ज्ञानसंगत्यनन्तरं प्रमाणरूपालंकारप्रस्तावस्तत्रान्येषां प्रमाणानां प्रत्यक्षमूलकत्वात् प्रथमं प्रत्यक्षलक्षणमाह—प्रत्यक्षमिति । साक्षात्कारः प्रत्यक्षमिति प्रसिद्धं तस्य विभागमाह—अक्षजमिति । अक्षं बहिरिन्द्रियं तस्माज्जातम्, मानसं बाह्येन्द्रियानपेक्षेण मनसा जनितम् । स्वानुभूतिः सहजा चिच्छक्तिस्तस्या उत्पन्नम् । शरीराभिघाताद्यभिभूते प्रत्याहारतिरस्कृते वा मनसि यत् कदाचिदतिस्फुटाभं ज्ञानमुत्पद्यते न तस्य मनोनिबन्धनता शक्यतेऽभिधातुमिति चिच्छक्तिमेवाश्रयते । ननु इन्द्रियजन्य एव लोके साक्षात्कारिताप्रसिद्धेः कथमनुभूतिभवं तथेत्यत आह—उपचारेणेति । यदीन्द्रियजन्ये साक्षात्कारितानियमस्तदोपचारेण परिगणनम् । अथ भावनादिबलेन विनापीन्द्रियं भवतीति पक्षस्तदा मुख्यत एवेति भावः ॥