एकवर्णावृत्तेरिति । वर्ग्यावृत्तौ हि कदाचिदेकवर्णावृत्तिरपि संदर्भव्यापिनी संभाव्यते । तस्यां प्रतीयमानायामेवान्तरान्तरा नानाजातीये वर्णावृत्तिश्चित्रशोभादायिनी विचित्रानुप्रास इत्युच्यते । तथा हि । प्रकृतोदाहरणे संदर्भसमाप्तिं यावदावर्तमाने एव चकारे काञ्चन काञ्चेति लयवलदित्यादिषु ककारलकाराद्यनुप्रासोद्भटभावेनव वर्णावृत्तेर्न्यग्भाव इव प्रकाशते । चारी संचरणप्रकारः । सा भौमी आकाशी च । चञ्चुरो मनोहरः । चञ्चरीको भ्रमरः ॥