अप्रस्तुतेति । अस्तोतव्यस्य निन्दितस्य कुतोऽपि कारणात्स्तुतिः प्रशंसा अप्रस्तुतस्तुतिः अत एव समासोक्तेर्भेदः । तत्र ह्युपमानोपमेयता, अत्र तु निन्दितमर्थान्तरम्, अन्यस्य स्तुतिरिति । सा त्वभिधीयमाना प्रतीयमाना चेत्याह—वाच्येति । तत्र हेतुद्वारकमपि विभागमाह—सा त्विति । धर्मश्चार्थश्च कामश्च तेषामन्यतसमस्य प्रायो बाहुल्येन बाधया सर्वत्र स्वाभिप्रायस्य प्रकृष्टसिध्द्या सोत्पद्यमाना प्रतीयत इत्यर्थः ॥