आभीक्ष्ण्येनेति । ‘नित्यवीप्सयोः८।१।४’ इत्यनेन नित्यत्वमाभीक्ष्ण्यमुक्तम् । यां किल क्रियां कर्ता प्राधान्येनानुपरत्या च कर्तुमिच्छति तद्रूपमाभीक्ष्ण्यम् । अत एव तिङव्ययकृतां च द्विरुक्तिरियमसाधारणी । उभयत्रैव क्रियाप्राधान्यप्रतीतेः । 256 सिद्धे हि वस्तुनि पौनःपुन्यप्रतीतिः क्रियोपाधिते एव न स्वरूपेण । ननु णमुलैवाभीक्ष्ण्याभिधानात्किं द्विरुक्तिः करिष्यत इत्यत आह—सोऽयमिति । न चाभीक्ष्ण्यं णमुलो वाच्यम् । क्त्वार्थे तस्याभिधानात् । द्विरुक्तिसहितस्यैव तस्यानुपरतिव्यञ्जकत्वात् । स्वरूपार्थाभ्यामन्तरतमशब्दद्वयरूप आदेशो वा द्विरुच्चारणं वा द्विरुक्तिशब्दार्थः ॥