[130बलभद्रं प्रति कृष्णवाक्यं समुद्रतीरभूवर्णनपरम् । विविधानि धवानां तरुभेदानां वनानि यस्यां सा । नागेषु सर्पेषु गर्धेनाभिलाषेण बुभुक्षया ऋद्धैः सभृद्धैर्नानाविधैर्विभिः पक्षिभिर्विततं व्याप्तं गगनं यस्यां सा । अनामेन अनमनेन मज्जन्तो जना यस्यां सा । बहूदकेत्यर्थः । यद्वा अस्य विष्णोर्नाम निमज्जन्तः । तत्परा इति यावत् । तादृशा जना यस्यां सा । अविद्यमाना नरोऽर्वाचीना मनुष्या यस्यां सा । समासान्तविधेरनित्यत्वात् ‘नद्यृतश्च’ इति न कप् । यद्वा । अविद्यमान ओ विष्णुर्यस्यां सा । यद्वा । अनामनि विष्णुनामनि मज्जभ्द्यस्तत्परेभ्यो जातं नानं यस्यां सा । नं ज्ञानम् । तत्त्वज्ञानमिति यावत् । न नं अनं न अनं नानम् । रुरूणां 211 शशानां च ललनं क्रीडनं यत्र सा । नौ आवयोरबन्धुं वैरिणं धुनाना नाशयन्ती हि निश्चितं मम हितं तनोति सा । अविद्यमानमाननं मुखं यस्य सः । मुखं विनैव जायमान इत्यर्थः । ईदृशो यः स्वस्वनः शब्दस्तत्र अनाः प्राणा यस्यां सा । उदकशब्दवतीत्यर्थः ॥]

  1. एतत्कोष्टकान्तर्गतपाठः काशीमुद्रितपुस्तके प्रकाशकप्रमादान्मूले पतित उपलभ्यते