अत्र पल्लवितमिव पुष्पितमिव फलितमिवेत्युत्प्रेक्षया लताधर्माणां लावण्यधर्मिणि धर्माध्यारोपो दृश्यते । करपल्लवादीनां चानुपात्तव्यापारहेतुत्वेन साधकतमत्वेन वा प्राधान्यं लक्ष्यते । सोऽयमन्यवस्तुनि पुनरन्यधर्माणामेवारोपेण मेलितं नाम समाधेरेव भेदो भवति । स तूद्देशे समाध्युक्तिरित्युक्तिग्रहणाल्लभ्यते ।