विरोधस्त्विति । परस्परमसङ्गतिरसंबन्धः, सहानवस्थानमिति यावत् । तेन सहानवस्थाननियतयोः सहानवस्थानोक्तिर्विरोध इति तात्पर्यम् । संक्षेपः स च प्ररूढो दोषः । अप्ररोहस्तु द्विधा । श्लेषोषधानेनान्यथा चान्यथाभावस्त्रिधा । सहानवस्थितयोः प्रायोदर्शनमात्रेण नैयत्यारोपः । यथा—‘क्व युवतिमार्दव’ मित्यादौ विरुद्धधर्मोक्तिविषयस्याचिन्त्यप्रभावातिशयत्वेन प्रसिद्धिर्वा । यथा ‘दिग्वासा यदी’त्यादौ विरोधस्यारोपमात्रेण सरूपतया प्रतिपत्तिमात्रं वा । यथा ‘सा उप्पडी’ त्यादौ । सर्वश्चायं विरोधोऽभिधीयमानः प्रतीयमानश्च । अथादिशब्देन योऽभिधीयते सोऽभिधीयमानः । प्रतीयमानस्तु तद्विनाकृतो यथा भट्टबाणस्य ‘यत्र मातङ्गगामिन्यः शीलवत्यश्च गौर्यो विभवरताश्च श्यामाः पद्मरागिण्यश्च धवलद्विजशुचिवदना मदिरामोदिश्वसनाः प्रमदाः’ इति । इहान्यैरलंकारकारैरसंगतिप्रत्यानीकाधिकाविषमाख्यअलंकारचतुष्टयं विरोधात्पृथग्लक्षितम् । तल्लक्षणानि—‘विरुद्धकार्यसंप्राप्तिर्भवेत्तेनैव हेतुना । परिमाणादियोगेन व्यवस्थानमुपेयुषः ॥ अव्यवस्थाभिधानं यदधिकं तत्प्रचक्षते । कारणेन विरूपं यत्कार्यमुक्तवदुच्यते ॥ आश्चर्यकारि तत्प्राहुर्विषमं शब्दबुद्धयः ।’ इति । तदेतेषां लक्षणाभेदाद्विरोध एवान्तर्भावो न ह्यवान्तरभङ्गिभेदमात्रेण सामान्यान्तर्भावो न भवतीत्याशयवानाह—असङ्गतिः प्रत्यनीकमिति ॥