अत्राहिषातां दृष्ट्वेत्येताभ्यामेव ताविति, रघुव्याघ्रावित्यनेनैव रामलक्ष्मणाविति, तनुमित्यनेनैव खामिति, अहौषीदित्यनेनैव वह्नाविति, गम्यत इति गतार्थत्वम् । न च शरभङ्गाश्रमगमनं तनुहोमो वाग्रतः कथाशरीरोपयोगीति निष्प्रयोजकत्वम् । अतोऽयं व्यर्थनामा वाक्यस्य 037 महावाक्यस्य च दोषो भवति । आर्थ्या च वृत्त्या लब्धस्य शास्त्रेतिहासादौ शब्दवृत्त्या भणनमपौनरुत्तयायेत्यर्थपुनरुक्तेर्भिद्यते ॥