अथेति । आह्वयो नाम । सर्वमेकीकृत्य गणयति—सैषेति । चतुर्विंशतिरित्यर्थः ॥ रइअरेत्यादि । इह नभस्तलं शोभते पितामहस्य ब्रह्मण उत्पत्तिपद्ममिव तस्य पद्मयोनित्वात् । कीदृशम् । रविकराः सूर्यकिरणा एव केसरनिकरा यत्र तत् । धवलाभ्राणि श्वेतमेघा एव दलसहस्राणि तैः परिगतमन्वितम् । मधुमथस्य विष्णोर्दर्शनयोग्यम्, शरदि तस्य जागरणादस्य च रम्यत्वात्, पद्मपक्षेऽपि नाभिकमलतया मधुरिपुदर्शनयोग्यता । यद्वा मधुमथस्य भृङ्गस्य दंशनं कवलनं तद्योग्यम् । मधु मथ्नातीति मधुमथः मूलविभुजादित्वात्कः । ‘मधुमथो हरिभृङ्गयोः’ इति शाश्वतः । अत्र रविकरधवलाभ्रसहस्रयोः सहजाहार्यावयवयोः केसरनिवहत्वेन दलसहस्रत्वेन च रूपणात् पङ्कजनभस्तलयोरवयविनोरुपमानोपमेयत्वाच्च सावयवसंकीर्णरूपकमिदम् ॥