असभ्यार्थमिति । क्वचित्प्राथमिक एव पदार्थसंसर्गोऽश्लीलः । क्वचित्तु न तस्मिंस्तथाभूतेऽपि संसर्गान्तरमिति यदश्लीलमर्थान्तरवाचि वेत्युक्तम् । कविभिरविगीतत्वादिति । अविपरीताद्विपरीतं रतमुत्कृष्यत इति शास्त्रकारैराम्नानात्तस्य शृङ्गारोद्दीपनतया कविभिरादृतत्वादित्यर्थः ॥