अलीत्यादि । लता वसन्ते ललना इव स्त्रिय इवाधिकं शोभन्ते । कैः । अलकैरिव भृङ्गवृन्दैः, पुष्पगुच्छैः कुचैरिव, पल्लवैः पाणिभिरिव । इहावयविनोर्लतास्त्रीरूपयोरवयवानामेकदेशानामलिवलयालकादीनां सामग्र्येणोपमानोपमेयभावात् समस्तोपमेयम् । तेषां च प्रकृतत्वं प्रसिद्धमेव ॥