गेहादित्यादि । हे राधे, त्वं देवकीनन्दनस्य कृष्णस्य दृशि नेत्रे न निपतितासि । त्वं गेहात्सरितं नदीं याता गता उदकं हारिका उदकमाहर्तुं न पुनराजिहीषे न पुनरागच्छसि । मङ्क्ष्यामि स्नास्यामीति कृत्वा यमुनातीरे वीरुधां लतानां गृहाणि श्रयस्याश्रयसि । गोसंदायी गवां बन्धनकारिणी सती गोवर्धनाद्रेर्वनान्येव 512 विशेसि च । हारिकेंति ‘हञ् हरणे’ तुमुनर्थे ण्वुल् । आजिहीषे इति ‘ओहाङ् गतौ’ (आङ्पूर्वः) मध्यमपुरुषैकवचने ‘श्लो ६।१।१०’ इति द्विर्वचनम् । ‘मृञामित्७।४।७५’ इत्याकारस्येत्त्वम् । मङ्क्ष्यामीति मस्जेर्लटि उत्तमपुरुषे । ‘मस्जेरन्त्यात्पूर्व’ इति नुमि नकारलोपे च रूपम् । ‘लता प्रतानिनी वीरुद्’ इत्यमरः । गोसंदायीति संदानं बन्धनम् । ‘छान्द’ इति प्रसिद्धम् । अत्र ण्वुलादिकृता तादर्थ्यपुरस्कारेण क्रिया विशेष्यते । एवमिति । यत्र ‘लक्षणहेत्वोः ।३।२।१२६', ‘इङ्धार्यौः’ शत्रकृच्छ्रिणि २।३।१३०’ इत्यनेन लक्षणादिशत्राद्यन्तेन क्रिया विशेष्यते तत्रापि क्रियापरिकरो द्रष्टव्यः । यथा पुष्पात् स्ववृक्षे स्वयं गतः फलतस्तु समायात इत्यादि(?) ॥