चतुर्धेति । पाणीति । त्वत्पादनखचन्द्राणामर्चिषस्तेजांसि भूपानां करकमलानि संकोचयितुं निमीलयितुमीशते समर्था भवन्ति । अर्चिषः कीदृश्यः । 415 कुन्दपुष्पवदमलाः । ‘अर्चिर्हेतिः शिखा स्त्रियाम्’ इत्यमरः । पाणिः पद्ममिव नखश्चन्द्र इवेत्यत्र ‘उपमितं व्याघ्रादिभिः सामान्याप्रयोगे २।१।५६’ इति समासः । इह सामान्यस्येवादेरप्रयोगेणाभेदोपचारादुपमानार्थस्तिरोभूत इति गौणीपुरस्कारः । तिरोभूतत्वं च परमार्थतः सन्नपि भेदो न भासत इति, तत्तु समासेनैव कृतम्, अत एव शब्दप्राचुर्याच्छब्दभूयिष्ठता ॥