ननु यावदुदाहृतमेव किं गत्यादि चित्रं, तथा सति किं गोमूत्रिकादीनां पृथग्भागविभागव्याघातः स्यादित्यत आह—उदाहरणमात्रं चैतदिति । गतिः पठितिसंचारो वर्णानामुच्चावचं वोर्घ्वाधःपर्यायेण प्रवृत्ता । मायां संसारबन्धमपास्य दुःखभयात्पायादिति संबन्धः ॥ न्यासो यथा—अयुग्मतः प्रथमात्तृतीया-285 च्चोपक्रम्य द्वितीयचतुर्थपादसंदंशेन गोमूत्रिकया प्रथमद्वितीययोस्तृतीयचतुर्थयोश्च परस्परमुन्मेषणमितीयमयुक्पादगोमूत्रिका ॥