लिङ्गादिति । यस्य येन सहाविनाभावलक्षणा व्याप्तिः संदिग्धसाध्यधर्मधर्मिरूपपक्षवृत्तितारूपा पक्षधर्मता च गृह्यते तस्मात्तस्य प्रतीतिरनुमानं यथा धूमाद्वह्नेः । स हि यथाविधे सिद्धस्तथाविधसंनिधानं सूचयति । तत्र यस्मात्प्रतीतिरुत्पद्यते तत् लिङ्गं चिह्नम् । व्याप्तिविशिष्टपक्षे धर्मतासंज्ञापकमित्यर्थः । इतरलिङ्गं ज्ञापकमस्यास्तीति कृत्वा । पूर्ववच्छेषवत्सामान्यतोदृष्टभेदात्रिविधमनुमानमग्रे ग्रन्थकृतैव व्याख्यातमिति न वितन्यते ॥