यत्रोपमेति । उपमाग्रहणमुपलक्षणमित्यग्रे वक्ष्यामः । उपमा उपमितिः सादृश्यभिन्नोपमानवाचिन उपमेयवाचिनश्च लिङ्गं स्त्रीपुंनपुंसकं यस्य सा तथोक्ता । एवं भिन्नवचनोपममित्यत्रापि व्याख्येयम् ॥ अविगाह्योऽसीति । अविगाह्यतामात्रमत्र सादृश्यं विवक्षितमेतदुपयुक्तमेव विशेषणमुपमानोपमेययोरुपादानयोग्यमित्यकस्मादेव विकृतवचनभेदनिबन्धनः प्रयोजनमाकाङ्क्षति । तथा तदनुसंधानप्रवणस्य प्रकृतप्रतीतिराच्छाद्यत इति दूषणसिद्धिः । एतेन दूषणता व्याख्याता । विभागवाक्ये सहितावस्थयोरुद्देशादिह च मिलितयोरुदाहरणात्तथाभावो दोषत्वमिति भ्रान्तिं निरस्यति—तदिदमिति । एकमुदाहरणं नत्वेकः संमित्र उपाधिः प्रत्येकमेव त्वस्ति समर्थत्वादित्यर्थः । एतदेवानुसंधाय विभागवाक्ये द्वे पदम् ॥

तत्किमुदाहरणस्य संकीर्णत्वमेव नेत्याह—