एद्दहमेत्तेति । अत्र सर्वपदानामर्थान्तरसाधारणतया न तावदभिमतपरिमाणविशेषप्रतीतिरुपजायते, यावदुच्चारणसहकारिभूतप्रसारितकरद्वयकोषप्रसृतिभिदङ्गुलिप्रसारिताङ्गुलीगणनारूपाभिनयप्रतिसंधानं न भवति । तेनाभिनयपठितिरियम्, साक्षादिव वस्तुस्वरूपबोधिका क्रियाभिमुख्यनयनादभिनय इत्युच्यते । तदिदमाह—तथाभूतेत्यादि । अपदेशोऽपीति । आत्मनिर्देशिका क्रियापदेशः । अस्याभिनयविशेषत्वेऽपि कान्तिकरतया पृथगुपादानम् । यावच्च स्वरूपसमुच्चारणविशेषणं नानुसंधीयते न तावच्छ्रीप्राप्तिक्षमयोः कारणविशेषः प्रतीयत इति ॥