तत्त्वेऽपीति । द्रुतादौ वृत्तिमात्रं भिद्यते, न तु रूपमिति महाभाष्यकारोक्तदिशा येषामेकस्थानत्वेऽपीषत्स्पृष्टतरत्वादिकृता भेदप्रथा ते डकारादयः । कतिपयेऽस्य विषयास्तानुद्दिश्य क्रमेणोदाहरति—क्रोड इत्यादि । अङ्कगतस्य बालकस्य वक्षसा पीडनं संक्रान्तकमालिङ्गनमामनन्ति । अनेन किल प्रच्छन्नप्रियगोचरो गाढालिङ्गनमनोरथः प्रकटितो भवति । कर्णयोरुपांशु यदभिधीयते तेन तुल्यमिदमिति विदग्धसहचरीपरिहासोक्तिरियम् । अत्र च क्रोडडिम्भेत्यादौ डकारवकारयकाराणामीषत्स्पृष्टतरत्वादिभेदः श्रुतिसाजात्यं च सुप्रसिद्धमेवेति ॥