न बद्धेत्यादि । भ्रूभङ्गो न बद्धः, अधरोऽपि न स्फुरितः, दृष्टिरपि न रक्ता वृत्ता, तथापि वीर, त्वया द्विषतां शत्रूणां कुलं जितम् । अत्र भ्रुकुटीत्यादिक्रियानिषेधात्क्रियावैकल्यम् । अतिशयस्तु लीलया शत्रुजयः ॥