अत्र स्मितपुष्पोज्ज्वलं लोलनेत्रभृङ्ग सुरभिश्वसितानिलं ते मुखं न कस्य नन्दनमिति पुष्पभृङ्गादीनां परस्परं युक्त्युपपत्तेर्युक्तं नामायमङ्गाङ्गिप्रधानरूपकेष्वर्थभूयिष्ठो रूपकभेदः । अत्र यद्यपि नन्दनमिव नन्दन-421 मिति गौणवृत्तिव्यपाश्रयः शब्द एव समस्तविशेषणैः परिष्क्रियते तथापि नन्दयतीति नन्दनमिति कृदभिहितक्रियासमावेशे मुखाख्यस्यैव वस्तुनः प्राधान्यमवगम्यते तस्य त्वपह्रियत इत्यर्थप्रधानमेवैतत् ॥