उपक्रमस्येति । यादृशी पदसंनिवेशत्वेनोपक्रम्यते तादृश्या वृत्तनिर्वाहः क्वचिद्विशेषशोभावहो भवति । अत एवात्र नात्यन्तनिर्वाहोऽभिमतः । एकादशवृत्तेरप्यभिप्रायसमग्रकाव्यजीवभूतत्वादेतस्या एव नातिप्रसङ्गोऽपि तथा प्रकृतोदाहरणे प्रथमोत्थिताया अब्धिदुहितुरव्याजसर्वाङ्गीणलावण्यमवलोकयिता कृष्णः स्वचक्षुषोः कृतार्थतां गमितवान् । इदानीमधरोष्ठमुद्राभेदेन यदि वर्णमात्रामपि भारतीं निश्चरन्तीमाकर्णयामि तदा श्रोत्रयोः सफलता भवेदिति मन्यते । न चेत्थमेव मुग्धाङ्गनानामालापः प्रवर्तते अपि तु नायकसन्निधौ भयादेवेति प्रथमं पृच्छति—ग्राव्णा नासि गिरेः क्षतेति । अनन्तरं च यदि न वक्ष्यामि तदा धृष्टामाकलयिष्यतीति जानत्या द्वयमुत्तरमौचित्यापन्नं स्यात् शिरःकम्प एकाक्षरं च । तत्राद्यः कालिदासेन प्रयुक्तो ‘मूर्धकम्पमयमुत्तरं ददौ’ इति । द्वितीयं कविना विनिवेशितम्—नेतिः । एवं श्रुतजल्पिताभृतस्तदनुबन्धेन कृतकृत्यमिवात्मानं मन्यमानोऽधिकत्रासहेतुं स्मारयन्पृच्छति—पयसेति । तदिदमुक्तम्—आर्तेति । प्रकारान्तरेणोत्तरदानासंभवात्पुनरप्याह—नेति । तदनन्तरं व्याजरसायाः कियदधिकवचनश्रवणोत्कण्ठितः सर्वं लोकप्रसिद्धं भयहेतुं स्मारयन्पृच्छति—म्लायितेति । अभिमतस्यानिष्टं स्वप्नेऽपि न सज्जत इति दृष्टासीति नोक्तम् । एवं प्रसिद्धमपि वचनपल्लवनेन समस्तमुग्धाङ्गनाप्रसिद्धेन वचनोन्मुद्रणप्रकारेण पृच्छति—त्वदनुगेति । सर्वाकारेणोत्तमतामभिज्ञायमानो दृप्तः स्ववेश्म प्रत्येव गतवान् न तु पृष्टवानिति । तदिदं सर्वमभिप्रेत्य व्याचष्टे—अत्रेति ॥