Adhikāra 4

82
ग्रहणीमाश्रितं दोषमजीर्णवदुपाचरेत् ॥
अतीसारोक्तविधिना तस्याऽऽमं च विपाचयेत् ॥ १ ॥
कपित्थबिल्वचाङ्गेरीतक्रदाडिमसाधिता ॥
यवागूः पाचयत्यामं शकृत्संवर्तयत्यपि ॥ २ ॥
लघुना पञ्चमूलेन पञ्चकोलेन पाठया ॥
अन्नानि कल्पयेद्विद्वान्बिल्ववृक्षाम्लदाडिमैः ॥ ३ ॥
ग्रहणीदोषिणां तक्रं दीपनं ग्राहि लाघवात् ॥
पथ्यं मधुरपाकित्वान्न च पित्तप्रकोपणम् ॥ ४ ॥
कषायोष्णविकाषित्वाद्रूक्षत्वाच्च कफे हितम् ॥
वाते स्वाद्वम्लसान्द्रत्वात्सद्यस्कमविदाहि तत् ॥ ५ ॥
83
शुठीं समुस्तां सविषां गुडूचीं पिबेज्जलेन क्वथितां समांशाम् ॥
मन्दानलत्वे सततामतायामामेऽनुबन्धे ग्रहणीगदे च ॥ ६ ॥
धान्यकातिविषोदीच्ययवानीमुस्तनागरम् ॥
बलाद्विपर्णीबिल्वं च दद्याद्दीपनपाचनम् ॥ ७ ॥
चित्रकं पिप्पलीमूलं द्वौ क्षारौ लवणानि च ॥
व्योषं हिङ्ग्वजमोदां च चव्यं चैकत्र चूर्णयेत् ॥ ८ ॥
गुटिका मातुलुङ्गस्य दाडिमस्य रसेन वा ॥
कृता विपाचयत्यामं दीपयत्याशु चानलम् ॥ ९ ॥
84
श्रीफलशलाटुकल्को नागरचूर्णेन मिश्रितः सगुडः ॥
ग्रहणीगदमत्युग्रं तक्रभुजा शीलितो जयति ॥ १० ॥
जम्बूदाडिमशृङ्गाटपाठाकंचटपल्लवैः ॥
पक्वं पर्युषितं बालबिल्वं सगुडनागरम् ॥
हन्ति सर्वानतीसारान्ग्रहणीमतिदुस्तराम् ॥ ११ ॥
नागरातिविषामुस्ताक्वाथः स्यादामपाचनः ॥
चूर्णं हिङ्ग्वष्टकं वाऽपि वातिकेऽष्टपलं घृतम् ॥ १२ ॥
नागरातिविषामुस्तं धातकी सरसाञ्जनम् ॥
वत्सकत्वक्फलं बिल्वं पाठां कटुकरोहिणीम् ॥ १३ ॥
पिबेत्समांशं तच्चूर्णं सक्षौद्रं तण्डुलाम्बुना ॥
पैत्तिके ग्रहणीदोषे रक्तं यच्चोपवेश्यते ॥ १४ ॥
अर्शांस्यथ गुदे शूलं जयेच्चैव प्रवाहिकाम् ॥
नागराद्यमिदं चूर्णं कृष्णात्रेयेण पूजितम् ॥ १५ ॥
जलमष्टगुणं दत्त्वा पलं कण्डिततण्डुलात् ॥
भावयित्वा ततो देयं तण्डुलोदककर्मणि ॥ १६ ॥
85
भूनिम्बकटुकाव्योषमुस्तकेन्द्रयवान्समान् ॥
द्वौ चित्रकाद्वत्सकत्वग्भागान्षोडश चूर्णयेत् ॥ १७ ॥
गुडशीताम्बुना पीतं ग्रहणीदोषगुल्मनुत् ॥
कामलाज्वरपाण्डुत्वमेहारुच्यतिसारजित् ॥ १८ ॥
ग्रहण्यां श्लेष्मदुष्टायां वमितस्य यथाविधि ॥
कट्वम्ललवणक्षारैस्तिक्तैश्चाग्निं विवर्धयेत् ॥ १९ ॥
सर्वजायां ग्रहण्यां तु सामान्यो विधिरिष्यते ॥ २० ॥
मसूरस्य कषायेण बिल्वगर्भं पचेद्धृतम् ॥
हन्ति कुक्ष्यामयान्सर्वान्ग्रहणीपाण्डुकामलाः ॥
व्रीहिप्राण्यङ्गयोः क्वाथं व्युषितं दोषलं विदुः ॥ २१ ॥
मसूरस्य तुलाक्वाथे बिल्वगर्भं पचेद्घृतम् ॥
भिन्नविट्के प्रशंसन्ति मसूरघृतमुत्तमम् ॥ २२ ॥
त्र्यूषणत्रिफलाकल्के बिल्वमात्रे गुडात्पले ॥
सर्पिरष्टपलं पक्त्वा मात्रां मन्दानलः पिबेत् ॥ २३ ॥
86
बिल्वाग्निचव्यार्द्रकशृङ्गवेरक्वाथेन कल्केन च सिद्धमाज्यम् ॥
सच्छागदुग्धं ग्रहणीगुदोत्थे शोथाग्निसादारुचिनुद्वरिष्ठम् ॥ २४ ॥
मोचसिन्धूत्पलव्योषलज्जाबिल्वाम्बुधातकि ॥ २५ ॥
सिद्धमाज्यमजाक्षीरे चाङ्गेरीरसवच्छिशोः ॥
हन्याद्ग्रहण्यतीसारौ पथ्यापथ्याशिनो द्रुतम् ॥ २६ ॥
पाठान्तरे कपित्थोऽपि विशत्यत्र घृते पुनः ॥
नागरं पिप्पलीमूलं चित्रको हस्तिपिप्पली ॥ २७ ॥
श्वदंष्ट्रा पिप्पली धान्यं बिल्वं पाठा यवानिका ॥
चाङ्गेरीस्वरसे सर्पिः कल्कैरेभिर्विपाचितम् ॥ २८ ॥
87
चतुर्गुणेन दध्ना च तद्घृतं कफवातनुत् ॥
अर्शांसि ग्रहणीदोषं मूत्रकृच्छ्रं प्रवाहिकाम् ॥
गुदभ्रंशार्तिमानाहं घृतमेतद्व्यपोहति ॥ २९ ॥
88
मरीचं पिप्पलीमूलं नागरं पिप्पली तथा ॥ ३० ॥
भल्लातकं यवानी च विडङ्गं हस्तिपिप्पली ॥
हिङ्गु सौवर्चलं चैव बिडसैन्धवचव्यकम् ॥ ३१ ॥
सामुद्रं सयवक्षारं चित्रको वचया सह ॥
एतैरर्धपलैर्भागैर्घृतप्रस्थं विपाचयेत् ॥ ३२ ॥
दशमूलीरसे सिद्धं पयसा द्विगुणेन च ॥
मन्दाग्नीनां घृतं श्रेष्ठं ग्रहणीदोषनाशनम् ॥ ३३ ॥
विष्टम्भमामदौर्बल्यप्लीहानमपकर्षति ॥
कासं श्वासं क्षयं चापि दुर्नाम सभगंदरम् ॥ ३४ ॥
कफजान्हन्ति रोगांश्च वातजान्कृमिसंभवान् ॥
तान्सर्वान्नाशयत्याशु शुष्कं दार्वनलो यथा ॥ ३५ ॥
विश्वौषधस्य गर्भेण दशमूलजले शृतम् ॥
घृतं निहन्याच्छ्वयथुं ग्रहणीमामतामयम् ॥ ३६ ॥
89
घृतं नागरकल्केन सिद्धं वातानुलोमनम् ॥
ग्रहणीपाण्डुरोगघ्नं प्लीहकासज्वरापहम् ॥ ३७ ॥
प्रस्थत्रयेणाऽऽमलकीरसस्य शुद्धस्य दत्त्वाऽर्धतुलां गुडस्य ॥
चूर्णीकृतैर्ग्रन्थिकजीरचव्यव्योषेभकृष्णाहपुषाजमोदैः ॥ ३८ ॥
विडङ्गसिन्धुत्रिफलायवानीपाठाग्निधान्यैश्च पलप्रमाणैः ॥
दत्त्वा त्रिवृच्चूर्णपलानि चाष्टावष्टौ च तैलस्य पचेद्यथावत् ॥ ३९ ॥
तं भक्षयेदक्षफलप्रमाणं यथेष्टचेष्टं त्रिसुगन्धियुक्तम् ॥
अनेन सर्वे ग्रहणीविकाराः सश्वासकासस्वरभेदशोफाः ॥ ४० ॥
शाम्यन्ति चायं चिरमन्तरग्नेर्हतस्य पुंस्त्वस्य च वृद्धिहेतुः ॥
स्त्रीणां च वन्ध्यामयमाशु हन्यात्कल्याणको नाम गुडः प्रसिद्धः ॥ ४१ ॥
तैले त्रिवृन्मनाग्भृष्ट्वा त्रिसुगन्धि पलं पलम् ॥
सिद्धे निधेयमत्रैव गुडे कल्याणपूर्वके ॥ ४२ ॥
90
लिङ्गैरसाध्यो ग्रहणीविकारो यैस्तैरतीसारगदो न सिध्येत् ॥
वृद्धस्य नूनं ग्रहणीविकारो हत्वा तनुं नो न निवर्तते च ॥ ४३ ॥