क्रमेणेति । यत्रोपमानेऽधिकविशेषणसंक्षेपस्तद्वाक्यमधिकोपममित्युच्यते तत्र झटिति प्रतिबिम्बभूतोपमेयविशेषणप्रतिसंधानेन दोषः । तदेव तु कथमत उक्तम्—120 विशेषस्त्विति । उपमेयांशे विशेष66विशेषणमुपादाना(?)दुपमानविशेषणात्प्रतीयते । शतह्रदा विद्युत् । उपमानत्वेनाविवक्षितत्वादित्यापाततः । उपमानविशेषणानां यावत्प्रतीति न ग्रहणमिति प्रकाशयितुं पारमार्थिकस्त्वयं सिद्धान्त इत्याह—यदि वेति । उपमानधर्मस्याधिकस्योद्धाटनमभिधानं तस्यानु पश्चान्मानं ज्ञानम् । कथमेतदित्याह—इति67 प्रसिद्धेरिति ॥

  1. ‘विशेषादिति’ इत्यादर्शपाठः
  2. इति मूले पाठः