यावत् २७० कारिकां (॰समुद्भवः) भाषान्तरं न दृश्यते
↩ -
२ T. प्रदेशानुपलम्भः
↩ -
३ T. ननु च स घट इह नास्तीति तस्य स्वभावो नेति साध्यं कथं विपर्ययस्य वचनम् ।
↩ -
१ B ॰न्तरस्य तु
↩ -
२ T. भोटभाषान्तरेऽत्र २७० कारिका
↩ -
३ T. पंचदशमाह्निकं (समाप्तम्)
↩ -
४ B तदा
↩ -
१ B पेक्षत
↩ -
२ B यद्यनुपलम्भाभावो
↩ -
१ B. ॰ वतस्तुच्छरूपाद्
↩ -
१ B व्याप्तादीना
↩ -
२ B अर्थस्याप्रतिषेधस्य
↩ -
३ B ॰व्धिः
↩ -
४ B तदनुपलब्धिः
↩ -
१ B ॰पेक्षादध्रुवो
↩ -
२ B ॰नित्याभाव
↩ -
१ A. ग्रंथः खंडितोऽत्र
↩ -
१ तत्रैव—केवल व्यतिरेकी केवलान्वयी ।
↩ -
२ तत्रैव—अनित्यत्वं ।
↩ -
३ तत्रैव—नित्यत्वे भवतीति न ।
↩ -
१ B. कृत्वकत्व
↩ -
२ B असिद्ध इति
↩ -
३ B सांख्यकारिका
↩ -
४ B. पञ्चभ्यन्तेनात्र दृष्टान्तः
↩ -
५ B. ॰रूपत्रैरूप्य॰त्युदासित॰
↩ -
१ B. प्रकाशन॰ ।
↩ -
२ B. यित्रो॰ ।
↩ -
३ B. मयोज्ज्वल॰
↩ -
४ B. इति प्रमाणवार्त्तिकालङ्कारे भाष्ये परार्थानुमान परिच्छेदश्चतुथः । समाप्तञ्चेदं
↩
प्रमाणवार्त्तिकाल ङ्कारभाष्यमिति । -
५ T. प्रमाणमहाभाष्यं वार्त्तिकालंकारः महापंडितप्रज्ञाकरगुप्तपादेन कृतः । षष्ठ्यधिक
↩
माह्निकं (बम्-पो) । (१) कम्मीरपंडितभाव्यराजेन लोकचक्षुषा धीमत्प्रज्ञेन
(ब्लो-ल्दन्-शेस्-रब्) भाषान्तरीकृतः (२) पुनरव कश्मीरपंडित (म्खन्-पो)
कुमारश्रिया शु-छेन् (वास्तव्येन) लोकचक्षुषा मिक्षुणाऽऽर्यप्रज्ञेन (ऽफग्स्-पऽि/?/शेस्-रब्)
निर्णीतः (भाषान्तरपाठः) । -
६ A. लिखिता भूतिचन्द्रेण भिक्षुणा ज्ञानकांक्षिणा । यदस्पष्टमशुद्धम्वा तज्जनाः क्षन्तु
↩
मर्हथ (।) लिखिता लंकृतिरुत्तरस्याम्(।)