एकेत्यादि । रथस्यैकं चक्रम्, यन्ता सारथिरनूरुर्विकलश्चरणहीनः, अश्वा 507 विषमाः सप्त, तथापि रविस्तेजस्वी जगत्त्रयमाक्रामति । ‘सप्ताश्वा नव दन्तिनः’ इति नीतौ निषेधः । आक्रामतीत्यत्रोत्क्रमणाभावात् ‘आङ उद्नमने १।३।४०’ इति न तङ् । अत्र रथादीनामेकदेशविकलतेति द्वितीयेयम् ॥