दोषाः पदानामिति । हेया इत्यनेन सामान्यलक्षणम् । ये हेयास्ते दोषा इत्यभिप्रायात् । अभिमतप्रतीतिव्यवधायकतया विघ्नभूतः शश्वत्काव्ये हेयतामासादयति स एव दोषः । अयमेवार्थः ‘मुख्यार्थहतिर्दोषः-’ इति पदेनान्येषामभिमतः । स च पद-वाक्य-वाक्यार्थविषयतया पूर्वं त्रिविधः । पदपूर्वकत्वाद्वाक्यस्य तत्पूर्वकत्वाद्वाक्यार्थस्य युक्तः क्रमः । वर्णमात्रदोषो नोल्लेखीत्युपेक्षितवान् । अवान्तरविभागे तु क्रियमाणे प्रत्येकं षोडशभिरुपाधिभिः संकुलमित्याह—षोडशेति । काव्यप्रकाशकारादिभिरुक्तानामधिकानामिहान्तर्भावः । अनन्तर्भावे तु दोषत्वमेव नास्तीत्यभिप्रायः, न तु देशीयरागन्यायेन स्वमतप्रकाशनम् । प्रतीतिव्यवधायकानां सर्वदा तद्रूपत्वात् । उक्तमेवाभिसंधानम्—तानेवादाविति ॥

004

विभागमन्तरेण विशेषलक्षणानवतारात्पददोषान्विभजते—