अविद्वदिति । विपर्ययः प्रत्यनीकभूतं वाक्यम् । आदिग्रहणाद्यमकश्लेषप्रहेलिकाप्रकरणानि । या देवी पवित्रत्वेनाश्रिता । अनीचया तुङ्ग्या बुध्द्या मायायामस्य अविद्याविस्तारस्यायासं ग्लानिं विच्छेदं याचनीया प्रार्थनीया । यतो यातनं नरका-125 नुभवनीयं दुःखं छिनत्ति । श्रियापि स्तुतेति । अष्टदलकमलबन्धोऽयम् । तदिह तथा वरा(?)संनिवेशस्य चमत्कारकारित्वेन प्रसादोऽपि सहृदयश्लाघाविषयो गुणतामध्यास्त इति ॥