उज्झसीत्यादि । "उह्यसे प्रियया समदं तथापि खलु रे भणसि किमिति कृशेति । उपरिभरेण च हे अज्ञ मुञ्चति वृषभोऽप्यङ्गानि ॥" अपराधवता केनचिदबला दुर्बला किमिति त्वं कृशेति पृष्टा । तमुद्दिश्याह—उह्यस इति । प्रियया समदं सगर्वं यथा स्यादेवं त्वमुह्यसे भ्रियसे । तथापि रे त्वं वदसि किमिति कृशासि त्वमिति । हे अज्ञ ज्ञानहीन, उपरिभरेण गोण्यादिगौरवेण वृषभोऽप्यङ्गानि मुञ्चति त्यजति । किं पुनरवलेति भावः । उह्यस इति ‘वह प्रापणे’ कर्मणि लकारः । वइल्लो वृषभः । रेशब्दः साक्षेपसंबोधने । अत्र वहनक्रियायां त्वमिति बोध्योऽर्थः कर्मीभूतः केवल एव प्रियापदार्थेन सह समाश्लिष्टस्तयोश्च विसदृशता व्यक्तैव ॥