क्रमप्राप्तं चित्रलक्षणमवतारयति—वर्णेति । चित्रमालेख्यं तदिव जीवितस्थानीयध्वनिरहितं चित्रमिति काश्मीरकाः । तदसत् । ध्वनेः प्राधान्यानङ्गीकारात्प्रतीयमानमात्राभावस्य क्वचिदप्यसंभवात् । यद्वा आकृतिविशेषयुक्तं चित्रमिति तदपि न । अव्यापकत्वात् । अतो वर्णादिनियमेन प्रवृत्तमाश्चर्यकारितया चित्रमित्येव युक्तम् । वर्णा व्यञ्जनानि । स्थानं कण्ठादि । स्वरा अकारादयः । आकारः पद्माद्याकृत्युन्मुद्रणम् । गतिः पठितिभङ्गविशेषः । बन्धो विविडितिप्रभृतिः ॥