पादपूरणेति । द्योतनीयमर्थमन्तरेण प्रयुक्तमव्ययमनर्थकमभिमतम्, अत एव प्राच्यैश्चादिपदमव्ययमिति प्रयोगबीजकथनार्थं नहि निर्मूलः प्रयोगः संभवति वृत्तिनिर्वहणसमर्थः । प्रायेणाव्ययपदानि क्षिप्त्वा तत्पूरयति । तदुक्तम्—‘कुकवि-007 प्रबन्ध इव श्लिष्टपदप्रचारः । प्रकटतुहिनचयो जनाकीर्णश्च’ इति । बिभर्तीति । चः समुच्चयादिषु चतुर्षु प्रसिद्धप्रयोगो न च तेषामन्यतमोऽप्यत्र संभवति । नाप्युच्चावचार्थकः इति भाषणेनार्थान्तरमपि । एवं हिप्रभृतिष्ववसेयम् । एतेनैतदप्यपास्तम् । यदाहुरेके—पदादिविशेषानुपादानात्पदैकदेशोऽप्यनर्थकोऽभिमतः । तथा च—‘आदावञ्जनपुञ्जलिप्तवपुषां श्वासानिलोल्लासितप्रोत्सर्पद्विरहानलेन च ततः संतापितानां दृशाम् । संप्रत्येव निषेकमश्रुपयसा देवस्य चेतोभुवो भल्लीनामिव पानकर्म कुरुते कामं कुरङ्गेक्षणा ॥’ इत्यत्र दृशामिति बहुवचनमनर्थंकं कुरङ्गेक्षणाया एकस्या एवोपादानात् । न चात्र व्यापारे दृक्शब्दो वर्तते, अञ्जनपुञ्जलेपादीनामनन्वयापत्तेः । तथा ‘कुरुते’ इत्यात्मनेपदमनर्थकमकर्त्रभिप्रायक्रियाफलादिति । अपि च । बहुत्वकर्त्र भिप्रायफलाभावे कथनं द्वयोरसाधुत्वमिति राजमार्ग एव भ्रमः । नहि स्वरूपत एव किंचिदसाधु साधु वा संभवति ॥