अथासौ ब्रह्मणः पुत्रं व्यासः प्राह कृताञ्जलिः |
किमर्थं कौशिकी विन्ध्यं देव्या सम्प्रेषिता तदा || १ ||
एवमुक्तस्तदा धीमान्व्यासेन ब्रह्मणः सुतः |
यथावृत्तं पुरा सर्वमाख्यातुमुपचक्रमे || २ ||
आरिराधयिषुर्देवीं विन्ध्यस्तेपे पुरा तपः |
ततस्तुष्टाब्रवीद्विन्ध्यं पार्वती वरदास्मि ते || ३ ||
मयि वासो ऽस्तु ते नित्यमेवमादित्यरोधनः |
वव्रे गिरीन्द्रतनयां प्राह सा च तथास्त्विति || ४ ||
स्वतनुं सा द्विधाभूतामग्नेर्दीप्तां शिखामिव |
दाहाय दानवेन्द्राणां प्राहिणोत्कौशिकीमतः || ५ ||
अथ तं ब्रह्मणः सूनुमुवाच मुनिसत्तमः |
गिरिर्विन्ध्यो महाप्रज्ञ कथमादित्यरोधनः || ६ ||
सनत्कुमारः प्रोवाच पृष्टो व्यासेन धीमता |
शृणु यस्मादभूद्विन्ध्यो गिरिरादित्यरोधनः || ७ ||
पुरा विन्ध्यो ऽब्रवीत्सूर्यं कस्मात्त्वं न करोषि माम् |
प्रदक्षिणं यथा मेरुं का ते ऽवज्ञा मयि प्रभो || ८ ||
प्रत्याख्यातः स सूर्येण विन्ध्यो गिरिरवर्धत |
रुद्ध्वा तस्य स्थितो मार्गं तस्मादादित्यरोधनः || ९ ||
नष्टालोके ततो लोके देवाः संविग्नचेतसः |
अगस्त्यमुपसंगम्य वाक्यमूचुः समाहिताः || १० ||
सवितुर्मार्गमावृत्य गिरिर्विन्ध्यो व्यवस्थितः |
तं वारय महाप्राज्ञ गतिर्नः सर्वदा भवान् || ११ ||
तमगस्त्यो गिरिं गत्वा प्रोवाचेत्थं महातपाः |
यास्यामि दक्षिणामाशां पन्थानं देहि पर्वत || १२ ||
यावत्प्रतिनिवर्तेयं तावच्च स्थातुमर्हसि |
ततः प्रभृति चैवेह नाभूदागमनं मुनेः || १३ ||
अथ पप्रच्छ तं व्यासः पितामहसुतं प्रभुम् |
कौशिकी प्रहिता विन्ध्यं दानवानां विनाशने || १४ ||
के ते कस्य किमर्थं वा कौशिक्या दानवा हताः |
एतत्सर्वं समासेन प्रश्नं मे वक्तुमर्हसि || १५ ||
पितामहसुतो धीमान्व्यासेनैवं प्रचोदितः |
प्रश्नमेतं समासेन व्याख्यातुमुपचक्रमे || १६ ||
देवासुरे पुरातीते संयुगे परमाद्भुते |
सुन्दो निसुन्दश्च सुतौ निसुम्भस्य बभूवतुः || १७ ||
देवान्प्रति सुसंक्रुद्धौ गर्जन्तौ गोवृषाविव || १८ ||
सिंहाविव महासत्त्वौ हृतदंष्ट्रानखायुधौ |
श्वसन्तौ सविषावुग्रौ भग्नदंष्ट्राविवोरगौ || १९ ||
अशक्तौ तौ सुरैर्योद्धुं हतपक्षौ महासुरौ |
सुपर्णाविव संक्रुद्धौ छिन्नपक्षौ महाबलौ || २० ||
तपस्याधाय तौ चेतो गोकर्णं प्रति जग्मतुः |
आरिराधयिषू देवं ब्रह्माणममितौजसौ || २१ ||
अथोवाच ततो व्यासो गोकर्णं कथयस्व मे |
कस्मिन्देशे किमर्थं वा केन वोत्पादितं पुरा || २२ ||
प्रोवाच ब्रह्मणः सूनुर्व्यासेनैवं प्रचोदितः |
शृणु वत्स समासेन पुण्यं गोकर्णसम्भवम् || २३ ||
हते त्रिशिरसि त्वष्टा पुत्रे ज्यायसि वज्रिणा |
वृत्रं नाम पुनः पुत्रमसृजत्तपसां निधिः || २४ ||
प्रलम्बबाहुं वृत्तास्यं पीनविस्तीर्णवक्षसम् |
सुश्लिष्टजानुं सुहनुं जलदध्वाननिस्वनम् || २५ ||
सुक्षिप्तपार्श्वं सुकटिं दीर्घरक्तान्तलोचनम् |
समरे सर्वदेवानां जेतारमपराजितम् || २६ ||
स निर्जित्यामरान्सर्वाञ्जग्रासेन्द्रं महाद्युतिः |
ततो महर्षिभिः सृष्टा जृम्भिका तं समाविशत् || २७ ||
तस्याथ जृम्भमाणस्य निर्जगाम शतक्रतुः |
वदनादाशु संक्षिप्य स्वां तनुं योगमायया || २८ ||
तस्य योगबलं दृष्ट्वा वीर्यं शौर्यं च संयुगे |
ततो भीताः सुराः सर्वे ब्रह्माणं शरणं ययुः || २९ ||
तान्दृष्ट्वा स तदा भीतानमरानमरद्विषः |
प्रोवाचासौ प्रजेशानः पद्मयोनिः पितामहः || ३० ||
पराजितान्वो जानामि वृत्रेण रणमूर्धनि |
उपायं तं न पश्यामि येनासौ जीयते युधि || ३१ ||
यास्याम सहिताः सर्वे देवं द्रष्टुमुमापतिम् |
विश्वेश्वरं विधातारं वरदं भक्तवत्सलम् || ३२ ||
स नः प्रणामैर्भक्त्या च स्तुत्या चाराधितः प्रभुः |
महादेवो महायोगी शम्भुः शान्तिं विधास्यति || ३३ ||
अथोत्तस्थुः सुराः सर्वे देवदेवं दिदृक्षवः |
अपश्यन्तो विचेरुश्च महीं सोदधिपर्वताम् || ३४ ||
अथ विष्णुर्महायोगी देवीं हिमवतः सुताम् |
अपश्यत्पांसुदिग्धाङ्गीमासीनां बालरूपिणीम् || ३५ ||
लेखामिव नवामिन्दोः प्रातःसूर्यप्रभामिव |
हविषा हूयमानस्य तन्वीमग्नेः शिखामिव || ३६ ||
विज्ञाय स तदा योगान्महायोगां सुरेश्वरीम् |
ईश्वरो जगतो विष्णुर्जिष्णुस्तुष्टाव पार्वतीम् || ३७ ||
त्वं स्रष्ट्री सर्वभूतानां संहर्त्री त्वं सुरेश्वरि |
त्वमस्य जगतो धात्री नित्या प्रकृतिरव्यया || ३८ ||
त्वं प्रभा शर्वरी ज्योत्स्ना कीर्तिस्तुष्टिरुमा धृतिः |
बुद्धिर्मेधा स्मृतिः प्रज्ञा सन्ध्या कान्तिः स्तुतिर्मतिः || ३९ ||
त्वमीशा देवि देवानां गणमाता गणाम्बिका |
भद्रकाली महागौरी कौशिकी विन्ध्यवासिनी || ४० ||
दुर्गा ख्यातिर्महाविद्या गायत्री त्वं सरस्वती |
स्वाहा स्वधा महामाया लक्ष्मी योगेश्वरेश्वरी || ४१ ||
उल्का सती गिरेः पुत्री मैनेयी ब्रह्मचारिणी |
तापसी रेवती षष्ठी वरा वरसहस्रदा || ४२ ||
कुन्दकार्मुकसारङ्गकोकिलाशोकपल्लवैः |
तुल्यासि दन्तभ्रूनेत्रस्वरपाणिभिरीश्वरि || ४३ ||
प्रमत्तोत्फुल्लसंपूर्णान्नागोत्पलनिशाकरान् |
विशिनक्षि सदा देवि गतिलोचनकान्तिभिः || ४४ ||
शिरोभिर्माहिषैर्भ्रान्तरक्तपर्यन्तलोचनैः |
नृभिः क्षितितलन्यस्तकरजानुभिरीज्यसे || ४५ ||
मत्तान्यपुष्टाकलवल्गुभाषिता द्विरेफमालासितचारुमूर्धजा |
प्रफुल्लपुष्पस्तवकोद्गतस्तनी विराजसे कल्पलतेव पुष्पिता || ४६ ||
देवि देवीभिरनिशं भक्ताभिर्वन्द्यसे दिवि |
ईज्यसे मुनिभिः शश्वद्गिरिजे गिरिमूर्धसु || ४७ ||
अर्च्यसे सिद्धगन्धर्वैर्गन्धपुष्पोत्करैः सदा |
सदागतिपथप्राप्ता प्राप्त्या च स्तूयसे ऽनघे || ४८ ||
भासि सिंहं समारूढा चलत्पिङ्गलकेसरम् |
दीप्ता प्रभेव सावित्री मेरोर्मूर्धानमास्थिता || ४९ ||
जिघांसती रणे दैत्याञ्छरौघैर्भास्यजिह्मगैः |
रवेर्मूर्तिस्तमांसीव विकिरन्ती गभस्तिभिः || ५० ||
परशुं शितमुद्गृह्य देवदानवसंयुगे |
भ्राजसे देवि संक्रुद्धा पाटयन्तीव रोदसी || ५१ ||
अथ सा शैशवं हित्वा तनुमन्यां समाददे |
एकीकृतामिवाकाशे संहतिं सर्वतेजसाम् || ५२ ||
दीप्तामपि सुखालोकां शान्तामपि सविभ्रमाम् |
बालामपि जगद्धात्रीं तन्वीमपि सुसंहताम् || ५३ ||
उवाचेदं च सुप्रीता वरदास्मि तव प्रभो |
एवमुक्तस्तया सो ऽथ प्रोवाचाम्भोदनिस्वनः || ५४ ||
शरण्ये देवि भक्तानां शरणागतवत्सले |
भवानि भव मे नित्यं सुप्रसन्ना महेश्वरि || ५५ ||
कथयस्व च देवेशं शाश्वतं स्थाणुमव्ययम् |
विश्वात्मानं महादेवं सर्वयोगेश्वरेश्वरम् || ५६ ||
तथास्त्विति प्रतिज्ञाय कथयामास शंकरम् |
मृगयूथस्य मध्यस्थं क्रीडन्तं मृगरूपिणम् || ५७ ||
एकशृङ्गं महाग्रीवमेकाक्षममितौजसम् |
एकपादं सुसंश्लिष्टमापाण्डुकपिलोदरम् || ५८ ||
अथ विष्णुर्द्रुतं गत्वा शृङ्गे जग्राह तं प्रभुम् |
तस्मिन्नेव ततो ब्रह्मा जग्राहेन्द्रश्च वीर्यवान् || ५९ ||
त्रिधा तदभवच्छृङ्गं चलिते दीप्ततेजसि |
त्रयाणां सुरमुख्यानां पृथक्पाणिषु संस्थितम् || ६० ||
अथादृश्यस्तदा शर्वस्तानुवाच सुरोत्तमान् |
यदर्थमागता यूयं तद्ब्रूत सुरसत्तमाः || ६१ ||
अथोवाच ततो ब्रह्मा परमेशं वृषध्वजम् |
राज्यं पुनरवाप्नोतु हत्वा वृत्रं पुरंदरः || ६२ ||
ततस्तानमरांस्तत्र वृषकेतुः समागतान् |
स्वरेण वारिदध्वानगम्भीरेणाब्रवीत्तदा || ६३ ||
वैष्णवं परमं तेजः फेनमावेक्ष्यते सुराः |
शिरश्छेत्स्यति वृत्रस्य तदादाय शतक्रतुः || ६४ ||
हृषीकेशो ऽथ तत्खण्डमनयत्स्वं निकेतनम् |
न्यवेशयत तत्रैव वारिजोदरसंभवः || ६५ ||
नीयमानं तृतीयं च खण्डमाखण्डलेन तु |
रक्षसामधिपः श्रीमाञ्जग्राहाथ दशाननः || ६६ ||
चकार सन्ध्यामुदधौ दक्षिणे न्यस्य तत्तदा |
न विचालयितुं शक्तः सन्ध्यामास्थाय रावणः || ६७ ||
तत्पुण्यं देवदेवस्य व्यास क्षेत्रं महाद्युतेः |
गोकर्णमिति नामास्य चकार कमलासनः || ६८ ||
तत्र गत्वा नरो भक्त्या प्रणिपत्य महेश्वरम् |
अश्वमेधमवाप्नोति सर्वपापैः प्रमुच्यते || ६९ ||
गोकर्णमुत्तरं व्यास स्थापितं पद्मयोनिना |
उदन्वतः स्थितं तीरे स्वयमेव तु दक्षिणे || ७० ||
यः शृणोति नरो नित्यं पुण्यं गोकर्णसम्भवम् |
सर्वपापविधूतात्मा स याति परमां गतिम् || ७१ ||
अथ तौ दानवौ व्यास गोकर्णमभिजग्मतुः |
तत्र चेरतुरत्युग्रं तपो ऽम्बुपवनाशनौ || ७२ ||
कस्यचित्त्वथ कालस्य विदित्वोग्रं तयोस्तपः |
आजगाम तयोः पार्श्वं ब्रह्मा सुरनमस्कृतः || ७३ ||
अथ तौ विश्वधातारं चतुर्वक्त्रं पितामहम् |
अपश्यतां महाबाहू ब्रह्माणं पुरतः स्थितम् || ७४ ||
शुक्लाम्बरधरं दीप्तं शुक्लस्रगनुलेपनम् |
एकीकृतमसम्प्रेक्ष्यं तेजो दिनकृतामिव || ७५ ||
प्रीतो ऽस्मि युवयोः पुत्रावथोवाच पितामहः |
अनेन तपसोग्रेण वरं ब्रूतमभीप्सितम् || ७६ ||
अमरत्वं तु वव्राते तौ प्रणम्य पितामहम् |
ब्रह्माहाथ विना देवानमरत्वं न विद्यते || ७७ ||
अवश्यमेष्यो युवयोर्मृत्युरेकेन केनचित् |
अथामरत्वं वव्राते परस्परवधं विना || ७८ ||
एवमस्त्विति ताभ्यां तं वरं दत्त्वा पितामहः |
हंसयुक्तेन यानेन जगाम स्वं निकेतनम् || ७९ ||
असुरावपि तौ तस्मात्तपसोग्राद्विरेमतुः |
आजग्मतुर्निकेतं स्वं वरं लब्ध्वा पितामहात् || ८० ||
वरदानं ततो ज्ञात्वा दैत्याः पातालवासिनः |
आजग्मुर्दानवाश्चैव तयोः पार्श्वं मुदान्विताः || ८१ ||
केशिर्मुरो मयः शम्भुः कार्तस्वरमहारवौ |
इन्द्रशत्रुः कलिर्धुन्धुरिल्वलो नमुचिर्द्रुमः || ८२ ||
वातापी दुन्दुभिर्मेघः प्रभुरन्ये च दानवाः |
सर्वे कवचिनः शूरा गदापरिघपाणयः || ८३ ||
ऊचुश्च शोकमग्नानामस्माकं शत्रुतापनौ |
युवां प्लवाविवायातौ शोकसागरतारणौ || ८४ ||
पुरे ऽप्रतिभये रम्ये कान्तां नाम ततः सभाम् |
आजग्मुस्तुष्टमनसो दानवेन्द्राः समागताः || ८५ ||
तस्यां प्रयस्ते विस्तीर्णे शातकौम्भे वरासने |
आससाद महाबाहुः सुन्दो दानवसत्तमः || ८६ ||
निसुन्दो ऽन्यत्ततो भेजे हेमरत्नमयं शुभम् |
आससाद ततो धीमान्कार्तस्वरमये मयः || ८७ ||
अन्ये च दानवा भेजुरासनानि तदा मुने |
हेमरत्नविचित्राणि भास्वन्ति च महान्ति च || ८८ ||
विरेजे सा सभा तत्र दानवेन्द्रैः समागतैः |
सबलाकैस्तडित्वद्भिः प्रलये द्यौरिवाम्बुदैः || ८९ ||
अथोन्नाम्य शिरो रत्नमरीचिपरिवेषवत् |
सुन्दो वचनमाहेत्थमम्भोदरुचिरस्वनः || ९० ||
दानवेन्द्राः करिष्यामि सर्वेषामस्रुमार्जनम् |
विजित्य देवतैः सार्धमिन्द्रमाहवमूर्धनि || ९१ ||
प्रयाम दंशिताः सर्वे सज्जीभवत दानवाः |
त्रैलोक्यविजयं कर्तुमुद्यतायुधपाणयः || ९२ ||
तस्य तद्वचनं श्रुत्वा प्रभुः प्राहासुरेश्वरम् |
यज्ञव्रततपोभिश्च नियमैश्चासुरद्विषः || ९३ ||
आप्याययन्ति संरब्धाः शश्वद्वर्णाश्रमा भुवि |
तानेव प्रथमं हत्वा ततो जेष्याम देवताः || ९४ ||
तस्य तद्वचनं श्रुत्वा प्राहुर्दानवसत्तमाः |
आयतिं प्रथमं हत्वा विजेष्यामस्ततो ऽमरान् || ९५ ||
अथोवाच ततो धुन्धुर्मेघदुन्दुभिनिस्वनः |
राजानुगामी लोको ऽयमपापो वध्यते कथम् || ९६ ||
अस्मत्तो देवतै राज्यं लोकं हत्वा पुरा हृतम् |
विक्रमेणैव निर्जित्य दैत्यराज्यं सुरैर्हृतम् || ९७ ||
तथा तेभ्यो वयमपि प्रोच्छ्रितध्वजसंकुले |
आनेष्यामो रणे जित्वा श्रियमाविग्नलोचनाम् || ९८ ||
अपकारे सति समे स्वभावेन मनस्विनाम् |
तेजो विजृम्भते दीप्तं शक्तिमत्स्वेव सर्वदा || ९९ ||
अथ धुन्धोर्वचः श्रुत्वा मुरो मुरजनिस्वनः |
उच्चैरुत्क्षिप्य मूर्धानं प्रोवाच प्रहसन्निव || १०० ||
पुराभूवन्महात्मानो दानवेन्द्रा महाबलाः |
हिरण्यकशिपुर्वृत्रः प्रह्लादो नमुचिर्बलिः || १०१ ||
कोटिशो दानवाश्चान्ये महासत्त्वा महाबलाः |
यैः कृता प्रसभं लक्ष्मीः स्ववक्षःस्थलवासिनी || १०२ ||
अल्पावशेषैरधुना युष्माभिरसुरोत्तमाः |
कथमानीयते राज्यं सुरान्निर्जित्य संयुगे || १०३ ||
इष्टार्थसाधकेनाशु देशकालाविरोधिना |
उपायेन परीप्सध्वं राज्यमन्येन केनचित् || १०४ ||
एतच्छ्रुत्वा तदा वाक्यमंशुमाली महासुरः |
प्रोवाच मधुरं श्लक्ष्णमर्थानुगमिदं वचः || १०५ ||
सापराधा बलीयांसो बद्धवैराश्च दानवैः |
जयिनः श्रीमदोन्मत्ताः साम देवेष्वनर्थकम् || १०६ ||
सुरेषु मानसी सिद्धिर्विभुता भुवनत्रये |
अणिमाद्यैर्गुणैर्योगस्तेषु दानमपार्थकम् || १०७ ||
एकार्थानर्थिनः सर्वे संहताश्चासुरद्विषः |
न ते भेदयितुं शक्या दानवैर्दानवोत्तमाः || १०८ ||
मन्त्रप्रभावशक्तिभ्यामुत्साहेन परेण च |
सम्पन्नाः सर्वथा देवा न युद्धं तैः सहेष्यते || १०९ ||
युक्तो दानवमुख्यानां हीनसन्धिः सुरैः सह |
स्थानवृद्धिपरीप्सूनां क्षीणानामधुना भृशम् || ११० ||
अथाह तेजसा स्वेन तेजांसि सुरविद्विषाम् |
अभिभूय सदस्युच्चैरंशुमानंशुमानिव || १११ ||
प्रणामपूर्वः क्रियते हीनसन्धिः कुराजभिः |
न चक्रुर्दानवाः पूर्वं कुर्वते न च साम्प्रतम् || ११२ ||
शिरांसि दानवेन्द्राणां कथं यास्यन्ति नम्रताम् |
सुमेरोरिव शृङ्गाणि भानुमन्त्युच्छ्रितानि च || ११३ ||
आदास्यामो ऽथवा राज्यं देवान्निर्जित्य संयुगे |
प्राप्स्यामो वा गतिं पुण्यां निहताः समरे ऽमरैः || ११४ ||
इत्थमंशुमतः श्रुत्वा वाक्यं वाक्यार्थकोविदः |
गम्भीरमर्थवत्प्राह महिषो वदतां वरः || ११५ ||
विदितं वः समस्तानां पूर्वजा भवतां यथा |
हता दानवशार्दूला विक्रमैकरसाः सुरैः || ११६ ||
तदलं दानवश्रेष्ठा वृत्त्या वो ऽग्निपतङ्गयोः |
संधाय देवतैः सार्धं वृत्तिं कुर्मः स्वकर्मभिः || ११७ ||
ज्यायोभिर्दानवा देवै रन्ध्रव्यसनवर्जितैः |
विग्रहेण कथं सिद्धिमिच्छथ स्रस्तशक्तयः || ११८ ||
गुणातिशययुक्तानां यानमभ्युच्चये सति |
मन्त्रोत्साहप्रभावानामवाप्तौ देशकालयोः || ११९ ||
अथ सम्भूययानेन मन्यध्वं सिद्धिमात्मनः |
दंशिताः समरे यत्ताः समेता यक्षराक्षसैः || १२० ||
रक्षांसि हुतशेषाणि ज्वलने शक्तिसूनुना |
श्रितानि देवतानेव भीतान्यबलवन्ति च || १२१ ||
आयत्ताः सर्वदा यक्षाः कुबेरे ऽसुरसत्तमाः |
स चापि सुरमुख्यानां कुरुते कार्यमुद्यतः || १२२ ||
अन्यत्र दैत्यशत्रुभ्यो भुवनेषु बलीयसः |
अभावादसुरश्रेष्ठा द्वैधीभावो न विद्यते || १२३ ||
महिषे सदसि स्वस्थमित्युक्तवति दानवे |
विस्पष्टमर्थवद्वाक्यं द्रुमः प्राह महासुरः || १२४ ||
समरे ऽनिर्जिताः पूर्वमस्माभिरबलैः सह |
जयिनः शक्तिसम्पन्नाः संधास्यन्ते कथं सुराः || १२५ ||
संविधायाशु दुर्गाणि पर्वतान्युदकानि च |
विजये सततं युक्ता विगृह्यासनमास्महे || १२६ ||
नाशयन्तः सदा यज्ञान्व्रतानि नियमांस्तथा |
वर्णाश्रमांश्च लोके ऽस्मिञ्जिघांसन्तः समन्ततः || १२७ ||
ततो लोकविनाशेन विच्छिन्ने सत्क्रियापथे |
विदित्वापचितान्देवानभियास्याम दंशिताः || १२८ ||
अथ ते तस्य वचनं सर्व एवानुमेनिरे |
आसन्नमृत्यवो ऽपथ्यमन्नं प्राणभृतो यथा || १२९ ||
उत्तस्थुर्लोकनाशाय मतिं कृत्वामरद्विषः |
उदन्वन्त इवोद्वेलाः प्रलये मारुताकुलाः || १३० ||
जलद इव सुनीलः पीनवृत्तोन्नताङ्गो
हिमकरकरशुभ्रां हारयष्टिं दधानः |
उदपतदथ सुन्दः स्वासनात्स्वात्तदानीं
जलधिरिव विघूर्णन्फेनमाली युगान्ते || १३१ ||
तदनु तदनुजो ऽम्बुवाहनीलः परिघभुजः पृथुरक्तदीर्घनेत्रः |
अजहदविमनाः स्वमासनान्तं प्रतिभयकृद्द्विषतां तदा निसुन्दः || १३२ ||
इति स्कन्दपुराणे षष्टितमो ऽध्यायः ||