गुणानामिति । समाध्यादिभङ्गोऽपि तर्हि दोषः स्यादित्यत आह—श्लेषादीनामिति । श्लेषप्रसादसमता सौकुमार्यार्थव्यक्तिमाधुर्यकान्त्युदारतौजसाम् । एतद्योगाद्वाक्यं वक्ररूपतामासाद्य काव्यव्यपदेशं लभते । तेषां गुणानां भङ्गः काव्याभासत्वपर्यवसायी दोषः । ते च श्लेषादयो नवैव । तेषामन्यतमाभावे काव्यस्याभासत्वात् । तेषां हि विपर्यये रीतिरवश्यं भज्यते । तस्या गुणवत्पदरचनारूपत्वात् । अत एव पानकरसन्यायेन संभूयचित्रास्वादपर्यवसानक्षमं गुणसंवलनमेव रीतिरिति लोचनकारः । रीतिः साररूपतया काव्यस्यात्मेत्युच्यते । यथा चित्रस्य लेखा उत्तुङ्गप्रत्यङ्गलावण्योन्मीलनक्षमा, तथा रीतिरिति द्वितीये विस्तरः । तत्त्रिधेति । तदिति काकाक्षिगोलकवत्पूर्वापराभ्यामभिसंबध्यते । यत्र गुणानां विपर्ययस्तदरीतिमत् । तत्त्रिधेत्यर्थः । त्रिधाभूतं भूयस्त्रिधा प्रचक्षते । तेन नवभेदाः । तदेतद्विवृणोति—शब्दार्थेति । योगशब्दः प्रत्येकमन्वीयते । शब्दप्रधानत्वमर्थानपेक्षशब्दनिरूप्यत्वम् । वाक्यगुणस्य श्लेषादित्रयस्य । एवशब्दानपेक्षार्थनिरूपणीयत्वं तादृशस्य कान्त्यादित्रयस्य । एतेनौजःप्रभृतित्रिकस्योभयप्रधानता व्याख्याता । तेनायमर्थः शब्दार्थोभयप्रधानतया सामान्यतस्त्रिधा भूत्वा श्लेषादित्रिकविवक्षया प्रत्येकं त्रिधा भवतीति । तेषु शब्दस्य प्राथम्यात्तत्प्रधानकगुणभङ्गः प्रथमं विवेक्तव्य इत्याह—तत्रेति । अरीतिमतीति निर्धारणे सप्तमी । जात्यभिप्रायमेकवचनम् । विपर्ययेणेति । श्लेषः संधानं घटनमित्यनर्थान्तरम् । न चैतावतैव गुणत्वं वाक्यमात्रसाधारणत्वात् । तेन बहूनामपि पदानामेकताप्रतिभासहेतुत्वमनतिकोमलत्वं च विशेषणमिच्छन्ति । विशेषमर्थगुणकाण्डे वक्ष्यामः । एवंभूतविशेषणविपर्यासे शिथिलो बन्धोऽतिकोमलो विकीर्णप्रायश्चेत्यर्थः । आलीयमित्यादौ दन्त्यवर्णप्रायतयातिकोमलत्वं विकीर्णता च व्यक्तैव । नास्य निरूपणे क्वचिदप्यर्थापेक्षेति स्फुटयन्नाह—अत्र भिन्नानामिति । श्लेषस्य शब्दप्रधानतया तद्विपर्ययोऽपि शब्दप्रधानो भवतीत्याह—शब्दप्रधानोऽयमिति । अन्यतरविशेषणहानावपि श्लेषाभावो भवत्येव । तेन पूर्वार्धस्य लेशत ऐक्यप्रतिभानसंभवेऽप्यतिकोमलतया दुष्टत्वम् ॥