विसंहित इति । विशब्दो विगमं वैपरीत्यं च द्योतयति । तेनार्थद्वयं संपद्यते । ‘परः संनिकर्षः संहिता' । तया तत्कार्यं लक्ष्यते । संधानं संधिः । अर्धमात्राकालव्यवधानं । तथा च—संहिताकार्यशून्यं संधानं यत्रेत्यर्थः । ‘संहितैकपदे नित्या’ इति समयादन्यत्र विकल्पः । ततो नासंधावन्तर्भावः । वैरूप्यं द्विविधम् । दुर्वचकत्वम्, अश्लीलत्वं च । तत्राद्यमुपलक्षणतयोदाहृतम् । द्वितीयं यथा—‘उड्डीय गगने दूरं चलन् डामरचेष्टितः । अयमुत्पतते पत्री ततोऽत्रैव रुचिं कुरु ॥’ ननु यदि संधिकार्य वैकल्पिकं कथमत्र दोष इत्यत आह—न संहितामिति । यदि संहिताप्रतिषेधः स्यात्तदा सकृद्विसंधिकरणेन तथावैरूप्यं भवतीति कवेरपराधो न संभाव्यते, यदि तु प्रतिषेधो नास्ति असकृद्वोपादानं तदा व्यक्तवैरूप्यप्रतिभासात्कथं न दोष इत्यर्थः । न विवक्षामित्युपलक्षणम् । विवक्षायामप्यसकृत्प्रयोगो विरस एव । यथा—‘तत उदित उदारहावहारी’ इति । विशेषं वैशेषिके वक्ष्यामः ॥