Adhikāra 38

हरीतकीनागरदेवदारुपुनर्नवाछिन्नरुहाकषायः ॥
सगुग्गुलुर्मूत्रयुतश्च पेयः शोथोदराणां प्रवरः प्रयोगः ॥ १ ॥
एरण्डतैलं दशमूलमिश्रं गोमूत्रयुक्तस्त्रिफलारसो वा ॥
निहन्ति वातोदरशोथशूलं क्वाथः समूत्रो दशमूलजश्च ॥ २ ॥
पुनर्नवानिम्बपटोलशुण्ठीतिक्तामृतादार्व्यभयाकषायः ॥
सर्वाङ्गशोफोदरकासशूलश्वासान्वितं पाण्डुगदं निहन्ति ॥ ३ ॥
पुनर्नवां दार्वभयां गुडूचीं पिबेत्समूत्रां महिषाक्षयुक्ताम् ॥
त्वग्दोषशोफोदरपाण्डुरोगस्थौल्यप्रसेकोर्ध्वकफामयेषु ॥ ४ ॥
315
गोमूत्रयुक्तं महिषीपयो वा क्षीरं गवां वा त्रिफलाविमिश्रम् ॥
क्षीरान्नभुक्केवलमेव गव्यमूत्रं पिबेद्वा श्वयथूदरेषु ॥ ५ ॥
पुराणं माणकं पिष्ट्वा द्विगुणीकृततण्डुलम् ॥
साधितं क्षीरतोयाभ्यामभ्यसेत्पायसं तु तत् ॥ ६ ॥
हन्ति वातोदरं शोथं ग्रहणीं पाण्डुतामपि ॥
सिद्धो भिषग्भिराख्यातः प्रयोगोऽयं निरत्ययः ॥ ७ ॥
पुनर्नवादार्व्यमृता पाठा बिल्वं श्वदंष्ट्रिका ॥
बृहत्यौ द्वे रजन्यौ द्वे पिप्पल्यश्चित्रकं वृषम् ॥ ८ ॥
समभागानि संचूर्ण्य गवां मूत्रेण ना पिबेत् ॥
बहुप्रकारं शोथं च सर्वगात्रविसारिणम् ॥
हन्ति शोथोदराण्यष्टौ व्रणांश्चैवोद्धतानपि ॥ ९ ॥