समर्थये इति । विभाविताप्रिय इति युक्तः पाठः, प्रियादिषु पुंवद्भावप्रतिषेधात् । नात्राभावारोपः स्फुटोऽवगम्यत इति प्रकरणमादाय व्याचष्टे—अत्राङ्गीकृतेति । न च वाच्यं दोलायमानतया संशयरूपमिदं ज्ञानमिति । यतो नास्त्येवात्र प्रियतमा तथापि तदारोपेण मनस्तापातिवाहनमुचितमिति जानतः पुरूरवसोऽनुबन्धप्रकर्षः पुष्यति नान्यथेति सहृदयहृदयसाक्षिकमिदम् । तदेतन्मनाक् स्फुटयति—पूर्वानुभूतैवंविधेति ॥