एकपादयमकमिति । नैरन्तर्येणावृत्तावव्यपेतत्वम् । सान्तरत्वे त्वादिमध्यादिभावप्रसङ्ग इति शुद्धं न भवति तत्किमनुदाहरणीयमेवैतदित आह—तस्येति । आवृत्तिरेकत्रैव संभवतीत्येकपादगोचरता । सा तु प्रतियोगितया द्वितीयमपेक्षत इति पादान्तरस्वीकार इति कथंचित्प्रकृतिगणनासमाधानमेतत् । मधुश्चैत्रः । अनेन पूर्वावयवेन वसन्तो लक्ष्यते । एणदृशां हरिणलोचनानाम् । मधुरेण मधुरास्वादेन । सहकारोद्गमेनैवेत्येवकारेणासतामतीव तावद्विख्यातप्रभावातिशयाः पिकपञ्चमादयः । सहकारप्रथमोद्भेदमात्रेणैव तु मानिनीमानग्रहवार्ता निरवशेषितेत्युद्दीपनताप्रकर्षो ध्वन्यते ॥