भूतचैतन्यमतनिरासः


१।३७ आस्तिकानां महाभूतव्यतिरिक्‍तं ज्ञानं संसरति जन्मान्तरेपि ।
नास्तिकानान्तु महाभूताव्यतिरिक्‍तं दृष्‍टमात्रे ह्येवं ते प्राहुः । महाभूतानामेवाभि
व्यक्‍तिविशेषो मदशक्‍तिवच्‍चैतन्यमिति । अभिव्यक्‍तं चैतन्यं यस्मिन्देहे स तथाभूतो
देहः स्वभावो यस्य पुरुषस्य स तथा । पश्‍चाद् घटशब्देन द्वन्द्वः । निर्द्धारणे षष्‍ठ्‍याः
सप्‍तम्या वा द्विवचनमेतत् । अवयवावयविसम्बन्धे वा षष्‍ठी । तयोरन्यतरेण घटेन
पुरुषेण वा सह द्वितीयेन वर्त्तत इति च द्वितीयः । व्याजेन च महाभूताव्यतिरिक्‍तं
चैतन्यं प्रयोगेण साधयति । अस्ति हि दृष्‍टान्तेऽनुत्पत्यात्मकस्य कुड्यस्यान्यतरेण
घटेन सद्वितीयत्वमेकेनापि सद्वितीयत्वेऽन्यतरेण सद्वितीयत्वं सामान्येन सिद्धमिति
न साध्येनान्वितं निदर्शनम् । तथा घटस्यापि साध्यधर्मिणोऽशेषघटपक्षीकरणे
तेनैव सद्वितीयत्वमयुक्‍तमिति सामान्येनापि साधने तथाभूतेन पुरुषेण सद्वितीयत्वं
पारिशेष्यात्सिध्यतीति मनो मन्यते । अत्रेत्यादि । तादृशस्य पुरुषस्यानुक्‍तावपि
इच्छाव्याप्‍तस्य साध्यत्वात्तस्य चासिद्धत्वात् दृष्‍टान्तेऽनन्वयदोषः । साध्य
सामान्येनेति । तादृशैव पुंसा विशेषणेन सद्वितीयत्वं साध्यते घटस्य यतो विशेषा
पेक्षया दोषद्वयं स्यात्किन्तु सामान्येनान्यतरसद्वितीयत्वं धर्मिणो वक्‍तुमिष्‍टमतो
यमदोष इत्यसारम् । सामान्यस्यैवाभावात् । सद्वितीयं हि घटेन वा स्यादुक्‍त
पुरुषेण वा । तत्र घटस्य साध्यधर्मित्वेनाश्रयणाम् नानेन सद्वितीयत्वमभेदात्
भेदाधिष्‍ठानं हि सद्वितीयत्वं । नापि पुरुषेणानन्वयदोषादिति । एतदेवाह तदेव
सामान्यं न सिद्‍ध्यती
त्यादि । अनाप्‍तैरभ्युपगम उक्‍तप्रकारेण देहेभ्योन्तरं नाभ्युप
गम्यते परेणानन्वयादिदोषात् । तुल्यं नाशेपीति । यथा हि घटेन घटस्य सद्वितीयत्वं
विरोधात्साध्यमुपपद्यते । नापि तादृशा पुरुषेणानन्वयशङ्क्येत्युभयाभावेन सामान्येन
साधनं तथात्रापीत्याह । घटशब्दभेदेनेत्यादि । न शब्दे शब्दानित्यत्वं सा
527 ध्यमनन्वयाशङ्कया । नापि घटा b नित्यत्वं शब्दे साध्यमसंभवात् । यदि च
घटानित्यत्वं शब्दं प्रति ज्ञायते तदाभ्युपेतविरोधः । शब्दे घटानित्यत्वस्यानभ्युप
गमात् । आदिशब्दादनुमानविरोधोप्यन्यधर्मस्यान्यत्र बाध्यमानत्वात् । शब्दभेदेन च
कल्पने साध्यविकलतादोषो दृष्‍टान्ते । असिद्धेन विनाशेनेति । धर्मिविशेषापरिग्रहेण
विनाशसामान्यस्य सिद्धत्वात् । तद्वत इति विनाशवतः ।


अन्येनैव प्रकारेण सद्वितीयत्वप्रयोगेऽन्ववैकल्यादिकमस्माभिरुक्‍तं तया
त्वन्यथैव परिकल्प्य तुल्यदोषतापादनं कृतमित्येतत्‍कथयितुमाह । न हीत्यादि ।
अन्यतरार्थान्तरत्वं सामान्यं घटे साध्यधर्मिणि कुड्‏ये च दृष्‍टान्तधर्मिणि उपनीत
मिति प्रतिक्षिप्‍तं साध्यमिष्‍टं परस्य साध्यधर्मिगतम्वान्यतरार्थान्तरत्वं साध्यं
दृष्‍टान्तधर्मिगतम्वेति यावत् । कुतो नानात्वे सति नानत्वेति तत् (?) न ह्यत्रा
न्यतरार्थान्तरत्वं कुड्‏यधर्मो घटेस्ति साध्यं नापि घटधर्मः कुड्‏ये साध्यमिष्‍टमन्वे
तीति साध्यवैकल्यादिकं व्रूमो येन तुल्यदोषता स्यात् साध्यधर्म एव तादृश इति
यथोवतपुरुषघटापेक्षयान्यतरार्थान्तरभावलक्षणः निरूप्यमाणो न सिद्धोस्ति
न हि घटस्यार्थान्तरभावो विरोधात् । देहस्याप्यनन्वयाशङ्कया नेष्यते तेनेत्येतावता
सामान्येन शब्दः साध्यतेऽयोगव्यवच्छेदेन केनचिदनित्यत्वेनायोगमिच्छन्तीति
तत्संबन्धः साध्यते तथार्थान्तरभावे स्यात् तद्वान् कुम्भोपीति सूत्रं व्याख्यातुमाह ।
अन्यतरार्थान्तरभावस्त्विति । तु शब्दो विशेषे । यथाऽनित्यत्वं वस्तुधर्मो न
तथा सद्वितीयत्वं वस्तुधर्मः । इच्छाबलेन च व्यवस्थापनात् । न ह्येतत्कार्यं
स्वभावो वा भावस्य युज्यते त्विच्छाबलेन संचार्यार्थान्तरत्वेपि वर्त्तमानत्वात् ।
तद्वान कुम्भ इत्यस्य विवरणमन्यतरसद्वितीयघट इति ....