यदेतदित्यादि । यदेतच्चन्द्रस्यान्तर्मध्ये मेघकणविलासं कुरुते लोकस्तच्छशक इत्याचष्टे वदति । मां प्रति तथा नैतत् । अहं पुनरिन्दुं मन्ये । कीदृशम् । त्वदीयशत्रुविरहग्रस्ताया युवत्याः कटाक्ष एवोल्कापातस्तस्य व्रणकिण एव कलङ्कस्तेनाङ्किता तनुः शरीरं यस्य तादृशम् । ‘लवलेशकणाणवः’ इत्यमरः । ‘अमानोनाश्च प्रतिषेधवचनाः’ इति च । अत्र निजमतोपन्यासादुत्प्रेक्षासमर्थनमिति मतोत्प्रेक्षेयम् ॥ इत्युत्प्रेक्षालंकारनिरूपणम् ॥