उक्ता इति । वृत्तकीर्तनं हेतुभावप्रदर्शनार्थम् । एतानेव श्लेषादिनामकानिति । एषामिति निर्धारणे षष्ठी । ‘वाक्यार्थशरीरभूतः श्लेषः प्रथमं लक्ष्यत इति । घटनाश्लेषः’ इति सूत्रयित्वा ‘क्रमकौटिल्यानुल्बणत्वोपपत्तियोगो घटना’ इति वामनेन व्याख्यातम् । अस्यार्थः—इदं कृत्वा इदं कर्तव्यमिति क्रमस्तत्रैव कौटिल्यं लोकातिगामिनी वक्रता । अवक्रयोः शब्दर्थयोः वचनमात्रत्वात् । अतिमात्रतया प्रतिभासाभावोऽनुल्बणत्वम् । कथमेवमर्थः संगच्छत इत्यनुपपत्तिसमाधानौपयिकविशेषनिवेशनमुपपत्तिः । तथा च कमेण कौटिल्येनानुल्बणतया उपपत्त्या योजनमर्थस्य श्लेष इति तत्र संविधानक्रमानुल्बणत्वेन सूत्रशब्देनोपत्ते स्वपदेन कौटिल्यमुक्तमघटमानस्येव वाक्यार्थस्य बुद्धिचातुर्येण घटनेति वाक्यार्थः । दृष्ट्वेति । एका नायिका । अपरा नायिका च तत्सखी प्रच्छन्ननायकप्रेमपात्रं तेनैकासनसंगतिः । प्रियतमे इति तदनुरञ्जनमेव जीवितसर्वस्वमिति मन्यमानस्य युगपत्प्रवृत्तिः । आदरेण निमृतपदन्यासता तथा भूत्वा युगपत्कराभ्यां नयनद्वयपिधानं लोकप्रसिद्धा केलिः । ईषदिति कन्धरामात्रं यथा चलते न तु शरीरमपि । अन्यथा चलनज्ञाने नायिकायाः कषायभावः स्यात् । निभृतरागोन्मुद्रणात् पुलकोद्गमः । अत एव प्रेम्णा स्वगोचरलोकोत्तरत्वाभिमानरूपेण तत्तदनेकभावोर्मिभिरान्दोलनं मनस उल्लासः । साधुवञ्चनं न जानातीत्यभिप्रायिकसपत्नीगतधिक्कारभावनया निभृतहासोन्मेषः । वञ्चनाचातुर्येण स्वमनीषितसंपादनं धूर्तता । तदेतव्द्याचष्टे—अत्रैकासनेति ॥