अनिष्ठुरत्वमिति । सामग्रीसंभवेऽपि चित्तद्रुतिमनासादयन्नीरसः कठोरोऽभिधीयते । अतथाभूतस्तु झटिति तन्मयीभवनयोग्यान्तःकरणः सुकुमारस्तदिदमुक्तमनिष्ठुरत्वमिति । प्राहुरित्यनेन प्रसिद्धिं द्योतयति—सद्य इति । सहगन्तुमुत्सुका कथमेवं सुकुमारप्रकृतिः कान्तारेषु भविष्यसीति वार्यमाणापि हृदयवैमुख्येन पभ्द्यामतित्वरितं गमिष्यामीति स्नेहमूढा त्रिचतुराणि पदानि जवाद्गतवती । अश्रुणः प्रथमावतारो भविष्यदश्रुपरम्पराप्रचारभूतः । सौकुमार्यमाहेति अश्रुपातेनानुभावाश्रुनिमित्तभूता चित्तद्रुतिः करतलामलकवत्प्रकाश्यते ॥