आदिपदग्राह्यं हेत्वादि । तत्र हेतावाह—हेत्विति । त्वयेत्यादि । त्वया जगन्ति पवित्राणि । त्वयि जनोक्तयोऽपुण्या अकुशलाः । त्वया लोका जना नाथवन्तः सरक्षकाः । त्वमनाथा अशरणा विपद्यसे विपन्ना भवसि । अत्र हेतुद्वयपरिष्कारो व्यक्त एव ॥