हन्तुमित्यादि । "हन्तुं विमार्गमाणो हन्तुं त्वरितस्यात्मना दशवदनम् । किमिच्छसि कर्तुं प्लवगपतेऽस्य प्रियमिति विप्रियं रघुपतेः ॥" इह हे प्लवगपते सुग्रीव, दशवदनं हन्तुं विमार्गमाणो याचमानस्त्वं रघुपते रामस्य किं प्रियमिति कृत्वा 497 विप्रियमनिष्टं कर्तुमिच्छसि । कथं विप्रियता तत्राह—कीदृशस्य । दशवदनमेवात्मना हन्तुं त्वरितस्य, प्रभुणा जिघांसितस्य हि वधेऽपराध इति स एव पुरुषोत्तमस्तं घातयतु । समेतैर्भवदादिभिः साहाय्यमाचर्यतामित्याशयः । यच्छब्दोऽव्ययत्वेनानेकार्थतया संबोधनार्थः । यद्वा जेशब्दः पादपूरणे । दशवदनपदमाकाङ्क्षाक्रमेणावृत्त्या हननद्वयान्वयि । अत्र रावणवधोद्यमो विधिरुक्त्यैव जाम्बवता रुद्धोऽनुकूलतया हेतुमुद्भाव्येति रोधोऽयं विध्याक्षेपशेषः ॥