व्याकीर्णं तदिति । पदानामक्लेशेऽप्यर्थप्रतीतिहेतुभूताकाङ्क्षावद्विभक्तिव्यवधानादनाकाङ्क्षितविभक्तिसंनिधानाच्च नाहत्यपदानि विशिष्टार्थज्ञानजननसमर्थानि भवन्ति । विलक्षणलक्षणक्लेशपदानि भ्रमकराणीति वदतामाराध्यानामयमेवाभिप्रायो वोद्धव्यः । विभक्तिव्यवधानमात्रकृतस्तु क्लेशः प्रायेण पदैकवाक्यतायामुत्पद्यते । दण्ड इति । आधारविभक्तिराधेयविभक्तिमपेक्षते, न तु चुम्बतीति क्रियाविभक्तिम् । सापि कारकविभक्तिमाकाङ्क्षति । पद्मिन्या इति संवन्धविभक्तिकमेव तत्र बोद्धव्यम् । क्लेशेन योऽत्रावगम्यते तमभिमतमर्थमावेदयति—अत्र कर्कशेति । अत एव नापार्थकत्वेन संकरः समुदायार्थस्य प्रतीयमानत्वात् । अस्ति कश्चिदुच्चारणयोर्विशेषो येन वाक्यार्थप्रतीतिः क्कचिदाहत्य भवति । क्कचित्तु नेति स एव विशेषः । संनिधानं व्यवधानमिति व्याख्यायते । कार्यदर्शनादर्शनाभ्यां चोन्नीयत इत्याशयवानाह—1येथोक्तरूपेणेति(?) ॥

  1. अयं प्रतीको मूले तु नोपलभ्यते, तेन कदाचिदयं प्रतीकपाठः प्रक्षिप्तो भवेत्