चपल इति । हे सखि, चपलो निर्भयश्चासौ जनो भवतु तेन मम किम् । किंतु न किमपि । येन जनेनागःप्रमार्जनायापराधप्रोञ्छनाय परं चाटवः प्रियवादाः 479 शिक्षिताः । ‘आगोऽपराधो मन्तुश्च’ इत्यमरः । अत्र दोषवदाभासते प्रतिभातीति दोषाभासो न त्वयं परमार्थतो दोषः । चाटुकारिता हि गुणो येन कृतापराधोऽपि मामनुकूलयन्मानभङ्गं करोति । अत एव च तत्रानुरागः । तथा च चपल इत्यादिना सखीजनोद्दिष्टं मानं रागात्कर्तुमशक्ततया बालया चाटुकारिता दोषाभासो गुणः कोऽपि दर्शित इति गुणस्य दोषतात्र । गुणदोषयोर्मिलितयोरेव तत्त्वं लेश इति मतमाह—अन्ये इति । समासोक्तिर्गोपनेन भणनम्, असमासोक्तिः स्फुटभणनम् ॥